शार्दूलकर्णावदान

विकिस्रोतः तः
Jump to navigation Jump to search

ॐ नमो रत्नत्रयाय
पृ1.1 एवं मया श्रुतम्। एकसिन् समये भगवान् श्रावस्त्यां विहरति स्म। जेतवनेऽनाथपिण्डदस्य^आरामे।
पृ1.2 अथ^आयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्र^चीवरम् आदाय श्रावस्तीं महा^नगरीं पिण्डाय प्राविक्षत्। अथ^आयुष्मान् आनन्दः श्रावस्तीं पिण्डाय चरित्वा कृत^भक्त^कृत्यो येनान्यतमम् उदपानं तेन^उपसंक्रान्तः।
पृ1.3 तेन खलु समयेन तस्मिन्न् उदपाने प्रकृतिर् नाम मातङ्ग^दारिका उदकम् उद्धरते स्म। अथ^आयुष्मान् आनन्दः प्रकृतिं मातङ्ग^दारिकाम् एतद् अवोचत्। देहि मे भगिनि पानीयं पास्यामि।
पृ1.4 एवं किते प्रकृतिर् मातङ्ग^दारिकायुष्मन्तम् आनन्दम् इदम् अवोचत्। मातङ्ग^दारिकाहम् अस्मि भदन्तानन्द। न^अहं ते भगिनि कुलं वा जातिं वा पृच्छामि। अपि तु सचेत्ते परित्यक्तं पानीयं देहि पास्यामि।
पृ1.5 अथ प्रकृतिर् मातङ्ग^दारिकायुष्मन्तम् आनन्दाय पानीयम् अदात्। अथ^आयुष्मान् आनन्दः पानीयं पीत्वा प्रक्रान्तः।
पृ1.6 अथ प्रकृतिर् मातङ्ग^दारिकायुष्मन्त आनन्द्स्य शरीरे मुखे स्वरे साधु च सुष्ठु च निमित्तम् उद्गृहीत्वा योनिशो मनसिकारेणाविष्टा संरागचित्तम् उत्पादयति (1) स्म। आर्यो मे आनन्दः स्वामी स्याद् इति। माता च मे महा^विद्याधरी सा शक्ष्यत्य् आर्यम् आनन्दम् आनयितुम्।
पृ2.1 अथ प्रकृतिर् मातङ्ग^दारिका पानीयघटम् आदाय येन चण्डाल^गृहं तेन^उपसंक्रम्य पानीय^घटम् एकान्ते निक्षिप्य स्वां जननीम् इदम् अवोचत्।
पृ2.2 यत् खल्व् एवम् अम्ब जानीया आनन्दो नाम श्रमणो महाश्रमण^गौतमस्य श्रावक उपस्थायकस् तम् अहं स्वामिनम् इच्छामि। शक्ष्यसि तम् अम्ब आनयितुम्।
पृ2.3 सा ताम् अवोचत्। शक्ताऽहं पुत्रि आनन्दम् आनयितुं। स्थापयित्वा यो मृतः स्याद् यो वा वीत^रागः। अपि च राजा प्रसेनजित् कौशलः श्रमण^गौतमम् अतीव सेवते भजते पर्युपासते। यदि जानीयात् सोऽयं चण्डाल^कुलस्यानर्थाय प्रतिपद्येत। श्रमणश् च गौतमो वीत^रागः श्रूयते। वीत^रागस्य [मन्त्राः] पुनः सर्व^मन्त्रान् अभिभवन्ति।
पृ2.4 एवम् उक्ता प्रकृतिर् मातङ्ग^दारिका मातरम् इदम् अवोचत्। स चेद् अम्ब श्रमणो गौतमा वीत^रागस्तस्य^अन्तिकाच् छ्रमणम् आनन्दं न प्रतिलप्स्ये जीवितं परित्यजेयं स चेत् प्रतिलिप्स्ये जीवामि।
पृ2.5 मा ते पुत्रि जीवितं परित्यजसि आनयामि श्रमणम् आनन्दम्।
पृ2.6 अथ प्रकृतेर् मातङ्ग^दारिकाया माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीम् आलिप्य दर्भान् संस्तीर्य^अग्निं प्रज्वाल्य^अष्टशतम् अर्क^पुष्पाणां गृहीत्वा मन्त्रान् आवर्तयमाना एकैकम् अर्क^पुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म। तत्र^इयं विद्या भवतिः
पृ3.1 अमले विमले कुङ्कुमे सुमने। येन बद्धाऽसि विद्युत्। इच्छया देवो वर्षति विद्योतति गजेति विस्मयं महा^राजस्य समभिवर्धायितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्योः शिखि^ग्रहा देवा विशिखि^ग्र(@)हा देवा आनन्दस्य^आगमनाय संगमनाय क्रमणाय ग्रहणाय जुहोमि स्वाहा।%@から京大写本दिव्यावदानが始まる。
पृ3.2 अथ^आयुष्मत आनन्दस्य चित्तम् आक्षिप्तं। स विहारान् निष्क्रम्य येन चण्डाल^गृहं तेन^उपसंक्रामति स्म।
पृ3.3 अद्राक्षीच् चण्डाली आयुष्मन्तम् आनन्दं दूराद् एव^आगच्छन्तं। दृष्ट्वा च पुनः प्रकृतिं दुहितरम् इदम् अवोचत्। अयम् असौ पुत्रि श्रमण आनन्द आगच्छति शयनं प्रज्ञपय।
पृ3.4 अथ प्रकृतिर् मातङ्ग^दारिका हृष्ट^तुष्टा प्रमुदित^मना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म।
पृ3.5 अथ^आयुष्मान् आनन्दो येन चण्डाल^गृहं तेन^उपसंक्रान्तः। उपसंक्रम्य वेदीम् उपनिश्रित्याऽस्थात्। एकान्त^स्थितः स पुनर् आयुष्मान् आनन्दः प्रारोदीद्। अश्रूणि प्रवर्तयमान एवम् आह। व्यसन^प्राप्तोऽहम् अस्मि न च मे भगवान् समन्वाहरति।
पृ3.6 अथ भगवान् आयुष्मन्तम् आनन्दं समन्वाहरति स्म। समन्वाहृत्य संबुद्ध^मन्त्रैश् चण्डाल^मन्त्रान् प्रतिहन्ति स्म। तत्र^इयं विद्याः।
पृ3.7 स्थितिर् अच्युतिः सुनीतिः। स्वस्ति सर्व^प्राणिभ्यः।
पृ4.1ab सरः प्रसन्नं निर्दोषं प्रशान्तं सर्वतोऽभयं।
पृ4.1cd ईतयो यत्र शाम्यन्ति भयानि चलितानि च।
पृ4.2ab तद् वै देवा नम्स्यन्ति सर्व^सिद्धाश् च योगिनः।
पृ4.2cd एतेन सत्य^वाक्येन स्वस्त्या^आनन्दाय भिक्षवे॥
पृ4.3 अथ^आयुष्मान् आनन्दः प्रतिहत^चण्डाल^मन्त्रश् चण्डाल^गृहान् निष्क्रम्य येन स्वको विहारस् तेन^उपसंक्रमितुम् आरब्धः।
पृ4.4 अद्राक्षीत् प्रकृतिर् मातङ्ग^दारिका। आनन्दम् आयुष्मन्तं प्रतिगच्छन्तं दृष्ट्वा च पुनः स्वां जननीम् इदम् अवोचत्। अयम् असौ मातः श्रमण आनन्दः प्रतिगच्छति। ताम् आह माता। नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति। तेन मम मन्त्राः प्रतिहता भविष्यन्ति। प्रकृतिर् आह। किं पुनर् अम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा न^अस्माकं। ताम् आह माता। बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा न^अस्माकं। ये पुत्रि मन्ताः सर्व^लोकस्य प्रभवन्ति तान् मन्त्रान् श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति। न पुनर् लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुं। एवं बलवत्तराः अवमणस्य गौतमस्य मन्त्राः।
पृ4.5 अथ^आयुष्मान् आनन्दो येन भगवांस् तेन^उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा^एकान्तेऽस्थात्।
पृ4.6 एकान्त^स्थितम् आयुष्मन्तम् आनन्दं भगवान् इदम् अवोचत्। उद्गृह्ण त्वम् आनन्द इमां षडक्षरीविद्यां धारय वाचय पर्यवाप्नुहि। आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपसिकानां हिताय सुखाय। इयम् आनन्द षड्क्षरीविद्या षड्भिः सम्यक् संबुद्धैर् भाषिता चतुर्भिश् च महा^राजैः शक्रेण देवानाम् इन्द्रेण ब्रह्मणा च सहापतिना। मया च^एतर्हि शाक्यमुनिना सम्यक्^संबुद्धेन भाषिता। त्वम् अप्य् एतर्ह्य् आनन्द तां धारय वाचय पर्यवाप्नुहि। यद् उत तद् यथा:
पृ5.1 अण्डरे पाण्डरे कारण्डे केयूरेऽर्चि^हस्ते खर^ग्रीवे बन्धु^मति चीर^मति धरविध चिलिमिले विलोडय विषाणि लोके। विष चल चल। गोल^मति गण्डविले चिलिमिले स^अतिनिम्ने यथा संविभक्त^गोल^मति गण्ड^विलायै स्वाहा।
पृ5.2 यः कश् चिद् आनन्द^षडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात् स यदि वध^अर्हो भवेत् दण्डेन मुच्यते। दण्ड^अर्हः प्रहारेण प्रहार^अर्हः परिभाषणया परिभाषण^अर्हो रोमहर्षणेन रोमहर्षण^अर्हः पुनर् एव मुच्यते।
