शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः १०

विकिस्रोतः तः

नारद उवाच ।।
विष्णुशिष्य महाभाग विधे शैववर प्रभो ।।
शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि ।। १ ।।
सतीविरहयुक्शंम्भुः किं चक्रे चरितन्तथा ।।
तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम् ।। २ ।।
शिवाशिवशिवादो ऽभूत्कथं कामक्षयश्च मे ।।
तपः कृत्वा कथम्प्राप शिवं शम्भुं च पार्वती ।। ३ ।।
तत्सर्वमपरं चापि शिवसच्चरितं परम् ।।
वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम् ।। ४ ।।
सूत उवाच ।।
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ।।
विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम् ।।९।।
ब्रह्मोवाच ।। देवर्षे शैववर्याय तद्यशः शृणु चादरात् ।।
पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम् ।। ६ ।।
आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ।।
सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा।।७।।
गणानाभाष्य शोचंस्तां तद्गुणान्प्रे मवर्धनान् ।।
वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम् ।।६।।
दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् ।।
पुनर्बभ्राम लोकन्वै सर्वाँल्लीलाविशारदः ।।९।।
दर्शनम्प्राप्य कुत्रापि सतीविरहदुःखितः ।।
पुनश्च गिरिमायातश्शंकरो भक्तशंकरः ।। 2.3.10.१० ।।
समाधाय मनो यत्नात्समाधिन्दुःखनाशिनम ।।
चकार च ददर्शासौ स्वरूपं निजमव्ययम् ।।११।।
इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ।।
निर्विकारी परम्ब्रह्म मायाधीशस्स्वयंप्रभुः ।। १२ ।।
ततस्समाधिन्तत्त्याज व्यतीय ह्यमितास्समाः ।।
यदा तदा बभूवाशु चरितं तद्वदामि वः ।।१३।।
प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसंभवम् ।।
पपात धरणौ तत्र स बभूव शिशुर्द्रुतम् ।। १४ ।।
चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ।।
अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः ।। १५ ।।
रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ।।
प्राकृतात्मजवत्तत्र भवाचाररतस्य हि ।। १६ ।।
तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ।।
आविर्बभूव तत्रैव भयमानीय शंकरात् ।।१७।।
तम्बालं द्रुतमुत्थाय क्रोडयां निदधे वरम् ।।
स्तन्यं सापाययत्प्रीत्या दुग्धं स्वोपरिसम्भवम् ।।१८।।
चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ।।
सत्यभावात्स्वयं माता परमेशहितावहा ।।१९।।
तद्दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ।।
अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः ।।2.3.10.२०।।
धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ।।
त्वय्युद्भूतंश्रमजलान्महातेजस्विनो वरम् ।।२१।।
मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ।।
त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितस्सदा ।।२२।।
असौ बालः कुदाता हि भविष्यति गुणी तव ।।
ममापि सुखदाता हि गृहाणैनं यथारुचि ।। २३ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा विररामाथ किंचिद्विरहमुक्तधीः ।।
लोकाचारकरो रुद्रो निर्विकारी सताम्प्रियः ।। २४ ।।
अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ।।
स्वस्थानं ससुता प्राप सुखमात्यंतिकं च वै ।। २५ ।।
स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ।।
तस्यां काश्यां चिरं कालं सिषेवे शंकरम्प्रभुम् ।।२७६।।
विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ।।
दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम् ।। २७ ।।
इत्युक्तं शम्भुचरितं सतीविरहसंयुतम्।।
तपस्याचरणं शम्भोश्शृणु चादरतो मुने ।।२८।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः ।। १० ।।