शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः १०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

परमेश्वर उवाच ।।
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत।।
सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि।। १ ।।
ब्रह्मणा निर्मिते लोके यदा दुखं प्रजायते ।।
तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ।। २ ।।
सहायं ते करिष्यामि सर्वकार्ये च दुस्सहे ।।
तव शत्रून्हनिष्यामि दुस्साध्यान्परमोत्कटान् ।। ३ ।।
विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ।।
विस्तारय हरे लोके तारणाय परो भव ।। ४ ।।
गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ।।
कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ।। ५ ।।
रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ।।
युवयोरन्तरन्नैव तव रुद्रस्य किंचन ।। ६ ।।
वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ।।
लीलयापि महाविष्णो सत्यं सत्यं न संशयः ।। ७ ।।
रुद्रभक्तो नरो यस्तु तव निंदां करिष्यति ।।
तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ।। ८ ।।
नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ।।
मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ।। ९ ।।
लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः ।।
ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ।। 2.1.10.१० ।।
इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ।।
कथयामास दुःखेषु सहायो भव सर्वदा ।। ११ ।।
सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः ।।
भव त्वं सर्वथा श्रेष्ठस्सर्वकामप्रसाधकः ।। १२ ।।
सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ।।
संकटे भजनीयो हि स रुद्रो मत्तनुर्हरे ।। १३ ।।
त्वां यस्समाश्रितो नूनं मामेव स समाश्रितः।।
अंतरं यश्च जानाति निरये पतति ध्रुवम् ।। १४ ।।
आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ।।
संदेहोऽत्र न कर्त्तव्यो ब्रह्मविष्णु हरात्मनाम् ।।१५ ।।
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।।
रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ।। १६ ।।
तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः।।
शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम्।।१७।।
ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ।।
सोऽपि वर्षशतं यावदात्ममानेन जीवति।।१८।।
वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम्।।
हरो वर्षशते याते नररूपेण संस्थितः।।१९।।
यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ।।
पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ।। 2.1.10.२० ।।
निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ।।
ब्रह्मविष्णुहराणां च गंधर्वोरगरक्षसाम् ।।२१।।
एकविंशसहस्राणि शतैः षड्भिश्शतानि च।।
अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ।।२२।।
षड्भिच्छवासनिश्वासैः पलमेकं प्रवर्तितम् ।।
घटी षष्टि पलाः प्रोक्ता सा षष्ट्या च दिनं निशा ।।२३।।
निश्वासोच्छ्वासितानां च परिसंख्या न विद्यते ।।
सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ।। २४ ।।
इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ।।
तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ।।२५।।
ब्रह्मोवाच।।
इत्याकर्ण्य वचश्शंभोर्मया च भगवान्हरिः।।
प्रणिपत्य च विश्वेशं प्राह मंदतरं वशी ।। २६ ।।
विष्णुरुवाच ।।
शंकर श्रूयतामेतत्कृपासिंधो जगत्पते ।।
सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ।। २७ ।।
मम ध्येयस्सदा त्वं च भविष्यसि न चान्यथा ।।
भवतस्सर्वसामर्थ्यं लब्धं चैव पुरा मया ।। २८ ।।
क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ।।
चेतसो दूरतो नैव निर्गच्छतु कदाचन ।। २९ ।।
मम भक्तश्च यः स्वामिँस्तव निंदा करिष्यति ।।
तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ।। 2.1.10.३० ।।
त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः ।।
एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ।। ३१ ।।
महिमा च मदीयोद्य वर्द्धितो भवता ध्रुवम् ।।
कदाचिदगुणश्चैव जायते क्षम्यतामिति ।। ३२ ।।
ब्रह्मोवाच ।।
तदा शंभुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ।।
उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ।। ३३ ।।
एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ।।
पस्पर्श सकलांगेषु कृपया तु कृपानिधिः ।।३४।।
आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ।।
ददौ वराननेकांश्चावयोर्हितचिकीर्षया।। ३५ ।।
ततस्स भगवाञ्छंभुः कृपया भक्तवत्सलः ।।
दृष्टया संपश्यतो शीघ्रं तत्रैवांतरधीयतः ।। ३६ ।।
तदा प्रकृति लोकेऽस्मिँल्लिंगपूजाविधिः स्मृतः ।।
लिंगे प्रतिष्ठितश्शंभुर्भुक्तिमुक्तिप्रदायकः ।। ३७ ।।
लिंगवेदिर्महादेवी लिंगं साक्षान्महेश्वरः ।।
लयनाल्लिंगमित्युक्तं तत्रैव निखिलं जगत् ।। ३८ ।।
यस्तु लैंगं पठेन्नित्यमाख्यानं लिंगसन्निधौ ।।
षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ।। ३९ ।।
यस्तु लिंगसमीपे तु कार्यं किंचित्करोति च ।।
तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ।। 2.1.10.४० ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ।। १० ।।