सामग्री पर जाएँ

शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ११

विकिस्रोतः तः

ऋषय ऊचुः ।
कथं लिंगं प्रतिष्ठाप्यं कथं वातस्य लक्षणम् ।
कथं वा तत्समभ्यर्च्यं देशे काले च केन हि १ ।
सूत उवाच ।
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ।
अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा २।
यथेष्टं लिंगमारोप्यं यत्र स्यान्नित्यमर्चनम् ।
पार्थिवेन तथाप्येनं तैजसेन यथारुचि ३ ।
कल्पलक्षणसंयुक्तं लिंगं पूजाफलं लभेत् ।
सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ४ ।
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ।
सलक्षणं सपीठं च स्थापयेच्छिवनिर्मितम् ५ ।
मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ।
खट्वांगवन्मध्यसूक्ष्मं लिंगपीठं महाफलं ६ ।
प्रथमं मृच्छिलादिभ्यो लिगं लोहादिभिः कृतम् ।
येन लिंगं तेन पीठं स्थावरे हि विशिष्यते ७ ।
लिंगं पीठं चरे त्वेकं लिंगं बाणकृतं विना ।
लिंगप्रमाणं कर्तृ-णां द्वादशांगुलमुत्तमम् ८ ।
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दूष्यते ।
कर्तुरेकांगुलन्यूनं चरेपि च तथैव हि ९ ।
आदौ विमानं शिल्पेन कार्यं देवगणैर्युतम् ।
तत्र गर्भगृहे रम्ये दृढे दर्पणसंनिभे 1.11.१० ।
भूषिते नवरत्नैश्च दिग्द्वारे च प्रधानकैः ।
नीलं रक्तं च वै दूर्यं श्यामं मारकतं तथा ११ ।
मुक्ताप्रवालगोमेदवज्राणि नवरत्नकम् १२ब्।
मध्ये लिंगं महद्द्रव्यं निक्षिपेत्सहवैदिके १२ ।
संपूज्य लिंगं सद्याद्यैः पंचस्थाने यथाक्रमम् ।
अग्नौ च हुत्वा बहुधा हविषास कलं च माम् १३ ।
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बांधवम् ।
दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा १४ ।
स्थावरं जंगमं जीवं सर्वं संतोष्य यत्नतः ।
सुवर्णपूरिते श्वभ्रे नवरत्नैश्च पूरिते १५ ।
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ।
उदीर्य च महामंत्रमॐकारं नादघोषितम् १६ ।
लिंगं तत्र प्रतिष्ठाप्य लिगं पीठेन योजयेत् ।
लिंगं सपीठं निक्षिप्य नित्यलेपेन बंधयेत् १७ ।
एवं बेरं च संस्थाप्यं तत्रैव परमं शुभम् ।
पंचाक्षरेण बेरं तु उत्सवार्थं वहिस्तथा १८ ।
बेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ।
एवं लिंगे च बेरे च पूजा शिवपदप्रदा १९ ।
पुनश्च द्विविधं प्रोक्तं स्थावरं जंगमं तथा ।
स्थावरं लिंगमित्याहुस्तरुगुल्मादिकं तथा 1.11.२० ।
जंगमं लिंगमित्याहुः कृमिकीटादिकं तथा ।
स्थावरस्य च शुश्रूषा जंगमस्य च तर्पणम् २१ ।
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ।
पीठमंबामयं सर्वं शिवलिंगं च चिन्मयम् २२ ।
यथा देवीमुमामंके धृत्वा तिष्ठति शंकरः ।
तथा लिंगमिदं पीठं धृत्वा तिष्ठति संततम् २३ ।
एवं स्थाप्य महालिंगं पूजयेदुपचारकैः ।
नित्यपूजा यथा शक्तिध्वजादिकरणं तथा २४ ।
इति संस्थापयेल्लिंगं साक्षाच्छिवपदप्रदम् ।
अथवा चरलिंगं तु षोडशैरुपचारकैः २५ ।
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ।
आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च २६ ।
तदंगाचमनं चैव स्नानमभ्यंगपूर्वकम् ।
वस्त्रं गंधं तथा पुष्पं धूपं दीपं निवेदनम् २७ ।
नीराजनं च तांबूलं नमस्कारो विसर्जनम् ।
अथवाऽर्घ्यादिकं कृत्वा नैवेद्यां तं यथाविधि २८ ।
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ।
यथाशक्ति सदाकुर्यात्क्रमाच्छिवपदप्रदम् २९ ।
अथवा मानुषे लिंगेप्यार्षे दैवे स्वयंभुवि ।
स्थापितेऽपूर्वके लिंगे सोपचारं यथा तथा 1.11.३० ।
पूजोपकरणे दत्ते यत्किंचित्फलमश्नुते ।
प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ३१ ।
लिंगं दर्शनमात्रं वा नियमेन शिवप्रदम् ।
मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ३२ ।
गुडेन नवनीतेन भस्मनान्नैर्यथारुचि ।
लिंगं यत्नेन कृत्वांते यजेत्तदनुसारतः ३३ ।
अंगुष्ठादावपि तथा पूजामिच्छंति केचन ।
लिंगकर्मणि सर्वत्र निषेधोस्ति न कर्हिचित् ३४ ।
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ।
अथवा लिंगदानं वा लिंगमौल्यमथापि वा ३५ ।
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ।
अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ३६ ।
