शिवगीता/एकादशोऽध्यायः

विकिस्रोतः तः
               




   


११९
बालानन्दिनीव्याख्यासहिता ।

एकादशोऽध्यायः ११

 


श्री भगवानुवाच ।


देहान्तरगतिं तस्य परलोकगतिं तथा ।
वक्ष्यामि नृपशार्दूल मत्तः शृणु समाहितः ॥ १ ॥
भुक्तं पीतं यतस्तत्र तद्रसादामबन्धनम् ।
स्थूलदेहस्य लिङ्गस्य तेन जीवनधारणम् ॥ २ ॥
व्याधिना जरया वापि पीड्यते जाठरोऽनलः ।
श्लेष्मणा तेन भुक्तान्नं पीतं वा न पचत्यलम् ॥ ३ ॥
भुक्तपीतरसाभावात्तदा शुष्यन्ति धातवः ।
भुक्तपीतरसेनैव देहे लिम्पन्ति वायवः ॥ ४ ॥


गमनागमने कथमिति प्रश्ने लिङ्गोपाधिवशादित्युत्तरं दत्तं तदेव विशदयितुमेकादशोऽध्याय आरभ्यते--देहान्तरेति । नृपशार्दूल राजश्रेष्ठ, मत्तः मत्सकाशात् । अवहितः सावधानः ॥१॥ भुक्तमिति । यत इति प्रथमान्तात्तसिः । भुक्तं पीतं च यतः यदित्यर्थः । तस्य रसात्परिणामविशेषात्स्थूलदेहस्य लिङ्गस्य च परस्परं आमबन्धनं नूतनबन्धनं भवतीति शेषः । तेन दृढबन्धनेन जीवस्य प्राणवायोर्धारणं भवति ।।२। व्याधिनेति। व्याधिना रोगेण जरया वा प्रेरितेन श्लेष्मणा जाठरो जठरसंबन्धी अनल: पीड्यते । तेन कारणेन कुण्ठितशक्तिरग्निर्भुक्तान्नं पीतं वा अर्ं पर्याप्तं न पचति॥३॥ मुक्तेति। भुक्तपीतयो रसस्य परिणामविशेषस्याभावात् तदा धातवस्त्वगसृङ्मांसादयः शुष्यन्ति । धातुवृद्धिप्रकारमाह । भुक्तपीतयोः प्रदीप्तेन जाठराग्निना पाचितयो रसेन वायवः प्राणादयो देहे धातून् लिम्पन्ति । उपचयं प्रापयन्तीति यावत् । अत्र धातुवायुप्रकरणवशाद्यथायथं तेषां तेषां
१२०
[ अध्यायः ११
शिवगीता ।

 


समीकरोति यत्तस्मात्समानो वायुरुच्यते ।
तदानीं तद्रसाभावादामबन्धनहानितः ॥ ५ ॥
परिपक्वरसत्वेन यथा गौरवतः फलमू ।
स्वयमेव पतत्याशु तथा लिङ्गं तनोर्व्रजेत् ॥ ६ ॥
तत्तत्स्थानादपाकृष्य हृषीकाणां च वासनाः ।
आध्यात्मिकाधिभूतानि हृत्पझे चैकतां गतः ॥ ७ ॥
ततोऽध्वगः प्राणवायुः संयुक्तो नववायुभिः ।
ऊर्ध्वोच्छ्वासि भवत्येष भवत्येष तथा तेनैकतां गतः ॥ ८ ॥


