शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

ऋषय ऊचुः
प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने
शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो १
सूत उवाच
तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः
अस्योत्तरं महादेवो जानाति स्म न चापरः २
अथापि वक्ष्ये तमहं शिवस्य कृपयैव हि
शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ३
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः
नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ४
प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः
प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ५
स्वजापकानां योगिनां स्वमंत्रपूजकस्य च
सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ६
तमेव मायारहितं नूतनं परिचक्षते
प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ७
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः
प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ८
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पंचाक्षरं विदुः
सूक्ष्ममव्यक्तपंचार्णं सुव्यक्तार्णं तथेतरत् ९
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि
मंत्रेणार्थानुसंधानं स्वदेहविलयावधि 1.17.१०
स्वदेहेगलिते पूर्णं शिवं प्राप्नोति निश्चयः
केवलं मंत्रजापी तु योगं प्राप्नोति निश्चयः ११
षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात्
सूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः १२
अकारश्च उकारश्च मकारश्च ततः परम्
बिंदुनादयुतं तद्धि शब्दकालकलान्वितम् १३
दीर्घप्रणवमेवं हि योगिनामेव हृद्गतम्
मकारं तंत्रितत्त्वं हि ह्रस्वप्रणव उच्यते १४
शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम्
ह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम् १५
भूवायुकनकार्णोद्योःशब्दाद्याश्च तथा दश
आशान्वयेदशपुनः प्रवृत्ता इति कथ्यते १६
ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम्
व्याहृत्यादौ च मंत्रादौ कामं शब्दकलायुतम् १७
वेदादौ च प्रयोज्यं स्याद्वंदने संध्ययोरपि
नवकौटिजपाञ्जप्त्वा संशुद्धः पुरुषो भवेत् १८
पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात्
पुनश्च नवकोट्या तु ह्यपांजयमवाप्नुयात् १९
पुनश्च नवकोट्या तु तेजसांजयमाप्नुयात्
पुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात्
आकाशजयमाप्नोति नवकोटिजपेन वै 1.17.२०
गंधादीनांक्रमेणैवनवकोटिजपेणवै
अहंकारस्य च पुनर्नव कोटिजपेन वै २१
सहस्रमंत्रजप्तेन नित्यशुद्धो भवेत्पुमान्
ततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः २२
एवमष्टोत्तरशतकोटिजप्तेन वै पुनः
प्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात् २३
शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः
सदा जपन्सदाध्यायञ्छिवं प्रणवरूपिणम् २४
समाधिस्थो महायोगीशिव एव न संशयः
ऋषिच्छंदोदेवतादि न्यस्य देहेपुनर्जपेत् २५
प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत्
दशमातृषडध्वादि सर्वं न्यासफलं लभेत् २६
प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते
क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः २७
धनादिविभवैश्चैव कराद्यंगैर्नमादिभिः
क्रियया पूजया युक्तः क्रियायोगीति कथ्यते २८
पूजायुक्तश्च मितभुग्बाह्येंद्रि यजयान्वितः
परद्रो हादिरहितस्तपोयोगीति कथ्यते २९
