सामग्री पर जाएँ

शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ३९

विकिस्रोतः तः

नारद उवाच ।। ।।
विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ।।
अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ।। १ ।।
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।।
वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम् ।। २ ।।
किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ।।
तां श्रावय कथान्दिव्यां शङ्करस्सपरात्मनः ।। ३ ।।
।। ब्रह्मोवाच ।।
शृणु वत्स महाप्राज्ञ शाङ्करम्परमं यशः ।।
यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ।। ४ ।।
अथ शम्भुर्गृहीत्वा तां मुदा मंगलपत्रिकाम् ।।
विजहास प्रहृष्टात्मा मानन्तेषां व्यधाद्विभुः ।।५।।
वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ।।
तज्जनन्यापयामास बहुसम्मान्य चादृतः ।।६।।
उवाच सुनिवर्गांस्तान्कार्य्यं सम्यक् कृतं शुभम् ।।
आगन्तव्यं विवाहे मे विवाहस्स्वीकृतो मया ।।७।।
इत्याकर्ण्य वचश्शम्भोः प्रहृष्टास्ते प्रणम्य तम्।।
परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिम्परम् ।। ८ ।।
अथ देवेश्वरश्शम्भुस्सामरस्त्वां मुने द्रुतम् ।।
लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ।।९।।
त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिम्परम् ।।
प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः ।।2.3.39.१०।।
अस्तौस्सुजयशब्दान्हि समुच्चार्य मुहुर्मुहुः।।
निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने।।११।।
ततश्शंभुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् ।।
उवाच मुनिवर्य त्वां प्रीणयञ्छुभया गिरा ।। १२ ।।
शिव उवाच ।।
प्रीत्या शृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते ।।
ब्रुवे तत्त्वां प्रियो मे यद्भक्तराजशिरोमणिः ।। १३।।
कृतं महत्तपो देव्या पार्वत्या तव शासनात् ।।
तस्यै वरो मया दत्तः पतित्वे तोषितेन वै ।। १४ ।।
करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः ।।
सप्तर्षिभिस्साधितश्च तल्लग्नं शोधितं च तैः ।। १५ ।।
अद्यतस्सप्तमे चाह्नि तद्भविष्यति नारद ।।
महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः ।।१६।।
ब्रह्मोवाच।।
इति श्रुत्वा वचस्तस्य शंकरस्य परात्मनः ।।
प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः ।।१७।।
नारद उवाच।।
भवतस्तु व्रतमिदम्भक्तवश्यो भवान्मतः।।
सम्यक् कृतं च भवता पार्वतीमानसेप्सितम् ।।१८।।
कार्यं मत्सदृशं किञ्चित्कथनीयन्त्वया विभो ।।
मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते ।।१९।।
ब्रह्मोवाच ।।
इत्युक्तस्तु त्वया शम्भुश्शंकरो भक्तवत्सलः ।।
प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर ।।2.3.39.२०।।
शिव उवाच ।।
विष्णुप्रभृतिदेवांश्च मुनीन्सिद्धानपि ध्रुवम् ।।
त्वन्निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः ।।२१।।
सर्व आयान्तु सोत्साहास्सर्वशोभासमन्विताः ।।
सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात् ।। २२।।
नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने ।।
ते स्वकीया न मन्तव्या मया देवादयः खलु ।।२३।।
ब्रह्मोवाच ।।
इतीशाज्ञां ततो धृत्वा भवाञ्छङ्करवल्लभः ।।
सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ।।२४।।
शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान्।।
तद्दूत्यात्तत्र सन्तस्थौ तदाज्ञाम्प्राप्य नारद।।२५।।
शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः ।।
स्वगणैस्सोत्सवैस्सवेंर्नृत्यद्भिस्सर्वतोदिशम् ।।२६।।
एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम्।।
आजगामाच्युतश्शीघ्रं कैलासं सपरिच्छदः।।२७।।
शिवम्प्रणम्य सद्भक्त्या सदारस्सदलो मुदा।।
तदाज्ञाम्प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः ।। २८ ।।
तथाहं स्वगणैराशु कैलासमगमं मुदा ।।
प्रभुम्प्रणम्यातिष्ठं वै सानन्दस्स्वगणान्वितः ।। २९ ।।
इन्द्रादयो लोकपाला आययुस्सपरिच्छदाः।।
तथैवालंकृतास्सर्वे सोत्सवास्सकलत्रकाः ।।2.3.39.३०।।
तथैव मुनयो नागास्सिद्धा उपसुरा स्तथा ।।
आययुश्चापरेऽपीह सोत्सवास्सुनिमन्त्रिताः ।। ३१ ।।
महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् ।।
सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा ।। ३२ ।।
अथोत्सवो महानासीत्कैलासे परमोद्भुतः ।।
नृत्यादिकन्तदा चक्रुर्यथायोग्यं सुरस्त्रियः ।। ३३ ।।
एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः ।।
यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने ।। ३४ ।।
शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः ।।
शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम् ।।३५।।
मातरस्सप्त तास्तत्र शिवभूषाविधिम्परम् ।।
चक्रिरे च मुदा युक्ता यथायोग्यन्तथा पुनः ।३६।।
तस्य स्वाभाविको वेषो भूषाविविरभूत्तदा ।।
तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभो ।।३७।।
चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा ।।
लोचनं सुन्दरं ह्यासीत्तृतीयन्तिलकं शुभम् ।। ३८ ।।
कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ ।।
कुण्डलेऽभवतान्तस्य नानारत्नान्विते मुने ।। ३९ ।।
अन्यांगसंस्थितास्सर्पास्तदंगाभरणानि च ।।
बभूवुरतिरम्याणि नानारत्नमयानि च ।। 2.3.39.४० ।।
विभूतिरंगरागोऽभूच्चन्दनादिसमुद्भवः ।।
तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम् ।। ४१ ।।
ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् ।।
ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान्स्वतः ।।४२।।
ततश्च सर्वे सुरपक्षदानवा नागाः पतंगाप्सरसो महर्षयः ।।
समेत्य सर्वे शिवसन्निधिं तदा महोत्सवाः प्रोचुरहो मुदान्विताः ।। ४३ ।।
सर्वै ऊचुः ।।
गच्छ गच्छ महादेव विवाहार्थं महेश्वर ।।
गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु ।। ४४ ।।
ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः ।।
प्रणम्य शंकरं भक्त्या विज्ञानप्रीतमानसः ।। ४५ ।।
।। विष्णुरुवाच ।।
देव देव महादेव शरणागतवत्सल ।।
कार्यकर्त्ता स्वभक्तानां विज्ञप्तिं शृणु मे प्रभो।। ४६ ।।
गृह्योक्तविधिना शम्भो स्वविवाहस्य शंकर।।
गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि ।।४७।।
त्वया च क्रियमाणे तु विवाहस्य विधौ हर ।।
स एव हि तथा लोके सर्वस्सुख्यातिमाप्नुयात ।। ४८ ।।
मण्डपस्थापनन्नान्दीमुखन्तत्कुलधर्मतः ।।
कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः ।। ४९ ।।
ब्रह्मोवाच ।।
एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः ।।
लौकिकाचारनिरतो विधिना तच्चकार सः ।। 2.3.39.५० ।।
अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् ।।
अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात् ।। ५१ ।।
कश्यपोऽत्रिर्वशिष्ठश्च गौतमो भागुरिर्गुरुः ।।
कण्वो बृहस्पतिश्शक्तिर्जमदग्निः पराशरः ।। ५२ ।।
मार्कण्डेयश्शिलापाकोऽरुणपालोऽकृतश्रमः ।।
अगस्त्यश्च्यवनो गर्गश्शिलादोऽथ महामुने ।। ५३ ।।
दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः ।।
पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः ।। ५४ ।।
एते चान्ये च बहव आगताश्शिवसन्निधिम् ।।
मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ।। ५५ ।।
वेदोक्तविधिना सर्वे वेदवेदांगपारगाः ।।
रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमंगलम् ।। ५६ ।।
ऋग्यजुस्सामसूक्तैस्तु तथा नानाविधैः परैः ।।
मंगलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः ।।५७।।
ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया ।।
मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये।५८।।
ततश्शिवस्तु सन्तुष्टः कृत्वा सर्वं यथोचितम्।।
लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान् ।।५९।।
अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरस्सरान् ।।
निस्ससार मुदा तस्मात्कैलासात्पर्वतोत्तमात् ।।2.3.39.६०।।
बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः ।।
देवैस्सह द्विजैश्चैव नानास्वीकारकः प्रभुः ।। ६१ ।।
तदोत्सवो महानासीत्तत्र देवादिभिः कृतः ।।
सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः ।। ६२ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवनिमन्त्रण देवागमन शिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।