शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ५१

विकिस्रोतः तः
← अध्यायः ५० शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)
अध्यायः ५१
[[लेखकः :|]]
अध्यायः५२ →

।। ब्रह्मोवाच ।।
तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः ।।
सुप्रसन्ना च तम्प्राह शङ्करं दीनवत्सलम् ।। १ ।।
रतिरुवाच ।।
गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् ।।
किमर्थं प्राणनाथो मे निस्स्वार्थं भस्मसात्कृतः ।। २ ।।
जीवयात्रा पतिं मे हि कामव्या पारमात्मनि ।।
कुरु दूरं च सन्तापं समविश्लेषहेतुकम् ।।३।।
विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः ।।
अहमेका महेशान दुःखिनी स्वपतिम्विना ।।४।।
सनाथां कुरु मान्देव प्रसन्नो भव शङ्कर ।।
स्वोक्तं सत्यम्विधेहि त्वं दीनबन्धो पर प्रभो ।। ५ ।।
त्वाम्विना कस्समर्थोत्र त्रैलोक्ये सचराचरे ।।
नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु ।।६।।
सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्द प्रदायिनी ।।
सोत्सवामपि मां नाथ कुरु दीनकृपाकर ।। ७ ।।
जीविते मम नाथे हि पार्वत्या प्रियया सह ।।
सुविहारः प्रपूर्णश्च भविष्यति न संशयः ।। ८ ।।
सर्वं कर्तुं समर्थोसि यतस्त्वं परमेश्वरः ।।
किम्बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम ।। ९ ।।
।। ब्रह्मोवाच ।।
तदित्युक्त्वा कामभस्म ददौ सग्रन्धिबन्धनम् ।।
रुरोद पुरतश्शम्भोर्नाथ नाथेत्युदीर्य्य च ।। 2.3.51.१० ।।
रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः ।।
रुरुदुस्सकला देव्यः प्रोचुर्दीनतरं वचः ।।११।।
।। देव्य ऊचुः ।।
भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ।।
काम जीवय सोत्साहां रति कुरु नमोऽस्तु ते ।।१२।।
ब्रह्मोवाच ।।
इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः।।
कृपादृष्टिं चकाराशु करुणासागरः प्रभुः ।। १३ ।।
सुधादृष्ट्या शूलभृतो भस्मतो निर्गतः स्मरः ।।
तद्रूपवेषचिह्नात्मा सुन्दरोद्भुतमूर्तिमान् ।।१४।।
तद्रूपश्च तदाकारसंस्मितं सधनुश्शरम् ।।
दृष्ट्वा पतिं रतिस्तं च प्रणनाम महेश्वरम् ।।१५।।
कृतार्थाभूच्छिवं देवं तुष्टाव च कृताञ्जलिः ।।
प्राणनाथप्रदं पत्या जीवितेन पुनःपुनः ।।१६।।
कामस्य स्तुतिमाकर्ण्य सनारीकस्य शङ्करः ।।
प्रसन्नोऽभवदत्यंतमुवाच करुणार्द्रधीः ।। १७ ।।
शङ्कर उवाच ।।
प्रसन्नोहं तव स्तुत्या सनारीकस्य चित्तज ।।
स्वयंभव वरम्बूहि वाञ्छितं तद्ददामि ते ।। १८ ।।
ब्रह्मोवाच ।।
इति शम्भुवचः श्रुत्वा महानदन्स्स्मरस्ततः ।।
उवाच साञ्जलिर्नम्रो गद्गदाक्षरया गिरा ।। १९ ।।
।। काम उवाच ।।
देवदेव महादेव करुणासागर प्रभो ।।
यदि प्रसन्नस्सर्वेशः ममानन्दकरो भव ।। 2.3.51.२० ।।
क्षमस्व मेऽपराधं हि यत्कृतश्च पुरा प्रभो ।।
