शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ११

विकिस्रोतः तः

ब्रह्मोवाच ।।
वर्द्धमाना गिरेः पुत्री सा शक्ति लोकपूजिता ।।
अष्टवर्षा यदा जाता हिमालयगृहे सती ।।१।।
तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः ।।
कृत्वा तामद्भुतामन्तर्मुमोदातीव नारद।।२।।
तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः।।
समाधातुं मनस्सम्यक्तपः कर्त्तुं समैच्छत।३।।
कांश्चिद्गणवराञ्छान्तान्नंद्यादीनवगृह्य च ।।
गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ।। ४ ।।
यत्र गंगा निपतिता पुरा ब्रह्मपुरात्स्रुता ।।
सर्वाघौघविनाशाय पावनी परमा मुने ।। ५ ।।
तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः ।।
एकाग्रं चिंतयामास स्वमात्मानमतन्द्रितः ।। ६ ।।
चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् ।।
जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम् ।।७।।
हरे ध्यानपरे तिस्मिन्प्रमथा ध्यानतत्पराः।।
अभवन्केचिदपरे नन्दिभृंग्यादयो गणाः।।६।।
सेवां चक्रुस्तदा केचिद्गणाः शम्भोः परात्मनः।।
नैवाकूजंस्तु मौना हि द्वरपाः केचनाभवन् ।।९।।
एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः।।
शङ्करस्यौषधिप्रस्थं श्रुत्वागमनमादरात्।।2.3.11.१ ०।।
प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः ।।
समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ।। १ १।।
हिमालय उवाच ।।
देवदेव महादेव कपर्दिच्छंकर प्रभो ।।
त्वयैव लोकनाथेन पालितं भुवनत्रयम् ।। १२।।
नमस्ते देवदेवेश योगिरूपधराय च ।।
निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे ।। १३।।
कैलासवासिने शम्भो सर्वलोकाटनाय च ।।
नमस्ते परमेशाय लीलाकाराय शूलिने ।। १४।।
परिपूर्णगुणाधानविकाररहितायते ।।
नमोऽनीहाय वीहाय धीराय परमात्मने।।१५।।
अबहिर्भोगकाराय जनवत्सलते नमः।।
त्रिगुणाधीश मायेश ब्रह्मणे परमात्मने।।१६।।
विष्णुब्रह्मादिसेव्याय विष्णुब्रह्मस्वरूपिणे।।
विष्णुब्रह्मकदात्रे ते भक्तप्रिय नमोऽस्तु ते ।। १७।।
तपोरत तपस्थानसुतपः फलदायिने ।।
तपःप्रियाय शान्ताय नमस्ते ब्रह्मरूपिणे ।।१८।।
व्यवहारकरायैव लोकाचारकराय ते ।।
सगुणाय परेशाय नमोस्तु परमात्मने ।। ।। १९ ।।
लीला तव महेशानावेद्या साधुसुखप्रदा ।।
भक्ताधीनस्वरूपोऽसि भक्तवश्यो हि कर्मकृत् ।। 2.3.11.२० ।।
मम भाग्योदयादत्र त्वमागत इह प्रभो।।
सनाथ कृतवान्मां त्वं वर्णितो दानवत्सलः।।२१ ।।
अद्य मे सफलं जन्म सफलं जीवनं मम।।
अद्य मे सफलं सर्वं यदत्र त्वं समागतः ।।२२।।
ज्ञात्वा मां दासमव्यग्रमाज्ञान्देहि महेश्वर ।।
त्वत्सेवां च महाप्रीत्या कुर्यामहमनन्यधीः ।। २३ ।।
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य गिरीशस्य महेश्वरः ।।
किंचिदुन्मील्य नेत्रे च ददर्श सगणं गिरिम् ।। २४ ।।
सगणं तन्तथा दृष्ट्वा गिरिराजं वृषध्वजः ।।
उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ।। २५ ।।
महेश्वर उवाच ।।
तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ।।
यथा न कोपि निकटं समायातु तथा कुरु ।। २६ ।।
त्वं महात्मा तपोधामा मुनीनां च सदाश्रयः ।।
देवानां राक्षसानां च परेषां च महात्मनाम् ।। २७ ।।
सदा वासो द्विजादीनां गंगापूतश्च नित्यदा ।।
परोपकारी सर्वेषां गिरीणामधिपः प्रभुः ।।२८।।
अहं तपश्चराम्यत्र गंगावतरणे स्थले ।।
आश्रितस्तव सुप्रीतो गिरिराज यतात्मवान् ।। २९ ।।
निर्विघ्नं मे तपश्चात्र हेतुना येन शैलप ।।
सर्वथा हि गिरिश्रेष्ठ सुयत्नं कुरु साम्प्रतम् ।। 2.3.11.३० ।।
ममेदमेव परमं सेवनं पर्वतोत्तम ।।
स्वगृहं गच्छ सत्प्रीत्या तत्संपादय यत्नतः ।। ३१ ।।
।। ब्रह्मोवाच ।।
इत्युक्त्वा जगतां नाथस्तूष्णीमास स सूतिकृत् ।।
गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ।। ३२ ।।
।। हिमालय उवाच।।
पूजितोऽसि जगन्नाथ मया त्वम्परमेश्वर ।।
स्वागतेनाद्य विषये स्थितं त्वाम्प्रार्थयामि किम् ।।३३।।
महता तपसा त्वं हि देवैर्यत्नपराश्रितैः ।।
न प्राप्यसे महेशान स त्वं स्वयमुपस्थितः ।। ३४ ।।
मत्तोप्यन्यतमो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान्।।
भवानिति च मत्पृष्ठे तपसे समुपस्थितः।।३५।।
देवेन्द्रादधिकम्मन्ये स्वात्मानम्परमेश्वर।।
सगणेन त्वयागत्य कृतोऽनुग्रहभागहम्।। ३६।।
निर्विघ्नं कुरु देवेश स्वतन्त्रः परमन्तपः।।
करिष्येऽहन्तथा सेवां दासोऽहन्ते सदा प्रभो।३७।।
ब्रह्मोवाच।।
इत्युक्त्वा गिरिराजोऽसौ स्वं वेश्म द्रुतमागतः।।
वृत्तांत्तं तं समाचख्यौ प्रियायै च समादरात्।।३८।।
नीयमानान्परीवारान्स्वगणानपि नारद।।
समाहूयाखिलाञ्छैलपतिः प्रोवाच तत्त्वतः।।३९।।
हिमालय उवाच ।।
अद्य प्रभृति नो यातु कोपि गंगावतारणम्।।
मच्छासनेन मत्प्रस्थं सत्यमेतद्ब्रवीम्यहम् ।।2.3.11.४ ० ।।
गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ।।
दण्डयिष्ये विशेषेण सत्यमेतन्मयोदितम् ।।४१ ।।
इति तान्स नियम्याशु स्वगणान्निखिलान्मुने ।।
सुयत्नं कृतवाञ्छैलस्तं शृणु त्वं वदामि ते ।।४२।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे शिवशैलसमागमवर्णनं नामैकादशोऽध्यायः ।। ११ ।।