पृ5.3 न^अहम् आनन्द तं समनुपश्यामि स^देव^लोके समार^लोके सब्रह्म^लोके सश्रमण^ब्राह्मणिकायां प्रजायां स^देव^मानुषिकायां स^असुरायां यस् त्व् अनया षडक्षयं विद्यया रक्षायां कृतायां रक्षा^सूत्रे बाहौ बद्धे स्वस्त्ययने कृतेऽभिभवितुं शक्रोति वर्जयित्वा पौराणं कर्म^विपाकम्।
पृ6.1 अथ प्रकृतिर् मातङ्ग^दारिका तस्या एव रात्र्या अत्ययात् शिरः^स्नाताऽनाहत दूष्य^प्रावृता मुक्ता^माल्य^आभरणा येन श्रावस्तो नगरी तेन^उपसंक्रम्य नगर^द्वारे कपाट^मूले निश्रित्याऽस्थात्। आयुष्मन्तम् आनन्दम् आगमयमाना। नियतम् अनेन मार्गेण^आनन्दो भिक्षुरागम् इष्यति^इति।
पृ6.2 अथ^आयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्र^चीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्। ददर्श प्रकृतिर् मातङ्ग^दारिक^आयुष्मन्तम् आनन्दं। दूरत एव दृष्ट्वा च पुनर् आयुष्मन्तम् आनन्दं पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशति तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति आयुष्मन्तम् आनन्दम् आमन्त्रयमाणा।
पृ6.3 ददर्शायुष्मानानन्दः प्रकृतिं मातङ्ग^दारिकां। पृष्ठतः पृष्ठतः समनुबद्धां दृष्ट्वा च पुनर् जेह्रीय्माणरूपोऽप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वेकान्तेऽस्थाद्। एकान्त^स्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्। इयं मे भगवन् प्रकृतिर् मातङ्ग^दारिका पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति, तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशामि तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति। त्राहि मे भगवन् त्राहि मे सुगत।
पृ6.4 एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्। मा भेर् मा भेर् इति। अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् इदम् अवोचत्। हिं ते प्रकृते मातङ्ग^दारिके आनन्देन भिक्षुणा। प्रकृतिर् आह। स्वामिनं भदन्तम् आनन्दम् इच्छामि। भगवान् आह। (7) अनुज्ञातासि प्रकृते मातापितृभ्याम् आनन्दाय। अनुज्ञातास्मि भगवन्न् अनुज्ञातास्मि सुगत। भगवान् आह। तेन हि सम्मुखं ममानुज्ञापय्य त्वम्।
पृ7.1 अथ प्रकृतिर् मातङ्ग^दारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्ता। येन स्वकौ मातापितरौ तेन^उपसंक्रान्ता। उपसंक्रम्य मातापित्रोः पादान् शिरसा वन्दित्वा^एकान्तेऽस्थाद्। एकान्त^स्थिता स्वकौ माता पितराव् इदम् अवोचत्। सम्मुखं मेऽम्ब तात श्रमणस्य गौतमस्यानन्दायोत्सृजतम्।
पृ7.2 अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितरौ प्रकृतिम् आदाय यन भगवाम्स् तेन^उपसंक्रान्तौ। उअप्संक्रम्य भगवतः पादौ शिरसा वन्दित्वा^एकान्ते न्यषीदतां। अथ प्रकृतिर् मातङ्ग^दारिका भगवतः पादौ शिरसा बन्दित्वा एकान्तेऽस्थाद्। एकान्त^स्थिता भगवन्तम् एतद् अवोचत्। इमौ तौ भगवन् मातापितराव् आगतौ।
पृ7.3 अथ भगवान् प्रकृतेर् मातङ्ग^दारिकाया मातापितराव् इदम् अवोच्त्। अनुज्ञाता युवाभ्यां प्रकृतिर् मातङ्ग^दारिकानन्दायेति। ताव् आहुतुः। अनुज्ञाता भगवन्न् अनुज्ञाता सुगत। तेन हि यूयं प्रकृतिम् अपहाय गच्छत स्वगृहम्।
पृ7.4 अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्तौ।
पृ7.5 अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितराव् अचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्ग^दारिकाम् इद्म् अवोचत्। अर्थिकासि प्रकृते आनन्देन भिक्षुणा। प्रकृतिर् आह। अर्थिकास्मि भगवन्न् अर्थिकास्मि सुगत। तेन हि प्रकृते य आनन्दस्य वेशः स त्वया धारयितव्यः। सा आह। धारयामि भगवन् धारयामि सुगत। प्रव्राजयतु मां सुगत प्रव्राजयतु मां भगवान्।
पृ8.1 अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् इदम् अवोचत्। एहि त्वं भिक्षुणि चर ब्रह्म^चर्यम्।
पृ8.2 एवम् उक्ते प्रकृतिर् मातङ्ग^दारिका भगवता मुण्डा काषाय^प्रावृता। अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् एहि भिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, समुत्तेजयति स्म, संप्रहर्षयति स्म। येयं कथा दीर्घ^रात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया।तद् यथा। दानकथा शीलकथा स्वर्गकथा कामेष्व् आदीनवं निःसरणं भयं संक्लेशव्यवदानं बोधिपक्षांस् तान् धर्मान् भग्वान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म।
पृ8.3 अथ प्रकृतिर् भिक्षुणी भगवता धर्म्यय कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्ट^चित्ता कल्याणचित्ता मुदितचित्ता विनीवरणचित्ता ऋजुचित्ताऽखिलचित्ता भव्या धर्म^देशितम् आज्ञातुम्।
पृ9.1 यदा च भगवान् ज्ञातः प्रकृतिं भिक्षुणीं हृष्ट^चित्तां कल्याणचित्तां मुदितचित्तां विनिवरणचित्तां भव्यां प्रतिबलां सामुत्कर्पिकीं धर्म^देशनाम् आज्ञातुं तदा येयं भगवतां बुद्धानां चतुरार्य^सत्यप्रतिवेधिकी सामुत्कर्षिकी धर्म^देशना, यद् उत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेर् भिक्षुण्या विस्तरेण संप्रकाशयति स्म।
पृ9.2 अथ प्रकृतिभिक्षुणी तस्मिन्न् एवासने निषण्णा चतुरार्य^सत्यान्यभिज्ञातासित्। दुःखं सुमुदयं निरोधं मार्गं॥ तद् यथा वस्ताम् अपगतकालकं रजनोपगतं रङ्ग^उदके प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णीयाद् एवम् एव प्रकृतिर् भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरार्य^सत्यानि अभिसमयति स्म, तद् यथा दुःखं सुमुदयं निरोधं मार्गम्।
पृ9.3 अथ प्रकृतिर् भिक्षुणी कृष्ट^धर्मा प्राप्त^धर्मा विदित^धर्मा अकोप्य^धर्मा पर्यवसित^धर्म^अधिगत^अर्थ^लाभ^संवृत्ता तीर्ण^काङ्क्षा^विचिकित्सा विगत^कथंकथा वैशारद्य^प्राप्ताऽपर^प्रत्ययाऽनन्यनेया शास्तुः शासनेऽनुधर्म^चारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तम् इदम् अवोचत्।
पृ9.4 अत्ययो मे भगवन्न् अत्ययो मे सुगत। यथा बाला यथा मूढा यथाऽव्यक्ता यथाऽकुशला दुष्प्रज्ञ^जातीया याहम् आनन्दं भिक्षुं स्वामि^वादेन समुदाचर्षं। स^अहं भदन्तात्ययमत्ययतः पश्यामि। अत्ययम् अत्ययतो दृष्ट्वा देशयामि। अत्ययम् अत्ययत आविष्करोमि। आयत्यां संवरम् आपद्ये। अतस् तस्या मम भगवन्न् अत्ययम् अत्ययतो जानातु प्रतिगृह्णातु अनुकम्पाम् उपादाय। भगवान् आह। आयत्यां संवराय स्थित्वा त्वं प्रकृतेऽत्ययम् अत्ययतोऽध्यागमः। यथा बाला यथा मूढा यथाऽव्यक्ता यथाऽकुशला दुष्प्रज्ञ^जातीय त्वम् आनन्दं भिक्षुं स्वामि^वादेन (10) अमुदाचरसि^इति। यतश् च त्वं प्रकृतेऽत्ययं जानासि अत्ययं पश्यसि आयत्यां च संवरम् आपद्यसे, अहम् अपि तेऽत्ययम् अत्ययतो गृह्णामि। वृद्धिर् एव ते प्रकृते प्रतिकाङ्क्षतव्या कुशलानां धर्माणां न हानिः।
