शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ द्वितीया रुद्रसंहिताया द्वितीयः सतीखण्डः

१ रुद्रब्रह्माणं संध्याख्यस्वसुतारूपदर्शनेन मोहितं दृष्ट्वा दक्षाद्यैस्तत्पुत्रैः सह तं निर्भत्स्य स्वस्थानं गतेऽमर्षितब्रह्मणो रुद्रमोहार्थप्रलयकरणम् । हठाच्छक्त्युत्पासनया रुद्रमोहाय स्वसुताद्दक्षात्सतीनामककन्योत्पादनं तया सह रुद्रस्य विवाहः । तया रममाणस्य रुद्रस्य दक्षेण विरोधस्तत्संबंधेन रुद्ररहितदक्षयज्ञारंभः तस्मिन रुद्रभागानवलोकात्सतीकोपेन यज्ञविध्वंसः, पुनः संधानं, ज्वालामुख्युत्पत्त्यादिवर्णनम्

२ निर्गुणशिवस्य द्विरूपभवनं ततस्तस्य रुद्रादित्रिधाभवनम, श्रष्टुब्रह्मणः सकाशात् सुरासुरनरादिप्रजानां प्रजापतीनां चाविर्भावः, ,प्रसन्नमनस्कविधासकाशात्संमोहिनीसंध्योत्पत्त्युक्तिः, मदनोत्पत्तितत्स्वरूपैष्वर्यं दानादिवर्णनम् ।

३ ब्रह्मणः सकाशात्कामस्य नामकर्माद्यैश्वर्यप्राप्तौ तेन विधितत्पुत्रोपरि साक्षात्प्रयोगकरणात्पितृ सर्गोत्पत्तिमवलोक्य क्रुद्धस्य ब्रह्मण: शापप्राप्तिन्मोचनादिवर्णनम् ।

४ दक्षकन्यया रत्या सह मदनस्य विवाहवर्णनम् । रतिरूपवर्णनम् । शिवमायामोहेन कामशापविस्मरणात्स्वकन्याया योग्यवरप्राप्तिजन्यानंदादिवर्णनञ्च ।

५ संघ्यायास्तपस्तुष्ट शिवादनेकवरलाभः पूर्वरूपत्यागश्च, अन्यदपि तच्चरित्रवर्णनम् ।

६ संघ्याकृततपस्तुष्टशिवस्य संध्याकृतस्तोत्रवर्णनं, शिवप्रसादात्तस्या अनेकवरप्राप्तिः ।

७ संध्याया मेधातिथिसत्रगमनं तत्रालक्षितत्वेन शरीरत्यागात्सूर्यलोकगमनं, ततस्तस्य, अरुंधतीनामप्राप्तिवर्णनम्, वशिष्ठेन तस्या विवाहः, तयोः शक्त्यादिपुत्रोत्पत्तिः ।

८ रुद्रोपहासरुष्टनारदसंतोषार्थं रुद्रसंमोहनाय प्रेषितयोः कामरत्योर्वसंतादिसहचरसाधनेन कामस्य रुद्रलोकप्रयाणवर्णनम् ।

९ वसंतादिसामग्रीयुक्तस्यापि मदनस्य रुद्रमोहनाशक्तत्वेन विमनस्कत्ववर्णनं, पुनश्च विधेराज्ञया मारनामकगणैः सह यत्र यत्र शिवगमनं तत्र तत्र गच्छतो मदनस्य श्रमवैफल्यात्स्वलोकगति: ।

१०अमोहितशिवकामस्वधामगतौ खिन्नविधेर्विष्णुस्तुतिः, शिवमहिमस्मृतिदानेन विष्णुकृतविधेर्बोधः, शक्तिरवतारग्रहणे तदश्चर्यायां दक्षस्य प्रवर्तनेन शक्तिप्राकटयाच्छिवविवाहादिसंभवोपायसूचनवर्णनम् ।

११ हर्युपदिष्टविधिस्तुत्याऽविर्भूय शिवा दक्षादुत्पद्य रुद्रे मोहयिष्यामीति विधये वरं ददौ ।

१२ ब्रह्मप्रेरितशक्त्याराधनप्रवृत्तदक्षस्य बहुकालेन शक्तिदर्शनम्, मत्कन्यात्वेन रुद्र मोहयेति दक्षयाच्ञ्चोक्तिः ।

