शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः ०८

विकिस्रोतः तः

ब्रह्मोवाच ।।
एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः ।।
विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ।। १।।
दयालुरभवच्छंभुर्दीनानां प्रतिपालकः ।।
गर्विणां गर्वहर्ता च सवेषां प्रभुरव्ययः ।।२।।
तदा समभवत्तत्र नादो वै शब्दलक्षणः ।।
ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ।।३।।
किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः ।।
विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ।। ४ ।।
लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम् ।।
आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः ।। ५ ।।
मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति ।।
सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ।।६।।
उत्तरे पावकप्रख्यमुकारमृषि सत्तम ।।
शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ।।७।।
तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् ।।
तुरीयातीतममलं निष्कलं निरुपद्रवम् ।। ८ ।।
निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ।।
स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम् ।। ९ ।।
आदिमध्यांतरहितमानंदस्यापिकारणम् ।।
सत्यमानन्दममृतं परं ब्रह्मपरायणम् ।। 2.1.8.१० ।।
कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम् ।।
अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च ।। ११ ।।
वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत् ।।
तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम् ।।१२।।
तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ।।
महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ।।१३।।
चिंतया रहितो रुद्रो वाचो यन्मनसा सह ।।
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः ।।१४।।
एकाक्षरेण तद्वाक्यमृतं परमकारणम् ।।
सत्यमानन्दममृतं परं ब्रह्म परात्परम् ।। १५ ।।
एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः ।।
एकाक्षरादुकाराख्याद्धरिः परमकारणम्।।१६।।
एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ।।
सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ।।१७।।
मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत्।।
मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ।। १८ ।।
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ।।
बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ।। १९ ।।
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ।।
अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः ।। 2.1.8.२० ।।
उकारयोनौ निःक्षिप्तमवर्द्धत समंततः।।
सौवर्णमभवच्चांडमावेद्य तदलक्षणम् ।। २१ ।।
अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम्।।
ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम् ।।२२।।
अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु ।।
तथास्य सुशुभं हैमं कपालं चोर्द्ध्वसंस्थितम् ।।२३।।
जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा ।।
तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ।।२४।।
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ।।
एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ।।२५।।
यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् ।।
एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ।।२६।।
ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः ।।
मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्।।२७।।
एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम् ।।
ददर्श च मया सार्द्धं भगवान्विश्वपालकः ।। २८ ।।
पंचवक्त्रं दशभुजं गौरकर्पूरवन्मुने ।।
नानाकांति समायुक्तं नानाभूषणभूषितम् ।। २९ ।।
महोदारं महावीर्यं महापुरुषलणम् ।।
तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ।।2.1.8.३०।।
अथ प्रसन्नो भगवान्महेशः परमेश्वरः ।।
दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ।। ३१ ।।
अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते ।।
इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ।।३२।।।।
उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ।।
ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ।।३३।।
वामं कपोलमूकारो लृ लॄ नासापुटे उभे।।
एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः ।।३४।।
ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात् ।।
अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ।।३५।।
कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ।।
चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः ।। ३६ ।।
टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा ।।
पकार उदरं तस्य फकारः पार्श्व उच्यते ।।३७।।
बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते ।।
मकारो हृदयं शंभोर्महादेवस्य योगिनः ।।३८।।
यकारादिसकारान्ता विभोर्वै सप्तधातवः ।।
हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ।।३९।।
एवं शब्दमयं रूपमगुणस्य गुणात्मनः।।
दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः ।।2.1.8.४०।।
एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ।।
प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः।।४१।।
ॐकारप्रभवं मंत्रं कलापंचकसंयुतम् ।।
शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम् ।। ४२ ।।
मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम् ।।
गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम् ।। ४३ ।।
चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ।।
अथ पंचसितं मंत्रं कलाष्टक समायुतम् ।। ४४ ।।
आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ।।
यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम् ।।४५।।
कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा ।।
त्रयोदशकलायुक्तं बालाद्यैस्सह लोहितम् ।। ४६ ।।
बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ।।
वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु ।। ४७ ।।
पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम् ।।
चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम् ।। ४८ ।।
ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ।।
पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ।। ४९ ।।
अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् ।।
ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ।। 2.1.8.५० ।।
अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ।।
वामपादं महादेवं महाभोगीन्द्रभूषणम् ।। ५१ ।।
विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् ।।
ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम् ।। ५२ ।।
तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम् ।।
मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ।। ५३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः ।। ८ ।।