सामग्री पर जाएँ

शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः ०७

विकिस्रोतः तः

ब्रह्मोवाच ।।
सुप्ते नारायणे देवे नाभौ पंकजमुत्तमम् ।।
आविर्बभूव सहसा बहव संकरेच्छया ।।१।।
अनंतयष्टिकायुक्तं कर्णिकारसमप्रभम् ।।
अनंतयोजनायाममनंतोच्छ्रायसंयुतम्।।२।।
कोटिसूर्यप्रतीकाशं सुंदर वचxसंयुतम् ।।
अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम् ।। ३ ।।
कृत्वा यत्नं पूर्ववत्स शंकरः परमेश्वरः ।।
दक्षिणांगान्निजान्मां कैसाशीxश्शंभुरजीजनत् ।। ४ ।।
स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ।।
तन्नाभिपंकजादाविर्भावयामास लीलया ।। ९ ।।
एष पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ।।
चतुर्मुखो रक्तवर्णस्त्रिपुड्रांकितमस्तकः ।। ६ ।।
तन्मायामोहितश्चाहं नाविदं कमल विना ।।
स्वदेहजनकं तात पितरं ज्ञानदुर्बलः ।। ७ ।।
कोहं वा कुत आयातः किं कार्य तु मदीयकम् ।।
कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना ।। ८ ।।
इति संशयमापन्नं बुद्धिर्मां समपद्यत ।।
किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु ।। ९ ।।
एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ।।
मत्कर्ता च स वै तत्र भविष्यति न संशयः ।।2.1.7.१०।।
इति बुद्धिं समास्थाय कमलादवरोहयन् ।।
नाले नालेगतस्तत्र वर्षाणां शतकं मुने ।।१ १।।
न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ।।
संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः ।। १२ ।।
आरुरोहाथ कमलं नालमार्गेण वै मुने ।।
कुड्मलं कमलस्याथ लब्धवान्न विमोहिताः ।।१३।।
नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ।।
क्षणमात्र तदा तत्र ततस्तिष्ठन्विमोहितः ।।१४।।
तदा वाणी समुत्पन्ना तपेति परमा शुभा ।।
शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने ।।१५।।
तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ।।
पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा।।१६।।
तदा हि भगवान्विष्णुश्चतुर्बाहुस्सुलोचनः ।।
मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह ।।१७।।
शंखचक्रायुधकरो गदापद्मधरः परः ।।
घनश्यामलसर्वांगः पीताम्बरधरः परः ।। १८ ।।
मुकुटादिमहाभूषः प्रसन्नमुखपंकजः ।।
कोटिकंदर्पसंकाशस्सन्दष्टो मोहितेन सः ।। १९ ।।
तद्दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः ।।
कालाभं कांचनाभं च सर्वात्मानं चतुर्भुजम् ।। 2.1.7.२० ।।
तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना ।।
नारायणं महाबाहु हर्षितो ह्यभवं तदा ।। २१ ।।
मायया मोहितश्शम्भोस्तदा लीलात्मनः प्रभोः ।।
अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः ।। २२ ।।
ब्रह्मोवाच ।।
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ।।
तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु ।। २३ ।।
प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ।।
ददर्श निद्राविक्लिन्ननीरजामललोचनः ।।२४।।
मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ।।
आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत् ।। २५ ।।
विष्णुरुवाच ।।
स्वागतं स्वागतं वत्स पितामह महाद्युते ।।
निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः ।। २६ ।।
तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः ।।
रजसा बद्धवैरश्च तमवोचं जनार्दनम् ।। २७ ।।
ब्रह्मोवाच ।।
भाषसे वत्स वत्सेति सर्वसंहारकारणम् ।।
मामिहाति स्मितं कृत्वा गुरुश्शिष्यमिवानघ ।। २८ ।।
कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ।।
सनातनमजं विष्णुं विरिंचिं विष्णुसंभवम् ।। २९ ।।
विश्वात्मानं विधातारं धातारम्पंकजेक्षणम् ।।
किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम् ।। 2.1.7.३० ।।
वेदो मां वक्ति नियमात्स्वयंभुवमजं विभुम् ।।
पितामहं स्वराजं च परमेष्ठिनमुत्तमम् ।। ३१ ।।
इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः ।।
सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः ।। ३२ ।।
विष्णुरुवाच ।। ।।
कर्तुं धर्त्तुं भवानंगादवतीर्णो ममाव्ययात् ।।
विस्मृतोऽसि जगन्नाथं नारायणमनामयम्।।३३।।
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ।।
विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्।।३४।।
नारायणं महाबाहुं सर्वव्याप कमीश्वरम् ।।
मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः ।। ३५ ।।
तवापराधो नास्त्यत्र त्वयि मायाकृतं मम ।।
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ।।३६।।
कर्ता हर्ता च भर्ता च न मयास्तिसमो विभुः ।।
अहमेव परं ब्रह्म परं तत्त्वं पितामह।।३७।।
अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ।।
अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिँश्चराचरम् ।। ३८ ।।
तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ।।
मया सृष्टं पुरा व्यक्तं चतुर्विंशतितत्त्वकम्।। ३९ ।।
नित्यं तेष्वणवो बद्धास्सृष्टक्रोधभयादयः ।।
प्रभावाच्च भवानंगान्यनेकानीह लीलया ।। 2.1.7.४० ।।
सृष्टा बुद्धिर्मया तस्यामहंकारस्त्रिधा ततः ।।
तन्मात्रं पंकजं तस्मान्मनोदेहेन्द्रियाणि च ।।४१।।
आकाशादीनि भूतानि भौतिकानि च लीलया ।।
इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे ।।४२।।
अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः ।।
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः ।।
को वा त्वमिति संभर्त्स्माब्रुवं मायाविमोहितः ।। ४३ ।।।
किमर्थं भाषसे भूरि वह्वनर्थकरं वचः ।।
नेश्वरस्त्वं परब्रह्म कश्चित्कर्ता भवेत्तव ।।४४।।
मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् ।।
हरिणा तेन वै सार्द्धं शंकरस्य महाप्रभोः ।। ४५ ।।
एवं मम हरेश्चासीत्संगरो रोमहर्षणः ।।
प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ।। ४६ ।।
एतस्मिन्नंतरे लिंगमभवच्चावयोः पुरः।।
विवादशमनार्थं हि प्रबोधार्थं तथाऽऽवयोः ।।४७।।
ज्लामालासहस्राढ्यं कालानलशतोपमम्।।
क्षयवृद्धि विनिर्मुक्तमादिमध्यांतवर्जितम्।।४८।।
अनौपम्यमनिर्देश्यमव्यक्तं विश्वसंभवम् ।।
तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः।।४९।।
मोहितं चाह मामत्र किमर्थं स्पर्द्धसेऽधुना ।।
आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः ।। 2.1.7.५० ।।
कुत एवात्र संभूतः परीक्षावो ऽग्निसंभवम् ।।
अधो गमिष्याम्यनलस्तंभस्यानुपमस्य च ।।५१।।
परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः ।।
भवानूर्द्ध्वं प्रयत्नेन गंतुमर्हति सत्वरम् ।। ५२ ।।
ब्रह्मोवाच ।।
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ।।
वाराहमहप्याशु हंसत्वं प्राप्तवान्मुने ।। ।। ५३ ।।
तदा प्रभृति मामाहुर्हंसहंसो विराडिति ।।
हंसहंसेति यो ब्रूयात्स हंसोऽथ भविष्यति ।। ५४ ।।
सुश्वे ह्यनलप्रख्यो विश्वतः पक्षसंयुतः ।।
मनोनिलजवो भूत्वा गत्वोर्द्ध्वं चोर्द्ध्वतः पुरा ।।५५।।
नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा।।
दश योजनविस्तीर्णं शतयोजनमायतम् ।।५६।।
मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् ।।
कालादित्यसमाभासं दीर्घघोणं महास्वनम् ।। ५७ ।।
ह्रस्वपादं विचित्रांगं जैत्रं दृढमनौपमम् ।।
वाराहाकारमास्थाय गतवांस्तदधौ जवात् ।। ५८ ।।
एवम्बर्षसहस्रं च चरन्विष्णुरधो गतः ।।
तथाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः ।।५९।।
कल्पो बभूव देवर्षे नराणां कालसंज्ञकः ।।
बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः ।। 2.1.7.६० ।।
नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ।।
तावत्कालं गतश्चोर्द्ध्वमहमप्यरिसूदन ।।६१।।
सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ।।
श्रान्तो न दृष्ट्वा तस्यांतमहं कालादधोगतः ।।६२।।
तथैव भगवान्विष्णुश्चांतं कमललोचनः ।।
सर्वदेवनिभस्तूर्णमुत्थितस्स महावपुः ।। ६३ ।।
समागतो मया सार्द्धं प्रणिपत्य भवं मुहुः ।।
मायया मोहितश्शंभोस्तस्थौ संविग्नमानसः ।। ६४ ।।
पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् ।।
प्रणिपत्य मया सार्द्धं सस्मार किमिदं त्विति ।।६५।।
अनिर्देश्यं च तद्रूपमनाम कर्मवर्जितम् ।।
अलिंगं लिंगतां प्राप्तं ध्यानमार्गेप्यगोचरम् ।।६६।।
स्वस्थं चित्तं तदा कृत्वा नमस्कार परायणो ।।
बभूवतुरुभावावामहं हरिरपि ध्रुवम्।।६७।।
जानीवो न हि ते रूपं योऽसियोऽसि महाप्रभो ।।
नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरन् ।।६८।।
एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः ।।
आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा ।।६९।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं हितायां प्रथमखंडे विष्णुब्रह्मविवादवर्णनोनाम सप्तमोऽध्यायः।।७।।