शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search

नंदिकेश्वर उवाच
तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ
बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ १
तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने
पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः २
पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम्
हारनूपुरकेयूरकिरीटमणिकुंडलैः ३
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः
पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः ४
धूपदीपसितच्छत्रव्यजनध्वजचामरैः
अन्यैर्दिव्योपहारैश्च वाण्मनोतीतवैभवैः ५
पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम्
यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे ६
तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया
सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम् ७
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम्
तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा ८
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः
ईश्वर उवाच
तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने ९
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम्
शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया 1.9.१०
एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः
कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान् ११
शिवरात्रावहोरात्रं निराहारो जितेंद्रि यः १२ब्
अर्चयेद्वा यथान्यायं यथाबलमवंचकः १२
यत्फलं मम पूजायां वर्षमेकं निरंतरम्
तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात् १३
मद्धर्मवृद्धिकालोऽयं चंद्र काल इवांबुधेः
प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः १४
यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा
स कालो मार्गशीर्षे तु स्यादाद्रा र्! ऋक्षमर्भकौ १५
आद्रा र्यां! मार्गशीर्षे तु यः पश्येन्मामुमासखम्
मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः १६
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे
अभ्यर्चनं चेदधिकं फलं वाचामगोचरम् १७
रणरंगतलेऽमुष्मिन्यदहं लिंगवर्ष्मणा
जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत् १८
अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति
दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको १९
भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम्
दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम् 1.9.२०
अनलाचलसंकाशं यदिदं लिंगमुत्थितम्
अरुणाचलमित्येव तदिदं ख्यातिमेष्यति २१
अत्र तीर्थं च बहुधा भविष्यति महत्तरम्
मुक्तिरप्यत्र जंतूनां वासेन मरणेन च २२
रथोत्सवादिकल्याणं जनावासं तु सर्वतः
अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत् २३
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम्
अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम् २४
तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम्
सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम् २५
अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम्
सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च २६
सायुज्यमिति पंचैते क्रियादीनां फलं मतम्
सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम् २७
नंदिकेश्वर उवाच
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ
यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम् २८
तदुत्थापयदत्यर्थं स्वशक्त्याऽमृतधारया
तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ २९
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे
नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः 1.9.३०
पुरस्तात्स्तंभरूपेण पश्चाद्रू पेण चार्भकौ
ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा ३१
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित्
तस्मादीशत्वमन्येषां युवयोरपि न क्वचित् ३२
तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम्
तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ ३३
त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम्
मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते ३४
गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः
ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम् ३५
अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम्
ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम् ३६
बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ
समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ ३७
अनात्मानः परे सर्वे जीवा एव न संशयः
अनुग्रहाद्यं सर्गांतं जगत्कृत्यं च पंकजम् ३८
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित्
आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम् ३९
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम्
सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात् 1.9.४०
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम्
यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम् ४१
लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम्
तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ ४२
मदात्मकमिदं नित्यं मम सान्निध्यकारणम्
महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः ४३
यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम्
तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ ४४
मत्साम्यमेकलिंगस्य स्थापने फलमीरितम्
द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि ४५
लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम्
लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः ४६
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमोऽध्यायः ९