शिवपादादिकेशान्तस्तुतिः

विकिस्रोतः तः
शिवपादादिकेशान्तस्तुतिः
शङ्कराचार्यः
१९५३

॥ शिवपादादिकेशान्तस्तुतिः ॥

कल्याणं वो विधत्तां कटक-
तटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः ।
तारैर्हरेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी-
कैलासश्शर्वनिर्वृत्त्यभिजनकपदस्सर्वदा पर्वतेन्द्रः॥१
यस्य प्राहुस्स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
वस्येषुश्शार्ङ्गधन्वा समज-
नि जगतां रक्षणे जागरूकः ।
मौर्वीं दुर्वीकराणामपि च परि-
बृढः पूस्रयी सा च लक्ष्यं
सोऽध्यादव्याजमस्मानशिव-
भिदनिशं नाकिनां श्रीपिनाकः ।। ३
आलङ्कावेगहारी सकल-
दिविषामङ्घ्रिपद्माश्रयाणां

२६१

शिवपादादिकेशान्तस्तुतिः
मातङ्गाद्युग्रदैत्यप्रकर-
तनुगळद्रक्तधारात्तधारः ।
क्रूरः सूरायुतानामपि च
परिभवं स्वीयमासा वितन्वन् ।
घोराकार: कुठारो दृढत-
रदुरिताख्याटवीं पाटयेन्नः॥ ३
काळाराते: कराग्रे कृतव-
सतिरुरश्शाणशातो रिपूणां
काले काले कुलाद्रिप्रवर-
तनयया कल्पितस्नेहलेपः।
पायान्नः पावकार्चिःप्रसर-
सखमुखः पापहन्ता नितान्तं
शूलश्श्रीपादसेवाभजन-
परहृदां पालनैकान्तशीलः ॥ ४
देवस्थाङ्काश्रयायाः कुलगि-
रिदुहितुर्नेत्रकोणप्रचार-

२६२

बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

प्रस्तारानत्युदारान् पिपठि-
षुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिश-
मवयवैरन्तरङ्गं स्रमोदं
सोमापीडस्य सोऽयं प्रदिश-
तु कुशलं पाणिरङ्गः कुरङ्गः ॥
कण्ठप्रान्तावसज्जत्कनक-
मयमहाघण्टिकाघोरघोषैः
कण्ठारावैरकुण्ठैरपि भरि-
तजगच्चक्रवाळान्तराळः।
चण्ड प्रोद्दण्डशृङ्गः ककुभ-
कबळितीत्तुङ्गकैलासशृङ्गः
कण्ठे कालस्य वाहः शमय-
तु दुरितं शाश्वतं शाक्वरेन्द्रः ॥ ६
निर्यद्दानाम्बुधारापरिमळ-
तरळीभूतलोलम्बपाली

२६३

शिवपादादिकेशान्तस्तुतिः

झङ्कारैः शङ्कराद्रेः शिखर-
शतदरी: पूरयन् भूरिघोषैः।
शार्वस्सौवर्णशैलप्रतिम-
पृथुवपुस्सर्वविघ्नोपहर्ता
शर्वाण्याः पूर्वसूनुस्स भव-
तु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ ७
यः पुण्यैर्देवतानां समज-
नि शिवयोश्श्र्लाघ्यवीरैकमत्या
यनाग्नि श्रूयमाणे दितिज-
भटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशित-
शरशिखापाटितक्रौञ्चशैल-
स्संसारागाधकूपोदरप
वितसमुत्तारकस्तारकारिः॥ ८
आरूढ़प्रौढवेगप्रविजित-
पवनं तुङ्गतुङ्गं तुरङ्गं

२६४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

चेलं नीलं वसानः करत-
लविलसत्काण्डकोदण्डदण्डः ।
रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता
कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥
अम्भोजाभ्यां च रम्भारथच-
रणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
र्बिदेनेन्दोश्च कम्बोरुपरि-
विलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि सम्पादितमु-
पजनिताडम्बरं शम्बरारे:
शम्भोरसम्भोगयोग्यं किमपि
धनमिदं सम्भवेत्ससम्पदे नः ॥
वेणीसौभाग्यविस्मापितत-
पनसुताचारुवेणीविलासा-
न्वाणीनिर्धूतवाणीकरत-
लविधृतोदारवीणाविरावान् ।

