शास्त्रवार्तासमुच्चयम्

विकिस्रोतः तः
रचयिता - आचार्य हरिभद्रसूरि

ग्रन्थप्रस्तावना: मोक्ष-साधनरूप से धर्म की उपादेयता[सम्पाद्यताम्]

प्रणम्य परमात्मानं वक्ष्यामि हितकाम्यया ।
सत्त्वानाम् अल्पबुद्धीनां शास्त्रवार्त्तासमुच्चयम् ॥ (१.१)१ ॥

यं श्रुत्वा सर्वशास्त्रेषु प्रायस् तत्त्वविनिश्चयः ।
जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः ॥ (१.१)२ ॥

दुःखं पापात् सुखं धर्मात् सर्वशास्त्रेषु संस्थितिः ।
न कर्तव्यम् अतः पापं कर्तव्यो धर्मसंचयः ॥ (१.१)३ ॥

हिंसानृतादयः पञ्च तत्त्वाश्रद्धानम् एव च ।
क्रोधादयश् च चत्वार इति पापस्य हेतवः ॥ (१.१)४ ॥

विपरीतास्तु धर्मस्य एत एवोदिता बुद्धैः ।
एतेषु सततं यत्नः सम्यक् कार्यः सुखैषिणा ॥ (१.१)५ ॥

साधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भावतः ।
आत्मीयग्रहमोक्षश् च धर्महेतुप्रसाधनम् ॥ (१.१)६ ॥

उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम् ।
स्थाने विनय इत्येतत् साधुसेवाफलं महत् ॥ (१.१)७ ॥

मैत्रीं भावयतो नित्यं शुभो भावः प्रजायते ।
ततो भावोदयाज्जन्तोर् द्वेषाग्निर् उपशाम्यति ॥ (१.१)८ ॥

अशेषदोषजननी निःशेषगुणघातिनी ।
आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्त्तते ॥ (१.१)९ ॥

एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः ।
तत्त्वविद्धिः समाख्यातः सम्यग् धर्मस्य साधकः ॥ (१.१)१० ॥

उपादेयश् च संसारे धर्म एव बुद्धैः सदा ।
विशुद्धो मुक्तये सर्वं यतोऽन्यद् दुःखकारणम् ॥ (१.१)११ ॥

अनित्यः प्रियसंयोग इहेर्ष्याशोकवत्सलः ।
अनित्यं यौवनं चापि कुत्सिताचरणास्पदम् ॥ (१.१)१२ ॥

अनित्याः सम्पदस् तीव्र-क्लेशवर्गसमुद्भवाः ।
अनित्यं जीवितं चेह सर्वभावनिबन्धनम् ॥ (१.१)१३ ॥

पुनर्जन्म पुनर्मृत्युर् हीनादिस्थानसंश्रयः ।
पुनः पुनश् च यद् अतः सुखम् अत्र न विद्यते ॥ (१.१)१४ ॥

प्रकृत्यसुन्दरं ह्य् एवं संसारे सर्वम् एव यत् ।
अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् ॥ (१.१)१५ ॥

मुक्त्वा धर्मं जगद् वन्द्यम् अकलङ्कं सनातनम् ।
परार्थसाधकं धीरैः सेवितं शीलशालिभिः ॥ (१.१)१६ ॥

आह तत्रापि नो युक्ता यदि सम्यग् निरूप्यते ।
धर्मस्यापि शुभो यस्माद् बन्ध एव फलं मतम् ॥ (१.१)१७ ॥

न चायसस्य बन्धस्य तदा हेममयस्य च ।
फले कश्चिद् विशेषोऽस्ति पारतन्त्र्याविशेषतः ॥ (१.१)१८ ॥

तस्माद् अधर्मवत् त्वाज्यो धर्मोऽप्य् एवं मुमुक्षुभिः ।
धर्माधर्मक्षयान्म् उक्तिर् मुनिभिर् वर्णिता यतः ॥ (१.१)१९ ॥

उच्यते एवम् एवैतत् किन्तु धर्मो द्विधा मतः ।
संज्ञानयोग एवैकस् तथान्यः पुण्यलक्षणः ॥ (१.१)२० ॥

ज्ञानयोगस् तपः शुद्धम् आशंसादोषवर्जितम् ।
अभ्यासातिशयाद् उक्तं तद् विमुक्तेः प्रसाधनम् ॥ (१.१)२१ ॥

धर्मस् तदपि चेत् सत्यं किं न बन्धफलः स यत् ।
आशंसा वर्जितोऽन्योऽपि किं नैवं चेद् न यत् तथा ॥ (१.१)२२ ॥

भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः ।
सम्यग्मिथ्यादिरूपश् च गतिस् तन्त्रान्तरेष्व् अपि ॥ (१.१)२३ ॥

तम् अन्तरेण तु तयोः क्षयः केन प्रसाध्यते ।
सदा स्यान् न कदाचिद् वा यद्य् अहेतुक एव सः ॥ (१.१)२४ ॥

तस्माद् अवश्यम् एष्टव्यः कश्चिद् हेतुस् तयोः क्षयें ।
स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः ॥ (१.१)२५ ॥

धर्माधर्मक्षयान् मुक्तिर् यच् चोक्तं पुण्यलक्षणम् ।
हेयं धर्मं तदाश्रित्य न तु संज्ञानयोगकम् ॥ (१.१)२६ ॥

अतस् तत्रैव युक्तास्था यदि सम्यग् निरूप्यते ।
संसारे सर्वम् एवान्यत् दर्शितं दुःखकारणम् ॥ (१.१)२७ ॥

तस्माच् च जायते मुक्तिर् यथा मृत्यादिवर्जिता ।
तथोपरिष्टाद् वक्ष्यामः सम्यक्शास्त्रानुसारतः ॥ (१.१)२८ ॥

इदानीं तु समासेन शास्त्रसम्यक्त्वम् उच्यते ।
कुवादियुक्त्यपव्याख्या-निरासेनाविरोधतः ॥ (१.१)२९ ॥

भूतचैतन्यवाद-खण्डन[सम्पाद्यताम्]

पृथिव्यादिमहाभूत-कार्यमात्रम् इदं जगत् ।
न चात्मदृष्टसद्भावं मन्यन्ते भूतवादिनः ॥ (१.२)३० ॥

अचेतनानि भूतानि न तद्धर्मो न तत्फलम् ।
चेतनास्ति च यस्येयं स एवात्मेति चापरे ॥ (१.२)३१ ॥

यदीयं भूतधर्मः स्यात् प्रत्येकं तेषु सर्वदा ।
उपलम्भ्येत सत्त्वादि-काठिनत्वादयो यथा ॥ (१.२)३२ ॥

शक्तिरूपेणा सा तेषु सदातो नोपलभ्यते ।
न च तेनापि रूपेण सत्यसत्य् एव चेन् न तत् ॥ (१.२)३३ ॥

शक्तिवेतनयोरैव्यं नानात्वं वाथ सर्वथा ।
ऐक्ये सा चेतनेवेति नानात्वेऽन्यस्य सा यतः ॥ (१.२)३४ ॥

अनभिव्यक्तिर् अप्य् अस्या न्यायतो नोपपद्यते ।
आवृतिर् न यद् अन्येन तत्त्वसंख्याविरोधतः ॥ (१.२)३५ ॥

न चासौ तत्स्वरूपेण तेषाम् अन्यतरेण वा ।
व्यञ्जकत्वप्रतिज्ञानात् नावृतिर् व्यञ्जकं यतः ॥ (१.२)३६ ॥

विशिष्टपरिणामभा- -वेऽपि ह्य् अत्रावृतिर् न वै ।
भावताप्तेस्तथा नाम-व्यञ्जकत्वप्रसङ्गतः ॥ (१.२)३७ ॥

न चासौ भूतभिन्नो यत् ततो व्यक्तिः सदा भवेत् ।
भेदे त्वधिकभावेन तत्त्वसंख्या न युज्यते ॥ (१.२)३८ ॥

स्वकालेऽभिन्न इत्य् एवं कालाभावे न सङ्गतम् ।
लोकसिद्धाश्रये त्व् आत्मा हन्त ! नाश्रीयते कथम् ॥ (१.२)३९ ॥

नात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात् ।
सर्वेषां तदभावश् च चित्रकर्मविपाकतः ॥ (१.२)४० ॥

लोकेऽपि नैकतः स्थानाद् आगतानां तथेक्ष्यते ।
अविशेषेण सर्वेषाम् अनुभूतार्थसंस्मृतिः ॥ (१.२)४१ ॥

दिव्यदर्शनतश् चैव तच्छिष्टाव्यभिचारतः ।
पितृकर्मादिसिद्धेश् च हन्त ! नात्माप्य् अलौकिकः ॥ (१.२)४२ ॥

काठिन्याबोधरूपाणि भूतान्य् अध्यक्षसिद्धितः ।
चेतना तु न तद्रूपा सा कथं तत्फलं भवेत् ? ॥ (१.२)४३ ॥

प्रत्येकम् असती तेषु न च स्याद् रेणुतैलवत् ।
सती चेद् उपलभ्येत भिन्नरूपेषु सर्वदा ॥ (१.२)४४ ॥

असत् स्थूलत्वम् अण्वादौ घटादौ दृश्यते यथा ।
तथासत्येव भूतेषु चेतनापीति चेन् मतिः ॥ (१.२)४५ ॥

नासत् स्थूलत्वम् अण्वादौ तेभ्य एव तदुद्भवात् ।
असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः ॥ (१.२)४६ ॥

पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः ।
भवेद् उत्पत्तिर् एवं च तत्त्वसंख्या न युज्यते ॥ (१.२)४७ ॥

न तज्जननस्वभावाश् चेत् तेऽत्र मानं न विद्यते ।
स्थूलत्वोत्पाद इष्टश् चेत् तत्सद्भावेऽप्य् असौ समः ॥ (१.२)४८ ॥

न च मूर्त्ताणुसङ्घात-भिन्नं स्थूलत्वम् इत्य् अदः ।
तेषाम् एव तथाभावो न्याय्यं मानाविरोधतः ॥ (१.२)४९ ॥

भेदे तददलं यस्मात् कथं सद्भावम् अश्नुते ।
तदभावेऽपि तद्भावे सदा सर्वत्र वा भवेत् ॥ (१.२)५० ॥

न चैवं भूतसङ्घात-मात्रं चैतन्यम् इष्यते ।
अविशेषेण सर्वत्र तद्वत् तद्भावसङ्गतेः ॥ (१.२)५१ ॥

एवं सति घटादीनां व्यक्तचैतन्यभावतः ।
पुरुषान् न विशेषः स्यात् स च प्रत्यक्षबाधितः ॥ (१.२)५२ ॥

अथ भिन्नस्वभावानि भूतान्य् एव यतस्ततः ।
तत्संघातेषु चैतन्यं न सर्वेष्व् एतद् अप्य् असत् ॥ (१.२)५३ ॥

स्वभावो भूतमात्रत्वे सति न्यायान् न भिद्यते ।
विशेषणं विना यस्मान् न तुल्यानां विशिष्टता ॥ (१.२)५४ ॥

स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः ।
अन्यभेदकभावे तु स एवात्मा प्रसज्यते ॥ (१.२)५५ ॥

हविर् गुडकणिक्कादि-द्रव्यसङ्घातजान्य् अपि ।
यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् ॥ (१.२)५६ ॥

व्यक्तिमात्रत एवैषां ननु भिन्नस्वभावता ।
रसवीर्यविपाकादि-कार्यभेदो न विद्यते ॥ (१.२)५७ ॥

तदात्मकत्वमात्रत्वे संस्थानादिविलक्षणा ।
यथेयम् अस्ति भूतानां तथा सापि कथं न चेत् ॥ (१.२)५८ ॥

कर्त्रभावात् तथा देश-कालभेदाद्ययोगतः ।
न चासिद्धमदो भूत-मात्रत्वे तदसंभवात् ॥ (१.२)५९ ॥

तथा च भूतमात्रत्वे न तत्सङ्घातभेदयोः ।
भेदकाभावतो भेदो युक्तः सम्यग् विचिन्त्यताम् ॥ (१.२)६० ॥

एकस् तथापरो नेति तन्मात्रत्वे तथाविधः ।
यतस् तद् अपि नो भिन्नं ततस् तुल्यं च तत् तयोः ॥ (१.२)६१ ॥

स्यादेतद् भूतजत्वेऽपि ग्रावादीनां विचित्रता ।
लोकसिद्धेति सिद्धैव न सा तन्मात्रजा ननु ॥ (१.२)६२ ॥

अदृष्टाकाशकालादि-सामग्रीतः समुद्भवात् ।
तथैव लोकसंवित्तेर् अन्यथा तदभावतः ॥ (१.२)६३ ॥

न चेह लौकिको मार्गः स्थितोऽस्माभिर् विचार्यते ।
किं त्व् अयं युज्यते क्वेति त्वन्नीतौ चोक्तवन् न सः ॥ (१.२)६४ ॥

मृतदेहे च चैतन्यम् उपलभ्येत सर्वथा ।
देहधर्मादिभावेन तत् तद्धर्मादि नान्यथा ॥ (१.२)६५ ॥

न च लावण्यकार्कश्य-श्यामत्वैर् व्यभिचारिता ।
मृतदेहेऽपि सद्भावाद् अध्यक्षेणैव संगतेः ॥ (१.२)६६ ॥

न चेल् लावण्यसद्भावो न स तन्मात्रहेतुकः ।
अत एवान्यसद्भावाद् अस्त्य् आत्मेति व्यवस्थितम् ॥ (१.२)६७ ॥

न प्राणादिर् असौ मानं किं तद्भावेऽपि तुल्यता ।
तदभावाद् अभावश् चेद् आत्माभावे न का प्रमा ॥ (१.२)६८ ॥

तेन तद्भावभावित्वं न भूयो नलिकादिना ।
संपादितेऽप्य् एतत् सिद्धेः सोऽन्य एवेति चेद् न तत् ॥ (१.२)६९ ॥

वायुसामान्यसंसिद्धेस् तत्स्वभावः स नेति चेत् ।
अत्रापि न प्रमाणं वश् चैतन्योत्पत्तिर् एव चेत् ॥ (१.२)७० ॥

न तस्याम् एव संदेहात् तवायं केन नेति चेत् ।
तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥ (१.२)७१ ॥

तद्वैलक्षण्यसंवित्तेः मातृचैतन्यजे ह्य् अयम् ।
सुते तस्मिन् न दोषः स्यान् न न भावेऽस्य मातरि ॥ (१.२)७२ ॥

न च संस्वेदजाद्येषु मात्रभावेन तद् भवेत् ।
प्रदीपज्ञातम् अप्य् अत्र निमित्तत्वान् न बाधकम् ॥ (१.२)७३ ॥

इत्थं न तदुपादानं युज्यते तत् कथंचन ।
अन्योपादानभावे च तद् एवात्मा प्रसज्यते ॥ (१.२)७४ ॥

न तथाभाविनं हेतुम् अन्तरेणोपजायते ।
किञ्चिन् नश्यति नैकान्ताद् यथाह व्यासमहर्षिः ॥ (१.२)७५ ॥

नासतो विद्यते भावो नाभावो विद्यते सतः ।
अभयोर् अपि दृष्टोऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥ (१.२)७६ ॥

नाभावो भावम् आप्नोति शशशृङ्गे तथागतेः ।
भावो नाभावम् एतीह दीपश् चेन् न स सर्वथा ॥ (१.२)७७ ॥

एवं चैतन्यवान् आत्मा सिद्धः सततभावतः ।
परलोक्य् अपि विज्ञेयो युक्तिमार्गानुसारिभिः ॥ (१.२)७८ ॥

'मैं' विषयक प्रत्यक्ष अनुभव से आत्मा की सिद्धि[सम्पाद्यताम्]

सतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम् ।
अस्त्य् एव दर्शनं स्पष्टम् अहंप्रत्ययवेदनात् ॥ (१.३)७९ ॥

भ्रान्तोऽहं गुरुर् इत्य् एषः सत्यम् अन्यस् त्व् असौ मतः ।
व्यभिचारित्वतो नास्य गमकत्वम् अथोच्यते ॥ (१.३)८० ॥

प्रत्यक्षस्यापि तत् त्याज्यं तत्सद्भावाविशेषतः ।
प्रत्यक्षाभासम् अन्यच् चेद् व्यभिचारि न साधु तत् ॥ (१.३)८१ ॥

अहंप्रत्ययपक्षेऽपि ननु सर्वम् इदं समम् ।
अतस् तद्वद् असौ मुख्यः सम्यक् प्रत्यक्षम् इष्यताम् ॥ (१.३)८२ ॥

गुर्वी मे तनुर् इत्य् आदौ भेदप्रत्ययदर्शनात् ।
भ्रान्तताभिमतस्यैव सा युक्ता नेतरस्य तु ॥ (१.३)८३ ॥

आत्मनात्मग्रहोऽप्य् अस्य तथानुभवसिद्धितः ।
तस्यैव तत्स्वभावत्वात् न तु युक्त्या न युज्यते ॥ (१.३)८४ ॥

न च बुद्धिविशेषोऽयम् अहंकारः प्रकल्प्यते ।
दानादिबुद्धिकालेऽपि तथाहंकारवेदनात् ॥ (१.३)८५ ॥

आत्मनात्मग्रहे तस्य तत्स्वभावत्वयोगतः ।
सदैवाग्रहणं ह्य् एवं विज्ञेयं कर्मदोषतः ॥ (१.३)८६ ॥

अतः प्रत्यक्षसंसिद्धः सर्वप्राणभृताम् अयम् ।
स्वयंज्योतिः सदैवात्मा तथा वेदेऽपि पठ्यते ॥ (१.३)८७ ॥

आत्मा तथा कर्म के सम्बन्ध में मतमतान्तर[सम्पाद्यताम्]

अत्रापि वर्णयन्त्येके सौगताः कृतबुद्धयः ।
क्लिष्टं मनोऽस्ति यन् नित्यं तद् यथोक्तात्मलक्षणम् ॥ (१.४)८८ ॥

यदि नित्यं तदात्मैव संज्ञाभेदोऽत्र केवलम् ।
अथानित्यं ततश् चेदं न यथोक्तात्मलक्षणम् ॥ (१.४)८९ ॥

यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च ।
संसर्त्ता परिनिर्वाता स ह्य् आत्मा नान्यलक्षणः ॥ (१.४)९० ॥

आत्मत्वेनाविशिष्टस्य वैचित्र्यं तस्य यद्वशात् ।
नरादिरूपं तच्चित्रम् अदृष्टं कर्मसंज्ञितम् ॥ (१.४)९१ ॥

तथा तुल्येऽपि चारम्भे सदुपायेऽपि यो नृणाम् ।
फलभेदः स नो युक्तो युक्त्या हेत्वन्तरं विना ॥ (१.४)९२ ॥

तस्मादवश्यमेष्टव्यं तत्र हेत्वन्तरं परैः ।
तदेवादृष्टमित्याहुर् अन्ये शास्त्रकृतश्रमाः ॥ (१.४)९३ ॥

भूतानां तत्स्वभावत्वाद् अयम् इत्य् अप्य् अनुत्तरम् ।
न भूतात्मक एवात्मेत्य् एतद् अत्र निदर्शितम् ॥ (१.४)९४ ॥

कर्मणो भौतिकत्वेन यद् वैतद् अपि साम्प्रतम् ।
आत्मनो व्यतिरिक्तं तत् चित्रभावं यतो मतम् ॥ (१.४)९५ ॥

शक्तिरूपं तद् अन्ये तु सूरयः संप्रचक्षते ।
अन्ये तु वासनारूपं विचित्रफलदं मतम् ॥ (१.४)९६ ॥

अन्ये त्व् अभिदधत्य् अत्र स्वरूपनियतस्य वै ।
कर्तुर् विनान्यसंबन्धं शक्तिर् आकस्मिकी कुतः ॥ (१.४)९७ ॥

तत्क्रियायोगतः सा चेत् तदपुष्टौ न युज्यते ।
तदन्ययोगाभावे च पुष्टिर् अस्य कथं भवेत् ॥ (१.४)९८ ॥

अस्त्य् एव सा सदा कन्तु क्रियया व्यज्यते परम् ।
आत्ममात्रस्थिताया न तस्या व्यक्तिः कदाचन ॥ (१.४)९९ ॥

तदन्यावरणाभावाद् भावे वास्यैव कर्मता ।
तन्निराकरणाद् व्यक्तिर् इति तद्भेदसंस्थितिः ॥ (१.४)१०० ॥

पापं तद्भिन्नम् एवास्तु क्रियान्तरनिबन्धनम् ।
एवम् इष्टक्रियाजन्यं पुण्यं किम् इति नेक्ष्यते ॥ (१.४)१०१ ॥

वासनाप्य् अन्यसंबन्धं विना नैवोपपद्यते ।
पुष्पादिगन्धवैकल्ये तिलादौ नेक्ष्यते यतः ॥ (१.४)१०२ ॥

बोधमात्रातिरिक्तं तद् वासकं किञ्चिद् इष्यताम् ।
मुख्यं तद् एव वः कर्म न युक्ता वासनान्यथा ॥ (१.४)१०३ ॥

बोधमात्रस्य तद्भावे नास्ति ज्ञानम् अवासितम् ।
ततोऽमुक्तिः सदैव स्याद् वैशिष्ट्यं केवलस्य न ॥ (१.४)१०४ ॥

एवं शक्त्यादिपक्षोऽयं घटते नापपत्तितः ।
बन्धान् न्यूनातिरिक्तत्वे तद्भावान् उपपत्तितः ॥ (१.४)१०५ ॥

तस्मात् तदात्मनो भिन्नं सच्चित्रं चात्मयोगि च ।
अदृष्टम् अवगन्तव्यं तस्य शक्त्यादिसाधकम् ॥ (१.४)१०६ ॥

अदृष्टं कर्म संस्काराः पुण्यापुण्ये शुभाशुभे ।
धर्माधर्मौ तथा पाशः पर्यायास् तस्य कीर्त्तिताः ॥ (१.४)१०७ ॥

हेतवोऽस्य समाख्याताः पूर्वं हिंसानृतादयः ।
तद्वान् संयुज्यते तेन विचित्रफलदायिना ॥ (१.४)१०८ ॥

नैवं दृष्टेष्टबाधा यत् सिद्धिश् चास्यानिवारिता ।
तद् एनम् एव विद्वांसस् तत्त्ववादं प्रचक्षते ॥ (१.४)१०९ ॥

भूतचैतन्यवादखण्डन का उपसंहार[सम्पाद्यताम्]

लोकायतमतं प्राज्ञैर् ज्ञेयं पापौघकारणम् ।
इत्थं तत्त्वविलोमं यत् तन् न ज्ञानविवर्धनम् ॥ (१.५)११० ॥

इन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः ।
अदोऽपि युक्तिशून्यं यन् नेत्थम् इन्द्रः प्रतार्यते ॥ (१.५)१११ ॥

तस्माद् दुष्टाशयकरं क्लिष्टसत्त्वविचिन्तितम् ।
पापश्रुतं सदा धीरैर् वर्ज्यं नास्तिकदर्शनम् ॥ (१.५)११२ ॥

दूसरा स्तबक[सम्पाद्यताम्]

पुण्य, पाप तथा मोक्ष से संबंधित कुच्छ प्रश्न[सम्पाद्यताम्]

हिंसादिभ्योऽशुभं कर्म तदन्येभ्यश् च तच्छुभम् ।
जायते नियमो मानात् कुतोऽयम् इति नापरे ॥ (२.१)११३ ॥

आगमाख्यात् तदन्ये तु तच् च दृष्टाद्यबाधितम् ।
सर्वार्थविषयं नित्यं व्यक्तार्थं परमात्मना ॥ (२.१)११४ ॥

चन्द्रसूर्योपरागादेस् ततः संवाददर्शनात् ।
तस्याप्रत्यक्षेऽपि पापादौ न प्रामाण्यं न युज्यते ॥ (२.१)११५ ॥

यदि नाम क्वचिद् दृष्टः संवादोऽन्यत्र वस्तुनि ।
तद्भावस् तस्य तत्त्वं वा कथं समवसीयते ? ॥ (२.१)११६ ॥

आगमैकत्वतस् तच् च वाक्यादेस् तुल्यतादिना ।
सुवृद्धसंप्रदायेन तथा पापक्षयेण च ॥ (२.१)११७ ॥

अन्यथा वस्तुतत्त्वस्य परीक्षैव न युज्यते ।
आशङ्का सर्वगा यस्मात् छद्मस्थस्योपजायते ॥ (२.१)११८ ॥

अपरीक्षापि नो युक्ता गुणदोषाविवेकतः ।
महत् संकटमायातम् आशङ्के न्यायवादिनः ॥ (२.१)११९ ॥

तस्माद् यथोदितात् सम्यग् आगमख्यात् प्रमाणतः ।
हिंसादिभ्योऽशुभादीनि नियमोऽयं व्यवस्थितः ॥ (२.१)१२० ॥

क्लिष्टाद् हिंसाद्यनुष्ठानात् प्राप्तिः क्लिष्टस्य कर्मणः ।
यथापथ्यभुजो व्याधेर् अक्लिष्टस्य विपर्ययात् ॥ (२.१)१२१ ॥

स्वभाव एष जीवस्य यत् तथापरिणामभाक् ।
बध्यते पुण्यपापाभ्यां माध्यस्थ्यात् तु विमुच्यते ॥ (२.१)१२२ ॥

सुदूरम् अपि गत्वेह विहितासूपपत्तिषु ।
कः स्वभावागमावन्ते शरणं न प्रपद्यते ॥ (२.१)१२३ ॥

प्रतिपक्षस्वभावेन प्रतिपक्षागमेन च ।
बाधित्वात् कथं ह्य् एतौ शरणं युक्तिवादिनाम् ॥ (२.१)१२४ ॥

प्रतीत्या बाध्यते यो यत् स्वभावो न स युज्यते ।
वस्तुनः कल्प्यमानोऽपि वह्न्यादेः शीततादिवत् ॥ (२.१)१२५ ॥

वह्नेः शीतत्वम् अस्त्य् एव तत्कार्यं किं न दृश्यते ।
दृश्यते हि हिमासन्ने कथम् इत्थं स्वभावतः ॥ (२.१)१२६ ॥

हिमस्यापि स्वभावोऽयं नियमाद् वह्निसंनिधौ ।
करोति दाहम् इत्य् एवं वह्न्यादेः शीतता न किम् ॥ (२.१)१२७ ॥

व्यवस्थाभावतो ह्य् एवं या त्वद्बुद्धिर् इहेदृशी ।
सा लोष्टाद् अस्य यत् कार्यं तत् त्वत्तस् तत्स्वभावतः ॥ (२.१)१२८ ॥

एवं सुबुद्धिशून्यत्वं भवतोऽपि प्रसज्यते ।
अस्तु चेत् को विवादो नो बुद्धिशून्येन सर्वथा ॥ (२.१)१२९ ॥

अन्यस्त्वाहेह सिद्धेऽपि हिंसादिभ्योऽशुभादिके ।
शुभादेर् एव सौख्यादि केन मानेन गम्यते ॥ (२.१)१३० ॥

अत्रापि ब्रुवते केचित् सर्वथा युक्तिवादिनः ।
प्रतीतिगर्भया युक्त्या किलैतद् अवसीयते ॥ (२.१)१३१ ॥

तयाहुर् नाशुभात् सौख्यं तद्बाहुल्यप्रसंगतः ।
बहवः पापकर्माणो विरलाः शुभकारिणः ॥ (२.१)१३२ ॥

न चैतद् दृश्यते लोके दुःखबाहुल्यदर्शनात् ।
शुभात् सौख्यं ततः सिद्धम् अतोऽन्यच् चाप्य् अतोऽन्यतः ॥ (२.१)१३३ ॥

अन्ये पुनर् इदं श्राद्धा ब्रुवते आगमेन वै ।
शुभादेर् एव सौख्यादि गम्यते नान्यतः क्वचित् ॥ (२.१)१३४ ॥

अतीन्द्रियेषु भावेषु प्रायः एवंविधेषु यत् ।
छद्मस्थस्याविसंवादि मानम् अत्र न विद्यते ॥ (२.१)१३५ ॥

यच् चोक्तं दुःखबाहुल्य-दर्शनं तन् न साधकम् ।
क्वचित् तथोपलम्भेऽपि सर्वत्रादर्शनाद् इति ॥ (२.१)१३६ ॥

सर्वत्र दर्शनं यस्य तद्वाक्यात् किं न साधनम् ।
साधनं तद् भवत्य् एवम् आगमात् तु न भिद्यते ॥ (२.१)१३७ ॥

अशुभाद् अप्य् अनुष्ठानात् सौख्यप्राप्तिश् च या क्वचित् ।
फलं विपाकविरसा सा तथाविधकर्मणः ॥ (२.१)१३८ ॥

ब्रह्महत्यानिदेशानुष्ठानाद् ग्रामादिलाभवत् ।
न पुनस् तत एवैतद् आगमाद् एव गम्यते ॥ (२.१)१३९ ॥

प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः ।
तथानाप्तप्रणीतत्वाद् आगमत्वं न युज्यते ॥ (२.१)१४० ॥

दृष्टेष्टाभ्यां विरोधाच् च तेषां नाप्तप्रणीतता ।
नियमाद् गम्यते यस्मात् तद् असाव् एव दर्श्यते ॥ (२.१)१४१ ॥

अगम्यगमनादीनां धर्मसाधनता क्वचित् ।
उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुद्ध्यते ॥ (२.१)१४२ ॥

स्वधर्मोत्कर्षाद् एव तथा मुक्तिर् अपीष्यते ।
हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते ॥ (२.१)१४३ ॥

माध्यस्थ्यम् एव तद्धेतुर् अगम्यगमनादिना ।
साध्यते तत् परं येन तेन दोषो न कश्चन ॥ (२.१)१४४ ॥

एतद् अप्य् उक्तिमात्रं यद् अगम्यगमनादिषु ।
तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते ॥ (२.१)१४५ ॥

अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः ।
विशुद्धभावनाभ्यासात् तन्माध्यस्थ्यं परं यतः ॥ (२.१)१४६ ॥

यावद् एवंविधं नैवं प्रवृत्तिस् तावद् एव या ।
साविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात् ॥ (२.१)१४७ ॥

नाप्रवृत्तेर् इयं हेतुः कुतश्चिद् अनिवर्त्तनात् ।
सर्वत्र भावाविच्छेदाद् अन्यथागम्यसंस्थितिः ॥ (२.१)१४८ ॥

तच् चास्तु लोकशास्त्रोक्तं तत्रौदासीन्ययोगतः ।
संभाव्यते परं ह्य् एतद् भावशुद्धेर् महात्मनाम् ॥ (२.१)१४९ ॥

संसारमोचकस्यापि हिंसा यद् धर्मसाधनम् ।
मुक्तिश् चास्ति ततस् तस्याप्य् एष दोषोऽनिवारितः ॥ (२.१)१५० ॥

मुक्तिकर्मक्षयाद् एव जायते नान्यतः क्वचित् ।
जन्मादिरहिता यत् तत् स एवात्र निरूप्यते ॥ (२.१)१५१ ॥

हिंसाद्युत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा ।
अन्यहेतुर् अहेतुर् वा स वै कर्मक्षयो ननु ॥ (२.१)१५२ ॥

हिंसाद्युत्कर्षसाध्यत्वे तदभावे न तत्स्थितिः ।
कर्मक्षयास्थितौ च स्यान् मुक्तानां मुक्तताक्षितिः ॥ (२.१)१५३ ॥

तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः ।
कर्मक्षयः सतां यस्माद् अहिंसादिप्रसाधनः ॥ (२.१)१५४ ॥

तदन्यहेतुसाध्यत्वे तत्स्वरूपम् असंस्थितम् ।
अहेतुत्वे सदा भावोऽभावो वा स्यात् सदैव हि ॥ (२.१)१५५ ॥

मुक्तिः कर्मक्षयाद् इष्टा ज्ञानयोगफलं च सः ।
अहिंसादि च तद्धेतुर् इति न्यायः सतां मतः ॥ (२.१)१५६ ॥

एवं वेदविहितापि हिंसापायाय तत्त्वतः ।
शास्त्रचोदितभावेऽपि वचनान्तरबाधनात् ॥ (२.१)१५७ ॥

न हिंस्याद् इह भूतानि हिंसनं दोषकृन् मतम् ।
दाहवद् वैद्यके स्पष्टम् उत्सर्गप्रतिषेधतः ॥ (२.१)१५८ ॥

ततो व्याधिनिवृत्त्यर्थं दाहः कार्यस् तु चोदिते ।
न ततोऽपि न दोषः स्यात् फलोद्देशेन चोदनात् ॥ (२.१)१५९ ॥

एवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा ।
ध्रुवम् औत्सर्गिको दोषो जायते फलचोदनात् ॥ (२.१)१६० ॥

अन्येषाम् अपि बुद्ध्यैवं दृष्टेष्टाभ्यां विरुद्धता ।
दर्शनीया कुशास्त्राणां ततश् च स्थितमित्यदः ॥ (२.१)१६१ ॥

क्लिष्टं हिंसाद्यनुष्ठानं न यत् तस्यान्यतो भवेत् ।
ततः कर्ता स एव स्यात् सर्वस्यैव हि कर्मणः ॥ (२.१)१६२ ॥

अनादिकर्मयुक्तत्वात् तन्मोहात् संप्रवर्तते ।
अहितेऽप्य् आत्मनः प्रायो व्याधिपीडितचित्तवत् ॥ (२.१)१६३ ॥

कालवाद, स्वभाववाद, नियतिवाद, कर्मवाद, कालादिसामग्रीवाद[सम्पाद्यताम्]

कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः ।
केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया ॥ (२.२)१६४ ॥

न कालव्यतिरेकेण गर्भबालशुभादिकम् ।
यत् किञ्चिज् जायते लोके तद् असौ कारणं किल ॥ (२.२)१६५ ॥

कालः पचति भूतानि कालः संहरति प्रजाः ।
कालः सुप्तेषु जागर्त्ति कालो हि दुरतिक्रमः ॥ (२.२)१६६ ॥

किञ्च कालादृते नैव मुद्गपक्तिर् अपीष्यते ।
स्थाल्यादिसंनिधानेऽपि ततः कालाद् असौ मता ॥ (२.२)१६७ ॥

कालाभावे च गर्भादि सर्वं स्याद् अव्यवस्थया ।
परेष्टहेतुसद्भाव-मात्राद् एव तदुद्भवात् ॥ (२.२)१६८ ॥

न स्वभावातिरेकेण गर्भबालशुभादिकम् ।
यत् किञ्चिज् जायते लोके तद् असौ कारणं किल ॥ (२.२)१६९ ॥

सर्वभावाः स्वभावेन स्वस्वभावे तथा तथा ।
वर्त्तन्तेऽथ निवर्त्तन्ते कामचारपराङ्मुखाः ॥ (२.२)१७० ॥

न विनेह स्वभावेन मुद्गपक्तिर् अपीष्यते ।
तथाकालादिभावेऽपि नाश्वमाषस्य सा यतः ॥ (२.२)१७१ ॥

अतत्स्वभावात् तद्भावे-ऽतिप्रसंगोऽनिवारितः ।
तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥ (२.२)१७२ ॥

नियतेनैव रूपेण सर्वे भावा भवन्ति यत् ।
ततो नियतिजा ह्य् एते तत्स्वरूपानुवेधतः ॥ (२.२)१७३ ॥

यद् यदैव यतो यावत् तत् तदैव ततस् तथा ।
नियतं जायते न्यायात् क एतां बाधितुं क्षमः ॥ (२.२)१७४ ॥

न चर्ते नियतिं लोके मुद्गपक्तिर् अपीक्ष्यते ।
तत्स्वभावादिभावेऽपि नासावनियता यतः ॥ (२.२)१७५ ॥

अन्यथानियतत्वेन सर्वभावः प्रसज्यते ।
अन्योन्यात्मकतापत्तेः क्रियावैफल्यम् एव च ॥ (२.२)१७६ ॥

न भोक्तृव्यतिरेकेण भोग्यं जगति विद्यते ।
न चाकृतस्य भोगः स्यान् मुक्तानां भोगभावतः ॥ (२.२)१७७ ॥