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ।
जपकाले मकारांतं मनःशुद्धिकरं भजेत् ३७ ।
समाधौ मानसं प्रोक्तमुपांशु सार्वकालिकम् ।
समानप्रणवं चेमं बिंदुनादयुतं विदुः ३८ ।
अथ पंचाक्षरं नित्यं जपेदयुतमादरात् ।
संध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ३९ ।
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ।
दीक्षायुक्तं गुरोर्ग्राह्यं मंत्रं ह्यथ फलाप्तये 1.11.४० ।
कुंभस्नानं मंत्रदीक्षां मातृकान्यासमेव च ।
ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ४१ ।
द्विजानां च नमःपूर्वमन्येषां च नमोन्तकम् ४२ब्।
स्त्रीणां च क्वचिदिच्छंति नमो तं च यथाविधि ४२ ।
विप्रस्त्रीणां नमः पूर्वमिदमिच्छंति केचन ।
पंचकोटिजपं कृत्वा सदा शिवसमो भवेत् ४३ ।
एकद्वित्रिचतुःकोट्याब्रह्मादीनां पदं व्रजेत् ।
जपेदक्षरलक्षंवा अक्षराणां पृथक्पृथक् ४४ ।
अथवाक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ।
सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ४५ ।
जपेन्मंत्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ।
अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ४६ ।
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदान् ।
वेदमंत्रांस्तु सूक्तानि जपेन्नियममास्थितः ४७ ।
एकं दशार्णं मंत्रं च शतोनं च तदूर्ध्वकम् ।
अयुतं च सहस्रं च शतमेकं विना भवेत् ४८ ।
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ।
अन्यान्बहुतरान्मंत्राञ्जपेदक्षरलक्षतः ४९ ।
एकाक्षरांस्तथा मंत्राञ्जपेदक्षरकोटितः ।
ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् 1.11.५० ।
एवं कुर्याद्यथाशक्ति क्रमाच्छिव पदं लभेत् ।
नित्यं रुचिकरं त्वेकं मंत्रमामरणांतिकम् ५१ ।
जपेत्सहस्रमोमिति सर्वाभीष्टं शिवाज्ञया ।
पुष्पारामादिकं वापि तथा संमार्जनादिकम् ५२ ।
शिवाय शिवकार्याथे कृत्वा शिवपदं लभेत् ।
शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ५३ ।
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ।
तस्माद्वासं शिवक्षेत्रे कुर्यदामरणं बुधः ५४ ।
लिंगाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ।
सहस्रारत्निमात्रं तु पुण्यक्षेत्रे तथार्षके ५५ ।
दैवलिंगे तथा ज्ञेयं सहस्रारत्निमानतः ।
धनुष्प्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयं भुवि ५६ ।
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ।
शिवगंगेति विज्ञेयं शिवस्य वचनं यथा ५७ ।
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ।
शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ५८ ।
दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ।
आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ५९ ।
सर्वपाप विनिर्मुक्तः सद्यः शिवपदं लभेत् ।
अथवा सप्तरात्रं वा वसेद्वा पंचरात्रकम् 1.11.६० ।
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ।
स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ६१ ।
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ।
सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ६२ ।
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ।
प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ६३ ।
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ।
सायाह्नं शांतिकं ज्ञेयं रात्रावपि तथैव हि ६४ ।
कालो निशीथो वै प्रोक्तोमध्ययामद्वयं निशि ।
शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ६५ ।
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ।
कलौ युगे विशेषेण फलसिद्धिस्तु कर्मणा ६६ ।
उक्तेन केनचिद्वापि अधिकारविभेदतः ।
सद्वृत्तिः पापभीरुश्चेत्ततत्फलमवाप्नुयात् ६७ ।
ऋषय ऊचुः ।
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ।
सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ६८ ।
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ।
सूत उवाच ।
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ६९ ।
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायांएकदशोऽध्यायः ११ ।