चाध्याहारः ॥ ४ ॥ वायुविशेषस्तु लिप्तान्धातून्समीकरोति । यद्यस्मात्तस्मात्समानो वायुरुच्यते । एषा तारुण्यावस्थायाः स्थितिरुक्ता । इदानीं जरसि जठरानलमान्द्यकाले तु तेषां भुक्तपीतानां रसस्याभावात् आमबन्धनस्य पूर्वोक्तस्य हानितः लेङ्गं तनोर्वज्रेदित्यनेन वक्ष्यमाणेन संबध्यते ॥ ५ ॥ परिपक्वेति । यथा कूष्माण्डादिफलं गौरवतः गुरुत्वात्स्वयमेव पतति तथा लिङ्गं तनोः स्थूलदेहाद्व्रजेत् । विश्लेषं प्राप्नुयादित्यर्थः ॥६॥ तत्तदिति । हृषीकाणामिन्द्रियाणां वासनाः । तथाध्यात्मिकानि जीवात्मन्यध्यस्तानि बुद्धिप्रभृतीनि तथाधिभौतिकानि भाविदेहारम्भकाणि सोमादिपय:प्रभृतीनि सूक्ष्मरूपाणि इत्थं त्रितयमप्याकृष्य हृत्पद्ये एकतां गतः पांसूदकवत्पिण्डितस्वरूप एष प्राणवायुः अध्वगः पान्थः सन् इतरैर्नवभिर्वायुभिः संयुक्तः सन् ऊर्ध्वोच्छ्वासि भवति । तथा तेन प्राणवायुना एकतां गतस्तादात्म्यापन्नो जीवोऽपि उपसर्पतीति वक्ष्यमाणेन संबध्यते । अत्र भाविदेहारम्भकीभूतैः सहोत्क्रमणं श्रुतिराह "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति", "तदन्तरप्रतिपत्तौ रंहतिसंपरिष्वक्तः प्रश्ननिरूपणाभ्याम्” इत्यधिकरणे च निर्णीतं ततएव बोध्यम्
१२१
बालानन्दिनीव्याख्यासहिता ।

 


चक्षुषोर्वापि मूर्ध्नो वा नाडीमार्गं समाश्रितः ।
विद्याकर्मसमायुक्तो वासनाभिश्च संयुतः ॥
प्राज्ञात्मानं समाश्रित्य विज्ञानात्मोपसर्पति ॥ ९ ॥
यथा कुम्भो नीयमानो देशाद्देशान्तरं प्रति।
खपूर्ण एव सर्वत्र स अाकाशोऽपि तत्र तु ॥ १० ॥
घटाकाशाख्यतां याति तद्वल्लिङं परात्मनः ॥ ११ ॥
पुनर्देहान्तरं याति यथा कर्मानुसारतः ।
अामोक्षात्संचरत्येवं मत्स्यः कूलद्वयं यथा ॥ १२ ॥
पापभोगाय चेन्द्रच्छेद्यमदूतैरधिष्ठितः ।
यातनादेहमाश्रित्य नरकानेव केवलम् ॥ १३ ॥


॥ ७ ॥ ८ ॥ कस्मान्मार्गादुपसर्पतीत्याकाङ्क्षायामाह--चक्षुषोरिति । विद्याकर्मभ्यां समायुक्तः वासनाभिश्च पूर्वप्रज्ञानुसारिणीभिः संयुतः । तथाच श्रुतिः "तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च” इति । प्रज्ञात्मानं समाश्रित्य । तत्प्रेरितः सन्नित्यर्थः । तथाच श्रुतिः "प्राज्ञेनात्मनान्वारूढ़ उत्सर्जन्याति” इतेि । उत्सर्जन हिक्कादिशब्दं कुर्वन् उपसर्पति औपाधिकगमनभाग्भवति । नहि मुख्यं गमनं पूर्णस्य संभवति ॥ ९ ॥ औपाधिकगमनमेव दृष्टान्तेन द्रढयति --यथेति । सर्वत्र स घटः खपूर्णएव सर्वो घटावच्छिन्नाकाश इति व्यवह्रियते । तत्र घट अानीते घटाकाशोऽयमिति व्यवह्नियते तद्वत्परात्मनो जीवस्य लिङ्गशरीरं जीवपूर्णमेव याति । यतो देहाद्याति तत्र न जीवत्वव्यवहारः । यस्मिन्देहे तिष्ठति तत्रैव जीव इति व्यवहार इति भावः ॥ १० ॥ ११ ॥ पुनरिति । अामोक्षात् मोक्षपर्यन्तमित्यर्थः । कूलद्वयं तीरद्वयम् ॥ १२ ॥ पापेति । केवलं पापभोगाय चेद्गच्छेत्तर्हि नरकानेव गच्छेत् । उभयभोगाय चेन्मनुष्यलोकं गच्छेदिति भावः ।। "उभाभ्यां मनुष्यलोकः" इति श्रुतेः ॥ १३ ॥ 
१२२
[ अध्यायः ११
शिवगीता ।