भोग्यं च विश्वं सत्त्वानां विधिना तेन तेन यत् ।
दृश्यतेऽध्यक्षम् एवेदं तस्मात् तत् कर्मजं हि तत् ॥ (२.२)१७८ ॥

न च तत् कर्मवैधुर्ये मुद्गपक्तिर् अपीक्ष्यते ।
स्थाल्यादिभङ्गभावेन यत् क्वचिन् नोपपद्यते ॥ (२.२)१७९ ॥

चित्रं भोग्यं तथा चित्रात् कर्मणोऽहेतुतान्यथा ।
तस्य यस्माद् विचित्रत्वं नियत्यादेर् न युज्यते ॥ (२.२)१८० ॥

नियतेर् नियतात्मत्वान् नियतानां समानता ।
तथानियतभावे च बलात् स्यात् तद्विचित्रता ॥ (२.२)१८१ ॥

न च तन्मात्रभावादेर् युज्यतेऽस्या विचित्रता ।
तदन्यभेदकं मुक्त्वा सम्यग् न्यायाविरोधतः ॥ (२.२)१८२ ॥

न जलस्यैकरूपस्य वियत्पाताद् विचित्रता ।
ऊषरादिधराभेदम् अन्तरेणोपजायते ॥ (२.२)१८३ ॥

तद्भिन्नभेदकत्वे च तत्र तस्या न कर्तृता ।
तत्कर्तृत्वे च चित्रत्वं तद्वत् तस्याप्यसंगतम् ॥ (२.२)१८४ ॥

तस्या एव तथाभूतः स्वभावो यदि चेष्यते ।
त्यक्तः नियतिवादः स्यात् स्वभावाश्रयणान् ननु ॥ (२.२)१८५ ॥

स्वो भावश् च स्वभावोऽपि स्वसत्तैव हि भावतः ।
तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते ॥ (२.२)१८६ ॥

ततस् तस्याविशिष्टत्वाद् युगपद् विश्वसंभवः ।
न चासाव् इति सद्युक्त्या तद्वादोऽइप् न संगतः ॥ (२.२)१८७ ॥

तत्तत्कालादिसापेक्षो विश्वहेतुः स चेन् ननु ।
मुक्तः स्वभाववादः स्यात् कालवादपरिग्रहात् ॥ (२.२)१८८ ॥

कालोऽपि समयादिर् यत् केवलं सोऽपि कारणम् ।
तत एव ह्य् असंभूतेः कस्यचिन् नोपपद्यते ॥ (२.२)१८९ ॥

अतश् च काले तुल्येऽपि सर्वत्रैव न तत्फलम् ।
अतो हेत्वन्तरापेक्षं विज्ञेयं तद् विचक्षणैः ॥ (२.२)१९० ॥

अतः कालादयः सर्वे समुदायेन कारणम् ।
गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः ॥ (२.२)१९१ ॥

न चैकैकत एवेह क्वचित् किञ्चिद् अपीक्ष्यते ।
तस्मात् सर्वस्य कार्यस्य सामग्री जनिका मता ॥ (२.२)१९२ ॥

स्वभावो नियतिश् चैव कर्मणोऽन्ये प्रचक्षते ।
धर्मावन्ये तु सर्वस्य सामान्येनैव वस्तुनः ॥ (२.२)१९३ ॥

तीसरा स्तबक[सम्पाद्यताम्]

ईश्वरवादखण्डन[सम्पाद्यताम्]

ईश्वरः प्रेरकत्वेन कर्ता कैश्चिद् इहेष्यते ।
अचिन्त्यचिच् छक्तियुक्तोऽनादिशुद्धश् च सूरिभिः ॥ (३.१)१९४ ॥

ज्ञानम् अप्रतिघं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश् च सहसिद्धं चतुष्टयम् ॥ (३.१)१९५ ॥

अज्ञो जन्तुर् अनीशोऽयम् आत्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा ॥ (३.१)१९६ ॥

अन्ये त्व् अभिदधत्य् अत्र वीतरागस्य भावतः ।
इत्थं प्रयोजनाभावात् कर्तृत्वं युज्यते कथम् ? ॥ (३.१)१९७ ॥

नरकादिफले कांश्चित् कांश्चित् स्वर्गादिसाधने ।
कर्मणि प्रेरयत्य् आशु स जन्तून् केन हेतुना ? ॥ (३.१)१९८ ॥

स्वयम् एव प्रवर्तन्ते सत्त्वाश् चेत् चित्रकर्मणि ।
निरर्थकम् इहेशस्य कर्तृत्वं गीयते कथम् ? ॥ (३.१)१९९ ॥

फलं ददाति चेत् सर्वं तत् तेनेह प्रचोदितम् ।
अफले पूर्वदोषः स्यात् सफले भक्तिमात्रता ॥ (३.१)२०० ॥

आदिसर्गेऽपि न हेतुः कृतकृत्यस्य विद्यते ।
प्रतिज्ञातविरोधित्वात् स्वभावोऽप्य् अप्रमाणकः ॥ (३.१)२०१ ॥

कर्मादेस् तत्स्वभावत्वे न किञ्चिद् बाध्यते विभोः ।
विभोस् तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ॥ (३.१)२०२ ॥

ततश् चेश्वरकर्तृत्व-वादोऽयं युज्यते परम् ।
सम्यग् न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ॥ (३.१)२०३ ॥

ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् ।
यतो मुक्तिस् ततस् तस्याः कर्ता स्याद् गुणभावतः ॥ (३.१)२०४ ॥

तदनासेवनाद् एव यत् संसारोऽपि तत्त्वतः ।
तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥ (३.१)२०५ ॥

कर्तायम् इति तद्वाक्ये यतः केषांचिद् आदरः ।
अतस् तदानुगुण्येन तस्य कर्तृत्वदेशना ॥ (३.१)२०६ ॥

परमैश्वर्ययुक्तत्वान् मत आत्मैव चेश्वरः ।
स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥ (३.१)२०७ ॥

शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे ।
सत्त्वार्थसंप्रवृत्ताश् च कथं तेऽयुक्तभाषिणः ॥ (३.१)२०८ ॥

अभिप्रायस् ततस् तेषां सम्यग् मृग्यो हितैषिणा ।
न्यायशास्त्राविरोधेन यथाह मनुर् अप्यदः ॥ (३.१)२०९ ॥

आर्षं च धर्मशास्त्रं च वेदशास्त्राविरोधिना ।
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ (३.१)२१० ॥

प्रकृतिपुरुषवाद खण्डन[सम्पाद्यताम्]

प्रधानोद्भवम् अन्ये तु मन्यन्ते सर्वम् एव हि ।
महद् आदिक्रमेणेह कार्यजातं विपश्चितः ॥ (३.२)२११ ॥

प्रधानाद् महतो भावोऽहंकारस्य ततोऽपि च ।
अक्षतन्मात्रवर्गस्य तन्मात्राद् भूतसंहतेः ॥ (३.२)२१२ ॥

घटाद्य् अपि पृथिव्यादि-परिणामसमुद्भवम् ।
नात्मव्यापारजं किञ्चित् तेषां लोकेऽपि विद्यते ॥ (३.२)२१३ ॥

अन्ये तु ब्रुवते ह्य् एतत् प्रक्रियामात्रवर्णनम् ।
अविचार्यैव तद् युक्त्या श्रद्धया गम्यते परम् ॥ (३.२)२१४ ॥

युक्त्या तु बाध्यते यस्मात् प्रधानं नित्यम् इष्यते ।
तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत् ? ॥ (३.२)२१५ ॥

तस्यैव तत्स्वभावत्वाद् इति चेत् किं न सर्वदा ।
अत एवेति चेत् तस्य तथात्वे ननु तत् कुतः ? ॥ (३.२)२१६ ॥

नानुपादानम् अन्यस्य भावेऽन्यज् जातुचिद् भवेत् ।
तदुपादानतायां च न तस्यैकान्तनित्यता ॥ (३.२)२१७ ॥

घटाद्यपि कुलालादि-सापेक्षं दृश्यते भवत् ।
अतो न तत् पृथिव्यादि-परिणामसमुद्भवम् ॥ (३.२)२१८ ॥

तत्रापि देहः कर्ता चेन् नैवासाव् आत्मनः पृथक् ।
पृथग् एवेति चेद् भोग आत्मनो युज्यते कथम् ? ॥ (३.२)२१९ ॥

देहभोगेन नैवास्य भावतो भोग इष्यते ।
प्रतिबिम्बोदयात् किन्तु यथोक्तं पूर्वसूरिभिः ॥ (३.२)२२० ॥

"पुरुषोऽविकृतात्मैव स्वनिर्भासम् अचेतनम् ।
मनः करोति सान्निध्याद् उपाधिः स्फटिकं यथा ॥ (३.२)२२१ ॥

विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि" ॥ (३.२)२२२ ॥

प्रतिबिम्बोदयोऽप्य् अस्य नामूर्तत्वेन युज्यते ।
मुक्तैर् अतिप्रसंगाच् च न वै भोगः कदाचन ॥ (३.२)२२३ ॥

न च पूर्वस्वभावत्वात् स मुक्तानाम् असंगतः ।
स्वभावान्तरभावे च परिणामोऽनिवारितः ॥ (३.२)२२४ ॥

देहात् पृथक्त्व एवास्य न च हिंसादयः क्वचित् ।
तदभावेऽनिमित्तत्वात् कथं बन्धः शुभाशुभः ॥ (३.२)२२५ ॥

बन्धादृते न संसारो मुक्तिर् वास्योपपद्यते ।
यमादि तदभावे च सर्वम् एव ह्य् अपार्थकम् ॥ (३.२)२२६ ॥

आत्मा न बध्यते नापि मुच्यतेऽसौ कदाचन ।
बध्यते मुच्यते चापि प्रकृतिः स्वात्मनेति चेत् ॥ (३.२)२२७ ॥

एकान्तेनैकरूपाया नित्यायाश् च न सर्वथा ।
तस्याः क्रियान्तराभावाद् बन्धमोक्षौ तु युज्तितः ॥ (३.२)२२८ ॥

मोक्षः प्रकृत्ययोगो यद् अतोऽस्यः स कथं भवेत् ।
स्वरूपविगमापत्तेस् तथा तन्त्रविरोधतः ॥ (३.२)२२९ ॥

पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ (३.२)२३० ॥

पुरुषस्योदिता मुक्तिर् इति तन्त्रे चिरन्तनैः ।
इत्थं न घटते चेयम् इति सर्वमयुक्तिमत् ॥ (३.२)२३१ ॥

अत्रापि पुरुषस्यान्ये मुक्तिम् इच्छन्ति वादिनः ।
प्रकृतिं चापि सन्न्यायात् कर्मप्रकृतिम् एव च ॥ (३.२)२३२ ॥

तस्याश् चानेकरूपत्वात् परिणामित्वयोगतः ।
आत्मनो बन्धनत्वाच् च नोक्तदोषसमुद्भवः ॥ (३.२)२३३ ॥

नामूर्तं मूर्ततां याति मूर्तं न यात्य् अमूर्तताम् ।
यतो बन्धाद् यतो न्यायाद् आत्मनोऽसंगतं तया ॥ (३.२)२३४ ॥

देहस्पर्शादिसंवित्त्या न यात्य् एवेत्य् अत्युक्तिमत् ।
अन्योन्यव्याप्तिजा चेयम् इति बन्धादि संगतम् ॥ (३.२)२३५ ॥

मूर्तयाप्यात्मनो योगो घटते नभसो यथा ।
उपघातादिभावश् च ज्ञानस्येव सुरादिना ॥ (३.२)२३६ ॥

एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि ।
कपिलोक्तत्वतश् चैव दिव्यो हि स महामुनिः ॥ (३.२)२३७ ॥

चैथा स्तबक[सम्पाद्यताम्]

क्षणिकवाद खण्डन की प्रस्तावना[सम्पाद्यताम्]

मन्यन्तेऽन्ये जगत् सर्वं क्लेशकर्मनिबन्धनम् ।
क्षणक्षयि महाप्रज्ञा ज्ञानमात्रं तथापरे ॥ (४.१)२३८ ॥

त आहुः क्षणिकं सर्वं नाशहेतोर् अयोगतः ।
अर्थक्रियासमर्थत्वात् परिणामात् क्षयेक्षणात् ॥ (४.१)२३९ ॥

ज्ञानमात्रं च यल् लोके ज्ञानम् एवानुभूयते ।
नार्थस् तद्व्यतिरेकेण ततोऽसौ नैव विद्यते ॥ (४.१)२४० ॥

अत्राप्य् अभिदधत्य् अन्ये स्मरणादेर् असंभवात् ।
बाह्यार्थवेदनाच् चैव सर्वम् एतद् अपार्थकम् ॥ (४.१)२४१ ॥

अनुभूतार्थविषयं स्मरणं लौकिकं यतः ।
कालान्तरे तथानित्ये मुख्यम् एतन् न युज्यते ॥ (४.१)२४२ ॥

सोऽन्तेवासी गुरुः सोऽयं प्रत्यभिज्ञाप्यसंगता ।
दृष्टकौतुकम् उद्वेगः प्रवृत्तिः प्राप्तिर् एव च ॥ (४.१)२४३ ॥

स्वकृतस्योपभोगस् तु दूरोत्सारित एव हि ।
शीलानुष्ठानहेतुर् यः स नश्यति तदैव यत् ॥ (४.१)२४४ ॥

संतानापेक्षयास्माकं व्यवहारोऽखिलो मतः ।
स चैक एव तस्मिंश् च सति कस्मान् न युज्यते ॥ (४.१)२४५ ॥

यस्मिन्न् एव तु संताने आहिता कर्मवासना ।
फलं तत्रैव संधत्ते कर्पासे रक्तता यथा ॥ (४.१)२४६ ॥

एतद् अप्य् उक्तिमात्रं यन् न हेतुफलभावतः ।
सन्तानोऽन्यः स चायुक्त एवासत्कार्यवादिनः ॥ (४.१)२४७ ॥

भाव अभाव बन जाता है इस मत का खण्डन[सम्पाद्यताम्]

नाभावो भावतां याति शशशृङ्गे तथागतेः ।
भावो नाभावम् एतीह तदुत्पत्त्यादिदोषतः ॥ (४.२)२४८ ॥

सतोऽसत्त्वे तदुत्पादस् ततो नाशोऽपि तस्य यत् ।
तन्नष्टस्य पुनर्भावः सदा नाशो न तत्स्थितिः ॥ (४.२)२४९ ॥

स क्षणस्थितिधर्मा चेद् द्वितीयादिक्षणस्थितौ ।
युज्यते ह्य् एतद् अप्य् अस्य तथा चोक्तानतिक्रमः ॥ (४.२)२५० ॥

क्षणस्थितौ तदैवास्य नास्थितिर् युक्त्यसंगतेः ।
न पश्चाद् अपि सा नेति सतोऽसत्त्वं व्यवस्थितम् ॥ (४.२)२५१ ॥

न तद् भवति चेत् किं न सदा सत्त्व तद् एव यत् ।
न भवत्य् एतद् एवास्य भवनं सूरयो विदुः ॥ (४.२)२५२ ॥

कादाचित्कमदो यस्माद् उत्पाद्यस्य तद् ध्रुवम् ।
तुच्छत्वान् नेत्य् अतुच्छस्याप्य् अतुच्छत्वात् कथं ननु ? ॥ (४.२)२५३ ॥

तदा भूतेर् इयं तुल्या तन्निवृत्तेर् न तस्य किम् ।
तुच्छताप्तेर्न भावोऽस्तु नासत् सत् सदसत् कथम् ? ॥ (४.२)२५४ ॥

स्वहेतोर् एव तज्जातं तत्स्वभावं यतो ननु ।
तदनन्तरभावित्वाद् इतरत्राप्य् अदः समम् ॥ (४.२)२५५ ॥

नाहेतोरस्य भवनं न तुच्छे तत्स्वभावता ।
ततः कथं नु तद्भाव इति युक्त्या कथं समम् ? ॥ (४.२)२५६ ॥

स एव भावस् तद्धेतुस् तस्यैव तथास्थितेः ।
स्वनिवृत्तिः स्वभावोऽस्य भावस्येव ततो न किम् ? ॥ (४.२)२५७ ॥

ज्ञेयत्ववत् स्वभावोऽपि न चायुक्तोऽस्य तद्विधः ।
तदभावे न तज्ज्ञानं तन्निवृत्तेर् गतिः कथम् ? ॥ (४.२)२५८ ॥

तत् तद्विधस्वभावं यत् प्रत्यक्षेण तथैव हि ।
गृह्यते तद्गतिस् तेन नैतत् क्वचिद् अनिश्चयात् ॥ (४.२)२५९ ॥

समारोपादसौ नेति गृहीतं तत्त्वतस् तु तत् ।
यथाभावग्रहात् तस्या-तिप्रसंगाददोऽप्यसत् ॥ (४.२)२६० ॥

गृहीतं सर्वम् एतेन तत्त्वतो निश्चयः पुनः ।
मितग्रहसमारोपाद् इति तत्त्वव्यवस्थितेः ॥ (४.२)२६१ ॥

एकत्र निश्चयोऽन्यत्र निरंशानुभवाद् अपि ।
न तथा पाटवाभावाद् इत्य् अपूर्वम् इदं तमः ॥ (४.२)२६२ ॥

स्वभावक्षणतो ह्य् ऊर्ध्वं तुच्छता तन्निवृत्तितः ।
नासाव् एकक्षणग्राहि-ज्ञानात् सम्यग् विभाव्यते ॥ (४.२)२६३ ॥

तस्यां च नागृहीतायां तत् तथेति विनिश्चयः ।
न हीन्द्रियम् अतीतादि-ग्राहकं सद्भिर् इष्यते ॥ (४.२)२६४ ॥

अन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् ।
न तद् एव घटाभावो भावत्वेन प्रतीतितः ॥ (४.२)२६५ ॥

न तद्गतेर् गतिस् तस्य प्रतिबन्धविवेकतः ।
तस्यैवाभवनत्वे तु भावाविच्छेदतोऽन्वयः ॥ (४.२)२६६ ॥

तस्माद् अवश्यम् एष्टव्यं तद् ऊर्ध्वं तुच्छम् एव तत् ।
ज्ञेयं सद् ज्ञायते ह्य् एतद् अपरेणापि युक्तिमत् ॥ (४.२)२६७ ॥

