शिवनक्षत्रमालिकास्तोत्रम्

विकिस्रोतः तः
शिवनक्षत्रमालिकास्तोत्रम्
अज्ञातः
१९५३

॥ शिवनक्षत्रमालिकास्तोत्रम् ॥ .

श्रीकण्ठस्साम्ब ईशानः पार्वतीप्राणवल्लभः ।
वृषारूढो विष्णुसखश्शिव एव गतिर्मम ॥ १
परमात्मा परब्रह्म पञ्चास्यः परमेश्वरः ।
परात्परतरं धाम शिवएव गतिर्मम ॥ २
निरालम्बो निराकारो निर्मलो निरुपद्रवः ।
नित्यशुद्धो निष्कळङ्कश्शिवएव गतिर्मम ॥ ३
शुद्धस्फटिकसङ्काशस्सूर्यचन्द्राग्निलोचनः ।
शूलटङ्कधरश्शर्वश्शिवएव गतिर्मम ॥ ४
भूरयो विष्णुबाणश्च वेदाश्वो ब्रह्मसारथिः ।
त्रिपुरारिर्मेरुधन्वा शिवएव गतिर्मम ॥ ५
व्याघ्रचर्माम्बरघरो व्याळयज्ञोपवीतवान् ।
भवाभीष्टप्रदो नित्यश्शिवएव गतिर्मम ॥ ६
कालकालो महाकाळो भस्मोद्धूळितविग्रहः ।
कैलासनिलयश्शम्भु शिशवएव गतिर्मम ॥ ७


रुद्राक्षमालाभरणस्त्रिपुण्ड्राङ्कितमस्तकः ।
प्रमथेशो महादेवश्शिवएव गतिर्मम ॥ ८
गौरीकान्तो वामदेवो नीलग्रीवो दिगम्बरः।
गङ्गाधरश्चन्द्रचूडश्शिवएव गतिर्मम ॥ ९
मूर्तित्रयस्वरूपाढ्यो गुणत्रयविवर्जितः ।
कार्यत्रयविधाता च शिवएव गतिर्मम ॥ १०
सद्योजातो भैरवश्व मार्कण्डेयवरप्रदः ।
विष्णुचक्रप्रदाता च शिवएव गतिर्मम ॥ ११
अघोरमूर्तिस्सर्वेशो वेदवेद्यो दयानिधिः ।
कपालयुक्तहस्ताब्ज श्शिवएव गतिर्मम ॥ १२
अष्टमूर्तिस्तत्पुरुष स्तथैकादश मूर्तिमान् ।
पञ्चविंशति लीलात्मा शिवएव गतिर्मम ॥ १३
शतरुद्रस्वरूपाढ्यो नन्दिभृङ्गि वरप्रदः ।
सदाशिवोऽनन्तरूपश्शिवएव गतिर्मम ॥ १४
महालिङ्गोद्भवश्शान्तो रुण्डमालाविभूषणः ।
त्रियम्बको विरूपाक्ष श्शिवएव गतिर्मम ॥ १५

निरञ्जनः परंज्योति स्सच्चिदानन्दविग्रहः ।
मायाशबररूपाढ्य श्शिवएव गतिर्मम ॥ १६
लिङ्गरूपो दशभुजश्चोग्रःपशुपतिर्भवः ।
कामेश्वरो जगद्रक्षश्शिवएव गतिर्मम ॥ १७
कल्याणसुन्दराकारः कामितार्थवरप्रदः ।
हालास्यलीलालोलश्च शिवएव गतिर्मम ॥ १८
मृत्युञ्जयो महारौद्रस्सोमस्स्कन्दो महेश्वरः ।
बाणासुरपरित्राता शिवएव गतिर्मम ॥ १९
जलन्धरशिरश्छेत्ता नागालङ्कारभूषितः ।
गजचर्माम्बरधरश्शिवएव गतिर्मम ॥ २०
भवरोगहर: पूज्यो भयकृद्भयनाशनः ।
दक्षिणामूर्ति रूपाढ्य श्शिवएव गतिर्मम ॥ २१
सन्ध्यानटो हरो रद्रो भस्मासुरवरप्रदः ।
पिनाकभृन्मन्मथारिश्शिवएव गतिर्मम ॥ २२
मृडो ब्रह्मशिरश्छेत्ता विनायकवरप्रदः ।
उमामहेश्वरो देवश्शिवएव गतिर्मम ॥ २३
महाप्रभुर्महायोगी भूतसङ्गसमावृतः ।

नारदादिमुनिस्तुत्यश्शिवएव गतिर्मम ॥ २४
दक्षाध्वरहरो वीरः कालकोटिविषाशनः ।
गणेशशास्तृजनक श्शिवएव गतिर्मम ॥ २५
कुबेरमित्रो भीमेशो गिरीशो मोहिनीप्रियः ।
देवासुरादिसंसेव्यश्शिवएव गतिर्मम ॥ २६
स्थाणुर्हरिहरात्मा च रामतारकमन्त्रदः ।
शङ्करश्चार्धनारीशश्शिवएव गतिर्मम ॥ २७
श्रीचामुण्डाकृपापूर्ण शिवध्यानपरायणः ।
श्रीकृष्णेन्द्रो भक्तियुक्तश्शिवनक्षत्रमालिकाम् ॥ २८
रचयित्वार्पयामास श्रीकण्ठहृदयाम्बुजे ।
त्रिसन्ध्यं यः पठेद्भक्त्या शिवसायुज्यमाप्नुयात् ॥
मल्लिकावृत्तम्-

 रत्नशैलनगावनीशकचन्द्रपल्लवहायने सिद्धमास- सिताष्टमी शशिवासरे कनकोज्वला । चन्द्रशेखर- पादयोः खखपूर्ण रूपमिताक्षरा कृष्णभूपसमर्पिता गजभानुनाम सुमालिका ॥ ३०

॥ इति श्रीशिवनक्षत्रमालिकास्तोत्रम् ॥