शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच।।
ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ।।
एतदेव पुनस्सम्यग्ब्रूहि मे विस्तराद्विधे ।। १ ।।
ब्रह्मोवाच ।।
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ।।
निर्जरांश्चाऽवदं प्रीत्या सुवचः पद्मसंभवः ।। २ ।।
यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ।।
आगंतव्यं मया सार्द्धं तीरं क्षीरपयोनिधेः ।। ३ ।।
इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ।।
यत्रास्ते भगवान्विष्णुस्सर्वेषां हितकारकः ।। ४ ।।
तत्र गत्वा जगन्नाथं देवदेवं जनार्द्दनम् ।।
उपतस्थुस्सुरा नत्वा सुकृतांजलयोः मुने ।। ९ ।।
तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ।।
स्मरञ्छिवपदांभोजमब्रवीत्परमं वचः ।।६।।
विष्णुरुवाच ।।
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ।।
सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ।। ७ ।।
ब्रह्मोवाच ।।
इति पृष्टास्तदा तेन विष्णुना च मया सुराः ।।
पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ।।
विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ।। ८ ।।
देवा ऊचुः ।।
नित्यं सेवा तु कस्यैव कार्या दुःखपहारिणी ।। ९ ।।
इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ।।
सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ।।2.1.12.१०।।
श्रीभगवानुवाच ।।
ब्रह्मञ्च्छृणु सुरैस्सम्यक्श्रुतं च भवता पुरा ।।
तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ।।११।।
दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यते ऽधुना ।।
ब्रह्मन्देवैस्समस्तैश्च बहुधा कार्यतत्परैः ।। १२ ।।
सेव्यसेव्यस्सदा देवश्शंकरस्सर्वदुःखहा ।।
ममापि कथितं तेन ब्रह्म णोऽपि विशेषतः ।। १३ ।।
प्रस्तुतं चैव दृष्टं वस्सर्वं दृष्टांतमद्भुतम् ।।
त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ।। १४ ।।
संत्यज्य देवदेवेशं लिंगमूर्तिं महेश्वरम् ।।
तारपुत्रास्तथैवैते नष्टास्तेऽपि सबांधवाः ।। १५ ।।
मया च मोहितास्ते वै मायया दूरतः कृताः ।।
सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ।।१६।।
तस्मात्सदा पूजनीयो लिंगमूर्तिधरी हरः ।।
सेवनीयो विशेषेण श्रद्धया देवसत्तमः ।। १७ ।।
शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः ।।
अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ।।।०।।।
तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना ।।
तस्मात् ब्रह्मन्सुरः शर्वः सर्वकामफलेप्सया ।।१९।।
सा हनिस्तन्महाछिद्रं सान्धता सा च मुग्धता ।।
यन्मुहूर्त्तं क्षणं वापि शिवं नैव समर्चयेत् ।। 2.1.12.२० ।।
भवभक्तिपरा ये च भवप्रणतचेतसः ।।
भवसंस्मरणा ये च न ते दुःखस्यभाजनाः ।। २१ ।।
भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ।।
धनं च तुष्टिपर्यंतं पुत्रपौत्रादिसंततिः ।।२२।।
आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ।।
ये वांछंति महाभागाः सुखं वा त्रिदशालयम् ।।२३ ।।
अंते मुक्तिफलं चैव भक्तिं वा परमेशितुः ।।
पूर्वपुण्यातिरेकेण तेऽर्चयंति सदाशिवम् ।। २४ ।।
योऽर्चयेच्छिवलिंगं वै नित्यं भक्तिपरायणः ।।
तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते ।। २५ ।।
ब्रह्मोवाच ।।
इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ।।
लिंगानि प्रार्थयामासुस्सर्वकामाप्तये नृणाम् ।। २६ ।।
तच्छ्रुत्वा च तदा विष्णु विश्वकर्माणमब्रवीत ।।
अहं च मुनिशार्दूल जीवोद्धारपरायणः ।। २७ ।।
विश्वकर्मन्यथा शंभोः कल्पयित्वा शुभानि च।।
लिंगानि सर्वदेवेभ्यो देयानि वचनान्मम ।। २८ ।।
ब्रह्मोवाच ।।
लिंगानि कल्पयित्वेवमधिकारानुरूपतः ।।
विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः।।२९।।
तदेव कथयाम्यद्य श्रूयतामृषिसत्तम।।
पद्मरागमयं शक्रो हेम विश्र वसस्सुतः।।2.1.12.३०।।
पीतं मणिमयं धर्मो वरुणश्श्यामलं शिवम् ।।
इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा।।३१।।
विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ।।
आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ।।३२।।
लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ।।
मौक्तिकं सोमराजो वै वज्रलिंगं विभावसुः ।।३३।।
मृण्मयं चैव विप्रेंद्रा विप्रपत्न्यस्तथैव च ।।
चांदनं च मयो नागाः प्रवालमयमादरात् ।।३४।।
नवनीतमयं देवी योगी भस्ममयं तथा।।
यक्षा दधिमयं लिंगं छाया पिष्टमयं तथा ।।३५।।
शिवलिंगं च ब्रह्माणी रत्नं पूजयति ध्रुवम्।।
पारदं पार्थिवं बाणस्समर्चति परेऽपि वा ।। ३६।।
एवं विधानि लिंगानि दत्तानि विश्वकर्मणा ।।
ते पूजयंति सर्वे वै देवा ऋषिगणा स्तथा ।।३७।।
विष्णुर्दत्त्वा च लिंगानि देवेभ्यो हितकाम्यया।।
पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ।।३८।।
तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ।।
आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ।।३९।।
तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने।।
शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ।।2.1.12.४०।।
ब्रह्मोवाच।।
श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ।।
शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ।।४१ ।।
मानुषं जन्म संप्राप्य दुर्लभं सर्वजंतुषु ।।
तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ।।४२।।
अव्यंगं चैव विप्रेषु साचारेषु सपुण्यतः ।।
शिवसंतोषहेतोश्च कर्मस्वोक्तं समाचरेत् ।। ४३ ।।
यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लंघयेत् ।।