नोत्पत्त्यादेस् तयोर् ऐक्यं तुच्छेतरविशेषतः ।
निवृत्तिभेदतश् चैव बुद्धिभेदाच् च भाव्यताम् ॥ (४.२)२६८ ॥

एतेनैतत् प्रतिक्षिप्तं यद् उक्तं न्यायमानिना ।
न तत्र किञ्चिद् भवति न भवत्य् एव केवलम् ॥ (४.२)२६९ ॥

भावे ह्य् एष विकल्पः स्याद् विधेर् वस्त्वनुरोधतः ।
न भावो भवतीत्य् उक्तम् अभावो भवतीत्य् अपि ॥ (४.२)२७० ॥

एतेनाहेतुकत्वेऽपि ह्य् अभूत्वा नाशभावतः ।
सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ॥ (४.२)२७१ ॥

प्रतिक्षिप्तं च यत् सत्ता-ऽनाशित्वागोऽनिवारितम् ।
तुच्छरूपा तदासत्ता भावाप्तेर्नाशितोदिता ॥ (४.२)२७२ ॥

भावस्याभवनं यत् तद् अभावभवनं तु यत् ।
तत्तथाधर्मके ह्य् उक्त-विकल्पो न विरुध्यते ॥ (४.२)२७३ ॥

तद् एव न भवत्येतद् विरुद्धमिव लक्ष्यते ।
तद् एव वस्तुसंस्पर्शाद् भवनप्रतिषेधतः ॥ (४.२)२७४ ॥

सतोऽसत्त्वं यतश् चैवं सर्वथा नोपपद्यते ।
भावो नाभावमेतीह ततश् चैतद् व्यवस्थितम् ॥ (४.२)२७५ ॥

'अभाव भाव बन जाता है' - इस मत का खण्डन[सम्पाद्यताम्]

असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः ।
नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् ॥ (४.३)२७६ ॥

असदुत्पद्यते तद्धि विद्यते यस्य कारणम् ।
विशिष्टशक्तिमत् तच् च ततस्तत्सत्त्वसंस्थितिः ॥ (४.३)२७७ ॥

अत्यन्तासति सर्वस्मिन् कारणस्य न युक्तितः ।
विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते ॥ (४.३)२७८ ॥

तत्सत्त्वसाधकं तन् न तद् एव हि तदा न यत् ।
अत एवेदमिच्छन्तु न वै तस्येत्ययोगतः ॥ (४.३)२७९ ॥

वस्तुस्थित्या तथा तद्यत् तदनन्तरभावि तत् ।
नान्यत् ततश् च नाम्नेह न तथास्ति प्रयोजनम् ॥ (४.३)२८० ॥

नाम्ना विनापि तत्त्वेन विशिष्टाविधिना विना ।
चिन्त्यतां यदि सन्न्यायाद् वस्तुस्थित्यापि तत्तथा ॥ (४.३)२८१ ॥

साधकत्वे तु सर्वस्य ततो भावः प्रसज्यते ।
कारणाश्रयणोऽप्य् एवं न तत्सत्त्वं तदन्यवत् ॥ (४.३)२८२ ॥

किञ्च तत् कारणं कार्य-भूतिकाले न विद्यते ।
ततो न जनकं तस्य तदासत्त्वात् परं यथा ॥ (४.३)२८३ ॥

अनन्तरं च तद्भावस् तत्त्वाद् एव निरर्थकः ।
समं च हेतुफलयोर् नाशोत्पादवसङ्गतौ ॥ (४.३)२८४ ॥

स्तस्तौ भिन्नावभिन्नौ वा ताभ्यां बेदे तयोः कुतः ।
नाशोत्पादावभेदे तु तयोर्वै तुल्यकालता ॥ (४.३)२८५ ॥

न हेतुफलभावश् च तस्यां सत्यां हि युज्यते ।
तन्निबन्धनभावस्य द्वयोर् अपि वियोगतः ॥ (४.३)२८६ ॥

कल्पितश् चेद् अयं धर्म-धर्मिभावो हि भावतः ।
न हेतुफलभावः स्यात् सर्वथा तदभावतः ॥ (४.३)२८७ ॥

न धर्मी कल्पितो धर्म-धर्मिभावस् तु कल्पितः ।
पूर्वो हेतुर् निरंशः स उत्तरः फलम् उच्यते ॥ (४.३)२८८ ॥

पूर्वस्यैव तथाभावा-भावे हन्तोत्तरं कुतः ।
तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् ॥ (४.३)२८९ ॥

तं प्रतीत्य तदुत्पाद इति तुच्छम् इदं वचः ।
अतिप्रसंगतश् चैव तथा चाह महामतिः ॥ (४.३)२९० ॥

सर्वथैव तथाभावि-वस्तुभावादृते न यत् ।
कारणानन्तरं कार्यं द्राग् नभस्तस् ततो न तत् ॥ (४.३)२९१ ॥

तस्यैव तत्स्वभावत्व-कल्पनासम्पद् अप्य् अलम् ।
न युक्ता युक्तिवैकल्य-राहुणा जन्मपीडनात् ॥ (४.३)२९२ ॥

तदनन्तरभावित्व-मात्रतस् तद्व्यवस्थितेः ।
विश्वस्य विश्वकार्यत्वं स्यात् तद्भावाविशेषतः ॥ (४.३)२९३ ॥

अभिन्नदेशतादीनाम् असिद्धत्वाद् अनन्वयात् ।
सर्वेषाम् अविशिष्टत्वान् न तन्नियमहेतुता ॥ (४.३)२९४ ॥

योऽप्य् एकस्यान्यतो भावः सन्ताने दृश्यतेऽन्यदा ।
तत एव विदेशस्थात् सोऽपि यत् तन् न बाधकम् ॥ (४.३)२९५ ॥

एतेनैतत् प्रतिक्षिप्तं यद् उक्तं सूक्ष्मबुद्धिना ।
नासतो भावकर्तृत्वं तदवस्थान्तरं न सः ॥ (४.३)२९६ ॥

वस्तुनोऽनन्तरं सत्ता कस्यचिद् या नियोगतः ।
सा तत्फलं मता सैव भावोत्पत्तिस् तदात्मिका ॥ (४.३)२९७ ॥

असदुत्पत्तिर् अप्य् अस्य प्रागसत्त्वात् प्रकीर्तिता ।
नासतः सत्त्वयोगेन कारणात् कार्यभावतः ॥ (४.३)२९८ ॥

प्रतिक्षिप्तं च तद् हेतोः प्राप्नोति फलतां विना ।
असतो भावकर्तृत्वं तदवस्थान्तरं च सः ॥ (४.३)२९९ ॥

वस्तुनोऽनन्तरं सत्ता तत्तथातां विना भवेत् ।
नभःपाताद् असत्सत्त्व-योगाद् वेति न तत्फलम् ॥ (४.३)३०० ॥

असदुत्पत्तिर् अप्य् एव नास्यैव प्राग् असत्त्वतः ।
किं त्व् असत् सद् भवत्य् एवम् इति सम्यग् विचार्यताम् ॥ (४.३)३०१ ॥

एतच् च नोक्तवद् युक्त्या सर्वथा युज्यते यतः ।
नाभावो भावतां याति व्यवस्थितम् इदं ततः ॥ (४.३)३०२ ॥

क्षणिकवाद में सामग्रीकारणतावाद की अनुपपत्ति[सम्पाद्यताम्]

यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा ।
जनकत्वेन बुद्ध्यादेः कल्प्यते साप्य् अनर्थिका ॥ (४.४)३०३ ॥

सर्वेषां बुद्धिजनने यदि सामर्थ्यम् इष्यते ।
रूपादीनां ततः कार्य-भेदस् तेभ्यो न युज्यते ॥ (४.४)३०४ ॥

रूपालोकादिकं कार्यम् अनेकं चोपजायते ।
तेभ्यस् तावद्भ्य एवेति तद् एतच् चिन्त्यतां कथम् ॥ (४.४)३०५ ॥

प्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना ।
तेषां प्रभूतभावेन तदेकत्वविरोधतः ॥ (४.४)३०६ ॥

तान् अशेषान् प्रतीत्येह भवद् एकं कथं भवेत् ।
एकस्वभावम् एकं यत् तत् तु नानेकभावतः ॥ (४.४)३०७ ॥

यतो भिन्नस्वभावत्वे सति तेषाम् अनेकता ।
तावत् सामर्थ्यजत्वे च कुतस् तस्यैकरूपता ॥ (४.४)३०८ ॥

यज् जायते प्रतीत्यैक-सामर्थ्यं नान्यतो हि तत् ।
तयोर् अभिन्नतापत्तेर् भेदे भेदस् तयोर् अपि ॥ (४.४)३०९ ॥

न प्रतीत्यैकसामर्थ्यं जायते तत्र किञ्चन ।
सर्वसामर्थ्यभूतिस्व-भावत्वात् तस्य चेन् न तत् ॥ (४.४)३१० ॥

प्रत्येकं तस्य तद्भावे युक्ता ह्य् उक्तस्वभावता ।
न हि तत्सर्वसामर्थ्यं तत्प्रत्येकत्ववर्जितम् ॥ (४.४)३११ ॥

अत्र चोक्तं न चाप्य् एषां तत्स्वभावत्वकल्पना ।
साध्वीत्य् अतिप्रसंगादेर् अन्यथाप्य् उक्तिसंभवात् ॥ (४.४)३१२ ॥

अथान्यत्रापि सामर्थ्यं रूपादीनां प्रकल्प्यते ।
न तद् एव तद् इत्य् एवं नाना चैकत्र तत् कुतः ॥ (४.४)३१३ ॥

सामग्रीभेदतो यश् च कार्यभेदः प्रगीयते ।
नानाकार्यसमुत्पादाद् एकस्याः सोऽपि बाध्यते ॥ (४.४)३१४ ॥

उपादानादिभावेन न चैकस्यास्तु संगता ।
युक्त्या विचार्यमाणेह तदेनकत्वकल्पना ॥ (४.४)३१५ ॥

रूपं येन स्वभावेन रूपोपादानकारणम् ।
निमित्तकारणं ज्ञाने तत् तेनान्येन वा भवेत् ॥ (४.४)३१६ ॥

यदि तेनैव विज्ञानं बोधरूपं न युज्यते ।
अथान्येन बलाद् रूपं द्विस्वभावं प्रसज्यते ॥ (४.४)३१७ ॥

अबुद्धिजनकव्यावृत्त्या चेद् बुद्धिप्रसाधकः ।
रूपक्षणो ह्य् अबुद्धित्वात् कथं रूपस्य साधकः ॥ (४.४)३१८ ॥

स हि व्यावृत्तिभेदेन रूपादिजनको ननु ।
उच्यते व्यवहारार्थम् एकरूपोऽपि तत्त्वतः ॥ (४.४)३१९ ॥

अगन्धजननव्यावृत्त्यायं कस्मान् न गन्धकृत् ।
उच्यते तदभावाच् चेद् भावोऽन्यस्याः प्रसज्यते ॥ (४.४)३२० ॥

एवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता ।
बलाद् आपद्यते सा चायुक्ताभ्युपगमक्षतेः ॥ (४.४)३२१ ॥

विभिन्नकार्यजननस्वभावाश् चक्षुर् आदयः ।
यदि ज्ञानेऽपि भेदः स्यात् न चेद् भेदो न युज्यते ॥ (४.४)३२२ ॥

सामग्र्यपेक्षयाप्य् एवं सर्वथा नोपपद्यते ।
यद् हेतुहेतुमद्भावस् तद् एषाप्य् उक्तिमात्रकम् ॥ (४.४)३२३ ॥

क्षणिकवाद में वास्यवासकभाव की अनुपपत्ति[सम्पाद्यताम्]

नानात्वाबाधानाच्चेह कुतः स्वकृतवेदनम् ।
सत्य् अप्य् अस्मिन् मिथोऽत्यन्तं तद्भेदाद् इति चिन्त्यताम् ॥ (४.५)३२४ ॥

वास्यवासकभावाच् चेन् नैतत् तस्याप्य् असंभवात् ।
असंभवः कथं न्व् अस्य विकल्पानुपपत्तितः ॥ (४.५)३२५ ॥

वासकाद् वासना भिन्ना अभिन्ना वा भवेद् यदि ।
भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्य् असौ ॥ (४.५)३२६ ॥

अथाभिन्ना न संक्रान्तिस् तस्या वासकरूपवत् ।
वास्ये सत्यां च संसिद्धिर् द्रव्यांशस्य प्रजायते ॥ (४.५)३२७ ॥

असत्याम् अपि संक्रान्तौ वासयत्य् एव चेद् असौ ।
अतिप्रसंगः स्याद् एवं स च न्यायबहिष्कृतः ॥ (४.५)३२८ ॥

वास्यवासकभावश् च न हेतुफलभावतः ।
तत्त्वतोऽन्य इति न्यायात् स चायुक्तो निदर्शितः ॥ (४.५)३२९ ॥

क्षणिकवाद में कार्यकारण ज्ञान की अनुपपत्ति[सम्पाद्यताम्]

तत् तज्जननस्वभावं जन्यभावं तथापरम् ।
अतः स्वभावनियमान् नायुक्तः स कदाचन ॥ (४.६)३३० ॥

उभयोर् ग्रहणाभावे न तथाभावकल्पनम् ।
तयोर् न्याय्यं न चैकेन द्वयोर् गहणम् अस्ति वः ॥ (४.६)३३१ ॥

एकम् अर्थं विजानाति न विज्ञानद्वयं यथा ।
विजानाति न विज्ञानम् एकम् अर्थद्वयं तथा ॥ (४.६)३३२ ॥

वस्तुस्थित्या तयोस् तत्त्वे एकेनापि तथाग्रहात् ।
नो बाधकं न चैकेन द्वयोर् गहणम् अस्त्य् अदः ॥ (४.६)३३३ ॥

तथाग्रहस् तयोर् नेतरेतरग्रहणात्मकः ।
कदाचिद् अपि युक्तो यद् अतः कथम् अबाधकम् ॥ (४.६)३३४ ॥

तथाग्रहे च सर्वत्रा-विनाभावग्रहं विना ।
न धूमादिग्रहाद् एव ह्य् अनलादिगतिः कथम् ॥ (४.६)३३५ ॥

समनन्तरवैकल्यं तत्रेत्य् अनुपपत्तिकम् ।
तुल्ययोर् अपि तद्भावे हन्त क्वचिद् अदर्शनात् ॥ (४.६)३३६ ॥

न तयोस् तुल्यतैकस्य यस्मात् कारणकारणम् ।
औघात् तद्धेतुविषयं न त्व् एवम् इतरस्य च ॥ (४.६)३३७ ॥

यः केवलानलग्राहि-ज्ञानकारणकारणः ।
सोऽप्य् एवं न च तद्धेतोस् तज्ज्ञानाद् अपि तद्गतिः ॥ (४.६)३३८ ॥

तज्ज्ञानं यन् न वै धूम-ज्ञानस्य समनन्तरः ।
तथाभूद् इत्य् अतो नेह तज्ज्ञानाद् अपि तद्गतिः ॥ (४.६)३३९ ॥

तथेति हन्त को न्व् अर्थः तत्तथाभावतो यदि ।
इतरत्रैकम् एवेत्थं ज्ञानं तद्ग्राहि भाव्यताम् ॥ (४.६)३४० ॥

तदभावेऽन्यथा भावस् तस्य सोऽस्यापि विद्यते ।
अनन्तरचिरातीतं तत् पुनर्वस्तुतः समम् ॥ (४.६)३४१ ॥

अग्निज्ञानजम् एतेन धूमज्ञानं स्वभावतः ।
तथा विकल्पकृन् नान्यद् इति प्रत्युक्तम् इष्यताम् ॥ (४.६)३४२ ॥

अतः कथंचिद् एकेन तयोर् अग्रहणे सति ।
तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम् ॥ (४.६)३४३ ॥

प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् ।
कार्यकारणता तस्मात् तद्भावादेर् अनिश्चयात् ॥ (४.६)३४४ ॥

न पूर्वम् उत्तरं चेह तदन्याग्रहणाद् ध्रुवम् ।
गृह्यतेऽत इदं नातो न त्व् अतीन्द्रियदर्शनम् ॥ (४.६)३४५ ॥

विकल्पोऽपि तथा न्यायाद् युज्यते न ह्य् अनीदृशः ।
तत्संस्कारप्रसूतत्वात् क्षणिकत्वाच् च सर्वथा ॥ (४.६)३४६ ॥

नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः ।
माध्यस्थ्यम् अवलम्ब्यैतत् चिन्त्यतां स्वयम् एव तु ॥ (४.६)३४७ ॥

अग्न्यादिज्ञानम् एवेह न धूमज्ञानतां यतः ।
व्रजत्य् आकारभेदेन कुतो बोधान्वयस् ततः ॥ (४.६)३४८ ॥

तदाकारपरित्यागात् तस्याकारान्तरस्थितिः ।
बोधान्वयः प्रदीर्घैकाध्यवसायप्रवर्तकः ॥ (४.६)३४९ ॥

स्वसंवेदनसिद्धत्वात् न च भ्रान्तोऽयम् इत्य् अपि ।
कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसंगतः ॥ (४.६)३५० ॥

प्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः ।
अस्य च भ्रान्ततायां यत् तत् तथेति न युक्तिमत् ॥ (४.६)३५१ ॥

तस्माद् अवश्यम् एष्टव्यं विकल्पस्यापि कस्यचित् ।
येन केन प्रकारेण सर्वथाभ्रान्तरूपता ॥ (४.६)३५२ ॥

सत्याम् अस्यां स्थितोऽस्माकम् उक्तवन्न्याययोगतः ।
बोधान्वयोऽदलोत्पत्त्य-भावाच् चातिप्रसंगतः ॥ (४.६)३५३ ॥

अन्यादृशपदार्थेभ्यः स्वयम् अन्यादृशोऽप्य् अयम् ।
यतश् चेष्टस् ततो नास्मात् तत्रासंदिग्धनिश्चयः ॥ (४.६)३५४ ॥

तत्तज्जननभावत्वे ध्रुवं तद्भावसंगतिः ।
तस्यैव भावो नान्यो यज् जन्याच् च जननं तथा ॥ (४.६)३५५ ॥

एवं तज्जन्यभावत्वेऽप्य् एषा भाव्या विचक्षणैः ।
तद् एव हि यतो भावः स चेतरसमाश्रयः ॥ (४.६)३५६ ॥

