शिवपञ्चाक्षरस्तोत्रम्

विकिस्रोतः तः
शिवपञ्चाक्षरस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥
॥ शिवपञ्चाक्षरस्तोत्रम् ॥


नागेन्द्रहाराय विलोचनाय
 भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
 तस्मै नकाराय नमः शिवाय ॥१॥

मन्दाकिनीसलिलचन्दनचर्चिताय
 नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारमुख्यबहुपुष्पसुपूजिताय
 तस्मै मकारमहिताय नमः शिवाय ॥२॥

शिवाय गौरीवदनाब्जबृन्द-
 सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
 तस्मै शिकाराय नमः शिवाय ॥३॥

वसिष्टकुम्भोद्भवगौतमार्य-
 मुनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय
 तस्मै वकारांय नमः शिवाय ॥४॥

यक्षस्वरूपाय जटाधराय
 पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
 तस्मै यकाराय नम: शिवाय ॥ ५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवत: कृतौ
शिवपञ्चाक्षरस्तोत्रं संपूर्णम् ॥