शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः १४
वेदव्यासः
अध्यायः १५ →

सनत्कुमार उवाच ।।
शस्तानि घोरदानानि महादानानि नित्यशः।।
पात्रेभ्यस्तु प्रदेयानि आत्मानं तारयंति च।।१।।
हिरण्यदानं गोदानं भूमिदानं द्विजोत्तम।।
गृह्णंतो वै पवित्राणि तारयंति स्वमेव तम् ।।२।।
सुवर्णदानं गोदानं पृथिवीदानमेव च।।
एतानि श्रेष्ठदानानि कृत्वा पापैः प्रमुच्यते।।३।।
तुलादानानि शस्तानि गावः पृथ्वी सरस्वती ।।
द्वे तु तुल्यबले शस्ते ह्यधिका च सरस्वती।।४।।
नित्य ह्यनुडुहो गावच्छत्रं वस्त्रमुपानहौ ।।
देयानि याचमानेभ्यः पानमन्नं तथैव च ।।५।।
संकल्पविहितोयोऽर्थो ब्राह्मणेभ्यः प्रदीयते ।।
अर्थिभ्योऽपीडितेभ्यश्च मनस्वी तेन जायते ।। ६ ।।
कनकं च तिला नागाः कन्या दासी गृहं रथः ।।
मणयः कपिला गावो महादानानि वै दश ।। ७ ।।
गृहीत्वैतानि सर्वाणि ब्राह्मणो ज्ञानवित्सदा ।।
वदान्यांस्तारयेत्सद्यो ह्यात्मानं च न संशयः ।।८।।
सुवर्णं ये प्रयच्छंति नराश्शुद्धेन चेतसा ।।
देवतास्तं प्रयच्छंति समंतादिति मे श्रुवम् ।। ९ ।।
अग्निर्हि देवतास्सर्वाः सुवर्णं च हुताशनः ।।
तस्मात्सुवर्णं दत्त्वा च दत्तास्स्युस्सर्वदेवताः ।। 5.14.१० ।।
पृथ्वीदानं महाश्रेष्ठं सर्वकामफलप्रदम् ।।
सौवर्णं च विशेषेण यत्कृतं पृथुना पुरा ।। ११ ।।
दीयमानां प्रपश्यंति पृथ्वीं रुक्मसमन्विताम् ।।
सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम् ।। १२ ।।
अथान्यच्च प्रवक्ष्यामि दानं सर्वोत्तमं मुने ।।
कांतारं यन्न पश्यंति यमस्य बहुदुःखदम् ।। १३ ।।
कुर्यात्कांतारदानं हि विधिना शुद्धमानसः ।।
न्यायार्जितेन द्रव्येण वित्तशाठ्यविवर्जितः ।।१४।।
तिलप्रस्थमयीं कृत्वा धेनुं सर्वगुणान्विताम् ।।
धेनुवत्सं सुवर्णं च सुदिव्यं सर्वलक्षणम् ।।१५।।
पद्ममष्टदलं कृत्वा कुंकुमाक्ताक्षतैश्शुभैः ।।
पूजयेत्तत्र रुद्रादीन्सर्वान्देवान्सुभक्तितः ।।१६।।
एवं संपूज्य तां दद्याद्ब्राह्मणाय स्वशक्तितः ।।
सरत्नां सहिरण्यां च सर्वाभरणभूषिताम् ।।१७।।
ततो नक्तं समश्नीयाद्दीपान्दद्यात्तु विस्तरात् ।।
कार्तिक्यामिति कर्तव्यं पूर्णिमायां प्रयत्नतः ।। १८ ।।
एवं यः कुरुते सम्यग्विधानेन स्वशक्तितः ।।
यममार्गभयं घोरं नरकं च न पश्यति ।। १९ ।।
कृत्वा पापान्यशेषाणि सबंधुस्ससुहृज्जनः ।।
दिवि संक्रीडते व्यास यावदिन्द्राश्चतुर्दश ।। 5.14.२० ।।
विधितो गोश्च दानं वै सर्वोत्तममिह स्मृतम् ।।
न तेन सदृशं व्यास परं दानं प्रकीर्तितम् ।।२१।।
प्रयच्छते यः कपिलां सवत्सां स्वर्णशृंगिकाम् ।।
कांस्यपात्रां रौप्यखुरां सर्वलक्षणलक्षिताम् ।। २२ ।।
तैस्तैर्गुणैः कामदुघा भूत्वा सा गौरुपैति तम्।।
प्रदातारं नरं व्यास परत्रेह च जन्मनि ।।२३।।
यद्यदिष्टतमं लोके यदस्ति दयितं गृहे।।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता।।२४।।
तुलापुरुषदानं हि दानानां दानमुत्तमम्।।
तुलासंरोहणं कार्यं यदीच्छेच्छ्रेय आत्मनः।।२५।।
यत्कृत्वा मुच्यते पापैर्वधबंधकृतोद्भवैः ।।
तुलादानं महत्पुण्यं सर्वपापक्षयंकरम् ।।२६।।
कृत्वा पापान्यशेषाणि तुलादानं करोति यः।।
सर्वैस्तु पातकैर्मुक्तः स दिवं यात्यसंशयम्।।२७।।
पापं कृतं यद्दिवसे निशायां द्विसंध्योर्मध्यदिने निशांते।।
कालत्रये कायमनोवचोभिस्तुलापुमान्वै तदपाकरोति।।२८।।
बालेन वृद्धेन मया हि यूना विजानता ज्ञानपरेण पापम्।।
तत्सर्वमेवाशु कृतं मदीयं तुलापुमान्वै हरतु स्मरारिः।।२९।।
पात्रे प्रयुक्तं द्रविणं मयाऽद्य प्रमाणपूर्णं निहितं तुलायाम्।।
तेनैव सार्धं तु ममावशेषं कृताकृतं यत्सुकृतं समेतु ।।5.14.३०।।
सनत्कुमार उवाच ।।
एवमुच्चार्य्य तं दद्यात् द्विजेभ्यः सर्वदा हितः ।।
नैकस्यापि प्रदातव्यं न निस्तारस्ततो भवेत् ।। ३१ ।।
ददात्येवं तु यो व्यास तुलापुरुषमुत्तमम् ।।
हत्वा पापं दिव्यं तिष्ठेद्यावदिन्द्राश्चतुर्द्दश ।। ३२ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यदानवर्णनं नाम चतुर्दशोऽध्यायः ।। १४ ।।