इत्य् एवम् अन्वयापत्तिः शब्दार्थाद् एव जायते ।
अन्यथा कल्पनं चास्य सर्वथा न्यायबाधितम् ॥ (४.६)३५७ ॥

तद्रूपशक्तिशून्यं तत् कार्यं कार्यान्तरं यथा ।
व्यापारोऽपि न तस्यापि नापेक्षासत्त्वतः क्वचित् ॥ (४.६)३५८ ॥

तथापि तु तयोर् एव तत्स्वभावत्वकल्पनम् ।
अन्यत्रापि समानत्वात् केवलं ध्यान्ध्यसूचकम् ॥ (४.६)३५९ ॥

बुद्धवचनों की सहायता से क्षणिकवाद का खण्डन[सम्पाद्यताम्]

किञ्चन्यात् क्षणिकत्वे व आर्षोऽर्थोऽपि विरुध्यते ।
विरोधापादनं चास्य नाल्पस्य तमसः फलम् ॥ (४.७)३६० ॥

इत एकनवते कल्पे शक्त्या मे पुरुषो हतः ।
तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ (४.७)३६१ ॥

मे मयेत्य् आत्मनिर्देशस् तद्गतोक्ता वधक्रिया ।
स्वयम् आप्तेन यत् तद् वः कोऽयं क्षणिकताग्रहः ॥ (४.७)३६२ ॥

सन्तानापेक्षयैतच् चेद् उक्तं भगवता ननु ।
स हेतुफलभावो यत् तन् मे इति न संगतम् ॥ (४.७)३६३ ॥

ममेति हेतुशक्त्या चेत् तस्यार्थोऽयं विवक्षितः ।
नात्र प्रमाणम् अत्यक्षा तद्विवक्षा यतो मता ॥ (४.७)३६४ ॥

तद्देशना प्रमाणं चेत् न सान्यार्था भविष्यति ।
तत्रापि किं प्रमाणं चेद् इदं पूर्वोक्तम् आर्षकम् ॥ (४.७)३६५ ॥

तथान्यद् अपि यत् कल्प-स्थायिनी पृथिवी क्वचित् ।
उक्ता भगवता भिक्षून् आमन्त्र्य स्वयम् एव तु ॥ (४.७)३६६ ॥

पञ्च बाह्या द्विविज्ञेया इत्य् अन्यद् अपि चार्षकम् ।
प्रमाणम् अवगन्तव्यं प्रक्रान्तार्थप्रसाधकम् ॥ (४.७)३६७ ॥

क्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् ।
भिन्नकालग्रहे ह्य् आभ्यां तच्छब्दार्थोपपत्तितः ॥ (४.७)३६८ ॥

एककालग्रहे तु स्यात् तस्यैकस्याप्रमाणता ।
गृहीतग्रहणाद् एवं मिथ्या तथागतं वचः ॥ (४.७)३६९ ॥

इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम् ।
यद्रूपादि ततस् तत्र मनोज्ञानं प्रवर्तते ॥ (४.७)३७० ॥

एवं च न विरोधोऽस्ति द्विविज्ञेयत्वभावतः ।
पञ्चानाम् अपि चेन् न्यायाद् एतद् अप्य् असमञ्जसम् ॥ (४.७)३७१ ॥

नैकोऽपि यद् द्विविज्ञेय एकैकेनैव वेदनात् ।
सामान्यापेक्षयैतच् चेन् न तत्सत्त्वप्रसंगतः ॥ (४.७)३७२ ॥

सत्त्वेऽपि नेन्द्रियज्ञानं हन्त तद् गोचरं मतम् ।
द्विविज्ञेयत्वम् इत्य् एवं क्षणभेदे न तत्त्वतः ॥ (४.७)३७३ ॥

सर्वम् एतेन विक्षिप्तं क्षणिकत्वप्रसाधनम् ।
तथाप्य् ऊर्ध्वं विशेषेण किञ्चित् तत्रापि वक्ष्यते ॥ (४.७)३७४ ॥

पांचवां स्तबक[सम्पाद्यताम्]

बाह्यार्थखण्डन खण्डन[सम्पाद्यताम्]

विज्ञानमात्रवादोऽपि न सम्यगुपपद्यते ।
मानं यत् तत्त्वतः किञ्चिद् अर्थाभावे न विद्यते ॥ (५.१)३७५ ॥

न प्रत्यक्षं यतोऽभावा-लम्बनं न तद् इष्यते ।
नानुमानं तथाभूत-सल्लिङ्गानुपपत्तितः ॥ (५.१)३७६ ॥

उपलब्धिलक्षणप्राप्तोऽर्थो यन् नोपलभ्यते ।
ततश् चानुपलब्ध्यैव तदभावोऽवसीयते ॥ (५.१)३७७ ॥

उपलब्धिलक्षणप्राप्तिस् तद्धत्वन्तरसंहतिः ।
एषां च तत्स्वभावत्वे तस्यासिद्धिः कथं भवेत् ॥ (५.१)३७८ ॥

सहार्थेन तज्जनन-स्वभावानीति चेन् ननु ।
जनयत्य् एव सत्य् एवम् अन्यथातत्स्वभावता ॥ (५.१)३७९ ॥

योग्यताम् अधिकृत्याथ तत्स्वभावत्वकल्पना ।
हन्तैवम् अपि सिद्धो वः कदाचिद् उपलब्धितः ॥ (५.१)३८० ॥

अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते ।
न हि लोकेऽश्वम् आषादेः सिद्धा पक्त्यादियोग्यता ॥ (५.१)३८१ ॥

पराभिप्रायतो ह्य् एतद् एवं चेद् उच्यते न यत् ।
उपलब्धिलक्षणप्राप्तोऽर्थस् तस्योपलभ्यते ॥ (५.१)३८२ ॥

अतद्ग्रहणभावैश् च यदि नाम न गृह्यते ।
तत एतावतासत्त्वं न तस्यातिप्रसंगतः ॥ (५.१)३८३ ॥

विज्ञानं यत् स्वसंवेद्यं न त्वर्थो युक्त्ययोगतः ।
अतस् तद्वेदने तस्य ग्रहणं नोपपद्यते ॥ (५.१)३८४ ॥

एवं चाग्रहणाद् एव तदभावोऽवसीयते ।
अतः किमुच्यते मानम् अर्थाभावे न विद्यते ॥ (५.१)३८५ ॥

अर्थग्रहणरूपं यत् तत् स्वसंवेद्यम् इष्यते ।
तद्वेदने ग्रहस् तस्य ततः किं नोपपद्यते ॥ (५.१)३८६ ॥

घटादिज्ञानम् इत्य् आदि-संवित्तेस् तत्प्रवृत्तितः ।
प्राप्तेर् अर्थक्रियायोगात् स्मृतेः कौतुकभावतः ॥ (५.१)३८७ ॥

ज्ञानमात्रे तु विज्ञानं ज्ञानम् एवेत्य् अदो भवेत् ।
प्रवृत्त्यादि ततो न स्यात् प्रसिद्धं लोकशास्त्रयोः ॥ (५.१)३८८ ॥

तदन्यग्रहणे चास्य प्रद्वेषोऽर्थेऽनिबन्धनः ।
ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत् ॥ (५.१)३८९ ॥

युक्त्ययोगाश् च योऽर्थस्य गीयते जातिवादतः ।
ग्राह्यादिभावद्वारेण ज्ञानवादेऽप्य् असौ समः ॥ (५.१)३९० ॥

नैकान्तग्राह्यभावं तद् ग्राहकाभावतो भुवि ।
ग्राहकैकान्तभावं तु ग्राह्याभावाद् असंगतम् ॥ (५.१)३९१ ॥

विरोधान् नोभयाकारम् अन्यथा तद् असद् भवेत् ।
निःस्वभावत्वतस् तस्य सत्तैवं युज्यते कथम् ॥ (५.१)३९२ ॥

प्रकाशैकस्वभावं हि विज्ञानं तत्त्वतो मतम् ।
अकर्मकं तथा चैतत् स्वयम् एव प्रकाशते ॥ (५.१)३९३ ॥

यथास्ते शेत इत्य् आदौ विना कर्म स एव हि ।
तथोच्यते जगत्य् अस्मिंस् तथा ज्ञानम् अपीष्यताम् ॥ (५.१)३९४ ॥

उच्यते सांप्रतम् अदः स्वयम् एव विचिन्त्यताम् ।
प्रमाणाभावतस् तत्र यद्य् एतद् उपपद्यते ॥ (५.१)३९५ ॥

एवं न यत् तदात्मानम् अपि हन्त प्रकाशयेत् ।
अतस् तद् इत्थं नो युक्तम् अन्यथा न व्यवस्थितिः ॥ (५.१)३९६ ॥

व्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम् ।
ध्रुवं यतस् ततोऽकर्मकत्वम् अस्य कथं भवेत् ॥ (५.१)३९७ ॥

व्यवस्थापकम् अस्यैवं भ्रान्तं चैतत् तु भावतः ।
तथेत्य् अभ्रान्तम् अत्रापि ननु मानं न विद्यते ॥ (५.१)३९८ ॥

भ्रान्ताच् चाभ्रान्तरूपा न युक्तियुक्ता व्यवस्थितिः ।
दृष्टा तैमिरिकादीनाम् अक्षादाव् इति चेन् न तत् ॥ (५.१)३९९ ॥

नाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः ।
भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् ॥ (५.१)४०० ॥

न च प्रकाशमात्रं तु लोके क्वचिद् अकर्मकम् ।
दीपादौ युज्यते न्यायाद् अतश् चैतद् अपार्थकम् ॥ (५.१)४०१ ॥

दृष्टान्तमात्रतः सिद्धिस् तदत्यन्तविधर्मिणः ।
न च साध्यस्य यत् तेन शब्दमात्रम् असाव् अपि ॥ (५.१)४०२ ॥

विज्ञानाद्वैतवाद में मोक्ष की अनुपपत्ति[सम्पाद्यताम्]

किं च विज्ञानामात्रत्वे न संसारापवर्गयोः ।
विशेषो विद्यते कश्चित् तथा चैतद् वृथोदितम् ॥ (५.२)४०३ ॥

चित्तम् एव हि संसारो रागादिक्लेशवासितम् ।
तद् एव तैर् विनिर्मुक्तं भवान्त इति कथ्यते ॥ (५.२)४०४ ॥

रागादिक्लेशवर्गो यन् न विज्ञानात् पृथग् मतः ।
एकान्तैकस्वभावे च तस्मिन् किं केन वासितम् ॥ (५.२)४०५ ॥

क्लिष्टं विज्ञानम् एवासौ क्लिष्टता तस्य यद्वशात् ।
नील्यादिवद् असौ वस्तु तद्वद् एव प्रसज्यते ॥ (५.२)४०६ ॥

मुक्तौ च तस्य भेदेन भावः स्यात् पटशुद्धिवत् ।
ततो बाह्यार्थतासिद्धिर् अनिष्टा संप्रसज्यते ॥ (५.२)४०७ ॥

प्रकृत्यैव तथाभूतं तद् एव क्लिष्टतेति चेत् ।
तदन्यूनातिरिक्तत्वे केन मुक्तिर् विचिन्त्यताम् ॥ (५.२)४०८ ॥

असत्य् अपि च या बाह्ये ग्राह्यग्राहकलक्षणा ।
द्विचन्द्रभ्रान्तिवद् भ्रान्तिर् इयं नः क्लिष्टतेति चेत् ॥ (५.२)४०९ ॥

अस्त्व् एतत् किन्तु तद्धेतु-भिन्नहेत्वन्तरोद्भवा ।
इयं स्यात् तिमिराभावे न हीन्दुद्वयदर्शनम् ॥ (५.२)४१० ॥

न चासद् एव तद्धेतुर् बोधमात्रं न चापि तत् ।
सदैव क्लिष्टतापत्तेर् इति मुक्तिर् न युज्यते ॥ (५.२)४११ ॥

मुक्त्यभावे च सर्वैव ननु चिन्ता निरर्थिका ।
भावेऽपि सर्वदा तस्याः सम्यग् एतत् विचिन्त्यताम् ॥ (५.२)४१२ ॥

विज्ञानमात्रवादो यत् नेत्थं युक्त्योपपद्यते ।
प्राज्ञस्याभिनेवेशो न तस्माद् अत्रापि युज्यते ॥ (५.२)४१३ ॥

छठा स्तबक[सम्पाद्यताम्]

निर्हेतुक विनाश से क्षणिकवाद की सिद्धि नहीं[सम्पाद्यताम्]

यच्चोक्तं पूर्वम् अत्रैव क्षणिकत्वप्रसाधकम् ।
नाशहेतोर् अयोगादि तद् इदानीं परीक्ष्यते ॥ (६.१)४१४ ॥

हेतोः स्यान् नश्वरो भावोऽनश्वरो वा विकल्प्य यत् ।
नाशहेतोर् अयोगित्वम् उच्यते तन् न युक्तिमत् ॥ (६.१)४१५ ॥

हेतुं प्रतीत्य यद् असौ तथा नश्वर इष्यते ।
यथैव भवतो हेतुर् विशिष्टफलसाधकः ॥ (६.१)४१६ ॥

तथास्वभाव एवासौ स्वहेतोर् एव जायते ।
सहकारिणम् आसाद्य यस् तथाविधकार्यकृत् ॥ (६.१)४१७ ॥

न पुनः क्रियते किञ्चित् तेनास्य सहकारिणा ।
समानकालभावित्वात् तथा चोक्तम् इदं तव ॥ (६.१)४१८ ॥

उपकारी विरोधी च सहकारी च यो मतः ।
प्रबन्धापेक्षया सर्वो नैककाले कदाचन ॥ (६.१)४१९ ॥

सहकारिकृतो हेतोर् विशेषो नास्ति यद्य् अपि ।
फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः ॥ (६.१)४२० ॥

न चास्यातत्स्वभावत्वे स फलस्यापि युज्यते ।
सभागक्षणजन्माप्तेस् तथाविधतदन्यवत् ॥ (६.१)४२१ ॥

अस्थानपक्षपातश् च हेतोर् अनुपकारिणी ।
अपेक्षायां नियुङ्क्ते यत् कार्यमेतद् वृथोदितम् ॥ (६.१)४२२ ॥

यस्मात् तस्याप्य् अदस् तुल्यं विशिष्टफलसाधकम् ।
भावहेतुं समाश्रित्य ननु न्यायान् निदर्शितम् ॥ (६.१)४२३ ॥

एवं च व्यर्थम् एवेह व्यतिरिक्तादिचिन्तनम् ।
नाश्यमाश्रित्य नाशस्य क्रियते यद् विचक्षणैः ॥ (६.१)४२४ ॥

किञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते ।
व्यापाद्यते सदा यस्मान् न कश्चित् केनचित् क्वचित् ॥ (६.१)४२५ ॥

कारणत्वात् स सन्तान-विशेषप्रभवस्य चेत् ।
हिंसकस् तन् न सन्तान-समुत्पत्तेर् असंभवात् ॥ (६.१)४२६ ॥

सांवृतत्वात् व्ययोत्पादौ सन्तानस्य खपुष्पवत् ।
न स्तस्तदधर्मत्वाच् च हेतुस् तत्प्रभवे कुतः ॥ (६.१)४२७ ॥

विसभागक्षणस्याथ जनको हिंसको न तत् ।
स्वतोऽपि तस्य तत्प्राप्तेर् जनकत्वाविशेषतः ॥ (६.१)४२८ ॥

हन्म्येनम् इति संक्लेशाद् हिंसकश् चेत् प्रकल्प्यते ।
नैवं त्वन्नीतितो यस्माद् अयम् एव न युज्यते ॥ (६.१)४२९ ॥

संक्लेशो यद् गुणोत्पादः स चाक्लिष्टान् न केवलात् ।
न चान्यसचिवस्यापि तस्यानतिशयात् ततः ॥ (६.१)४३० ॥

तं प्राप्य तत्स्वभावत्वात् ततः स इति चेन् ननु ।
नाशहेतुम् अवाप्यैवं नाशपक्षेऽपि न क्षतिः ॥ (६.१)४३१ ॥

अन्ये तु जन्यम् आश्रित्य सत्स्वह्बावाद्यपेक्षया ।
एवम् आहुर् अहेतुत्वं जनकस्यापि सर्वथा ॥ (६.१)४३२ ॥

न सत्स्वभावजनकस् तद्वैफल्यप्रसंगतः ।
जन्मायोगादिदोषाच् च नेतरस्यापि युज्यते ॥ (६.१)४३३ ॥

न चोभयादिभावस्य विरोधासंभवादितः ।
स्वनिवृत्त्यादिभावादौ कार्याभावादितोऽपरे ॥ (६.१)४३४ ॥

न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः ।
असिद्धेस् तत्र नीत्या तद् व्यवहारनिषेधतः ॥ (६.१)४३५ ॥

मानाभावे परेणापि व्यवहारो निषिध्यते ।
सज्ज्ञानशब्दविषयस् तद्वद् अत्रापि दृश्यताम् ॥ (६.१)४३६ ॥

अर्थक्रियाकारित्व से क्षणिकवाद की सिद्धि नहीं[सम्पाद्यताम्]

अर्थक्रियासमर्थत्वं क्षणिके यच् च गीयते ।
उत्पत्त्यनन्तरं नाशाद् विज्ञेयं तदयुक्तिमत् ॥ (६.२)४३७ ॥

अर्थक्रिया यतोऽसौ वा तदन्या वा द्वयी गतिः ।
तत्त्वे न तत्र सामर्थ्यम् अन्यतस् तत्समुद्भवात् ॥ (६.२)४३८ ॥

न स्वसंधारणे न्यायात् जन्मानन्तरनाशतः ।
न च नाशेऽपि सद्युक्त्या तद्धेतोस् तत्समुद्भवात् ॥ (६.२)४३९ ॥

अन्यत्वेऽन्यस्य सामर्थ्यम् अन्यत्रेति न संगतम् ।
ततोऽन्यभाव एवैतन् नासौ न्याय्यो दलं विना ॥ (६.२)४४० ॥

नासत् सत् जायते यस्माद् अन्यसत्त्वस्थिताव् अपि ।
तस्यैव तु तथाभावे नन्व् असिद्धोऽन्वयः कथम् ॥ (६.२)४४१ ॥

