शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः
देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम्
सूत उवाच
शुद्धं गृहं समफलं देवयज्ञादिकर्मसु १
ततो दशगुणं गोष्ठं जलतीरं ततो दश
ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् २
ततो देवालयं विद्यात्तीर्थतीरं ततो दश
ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ३
सप्तगंगानदीतीरं तस्या दशगुणं भवेत्
गंगा गोदावरी चैव कावेरी ताम्रपर्णिका ४
सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः
ततोऽब्धितीरं दश च पर्वताग्रे ततो दश ५
सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः
कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ६
त्रेतायुगे त्रिपादं च द्वापरेऽर्धं सदा स्मृतम्
कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्द्धके ७
शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः
तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः ८
विषुवे तद्दशगुणमयने तद्दश स्मृतम्
तद्दश मृगसंक्रांतौ तच्चंद्र ग्रहणे दश ९
ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः
जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम् 1.15.१०
अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत्
विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ११
जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः
महतां संगकालश्च कोट्यर्कग्रहणं विदुः १२
तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा
पूजायाः पात्रमेते हि पापसंक्षयकारणम् १३
चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः
ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् १४
पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते
दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते १५
गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा
यथाऽर्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति १६
अर्थवानिह यो लोके परस्यार्थं प्रयच्छति
स्वयं शुद्धो हि पूतात्मा नरान्संत्रातुमर्हति १७
गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते
तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि १८
दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति
अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् १९
ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम्
तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम् 1.15.२०
इच्छावतः प्रदानं च संपूर्णफलदं विदुः
यत्प्रश्नानंतरं दत्तं तदर्धं फलदं विदुः २१
यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः
जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः २२
दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम्
वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् २३
गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम्
विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः २४
शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः
तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते २५
दशांगमन्नं विप्रस्य भानुवारे ददन्नरः
परजन्मनि चारोग्यं दशवर्षं समश्नुते २६
बहुमानमथाह्वानमभ्यंगं पादसेवनम्
वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम् २७
षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम्
नमश्चानुगमश्चैव स्वन्नदानं दशांगकम् २८
दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः
अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते २९
सोमवारादिवारेषु तत्तद्वारगुणं फलम्
अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि 1.15.३०
सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम्
अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ३१
एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः
सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ३२
सहस्रेभ्यस्तथा दत्त्वाऽयुतवर्षं समश्नुते
एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ३३
भानुवारे सहस्राणां गायत्रीपूतचेतसाम्
अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ३४
अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते
अन्नं दत्त्वा तु लक्षाणां रुद्र लोके समश्नुते ३५
बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः
यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ३६
वृद्धानां रुद्र बुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः
बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ३७
लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः
वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ३८
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम्
शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ३९
शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते
कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते 1.15.४०
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम्
उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ४१
स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा
गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ४२
संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये
गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ४३
रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा
गोदानाद्दत्तगव्येन गोमयेनोपकारिणा ४४
धनधान्याद्याश्रितानां दुरितानां निवारणम्
जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ४५
कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा
तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ४६
भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः
तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ४७
हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा
आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ४८
धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम्
रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ४९
सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः
प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः 1.15.५०
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम्
पनसाम्रकपित्थानां वृक्षाणां फलमेव च ५१
कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा
माषादीनां च मुद्गानां फलं शाकादिकं तथा ५२
मरीचिसर्षपाद्यानां शाकोपकरणं तथा
यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ५३
श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता
शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ५४
वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम्
कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ५५
बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी
सर्वाभावे दरिद्र स्तु वाचा वा कर्मणा यजेत् ५६
वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम्
तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः ५७
येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु
देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ५८
तपश्चर्या च दानं च कर्तव्यमुभयं सदा
प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ५९
देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः
इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः
ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् 1.15.६०
य इमं पठतेऽध्यायं यः शृणोति सदा नरः
तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ६१
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचदशोध्यायः १५