शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः ०३
← अध्यायः ०२ | शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः) अध्यायः ०३ [[लेखकः :|]] |
अध्यायः ०४ → |
नारद उवाच ।।
देवदेव प्रजानाथ ब्रह्मन् सृष्टिकर प्रभो ।।
ततः किमभवत्तत्र तद्वदाऽद्य कृपां कुरु ।।१।।
ब्रह्मोवाच ।।
तस्मिन्नवसरे तात विश्वामित्रः प्रतापवान् ।।
प्रेरितो विधिना तत्रागच्छत्प्रीतो यदृच्छया ।। २ ।।
स दृष्ट्वाऽलौकिकं धाम तत्सुतस्य सुतेजसः ।।
अभवत्पूर्णकामस्तु सुप्रसन्नो ननाम च ।। ३ ।।
अकरोत्सुनुतिं तस्य सुप्रसन्नेन चेतसा ।।
विधिप्रेरितवाग्भिश्च विश्वामित्रः प्रभाववित् ।।४।।
ततस्सोऽभूत्सुतस्तत्र सुप्रसन्नो महोति कृत् ।।
सुप्रहस्याद्भुतमहो विश्वामित्रमुवाच च ।। ५ ।।
शिवसुत उवाच ।।
शिवेच्छया महाज्ञानिन्नकस्मात्त्वमिहागतः ।।
संस्कारं कुरु मे तात यथावद्वेदसंमितम् ।।६।।
अद्यारभ्य पुरोधास्त्वं भव मे प्रीतिमावहन् ।।
भविष्यसि सदा पूज्यस्सर्वेषां नात्र संशयः ।। ७ ।।
।। ब्रह्मोवाच ।। ।।
इत्याकर्ण्य वचस्तस्य सुप्रसन्नो हि गाधिजः ।।
तमुवाचानुदात्तेन स्वरेण च सुविस्मितः ।। ८ ।।
विश्वामित्र उवाच ।।
शृणु तात न विप्रोऽहं गाधिक्षत्रियबालकः ।।
विश्वामित्रेति विख्यातः क्षत्रियो विप्रसेवकः ।। ९ ।।
इति स्वचरितं ख्यातं मया ते वरबालक ।।
कस्त्वं स्वचरितं ब्रूहि विस्मितायाखिलं हि मे ।। 2.4.3.१० ।।
ब्रह्मोवाच ।।
इत्याकर्ण्य वच स्तस्य तत्स्ववृत्तं जगाद ह ।।
ततश्चोवाच सुप्रीत्या गाधिजं तं महोतिकृत् ।। ११ ।।
।। शिवसुत उवाच ।।
विश्वामित्र वरान्मे त्वं ब्रह्मर्षिर्नाऽत्र संशयः ।।
वशिष्ठाद्याश्च नित्यं त्वां प्रशंसिष्यंति चादरात् ।।१२।।
अतस्त्वमाज्ञया मे हि संस्कारं कर्तुमर्हसि ।।
इदं सर्वं सुगोप्यं ते कथनीयं न कुत्रचित् ।।१३।।
ब्रह्मोवाच ।।
ततोकार्षीत्स संस्कारं तस्य प्रीत्याऽखिलं यथा ।।
शिवबालस्य देवर्षे वेदोक्तविधिना परम् ।।१४।।
शिवबालोपि सुप्रीतो दिव्यज्ञानमदात्परम् ।।
विश्वामित्राय मुनये महोतिकारकः प्रभुः ।।१५।।
पुरोहितं चकारासौ विश्वामित्रं शुचेस्सुत ।।
तदारभ्य द्विजवरो नानालीलाविशारदः ।।१६।।
इत्थं लीला कृता तेन कथिता सा मया मुने ।।
तल्लीलामपरां तात शृणु प्रीत्या वदाम्यहम् ।। १७ ।।
तस्मिन्नवसरे तात श्वेतनामा च संप्रति ।।
तत्राऽपश्यत्सुतं दिव्यं निजं परम पावनम् ।। १८ ।।
ततस्तं पावको गत्वा दृष्ट्वालिंग्य चुचुम्ब च ।।