 


इष्टापूर्तानि कर्माणि योऽनुतिष्ठति सर्वदा ।
पितृलोकं व्रजत्येष याममाश्रित्य बर्हिषः ॥ १४ ॥
धूमं रात्रिं गतः कृष्णपक्षं तस्माच्च दक्षिणम् ।
अयनं च ततो लोकं पितृणां च ततः परम् ।
चन्द्रलोके दिव्यदेहं प्राध्य भुङ्क्ते परां श्रियम् ॥ १५ ॥
तत्र चन्द्रसमानोऽसौ यावत्कर्मफलं वसेत् ।
तथैव कर्मशेषेण यथेतं पुनराव्रजेत् ॥ १६ ॥


इष्टेति । इष्टानि यज्ञान्, पूर्तानि तडागारामादीन् यः सर्वदानुतिष्ठति एष सुकृती यामं यमसंबन्धिनं दूतमाश्रित्य तेन नीयमानः सन्नित्यर्थः । बर्हिषः श्रौतस्मार्ताग्नेश्च हेतुभूतादित्यर्थः । यागस्याग्निसाध्यत्वात्सोऽपि तत्र परम्परया प्रयोजक इति भावः । पितृलोकं व्रजति । "कर्मणा पितृलोकः" इति श्रुतेः ।। "बर्हिः शुष्मा कृष्णवर्मा”इत्यमरः । अत्र बर्हिरिति पृथक्पदं बर्हिर्मुखा इति दर्शनादिति क्षीरस्वामी ॥१४॥ धूममिति ।। "अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति" इत्युपक्रम्य “आकाशाञ्चन्द्रमसम्" इत्यन्तेन धूमादिः पितृयाणः पन्था इष्टादिकारिणां श्रुतावुक्तः । तदेतदाह प्रथमं धूमं ततो रात्रिं ततः कृष्णपक्षं तस्माद्दक्षिणायनं ततः पितॄणां लोकं ततश्चन्द्रलोकं गतः सन् दिव्यदेहं प्राप्य चन्द्रसमानोऽसाविष्टादिकारी परां श्रियं भुङ्क्ते । यावत्कर्मफलं तत्र वसेत् । धूमो रात्रिः कृष्णपक्षो दक्षिणायनं चेत्याद्या आतिवाहिका देवता निर्देिश्यन्ते ता एनमिष्टादिकारिणं चन्द्रलोकं प्रापयन्ति । तदुक्तं गीतायाम् "धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥” इतेि । तथा च यदाकदावा मृतमुपासकमग्न्यादय आतिवाहिका ब्रह्मलोकं प्रापयन्तीति तथेष्टा
१२३
बालानन्दिनीव्याख्यासहिता ।

 


वपुर्विहाय जीवत्वमासाद्याकाशमेति सः ।
आकाशाद्वायुष्मागत्य वायोरम्भो ब्रजत्यथ ॥ १७ ॥
अभ्द्यो मेघं समासाद्य ततो वृष्टिर्भवेदसौ ।
ततो धान्यानि भक्ष्याणि जायते कर्मचोदितः ॥ १८ ॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाच देहिनः ।
मुक्तिमन्ये तु संयान्ति यथाकर्म यथाश्रुतम् ॥ १९ ॥