पृ10.1 अथ प्रकृतिर् भिक्षुणी भगवता^अभिनन्दिता अनुशिष्टा एकाव्यपकृष्टाऽप्रमत्ता आतापिनी स्मृतिम् अती संप्रजाना प्रहितानि विविक्तानि विहरति स्म। यद् अर्थं कुल^दुहितरः केशान् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया^आगाराद् अनागारिकां प्रव्रजन्ति तदनुत्तर^ब्रह्मचर्य^पर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञय साक्षात् कृत्य^उपसंपद्य प्रवेदयते स्म। क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं न^अपरमस्माद् भवं प्रजानामि^इति।
पृ10.2 अश्रौषुः श्रावस्तेयका ब्राह्मण^गृहपतयो भगवता किल चन्डाल^दारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायन्ति। कथं हि नाम चण्डाल^दारिका भिक्षूणां सम्यक्चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्^चर्यां चरिष्यति। कथं हि नाम चण्डाल^दारिका ब्रह्म^क्षत्रिय^गृहपति^महा^शाल^कुलेषु प्रवेक्ष्यति।
पृ11.1 अश्रौषीद् राजा प्रसेनजित् कौशलो भगवता चण्डाल^दारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायाति। कथं हि नाम चण्डाल^दारिका भिक्षूणां सम्यक्^चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्^चर्यां चरिष्यति। कथं ब्राह्मण^क्षत्रिय^गृहपति^महा^शाल^कुलेषु प्रवेक्ष्यति।
पृ11.2 विमृष्य च भदरं यानं योजयित्वा भद्रं यानम् अभिरुह्य संबहुलैश् च श्रावस्तेयैर् ब्राह्मण^गृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म। येन जेतवनम् अनाथपिण्डदस्य^आरामस् तेन^उपसंक्रान्तः। तस्य खलु यावती यानस्य भूमिस् तावद् यानेन गत्वा स यानाद् अवतीर्य पत्तिकाय^परिवृतः पत्तिकाय^पुरस्कृतः पद्भ्याम् एव^आरामं प्राविक्षत्। प्रविश्य येन भगवांस् तेन^उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। तेऽपि संबहुलाः श्रावस्तेयका ब्राह्मण^क्षतिर्य^गृहपतयो भगवतः पादौ शिरसा वन्दित्वा^एकान्ते निषण्णाः। अप्य् ऐकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्य^एकान्ते निषण्णाः। अप्य् ऐकस्या भगवतः पुरतः स्वकस्वकानि माता^पैतृकाणि नाम^गोत्राणि अनुश्राव्य^एकान्ते निषण्णाः। अप्य् ऐकत्य येन भगवांस् तेन^अञ्जलिं प्रणम्य^एकान्ते निषण्णाः। अप्य् ऐकत्यास् तूष्णीं भूता एकान्ते निषण्णाः।
पृ11.3 अथ भगवान् राजानं प्रसेनजितं कौशलम् आरभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मण^क्षत्रिय^गृहपतीनां चेतसा चित्तम् आज्ञाय प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य भिक्षूनाम् अन्त्रयते स्म। इच्छथ यूयं भिक्षवस् तथा^आगतस्य सम्मुखं प्रकृतेर् भिक्षुण्याः पूर्व^निवासम् आरभ्य धर्म^कथां श्रोतुम्।
पृ11.4 भिक्षवो भगवन्तम् आहुः । एतस्य भगवन् काल एतस्य सुगत समयो यद् भगवान् प्रकृतेर् भिक्षुण्याः पूर्व^निवासम् आरभ्य धर्म^कथां कथायेत्। यद् भगवतः (12) श्रुत्वा भिक्षवो धारयिष्यन्ति। भगवान् आह। तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। एवं साधु भगवन्न् इति ते भिक्षवो भगवतः प्रत्यश्रौषुः। भगवांस् तान् इदम् अवोचत्।
पृ12.1 भूत^पूर्वं भिक्षवोऽतीतेऽध्वनि गङ्गा^तटेऽतिमुक्त^कदली^पाटलक^आमलकी वन^गहन^प्रदेशे तत्र त्रिशङ्कुर् नाम मातङ्ग^राजः प्रतिवसति स्म। संबहुलैश् च मातङ्ग^सहस्रैः सार्धं। स पुनर् भिक्षवस् त्रिशङ्कुर् मातङ्ग^रजः पूर्व^जन्म^अधीतान् वेदान् समनुस्मरति स्म स^अङ्ग^उपाङ्गान् सरहस्यान् सनिघण्ट^कैटभान् स^अक्षर^प्रभेदान् इतिहास^पञ्च^मानन्यानि च शास्त्राणि। पदको वैयाकरणो लोकायत^यज्ञ^मन्त्रे महा^पुरुष^लक्षणे निष्णातो निष्काङ्क्षो भाष्यं च यथार्धर्मं वेद^व्रत^पदान्य् अनुश्रुतं च भाषते स्म।
पृ12.2 तस्य त्रिशङ्कुर् मातङ्ग^राजस्य शार्दूअकर्णो नाम कुमारोऽभूद् उत्पन्नः। रूपतश् च कुलतश् च शीलतश् च गुणतश् च सर्व^गुणैश् च^उपेतोऽभिरूपो दर्शनीयः प्रासादिकः परमया शुभ^वर्ण^पुष्कलतया समन्वागतः।
पृ12.3 अथ त्रिशङ्कुर् मातङ्ग^राजः।शार्दूलकर्णं कुमारं पूर्व^जन्माधीतान् वेदान् अध्यापयति स्म। यद् उत स^अङ्ग^उपाङ्गान् सरहस्यान् सनिघण्ट^कैटभान् स^अक्षर^प्रभेदान् इतिहास^पञ्च^मानन्यानि च शास्त्राणि भाष्यं च यथा^धर्मं वेद^व्रत^पदानि।
पृ12.4 अथ त्रिशङ्कोर् मातङ्ग^राजस्य^एतद् अभवत्। अयं मम पुत्रः शार्दूलकर्णो नाम कुमारः। उपेतो रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्व^गुण^उपेतोऽभिरूपो (13) दर्शनीयः प्रासादिकः परमया च वर्ण^पुष्कलतया समन्वागतः। चीर्ण^व्रतोऽधीत^मन्त्रो वेद^पारगः। समयोऽयं यन् न्य् अहम् अस्य निवेशन^धर्मं करिष्ये। तत् कुतो न्य् अवं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयम् इति।छेच्केद्
पृ13.1 तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोण^मुखं परिभुङ्क्ते स्म। समप्त^उत्सदं स^तृण^काष्ठ^उदकं धान्य^सहगतं राज्ञाऽग्निदत्तेन ब्रह्म^देयं दत्तम्।
पृ13.2 पुष्करसारी पुनर् ब्राह्मण उपेतः मातृतः पितृतः संशुद्धो गृहिण्यामनाक्षिप्तो जातिवादेन गोत्र^वादेन यावद् आसप्तममातामहपितामहं। युगपद् उपाध्यायोऽध्यापको मन्त्र^धरस् त्रयाणां वेदानां पारगः स^अङ्ग^उपाङ्गानां सरहस्यानां सनिघण्ट^कैटभानां स^अक्षर^प्रभेदानाम् इतिहास^पञ्च^मानां सदृश^व्याकर्ता पदको वैयाकरणः। लोकायत^यज्ञ^मन्त्र^महा^पुरुष^लक्षणेषु पारगः। स्फीतम् उत्कूटं नाम द्रोण^मुखं परिभुङ्क्ते।
पृ13.3 पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता भूता। उपेता रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्व^गुण^उपेताऽभिरूपा दर्शनीया प्रासादिका परमया वर्ण^पुष्कलतया समन्वागता शीलवती गुणवती।
पृ13.4 अथ त्रिशङ्कोर् मातङ्ग^राजस्य^एतद् अभवत्। अस्त्य् उत्तर^पूर्वेण^उत्कूटो नाम द्रोण^मुखः, तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति। उपेतो मातृतः पितृतो (14) यावत् तत्रैवेदिके प्रवचने विस्तरेण। स च^उत्कूटं द्रोण^मुखं परिभ्ङ्क्ते। ससप्त^उत्सदं सतृण^काष्ठ^उदकं धान्य^भोगैः सहगतं राज्ञाऽग्निदत्तेन ब्रह्म^देयं दत्तम्।
पृ14.1 तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता उपेता रूपतश् च कुलतश् च शीलतश् च सर्व^गुण^उपेताऽभिरूपा दर्शनीया प्रासादिका परमया वर्ण^पुष्कलतया समन्वागता। शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतिति।