पुत्रेति चोक्त्वा तस्मै स शस्त्रं शक्तिन्ददौ च सः ।। १९ ।।
गुहस्तां शक्तिमादाय तच्छृंगं चारुरोह ह ।।
तं जघान तया शक्त्या शृंगो भुवि पपात सः ।।2.4.3.२०।।
दशपद्ममिता वीरा राक्षसाः पूर्वमागताः।।
तद्वधार्थं द्रुतं नष्टा बभूवुस्तत्प्रहारतः।।२१।।
हाहाकारो महानासीच्चकंपे साचला मही।।
त्रैलोक्यं च सुरेशानस्सदेवस्तत्र चागमत्।।२२।।
दक्षिणे तस्य पार्श्वे च वज्रेण स जघान च ।।
शाखनामा ततो जातः पुमांश्चैको महाबलः ।।२३।।
पुनश्शक्रो जघानाऽऽशु वामपार्श्वे हि तं तदा ।।
वज्रेणाऽन्यः पुमाञ्जातो विशाखाख्योऽपरो बली ।।२४।।
ततस्तद्धृदयं शक्रो जघान पविना तदा ।।
परोऽभून्नैगमोपाख्यः पुमांस्तद्वन्महाबलः ।। २५ ।।
तदा स्कंदादिचत्वारो महावीरा महाबलाः ।।
इन्द्रं हंतुं द्रुतं जग्मुस्सोयं तच्छरणं ययौ ।। २५ ।।
शक्रस्स सामरगणो भयं प्राप्य गुहात्ततः ।।
ययौ स्वलोकं चकितो न भेदं ज्ञातवान्मुने ।। २७ ।।
स बालकस्तु तत्रैव तस्थाऽऽवानंदसंयुतः ।।
पूर्ववन्निर्भयस्तात नानालीलाकरः प्रभुः ।। २८ ।।
तस्मिन्नवसरे तत्र कृत्तिकाख्याश्च षट् स्त्रियः ।।
स्नातुं समागता बालं ददृशुस्तं महाप्रभुम् ।। २९ ।।
ग्रहीतुं तं मनश्चक्रुस्सर्वास्ता कृत्तिकाः स्त्रियः ।।
वादो बभूव तासां तद्ग्रहणेच्छापरो मुने ।। 2.4.3.३० ।।
तद्वादशमनार्थं स षण्मुखानि चकार ह ।।
पपौ दुग्धं च सर्वासां तुष्टास्ता अभवन्मुने ।। ३१ ।
तन्मनोगतिमाज्ञाय सर्वास्ताः कृत्तिकास्तदा ।।
तमादाय ययुर्लोकं स्वकीयं मुदिता मुने ।।३२।।
तं बालकं कुमाराख्यं स्तनं दत्त्वा स्तनार्थिने ।।
वर्द्धयामासुरीशस्य सुतं सूर्याधिकप्रभम् ।।३३।।
न चक्रुर्बालकं याश्च लोचनानामगोचरम् ।।
प्राणेभ्योपि प्रेमपात्रं यः पोष्टा तस्य पुत्रक ।।३४।।
यानि यानि च वस्त्राणि त्रैलोक्ये दुर्लभानि च ।।
ददुस्तस्मै च ताः प्रेम्णा भूषणानि वराणि वै ।।३५।।
दिनेदिने ताः पुपुषुर्बालकं तं महाप्रभुम् ।।
प्रसंसितानि स्वादूनि भोजयित्वा विशेषतः ।। ३६ ।।
अथैकस्मिन् दिने तात स बालः कृत्तिकात्मजः ।।
गत्वा देवसभां दिव्यां सुचरित्रं चकार ह।।३७।।
स्वमहो दर्शयामास देवेभ्यो हि महाद्भुतम् ।।
सविष्णुभ्योऽखिलेभ्यश्च महोतिकरबालकः ।। ३८ ।।
तं दृष्ट्वा सकलास्ते वै साच्युतास्सर्षयस्सुराः ।।
विस्मयं प्रापुरत्यन्तं पप्रच्छुस्तं च बालकम् ।। ३९ ।।
को भवानिति तच्छ्रुत्वा न किंचित्स जगाद ह ।।
स्वालयं स जगामाऽशु गुप्तस्तस्थौ हि पूर्ववत् ।। 2.4.3.४० ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।