१३ ब्रह्मनिदेशेन प्रजासर्गे प्रवृत्तस्य दक्षस्य ब्रह्मोक्त्या असिक्नीनामकपंचजनकन्यया विवाहः । मैथुनधर्मणोत्पादितानां दक्षपुत्राणां नारदस्य निवृत्ति मागोंपदेशेन वैराग्यप्राप्ति; तन्नारदकर्मासहिष्णोर्दक्षान्नारदस्य शापप्राप्त्यादिवर्णनम्।

१४ दक्षस्य षष्ठिकन्यासर्गाणां वर्णनं, तासां विवाहादिवर्णनं च, ततो दक्षगृहे साक्षाच्छिवशक्तिप्रादुर्भावमहोत्सवर्णनं, शक्तिवालबालनाद्युक्तिश्च ।

१५ ब्रह्मानारदाभ्यां सदृशवरप्राप्तिरूपवरोपलब्ध्यनंतरं मात्रनुज्ञया सत्या द्वादशमासात्मकशिवार्चनव्रताचरणं विष्ण्वादिसर्वदेवानां च तदवलोकनेनानंदवर्णनम् । सस्त्रीकयोर्विधिविष्ण्वोः शिवलोकगमनं तत्स्तोत्रकरणं च ।

१६ स्वागमनप्रयोजनकथनानंतर युक्तस्त्रीस्वीकरणं विना सृष्टयसम्भवे इति ब्रह्महरिभ्योऽमुक्तसंगस्यापि शिवस्य तयोराग्रहाद्विवाहस्वीकारस्य वर्णनम् ।

१७ दक्षकन्याया नंदाव्रतपूर्त्युत्तरं शिवस्य दर्शनं तन्मनोभिलषितप्राप्तिवर्णनं, ब्रह्मणा सह दक्षगृहे रथेन शिवस्यागमनादिवर्णनं च ।

१८ विष्ण्वादिदेवैर्मरीच्यादि ऋषिगणैः सह शिवस्य सतीवरणार्थं दक्षगृहगमनं, शिवसती विवाह वर्णनं च ।

१९सतीशिवविवाहोत्सवे सतीरूपावलोकनेन ब्रह्मस्तद्विषयककामुकत्वर्णनं, अनुरोधाच्छिवस्य विधिहने प्रावृत्तिः, विष्णुप्रार्थनया च ब्रह्मवध निवृत्तिः ।

२० सतीशिवविवाहोत्सवे ब्रह्मणो विरूपतावर्णनं, पुनश्च मर्त्यलोके च तद्रूपेणैव ब्रह्मणः पूज्यताप्राप्तिरूपवरलाभवर्णनम् ।

२१ सतीशिवकैलासगमनं, तत्र चा लौकिकचेष्टया तयोर्विहरणम् ।

२२ पर्जन्यकाले निलयनिर्माणाय सत्या प्रेरितस्य शिवस्य मत्स्थाने मेघानां गत्यभाव इत्युक्तिः । सतीच्छया हिमालये शिवयोः क्रीडाया वर्णनम् ।

२३ विषयोपभोगाज्जातविरागाया: शिवाया लोकशिक्षणार्थ सभेदस्वरूपभक्तिभावकथनं तथा मोक्षाद्यनेकशास्त्रोद्देशकथनं च ।

२४ लीलया पृथिव्यामटतो: सतीशिवयोर्वने विरहिणं रामं प्रणमन्तं शिवमवलोक्य शंकितायाः सत्या रामपरीक्षाया वर्णनम् ।

२५ शिवसती वियोगकारणवर्णनम् ।

२६ रामपरीक्षार्थं सीतारूपेण गतायाः सत्याः राममोहायोगात्पश्चात्तापः, विष्णवे शिवस्वाधिकारार्पणम्, सत्रे दक्षशिवयोर्विरोधकारणवर्णनं च |

२७ दक्षप्रजापते रुद्रभागरहितयज्ञे देवादीनामागतिः तत्र रुद्रमदृष्ट्वा दधीचे यज्ञवाटान्निर्गमनम्, तत्पक्षपातिब्राह्मणनामपि निर्गमे शिवविधिनो यज्ञप्रवृत्तिरेवेति वर्णनम् ।

२८ गंधमादने सखीजनसहितायाः सत्या रोहिण्या सह चंद्रस्य दक्षयज्ञगमनमवलोक्य स्वगमनेच्छाप्रकटनं बोधनेऽपि साग्रहायै शिवाज्ञाप्रदानम् ।

२९ दक्षयज्ञे गतायाः सत्या दक्षादवमानः, सर्वदेवानां तत्कृततिरस्कारवर्णनं, दक्षाय सत्यया शिवमाहात्म्यकथनं च ।

