शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः २२
ऋषयः ऊचुः ।
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ।
ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने १ ।
सूत उवाच ।
शृणुध्वं मुनयः सर्वे सावधानतयाधुना ।
सर्वं वदामि संप्रीत्या धन्या यूयं शिवव्रताः २ ।
शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः ।
भक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ३ ।
दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः ।
भक्ते तु शिवनैवेद्ये पुण्यान्या यांति कोटिशः ४ ।
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ।
भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ५ ।
यद्गृहे शिवनैवेद्यप्रचारोपि प्रजायते ।
तद्गृहं पावनं सर्वमन्यपावनकारणम् ६ ।
आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा ।
भक्षणीयं प्रयत्नेन शिवस्मरणपूर्वकम् ७ ।
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ।
विलंबे पापसंबंधो भवत्येव हि मानवे ८ ।
न यस्य शिवनैवेद्यग्रहणेच्छा प्रजायते ।
स पापिष्ठो गरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ९ ।
हृदये चन्द्र कान्ते च स्वर्णरूप्यादिनिर्मिते ।
शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्य्यते 1.22.१० ।
शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम् ।
सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ११ ।
अन्यदीक्षायुजां नॄणां शिवभक्तिरतात्मनाम् ।
शृणुध्वं निर्णयं प्रीत्या शिवनैवेद्यभक्षणे १२ ।
शालग्रामोद्भवे लिंगे रसलिंगे तथा द्विजाः ।
पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते १३ ।
काश्मीरे स्फाटिके रात्ने ज्योतिर्लिंगेषु सर्वशः ।
चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम् १४ ।
ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।
भक्षयित्वा द्रुतं तस्य सर्वपापं प्रणश्यति १५ ।
चंडाधिकारो यत्रास्ति तद्भोक्तव्यं न मानवैः ।
चंडाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः १६ ।
बाणलिंगे च लौहे च सिद्धे लिंगे स्वयंभुवि ।
प्रतिमासु च सर्वासु न चंडोधिकृतो भवेत् १७ ।
स्नापयित्वा विधानेन यो लिंगस्नापनोदकम् ।
त्रिःपिबेत्त्रिविधं पापं तस्येहाशु विनश्यति १८ ।
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् १९ ।
लिंगोपरि च यद्द्रव्यं तदग्राह्यं मुनीश्वराः ।
सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः 1.22.२० ।
नैवेद्यनिर्णयः प्रोक्तं इत्थं वो मुनिसत्तमाः ।
शृणुध्वं बिल्वमाहात्म्यं सावधानतयाऽदरात् २१ ।
महादेवस्वरूपोयं बिल्वो देवैरपि स्तुतिः ।
यथाकथंचिदेतस्य महिमा ज्ञायते कथम् २२ ।
पुण्यतीर्थानि यावंति लोकेषु प्रथितान्यपि ।
तानि सर्वाणि तीर्थानिबिल्वमूलेव संति हि २३ ।
बिल्वमूले महादेवं लिंगरूपिणमव्ययम् ।
यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् २४ ।
बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति ।
स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः २५ ।
एतस्य बिल्वमूलस्याथालवालमनुत्तमम् ।
जलाकुलं महादेवो दृष्ट्वा तुष्टोभवत्यलम् २६ ।
पूजयेद्बिल्वमूलं यो गंधपुष्पादिभिर्नरः ।
शिवलोकमवाप्नोति संततिर्वर्द्धते सुखम् २७ ।
बिल्वमूले दीपमालां यः कल्पयति सादरम् ।
स तत्त्वज्ञानसंपन्नो महेशांतर्गतो भवेत् २८ ।
बिल्वशाखां समादाय हस्तेन नवपल्लवम् ।
गृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते २९ ।
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ।
एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते 1.22.३० ।
बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् ।
यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ३१ ।
सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् ।
प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ३२ ।
प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत् 33।
अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् ।
पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे ३४ ।
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ।
निवृत्तानां परं सूक्ष्मं लिंगमेव विशिष्यते ३५ ।
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ।
पूजां कृत्वा तथा लिंगं शिरसाधारयेत्सदा ३६ ।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनामद्वाविंशोऽध्यायः २२ ।