शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः २४

विकिस्रोतः तः

।। नारद उवाच ।।
ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर ।।
श्रावितं शंकरयशस्सतीशंकरयोः शुभम् ।। १ ।।
इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् ।।
किमकार्ष्टां हि तत्स्थौ वै चरितं दंपती शिवौ ।। २ ।।
ब्रह्मोवाच ।।
सतीशिवचरित्रं च शृणु मे प्रेमतो मुने ।।
लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम् ।। ३ ।।
ततस्सती महादेवी वियोगमलभन्मुने ।।
स्वपतश्शंकरस्येति वदंत्येके सुबुद्धयः ।। ४ ।।
वागर्थाविव संपृक्तौ शक्तोशौ सर्वदा चितौ ।।
कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने ।।५।।
लीलारुचित्वादथ वा संघटेताऽखिलं च तत् ।।
कुरुते यद्यदीशश्च सती च भवरीतिगौ ।। ६ ।।
सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे ।।
शंभोरनादरात्तत्र देहं तत्याज संगता ।। ७ ।।
पुनर्हिमालये सैवाविर्भूता नामतस्सती ।।
पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः ।। ८ ।।
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ।।
पप्रच्छ च विधातारं शिवाशिवमहद्यशः ।।९।।
नारद उवाच ।।
विष्णुशिष्य महाभाग विधे मे वद विस्तरात् ।।
शिवाशिवचरित्रं तद्भवाचारपरानुगम् ।। 2.2.24.१० ।।
किमर्थं शंकरो जायां तत्याज प्राणतः प्रियाम् ।।
तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे ।। ११ ।।
कुतोऽह्यध्वरजः पुत्रां नादरोभूच्छिवस्य ते ।।
कथं तत्याज सा देहं गत्वा तत्र पितृक्रतौ ।। १२ ।।
ततः किमभवत्तत्र किमकार्षीन्महेश्वरः ।।
तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छुतावहम् ।। १३ ।।
ब्रह्मोवाच ।। ।।
शृणु तात परप्रीत्या मुनिभिस्सह नारद ।।
सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः ।। १४ ।।
नमस्कृत्य महेशानं हर्यादिसुरसेवितम् ।।
परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम् ।। १५ ।।
सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः ।।
स्वतंत्रो निर्विकारी च सती सापि हि तद्विधा ।। १६ ।।
अन्यथा कस्समर्थो हि तत्कर्मकरणे मुने ।।
परमात्मा परब्रह्म स एव परमेश्वरः ।। १७ ।।
यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः ।।
मुनयश्च महात्मानः सिद्धाश्च सनकादयः ।। १८ ।।
शेषस्सदा यशो यस्य मुदा गायति नित्यशः ।।
पारं न लभते तात स प्रभुश्शंकरः शिवः ।। १९ ।।
तस्यैव लीलया सर्वोयमिति तत्त्वविभ्रमः ।।
तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः ।। 2.2.24.२० ।।
एकस्मिन्समये रुद्रस्सत्या त्रिभुवने भवः ।।
वृषमारुह्य पर्याटद्रसां लीलाविशारदः ।। २१ ।।
आगत्य दण्डकारण्यं पर्यटन् सागरांबराम् ।।
दर्शयन् तत्र गां शोभां सत्यै सत्यपणः प्रभुः ।। २२ ।।
तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः ।।
अन्विष्यंतं प्रियां सीतां रावणेन हृता छलात् ।। २३ ।।
हा सीतेति प्रोच्चरंतं विरहाविष्टमानसम् ।।
यतस्ततश्च पश्यंतं रुदंतं हि मुहुर्मुहुः ।। २४ ।।
समिच्छंतं च तत्प्राप्तिं पृच्छंतं तद्गतिं हृदा।।
कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम्।।२५।।
सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम्।।
भरताग्रजमानंदरहितं विगतप्रभम्।।२६।।
पूर्णकामो वराधीनं प्राणमत्स्म मुदा हरः ।।
रामं भ्रमन्तं विपिने सलक्ष्मणमुदारधीः।।२७।।
जयेत्युक्त्वाऽन्यतो गच्छन्नदात्तस्मै स्वदर्शनम्।।
रामाय विपिने तस्मिच्छंकरो भक्तवत्सलः।।२८।।
इतीदृशीं सतीं दृष्ट्वा शिवलीलां विमोहनीम्।।
सुविस्मिता शिवं प्राह शिवमायाविमोहिता।।२९।।
सत्युवाच।।
देव देव परब्रह्म सर्वेश परमेश्वर।।
सेवंते त्वां सदा सर्वे हरिब्रह्मादयस्सुराः ।।2.2.24.३०।।
