शिवनवरत्नस्तवः

विकिस्रोतः तः
शिवनवरत्नस्तवः
बृहस्पतिः
१९५३

॥ श्रीशिवनवरत्नस्तवः ॥

बृहस्पतिः- नमोहाराय देवाय महामायातिशूलिने । तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥ १ नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये । नमो देवाधिदेवाय नमो वेदान्तदायिने ॥ २ नमः पराय रुद्राय सुपाराय नमोनमः । विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ ३ नमो भक्तभवच्छेदकारणायामलात्मने । कालकालाय कालाय कालातीताय ते नमः ॥ ४ जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः । नमःपाषण्डभङ्गाय नमः पापहराय ते ॥ ५ नमः पर्वतराजेन्द्र कन्यकापतये नमः । योगानन्दाय योगाय योगिनां पतये नमः ॥ ६ प्राणायामपराणांतु प्राणरक्षाय ते नमः । मूलाधारे प्रविष्टाय मूलदीपात्मने नमः ॥ ७ ५०२ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने । सच्चिदानन्दपूर्णाय नमस्साक्षात्परात्मने ॥ ८ नमश्शिवायाद्भुतविक्रमाय ते नमश्शिवायाद्भुत- विग्रहाय ते । नमश्शिवायाखिलनायकाय ते नम- श्शिवायामृत हेतवे नमः ॥ ९ सूतः - य इदं पठते नित्यं स्तोत्रं भक्त्या सुसंयतः । तस्य मुक्ति करस्था स्याच्छङ्करप्रियकारणात् ॥ १० विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् । वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ११ तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः । पठन्तु भवनाशार्थमिदं वो भवनाशनम् ॥ १२

इति श्रीस्कान्दे महापुराणे सूतसंहितायां बृहस्पतिकृतः ॥ शिवनवरत्नस्तवः ॥

"https://sa.wikisource.org/w/index.php?title=शिवनवरत्नस्तवः&oldid=320223" इत्यस्माद् प्रतिप्राप्तम्