पृ14.2 अत्र त्रिशङ्कुर् मातङ्ग^राज एतम् एवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्य तस्या एव रात्र्या अत्ययात् प्रत्यूष^काल^समये सर्व^श्वेतं वडवा रथम् अभिरुह्य महता श्वपाकगणेनामात्यगणेन परिवृतश् चण्डाल^कुल^नगरान् निष्क्रम्य^उत्तरेन प्रागच्छद्येनोत्कूटं द्रोण^मुखम्।
पृ14.3 अथ त्रिशङ्कुर् मातङ्ग^राज उत्कूटस्य^उत्तरपूर्वेण सुमनस्कं नाम^उद्यानं नाना^वृक्ष^संच्छन्नं नाना^वृक्ष^कुसुमितं नाना^द्विजनिकूजितं नन्दनम् इव देवानां तद् उपसंक्रान्तः। उपसंक्रम्य ब्राह्मणं पुष्करसारिणम् आगमयमानोऽस्थात्। ब्राह्मणः पुष्करसारी माणवकान् मन्त्रान् वाचयितुम् इहागमिष्यति^इति।
पृ14.4 अथ ब्राह्मणः पुष्करसारी तस्या एव रात्र्या अत्ययात् सर्व^श्वेतं वडवारथम् अभिरुह्य शिष्यगणप्रिवृतः पञ्च^मात्रैर् माणवक^शतेः पुरस्कृत उत्कूटान् निर्य्ति स्म, ब्राह्मणकान् मन्त्रान् वाचयितुम्।
पृ15.1 अद्राक्षीत् त्रिशङ्कुर् मातङ्ग^राजो ब्राह्मणं पुष्करसारिणं सूर्यम् इव^उदयन्तं तेजसा ज्वलन्तम् इव हुतवहं यज्ञम् इव ब्राह्मण^परिवृतं शक्रम् इव देव^गणपरिवृतं हैमवन्तम् इवौषधिभिः समुद्रम् इव रत्नैश् चन्द्रम् इव नक्षत्रैर् वैश्रवणम् इव यक्ष^गणैर् ब्रह्माणम् इव देव^र्षिगणैः परिवृतं शोभमानं। दूरत एवागच्छन्तं दृष्ट्वा चैनं प्रत्युद्गम्य यथा^धर्मं कृत्वेदम् अवोचत्।
पृ15.2 अहं भोः पुष्करसारिन् स्वागतम् आयाहि। कार्यं च ते वक्ष्यामि तच् छ्रूयतां। एवम् उक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुमातङ्ग^राजम् इदम् अवोचत्।
पृ15.3 न हि भोस् त्रिशङ्को शक्यं ब्राह्मणेन सह भोः कारं कर्तुं।
पृ15.4 अहं भोः पुष्करसारिन् शक्नोमि भोः कारं कर्तुं। यच्छक्यं मे कर्तुं भवति नैव तच्छक्यं ते कर्तुं। अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यसमारम्भाः पूर्व^समारब्धा भवन्ति। यद् उत आत्मार्थं वा परार्थं वात्मीयार्थं (16) वा सर्व^भूत^संग्रहार्थं वा। इदं च^अत्र महत्तरं कार्यं यत् ते व्याख्यास्यामि तच् छ्रूयतां। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तं दास्यामि।
पृ16.1 इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य भृशं ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतोऽनात्तमनाः कोपं च क्वेषं च म्रक्ष्यं च तत्प्रत्ययात् संजनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वाऽक्षिणी परिवर्त्य नकुल^पिङ्गलां दृष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्।
पृ16.2 धिग् ग्राम्यविषय। चण्डाल। नेदं श्वपाकवचनं युक्तं। यस्त्वं ब्राह्मणं वेद^पारगं हीनश् चण्डाल^योनिजो भूत्वा इच्छस्य् अवमर्दितुं। भो दुर्मते।
पृ16.3ab प्रकृतिं त्वं न जानासि; आत्मानं च^अभिमन्यसे।
पृ16.3cd बाल^अग्रे सर्षपं मा भो स्थापय(मा)क्लेशम् आगमः।
पृ16.4ab मा प्रार्थयाऽप्रार्थनीयां वायुं पाशेन बन्धय।
पृ17.1ab न हि चामी^करं मूढ भवेद् भस्म कदाचन।
पृ17.1cd प्रकाशे बान्धकारे किं विशेषो नोपलभ्यते॥
पृ17.2ab चण्डाल^योनिजस् त्वं हि द्विजातिः पुनर् अप्य् अहं।
पृ17.2cd हीनः श्रेष्ठेन सम्बन्धं मूढ प्राथयसे कथं॥
पृ17.3ab चण्डाल^योनिभूतस् त्वम् अहम् अस्मि द्विजातिजः।
पृ17.3cd न हि श्रेष्ठः प्रहीनेन सम्बन्धं कर्तुम् इच्छति॥
पृ17.4ab श्रेष्ठाः श्रेष्ठैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः।
पृ17.4cd विद्यया ये तु सम्पन्नाः संशुद्धश् चरणेन च॥
पृ17.5ab जात्या चैवान् अभिक्षिप्ता मन्त्रैः परमतां गताः।
पृ17.5cd अध्यापका मन्त्र^धरास् त्रिषु वेदेषु पारगाः॥
पृ17.6ab निघण्टकैटभान् वेदान् ब्राह्मण ये ह्य् अधीयते।
पृ17.6cd तैस् तादृशैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः॥
पृ17.7ab न हि श्रेष्ठो हि हीनेन सम्बन्धं कर्तुम् इच्छति।
पृ17.7cd प्रार्थयसेऽप्रार्थनीयां वायुं पाशेन बन्धितुं॥
पृ17.8ab यद् अस्माभिश् च सम्बन्धम् इह त्वं कर्तुम् इच्छसि।
पृ17.8cd जुगुप्सितः सर्व^लोके कृपणःपुरुषाधमः।
पृ17.8ef गच्छ त्वं वृषल क्षिप्रं किम् अस्मान् अवमन्यसे॥
पृ18.1ab चण्डालाः सह चण्डालैः पुक्कशाः सह पुक्कशैः।
पृ18.1cd कुर्वन्तीहैव सम्बन्धं जातिभिर् जातिर् एव च॥
पृ18.2ab ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह।
पृ18.2cd सार्धं वैश्यास् तथा वैश्यैः शूद्राः शूद्रैस् तथा सह॥
पृ18.3ab सदृशाः सदृशैः सार्धम् आवहन्ति परस्परं।
पृ18.3cd न हि कुर्वन्ति चण्डालाः सम्बन्धं ब्राह्मणैः सह॥
पृ18.4ab सर्व^जातिविहीनोऽसि सर्व^वर्ण^जुगुप्सितः।
पृ18.4cd कथं हीनश् च श्रेष्ठेन सम्बन्धं कर्तुम् इच्छसि॥
पृ18.5 इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्ग^राज इदम् अवोचत्।
पृ18.6ab यथा भस्मनि सौवर्णे विशेष; उपलभ्यते।
पृ18.6cd ब्राह्मणे वान्य^जातौ वा न विशेषोऽस्ति वै तथा॥
पृ18.7ab यथा प्रकाशतमसोर् विशेष; उपलभ्यते।
पृ18.7cd ब्राह्मणे वान्य^जातौ वा न विशेषोऽस्ति वै तथा॥
पृ18.8ab न हि ब्राह्मण; आकाशान् मरुतो वा समुत्थितः।
पृ18.8cd भित्वा वा पृथिवीं जातो जात^वेदा यथारणेः॥
पृ18.9ab ब्राह्मणा योनितो जाताश् चण्डाला; अपि योनितः।
पृ18.9cd श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणं॥
पृ18.10ab ब्राह्मणोऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिर् उच्यते।
पृ18.10cd वर्णास् तथा^एव वा^अप्य् अन्ये का नु तत्र विशेषता॥
पृ19.1ab यत् किञ् चित् पापकं कर्म किल्विषं कलिर् एव च।
पृ19.1cd सत्त्वानाम् उपघाताय ब्राह्मणैस् तत् प्रकाशितं॥
पृ19.2ab इति कर्माणि च^एतानि प्रकाशितानि ब्राह्मणैः।
पृ19.2cd कर्मभिर् दारुणैश् च^अपि ``पुण्योऽहं ब्रूवते द्विजाः॥
पृ19.3ab मांसं खादितुकामैस् तु ब्राह्मणैर् उपकल्पितं।
पृ19.3cd मन्त्रैर् हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्य् अजैडकाः॥
पृ19.4ab यद्य् एष मार्गः स्वर्ताय कस्मान् न ब्राह्मणा ह्य् अमी।
पृ19.4cd आत्मानम् अथवा बन्धून् मन्त्रैः संप्रोक्षयन्ति वै॥
पृ19.5ab मातरं पितरं च^एव भ्रातरं भगिनीं तथा।
पृ19.5cd पुत्रं दुहितरं भार्यां द्विजा न प्रोक्षयन्त्य् अमी॥
पृ19.6ab मित्रं ज्ञातिं सखीं वा^अपि ये वा विषयवासिनः।
पृ19.6cd प्रोक्षितास् तेऽपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिं॥
पृ19.7ab सर्वे यज्ञैः समाहुता गमिष्यन्ति सतां गतिं।
पृ19.7cd पशुभिः किं नु भो यष्टैर् आत्मानं किं न यक्ष्यसे॥
पृ19.8ab न प्रोक्षणैर् न मन्त्रैश् च स्वर्गं गच्छन्त्य् अजैडकाः।