दिकारिणं यदाकदावा मृतमपि धूमादय आतिवाहिकाश्वन्द्रमसं प्रापयन्तीति निष्कर्षः।। 'अतिवाहिकास्तल्लिङ्गात्'।। 'अतश्चायनेऽपि दक्षिणे' इति न्यायात् । यथेतमिति यथागतम् । उपलक्षणं चेदम् । येन क्रमेण चन्द्रलोकगतस्तद्विपरीतक्रमेणेमं लोकमायातीत्यर्थ: । “क्षीणे पुण्ये मर्त्यलोकं विशन्ति" इति स्मृतेः ।। १५ ॥ १६ ॥ वपुर्विहायेति । चन्द्रलोके भोगशरीरं विहाय जीवत्वं लिङ्गशरीरावच्छिन्नत्वं प्राप्य अवरोहति । अवरोहक्रममाह--आकाशमेति स इत्यादिना । आकाशं आकाशत्वमित्यादिभावप्रधानो निर्देशः ॥ १७ ॥ ततः क्रमेणासौ जीवो वृष्टिर्भवेत्तत्राकाशादिसाम्यमभिप्रेतं नतु तदभेदः । "संभाव्यापत्तिरुपपत्तेः” इति न्यायात् । ततो धान्यानि ततो भक्ष्याण्यन्नानीत्यर्थः । सः जायते कर्मणा प्रारब्धेन चोदितः सन् ॥ १८ ॥। इयं च धूमादिमार्गेण गतानां पुनरावृत्तिर्न नियता सर्वेषां किंतु प्राचुर्येणेत्याह्--योनिमिति । मुक्तिमिति । अन्ये तूत्तमाधिकारिणः यथाकर्म चित्तशुद्धिमुद्दिश्याचरितकर्मानुसारेणेत्यर्थः । यथाश्रुतं चन्द्रलोके कृतश्रवणादिसाधनानुसारेणेत्यर्थः । मुक्तिमिति संयान्ति । मुक्तिमिति क्रममुक्तिमित्यर्थः ।। "तदुपर्यपि बादरायणः संभवात्" इत्यधिकरणे स्वर्गलोकादावपि श्रवणादिसाधनेन मोक्षो भवति इति निर्णयात् । तथाच श्रुतिः "तद्यो यो देवानां प्रत्यबुध्यत स तदभवत्तथर्षीणां तथा मनुष्याणाम्' इति ॥ १९ ॥ 
१२४
[ अध्यायः ११
शिवगीता ।

 


ततोऽन्नत्वं समासाद्य पितृभ्यां भुज्यते परम् ।
ततः शुक्रं रजश्चैव भूत्वा गर्भोऽभिजायते ॥ २० ॥
ततः कर्मानुसारेण भवेत्स्त्रीपुंनपुंसकः ।
एवं जीवगतिः प्रोक्ता मुक्तिं तस्य वदामि ते ॥ २१ ॥
यस्तु शान्त्यादियुक्तः सन् सदा विद्यारतो भवेत्।
स याति देवयानेन ब्रह्मलोकावधिं नरः ॥ २२ ॥
अर्चिर्भूत्वा दिनं प्राप्य शुक्लपक्षमथो व्रजेत् ॥
उत्तरायणमासाद्य संवत्सरमथो व्रजेत् ॥ २३ ॥


ततोऽन्नत्वमिति । अन्नत्वं समासाद्य स्थितो जीवः पितृभ्यां पुनः स्थूलदेहतादात्म्याध्यासाय भुज्यते । ततः पितरि शुक्ररूपेण मातरि रजोरूपेण स्थित्वा रूत्रीपुरुषसंयोगे सति स्त्रियां गर्भोऽभिजायते । ततः कर्मानुसारेणेति स्पष्टम् ॥ २० ॥ २१ । मुक्तिंं तस्य वदामि त इत्युक्तं तदेवोपपादयति--यस्त्वित्यादिना । शमदमतितिक्षासमाधानश्रद्धयुक्तः सन् सदा विद्यायां रतः स्ववर्णाश्रमकर्माणीश्वरार्पणधिया कुर्वाणश्चेत्यादिपदिपदात्संग्रहः । स देवयानेन पथा "तेऽर्चिषमभिसंभवन्त्यर्चिषोहरह्न अापूर्यमाणपक्षं” इत्याद्युपक्रम्य "य एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते" इति श्रुत्युक्तेन ब्रह्मलोकं एवावधिस्तं याति । नरोऽधिकारी जीवः ॥ २२ ॥ देवयानं पन्थानं श्रुत्युक्तं श्लोकतः संगृह्णाति---अर्चिरित्यादिना । दिव्यः श्रुत्युक्तो मानवः पुरुषः इह विद्युल्लोक एति तत्रागत्य तमुपासकं गृहीत्वा ब्रह्मलोकं गमयतीति शेषः । तत्रैव तस्योपासकस्य श्रवणादिज्ञानोदये ब्रह्मणा सह मुक्तिः नतु पुनरावृत्तिः । "एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते' इति श्रुतेः । "ब्राह्मणा सह ते सर्वे संप्रामे प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥” इति स्मृतेश्च । अत्रच संवत्सरादित्योर्मध्ये-, 
१२५
बालानन्दिनीव्याख्यासहिता ।

