शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः १७

विकिस्रोतः तः

।। ब्रह्मोवाच ।।
गतेषु तेषु देवेषु शक्रः सस्मार वै स्मरम् ।।
पीडितस्तारकेनातिदेत्येन च दुरात्मना ।। १ ।।
आगतस्तत्क्षणात्कामस्सवसंतो रतिप्रियः ।।
सावलेपो युतो रत्या त्रैलोक्य विजयी प्रभुः ।। २ ।।
प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतस्स्मरः ।।
महोन्नतमनास्तात सांजलिश्शक्रमब्रवीत् ।। ३ ।।
काम उवाच ।।
किं कार्य्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना ।।
तत्त्वं कथय देवेश तत्कर्तुं समुपागतः ।। ४ ।।
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य कंदर्पस्य सुरेश्वरः ।।
उवाच वचनं प्रीत्या युक्तं युक्तमिति स्तुवन् ।। ५ ।।
।। शक्र उवाच।।
तव साधु समारम्भो यन्मे कार्य्यमुपस्थितम्।।
तत्कतुर्मुद्यतोऽसि त्वं धन्योऽसि मकरध्वज ।।६।।
प्रस्तुतं शृणु मद्वाक्यं कथयामि तवाग्रतः।।
मदीयं चैव यत्कार्यं त्वदीयं तन्न चान्यथा ।।७।।
मित्राणि मम संत्येव बहूनि सुमहांति च ।।
परं तु स्मर सन्मित्रं त्वत्तुल्यं न हि कुत्रचित् ।। ८ ।।
जयार्थं मे द्वयं तात निर्मितं वजमुत्तमम् ।।
वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन ।। ९ ।।
यतो हितं प्रजायेत ततः को नु प्रियः परः ।।
तस्मान्मित्रवरस्त्वं हि मत्कार्य्यं कर्तुमर्हसि ।। 2.3.17.१० ।।
मम दुःखं समुत्पन्नमसाध्य चापि कालजम् ।।
केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना ।। ११ ।।
दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ।।
आपत्काले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि ।। १२ ।।
विनये संकटे प्राप्तेऽवितथस्य परोक्षतः ।।
सुस्नेहस्य तथा तात नान्यथा सत्यमीरितम् ।। १३ ।।
प्राप्तायां वै ममापत्ताववार्यायां परेण हि ।।
परीक्षा च त्वदीयाऽद्य मित्रवर्य भविष्यति ।।१४।।
न केवलं मदीयं च कार्य्यमस्ति सुखावहम् ।।
किं तु सर्वसुरादीनां कार्य्यमेतन्न संशयः ।।१५।।
ब्रह्मोवाच ।।
इत्येतन्मघवद्वाक्यं श्रुत्वा तु मकरध्वजाः ।।
उवाच प्रेमगभीरं वाक्यं सुस्मितपूर्वकम् ।। १६ ।।
।। काम उवाच ।।
किमर्थमित्थं वदसि नोत्तरं वच्म्यहं तव ।।
उपकृत्कृत्रिमं लोके दृश्यते कथ्यते न च ।।१७।।
सङ्कटे बहु यो ब्रूते स किं कार्य्यं करिष्यति ।।
तथापि च महाराज कथयामि शृणु प्रभो ।। १८ ।।
पदं ते कर्षितुं यो वै तपस्तपति दारुणम् ।।
पातयिष्याम्यहं तं च शत्रुं ते मित्र सर्वथा ।। १९ ।।
क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः ।।
देवर्षिदानवादींश्च नराणां गणना न मे ।।2.3.17.२०।।
वज्रं तिष्ठतु दूरे वै शस्त्राण्यन्यान्यनेकशः ।।
किं ते कार्यं करिष्यंति मयि मित्र उपस्थिते ।।२१।।
ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्य्यां न संशयः ।।
अन्येषां गणना नास्ति पातयेयं हरं त्वपि ।।२२।।
पंचैव मृदवो बाणास्ते च पुष्पमया मम ।।
चापस्त्रिधा पुष्पमयश्शिंजिनी भ्रमरार्ज्जिता ।।
बलं सुदयिता मे हि वसंतः सचिवस्स्मृतः ।। २३ ।।
अहं पञ्चबलोदेवा मित्रं मम सुधानिधिः ।। २४ ।।
सेनाधिपश्च शृंगारो हावभावाश्च सैनिकाः ।।
सर्वे मे मृदवः शक्र अहं चापि तथाविधः।।२५।।
यद्येन पूर्यते कार्य्यं धीमांस्तत्तेन योजयेत्।।
मम योग्यं तु यत्कार्य्यं सर्वं तन्मे नियोजय।।२६।।
।। ब्रह्मोवाच ।।
इत्येवं तु वचस्तस्य श्रुत्वा शक्रस्सुहर्षितः ।।
उवाच प्रणमन्वाचा कामं कांतासुखावहम् ।। २७ ।।
शक्र उवाच ।।
यत्कार्य्यं मनसोद्दिष्टं मया तात मनोभव ।।
कर्त्तुं तत्त्वं समर्थोऽसि नान्यस्मात्तस्यसम्भवः ।।२८।।
शृणु काम प्रवक्ष्यामि यथार्थं मित्रसत्तम ।।
यदर्थे च स्पृहा जाता तव चाद्य मनोभव ।।२९।।
तारकाख्यो महादैत्यो ब्रह्मणो वरमद्भुतम् ।।
अभूदजेयस्संप्राप्य सर्वेषामपि दुःखदः ।। 2.3.17.३० ।।
तेन संपीड्यते लोको नष्टा धर्मा ह्यनेकशः ।।
दुःखिता निर्जरास्सर्वे ऋषयश्च तथाखिलाः ।। ३१ ।।
देवैश्च सकलैस्तेन कृतं युद्धं यथाबलम् ।।
सर्वेषां चायुधान्यत्र विफलान्यभवन्पुरा ।। ३२ ।।
भग्नः पाशो जलेशस्य हरिं चक्रं सुदर्शनम् ।।
तत्कुण्ठितमभूत्तस्य कण्ठे क्षिप्तं च विष्णुना ।। ३३ ।।
एतस्य मरणं प्रोक्तं प्रजेशेन दुरात्मनः ।।
शम्भोर्वीर्योद्भवाद्बालान्महायोगीश्वरस्य हि ।। ३४ ।।
एतत्कार्य्यं त्वया साधु कर्तव्यं सुप्रयत्नतः ।।
ततस्स्यान्मित्रवर्य्याति देवानां नः परं सुखम् ।। ३५ ।।
ममापि विहितं तस्मात्सर्वलोकसुखावहम् ।।
मित्रधर्मं हृदि स्मृत्वा कर्तुमर्हसि सांप्रतम् ।। ३६ ।।
शंभुस्स गिरिराजे हि तपः परममास्थितः ।।
स प्रभुर्नापि कामेन स्वतंत्रः परमेश्वरः ।। ३७ ।।
तत्समीपे च देवाथ पार्वती स्वसखीयुता ।।
सेवमाना तिष्ठतीति पित्राज्ञप्ता मया श्रुतम् ।। ३८ ।।
यथा तस्यां रुचिस्तस्य शिवस्य नियतात्मनः ।।
जायते नितरां मार तथा कार्यं त्वया ध्रुवम् ।।३९।।
इति कृत्वा कृती स्यास्त्वं सर्वं दुःखं विनंक्ष्यति ।।
लोके स्थायी प्रतापस्ते भविष्यति न चान्यथा ।।2.3.17.४०।।
ब्रह्मोवाच ।।
इत्युक्तस्य तु कामो हि प्रफुल्लमुखपंकज ।।
प्रेम्णोवाचेति देवेशं करिष्यामि न संशयः ।। ४१ ।।
इत्युक्त्वा वचनं तस्मै तथेत्योमिति तद्वचः ।।
अग्रहीत्तरसा कामः शिवमायाविमोहितः ।। ४२ ।।
यत्र योगीश्वरस्साक्षात्तप्यते परमं तपः ।।
जगाम तत्र सुप्रीतस्सदारस्सवसंतकः।।४३।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्र कामसंवादवर्णनं नाम सप्तदशोऽध्यायः ।। १७ ।।