पृ19.8cd न ह्य् एष मार्गः स्वर्गाय मिथ्याप्रोक्षणम् उच्यते॥
पृ19.9ab ब्राह्मणैर् औद्रचित्तैस् तु पर्यायो ह्य् एष चिन्तितः।
पृ19.9cd मांसं खादितुकामैस् तु प्रोक्षणं कल्पितं पशोः॥
पृ19.10ab अन्यच् च^अहं प्रवक्ष्यामि ब्राह्मणैर् यत् प्रकल्पितं।
पृ19.10cd पातका हि समाख्याता ब्राह्मणेषु चतुर्^विधाः॥
पृ20.1ab सुवर्ण^चौर्यं मद्यं च गुरु^दारा^अभिमर्दनं।
पृ20.1cd ब्रह्माघ्नता च चत्वारः पातका ब्राह्मणेष्व् अमी॥
पृ20.2ab सुवर्ण^हरणं वर्ज्यं स्तेयम् अन्यन्न विद्यते।
पृ20.2cd सुवर्णं यो हरेद् विप्रः स तेनऽब्राह्मणो भवेत्॥
पृ20.3ab सुरापानं न पातव्यम् अन्यपानं यथेष्टतः।
पृ20.3cd सुरां तु यः पिवेद् विप्रः स तेन^अब्राह्मणो भवेत्॥
पृ20.4ab गुरु^दारा न गन्तव्या; अन्यदारा यथेष्टतः।
पृ20.4cd गुरु^दारां तु यो गच्छेत् स तेन^अब्राह्मणो भवेत्॥
पृ20.5ab न हन्याद् ब्राह्मणं ह्य् एकं हन्याद् अन्यान् अनेकशः।
पृ20.5cd हयात्त ब्राह्मणं यो वै स तेन^अब्राह्मणो भवेत्॥
पृ20.6ab इत्य् एते पातका ह्य् उक्ता ब्राह्मणेषु चतुर्^विधाः।
पृ20.6cd भवन्त्य् अब्राह्मणा येन ततोऽन्येऽपातकाः स्मृताः॥
पृ20.7ab कृत्वा चतुर्णम् एकैकं भवेद् अब्राह्मणस् तु सः।
पृ20.7cd लभते न च सामीचीं ब्राह्मणाणां समागमे।
पृ20.7ef आसनं च^उदकं च^एव व्युत्थानं स न च^अर्हति॥
पृ20.8ab तस्य निःसरनं दृष्टं ब्राह्मणैः पतितस्य तु।
पृ20.8cd व्रतं वै स समादाय पुनर् ब्राह्मणतां व्रजेत्॥
पृ20.9ab असौ द्वादश^वर्षाणि धारयित्वा खराजिनं।
पृ20.9cd खाट्वाङ्गम् उच्छ्रितं कृत्वा मृतशीर्षे च भोजनं॥
पृ21.1ab एतद् व्रतं समादाय निश्चयेन निरन्तरं।
पृ21.1cd पूर्णे द्वादशमे वर्षे पुनर् ब्राह्मणतां व्रजेत्॥
पृ21.2ab इति निःसरणं दृष्टं ब्राह्मणैस् तु तपस्विभिः।
पृ21.2cd कुमार्गगामिभिर् मूढैर् अनिःसरणदर्शिभिः॥
पृ21.3 तद् इदं ब्राह्मण ते ब्रवीमि, संज्ञामात्रकम् इदं लोकस्य यद् इदम् उच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इत्य् वा। सर्वम् इदम् एकम् एवेति विज्ञय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि। इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च चत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं (22) धमयित्वाऽक्षिणी परिवर्त्य नकुल^पिङ्गलां दूष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्।
पृ22.1ab असमीक्ष्यैतत्त्वया हि कृता संज्ञेयम् ईदृशी।
पृ22.1cd एकैव जातिर् लोकेऽस्मिन् सामान्या न पृथग्^विधा॥
पृ22.2ab कथं श्वपाक^जातीयो ब्राह्मणं वेद^पारगं।
पृ22.2cd निहीनयोनिजो भूत्वा विमर्दितुम् इह^इच्छसि॥
पृ22.3 राजानः खलु वृषल प्रति[वि]भागज्ञा भवन्ति। तद् यथा देश^धर्मे वा नगर^धर्मे वा ग्राम^धर्मे वा निगमधम वा शुल्क^धर्मे वा आवाह^धर्मे वा विवाह^धर्मे वा पूर्व^कर्मसु वा। चत्वार इमे वृषल वर्णाः। यद् उत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। तेषां विवाह^धर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति। तद् यथा ब्राह्मणी क्षत्रिया वैश्या शूद्री चेति। तिस्रः क्षत्रियस्य भार्या भवन्ति। क्षत्रिया वैश्या शूद्री चेति। वैश्यस्य द्वे भार्ये भवतः। वैश्या शूद्री चेति। शूद्रस्य अव् एका भार्या भवति शूद्री एव। एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति।तद् यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चेति। क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्यः शूद्र इति। वैश्यस्य द्वौ पुत्रौ, वैश्यः शूद्र इति। शूद्रस्य त्व् एक एव पुत्रो भवति यद् उत शूद्र एव।
पृ22.4 ते ब्राह्मणाः पुनर् वृषल ब्रह्मणः पुत्राः। औरसा मुखतो जाताः। उरस्तो बाहुतः क्षत्रियाः। नाभितो वैश्याः। पद्भ्यां शूद्राः।
पृ22.5 ब्रह्मणा^अयं खलु वृषल लोकः सर्व^भूतानि निर्मितानि।
पृ23.1ab तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
पृ23.1cd वैश्यास्त्रितीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥ इति॥
पृ23.2 स त्वं वृषल चतुर्थेऽपि वर्णे न संदृश्यसे। अहं च^अग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्णे। परमार्थं च संयोगमाकाङ्क्षसि प्रणश्य त्वं वृषल क्षिप्रं । मा च^अस्माकम् अवमंस्थाः।
पृ23.3 इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्ग^राज इदम् अवोचत्। इदम् अत्र ब्राह्मण शृणु यद् ब्रवीमि। ब्रह्मणा^अयं लोकः, सर्व^भूतानि निर्मितानि।
पृ23.4ab तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
पृ23.4cd वैश्यास् त्रृतीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥इति॥
पृ23.5ab सपाद^जङ्घाः सनखाः समांसाः सपार्श्वपृष्ठाश् च नरा भवन्ति।
पृ23.5cd एकांशतो नास्ति यतो विशेषो वर्णाश् च चत्वार इतो न सन्ति॥
पृ23.6ab अथो विशेषः प्रवतोस्ति कश्चित् तद् ब्रूहि यच् च^अनुमतं यथा ते।
पृ23.6cd अथो विशेषः प्रवरो हि नास्ति वर्णाश् च चत्वार इतो न सन्ति॥
पृ24.1ab यथा हि दाउरुका बालाः क्रीडमाना महा^पथे।
पृ24.1cd पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते॥
पृ24.2ab इदं क्षीरम् इदं दधि; इदं मांसम् इदं घृतं।
पृ24.2cd न च बालस्य वचनात् पांशवोऽन्नं भवन्ति हि॥
पृ24.3ab वर्णास् तथाइव चत्वारो यथा ब्राह्मण भाषसे।
पृ24.3cd पांशुपुञ्जाभिधानेन योगो [यः को] प्य् एष न विद्यते॥
पृ24.4ab न केशेन न कर्णाभ्यां न शीर्षण न चक्षुषा।
पृ24.4cd न मुखेन न नासया न ग्रीवय न बाहुना॥
पृ24.5ab नोरसाप्यथ पार्श्वाभ्यां न पृष्ठेन^उदरेण च।
पृ24.5cd नोरुभ्याम् अथ जञ्ङ्हाभ्यां पाणिपाद^नखेन च॥
पृ24.6ab न स्वरेण न वर्णेन न सर्वांशैर् न मैथुनैः।
पृ24.6cd नानाविशेषः सर्वेषु मनुष्येषु हि विद्यते॥
पृ24.7ab यथा हि जातिष्व् अन्यासु लिङ्गं योनिः पृथक् पृथक्।
पृ24.7cd सामान्यं कारणं तत्र किं वा जातिषु मन्यसे॥
पृ24.8ab सशीर्षकाश् च^अथ नरास्थि^युक्ताः सचर्मकाः सेन्द्रियसोदराश् च।
पृ24.8cd एकांशतो नास्ति यतो विशेषो वर्णा न युक्ताश् चतुरोऽभिधातुं॥
पृ24.9ab अथास्ति कश्चित् प्रवरो विशेषस् तद् ब्रूहि यच्चानुमतं यथा ते।
पृ24.9cd अथो विशेषः प्रवरोऽत्र नास्ति वर्णा न युक्ताश् चतुरोभिधातुं॥
पृ25.1ab दोषो ह्य् अयं च^अत्र भवेद् अयुक्तो यद् यत् त्वया च^अभिहितं निदाने।
पृ25.1cd श्रुत्वा तु मत्तः प्रतिपद्य सौम्य यच् च^अत्र मन्ये शृणुचोद्यमानं॥