यावद्दानस्य संपत्तिस्तावत्कर्म समावहेत् ।। ४४ ।।
कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ।।
तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ।।४५।।
ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ।।
यतस्समरसं स्वेष्टं यागी ध्यानेन पश्यति ।।४६ ।।
ध्यानयज्ञरतस्यास्य सदा संनिहितश्शिवः ।।
नास्ति विज्ञानिनां किंचित्प्रायश्चित्तादिशोधनम् ।। ४७ ।।
विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ।।
नास्ति क्रिया च तेषां वै सुखं दुखं विचारतः ।। ४८ ।।
धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ।।
सर्वदा निर्विकारास्ते विद्यया च तयामराः ।। ४९ ।।
परानंदकरं लिंगं विशुद्धं शिवमक्षरम् ।।
निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ।।2.1.12.५०।।
लिंगं द्विविधं प्रोक्तं बाह्यमाभ्यंतरं द्विजाः ।।
बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यंतरं मतम्।।५१।।
कर्मयज्ञरता ये च स्थूललिंगार्चने रताः ।।
असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ।। ५२ ।।
आध्यात्मिकं यल्लिंगं प्रत्यक्षं यस्य नो भवेत् ।।
स तल्लिंगे तथा स्थूले कल्पयेच्च न चान्यथा ।। ५३ ।।
ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ।।
यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ।। ५४ ।।
अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ।।
निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ।। ५५ ।।
एवं ज्ञानविमुक्तानां नास्ति दोष विकल्पना ।।
विधिश्चैव तथा नास्ति विहिताविहिते तथा ।। ५६ ।।
यथा जलेषु कमलं सलिलैर्नावलिप्यते ।।
तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ।। ५७ ।।
इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ।।
तावच्च कर्मणा देवं शिवमाराधयेन्नरः ।। ५८ ।।
प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः।।
एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ।। ५९ ।।
दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ।।
तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ।। 2.1.12.६० ।।
भेदो जलानां लोकेऽस्मिन्प्रतिभावे विचारतः ।।
एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ।।६१।।
हृदि संसारिणः साक्षात्सकलः परमेश्वरः ।।
इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः।।६२ऽ।।
इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ।।
पदमुच्चैस्समारोढुं पुंसो ह्यालम्बनं स्मृतम् ।। ६३ ।।
आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ।।
निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ।। ६४ ।।
सगुणानिर्गुणा प्राप्तिर्भवती सुनिश्चितम् ।।
एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ।।६५।।
देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ।।
गंधचन्दनपुष्पादि किमर्थं प्रतिमां विना ।।६६।।
तावच्च प्रतिमा पूज्य यावद्विज्ञानसंभवः ।।
ज्ञानाभावेन पूज्येत पतनं तस्य निश्चितम् ।। ६७ ।।
एवस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः।।
स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ।। ६८ ।।
यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ।।
विना पूजनदानादि पातकं न च दूरतः ।।६९।।
यावच्च पातकं देहे तावत्सिद्धिर्न जायते ।।
गते च पातके तस्य सर्वं च सफलं भवेत् ।।2.1.12.७०।।
तथा च मलिने वस्त्रे रंगः शुभतरो न हि ।।
क्षालने हि कृते शुद्धे सर्वो रंगः प्रसज्जते ।। ७१ ।।
तथा च निर्मले देहे देवानां सम्यगर्चया ।।
ज्ञानरंगः प्रजायेत तदा विज्ञानसंभवः ।। ७२ ।।
विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ।।
ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ।। ७३ ।।
भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ।।
तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं संगतिः सताम् ।। ७४ ।'
संगत्या गुरुराप्येत गुरोर्मंत्रादि पूजनम् ।।
पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।।७४।।।
विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ।।
विज्ञानं च यदा जातं तदा भेदो निवर्तते ।।७६।।
भेदे निवृत्ते सकले द्वंद्वदुःखविहीनता ।।
द्वंद्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ।।७७।।
द्वंद्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ।।
विहिताविहिते तस्य न स्यातां च सुरर्षयः ।। ७८ ।।
ईदृशो विरलो लोके गृहाश्रमविवर्जितः ।।
यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ।।७९।।
तीर्थानि श्लाघयंतीह तादृशं ज्ञानवित्तमम् ।।
देवाश्च मुनयस्सर्वे परब्रह्मात्मकं शिवम् ।।2.1.12.८०।।
तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ।।
ते पुनंत्युरुकालेन विज्ञानी दर्शनादपि ।।८१।।
यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ।।
कुर्याच्छ्रेष्ठस्य सप्रीत्या सुरेषु खलु पंचसु ।। ८२ ।।
अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ।।
मूले सिक्ते तथा शाखास्तृप्तास्सत्यखिलास्सुराः।। ८३ ।।
शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ।।
एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ।।८४।।
सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ।।
शिवे च पूजिते देवाः पूजितास्सर्व एव हि।।८५।।
तस्माच्च पूजयेद्देवं शंकरं लोकशंकरम् ।।
सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ।। ८६ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनो नाम द्वादशोऽध्यायः ।। १२ ।।