एतैर्युक्तः सदा क्रुद्धः सर्वकामादिवर्जितः
सदा जपपरः शांतोजपयोगीति तं विदुः 1.17.३०
उपचारैः षोडशभिः पूजया शिवयोगिनाम्
सालोक्यादिक्रमेणैव शुद्धो मुक्तिं लभेन्नरः ३१
जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः
तपःकर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते ३२
शिवनाम नमःपूर्वं चतुर्थ्यां पंचतत्त्वकम्
स्थूलप्रणवरूपं हि शिवपंचाक्षरं द्विजाः ३३
पंचाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः
प्रणवेनादिसंयुक्तं सदा पंचाक्षरं जपेत् ३४
गुरूपदेशं संगम्य सुखवासे सुभूतले
पूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः ३५
माघं भाद्रं विशिष्टं तु सर्वकालोत्तमोत्तमम्
एकवारं मिताशीतु वाग्यतो नियतेंद्रि यः ३६
स्वस्य राजपितृ-णां च शुश्रूषणं च नित्यशः
सहस्रजपमात्रेण भवेच्छुद्धोऽन्यथा ऋणी ३७
पंचाक्षरं पंचलक्षं जपेच्छिवमनुस्मरन्
पद्मासनस्थं शिवदं गंगाचंद्र कलान्वितम् ३८
वामोरुस्थितशक्त्या च विराजं तं महागणैः
मृगटंकधरं देवं वरदाभयपाणिकम् ३९
सदानुग्रहकर्त्तारं सदा शिवमनुस्मरन्
संपूज्य मनसा पूर्वं हृदिवासूर्यमंडले 1.17.४०
जपेत्पंचाक्षरीं विद्यां प्राण्मुखः शुद्धकर्मकृत्
प्रातः कृष्णचतुर्दश्यां नित्यकर्मसमाप्य च ४१
मनोरमे शुचौ देशे नियतः शुद्धमानसः
पंचाक्षरस्य मंत्रस्य सहस्रं द्वादशं जपेत् ४२
वरयेच्च सपत्नीकाञ्छैवान्वै ब्राह्मणोत्तमान्
एकं गुरुवरं शिष्टं वरयेत्सांबमूर्तिकम् ४३
ईशानं चाथ पुरुषमघोरं वाममेव च
सद्योजातं च पंचैव शिवभक्तान्द्विजोत्तमान् ४४
पूजाद्र व्याणि संपाद्य शिवपूजां समारभेत्
शिवपूजां च विधिवत्कृत्वा होमं समारभेत् ४५
मुखांतं च स्वसूत्रेण कृत्वा होमं समारभेत्
दशैकं वा शतैकं वा सहस्रैकमथापि वा ४६
कापिलेन घृतेनैव जुहुयात्स्वयमेव हि
कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः ४७
होमान्ते दक्षिणा देया गुरोर्गोमिथुनं तथा
ईशानादिस्वरूपांस्तान्गुरुं सांबं विभाव्य च ४८
तेषां पत्सिक्ततोयेन स्वशिरः स्नानमाचरेत्
षट्त्रिंशत्कोटितीर्थेषु सद्यः स्नानफलं लभेत् ४९
दशांगमन्नं तेषां वै दद्याद्वैभक्तिपूर्वकम्
पराबुद्ध्या गुरोः पत्नीमीशानादिक्रमेण तु 1.17.५०
परमान्नेन संपूज्य यथाविभवविस्तरम्
रुद्रा क्षवस्त्रपूर्वं च वटकापूपकैर्युतम् ५१
बलिदानं ततः कृत्वा भूरिभोजनमाचरेत्
ततः संप्रार्थ्य देवेशं जपं तावत्समापयेत् ५२
पुरश्चरणमेवं तु कृत्वा मन्त्रीभवेन्नरः
पुनश्च पंचलक्षेण सर्वपापक्षयो भवेत् ५३
अतलादि समारभ्य सत्यलोकावधिक्रमात्
पंचलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ५४
मध्ये मृतश्चेद्भोगांते भूमौ तज्जापको भवेत्
पुनश्च पंचलक्षेण ब्रह्मसामीप्यमाप्नुयात् ५५
पुनश्च पंचलक्षेण सारूप्यैश्वर्यमाप्नुयात्
आहत्य शतलक्षेण साक्षाद्ब्रह्मसमो भवेत् ५६
कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै
यथेष्टं भोगमाप्नोति तद्ब्रह्मप्रलयावधि ५७
पुनः कल्पांतरे वृत्ते ब्रह्मपुत्रः सजायते
पुनश्च तपसा दीप्तः क्रमान्मुक्तो भविष्यति ५८
पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात्
पातालादि च सत्यांतं ब्रह्मलोकाश्चतुर्दश ५९
सत्यादूर्ध्वं क्षमांतं वैविष्णुलोकाश्चतुर्दश
क्षमलोके कार्यविष्णुर्वैकुंठे वरपत्तने 1.17.६०
कार्यलक्ष्म्या महाभोगिरक्षां कृत्वाऽधितिष्ठति
तदूर्ध्वगाश्च शुच्यंतां लोकाष्टाविंशतिः स्थिताः ६१
शुचौ लोके तु कैलासे रुद्रो वै भूतहृत्स्थितः
षडुत्तराश्च पंचाशदहिंसांतास्तदूर्ध्वगाः ६२