२६५

शिवपादादिकेशान्तस्तुतिः
एणीनेत्रान्तभङ्गीनिरस-
ननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदूढप्रति-
नवसुषुमाकन्दळानिन्दुमौळेः ॥ ११
नृत्तारम्भेषु हस्ताहतमु-
रजधिमीधिक्कृतैरत्युवारै-
श्चित्तानन्दं विधत्ते सदसि
भगवतस्तन्ततं यस्स नन्दी।
चण्डीशाद्यास्तथान्ये चतुर-
गुणगणप्राणितस्वामिस-
त्कारोत्कर्षोद्यत्प्रतापाः प्रमथ-
परिबृढास्सन्तु सन्तोषिणो न ॥ १२
मुक्तामाणिक्यजालैः परिकलि-
तमहासालमालोकनीयं
प्रत्युप्तानर्घरत्नैर्दिशि भ-
वनैः कल्पितैर्दिक्पतीनाम्

२६६

बृहत्स्तोत्ररत्नाकरे - प्रथमभागः
उद्यानैरद्रिकन्यापरिजन-
वनितामाननीयैः परीतं
हृद्यं स्तुत्यं सुराणां मम भुव-
नपतेर्धाम सोमार्धमौळेः ॥ १३
स्तम्भैर्जम्भारिरत्नप्रवर-
विरचितैस्सम्भृतोपान्तभागं
शुभप्रत्सोपानमार्गं शुचिम-
णिनिचयैर्गुम्भितानल्पशिल्पम् ।
कुम्भैस्सम्पूर्णशोभं शिरसि
सुघटितैः शातकुम्भैरपङ्कै
श्शम्भोस्सम्भावनीयं सकल-
मुनिजनैस्सर्वदा सुप्रसन्नः॥ १४
न्यस्तो मध्ये सभायाः परिस-
रविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनक-
मणिमयैरुच्चकैरुज्ज्वलात्मा।

२६७

शिवपादादिकेशान्तस्तुतिः
वासोरत्नेन केनाप्यधिक
मृदुकेरणास्रतो विस्मृतश्री-
पीठ: पीडाधरं न: शमय-
तु शिवयोस्स्वैरसंवासयोग्यः ॥ १५
आसीनस्याधिपीठं त्रिजग-
दधिपतेरङ्घ्रिपीठानुषक्तौ
पाथोजाभोगभाजौ परिमृदु-
लतलोल्लासिपद्माभिलेखौ।
पातां पादावुभौ तौ नमद-
मरकिरीटोल्लसच्चारुहीर-
श्रेणीशोणायमानोन्नतन-
स्वदशकोद्भासमानौ समानौ ॥ १६
यन्नादो वेदवाचां निगदति
निखिलं लक्षणं पक्षिकेतु-
र्लक्ष्मीसम्भोगसौख्यं विरचय-
ति ययोश्चापदे रूपभेदे।

२६८

बृहत्स्तोत्ररत्नाकरे प्रथमभागः
शम्भोस्सम्भावनीये पदक-
मलसमासङ्गतस्तुङ्गशोभे
माङ्गल्यं नस्समग्रं सकल-
सुखकरे नूपुरे पूरयेताम् ॥ १७
अङ्गे शृङ्गारयोनेस्सपदि
शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधि-
युगमथ न्यस्तमग्रे किमेतत् ।
शङ्कामित्थं नतानाममर-
परिषदामन्तरं क्रूरय-
त्तत्सङ्घातं चारुजङ्घायुग-
मखिलपते रंहसां संहरेन्नः ॥ १८
जानुद्वन्द्वेन मीनध्वज नृप-
रसमुद्रोपमानेन साकं
राजन्तौ राजरम्भाकरिक-
रकनकस्तम्भसम्भावनीयौ

शिवपादादिकेशान्तस्तुतिः २६९

ऊरू गौरीकराम्भोरुहसर-
ससमामर्दनानन्दभाजा-
वूरू दूरीक्रियेतां दुरित-
मुपचितं जन्मजन्मान्तरे नः ॥ १९
आमुक्तानर्घरत्नप्रकर-
करपरिष्वक्तकल्याणकाञ्ची-
दाम्ना बद्धन दुग्धद्युति-
निचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरि-
तपरिपाकायमाने नितम्बे
नित्यं नानर्तु चित्तं मम निखि-
लजगत्स्वामिनस्सोममौलेः ॥ २०
सन्ध्याकालानुरञ्जद्दिनक-
रसरुचा कालधौतेन गाधं
व्यावद्धस्निग्धवर्णस्सरस-
मुदरबन्धेन पीतोपमेन।

