शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ०९

विकिस्रोतः तः

नारद उवाच ।।
विधे तात त्वया शैववर प्राज्ञाद्भुता कथा ।।
वर्णिता करुणां कृत्वा प्रीतिर्मे वर्द्धिताधिकम् ।।१।।
विधे गते स्वकं धाम मयि वै दिव्यदर्शगे ।।
ततः किमभवत्तात कृपया तद्वदाधुना ।। २ ।।
।। ब्रह्मोवाच ।।
गते त्वयि मुने स्वर्गे कियत्काले गते सति ।।
मेना प्राप्येकदा शैलनिकटं प्रणनाम सा ।। ३ ।।
स्थित्वा सविनयम्प्राह स्वनाथं गिरिकामिनी ।।
तत्र शैलाधिनाथं सा प्राणप्रियसुता सती ।। ४ ।।
मेनोवाच ।।
मुनिवाक्यं न बुद्धं मे सम्यङ् नारीस्वभावतः ।।
विवाहं कुरु कन्यायास्सुन्दरेण वरेण ह ।। ५ ।।
सर्वथा हि भवेत्तत्रोद्वाहोऽपूर्वसुखावहः ।।
वरश्च गिरिजायास्तु सुलक्षणकुलोद्भवः ।। ६ ।।
प्राणप्रिया सुता मे हि सुखिता स्याद्यथा प्रिय ।।
सद्वरं प्राप्य सुप्रीता तथा कुरु नमोऽस्तु ते ।।७।।
ब्रह्मोवाच ।।
इत्युक्ताश्रुमुखी मेना पत्यंघ्र्योः पतिता तदा ।।
तामुत्थाप्य गिरिः प्राह यथावत्प्रज्ञसत्तमः ।। ८ ।।
हिमालय उवाच ।।
शृणु त्वं मेनके देवि यथार्थं वच्मि तत्त्वतः।।
भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन ।।९।।
यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् ।।
तपः कुर्याच्छंकरस्य सा भक्त्या स्थिरचेतसा ।। 2.3.9.१० ।।
चेत्प्रसन्नः शिवः काल्याः पाणिं गृह्णाति मेनके ।।
सर्वं भूयाच्छुभं नश्येन्नारदोक्तममंगलम् ।।११।।
अमंगलानि सर्वाणि मंगलानि सदाशिवे ।।
तस्मात्सुतां शिवप्राप्त्यै तपसे शिक्षय द्रुतम् ।। १२ ।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य गिरेर्वाक्यं मेना प्रीततराऽभवत् ।।
सुतोपकंठमगमदुपदेष्टुं तदोरुचिम् ।। १३ ।।
सुताङ्गं सुकुमारं हि दृष्ट्वातीवाथ मेनका ।।
विव्यथे नेत्रयुग्मे चाश्रुपूर्णेऽभवतां द्रुतम् ।। ।। १४ ।।
सुतां समुपदेष्टुं तन्न शशाक गिरिप्रिया ।।
बुबुधे पार्वती तद्वै जननीङ्गितमाशु सा ।। १५ ।।
अथ सा कालिका देवी सर्वज्ञा परमेश्वरी ।।
उवाच जननीं सद्यः समाश्वास्य पुनः पुनः ।।१५॥
पार्वत्युवाच ।।
मातश्शृणु महाप्राज्ञेऽद्यतने ऽजमुहूर्तके ।।
रात्रौ दृष्टो मया स्वप्नस्तं वदामि कृपां कुरु ।। १७ ।।
विप्रश्चैव तपस्वी मां सदयः प्रीतिपूर्वकम् ।।
उपादिदेश सुतपः कर्तुं मातश्शिवस्य वै ।।१८।।
ब्रह्मोवाच ।।
तच्छ्रुत्वा मेनका शीघ्रं पतिमाहूय तत्र च ।।
तत्स्वप्नं कथयामास सुता दृष्टमशेषतः ।। ।।१९।।
सुतास्वप्नमथाकर्ण्य मेनकातो गिरीश्वरः ।।
उवाच परमप्रीतः प्रियां सम्बोधयन्गिरा ।। 2.3.9.२० ।।
।। गिरीश्वर उवाच ।।
हे प्रियेऽपररात्रान्ते स्वप्नो दृष्टो मयापि हि ।।
तं शृणु त्वं महाप्रीत्या वच्म्यहं तं समादरात् ।।२१।।
एकस्तपस्वी परमो नारदोक्तवरां गधृक् ।।
पुरोपकंठं सुप्रीत्या तपः कर्तुं समागतः ।।२२।।
गृहीत्वा स्वसुतां तत्रागमं प्रीततरोप्यहम् ।।
मया ज्ञातस्स वै शम्भुर्नारदो क्तवरः प्रभुः ।। २३ ।।
सेवार्थं तस्य तनयामुपदिश्य तपस्विनः ।। तं
 वै प्रार्थितवांस्तस्यां न तदांगीचकार सः ।। २४ ।।
अभूद्विवादस्तुमहान्सांख्यवेदान्तसंमतः ।।
ततस्तदाज्ञया तत्र संस्थितासीत्सुता मम ।।२५।।
निधाय हृदि तं कामं सिषेवे भक्तितश्च सा ।।
इति दृष्टं मया स्वप्नं प्रोक्तवांस्ते वरानने ।। २६ ।।
ततो मेने कियत्कालं परीक्ष्यं तत्फलं प्रिये ।।
योग्यमस्तीदमेवेह बुध्यस्व त्वं मम ध्रुवम् ।। २७ ।।
।। ब्रह्मोवाच ।।
इत्युक्त्वा गिरिराजश्च मेनका वै मुनीश्वर ।।
सन्तस्थतुः परीक्षन्तीं तत्फलं शुद्धचेतसौ ।।२८।।
इत्थम्व्यतीतेऽल्पदिने परमेशः सतां गतिः ।।
सतीविरहसुव्यग्रो भ्रमन्सर्वत्र सूतिकृत् ।। २९ ।।
तत्राजगाम सुप्रीत्या कियद्गुणयुतः प्रभुः ।।
तपः कर्तुं सतीप्रेमविरहाकुलमानसः ।। 2.3.9.३० ।।
तपश्चकार स्वं तत्र पार्वती सेवने रता ।।
सखीभ्यां सहिता नित्यं प्रसन्नार्थमभूत्तदा ।। ३१ ।।
विद्धोऽऽपि मार्गणैश्शम्भुर्विकृतिं नाप स प्रभुः ।।
प्रेषितेन सुरैस्स्वात्ममोहनार्थं स्मरेण वै ।। ३२ ।।
दग्ध्वा स्मरं च तत्रैव स्ववह्निनयनेन सः ।।
स्मृत्वा मम वचः क्रुद्धो मह्यमन्तर्दधे ततः ।।३३।।
ततः कालेन कियता विनाश्य गिरिजामदम् ।।
प्रसादितस्सुतपसा प्रसन्नोऽभून्महेश्वरः ।।३४।।
लौकिकाचारमाश्रित्य रुद्रो विष्णुप्रसादितः ।।
कालीं विवाहयामास ततोऽभूद्बहुमंगलम् ।। ३५ ।।
इत्येतत्कथितं तात समासाच्चरितं विभोः ।।
शंकरस्य परं दिव्यं किं भूयः श्रोतुमि च्छसि ।।३६।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे स्वप्नवर्ण्णनपू० संक्षेपशिवचरितवर्णनं नाम नवमोऽध्यायः ।। ९ ।।