अहिंसालोकमास्थाय ज्ञानकैलासके पुरे
कार्येश्वरस्तिरोभावं सर्वान्कृत्वाधितिष्ठति ६३
तदंते कालचक्रं हि कालातीतस्ततः परम्
शिवेनाधिष्ठितस्तत्र कालश्चक्रेश्वराह्वयः ६४
माहिषं धर्ममास्थाय सर्वान्कालेन युंजति
असत्यश्चाशुचिश्चैव हिंसा चैवाथ निर्घृणा ६५
असत्यादिचतुष्पादः सर्वांशः कामरूपधृक्
नास्तिक्यलक्ष्मीर्दुःसंगो वेदबाह्यध्वनिः सदा ६६
क्रोधसंगः कृष्णवर्णो महामहिषवेषवान्
तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ६७
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम्
तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ६८
मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते
मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते ६९
तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः
तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् 1.17.७०
तदर्वाक्पाशबंधो हि तदूर्ध्वं न हि बंधनम्
तदर्वाक्परिवर्तंते काम्यकर्मानुसारिणः ७१
निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः
तदर्वाक्परिवर्तंते बिंदुपूजापरायणाः ७२
तदूर्ध्वं हि व्रजंत्येव निष्कामा लिंगपूजकाः
तदर्वाक्परिवर्तंते शिवान्यसुरपूजकाः ७३
शिवैकनिरता ये च तदूर्ध्वं संप्रयांति ते
तदर्वाग्जीवकोटिः स्यात्तदूर्ध्वं परकोटिकाः ७४
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः
तदर्वाक्परिवर्तंते प्राकृतद्र व्यपूजकाः ७५
तदूर्ध्वं हि व्रजंत्येते पौरुषद्र व्यपूजकाः
तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ७६
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति
तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ७७
तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम्
तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ७८
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम्
तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ७९
नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः
जनिजं वै तिरोधानं नानिषिद्ध्यातते इति 1.17.८०
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात्
तदर्वाक्परिवर्तंते ह्याधिभौतिकपूजकाः ८१
आध्यात्मिकार्चका एव तदूर्ध्वं संप्रयांतिवै
तावद्वै वेदिभागं तन्महालोकात्मलिंगके ८२
प्रकृत्याद्यष्टबंधोपि वेद्यंते संप्रतिष्ठतः
एवमेतादृशं ज्ञेयं सर्वं लौकिकवैदिकम् ८३
अधर्ममहिषारूढं कालचक्रं तरंति ते
सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये ८४
तदूर्ध्वं वृषभो धर्मो ब्रह्मचर्यस्वरूपधृक्
सत्यादिपादयुक्तस्तु शिवलोकाग्रतः स्थितः ८५
क्षमाशृङ्गः शमश्रोत्रो वेदध्वनिविभूषितः
आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ८६
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा
तं क्रियावृषभं धर्मं कालातीतोधितिष्ठति ८७
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते
तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ८८
पुनः कारणसत्यांताः कारणब्रह्मणस्तथा
गंधादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ८९
सूक्ष्मगंधस्वरूपा हि स्थिता लोकाश्चतुर्दश
पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश 1.17.९०
पुनःकारणरुद्र स्य लोकाष्टाविंशका मताः
पुनश्च कारणेशस्य षट्पंचाशत्तदूर्ध्वगाः ९१
ततः परं ब्रह्मचर्यलोकाख्यं शिवसंमतम्
तत्रैव ज्ञानकैलासे पंचावरणसंयुते ९२