पृ25.2ab यच् च^अत्र युक्तं विषमं समं वा तात् ते प्रवक्ष्यामि नियुज्यमानः।
पृ25.2cd दोषो हि यश् च^अपि भवेद् अयुक्तो वक्ष्यामि ते ह्य् उत्तरत^उत्तरं च।
पृ25.3ef श्रुत्वा तु मत्तः प्रतिपद्य सौम्य कर्म^अधिपत्यप्रभवा मनुष्याः॥
पृ25.4 अनुमानम् अपि ते ब्राह्मण यदि प्रमाणं, तत्र यद् ब्रवीषि ब्रह्मा एक इति तस्मात् प्रजा अपि एक^जात्या एव। वयम् अप्य् एक^जात्या भवामः। यच् च व्रवीषि ब्रह्मणा^अयं लोकः सर्व^भूतानि च निर्मितानि^इति। स चेत्ते ब्राह्मण इदं प्रमाणं, तद् इदं ते ब्राह्मण अयुक्तं यद् ब्रवीषि चत्वारो वर्णा ब्राह्मणाः क्षत्रिया वैश्या शूद्राश् चेति।
पृ25.4 अपि तु ब्राह्मण मिथ्या मम वचो भवेत् यदि ब्राह्मण संवादेन मुनुष्यजातेर् नाना^करणं प्रज्ञायते। यद् उत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो वा (26) भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वाऽ'कारतो वा योनितो वाऽ'हारतो वा सम्भावतो वा नाना^करणं प्रज्ञायते।
पृ26.1 तद् यथा^अपि भोः पुष्करसारिन् गवाश् च गर्दभो ष्ट्रमृगपक्ष्यजैडका^नामण्डजजरायुजसंस्वेदजौपपादुकानांनाना^करनं प्रज्ञायते। यद् उत पादतोऽपि मुखतोपि वर्णतोऽपि संस्थानतोऽपि आहारतोऽपि योनिसम्भवतोऽपि नाना^करणं प्रज्ञायते नच^एवं तेषां चतुर्णां वर्णानां नाना^करणं प्रज्ञायते। तत् तस्मात् सर्वम् इदम् एकम् इति।
पृ26.2 अपि च। ब्राह्मणामीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीज^पूरककपित्थाक्षोडनारिकेलतिनिशकरञ्ज^आदीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न च^एवं चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ26.3 तद् यथा ब्राह्मणामीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारस्सप्तपर्णशिरीषकोविदारस्यन्दनचन्दनशिंशपैरण्डखदिर^आदीनां नाना^करणं प्रज्ञायते।
पृ26.4 यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च विशेष उपलभ्यते। न च^एवं चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ26.5 तद् यथा भोः पुष्करसारिन्न् अमीषां क्षीरवृक्षाणाम् उदुम्बरप्लक्षाश्वत्थन्यग्रोधवल्गुकेत्य् एवम् आदीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग् भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ26.6 तद् यथा पुष्करसारिन्न् अमीषाम् अपि फलबैषज्यवृक्षाणाम् आमलकीहरीतकीविभीतकी फरसक^आदीनाम् अन्यासाम् अपि विविधानाम् ओषधीनां ग्राम^जानां पार्वतीयानां तृण^वनस्पतीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च (27) गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ27.1 तद् यथा स्थलजानां पुष्प^वृक्षाणाम् अतिमुक्तक^चम्पक^पाटलानां सुमना वार्षिकाधनष्कारिक^आदीनां नाना^करणं प्रज्ञायते। यद् उतो रूपतोऽपि वर्णतोऽपि गन्धतोऽपि संस्थानतोऽपि नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ27.2 तद् यथा ब्राह्मणाम् ईषाम् अपि जलजानां पुष्पाणां पद्म^उत्पल^सौगन्धिक^मृदु^गन्धिक^आदीनां नाना^करणं प्रज्ञायते। यद् उत रूपतश् च गन्धतश् च संस्थानतश् च वणतश् च नाना^करणं प्रज्ञायते। नत्वेव वर्णानां नाना^करणं प्रज्ञायते। तद् यथा पुष्करसारिन् अमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति। तस्माद् एकम् एव^इदं सर्वम् इति।
पृ27.3ab अप्य् अन्यत् ते प्रवक्ष्यामि ब्राह्मणैः कल्पितं यथ्|आ।
पृ27.3cd शिरः सतारं गगनम् आकाशम् उदरं तथा॥
पृ27.4ab पर्वताश् च^अप्य् उभाव् ऊरू पादौ च धरणी^तलं।
पृ27.4cd सूर्याचन्द्रमसौ नेत्रे रोम तृण^वनस्पती॥
पृ27.5ab अश्रूण्य् अवोचद् वर्षाऽस्य नद्यः प्रस्रावम् एव च।
पृ27.5cd सागराश् च^अप्य् अमेध्यं वै; एवं ब्रह्मा प्रजापतिः॥
पृ28.1 परीक्षस्व त्वं ब्रह्मणः स्व^लक्षणं। यस्माद् ब्रह्मणो ब्राह्मणा उत्पन्नास् तस्मात् क्षत्रिया अपि वैश्या अपि शूद्रा अप्य् उत्पन्नाः।
पृ28.2ab एवं प्रसूतिर् यदि तत्वतः स्यात् ततो हि स्याद् वर्ण^कृतो विशेषः।
पृ28.2cd यदि ब्राह्मणा ब्रह्म^लोकं व्रजेयुस् त्रयश् च वर्णा न व्रजेयुः स्वर्गं।
पृ28.2ef एवं भवेद् वर्ण^कृतो विशेषो न चेन्न चत्वारो भवन्ति वर्णाः॥
पृ28.3ab यस्माद् धि वर्णश् चतुर्थ एवं प्रयाति स्वर्गं स्वकृतेन कर्मणा।
पृ28.3cd यतस् तपश् च^आर्षम् इह प्रशस्तं तस्माद् द्विजातेर् न विशेषणं स्याद्॥
पृ28.4ab यदि ब्राह्मणः स्याद् इहैक एव द्विजिह्वश् चतुः^श्रवणस् तथा^एव।
पृ28.4cd चतुर्^विषाणो बहुपाद् द्विशीर्ष एवं कृते वर्ण^कृतो विशेषः॥
पृ29.1ab रागैश् च नाम परघातनं च एवं प्रकारं च विहेठनं च।
पृ29.1cd सत्त्वस्य वै कर्मणो ध्वंसनं च एतान्य् अकल्याणकृतानि विप्रैः॥
पृ29.2ab युद्धं विवादं कलहान्य् अभीक्ष्णं गोप्रोक्षणं चिन्तितं ब्राह्मणैर् हि।
पृ29.2cd अथर्वणः कर्मणा त्रासनं च एतानि मन्त्राणि कृतानि विप्रैः॥
पृ29.3ab पापेच्छता बहु^जन^वञ्चनं च शाठ्यं च धौर्त्यं च तथा^एव कल्पं।
पृ29.3cd एवं परेषाम् अहितं विचिन्त्य कदा च ते स्वर्गम् इतो व्रजेयुः॥
पृ29.4ab ये ब्राह्मणा उग्रतपा विनीता व्रतेन शीलेन सदा ह्य् उपेताः।
पृ29.4cd अहिंसका ये दम संयमे रतास् ते ब्राह्मणा ब्रह्म^पुरं व्रजन्ति॥
पृ29.5ab सह^अस्थि^मांसः सनखः सचर्मा दुःखं सुखं मूत्र^पुरीषम् एकं।
पृ29.5cd पञ्च^इन्द्रियैर् नास्ति यतो विशेषस् तस्मान् न वै वर्ण^चतुष्क एषः॥
पृ29.6 तद् यथा नाम ब्राह्मण कस्य^चित् पुरुषस्य चत्वारः पुत्रा भवेयुः। स तेषां नामानि कुर्यान् नन्दक इति वा जीवक इति वा अशोक इति वा शतायुर् इति वा । इष्टाश् च (30) पुनर् भो एतस्य पुरुषस्य पुत्रा भवेयुः। तत्र यो नन्दकः स नन्देत्। यो जीवकः स ईवेत्। योऽशोकः स न शोचेत्। यः शतायुः स वर्षशतं जीवेत्।
पृ30.1 नामतः पुनर् ब्राह्मण तेषां नाना^करणं प्रज्ञायते न जातितः। तत्कस्य हेतोः। इह खलु पुनर् ब्राह्मण पितृतः पुत्रो जाय्ते। तस्माच् च तत्रेदं व्याकरणं भवति:
पृ30.2ab माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
पृ30.2cd यद्य् एवं भो विजानासि न ते (पुत्रा) परभूताः क्वचित्॥
पृ30.3 परीक्षस्व ब्राह्मण संयगेव कोऽत्र ब्राह्मणः क्षत्रियो वैश्यः शूत्र इति।
पृ30.4ab सर्वे काणाश् च कुब्जाश् च सर्वेऽपस्मारिणोपि वा।
पृ30.4cd किलासिनः कुष्ठिनश् च गौराः कृष्णाः पृथक् पृथक्॥
पृ30.5 प्रतिष्ठिताः सममज्जानखत्वचपार्श्व^उदरवक्त्राः प्रजा हि ताः स्वकर्मणा। एवं गते ब्राह्मण नैव भवति विशेषः। को जाति^कृतो विशेषः।
पृ30.6 यस्मान् न जातेर् विशेषणोऽस्ति तस्मान् न वै वर्ण^चतुष्क एव।
