शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search

सूत उवाच
साधुपृष्टं साधवो वस्त्रैलोक्यहितकारकम्
गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् १
वेदांतसारसर्वस्वं पुराणं शैवमुत्तमम्
सर्वाघौघोद्धारकरं परत्र परमार्थदम् २
कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम्
विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ३
तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः
सर्वोत्तमस्य शैवस्य ते यास्यंति सुसद्गतिम् ४
तावद्विजृंभते पापं ब्रह्महत्यापुरस्सरम्
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ५
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ६
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम्
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ७
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि
यावच्छिवपुराणं हि नो देष्यति जगत्यहो ८
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ९
तावत्सर्वपुराणानि प्रगर्जंति महीतले
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो 1.2.१०
तावत्सर्वाणि तीर्थानि विवदंति महीतले
यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ११
तावत्सर्वाणि मंत्राणि विवदंति महीतले
यावच्छिवपुराणं हि नोदेष्यति महीतले १२
तावत्सर्वाणि क्षेत्राणि विवदंति महीतले
यावच्छिवपुराणं हि नोदेष्यति महीतले १३
तावत्सर्वाणि पीठानि विवदंति महीतले
यावच्छिवपुराणं हि नोदेष्यति महीतले १४
तावत्सर्वाणि दानानि विवदंति महीतले
यावच्छिवपुराणं हि नोदेष्यति महीतले १५
तावत्सर्वे च ते देवा विवदंति महीतले
यावच्छिवपुराणं हि नोदेष्यति महीतले १६
तावत्सर्वे च सिद्धान्ता विवदंति महीतले
यावच्छिवपुराणं हि नोदेष्यति महीतले १७
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः
फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः १८
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः
चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम १९
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च
यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् 1.2.२०
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः
यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते २१
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा
दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् २२
एतच्छिवपुराणं यस्साधारणपदेच्छया
अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् २३
एतच्छिवपुराणं यो नमस्कुर्याददूरतः
सर्वदेवार्चनफलं स प्राप्नोति न संशयः २४
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम्
यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु २५
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च
यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत् २६
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः
शिवभक्तसभायां यो व्याकरोति स उत्तमः २७
प्रत्यक्षरं तु गायत्रीपुरश्चर्य्याफलं लभेत्
इह भुक्त्वाखिलान्कामानं ते निर्वाणतां व्रजेत् २८
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः
यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम् २९
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः
आत्मतुल्यधनं सूर्य्यग्रहणे सर्वतोमुखे 1.2.३०
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते
तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः ३१
एतच्छिवपुराणं हि गायते योप्यहर्निशम्
आज्ञां तस्य प्रतीक्षेरन्देवा इन्द्र पुरो गमाः ३२
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः
यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत् ३३
समाहितः पठेद्यस्तु तत्र श्रीरुद्र संहिताम्
स ब्रह्मघ्नोऽपि पूतात्मा त्रिभिरेवादिनैर्भवेत् ३४
तां रुद्र संहितां यस्तु भैरवप्रतिमांतिके
त्रिः पठेत्प्रत्यहं मौनी स कामानखिलाँ ल्लभेत् ३५
तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः
प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ३६
कैलाससंहिता तत्र ततोऽपि परमस्मृता
ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ३७
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः
कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ३८
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते
यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ३९
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः
तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा 1.2.४०
शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा
कुमारायार्पितां तां वै सुधां पीत्वाऽमरो भवेत् ४१
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः
मासमात्रं संहितां तां पठित्वा मुच्यते ततः ४२
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसंभवम्
पापं सकृत्कीर्तनेन संहिता सा विनाशयेत् ४३
शिवालये बिल्ववने संहितां तां पठेत्तु यः
स तत्फलमवाप्नोति यद्वाचोऽपि न गोचरे ४४
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान्
तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ४५
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम्
बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ४६
अन्यापि संहिता तत्र सर्वकामफलप्रदा
उभे विशिष्टे विज्ञेये लीलाविज्ञानपूरिते ४७
तदिदं शैवमाख्यातं पुराणं वेदसंमितम्
निर्मितं तच्छिवेनैव प्रथमं ब्रह्मसंमितम् ४८
विद्येशंच तथारौद्रं वैनायकमथौमिकम्
मात्रं रुद्रै कादशकं कैलासं शतरुद्र कम् ४९
कोटिरुद्र सहस्राद्यं कोटिरुद्रं तथैव च
वायवीयं धर्मसंज्ञं पुराणमिति भेदतः 1.2.५०
संहिता द्वादशमिता महापुण्यतरा मता
तासां संख्यां ब्रुवे विप्राः शृणुतादरतोखिलम् ५१
विद्येशं दशसाहस्रं रुद्रं वैनायकं तथा
औमं मातृपुराणाख्यं प्रत्येकाष्टसहस्रकम् ५२
त्रयोदशसहस्रं हि रुद्रै कादशकं द्विजाः
षट्सहस्रं च कैलासं शतरुद्रं तदर्द्धकम् ५३
कोटिरुद्रं त्रिगुणितमेकादशसहस्रकम्
सहस्रकोटिरुद्रा ख्यमुदितं ग्रंथसंख्यया ५४
वायवीयं खाब्धिशतं घर्मं रविसहस्रकम्
तदेवं लक्षसंख्याकं शैवसंख्याविभेदतः ५५
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम्
शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ५६
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया
शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ५७
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु
चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ५८
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम्
श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ५९
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका
तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका 1.2.६०
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका
सप्तमी वायवीयाख्या सप्तैवं संहितामताः ६१
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम्
वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ६२
एतच्छिवपुराणं हि सप्तसंहितमादरात्
परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ६३
श्रुतिस्मृतिपुराणेतिहासागमशतानि च
एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ६४
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न
संगृहीतम्
संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां
हि ६५
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः
अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ६६
शैवं पुराणतिलकं खलु सत्पुराणं
वेदांतवेदविलसत्परवस्तुगीतम्
यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां
गतिं वै ६७
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां द्वितीयोऽध्यायः २