पंचमंडलसंयुक्तं पंचब्रह्मकलान्वितम्
आदिशक्तिसमायुक्तमादिलिंगं तु तत्र वै ९३
शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः
परशक्त्यासमायुक्तस्तत्रैव परमेश्वरः ९४
सृष्टिः स्थितिश्च संहारस्तिरोभावोप्यनुग्रहः
पंचकृत्यप्रवीणोऽसौ सच्चिदानंदविग्रहः ९५
ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः
समाध्यासनमासीनः स्वात्मारामो विराजते ९६
तस्य संदर्शनं सांध्यं कर्मध्यानादिभिः क्रमात्
नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ९७
क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत्
तद्दर्शनगताः सर्वे मुक्ता एव न संशयः ९८
मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि
क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ९९
शिवस्य दर्शनं लब्धा स्वात्मारामत्वमेव हि
यथा रविः स्वकिरणादशुद्धिमपनेष्यति 1.17.१००
कृपाविचक्षणः शंभुरज्ञानमपनेष्यति
अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते १०१
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति
आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः १०२
पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात्
पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् १०३
पुनश्च शतलक्षेण रुद्र स्य पदमाप्नुयात्
पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् १०४
पुनश्चैवंविधेनैव जपेन सुसमाहितः
शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् १०५
कालचक्रं पंचचक्रमेकैकेन क्रमोत्तरे
सृष्टिमोहौ ब्रह्मचक्रं भोगमोहौ तु वैष्णवम् १०६
कोपमोहौ रौद्र चक्रं भ्रमणं चैश्वरं विदुः
शिवचक्रं ज्ञानमोहौ पंचचक्रं विदुर्बुधाः १०७
पुनश्च दशकोट्या हि कारणब्रह्मणः पदम्
पुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् १०८
एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः
क्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः १०९
शतकोटिमनुं जप्त्वा पंचोत्तरमतंद्रि तः
शिवलोकमवाप्नोति पंचमावरणाद्बहिः 1.17.११०
राजसं मंडपं तत्र नंदीसंस्थानमुत्तमम्
तपोरूपश्च वृषभस्तत्रैव परिदृश्यते १११
सद्योजातस्य तत्स्थानं पंचमावरणं परम्
वामदेवस्य च स्थानं चतुर्थावरणं पुनः ११२
अघोरनिलयं पश्चात्तृतीयावरणं परम्
पुरुषस्यैव सांबस्य द्वितीयावरणं शुभम् ११३
ईशानस्य परस्यैव प्रथमावरणं ततः
ध्यानधर्मस्य च स्थानं पंचमं मंडपं ततः ११४
बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम्
चतुर्थं मंडपं पश्चाच्चंद्र शेखरमूर्तिमत् ११५
सोमस्कंदस्य च स्थानं तृतीयं मंडपं परम्
द्वितीयं मंडपं नृत्यमंडपं प्राहुरास्तिकाः ११६
प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम्
ततः परं गर्भगृहं लिंगस्थानं परं शुभम् ११७
नंदिसंस्थानतः पश्चान्न विदुः शिववैभवम्
नंदीश्वरो बहिस्तिष्ठन्पंचाक्षरमुपासते ११८
एवं गुरुक्रमाल्लब्धं नंदीशाच्च मया पुनः
ततः परं स्वसंवेद्यं शिवे नैवानुभावितम् ११९
शिवस्य कृपया साक्षाच्छिव लोकस्य वैभवम्
विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः 1.17.१२०
एवंक्रमेणमुक्ताः स्युर्ब्राह्मणा वै जितेंद्रि यः
अन्येषां च क्रमं वक्ष्ये गदतः शृणुतादरात् १२१
गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमोऽतकम्
पंचाक्षरं पंचलक्षमायुष्यं प्रजपेद्विधिः १२२
स्त्रीत्वापनयनार्थं तु पंचलक्षं जपेत्पुनः
मंत्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद्बुधः १२३
