शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः ०६

विकिस्रोतः तः

।।ब्रह्मोवाच।।
भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ।।
लोकोपकारिणा नित्यं लोकानां हितकाम्यया ।। १ ।।
यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ।।
तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ।।२।।
शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ।।
ज्ञातश्च परमं रूपमद्भुतं च परेण न ।।३।।
महाप्रलयकाले च नष्टे स्थावरजंगमे ।।
आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ।।४।।
अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ।।
अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ।।२।।
अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ।।
अव्यक्तगंधरूपं च रसत्यक्तमदिङ्मुखम् ।। ६ ।।
इत्थं सत्यंधतमसे सूचीभेद्यं निरंतरे ।।
तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ।। ७ ।।
इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ।।
योगिनोंतर्हिताकाशे यत्पश्यंति निरंतरम् ।।८।।
अमनोगोचरम्वाचां विषयन्न कदाचन ।।
अनामरूपवर्णं च न च स्थूलं न यत्कृशम्।।९।।
अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ।।
न यत्रोपचयः कश्चित्तथा नापचयोऽपि च ।। 2.1.6.१०।।
अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ।।
सत्यं ज्ञानमनंतं च परानंदम्परम्महः ।। १ १।।
अप्रमेयमनाधारमविकारमनाकृति ।।
निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम् ।।१२।।
निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ।।
अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ।।१३।।
यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै ।।
कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ।। १४ ।।
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ।।
सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ।। १५ ।।
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ।।
सर्वेकवंद्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ।। १६ ।।
परिकल्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ।।
अद्वितीयमनाद्यंतं सर्वाभासं चिदात्मकम् ।।
अंतर्दधे पराख्यं यद्ब्रह्म सर्वगमव्ययम् ।। १७ ।।
अमूर्ते यत्पराख्यं वै तस्य मूर्तिस्सदाशिवः ।।
अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ।। ।। १८ ।।
शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ।।
स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ।। १९ ।।
प्रधानं प्रकृति तां च मायां गुणवतीं पराम् ।।
बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ।। 2.1.6.२० ।।
सा शक्तिरम्बिका प्रोक्ता प्रकृतिस्सकलेश्वरी।।
त्रिदेवजननी नित्या मूलकारणमित्युत ।। २१ ।।
अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा ।।
राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः ।।२२।।
नानाभरणसंयुक्ता नानागतिसमन्विता ।।
नानायुधधरा देवी फुल्लपंकजलोचना ।। २३ ।।
अचिंत्यतेजसा युक्ता सर्वयोनिस्समुद्यता ।।
एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ।। २४ ।।
परः पुमानीश्वरस्स शिवश्शंभुरनीश्वरः ।।
शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ।।२५।।
पंचवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ।।
कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः ।।२६।।
युगपच्च तया शक्त्या साकं कालस्वरूपिणा ।।
शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा।। २७ ।।
तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम् ।।
परं निर्वाणसंख्यानं सर्वोपरि विराजितम् ।। २८ ।।
ताभ्यां च रममाणाभ्यां च तस्मिन्क्षेत्रे मनोरमे ।।
परमानंदरूपाभ्यां परमानन्दरूपिणी ।।२९।।
मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन ।।
विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः।।2.1.6.३०।।
अस्यानन्दवनं नाम पुराकारि पिनाकिना ।।
क्षेत्रस्यानंदहेतुत्वादविमुक्तमनंतरम्।।३१।।
अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः।।
इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यपरः किल ।। ३२ ।।
यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ ।।
निर्वाणधारणं कुर्वः केवलं काशिशायिनौ ।।३३।।
स एव सर्वं कुरुतां स एव परिपातु च ।।
स एव संवृणोत्वं ते मदनुग्रहतस्सदा ।।३४।।
चेतस्समुद्रमाकुंच्य चिंताकल्लोललोलितम् ।।
सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ।।३५।।
यस्य प्रसादात्तिष्ठावस्सुखमानंदकानने।।
परिक्षिप्तमनोवृत्तौ बहिश्चिंतातुरे सुखम् ।।३६।।
संप्रधार्य्येति स विभुस्तया शक्त्या परेश्वरः ।।
सव्ये व्यापारयांचक्रे दशमेंऽगेसुधासवम् ।। ३७ ।।
ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः ।।
शांतस्सत्त्वगुणोद्रिक्तो गांभीर्य्यामितसागरः ।।३८।।
तथा च क्षमया युक्तो मुनेऽलब्धोपमो ऽभवत् ।।
इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः ।।३९ ।।
सुवर्णकृतिभृच्छ्रेष्ठ दुकूलयुगलावृतः ।।
लसत्प्रचंडदोर्दण्डयुगलोह्यपराजितः ।।2.1.6.४०।।
ततस्स पुरुषश्शंभुं प्रणम्य परमेश्वरम् ।।
नामानि कुरु मे स्वामिन्वद कर्मं जगाविति ।।४१।।
तच्छ्रुत्वा वचनम्प्राह शंकरः प्रहसन्प्रभुः ।।
पुरुषं तं महेशानो वाचा मेघगभीरया।।४२।।
शिव उवाच।।
विष्ण्वितिव्यापकत्वात्ते नाम ख्यातं भविष्यति।।
बहून्यन्यानि नामानि भक्तसौख्यकराणि ह ।।४३।।
तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् ।।
इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः ।।४४।।
ततोऽच्युतश्शिवं नत्वा चकार विपुलं तपः ।।
अंतर्द्धानं गतश्शक्त्या सलोकः परमेश्वरः ।।४९।।
दिव्यं द्वादश साहस्रं वर्षं तप्त्वापि चाच्युतः ।।
 न प्राप स्वाभिलषितं सर्वदं शंभुदर्शनम् ।। ४६ ।।
तत्तत्संशयमापन्नश्चिंतितं हृदि सादरम् ।।
मयाद्य किं प्रकर्तव्यमिति विष्णुश्शिवं स्मरन् ।। ४७ ।।
एतस्मिन्नंतरे वाणी समुत्पन्ना शिवाच्छुभा ।।
तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये ।। ४८ ।।
ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् ।।
बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि ।। ४९ ।।
ततस्स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः ।।
सुप्रीतो विस्मयं प्राप्तः किं यत्तव महा इति ।। 2.1.6.५० ।।
परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च ।।
जलधारा हि संयाता विविधाश्शिवमायया ।।५१।।
अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने ।।
ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम् ।। ५२ ।।
तदा श्रांतश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् ।।
सुष्वाप परम प्रीतो बहुकालं विमोहितः ।। ५३ ।।
नारायणेति नामापि तस्यसीच्छ्रुतिसंमतम् ।।
नान्यत्किंचित्तदा ह्यासीत्प्राकृतं पुरुषं विना।।५४।।
एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः ।।
तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते ।। ५५ ।।
प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः ।।
अहंकारस्ततो जातस्त्रिविधो गुणभेदतः ।। ५६ ।।
तन्मात्राश्च ततो जातः पञ्चभूतानि वै तता ।।
तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च ।।२७।।
तत्त्वानामिति संख्यानमुक्तं ते ऋषिसत्तम ।।
जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना ।।५८।।
तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसंख्यकम्।।
शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके ।।५९।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सृष्टिव्याख्यने प्रथमखंडे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः ।।६।।