त्वं प्रणम्यो हि सर्वेषां सेव्यो ध्येयश्च सर्वदा ।।
वेदांतवेद्यो यत्नेन निर्विकारी परप्रभुः ।।३१।।
काविमौ पुरुषौ नाथ विरहव्याकुलाकृती ।।
विचरंतौ वने क्लिष्टौ दीनौ वीरौ धनुर्धरौ ।।३२।।
तयोर्ज्येष्ठं कंजश्यामं दृष्ट्वा वै केन हेतुना ।।
सुदितस्सुप्रसन्नात्माऽभवो भक्त इवाऽधुना ।।३३।।
इति मे संशयं स्वामिञ्शंकर छेत्तुमर्हसि ।।
सेव्यस्य सेवकेनैव घटते प्रणतिः प्रभो ।।३४।।
ब्रह्मोवाच ।।
आदिशक्तिस्सती देवी शिवा सा परमेश्वरी ।।
शिवमायावशीभूत्वा पप्रच्छेत्थं शिवं प्रभुम् ।। ३५ ।।
तदाकर्ण्य वचस्सत्याश्शंकरः परमेश्वरः ।।
तदा विहस्य स प्राह सतीं लीलाविशारदः ।।३६
परमेश्वर उवाच ।।
शृणु देवि सति प्रीत्या यथार्थं वच्मि नच्छलम् ।।
वरदानप्रभावात्तु प्रणामं चैवमादरात् ।।३७।।
रामलक्ष्मणनामानौ भ्रातरौ वीरसम्मतौ।।
सूर्यवंशोद्भवौ देवि प्राज्ञौ दशरथात्मजौ ।।३८।।
गौरवर्णौ लघुर्बंधुश्शेषेशो लक्ष्मणाभिधः ।।
ज्येष्ठो रामाभिधो विष्णुः पूर्णांशो निरुपद्रवः ।।३९।।
अवतीर्णं क्षितौ साधुरक्षणाय भवाय नः ।।
इत्युक्त्वा विररामाऽसौ शंभुस्मृतिकरः प्रभुः ।। 2.2.24.४० ।।
श्रुत्वापीत्थं वचश्शम्भोर्न विशश्वास तन्मनः ।।
शिवमाया बलवती सैव त्रैलोक्यमोहिनी ।। ४१ ।।
अविश्वस्तं मनो ज्ञात्वा तस्याश्शंभुस्सनातनः ।।
अवोचद्वचनं चेति प्रभुलीलाविशारदः ।। ४२ ।।
शिव उवाच ।।
शृणु मद्वचनं देवि न विश्वसिति चेन्मनः ।।
तव रामपरिक्षां हि कुरु तत्र स्वया धिया ।। ४३ ।।
विनश्यति यथा मोहस्तत्कुरु त्वं सति प्रिये ।।
गत्वा तत्र स्थितस्तावद्वटे भव परीक्षिका । ४४ ।।
ब्रह्मोवाच ।।
शिवाज्ञया सती तत्र गत्वाचिंतयदीश्वरी ।।
कुर्यां परीक्षां च कथं रामस्य वनचारिणः ।।४५।।
सीतारूपमहं धृत्वा गच्छेयं रामसन्निधौ ।।
यदि रामो हरिस्सर्वं विज्ञास्यति न चान्यथा ।।४६।।
इत्थं विचार्य सीता सा भूत्वा रामसमीपतः ।।
आगमत्तत्परीक्षार्थं सती मोहपरायणा ।। ४७ ।।
सीतारूपां सतीं दृष्ट्वा जपन्नाम शिवेति च ।।
विहस्य तत्प्रविज्ञाय नत्वावोचद्रघूद्वहः ।।४८।।
राम उवाच ।।
प्रेमतस्त्वं सति ब्रूहि क्व शंभुस्ते नमोगतः ।।
एका हि विपिने कस्मादागता पतिना विना ।। ४९ ।।
त्यक्त्वा स्वरूपं कस्मात्ते धृतं रूपमिदं सति ।।
ब्रूहि तत्कारणं देवि कृपां कृत्वा ममोपरि।।2.2.24.५०।।
ब्रह्मोवाच ।।
इति रामवचः श्रुत्वा चकितासीत्सती तदा ।।
स्मृत्वा शिवोक्तं मत्वा चावितथं लज्जिता भृशम् ।। ५१ ।।
रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च ।।
स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः ।। ५२ ।।
शिवो मया गणैश्चैव पर्यटन् वसुधां प्रभुः ।।
इहागच्छच्च विपिने स्वतंत्रः परमेश्वरः ।। ५३ ।।
अपश्यदत्र स त्वां हि सीतान्वेषणतत्परम् ।।
सलक्ष्मणं विरहिणं सीतया श्लिष्टमानसम् ।। ५४ ।।
नत्वा त्वां स गतो मूले वटस्य स्थित एव हि ।।
प्रशंसन् महिमानं ते वैष्णवं परमं मुदा ।। ५५ ।।
चतुर्भुजं हरिं त्वां नो दृष्ट्वेव मुदितोऽभवत् ।।
यथेदं रूपममलं पश्यन्नानंदमाप्तवान् ।।५६।।
तच्छ्रुत्वा वचनं शंभौर्भ्रममानीय चेतसि।।
तदाज्ञया परीक्षां ते कृतवत्य स्मि राघव ।। ५७ ।।
ज्ञातं मे राम विष्णुस्त्वं दृष्टा ते प्रभुताऽखिला ।।
निःसशंया तदापि तच्छृणु त्वं च महामते।। ५८ ।।
कथं प्रणम्यस्त्वं तस्य सत्यं ब्रूहि ममाग्रतः ।।
कुरु निस्संशयां त्वं मां शमलं प्राप्नुहि द्रुतम्।।५९।।
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्या रामश्चोत्फुल्ललोचनः ।।
अस्मरत्स्वं प्रभुं शंभुं प्रेमाभूद्धृदि चाधिकम्।।2.2.24.६०।।
सत्या विनाज्ञया शंभुसमीपं नागमन्मुने ।।
संवर्ण्य महिमानं च प्रावोचद्राघवस्सतीम् ।। ६१ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे रामपरीक्षावर्णनं नाम चतुर्विंशोऽध्यायः ।।२४।।