क्षत्रियः पंचलक्षेण क्षत्त्रत्वमपनेष्यति
पुनश्च पंचलक्षेण क्षत्त्रियो ब्राह्मणो भवेत् १२४
मंत्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवैन्नरः
वैश्यस्तु पंचलक्षेण वैश्यत्वमपनेष्यति १२५
पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते
पुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति १२६
पुनश्च पंचलक्षेण मंत्रब्राह्मण उच्यते
शूद्र श्चैव नमॐतेन पंचविंशतिलक्षतः १२७
मंत्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्द्विजः
नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा १२८
नमोन्तं वा नमःपूर्वमातुरः सर्वदा जपेत्
ततः स्त्रीणां तथैवोह्यगुरुर्निर्दर्शयेत्क्रमात् १२९
साधकः पंचलक्षान्ते शिवप्रीत्यर्थमेव हि
महाभिषेक नैवेद्यं कृत्वा भक्तांश्च पूजयेत् 1.17.१३०
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत्
शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः १३१
शिवस्वरूपमंत्रस्य धारणाच्छिव एव हि
शिवभक्तशरीरे हि शिवे तत्परमो भवेत् १३२
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियां विदुः
यावद्यावच्छिवं मंत्रं येन जप्तं भवेत्क्रमात् १३३
तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः
देवीलिंगं भवेद्रू पं शिवभक्तस्त्रियास्तथा १३४
यावन्मंत्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि
शिवं संपूजयेद्धीमान्स्वयं वै शब्दरूपभाक् १३५
स्वयं चैव शिवो भूत्वा परां शक्तिं प्रपूजयेत्
शक्तिं बेरं च लिंगं च ह्यालेख्या मायया यजेत् १३६
शिवलिंगं शिवं मत्वा स्वात्मानं शक्तिरूपकम्
शक्तिलिंगं च देवीं च मत्वा स्वं शिवरूपकम् १३७
शिवलिंगं नादरूपं बिंदुरूपं तु शक्तिकम्
उपप्रधानभावेन अन्योन्यासक्तलिंगकम् १३८
पूजयेच्च शिवं शक्तिं स शिवो मूलभावनात्
शिवभक्ताञ्छिवमंत्ररूपकाञ्छिवरूपकान् १३९
षोडशैरुपचारैश्च पूजयेदिष्टमाप्नुयात्
येन शुश्रूषणाद्यैश्च शिवभक्तस्य लिंगिनः 1.17.१४०
आनंदं जनयेद्विद्वाञ्छिवः प्रीततरो भवेत्
शिवभक्तान्सपत्नीकान्पत्न्या सह सदैव तत् १४१
पूजयेद्भोजनाद्यैश्च पंच वा दश वा शतम्
धने देहे च मंत्रे च भावनायामवंचकः १४२
शिवशक्तिस्वरूपेण न पुनर्जायते भुवि
नाभेरधो ब्रह्मभागमाकंठं विष्णुभागकम् १४३
मुखं लिंगमिति प्रोक्तं शिवभक्तशरीरकम्
मृतान्दाहादियुक्तान्वा दाहादिरहितान्मृतान् १४४
उद्दिश्य पूजयेदादिपितरं शिवमेव हि
पूजां कृत्वादिमातुश्च शिवभक्तांश्च पूजयेत् १४५
पितृलोकं समासाद्यक्रमान्मुक्तो भवेन्मृतः
क्रियायुक्तदशभ्यश्च तपोयुक्तो विशिष्यते १४६
तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते
जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते १४७
शिवज्ञानिषु लक्षेषु ध्यानयुक्तो विशिष्यते
ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते १४८
उत्तरोत्तर वै शिष्ट्यात्पूजायामुत्तरोत्तरम्
फलं वैशिष्ट्यरूपं च दुर्विज्ञेयं मनीषिभिः १४९
तस्माद्वै शिवभक्तस्य माहात्म्यं वेत्ति को नरः
शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् 1.17.१५०
कुरुते यो नरो भक्त्या स शिवः शिवमेधते
य इमं पठतेऽध्यायमर्थवद्वेदसंमतम् १५१
शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते
श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः १५२
शिवप्रसादशिद्धिः स्याच्छिवस्य कृपया बुधाः १५३
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तदशोऽध्यायः १७