पृ31.1 तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रम् इदं लोकस्य यद् इदं ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाल इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
पृ31.2 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारीदम् अवोचत्। किं पुनर्भवता ऋग्वेदोऽधीतः, यजुर्वेदोऽधीतः, सामवेदोऽधीतः, अथर्ववेदोऽधीतः, आयुर्वेदोऽधीतः कल्पाध्यायो पि। अध्यात्मम् अपि मृगचक्रं वा नक्षत्र^गणो वा तिथि^क्रमगणो वा त्वयाधीतः। कर्म^चक्रं वा त्वयाधिगतं। अथवाऽङ्गविद्या वा वस्त्रविद्या वा शिवाविद्या शकुनिविद्या वा त्वयाधीता। अथवा राहुचैर्तं वा शुक्र^चरितं वा ग्रहचरितं वा त्वयाधीतं। अथवा लोकायतें भवता भाष्यप्रवचनं वा पक्षाध्यायो वा न्यायो वा त्वयाधीतः।
पृ32.1 एवम् उक्ते त्रिशङ्कुर् मातङ्ग^राहः पुष्करसारिणं ब्राह्मणम् एतद् अवोचत्। एतच् च मया ब्राह्मणाधीतं भूयश् च^उत्तरं । यद् अपि ते ब्राह्मण एवं स्याद् अहम् अस्मि मन्त्रेषु पारं प्राप्त इति। तत्र ते ब्राह्मण सह धर्मेणानुमानं प्रवक्ष्यामि। न खल्व् एवं ब्राह्मण प्राथमकल्पिकानां सत्त्वानाम् एतद् अभवत्। यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं।
पृ32.2 अथ ब्राह्मण सत्त्वानामसदृशानां च^उभयथा सदृशानां ततोऽन्ये सत्त्वाः शालिक्षेत्राणि केलायन्ति गोपायन्ति वापयन्ति वा। तेऽमी क्षत्रिया इति संज्ञा उदपादि। अथात्र ब्राह्मण तद् अन्यतमानां सत्तानाम् एतद् अभवत्। परिग्रहो रोगः परिग्रहो गण्डः परिग्रहः शल्यः। यन्नु वयं स्वपरिग्रहम् अपहायारण्यायतनं गत्वा तृण^काष्ठशाखापर्णपलाशकानुपसंहृत्य तृण^कुटिकां वा पर्णकुटिकां वा कृत्वा प्रविश्य ध्यायेन इति।
पृ32.3 अथ ते सत्त्वास् तं स्वकं परिग्रहम् अपहायारण्यायतनं गत्वा तृण^काष्ठशाखापत्रपर्णपलाशकैस् तृण^कुटिं वा पर्णकुटिकां वा कृत्वा तत्र^एव प्रविश्य ध्यायन्ति स्म। ते तत्र सायम् आसनहेतोः प्रान्तवाटिकां प्रातरशनहेतोश् च ग्रामं पिण्डाय प्रविशन्ति स्म।
पृ32.4 अथ तेषां ग्राम^वासिनां सत्त्वानाम् एतद् अभवत्। दुष्करकारका वत भोः सत्त्वा ये स्वकं परिग्रहम् उतृज्य ग्राम^निगमजन^पदेभ्यो बहिर् निर्गतास् तेषां बहिर्मनस्का ब्राह्यणा इति संज्ञा उदपादि। ते च पुनर् ग्राम^वासिनः सत्त्वास् तान् अतीव सत्कुर्वन्ति स्म। तेषां च दातव्यं मन्यन्ते स्म।
पृ33.1 अथ तेषाम् एव सत्त्वानाम् अन्यतमे सत्त्वास् तानि ध्यानान्य् असंभावयन्तो ग्रामेष्व् अवतीर्य मन्त्र^पदान् स्वाध्यायन्ति स्म। तांस् ते ग्राम^निवासिन आहुः --- न लेवलम् इमे सत्त्वा इमेऽध्यापकाः, तेषाम् अध्यापका इति लोके संज्ञा उदपादि।
पृ33.2 अयं हेतुर् अयं प्रत्ययो ब्राह्मणानां लोके प्रादुर्भावाय। अथान्यतमे सत्त्वा विवेक^काल^प्रतिसंयुक्तान् कर्म^अन्तान् विविधान् अर्थ^प्रतिसंयुक्तान् कुर्वन्ति स्म। तेषां वैश्या इति संज्ञा उदपादि।
पृ33.3 अथान्यतमे सत्त्वाः क्षुद्रेण कर्मणा जीविकां कल्पयन्ति स्म। तेषां शूद्रा इति संज्ञा उदपादि।
पृ33.4 भूत^पूर्वं ब्राहम्ण अन्यतमः सत्त्वो वधूम् आदाय रथम् आरुह्यान्यतम् अस्मिन्न् अरण्यप्रदेशे गतः। तत्र च रथो भग्नः। तस्मान् मातङ्गम [मा त्वं गमः] इति संज्ञा उदपादि।
पृ33.5 क्षेत्रं कर्षन्ति ये तेषां कर्षका इति संज्ञा प्र्वृत्ता। भाष्येण च पर्षदं रञ्जयति धर्मेण शीलब्रतसमाचारेण सम्यक्, तस्य राजा इति संज्ञाऽभूत्।
पृ33.6 ततोऽन्ये सत्त्वा वाणिज्यया जीविकां कल्पयन्ति तेषां वणिज इति संज्ञा (34) उदपादि। ततश् च^अन्ये सत्त्वाः प्रव्रजन्ति स्म। प्रव्रजित्वा परान् जयन्ति क्लेशान् जयन्ति^इति तेषां प्रव्रजिता इति लोके संज्ञा उदपादि।
पृ34.1 अपि तु ब्राह्मण एकैव संज्ञा लोक उदपादि। तां ते प्रवक्ष्यामि।
पृ35.1 ब्रह्मा लोकेऽस्मिन् इमान् वेदान् वाचयति। ब्रह्मा देवानां परम^तापसः। इन्द्रस्य कौशिकस्य वेदान् वाचयति स्म। इन्द्रः कौशिकोऽरणेमि गौतमं वेदान् वाचयति। अरणेमि गौतमः श्वेतकेतुं वेदान् वाचयति। श्वेतकेतुः शुकं पण्डितं वेदान् वाचयति। शुकः पण्डितश् च वेदान् विभजति स्म। तद् यथा पुष्यो बह्व्^ऋचानां पंक्तिश् छन्तोगानाम् एक^विंशतिर् अध्वर्यवः। क्रतुर् अर्थ^वणिकानां। बह्व्^ऋचानाम् एते ब्राह्मणाः। सर्वे ते व्याख्यायन्ते। पुष्य एको भूत्वा पञ्च^विंशतिधा भिन्नः। तद् यथा शुक्ला वल्कला माण्डव्या इति। तत्र दश शुक्लाः। अष्टौ वल्कलाः। सप्त माण्डव्याः। इतीयं ब्राह्मण बह्व्^ऋचानां शाखा। पुष्य एको भूत्वा पञ्च^विंशतिधा भिन्नः।
पृ35.2 अनुमानम् अपि ब्राह्मण प्रमाणं छन्दोगानां। ब्राह्मणाः सर्व एते छन्दोगाः। पंक्तिर् एत्य् एका भूत्वा स^अशीति^सहस्रधा भिन्ना। तद् यथा शीलवल्का अरणेमिका लौकाक्षाः कौथुमा ब्रह्म^समा महा^समा महा^यागिकाः स^अत्यम् उग्राः समन्त^वेदाः।
पृ36.1 तत्र शीलवल्का विंशतिः। अरणेमिका विंशतिः। लौकाक्षाश् चत्वारिंशत्। कौथुमानां शतं। ब्रह्म^समानां शतं। महा^समानां पञ्च^शतानि। महा^यागिकानां शतं। स^अत्यम् उग्राणां शतं । समन्त^वेदानां शतं। इतीयं ब्राह्मण^छन्दोगानां शाखा। पंक्तिर् इत्य् एका भूत्वा स^अशीति सहस्रधा भिन्ना।
पृ36.2 अनुमानम् अपि प्रमाणम् अध्वर्यूणां। एते ब्राह्मणा एक^विंशत्य् अध्वर्यवो भूत्वा एक^उत्तरशतधा भिन्नाः। तद् यथा कठाः कंइना वाजसनेयिनो जातुकर्णाः प्रोष्ठपदा ऋषयः। तत्र दश कठा दश कणिमा एकादश वाजसनेयिनः।त्रयोदश जातुकर्नाः। षोडश प्रोष्ठपदाः। एक चत्वारिंशद् ऋषयः। इतीयं ब्राह्मणाध्वर्यूणां शाखा। एक^विंशत्यध्वर्यवो भूत्वा एक^उत्तरशतधा भिन्नाः।
पृ36.3 अनुमानम् अपि ब्राह्मण प्रमाणम् अथर्वणिकानां । एते मन्त्राः सर्वे तेऽथर्वणिकाः। क्रतुर् एको भूत्वा द्विधा भिन्नः। द्विधा भूत्वा चतुर्धा भिन्नः।चतुर्धा भूत्वाऽष्टधा भिन्नः। अष्टधा भूत्वा [नव]दशधा भिन्नः। इतीयं ब्राह्मणाथर्वणिकानां शाखा। क्रतुर् एकः षोडश^उत्तरद्वादश^शतधा भिन्नः।
पृ36.4 अनुमानम् अपि ब्राह्मण प्रमाणं प्रतीत्य एतानि द्वादश^भेदशतानि षोडशभेदाश् च ये ब्राह्मणैः पौराणैः सम्यग् दृष्टाः। छन्दसि वा व्याकरणे वा लोकायते वा (37) पदमीमांसायां वा न चैषामूहापोहः प्रज्ञायते। यद् उत एक^जात्यो नामेति विदित्वा बन्धुर् भवितुम् अर्हति। तत् ते व्राह्मण ब्रवीमि संज्ञामात्रकम् एतल् लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
पृ37.1 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारी तुष्णींभूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरोऽस्थात्।