२७०

बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:
उद्दीप्रैस्स्वप्रकाशैरुपचित-
महिमा मन्मथारेरुदारो
मध्या मिथ्यार्थसध्रचङ् दिशतु
मम सदा सङ्गतिं मङ्गळानाम् ॥ २१
नाभीचक्रालवालान्नवनव-
सुषमादोहळश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदर-
पथमतिक्रम्य वक्षः प्रयान्ती।
श्यामा कामागमार्थप्रकथ-
नलिपिवद्भासते या निकामं
सा मा सोमार्धमौळेस्सुखय-
तु सततं रोमवल्ली मतल्ली ॥ २१
आश्लेषेष्वद्रिजाया: कठिन-
कुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदर्कद्युतिमिरुपचितस्पर्धमुद्दामहृद्यम् ।
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं

वक्षो विक्षोभिताचं सतत-
नतिजुषां रक्षादक्षतं नः ॥२३
वामाङ्के विष्फुरन्त्याः करत-
लविलसञ्चारु रक्तोत्पलाया:
कान्ताया वामवक्षोरुहमरशिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनत्युदारान्वरपरशुमृगालङ्कृतान्सिन्धुमौळे-
र्बाहूनाबद्धहेमाङ्गदम-
णिकटकानन्तरालोकयामः ॥ २४
सन्भ्रान्तायाशिशवायाः पतिवि-
लयभयारसर्वलोकोपतापा-
त्संविप्नस्यापि विष्णोः सरभ-
समुभयोार्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशङ्कवीयामनुभवति
दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमय-
तु निचयं नीलकण्ठस्य कण्ठः ॥२५

हृधैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्गुमश्री-
रुद्योतन्त्या नितान्तं धवल-
धवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यपूरव्यतिकरसदृशा तेजसा भासमान-
स्सद्योजातस्य दद्यादधर-
मणिरसौ सम्पदां सञ्चयं नः॥२६
कर्णालङ्कार नानामणिनिकररुचा सञ्चयैरंञ्च्वतायां
वर्ण्यायां खर्णपद्मोदरप-
रिविलसत्कर्णिकासन्निभायाम्।
पद्धयां प्राणवायोः प्रणत-
जनहृदम्भोजवानस्य शम्भो-
र्नित्यं नश्चित्तमेतद्विरच-
यतु सुखेनासिकां नासिकायाम् ॥२७
अत्यन्तं भासमाने रुचिर-
तररुचां सङ्गमात्सन्मणीना-
मुद्यञ्चण्डांशुधामप्रसर-

निरसनस्पष्टरष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
भक्ताळीफालसज्जज्जनिमर-
णलिपेः कुण्डले कुण्डले ते ॥२८
याभ्यां कालव्यवस्था भवति
तनुमतां यो मुखं देवतानां
येषामाहुस्स्वरूपं जगति
मुनिवरा देवतानां त्रयीं ताम् ।
रुद्राणीवक्त्रपङ्केरुहसत-
तविहरोत्सुकेन्दिन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमु-
परचये त्रीक्षणस्येक्षणेभ्यः॥ २९
वामं वामाङ्कगाया वदन-
सरसिजे व्यावलद्वल्लभाया
व्यानस्नेष्वन्यदन्यत्पुनर-
ळिकभवं पीतनिश्शेषरौक्ष्यम् ।

.

भूयो भूयोऽपि मोदाग्निपत-
दतिदयाशीतळं चूतबाणे
वक्षारेरीक्षणानां त्रयमप-
हरतादाशु तापत्रयं नः॥३०
यस्मिन्नर्धेन्दुमुग्धातिविमि-
रतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसङ्कल्पितमि-
व रुचिरं चित्रकं भाति नेत्रम् ।
तस्मिन्नुल्लीलचिल्लीनटव-
रतरुणीलास्यरङ्गायमाणे
कालारै फालदेशे विहर-
तु हृदयं वीतचिन्तान्तरं नः ॥३१
स्वामिन् गङ्गामिवाङ्गीकुरु त-
व शिरसा मामपीत्यर्थयन्तीं
धन्यां कन्यां खरांशोशिशर्हसि
दहति किन्वेष कारुण्यशाली ।