भूतिर् यैषां क्रिया सोक्ता न चासौ युज्यते क्वचित् ।
कर्तृभोक्तृस्वभावत्व-विरोधाद् इति चिन्त्यताम् ॥ (६.२)४४२ ॥

न चातीतस्य सामर्थ्यं तस्याम् इति निदर्शितम् ।
न चान्यो लौकिकः कश्चिच् छब्दार्थोऽत्रेत्ययुक्तिमत् ॥ (६.२)४४३ ॥

रूपरूपान्तरण से क्षणिकवाद की सिद्धि नहीं[सम्पाद्यताम्]

परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने ।
सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धितः ॥ (६.३)४४४ ॥

नार्थान्तरगमो यस्मात् सर्वथैव न चागमः ।
परिणामः प्रमासिद्धः इष्टश् च खलु पण्डितैः ॥ (६.३)४४५ ॥

यच् चेदम् उच्यते ब्रूमो-ऽतादवस्थ्यमनित्यताम् ।
एतत् तद् एव न भवत्य् अतोऽन्यत्वे ध्रुवोऽन्वयः ॥ (६.३)४४६ ॥

तद् एव न भवत्य् एतत् तच् च न भवतीति च ।
विरुद्धं हन्त किंचान्यद् आदिमत् तत् प्रसज्यते ॥ (६.३)४४७ ॥

क्षीरनाशश् च दध्य् एव यद् दृष्टं गोरसान्वितम् ।
न तु तैलाद्यतः सिद्ध परिणमोऽन्वयावहः ॥ (६.३)४४८ ॥

नासत् सज्जायते जातु सच् चासत् सर्वथैव हि ।
शक्त्यभावाद् अतिव्याप्तेः सत्स्वभावत्वहानितः ॥ (६.३)४४९ ॥

नित्येतरदतो न्यायात् तत् तथाभावतो हि तत् ।
प्रतीतिसचिवात् सम्यक् परिणामेन गम्यते ॥ (६.३)४५० ॥

अन्ततोगामी नाश से क्षणिकवाद की सिद्धि नहीं[सम्पाद्यताम्]

अन्ते क्षयेक्षणं चाद्य-क्षणक्षयप्रसाधनम् ।
तस्यैव तत्स्वभावत्वात् युज्यते न कदाचन ॥ (६.४)४५१ ॥

आदौ क्षयस्वभावत्वे तत्रान्ते दर्शनं कथम् ।
तुल्यापरापरोत्पत्ति-विप्रलम्भाद् यथोदितम् ॥ (६.४)४५२ ॥

अन्ते क्षयेक्षणाद् आदौ क्षयोऽदृष्टोऽनुमीयते ।
सदृशेनावरुद्धत्वात् तद्ग्रहाद् हि तदग्रहः ॥ (६.४)४५३ ॥

एतद् अप्य् असद् एवेति सदृशो भिन्न एव यत् ।
भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः ॥ (६.४)४५४ ॥

तदर्थनियतोऽसौ यद् भेदम् अन्याग्रहाद् हि तत् ।
न गृह्णातीति चेत् तुल्यः सोऽपरेण कुतो गतिः ॥ (६.४)४५५ ॥

तथागतेर् अभावे च वचस् तुच्छम् इदं ननु ।
सदृशेनावरुद्धत्वात् तद्ग्रहाद् हि तदग्रहः ॥ (६.४)४५६ ॥

भावे चास्या बलाद् एकम् अनेकग्रहणात्मकम् ।
अन्वयि ज्ञानम् एष्टव्यं सर्वं तत् क्षणिकं कुतः ॥ (६.४)४५७ ॥

ज्ञानेन गृह्यते चार्थो न चापि परदर्शने ।
तदभावे तु तद्भावात् कदाचिद् अपि तत्त्वतः ॥ (६.४)४५८ ॥

ग्रहणेऽपि यदा ज्ञानम् अपैत्य् उत्पत्त्यनन्तरम् ।
तदा तत् तस्य जानाति क्षणिकत्वं कथं ननु ॥ (६.४)४५९ ॥

तस्यैव तत्स्वभावत्वात् स्वात्मनैव तदुद्भवात् ।
यथा नीलादि ताद्रूप्यान् नैतन् मिथ्यात्वसंशयात् ॥ (६.४)४६० ॥

न चापि स्वानुमानेन धर्मभेदस्य संभवात् ।
लिङ्गधर्मातिपाताच् च तत्स्वभावाद्ययोगतः ॥ (६.४)४६१ ॥

नित्यस्यार्थक्रियायोगोऽप्य् एवं युक्त्या न गम्यते ।
सर्वम् एवाविशेषेण विज्ञानं क्षणिकं यतः ॥ (६.४)४६२ ॥

तथा चित्रस्वभावत्वान् न चार्थस्य न युज्यते ।
अर्थक्रिया ननु न्यायात् क्रमाक्रमविभाविनी ॥ (६.४)४६३ ॥

क्षणिकवाद तथा विज्ञानवाद के प्रतिपादन का एक संभव आशयविशेष[सम्पाद्यताम्]

अन्ये त्व् अभिदधत्य् एवम् एतद् आस्थानिवृत्तये ।
क्षणिकं सर्वम् एवेति बुद्धेनोक्तं न तत्त्वतः ॥ (६.५)४६४ ॥

विज्ञानमात्रम् अप्य् एवं बाह्यासंगनिवृत्तये ।
विनेयान् कांश्चिद् आश्रित्य यद् वा तद् देशनार्हतः ॥ (६.५)४६५ ॥

न चैतद् अपि न न्याय्यं यतो बुद्धो महामुनिः ।
सुवैद्यवद् विना कार्यं द्रव्यासत्यं न भाषते ॥ (६.५)४६६ ॥

शून्यवाद खण्डन[सम्पाद्यताम्]

ब्रुवते शून्यम् अन्ये तु सर्वम् एव विचक्षणाः ।
न नित्यं नाप्य् अनित्यं यद् वस्तु युक्त्योपपद्यते ॥ (६.६)४६७ ॥

नित्यम् अर्थक्रियाभावात् क्रमाक्रमविरोधतः ।
अनित्यम् अपि चोत्पाद-व्ययाभावान् न जातुचित् ॥ (६.६)४६८ ॥

उत्पादव्ययबुद्धिश् च भ्रान्तानन्दादिकारणम् ।
कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् ॥ (६.६)४६९ ॥

अत्राप्य् अभिदधत्य् अन्ये किम् इत्थं तत्त्वसाधनम् ।
प्रमाणं विद्यते किञ्चिद् आहोस्विच्छून्यम् एव हि ॥ (६.६)४७० ॥

शून्यं चेत् सुस्थितं तत्त्वम् अस्ति चेच् छून्यता कथम् ।
तस्यैव ननु सद्भावाद् इति सम्यग् विचिन्त्यताम् ॥ (६.६)४७१ ॥

प्रमाणम् अन्तरेणापि स्याद् एवं तत्त्वसंस्थितिः ।
अन्यथा नेति सुव्यक्तम् इदम् ईश्वरचेष्टितम् ॥ (६.६)४७२ ॥

उक्तं विहाय मानं चेच् छून्यतान्य् अस्य वस्तुनः ।
शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः ॥ (६.६)४७३ ॥

तस्याप्य् अशून्यतायां च प्राश्निकानां बहुत्वतः ।
प्रभूताशून्यतापत्तिर् अनिष्टा संप्रसज्यते ॥ (६.६)४७४ ॥

यावताम् अस्ति तन्मानं प्रतिपाद्यास् तथा च ये ।
सन्ति ते सर्व एवेति प्रभूतानाम् अशून्यता ॥ (६.६)४७५ ॥

एवं च शून्यवादोऽपि तद्विनेयानुगुण्यतः ।
अभिप्रायत इत्य् उक्तो लक्ष्यते तत्त्ववेदिना ॥ (६.६)४७६ ॥

सातवां स्तबक[सम्पाद्यताम्]

जैनसम्मत नित्यानित्यत्ववाद का समर्थन[सम्पाद्यताम्]

अन्ये त्व् आहुर् अनाद्य् एव जीवाजीवात्मकं जगत् ।
सदुत्पादव्ययध्रौव्य-युक्तं शास्त्रकृतश्रमाः ॥ (७.१)४७७ ॥

घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्व् अयम् ।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ (७.१)४७८ ॥

पयोवतो न दध्यत्ति न पयोऽत्ति दधिव्रतः ।
अगोरसव्रतो नोभे तस्मात् तत्त्वं त्रयात्मकम् ॥ (७.१)४७९ ॥

अत्राप्य् अभिदधत्य् अन्ये विरुद्धं हि मिथस्त्रयम् ।
एकत्रैवैकदा नैतद् घटां प्राञ्चति जातुचिद् ॥ (७.१)४८० ॥

उत्पादोऽभूतभवनं विनाशस् तद्विपर्ययः ।
ध्रौव्यं चोभयशून्यं यद् एकदैकत्र तत् कथम् ॥ (७.१)४८१ ॥

शोकप्रमोदमाध्यस्थ्यम् उक्तं यच् चात्र साधनम् ।
तदप्य् असाम्प्रतं यत् तद् वासनाहेतुकं मतम् ॥ (७.१)४८२ ॥

किञ्च स्याद्वादिनो नैव युज्यते निश्चयः क्वचित् ।
स्वतन्त्रापेक्षया तस्य न मानं मानम् एव यत् ॥ (७.१)४८३ ॥

संसार्य् अपि न संसारी मुक्तोऽपि न स एव हि ।
तदतद्रूपभावेन सर्वम् एवाव्यवस्थितम् ॥ (७.१)४८४ ॥

त आहुर् मुकुटोत्पादो न घटानाशधर्मकः ।
स्वर्णान् न वान्य एवेति न विरुद्धं मिथस्त्रयम् ॥ (७.१)४८५ ॥

न चोत्पादव्ययौ न स्तो ध्रौव्यवत् तद्धिया गतेः ।
नास्तित्वे तु तयोर् ध्रौव्यं तत्त्वतोऽस्तीति न प्रमा ॥ (७.१)४८६ ॥

न नास्ति ध्रौव्यम् अप्य् एवम् अविगानेन तद्गतेः ।
अस्याश् च भ्रान्ततायां न जगत्य् अभ्रान्ततागतिः ॥ (७.१)४८७ ॥

उत्पादोऽभूतभवनं स्वहेत्वन्तरधर्मकम् ।
तथाप्रतीतियोगेन विनाशस् तद्विपर्ययः ॥ (७.१)४८८ ॥

तथैतद् उभयाधार-स्वभावं ध्रौव्यम् इत्य् अपि ।
अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ॥ (७.१)४८९ ॥

एकत्रैवैकदैवैतद् इत्थं त्रयम् अपि स्थितम् ।
न्याय्यं भिन्ननिमित्तत्वात् तदभेदे न युज्यते ॥ (७.१)४९० ॥

इष्यते च परैर् मोहात् तत् क्षणस्थितिधर्मिणि ।
अभावेऽन्यतम् अस्यापि तत्र तत्त्वं न यद् भवेत् ॥ (७.१)४९१ ॥

भावमात्रं तद् इष्टं चेत् तद् इत्थं निर्विशेषणम् ।
क्षणस्थितिस्वभावत्वं न ह्य् उत्पादव्ययौ विना ॥ (७.१)४९२ ॥

तदित्थं भूतम् एवेति द्राग्नभस्तो न जातुचित् ।
भूत्वाभावश् च नाशोऽपि तद् एवेति न लौकिकम् ॥ (७.१)४९३ ॥

वासनाहेतुकं यच् च शोकादि परिकीर्तितम् ।
तदयुक्तं यतश् चित्रा सा न जात्वनिबन्धना ॥ (७.१)४९४ ॥

सदाभावेतरापत्तेर् एकभावाच् च वस्तुनः ।
तद्भावेऽतिप्रसंगादि नियमात् संप्रसज्यते ॥ (७.१)४९५ ॥

न मानं मानम् एवेति सर्वथानिश्चयश् च यः ।
उक्तो न युज्यते सोऽपि यद् एकान्तनिबन्धनः ॥ (७.१)४९६ ॥

मानं तन्मानम् एवेति प्रत्यक्षं लैङ्गिकं न तु ।
तत् तच् चेन् मानम् एवेति स्यात् तद्भावादृते कथम् ॥ (७.१)४९७ ॥

न स्वसत्त्वं परासत्त्वं सदसत्त्वविरोधतः ।
स्वसत्त्वासत्त्ववन्न्यायान् न च नास्त्य् एव तत्र तत् ॥ (७.१)४९८ ॥

परिकल्पितम् एतच् चेन् न त्व् इत्थं तत्त्वतो न तत् ।
ततः क इह दोषश् चेन् न तु तद्भावसंगतिः ॥ (७.१)४९९ ॥

अनेकान्तत एवातः सम्यग् मानव्यवस्थितेः ।
स्याद्वादिनो नियोगेन युज्यते निश्चयः परः ॥ (७.१)५०० ॥

एतेन सर्वम् एवेति यद् उक्तं तन् निराकृतम् ।
शिष्यव्युत्पत्तये किञ्चित् तथाप्य् अपरम् उच्यते ॥ (७.१)५०१ ॥

संसारी चेत् स एवेति कथं मुक्तस्य संभवः ।
मुक्तोऽपि चेत् स एवेति व्यपदेशोऽनिबन्धनः ॥ (७.१)५०२ ॥

संसाराद् विप्रमुक्तो यन् मुक्त इत्य् अभिधीयते ।
नैतत् तस्यैव तद्भावम् अन्तरेणोपपद्यते ॥ (७.१)५०३ ॥

तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम् ।
द्रव्यपर्यायवद् वस्तु बलाद् एव प्रसिद्ध्यति ॥ (७.१)५०४ ॥

लज्जते बाल्यचरितैर् बाल एव न चापि यत् ।
युवा न लज्जते चान्यस् तैर् आयत्यैव चेष्टते ॥ (७.१)५०५ ॥

युवैव न च वृद्धोऽपि नान्यार्थं चेष्टनं च तत् ।
अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत् ॥ (७.१)५०६ ॥

अन्वयो व्यतिरेकश् च द्रव्यपर्यायसंज्ञितौ ।
अन्योन्यव्याप्तितो भेदा-भेदवृत्त्यैव वस्तु तौ ॥ (७.१)५०७ ॥

नान्योन्यव्याप्तिर् एकान्त-भेदेऽभेदे च युज्यते ।
अतिप्रसंगाद् ऐक्याच् च शब्दार्थानुपपत्तितः ॥ (७.१)५०८ ॥

अन्योन्यम् इति यद् भेदं व्याप्तिश् चाह विपर्ययम् ।
भेदाभेदे द्वयोस् तस्माद् अन्योन्यव्याप्तिसंभवः ॥ (७.१)५०९ ॥

एवं न्यायाविरुद्धेऽस्मिन् विरोधोद्भावनं नृणाम् ।
व्यसनं धीजडत्वं वा प्रकाशयति केवलम् ॥ (७.१)५१० ॥

न्यायात् खलु विरोधो यः स विरोध इहोच्यते ।
यद्वदेकान्तभेदादौ तयोर् एवाप्रसिद्धितः ॥ (७.१)५११ ॥

मृद्द्रव्यं यन् न पिण्डादि-धर्मान्तरविवर्जितम् ।
तद् वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ॥ (७.१)५१२ ॥

ततोऽसत् तत् तथा न्यायाद् एकं चोभयसिद्धितः ।
अन्यत्रातो विरोधस् तद्-अभावापत्तिलक्षणः ॥ (७.१)५१३ ॥

जात्यन्तरात्मके चास्मिन् नानवस्थादिदूषणम् ।
नियतत्वाद् विविक्तस्य भेदादेश् चाप्य् असंभवात् ॥ (७.१)५१४ ॥

नाभेदो भेदरहितो भेदो वाभेदवर्जितः ।
केवलोऽस्ति यतस् तेन कुतस् तत्र विकल्पनम् ॥ (७.१)५१५ ॥

येनाकारेण भेदः किं तेनासाव् एव वा द्वयम् ।
असत्त्वात् केवलस्येह सतश् च कथितत्वतः ॥ (७.१)५१६ ॥

यतश् च तत् प्रमाणेन गम्यते ह्य् उभयात्मकम् ।
अतोऽपि जातिमात्रं तद् अनवस्थादिकल्पनम् ॥ (७.१)५१७ ॥

एवं ह्य् उभयदोषादि-दोषा अपि न दूषणम् ।
सम्यग् जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः ॥ (७.१)५१८ ॥

एतेनैतत् प्रतिक्षिप्तं यद् उक्तं पूर्वसूरिभिः ।
विहायानुभवं मोहाज् जातियुक्त्यनुसारिभिः ॥ (७.१)५१९ ॥

द्रव्यपर्याययोर् भेदे नैकस्योभयरूपता ।
अभेदेऽन्यतरस्थान-निवृत्ती चिन्त्यतां कथम् ॥ (७.१)५२० ॥

यन्निवृत्तौ न यस्येह निवृत्तिस् तत् ततो यतः ।
भिन्नं नियमतो दृष्टं यथा कर्कः क्रमेलकात् ॥ (७.१)५२१ ॥

निवर्तते च पर्यायो न तु द्रव्यं ततो न सः ।
अभिन्नो द्रव्यतोऽभेदे-ऽनिवृत्तिस् तत्स्वरूपवत् ॥ (७.१)५२२ ॥

प्रतिक्षिप्तं च यद् भेदा-भेदपक्षोऽन्य एव हि ।
भेदाभेदविकल्पाभ्यां हन्त जात्यन्तरात्मकः ॥ (७.१)५२३ ॥

जात्यन्तरात्मकं चैनं दोषास् ते समियुः कथम् ।
भेदाभेदे च येऽत्यन्तं जातिभिन्ने व्यवस्थिताः ॥ (७.१)५२४ ॥

किञ्चिन् निवर्ततेऽवश्यं तस्याप्य् अन्यत् तथा न यत् ।
अतस् तद्भेद एवात्र निवृत्त्याद्यन्यथा कथम् ॥ (७.१)५२५ ॥

तस्येति योगसामर्थ्याद् भेद एवेति बाधितम् ।
अभिन्नदेशस् तस्येति यत् तद्व्याप्त्या तथोच्यते ॥ (७.१)५२६ ॥