स्वजनेषु पराम्प्रीतिं भक्तिन्देहि स्वपादयोः ।। २१ ।।
ब्रह्मोवाच ।।
इत्याकर्ण्य स्मरवचः प्रसन्नः परमेश्वरः
ॐ मित्युक्त्वाऽब्रवीत्तं वै विहसन्करुणानिधिः ।। २२ ।।
।। ईश्वर उवाच ।।
हे कामाहं प्रसन्नोऽस्मि भयन्त्यज महामते ।।
गच्छ विष्णुसमीपञ्च बहिस्थाने स्थितो भव ।। २३ ।।
।। ब्रह्मोवाच ।। ।।
तच्छ्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन्विभुम् ।।
बहिर्गत्वा हरिन्देवान्प्रणम्य समुपास्त सः ।। २४ ।।
कामं सम्भाष्य देवाश्च ददुस्तस्मै शुभाशिषम् ।।
विष्ण्वादयः प्रसन्नास्ते प्रोचुः स्मृत्वा शिवं हृदि ।। २५ ।।
।। देवा ऊचुः ।।
धन्यस्त्वं स्मर सन्दग्धः शिवेनानुग्रहीकृतः ।।
जीवयामास सत्त्वांशकृपादृष्ट्या खिलेश्वरः ।। २६ ।।
सुखदुःखदो न चान्योऽस्ति यतस्स्वकृतभृक् पुमान् ।।
काले रक्षा विवाहश्च निषेकः केन वार्यते ।। २७ ।
।। ब्रह्मोवाच ।।
इत्युक्त्वा ते च सम्मान्य तं सुखेनामरास्तदा ।।
सन्तस्थुस्तत्र विष्ण्वाद्यास्सर्वे लब्धमनोरथाः ।। २८ ।।
सोपि प्रमुदितस्तत्र समुवास शिवाज्ञया ।।
जयशब्दो नमश्शब्दस्साधुशब्दो बभूव ह ।।२९।।
ततश्शम्भुर्वासगेहे वामे संस्थाप्य पार्वतीम् ।।
मिष्टान्नं भोजयामास तं च सा च मुदान्विता ।। 2.3.51.३० ।।
अथ शम्भुर्भवाचारी तत्र कृत्यम्विधाय तत् ।।
मेनामामंत्र्य शैलं च जनवासं जगाम सः ।।३१।।
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ।।
वाद्यानि वादयामासुर्जनाश्चतुर्विधानि च ।। ३२ ।।
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।।
हरिं च मां भवाचाराद्वन्दितोऽभूत्सुरादिभिः ।। ३३ ।।
जयशब्दो बभूवाथ नम श्शब्दस्तथैव च ।।
वेदध्वनिश्च शुभदः सर्वविघ्नविदारणः ।। ३४ ।।
अथ विष्णुरहं शक्रस्सर्वे देवाश्च सर्षयः ।।
सिद्धा उपसुरा नागास्तुष्टुवुस्ते पृथक्पृथक् ।। ३५ ।।
देवा ऊचुः ।।
जय शम्भोऽखिलाधार जय नाम महेश्वर ।।
जय रुद्र महादेव जय विश्व म्भर प्रभो ।। ३६ ।।
जय कालीपते स्वामिञ्जयानन्दप्रवर्धक ।।
जय त्र्यम्बक सर्वेश जय मायापते विभो ।। ३७ ।।
जय निर्गुण निष्काम कारणातीत सर्वग ।।
जय लीलाखिलाधार धृतरूप नमोऽस्तु ते।।३८।।
जय स्वभक्तसत्कामप्रदेश करुणाकर।।
जय सानन्दसद्रूप जय मायागुणाकृते ।।३९।।
जयोग्र मृड सर्वात्मन् दीनबन्धो दयानिधे ।।
जयाविकार मायेश वाङ्मनोतीतविग्रह ।।2.3.51.४०।।
ब्रह्मोवाच ।।
इति स्तुत्वा महेशानं गिरिजानायकम्प्रभुम् ।।
सिषेविरे परप्रीत्या विष्ण्वाद्यास्ते यथोचितम् ।। ४१ ।।
अथ शम्भुर्महेशानो लीलात्ततनुरीश्वरः ।।
ददौ मानवरन्तेषां सर्वेषान्तत्र नारद।।४२।।
विष्ण्वाद्यास्तेऽखिलास्तात प्राप्याज्ञाम्परमेशितुः।।
अतिहृष्टाः प्रसन्नास्याः स्वस्थानञ्जग्मुरादृताः ।। ४३ ।।
इति श्रीशिवमहापुराणे ब्रह्मनारदसम्वादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामसंजीवनवर्णनं नामैकपञ्चाशत्तमोऽध्यायः।।५१।।