३० सत्या योगात्स्वेच्छया तत्र देहत्यागे कृते भृगुणा शिवगणेषु पराभूतेष्वपि विघ्नदर्शनाद्देवादीनां साध्वसोत्पत्तिवर्णनम् ।

३१ दक्षयज्ञे देववाणीद्वारा दक्षकृतौ तिरस्कारदर्शनं भविष्यत्कथनं च ।

३२ भुगुपराजितस्वगणद्वारा सतीदेहत्यागादिवृत्तश्रवणात्क्रुद्धस्य शिवस्य जटाया वीरभद्रमहाकालीज्वरादीनां प्रादुर्भावः, तेभ्यो दक्षतत्पक्षीयाणां संहाराय शिवाज्ञेति वर्णनम् ।

३३ शिवाज्ञया दक्षयक्षसंहारार्थचलितयोः कालीवीरभद्रयोः सेनासमारोहस्य वर्णनम् ।

३४ कैलासाच्छिवगणैः सह दक्षनाशाय निर्गते वीरभद्रयज्ञवाटस्थानां देवादीनामुत्पातदर्शनाद्भयोत्पत्ति:, देववाण्या शिवनिंदकस्य दक्षस्य महाभयसूचने विष्णुप्रार्थनेत्युक्तिः ।

३५ विष्णुं प्रति दक्षस्य तद्विज्ञप्तिः, शिवनिंदकस्य रक्षणे केषामपि सामर्थ्यं नेति तात्पर्यगर्भितहरेरुक्तिः, एतत्कर्मणा तव वीरभद्रान्मृत्युरस्मदादीनां च मृत्युसमशासनं भविष्यतीति च तदुक्तिः, शिवसामर्थ्यमप्यवर्णितेन ।

३६ शिवमायामोहितैर्लोकपालवीरभद्रस्य संग्राम:, तस्मिंश्च तेषां सर्वेषां पराभवः, ततो विष्णुवीरभद्रयोः संवादोत्तरं संग्रामोन्मुखत्वादिकथनम्

३७ विष्ण्वादिदेवैवींरभद्रादिशिवगणानां सह दारुणसंग्रामस्य वर्णनं, तया चेदं सर्वं सतीकृतं मत्वा पराभूतानां देवानां स्वस्वस्थानगमनम्, जयशालिवीरभद्रकृतदेवर्षिगणानां दन्तत्रोटनश्मश्रुलुञ्चनाद्युपद्रवो यज्ञविध्वसनं च, ततो दक्षस्य दीक्षितस्यापि वीरभद्रकृतशिरश्छेदादिवर्णनम्।

३८ शिवप्रभावज्ञविष्णोः शिवं विना देवैः सह दक्षस्यगमने कारणकथनप्रसंगेन दधीचर्षिक्षुवराज्ञोः • स्वस्वश्रैष्ठ्यविषयकविवाद कथनं, क्षुवयोः सकाशाद्दधीचेः पराभवः, मृत्युंजयप्रभावाद्दधीचेरमरत्वप्राप्तिः, तस्मात्परभूतस्य क्षुवयोर्हरेराराधनादिवर्णनम् ।

३९ दधीचं प्रति द्विजरूपेण क्षुवथुक्षत्रियकार्यार्थं विष्णोर्गमनम् दधीचविष्ण्वोः क्षुवनिमित्तको महान्कलहः, दधीचस्य शवाद्विष्णोः पराभवः, दधीच सकाशा वै: सह विष्णो, शापप्राप्तिवर्णनम् ।

४० दक्षप्रजापतिनिधनजदुःखेन खिन्नस्यब्रह्मण देवैः सह वैकुंठगमनं, दक्षसंजीवनयज्ञसंधानाय देवैः सह कैलासे विष्णोगमनं कैलासवर्णनं च ।

४१ सतीविरहिणोऽपि शिवस्य विष्णुकृतस्वापराधख्यापनप्रदर्शिका स्तुतिः ।

४२ स्तुत्या प्रसन्नस्य शिवस्य यज्ञसाधनोपायकथनम् |

४३ वीरभद्रदग्धशिरसः प्रजापतेर्वस्तशिर: संधानाज्जीवनोपायकथनं, यज्ञानुसंधानप्रकारः, सतीखंडश्रवणपठनफलावाप्तिकथनं च । |

इति द्वितीयाया रुद्रसंहिताया द्वितीय सतीखंड: ।