अतस् तद्भेद एवेति प्रतीतिविमुखं वचः ।
तस्यैव च तथाभावात् तन्निवृत्तीतरात्मकम् ॥ (७.१)५२७ ॥

नानुवृत्तिनिवृत्तिभ्यां विना यद् उपपद्यते ।
तस्यैव हि तथाभावः सूक्ष्मबुद्ध्या विचिन्त्यताम् ॥ (७.१)५२८ ॥

तस्यैव तु तथाभावे तद् एव हि यतस् तथा ।
भवत्यतो न दोषो नः कश्चिद् अप्य् उपपद्यते ॥ (७.१)५२९ ॥

इत्थम् आलोचनं चेदम् अन्वयव्यतिरेकवत् ।
वस्तुनस् तत्स्वभावत्वात् तथाभावप्रसाधकम् ॥ (७.१)५३० ॥

न च भेदोऽपि बाधायै तस्यानेकान्तवादिनः ।
जात्यन्तरात्मकं वस्तु नित्यानित्यं यतो मतम् ॥ (७.१)५३१ ॥

प्रत्यभिज्ञाबलाच् चैतद् इत्थं समवसीयते ।
इयं च लोकसिद्धैव तद् एवेदम् इति क्षितौ ॥ (७.१)५३२ ॥

न युज्यते च सन्न्यायाद् ऋते तत्परिणामिताम् ।
कालादिभेदतो वस्त्व-भेदतश् च तथागतेः ॥ (७.१)५३३ ॥

एकान्तैक्ये न नाना यन् नानात्वे चैकम् अप्य् अदः ।
अतः कथं नु तद्भावः तदेतदुभयात्मकम् ॥ (७.१)५३४ ॥

तस्यैव तु तथाभावे कथञ्चिद् भेदयोगतः ।
प्रमातुर् अपि तद्भावात् युज्यते मुख्यवृत्तितः ॥ (७.१)५३५ ॥

नित्यैकयोगतो व्यक्ति-भेदेऽप्य् एषा न संगता ।
तद् इहेति प्रसंगेन तद् एवेदम् अयोगतः ॥ (७.१)५३६ ॥

सादृश्याज्ञानतो न्याय्या न विभ्रमबलाद् अपि ।
एतद् द्वयाग्रहे युक्तं न च सादृश्यकल्पनम् ॥ (७.१)५३७ ॥

न च भ्रान्तापि सद्बाधा-ऽभावाद् एव कदाचन ।
योगिप्रत्ययतद्भावे प्रमाणं नास्ति किञ्चन ॥ (७.१)५३८ ॥

नाना योगी विजानात्य-नाना नेत्य् अत्र न प्रमा ।
देशनाया विनेयानु-गुण्येनापि प्रवृत्तितः ॥ (७.१)५३९ ॥

या च लूनपुनर्जात-नखकेशतृणादिषु ।
इयं संलक्ष्यते सापि तदाभासा न सैव हि ॥ (७.१)५४० ॥

प्रत्यक्षाभासभावेऽपि नाप्रमाणं यथैव हि ।
प्रत्यक्षं तद्वद् एवेयं प्रमाणम् अवगम्यताम् ॥ (७.१)५४१ ॥

मतिज्ञानविकल्पत्वान् न चानिष्टिर् इयं यतः ।
एतद् बलात् ततः सिद्धं नित्यानित्यादि वस्तुनः ॥ (७.१)५४२ ॥

आठवां स्तबक[सम्पाद्यताम्]

ब्रह्माद्वैतवादखण्डन[सम्पाद्यताम्]

अन्ये त्व् अद्वैतम् इच्छन्ति सद्ब्रह्मादिव्यपेषया ।
सतो यद् भेदकं नान्यत् तच् च तन्मात्रम् एव हि ॥ (८.१)५४३ ॥

यथा विशुद्धम् आकाशं तिमिरोपप्लुतो जनः ।
संकीर्णम् इव मात्राभिर् भिन्नाभिर् अभिमन्यते ॥ (८.१)५४४ ॥

तथेदम् अमलं ब्रह्म निर्विकल्पम् अविद्यया ।
कलुषत्वम् इवापन्नं भेदरूपं प्रकाशते ॥ (८.१)५४५ ॥

अत्राप्य् एवं वदन्त्य् अन्ये अविद्या न सतः पृथक् ।
तच् च तन्मात्रम् एवेति भेदाभासोऽनिबन्धनः ॥ (८.१)५४६ ॥

सैवाथाभेदरूपापि भेदाभासनिबन्धनम् ।
प्रमाणम् अन्तरेणैतद् अवगन्तुं न शक्यते ॥ (८.१)५४७ ॥

भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः ।
ननु नाद्वैतम् एवेति तदभावेऽप्रमाणकम् ॥ (८.१)५४८ ॥

विद्याविद्यादिभेदाच् च स्वतन्त्रेणैव बाध्यते ।
तत्संशयादियोगाच् च प्रतीत्या च विचिन्त्यताम् ॥ (८.१)५४९ ॥

अन्ये व्याख्यानयन्त्य् एवं समभावप्रसिद्धये ।
अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥ (८.१)५५० ॥

न चैतत् बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः ।
संसारमोक्षभावाच् च तदर्थं यत्नसिद्धितः ॥ (८.१)५५१ ॥

अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः ।
सर्वानुष्ठानवैयर्थ्यम् अनिष्टं सम्प्रसज्यते ॥ (८.१)५५२ ॥

नवां स्तबक[सम्पाद्यताम्]

मोक्ष की संभावना तथा मोक्ष के साधन[सम्पाद्यताम्]

अन्ये पुनर् वदन्त्य् एवं मोक्ष एव न विद्यते ।
उपायाभावतः किं वा न सदा सर्वदेहिनाम् ॥ (९.१)५५३ ॥

कर्मादिपरिणत्यादि-सापेक्षो यद्य् असौ ततः ।
अनादिमत्त्वात् कर्मादि-परिणत्यादि किं तथा ॥ (९.१)५५४ ॥

तस्यैव चित्ररूपत्वात् तत् तथेति न युज्यते ।
उत्कृष्टा या स्थितिस् तस्य यज् जातानेकशः किल ॥ (९.१)५५५ ॥

अत्रापि वर्णयन्त्य् अन्ये विद्यते दर्शनादिकः ।
उपायो मोक्षतत्त्वस्य परः सर्वज्ञभाषितः ॥ (९.१)५५६ ॥

दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्ववेदनम् ।
दुःखान्तकृत् सुखारम्भः पर्यायास् तस्य कीर्तिताः ॥ (९.१)५५७ ॥

अनादिभव्यभावस्य तत्स्वभावत्वयोगतः ।
उत्कृष्टाद्यास्वतीतासु तथा कर्मस्थितिष्व् अलम् ॥ (९.१)५५८ ॥

तद् दर्शनम् अवाप्नोति कर्मग्रन्थिं सुदारुणम् ।
निर्भिद्य शुभभावेन कदाचित् कश्चिद् एव हि ॥ (९.१)५५९ ॥

सति चास्मिन्न् असौ धन्यः सम्यग्दर्शनसंयुतः ।
तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ ॥ (९.१)५६० ॥

स पश्यत्य् अस्य यद् रूपं भावतो बुद्धिचक्षुषा ।
सम्यक्शास्त्रानुसारेण रूपं नष्टाक्षिरोगवत् ॥ (९.१)५६१ ॥

तद् दृष्ट्वा चिन्तयत्य् एवं प्रशान्तेनान्तरात्मना ।
भावगर्भं यथाभावं परं संवेगम् आश्रितः ॥ (९.१)५६२ ॥

जन्ममृत्युजराव्याधि-रोगशोकाद्युपद्रुतः ।
क्लेशाय केवलं पुंसाम् अहो भीमो महोदधिः ॥ (९.१)५६३ ॥

सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः ।
भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा ॥ (९.१)५६४ ॥

हेतुर् भवस्य हिंसादिर् दुःखाद्यन्वयदर्शनात् ।
मुक्तेः पुनर् अहिंसादिर् व्याबाधाविनिवृत्तितः ॥ (९.१)५६५ ॥

बुद्ध्वैवं भवनैर्गुण्यं मुक्तेश् च गुणरूपताम् ।
तद् अर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम् ॥ (९.१)५६६ ॥

दुष्करं क्षुद्रसत्त्वानाम् अनुष्ठानं करोत्य् असौ ।
मुक्तौ दृढानुरागत्वात् कामीव विनितान्तरे ॥ (९.१)५६७ ॥

उपादेयविशेषस्य न यत् सम्यक् प्रसाधनम् ।
दुनोति चेतोऽनुष्ठानं तद्भावप्रतिबन्धतः ॥ (९.१)५६८ ॥

ततश् च दुष्करं तन् न सम्यग् आलोच्यते यदा ।
अतोऽन्यद् दुष्करं न्यायाद् हेयवस्तुप्रसाधकम् ॥ (९.१)५६९ ॥

व्याधिग्रस्तो यथारोग्य-लेशम् आस्वादयन् बुद्धः ।
कष्टेऽप्य् उपक्रमे धीरः सम्यक् प्रीत्या प्रवर्तते ॥ (९.१)५७० ॥

संसारव्याधिना ग्रस्तस् तद्वज् ज्ञेयो नरोत्तमः ।
शमारोग्यलवं प्राप्य भावतस् तदुपक्रमे ॥ (९.१)५७१ ॥

प्रवर्तमान एवं च यथाशक्ति स्थिराशयः ।
शुद्धं चारित्रम् आसाद्य केवलं लभते क्रमात् ॥ (९.१)५७२ ॥

ततः स सर्वविद् भूत्वा भवोपग्राहिकर्मणः ।
ज्ञानयोगात् क्षयं कृत्वा मोक्षम् आप्नोति शाश्वतम् ॥ (९.१)५७३ ॥

ज्ञानयोगस् तपः शुद्धम् इत्य् आदि यद् उदीरितम् ।
ऐदम्पर्येण भावार्थस् तस्यायम् अभिधीयते ॥ (९.१)५७४ ॥

ज्ञानयोगस्य योगीन्द्रैः परा काष्ठा प्रकीर्तिता ।
शैलेशीसंज्ञितं स्थैर्यं ततो मुक्तिर् असंशयम् ॥ (९.१)५७५ ॥

धर्मस् तच् चात्मधर्मत्वान् मुक्तिदः शुद्धिसाधनात् ।
अक्षयोऽप्रतिपातित्वात् सदा मुक्तौ तथा स्थितेः ॥ (९.१)५७६ ॥

चारित्रपरिणामस्य निवृत्तिर् न च सर्वथा ।
सिद्ध उक्तो यतः शास्त्रे न चारित्री न चेतरः ॥ (९.१)५७७ ॥

न चावस्थानिवृत्त्येह निवृत्तिस् तस्य युज्यते ।
समयातिक्रमे यद्वत् सिद्धभावश् च तत्र वै ॥ (९.१)५७८ ॥

ज्ञानयोगाद् अतो मुक्तिर् इति सम्यग् व्यवस्थितम् ।
तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ (९.१)५७९ ॥

दसवां स्तबक[सम्पाद्यताम्]

मीमांसक के सर्वज्ञताखण्डन का खण्डन[सम्पाद्यताम्]

अत्राप्य् अभिदधत्य् अन्ये सर्वज्ञो नैव विद्यते ।
तद्ग्राहकप्रमाभावाद् इति न्यायानुसारिणः ॥ (१०.१)५८० ॥

प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्यते ।
लिङ्गम् अप्य् अविनाभावि तेन किञ्चिन् न विद्यते ॥ (१०.१)५८१ ॥

न चागमेन यद् असौ विध्यादिप्रतिपादकः ।
अप्रत्यक्षत्वतो नैवो-पमानेनापि गम्यते ॥ (१०.१)५८२ ॥

नार्थापत्त्यापि सर्वोऽर्थस् तं विनाप्य् उपपद्यते ।
प्रमाणपञ्चकावृत्तेस् तत्राभावप्रमाणता ॥ (१०.१)५८३ ॥

धर्माधर्मव्यवस्था तु वेदाख्याद् आगमात् किल ।
अपौरुषेयोऽसौ यस्माद् हेतुदोषविवर्जितः ॥ (१०.१)५८४ ॥

आह चालोकवद् वेदे सर्वसाधारणे सति ।
धर्माधर्मपरिज्ञाता किम् अर्थं कल्प्यते नरः ॥ (१०.१)५८५ ॥

ईष्टापूर्तादिभेदोऽस्मात् सर्वलोकप्रतिष्ठितः ।
व्यवहारप्रसिद्धयैव यथैव दिवसादयः ॥ (१०.१)५८६ ॥

ऋत्विग्भिर् मन्त्रसंस्कारैर् ब्राह्मणानां समक्षतः ।
अन्तर्वेद्यां तु यद् दत्तम् इष्टं तद् अभिधीयते ॥ (१०.१)५८७ ॥

वापीकूपतङागानि देवतायतनानि च ।
अन्नप्रदानम् इत्य् एतत् पूर्त्तम् इत्य् अभिधीयते ॥ (१०.१)५८८ ॥

अतोऽपि शुक्लं यद् वृत्तं निरीहस्य महात्मनः ।
ध्यानादि मोक्षफलदं श्रेयस् तद् अभिधीयते ॥ (१०.१)५८९ ॥

वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि ।
अतीन्द्रियार्थद्रष्टा तन् नास्ति किञ्चित् प्रयोजनम् ॥ (१०.१)५९० ॥

अत्रापि ब्रुवते केचिद् इत्थं सर्वज्ञवादिनः ।
प्रमाणपञ्चकावृत्तिः कथं तत्रोपपद्यते ॥ (१०.१)५९१ ॥

सर्वार्थविषयं तच् चेत् प्रत्यक्षं तन् निषेधकृत् ।
अभावः कथम् एतस्य न चेद् अत्राप्य् अदः समम् ॥ (१०.१)५९२ ॥

धर्मादयोऽपि चाध्यक्षाः ज्ञेयभावाद् घटादिवत् ।
कस्यचित् सर्व एवेति नानुमानं न विद्यते ॥ (१०.१)५९३ ॥

आगमाद् अपि तत्सिद्धिर् यद् असौ चोदनाफलम् ।
प्रामाण्यं च स्वतस् तस्य नित्यत्वम् च श्रुतेर् इव ॥ (१०.१)५९४ ॥

हृद्गताशेषसंशीति-निर्णयात् तद्ग्रहे पुनः ।
उपमान्यग्रहे तत्र न चान्यत्रापि चान्यथा ॥ (१०.१)५९५ ॥

शास्त्राद् अतीन्द्रियगतेर् अर्थापत्त्यापि गम्यते ।
अन्यथा तत्र नाश्वासश् छद्मस्थस्योपजायते ॥ (१०.१)५९६ ॥

प्रमाणपञ्चकावृत्तिर् एवं तत्र न युज्यते ।
तथाप्य् अभावप्रामाण्यम् इति ध्यान्ध्यविजृम्भितम् ॥ (१०.१)५९७ ॥

वेदाद् धर्मादिसंस्थापि हन्तातीन्द्रियदर्शिनम् ।
विहाय गम्यते सम्यक् कुत एतद् विचिन्त्यताम् ॥ (१०.१)५९८ ॥

न वृद्धसम्प्रदायेन छिन्नमूलत्वयोगतः ।
न चार्वाग्दर्शिना तस्यातीन्द्रियार्थोऽवसीयते ॥ (१०.१)५९९ ॥

प्रामाण्यं रूपविषये संप्रदाये न युक्तिमत् ।
यथानादिमदन्धानां तथात्रापि निरूप्यताम् ॥ (१०.१)६०० ॥

न लौकिकपदार्थेन तत्पदार्थस्य तुल्यता ।
निश्चेतुं पार्यतेऽन्यत्र तद्विपर्ययदर्शनात् ॥ (१०.१)६०१ ॥

नित्यत्वापौरुषेयत्वाद् यस्ति किञ्चिद् अलौकिकम् ।
तत्रान्यत्राप्य् अतः शङ्का विदुषो न निवर्तते ॥ (१०.१)६०२ ॥

तन्निवृत्तौ च नोपायो विनातीन्द्रियवेदिनम् ।
एवं च कृत्वा साध्व् एतत् कीर्तितं धर्मकीर्तिना ॥ (१०.१)६०३ ॥

स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यतः ।
न वेदयति वेदोऽपि वेदार्थस्य गतिः कुतः ॥ (१०.१)६०४ ॥

तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ ।
खादेत् श्वमांसम् इत्य् एष नार्थ इत्य् अत्र का प्रमा ॥ (१०.१)६०५ ॥

प्रदीपादिवदिष्टश् चेत् तच्छब्दोऽर्थप्रकाशकः ।
स्वत एव प्रमाणं न किञ्चिद् अत्रापि विद्यते ॥ (१०.१)६०६ ॥

विपरीतप्रकाशश् च ध्रुवम् आपद्यते क्वचित् ।
तथा हीन्दीवरे दीपः प्रकाशयति रक्तताम् ॥ (१०.१)६०७ ॥

तस्मान् न चाविशेषेण प्रतीतिर् उपजायते ।
सङ्केतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥ (१०.१)६०८ ॥

साधुर् न वेति सङ्केतो न चाशङ्का निवर्तते ।
तद्वैचित्र्योपलब्धेश् च स्वाशयाभिनिवेशतः ॥ (१०.१)६०९ ॥

व्याख्याप्य् अपौरुषेय्यस्य मानाभावान् न सङ्गता ।
मिथो विरुद्धभावाच् च तत्साधुत्वाद्यनिश्चितेः ॥ (१०.१)६१० ॥

नान्यप्रमाणसंवादात् तत्साधुत्वविनिश्चयः ।
सोऽतीन्द्रिये न यन्न्याय्यस् तत्तद्भावविरोधतः ॥ (१०.१)६११ ॥

तस्माद् व्याख्यानम् अस्येदं स्वाभिप्रायनिवेदनम् ।
जैमिन्यादेर् न तुल्यं किं वचनेनापरेण वः ॥ (१०.१)६१२ ॥

एष स्थाणुर् अयं मार्ग इति वक्तीह कश्चन ।
अन्यः स्वयं ब्रवीमीति तयोर् भेदः परीक्ष्यताम् ॥ (१०.१)६१३ ॥