 

आदित्यचन्द्रलोको तु विद्युल्लोकमतः परम् ।
अथ दिव्यः पुमान्कश्चिद्ब्रह्मलोकादिहैति सः ॥ २४ ॥
दिव्ये वपुषि संधाय जीवमेवं नयत्यसौ ॥ २५ ॥
ब्रह्मलोके दिव्यदेहे भुक्त्वा भोगान्यथेप्सितान् ।
तत्रोषित्वा चिरं कालं ब्रह्मणा सह मुच्यते ॥ २६ ॥
शुद्धब्रह्मरतो यस्तु न स यात्येव कुत्रचित ।
तस्य प्राणा विलीयन्ते जले सैन्धवखिल्यवत् ॥ २७ ॥
स्वप्नदृष्टा यथा सृष्टिः प्रबुद्धस्य विलीयते ।
ब्रह्मज्ञानवतस्तद्वद्विलीयन्ते तदैव ते ॥
विद्याकर्मविहीनो यस्तृतीयं स्थानमेति सः ॥ २८ ॥
भुक्त्वा च नरकान्घोरान्महारौरवरौरवान् ।
पश्चात्प्राक्तनशेषेण क्षुद्रजन्तुर्भवेदसौ ॥ २९ ॥
यूकामशकदंशादि जन्मासौ लभते भुवि ।
एवं जीवगतिः प्रोक्ता किमन्यच्छ्रोतुमिच्छसि ॥ ३० ॥


देवलोकवायुलोकौ विद्युदनन्तरं वरुणेन्द्रप्रजापतिलोकाः श्रुत्यन्तरोक्ता उपसंहर्तव्या इति दिक् ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८॥। इदानीं पापभोगाय चेद्रच्छेद्यमदूतैरधिष्ठित इत्यादिपूर्वोक्तरीत्या नरर्क गतस्य पश्चाद्भाविनीमवस्थामाह-भुक्त्वा चेति । ततो बहुमिर्जन्मसहस्रैः: केनचित्पुण्यपरिपाकेन ज्ञानी भूत्वा मुक्तो भवतीति भावः । माध्वास्तु "न स पुनरावर्तते' इति श्रुतिर्मुक्तानामन्धतमोगानां च समैवेति जल्पन्ति तेषां गौतमादिसप्तानां चतुरादिश्रुतिब्रह्मतर्कमूलरामायणादिस्मृतिकल्पकानां दुर्मतं वैदिकैः कौतुकायापि 
१२६
[ अध्यायः ११
शिवगीता ।

 

राम उवाच ।


भगवन्यत्त्वया प्रोक्तं फलं तु ज्ञानकर्मणोः ।
ब्रह्मलोके चन्द्रलोके भुङ्क्ते भोगानिति प्रभो ॥ ३१ ॥
गन्धर्वादिषु लोकेषु कथं भोगः समीरितः ॥
देवत्वं प्राप्नुयात्कश्चित्कश्चिदिन्द्रत्वमेव च ॥ ३२ ॥
एतत्कर्मफलं वास्तु विद्याफलमथापि वा ।
तद्ब्रूहि गिरिजाकान्त तत्र मे संशयो महान् ॥ ३३ ॥

