शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ३४

विकिस्रोतः तः

ब्रह्मोवाच ।।
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ।।
दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ।। १ ।।
उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ।।
त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ।।२।।
दक्षवामाक्षिबाहूरुविस्पंदस्समजायत ।।
नानाकष्टप्रदस्तात सर्वथाऽशुभसूचकः ।।३।।
भूकंपस्समभूत्तत्र दक्षयागस्थले तदा ।।
दक्षोपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ।।४।।
दिशश्चासन्सुमलिनाः कर्बुरोभूद्दिवाकरः ।।
परिवेषसहस्रेण संक्रांतश्च भयंकरः ।।५।।
नक्षत्राणि पतंति स्म विद्युदग्निप्रभाणि च ।।
नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ।।६।।
गृध्रा दक्ष शिरः स्पृष्ट्वा समुद्भूताः सहस्रशः।।
आसीद्गृध्रपक्षच्छायैस्सच्छायो यागमंडपः।।७।।
ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा।।
उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसंभवा ।।८।।
खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः।।
शलभाश्च समुद्भूता विवर्तानिलकंपिताः ।।९।।
रीतैश्च पवनै रूर्द्ध्वं स दक्षाध्वरमंडपः।।
दैवान्वितेन दक्षेण यः कृतो नूतनोद्भुतः।। 2.2.34.१०।।
वेमुर्दक्षादयस्सर्वे तदा शोणितमद्भुतम्।।
वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ।। ११ ।।
सकंपाश्च बभूवुस्ते दीपा वातहता इव ।।
दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ।। १२ ।।
तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ।।
प्रातस्तुषारवर्षीणि पद्मानीव वनांतरे ।। १३ ।।
दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ।।
निशायां कमलाश्चैव कुमुदानीव संगवे ।। १४।।
असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ।।
दिग्दाहोभूद्विशेषेण त्रासयन् सकलाञ्जनान्।। ।। १५ ।।
एवं विधान्यरिष्टानि ददृशुर्विबुधादयः ।।
भयमापेदिरेऽत्यंतं मुने विष्ण्वादिकास्तदा ।। १६।।
भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ।।
तरवस्तीरसंजाता नदीवेगहता इव ।। १७ ।।
पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ।।
कंदुका इव ते भूयः पतिताः पुनरुत्थिताः ।। १८ ।।
ततस्ते तापसंतप्ता रुरुदुः कुररी इव ।।
रोदनध्वनिसंक्रातोरुक्तिप्रत्युक्तिका इव ।। १९।।
सवैकुंठास्ततस्सर्वे तदा कुंठितशक्तयः ।।
स्वस्वोपकंठमाकंठं लुलुठुः कमठा इव ।। 2.2.34.२० ।।
एतस्मिन्नंतरे तत्र संजाता चाशरीरवाक् ।।
श्रावयत्यखिलान् देवान्दक्षं चैव विशेषतः ।। २१ ।।
आकाशवाण्युवाच ।।
धिक् जन्म तव दक्षाद्य महामूढोसि पापधीः ।।
भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् ।। २२ ।।
हाहापि नोत्र ये मूढास्तव देवादयस्थिताः ।।
तेषामपि महादुःखं भविष्यति न संशयः ।। २३ ।।
ब्रह्मोवाच ।। तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ।।
दक्षः प्रापद्भयं चाति परे देवादयोपि ह ।।२४।।
वेपमानस्तदा दक्षो विकलश्चाति चेतसि ।।
अगच्छच्छरणं विष्णोः स्वप्रभोरिंदिरापतेः ।। २५ ।।
सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ।।
अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ।। २६ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सती खंडे दुश्शकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।