इत्थं शङ्कां जनानां जनय-
दतिधनं कौशिकं कालमेघ-
च्छायं भूयादुदारं त्रिपुर-
विजयिनः श्रेयसे भूयसे नः॥३२
शृङ्गाराकल्पयोग्यैरिशखरिव-
रसुतास्रत्सखीहस्तलूनै-
स्सूनैराबद्धमालावलिप-
रिविलसत्सौरभाकृष्टभृङ्गम् ।
तु माणिक्यकान्त्या परिह-
सितमुरावासशैलेन्द्रशृङ्गं
सङ्घं नः सङ्कटानां विघट‌-
यतु काङ्कटीकं किरीटम् ॥३३
वक्राकार: कळङ्की जडत-
नुरहमप्यङ्घ्रिसेवानुभावा-
दुत्तंसत्वं प्रयातस्सुलभ-
तरघृणास्मन्दिश्चन्द्रमौळेः ।

तत्सेवन्तां जनौघाश्शिव-
मिति निजयावस्थयापि ब्रुवाणं
वन्दे देवस्य शम्भोर्मुकुट-
सुघटितं मुग्धपीयूषभानुम् ॥३४
कान्त्या सस्फुल्लमल्लीकुसुम-
धवळया व्याप्य विश्वं विराजन्
वृत्ताकारो वितन्वन्मुहुरपि
च वरां निर्वृतिं पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिक-
टकवता वाह्यमानः पुरारेः
श्वेतच्छत्राख्यशीतद्युतिर-
पहरतादापदस्तांपदा नः ।।३५
दिव्याकल्पोज्जूलानां शिव-
गिरिसुतयोः पार्श्वयोरानिश्रितानां
रुद्राणीसत्सखीनामतितर-
ळकटाक्षाञ्चलैरञ्चितानाम् ।

उद्वेलद्वाहुवल्लीविलसन-
समये चामरीन्दोलनीना-
मुद्भूतः कङ्कणाळीवलय-
कलकलो वारयेदापदो नः ॥३६
खर्गौकस्सुन्दरीणां सुललि-
तवपुषां स्वामिसेवापराणां
वल्गभ्दूषाणि वक्त्राम्बुजपरि-
विगळन्मुग्धगीतामृतानि।
नित्यं नृत्तान्युपासे भुजवि-
धुतिपदन्यासभावावलोक-
प्रत्युद्यत्पीतिमाद्यन्प्रथमनट-
नटीदत्तसम्भावनानि ॥३७
स्थानप्राप्त्या स्वराणां किमपि
विशदतां व्यञ्जयन्मञ्जुवीणा-
स्वानावच्छिन्नताळक्रमम-
मृतमिवास्वाद्यमानं शिवायाम् ।

नानारागारिहृद्यं नवर-
समधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कळम-
तिललितं कर्णपूरायतास्नः ॥३८
चेतो जातप्रमोदं सपदि
विदधति प्राणिनां वाणिनीनां
पाणिद्वन्दाप्रकूजत्सुललि-
तविलसत्स्वर्णताळानुकूला।
स्वियारावेण पायोभरर-
वपटुना नादयन्तीं मयूरीं
मायूरी मन्दभावं मणिमु-
रजभवा मार्जना मार्जयेन्नः॥३९
देवेभ्यो दानवेभ्यः पितृमु-
निपरिषरिसद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुज-
पशुलसज्जातिकीटादिकेभ्यः ।

श्रीकैलास्रपरूढास्तृणवि-
टपिमुखाश्चापि ये सन्ति तेभ्य-
स्सर्वेभ्यो निर्विचार नतिमु-
परचये शर्वपावाश्रयेभ्यः ॥४०
इत्थं ध्यायन् प्रभाते प्रतिदि-
वसमिदं स्तोत्ररत्रं पठेद्यः
किंवा ब्रूमस्तदीयं सुचरि-
वमथवा कीर्तयामस्समासात् ।
सम्पज्जातं समग्रं सदसि
बहुमतिं सर्वलोकप्रियत्वं
सम्प्राप्यायुश्शतान्ते पद-
मयति परब्रह्मणो मन्मथारेः॥४१
इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥ शिवपादादिकेशान्तस्तुतिः सम्पूर्णा ॥