श्रीभगवानुवाच ।


तद्विद्याकर्मणोरेवानुसारेण फलM भवेत् ॥
युवा च सुन्दरः शूरोनीरोगो बलवान्भवेत् ॥ ३४ ॥
सप्तद्वीपां वसुमतीं भुङ्क्ते निष्कण्टकं यदि।
स प्रोक्तो मानुषानन्दस्तस्माच्छतगुणो मतः ॥ ३५ ॥
मनुष्यस्तपसा युक्तो गन्धर्वो जायतेऽस्य तु ॥
तस्माच्छतगुणो देवगन्धर्वाणां न संशयः ॥ ३६ ॥}}


नावलोकनीयमित्यन्यत्र विस्तरः ॥ २९ ॥ ३० ॥। उपासनाया इष्टापूर्तादिकर्मणश्च फलं यथाक्रमं ब्रह्मलोकचन्द्रलोकप्राप्तिरूपमुक्तं गन्धर्वसूर्येन्द्रादिलोकप्राप्तिस्तत्किमिदमुपासनाफलं विद्याफलं वेति संदिहानः पृच्छति---भगवन्निति । ज्ञानमुपासा कर्म इष्टापूर्तादि तयोः फलं तूक्तम् ॥ ३१ ॥ ३२ ॥। एतत्कर्मफलं वास्तु अथवा विद्याया उपासनायाः फलम्॥३३॥उत्तरमाह--तदिति । विद्याकर्मणोः पूर्वोक्तयोरेव तारतम्यानुसारेण फलतारतम्यं स्यात् तदेव मानुषाद्यानन्दानां तारतम्यमाह---युवा चेत्यादिना ॥ ३४ ॥ ३५ ॥ मनुष्य इति । तपसा युक्तः सन् गन्धर्वो जायते । अस्य गन्धर्वतां प्राप्तस्यानन्दः पूर्वोक्त। मानुषानन्दाच्छतगुणोऽधिक इति संबन्धः । उत्तगन्धर्बानन्दाद्दे
१२७
बालानन्दिनीव्याख्यासहिता ।

 

एवं शतगुणानन्द उत्तरोत्तरतो भवेत् ।
पितृणां चिरलोकानामाजानसुरसंपदामू ॥ ३७ ॥
देवतानामथेन्द्रस्य गुरोस्तद्वत्प्रजापतेः ।
ब्रह्मणश्चैवमानन्दाः पुरस्तादुत्तरोत्तरम् ॥ ३८ ॥
ज्ञानाधिक्यात्सुखाधिक्यं नान्यदस्ति सुरालये ।
श्रोत्रियोऽवृजिनोऽकामहतो यश्च द्विजो भवेत् ॥ ३९॥
तस्याप्येर्व समाख्याता आनन्दाश्चोत्तरोत्तरमू ।
अात्मज्ञानात्परं नास्ति तस्माद्दशरथात्मज ॥ ४० ॥


वगन्धर्वाणामानन्दः शतगुणः ॥ ३६ । एवमिति । वक्ष्यमाणानां पित्रादीनामप्यानन्दः क्रमेणोत्तरोत्तरं शतगुणो बोद्धव्य इत्यर्थः । षष्ठयर्थ तसिः। पितृणां चिरलोकानां तथा आजानदेवानां कर्मणा देवत्वं प्राप्तानाम् । तथा देवानां अथेन्द्रस्य बृहस्पतेस्तद्वत्प्रजापतेः ब्रह्मणश्च । पुरस्तात्पूर्वस्मादुत्तरोत्तरं शतगुण इति सर्वत्र योजनीयम् ।।। ३७ ॥ ३८ ॥ ज्ञानाधिक्यादिति ज्ञानशब्दः कर्मणोरप्युपलक्षकः । उपासनायाः कर्मणश्च तारतम्यात्स्वर्गे सुखतारतम्यमित्यर्थः । अन्यत्सुखं तारतम्यंप्रति कारणं नास्तीत्यर्थः । इदानीं श्रुतौ प्रतिपर्यायं "श्रोत्रियस्य चाकामहतस्य' इत्याम्नातं तस्याशयं संगृह्णाति *श्रोत्रियश्छन्दोऽधीते' इति निपातनात्साधुः । वेदपारग इत्यर्थः । अवृजिनो निष्पापः अकामहतो निष्कामः एवंभूतो यो द्विजो भवेत् । द्विजग्रहणं ब्रह्मक्षत्रविशां परिग्रहार्थम् ॥ ३९ । तस्यापीति । एवंभूतो य आत्मज्ञानी द्विजस्तस्यापि । अपिः समुच्चये । पूर्वोक्ताः सर्वे आनन्दा एवं युगपत्प्राप्तुं भवन्ति। ‘सोऽश्नुते सर्वान्कामान्सह” इति श्रुतेः ।। "आापूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । 
१२८
[ अध्यायः ११
शिवगीता ।

