शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ४०
।। नारद उचाच ।।
विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक ।।
श्राविता रमणीप्राया शिवलीला महाद्भुता ।। १ ।।
वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ।।
कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ।। २ ।।
।। ब्रह्मोवाच ।।
अथ देवगणास्सर्वे मुनयश्च पराजिताः ।।
रुद्रानीकैर्विभिन्नांगा मम लोकं ययुस्तदा ।। ३ ।।
स्वयंभुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ।।
तत्स्वक्लेशं विशेषेण कार्त्स्येनैव न्यवेदयन् ।। ४ ।।
तदाकर्ण्य ततोहं वै पुत्रशोकेन पीडितः ।।
अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ।। ५ ।।
किं कार्य्यं कार्यमद्याशु मया देवसुखावहम् ।।
येन जीवतु दक्षासौ मखः पूर्णो भवेत्सुरः ।। ६ ।।
एवं विचार्य बहुधा नालभं शमहं मुने ।।
विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप्तं तदोचितम् ।। ७ ।।
अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ।।
नत्वा नुत्वा च विविधैस्स्तवैर्दुःखं न्यवेदयम् ।।८।।
यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ।।
सुखिनस्स्युस्सुरास्सर्वे मुनयश्च तथा कुरु ।। ९ ।।
देव देव रमानाथ विष्णो देवसुखावह ।।
वयं त्वच्छरणं प्राप्तास्सदेवमुनयो ध्रुवम् ।। 2.2.40.१० ।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि ब्रह्मणस्स रमेश्वरः ।।
प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ।। ११ ।।
।। विष्णुरुवाच ।।
तेजीयसि न सा भूता कृतागसि बुभूषताम् ।।
तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ।। १२ ।।
कृतपापास्सुरा सर्वे शिवे हि परमेश्वरे ।।
पराददुर्यज्ञभागं तस्य शंभोर्विधे यतः ।।१३ ।।
प्रसादयध्यं सर्वे हि यूयं शुद्धेन चेतसा ।।
अथापरप्रसादं तं गृहीतांघ्रियुगं शिवम् ।।१४।।
यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ।।
सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ।।१५।।
तमाशु देवं प्रियया विहीनं च दुरुक्तिभिः ।।
क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ।। १६ ।।
अयमेव महोपायस्तच्छांत्यै केवलं विधे ।।
शंभोस्संतुष्टये मन्ये सत्यमेवोदितं मया ।। १७ ।।
नाहं न त्वं सुराश्चान्ये मुनयोपि तनूभृतः ।।
यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ।। १८ ।।
आत्मतंत्रस्य तस्यापि परस्य परमात्मनः ।।
क उपायं विधित्सेद्वै परं मूढं विरोधिनम् ।। १९ ।।
चलिष्येहमपि ब्रह्मन् सर्वैः सार्द्ध शिवालयम् ।।
क्षमापयामि गिरिशं कृतागाश्च शिवे धुवम् ।। 2.2.40.२० ।।
।। ब्रह्मोवाच ।।
इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ।।
सार्द्धं देवेर्मतिं चक्रे तद्गिरौ गमनाय सः ।। २१ ।।
ययौ स्वधिष्ण्य निलयं शिवस्याद्रिवरं शुभम् ।।
कैलासं सामरमुनिप्रजेशादिमयो हरिः ।।२२।।
अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ।।
नरेतरैरप्सरोभिर्योगसिद्धैमहोन्नतम् ।। २३ ।।
नानामणिमयैश्शृंगैः शोभमानं समंततः ।।
नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ।। ।। २४ ।।
नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ।।
नानाजलप्रस्रवणैरमरैस्सिद्धयोषिताम् ।। २५ ।।
रमणैवाहरंतीनां नानाकंदर सानुभिः ।।
द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ।। २६ ।।
व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ।।
सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ।। २७ ।।
पर्यस्तं गंगया सत्या स्थानपुण्यतरोदया ।।
सर्वपावनसंकर्त्र्या विष्णुपद्या सुनिर्मलम् ।।। ।। २८ ।।
एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् ।।
ययुस्ते विस्मयं देवा विष्ण्वाद्यास्समुनीश्वराः ।। २९ ।।
तस्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ।।
कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ।।2.2.40.३०।।
वनं सौगंधिकं चापि ददृशुस्तत्समीपतः ।।
सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्रुतम् ।।३१।।
तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने ।।
नंदा चालकनंदा च दर्शनात्पापहारिके।। ।। ३२ ।।
पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ।।
विगाह्य पुंभिस्तास्तत्र क्रीडंति रतिकर्शिताः ।।३३।।
हित्वा यक्षेश्वरपुरीं वनं सौगंधिकं च यत्।।
गच्छंतस्ते सुरा आराद्ददृशुश्शांकरं वटम् ।। ३४ ।।
पर्यक् कृताचलच्छायं पादोन विटपाय तम् ।।
शतयोजन कोत्सेधं निर्नीडं तापवर्ज्जितम् ।।३५।।
महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ।।
शंभुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ।।। ।। ३६ ।।
मुमुक्षुशरणे तस्मिन् महायोगमये वटे ।।
आसीनं ददृशुस्सर्वे शिवं विष्ण्वादयस्सुराः ।।३७।।
विधिपुत्रैर्महासिद्धैश्शिव भक्तिरतैस्सदा ।।
उपास्यमानं सुमुदा शांतैस्संशांतविग्रहैः ।।३८।।
तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ।।
सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिस्सदा ।। ३९ ।।
तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् ।।
वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ।। 2.2.40.४० ।।
मुने तुभ्यं प्रवोचंतं पृच्छते ज्ञानमुत्तमम् ।।
कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम् ।। ४१ ।।
कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ।।
बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ।।४२।।
एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयस्सुराः ।।
प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ।। ४३ ।।
उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः ।।
उत्थाय चक्रे शिरसाभिवंदनमपि प्रभुः ।। ४४ ।।
वंदितांघ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिश्शिवः ।।
ननामाथ यथा विष्णुं कश्यपं लोकसद्गतिः ।। ४५ ।।
सुरसिद्धगणाधीशमहर्षिसु नमस्कृतम्।।
समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ।।४६।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवदर्शनवर्णनं नाम चत्वारिंशोध्यायः ।। ४० ।।