न चाप्य् अपौरुषेयोऽसौ घटते सूपपत्तितः ।
वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः ॥ (१०.१)६१४ ॥

वक्तृव्यापारभावेति तद्भावे लौकिकं न किम् ।
अपौरुषेयम् इष्टं वो वचो द्रव्यव्यपेक्षया ॥ (१०.१)६१५ ॥

दृश्यमानेऽपि चाशङ्कादृश्यकर्तृसमुद्भवा ।
नातीन्द्रियार्थद्रषारम् अन्तरेण निवर्तते ॥ (१०.१)६१६ ॥

पापाद् अत्रेदृशी बुद्धिर् न पुण्याद् इति न प्रमा ।
न लोको हि विगानत्वात् तद्बहुत्वाद्यनिश्चितेः ॥ (१०.१)६१७ ॥

बहूनाम् अपि संमोह-भावान् मिथ्याप्रवर्तनात् ।
मानसंख्याविरोधाच् च कथम् इत्थम् इदं ननु ॥ (१०.१)६१८ ॥

अतीन्द्रियार्थद्रष्टा तु पुमान् कश्चिद् यदीष्यते ।
संभवद्विषयापि स्याद् एवंभूतार्थकल्पना ॥ (१०.१)६१९ ॥

अपौरुषेयताप्य् अस्य नान्यतो ह्य् अवगम्यते ।
कर्तुर् अस्मरणादीनां व्यभिचारादिदोषतः ॥ (१०.१)६२० ॥

नाभ्यास एवम् आदीनाम् अपि कर्ताविगानतः ।
स्मर्यते च विगानेन हन्तेहाप्य् अष्टकादयः ॥ (१०.१)६२१ ॥

अभ्यासः कर्मणां सत्यम् उत्पादयति कौशलम् ।
स्वकृताध्ययनस्यापि तद्भावो न विरुध्यते ।
गौरवापादनार्थं च तथा स्याद् अनिवेदनम् ॥ (१०.१)६२२ ॥

मन्त्रादीनां च सामर्थ्यं शाबराणाम् अपि स्फुटम् ।
प्रतीतं सर्वलोकेऽपि न चाप्य् अव्यभिचारि तत् ॥ (१०.१)६२३ ॥

वेदेऽपि पठ्यते ह्य् एष महात्मा तत्र तत्र यत् ।
स च मानमतोऽप्य् अस्यासत्त्वं वक्तुं न युज्यते ॥ (१०.१)६२४ ॥

न चाप्य् अतीन्द्रियार्थत्वाज् ज्यायो विषयकल्पनम् ।
असाक्षाद्दर्शिनस् तत्र रूपेऽन्धस्य् एव सर्वथा ॥ (१०.१)६२५ ॥

सर्वज्ञेन ह्य् अभिव्यक्तात् सर्वार्थादागमात् परा ।
धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् ॥ (१०.१)६२६ ॥

बौद्ध के सर्वज्ञताखण्डन का खण्डन[सम्पाद्यताम्]

अत्रापि प्राज्ञ इत्य् अन्य इत्थम् आह सुभाषितम् ।
इष्टोऽयम् अर्थः शक्येत ज्ञातुं सोऽतिशयो यदि ॥ (१०.२)६२७ ॥

अयम् एवं न वेत्य् अन्य-दोषो निर्दोषतापि वा ।
दुर्लभत्वात् प्रमाणानां दुर्बोधेत्य् अपरे विदुः ॥ (१०.२)६२८ ॥

अत्रापि ब्रुवते वृद्धाः सिद्धम् अव्यभिचार्य् अपि ।
लोके गुणादिविज्ञानं सामान्येन महात्मनाम् ॥ (१०.२)६२९ ॥

तन्नीतिप्रतिपत्त्यादेर् अन्यथा तन् न युक्तिमत् ।
विशेषज्ञानम् अप्य् एवं तद्वद् अभ्यासतो न किम् ॥ (१०.२)६३० ॥

दोषाणां ह्रासदृष्ट्येह तत्सर्वक्षयसंभवात् ।
तत्सिद्धौ ज्ञायते प्राज्ञैस् तस्यातिशय इत्य् अपि ॥ (१०.२)६३१ ॥

हृद्गताशेषसंशीति-निर्णयादिप्रभावतः ।
तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः ॥ (१०.२)६३२ ॥

न चास्यादर्शनेऽप्य् अद्य साम्राज्यस्य् एव नास्तिता ।
संभवो न्याययुक्तस् तु पूर्वम् एव निदर्शितः ॥ (१०.२)६३३ ॥

प्रतिभालोचनं तावद् इदानीम् अप्य् अतीन्द्रिये ।
सुवैद्यसंयतादीनाम् अविसंवादि दृश्यते ॥ (१०.२)६३४ ॥

एवं तत्रापि तद्भावे न विरोधोऽस्ति कश्चन ।
तद्व्यक्तार्थाविरोधादौ ज्ञानभावाच् च साम्प्रतम् ॥ (१०.२)६३५ ॥

सर्वत्र दृष्टे संवादाद् अदृष्टे नोपजायते ।
ज्ञातुर् विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः ॥ (१०.२)६३६ ॥

वस्तुस्थित्यापि तत् तादृग् न विसंवादकं भवेत् ।
यथोत्तरं तथा दृष्टेर् इति चैतन् न सांप्रतम् ॥ (१०.२)६३७ ॥

सिद्ध्येत् प्रमाणं यद्य् एवम् अप्रमाणम् अथेह किम् ।
न ह्य् एकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ॥ (१०.२)६३८ ॥

यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम् ।
यत्रागमे प्रमाणं स इष्यते पण्डितैर् जनैः ॥ (१०.२)६३९ ॥

आत्मा नामी पृथक् कर्म तत्संयोगाद् भवोऽन्यथा ।
मुक्तिर् हिंसादयो मुख्यास् तन्निवृत्तिः ससाधना ॥ (१०.२)६४० ॥

अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः ।
यत्रेदं युज्यते सर्वं योगिव्यक्तं स आगमः ॥ (१०.२)६४१ ॥

अधिकार्य् अपि चास्येह स्वयम् अज्ञोऽपि यः पुमान् ।
कथितज्ञः पुनर् धीमांस् तद्वैयर्थ्यमतोऽन्यथा ॥ (१०.२)६४२ ॥

परिचित्तादिधर्माणां गत्युपायाभिधानतः ।
सर्वार्थविषयोऽप्य् एष इति तद्भावसंस्थितिः ॥ (१०.२)६४३ ॥

ग्यारहवां स्तबक[सम्पाद्यताम्]

शब्दार्थसंबंधखण्डन का खण्डन[सम्पाद्यताम्]

अन्ये त्व् अभिदधत्य् अत्र युक्तिमार्गकृतश्रमाः ।
शब्दार्थयोर् न संबन्धो वस्तुस्थित्येह विद्यते ॥ (११.१)६४४ ॥

न तादात्म्यं द्वयाभाव-प्रसंगाद् बुद्धिभेदतः ।
शस्त्राद्युक्तौ मुखच्छेदादिसंगात् समयस्थितेः ॥ (११.१)६४५ ॥

अर्थासंनिधिभावेन तद्दृष्टावन्यथोक्तितः ।
अन्याभावनियोगाच् च न तदुत्पत्तिर् अप्य् अलम् ॥ (११.१)६४६ ॥

परमार्थैकतानत्वे शब्दानाम् अनिबन्धना ।
न स्यात् प्रवृत्तिर् अर्थेषु दर्शनान्तरभेदिषु ॥ (११.१)६४७ ॥

अतीताजातयोर् वापि न च स्याद् अनृतार्थता ।
वाचः कस्याश्चिद् इत्य् एषा बौद्धार्थविषया मता ॥ (११.१)६४८ ॥

वाच्य इत्थम् अपोहस् तु न जातिः पारमार्थिकी ।
तदयोगाद् विना भेदं तदन्येभ्यस् तथास्थितेः ॥ (११.१)६४९ ॥

सति चास्मिन् किम् अन्येन शब्दात् तद्वत्प्रतीतितः ।
तदभावे न तद्वत्त्वं तद्भ्रान्तत्वात् तथा न किम् ॥ (११.१)६५० ॥

अभ्रान्तजातिवादे तु न दण्डाद् दण्डिवद् गतिः ।
तद्वत्य् उभयसाङ्कर्ये न भेदाद् वोऽपि तादृशम् ॥ (११.१)६५१ ॥

अन्ये त्व् अभिदधत्य् एवं वाच्यवाचकलक्षणः ।
अस्ति शब्दार्थयोर् योगस् तत्प्रतीत्यादितस् ततः ॥ (११.१)६५२ ॥

नैतद् दृश्यविकल्प्यर्थैकीकरणेन भेदतः ।
एकप्रमात्रभावाच् च तयोस् तत्त्वाप्रसिद्धितः ॥ (११.१)६५३ ॥

शब्दात् तद्वासनाबोधो विकल्पस्य ततो हि यत् ।
तद् इत्थम् उच्यतेऽस्माभिर् न ततस् तदसिद्धितः ॥ (११.१)६५४ ॥

विशिष्टं वासनाजन्म बोधस् तच् च न जातुचित् ।
अन्यतस् तुल्यकालादेर् विशेषोऽन्यस्य नो यतः ॥ (११.१)६५५ ॥

निष्पन्नत्वाद् असत्त्वाच् च द्वाभ्याम् अन्योदयो न सः ।
उपादानाविशेषेण तत्स्वभावं तु तत्कुतः ॥ (११.१)६५६ ॥

न ह्य् उक्तवत् स्वहेतोस् तु स्याच् च नाशः सहेतुकः ।
इत्थं प्रकल्पने न्यायाद् अत एव न युक्तिमत् ॥ (११.१)६५७ ॥

अनभ्युपगमाच् चेह तादात्म्यादिसमुद्भवाः ।
न दोषा नो न चान्येऽपि तद्भेदाद् हेतुभेदतः ॥ (११.१)६५८ ॥

वन्ध्येतरादिको भेदो रामादीनां यथैव हि ।
मृषासत्यादिशब्दानां तद्वत् तद्धेतुभेदतः ॥ (११.१)६५९ ॥

परमार्थैकतानत्वेऽप्य् अन्यदोषोपवर्णनम् ।
प्रत्याख्यातं हि शब्दानाम् इति सम्यग् विचिन्त्यताम् ॥ (११.१)६६० ॥

अन्यदोषो यद् अन्यस्य युक्त्या युक्तो न जातुचित् ।
वक्त्यवर्णं न बुद्धानां भिक्ष्वादिः शबरादिवत् ॥ (११.१)६६१ ॥

ज्ञायते तद्विशेषस् तु प्रमाणेतरयोर् इव ।
स्वरूपालोचनादिभ्यस् तथा दर्शनतो भुवि ॥ (११.१)६६२ ॥

समयोपेक्षणं चेह तत्क्षयोपशमं विना ।
तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते ॥ (११.१)६६३ ॥

सर्ववाचकभावत्वाच् छब्दानां चित्रशक्तितः ।
वाच्यस्य च तथान्यत्र नागोऽस्य समयेऽपि हि ॥ (११.१)६६४ ॥

अनन्तधर्मकं वस्तु तद्धर्मः कश्चिद् एव च ।
वाच्यो न सर्व एवेति ततश् चैतन् न बाधकम् ॥ (११.१)६६५ ॥

अन्यद् एवेन्द्रियग्राह्यम् अन्यच् छब्दस्य गोचरः ।
शब्दात् प्रत्येति भिन्नाक्षः न तु प्रत्यक्षम् ईक्षते ॥ (११.१)६६६ ॥

अन्यथा दाहसम्बन्धाद् दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ (११.१)६६७ ॥

इन्द्रियग्राह्यतोऽन्योऽपि वाच्योऽसौ न च दाहकृत् ।
तथाप्रतीतितो भेदाभेदसिद्ध्यैव वस्तु नः ॥ (११.१)६६८ ॥

अपोहस्यापि वाच्यत्वम् उपपत्त्या न युज्यते ।
असत्त्वाद् वस्तुभेदेन बुद्ध्या तस्यापि बोधतः ॥ (११.१)६६९ ॥

क्षणिकाः सर्वसंस्कारा अन्यथैतद् विरुध्यते ।
अपोहो यन् न संस्कारो न च क्षणिक इष्यते ॥ (११.१)६७० ॥

एवं च वस्तुनस् तत्त्वं हन्त शास्त्राद् अनिश्चितम् ।
तदभावे च सुव्यक्तं तद् एतत् तुषखण्डनम् ॥ (११.१)६७१ ॥

बुद्धावर्णेऽपि चादोषः संस्तवेऽप्य् अगुणस् तथा ।
आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ॥ (११.१)६७२ ॥

ज्ञान तथा क्रिया के बीच प्राधान्य-अप्राधान्य का प्रश्न[सम्पाद्यताम्]

ज्ञानाद् एव नियोगेन सिद्धिम् इच्छन्ति केचन ।
अन्ये क्रियात एवेति द्वाभ्याम् अन्ये विचक्षणाः ॥ (११.२)६७३ ॥

ज्ञानं हि फलदं पुंसां न किर्या फलदा मता ।
मिथ्याज्ञानात् प्रवृत्तस्य फलप्राप्तेर् असंभवात् ॥ (११.२)६७४ ॥

ज्ञानहीनाश् च यल् लोके दृश्यन्ते हि महाक्रियाः ।
ताम्यन्तेऽतिचिरं कालं क्लेशायासपरायणाः ॥ (११.२)६७५ ॥

ज्ञानवन्तश् च तद्वीर्यात् तत्र तत्र स्वकर्मणि ।
विशिष्टफलयोगेन सुखिनोऽल्पक्रिया अपि ॥ (११.२)६७६ ॥

केवलज्ञानभावे च मुक्तिर् अप्य् अन्यथा न यत् ।
क्रिययावतोऽपि यत्नेन तस्मात् ज्ञानाद् असौ मता ॥ (११.२)६७७ ॥

क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् ।
यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखिनो भवेत् ॥ (११.२)६७८ ॥

क्रियाहीनाश् च यल् लोके दृश्यन्ते ज्ञानिनोऽपि हि ।
कृपायतनम् अन्येषां सुखसम्पद्विवर्जिताः ॥ (११.२)६७९ ॥

क्रियोपेताश् च तद्योगाद् उदग्रफलभावतः ।
मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनोऽनघाः ॥ (११.२)६८० ॥

क्रियातिशययोगाच् च मुक्तिः केवलिनोऽपि हि ।
नान्यथा केवलित्वेऽपि तद् असौ तन्निबन्धना ॥ (११.२)६८१ ॥

फलं ज्ञानक्रियायोगे सर्वम् एवोपपद्यते ।
तयोर् अपि च तद्भावः परमार्थेन नान्यथा ॥ (११.२)६८२ ॥

साध्यम् अर्थं परिज्ञाय यदि सम्यक् प्रवर्तते ।
ततस् तत् साधयत्व् एव तथा चाह बृहस्पतिः ॥ (११.२)६८३ ॥

सम्यक् प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीयते ।
तदप्राप्ताव् उपायत्वं न तस्या उपपद्यते ॥ (११.२)६८४ ॥

असाध्यारम्भिणस् तेन सम्यग् ज्ञानं न जातुचित् ।
साध्यानारम्भिणश् चेति द्वयम् अन्योऽन्य्संगतम् ॥ (११.२)६८५ ॥

अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते ।
आगमज्ञोऽपि यस् तस्यां यथाशक्ति प्रवर्तते ॥ (११.२)६८६ ॥

चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि ।
तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते ॥ (११.२)६८७ ॥

न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवर्तते ।
मालतीगन्धगणविद् दर्भे न रमते ह्य् अलिः ॥ (११.२)६८८ ॥

मुक्तिश् च केवलज्ञान-क्रियातिशयजैव हि ।
तद्भाव एव तद्भावात् तदभावेऽप्य् अभावतः ॥ (११.२)६८९ ॥

न विविक्तं द्वयं सम्यग् एतद् अन्यैर् अपीष्यते ।
स्वकार्यसाधनाभावाद् यथाह व्यासमहर्षिः ॥ (११.२)६९० ॥

बठरश् च तपस्वी च शूरश् चाप्य् अकृतव्रणः ।
मद्यपा स्त्री सतीत्वं च राजन् न श्रद्दधाम्य् अहम् ॥ (११.२)६९१ ॥

मोक्ष का स्वरूप[सम्पाद्यताम्]

मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात् ।
नाकर्मणः क्वचिज् जन्म यथोक्तं पूर्वसूरिभिः ॥ (११.३)६९२ ॥

दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः ।
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥ (११.३)६९३ ॥

जन्माभावे जरामृत्योर् अभावो हेत्वभावतः ।
तदभावे च निःशेष-दुःखाभावः सदैव हि ॥ (११.३)६९४ ॥

परमानन्दभावश् च तदभावे हि शाश्वतः ।
व्याबाधाभावसंसिद्धः सिधानां सुखम् इष्यते ॥ (११.३)६९५ ॥

सर्वद्वन्द्वविनिर्मुक्ताः सर्वाबाधाविवर्जिताः ।
सर्वसंसिद्धसत्कार्याः सुखं तेषां किमुच्यते ॥ (११.३)६९६ ॥

अमूर्ताः सर्वभावज्ञास् त्रैलोक्योपरिवर्तिनः ।
क्षीणसङ्गा महात्मानस् ते सदा सुखम् आसते ॥ (११.३)६९७ ॥

एता वार्ता उपश्रुत्य भावयन् बुद्धिमान् नरः ।
इहोपन्यस्तशास्त्राणां भावार्थम् अधिगच्छति ॥ (११.४)६९८ ॥

शतानि सप्त श्लोकानाम् अनुष्टुप्छन्दसां कृतम् ।
आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयम् ॥ (११.४)६९९ ॥

कृत्वा प्रकरणम् एतद् यद् अवाप्तं किञ्चिद् इह मया कुशलम् ।
भवविरहबीजम् अनघं लभतां भव्यो जनस् तेन ॥ (११.४)७०० ॥

यं बुद्धं बोधयन्तः शिखिजलमरुतस् तुष्टुवुर् लोकवृत्त्यै ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकवन्ध्यत्वहेतु ।
सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां तस्मिन् देवाधिदेवे भगवति भवताधीयतां भक्तिरागः ॥ (११.४)७०१ ॥