 

ब्राह्मणः कर्मभिनैव वर्धते नैव हीयते ॥
न लभ्यः पातकेनैव कर्मणा ज्ञानवान्यदि ॥ ४१ ॥
तस्मात्सर्वाधिको विप्रो ज्ञानवानेव जायते ।
ज्ञात्वा यः कुरुते कर्म तस्याक्षय्यफलं भवेत् ॥ ४२ ॥
यत्फलं लभते मर्त्यः कौटिब्राह्मणभोजनैः ।
तत्फलं समवाप्नोति ज्ञानिनं यस्तु भोजयेत् ॥ ४३ ॥
ज्ञानवन्तं द्विजं यस्तु द्विष्यते च नराधमः ॥
स शुष्यमाणो म्रियते यस्मादीश्वर एव सः ।। ४४ ॥


तद्वत्कामा यं प्रविशन्ति सर्वे' इति स्मृतेश्च । यस्मादेवं तस्मात् अात्मज्ञानात्परमुत्कृष्टं नास्ति "नान्यः पन्था अयनाय विद्यते । ज्ञानादेव तु कैवल्यं' इत्यादिश्रुतेः ॥ ४० । ज्ञानिप्रशंसामाह-- ब्राह्मण इति । ब्राह्मणो ब्रह्मवित् विधिनिषेधावविद्वद्विषयकावेवेति भावः । यद्येवंविधो ज्ञानी यदि स्यात् सः पातकेन कर्मणा नैव लभ्यः प्राप्यः । पुण्यपुञ्जैरेव प्राप्य इति भावः ॥ ४१ । यस्मादेवं तस्माद्यो ज्ञानवान्विप्रः स एव सर्वाधिको भवतीत्यर्थः ।। "ज्ञानी त्वात्मैव मे मतम्' इति स्मृतेः । तस्य सेवायां फलमाह--ज्ञात्वेतेि । यः सुकृती ज्ञानिनं ज्ञात्वा तस्य कर्म सेवां कुरुते तस्य सुकृतिनः अक्षय्यं फलं भवेत् । परम्परया मोक्षपर्यवसायि स्यादिति भावः ।। ४२ । यत्फलमिति स्पष्टम् ।। ४३ ॥ ज्ञानवन्तमिति । द्विष्यते द्वेष्टेि सः शुष्यमाणः क्षयरोगी सन् म्रियते । यस्मात् ज्ञानी ईश्वर एव तस्मात् ।। "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” इति स्मृतेः । मम तस्य च भेदो न स्वात्मत्वेन किंतु लोकदृष्ट्यैवेति तदर्थः । तदेवमधिगतपरमार्थः कृतकृत्य एवेति व्यवस्थापितम्
१२९
बालानन्दिनीव्याख्यासहिता ।

 

उपासको न यात्येव यस्मात्पुनरधोगतिमू ।
उपासनरतो भूत्वा तस्मादास्स्व सुखी नृप ॥ ४५ ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशाब्रे शिवराघवसंवादे

शरीरनिरूपणं नाम एकादशोऽध्यायः ॥ ११ ॥