पृ37.2 ददर्श त्रिशङ्कुर् मातङ्ग^राजो ब्राह्मणं पुष्करसारिणं तृष्णींभूतं मद्गुभूतं स्रस्त^स्कन्धम् अधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अब्रवीत्। यद् अपि ते ब्राह्मण एवं स्याद् असदृशेन सह सम्बन्धो भविष्यति^इति। न पुनस्त्वया ब्राह्मण^एवं द्रष्टव्यं। (38)तत् कस्य हेतोः। ये प्रमाणश्रुतिशीलप्रञ्ञादयो गुणा अग्य्रा लोकस्य ते मम पुत्रस्य शार्दूलकर्णस्य संविद्यन्ते। यद् अपि ते ब्राह्मण एवं स्यात् --- ये वाजपियं यज्ञं यजन्ति। अश्वमेधं पुरुष^मेधं शाम्यप्राशं निरर्गडं यज्ञं यजन्ति, सर्वे ते कायस्य भेदात्सुगतौ स्वर्ग^लोके देवेषूपपद्यन्त इति। न पुनर्ब्राह्मण त्वय^एवं द्रष्टव्यं। तत् कस्य हेतोः।वाजपेयं ब्राह्मण यज्ञं यजमाना अश्वमेधं पुरुष^मेधं शाम्यप्राशं निरर्गडं यज्ञं च यजमाना बहुधा मन्त्रान् प्रवर्तयन्तः प्राणिहिंसां च प्रवर्तयन्ति। तस्मात् ते ब्राह्मण ब्रवीमि न ह्य् एष मार्गः स्वर्गाय। अहं ते ब्राह्मण मार्गं स्वर्गाय व्याखामि। तच् छृणु।
पृ38.1ab शीलं रक्षेत मेधावी प्रार्थयानः सुख^त्रयं।
पृ38.1cd प्रशंसां वित्त^लाभं च प्रेत्य स्वर्गे च मोदनं॥
पृ38.2 यैर् ब्राह्मण इतः पूर्वं वाजपेयो यज्ञ इष्टः। यैर् अश्वमेधो यैः पुरुष^मेधो यैः शाम्यप्राशो यैर् निरर्गडो यज्ञ इष्टः, परिगृहीतस् तैर् निरर्गलं च कामैः कामः। इतो नाकः पर्येष्यते। ये ब्राह्मण इतः पश्चाद् वाजपेयं यज्ञं यक्ष्यन्ति येऽश्वमेधं पुरुष^मेधं ये शाम्यप्राशं निरर्गडं यज्ञं यक्ष्यन्ति ते निरर्थकं महा^विघातं संयोक्ष्यन्ति।
पृ38.3 तस्मात् ते ब्राह्मन ब्रवीमि --- एहि त्वं मया सार्धं सम्बन्धं योजयस्वा। तत् कस्य हेतोः। धर्मेण हि चण्डाला अजुगुप्सनीया भवन्ति। अपि च।
पृ39.1ab श्रद्धा शीलं तपस्त्यागः श्रुतिर् ज्ञानं दयैव च।
पृ39.1cd दर्शनं सर्व^वेदानां स्वर्गव्रत^पदानि वै॥
पृ39.2 प्रमाणम् अष्टप्रकारं स्वर्गाय। तद् एभिर् अष्टाभिः प्रकारैः स्वर्गगमनम् इष्यते। ये प्रायेण जानन्ति विशेषेण खल्व् अप्य् अनेकैर् विविधरि यज्ञैः। अष्टौ चेमा ब्राह्मण निर्दिष्टा मातृतुल्या भगिन्यो लोके प्रवर्तन्ते। तद् यथा अदितिर् देवानां माता। दिवित् दानवानां। मनुर् मानवानां। सुरभिः सौरभेयानां। विनता सुपर्णानां। कद्रुर् नागानां। पृथिवी भूतानां माता सर्व^बीजानां। मरुतां महामहः। महा^काश्यपं मनसा विदन्ति ऋषयः।
पृ39.3 अथ खलु भोः पुष्करसारिन् ब्राह्मणानां सप्तगोत्राणि व्याख्यास्यामि तानि श्रूयन्तां। तद् यथा गौतमा वात्स्याः कौत्साः कौशिकाः काश्यपा वाशिष्ठा माण्डव्या इत्य् एतानि ब्राह्मण सप्तगोत्राणि। एषाम् एकैकं गोत्रं सप्तधा भिन्नं। अत्र ये गौतमास् ते कौथुमास्ते गर्गास् ते भरद्वाजास्त आर्ष्टिषेणास् ते वैखानसास् ते (40) वज्रपादाः। तत्र ये वात्स्यास्त आत्रेयास् ते मैत्रेयास् ते भार्गवास् ते सावर्ण्या स्ते सलोलास् ते बहुजाताः। तत्र ये कौत्सास् ते मौद्गल्यायनास् ते गौणायनास् ते लाङ्गलास्ते लग्नास्ते दण्डलग्नास्ते सोम^भुवाः[वह्}। तत्र ये कौशिकास् ते कात्यायनास् ते दर्भकात्यायनास् ते वल्कलिनस् ते पक्षिणस् ते लौकाक्षास् ते लोहित^आयनाः (लोहित्यायनाः) । तत्र ये काश्यपास् ते मण्डनास् ते इष्टास् ते शौण्डायनास् ते रोचनेयास् तेऽनपेक्षास् तेऽग्निवेश्याः। तत्र ये वःशिष्ठास् ते जातुकर्ण्यास् ते धान्यायनास् ते पाराशरास् ते व्याघ्रनखास् त आण्डायनस्त औपमन्यवाः। तत्र ये माण्डव्यास् ते भाण्डायनास् ते धौम्रायणास् ते कात्यायनास् ते खल्व् अवाहनास् ते सुगन्धारायणास् ते कापिष्ठलायनाः।
पृ40.1 इत्य् एतानि ब्राह्मण एवम् एकोनपञ्चाशद् गोत्राणि ब्राह्मणैः पौराणैः सम्यग् दृष्टानि छन्दसि व्याकरणे पदमीमांसायां। अन्यानि च गोत्राणि विस्तरतो मया वाचितानि। तानि अन्यैर् न ज्ञायन्ते।
पृ40.2 यद् उतैकत्वम् इति विदित्वा भवान् बन्धुर् भवितुम् अर्हति। तस्मात् ते ब्राह्मण ब्रवीमि सामान्यं संज्ञामात्रकम् इदं लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं । प्प्प्प्प्पुत्राय मे शार्दूलकर्णाय प्रकृतिंदुहितरम् उत्सृज भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
पृ41.1 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारी तृष्णीं भूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरः स्थितोऽभूत्। अद्राक्षीत् त्रिशङ्कुर् मातङ्ग^राजः पुष्करसारिणं ब्राह्मणं तूष्णीं भूतं मद्गुभूतं स्रस्तस्कन्धम् अभोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अवोचत्।
पृ41.2ab यादृशं वाप्यते बीजं तादृशं लभ्यते फलं।
पृ41.2cd प्रजापतेर् हि चैकत्वे निर्विशेषो भवत्य् अतः॥
पृ41.3ab न च^इन्द्रियाणां नानात्वं क्रियाभेदश् च दृश्यते।
पृ41.3cd ब्राह्मणे वान्य^जातौ वा नैषां किञ्चिद् विशिष्यते॥
पृ41.4ab न ह्य् आत्मनः समुत्कर्षः श्रेष्ठ त्वम् इह युज्यते।
पृ41.4cd शुक्र^शोणित^सम्भूतं योनितो ह्य् उभयं समं॥
पृ41.5ab चातुर्वर्ण्यं प्रवक्ष्यामि पशु^धर्म^कथां तव।
पृ41.5cd भवेत् ते भगिनी भार्या नैतद् ब्राह्मण युज्यते॥
पृ41.6ab यदि तावद् अयं लोको ब्रह्मणा जनितः स्वयं।
पृ41.6cd ब्राह्मणी ब्राह्मण^स्वसा क्षत्रिया क्षत्रियस्वसा॥
पृ41.7ab अथ वैश्यस्य वैश्या वै शूद्रा शूद्रस्य वा पुनः।
पृ41.7cd न भार्या भगिनी युक्ता ब्रह्मणा जनिता यदि॥
पृ41.8ab न सत्त्वा ब्रह्मणो जाताः क्लेशजाः कर्मजास्त्वमी।
पृ41.8cd नीचैश् च^उच्चैश् च दूश्यन्ते सत्त्वा नाना^आश्रयाः पृथक्॥
पृ41.9ab तेषां च जातिसामान्याद् ब्राह्मणे क्षत्रिये तथा।
पृ41.9cd अथ वैश्ये च शूद्रे च समं ज्ञानं प्रवर्तते॥
पृ42.1ab ऋग्वेदोऽथ यजुर्वेदः सामवेदोप्य् अथर्वाणं।
पृ42.1cd इतिहासो निघण्टश् च कुतश् छन्दो निरर्थकं॥
पृ42.2ab अस्माकम् अप्य् अध्ययने मैत्री विद्या तथा शिखी।
पृ42.2cd संक्रामणी प्रकामणी स्तम्भनी काम^रूपिणी॥
पृ42.3ab मनोजवा च गान्धारी घोरी विद्या वशङ्करी।
पृ42.3cd काक^वाणी च मन्त्रं च; इन्द्रजालं च भञ्जनी॥
पृ42.4ab अस्माकम् आसीत् पुरुषा विद्यास्वाख्यातपण्डिताः।
पृ42.4cd मणि^पुष्पाश् च; ऋषयो भास्वराश् च महर्षयः॥
पृ42.5ab संप्राप्ता देवता;ऋद्धिं किं चिकित्सासि विद्यया।
पृ42.5cd अशिक्षिताश् च चण्डाला ब्राह्मणा वेद^पारगाः॥
पृ42.6ab कपिञ्जलाद्या जनितो मन्त्राणां पारभिंगतः।
पृ42.6cd न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण मन्यसे॥
पृ43.1अ निषाद्यजनयत्काली पुत्रं द्वैपायानं मुनिं।
पृ43.1ब् उग्रं तेजस्विनं भीष्मं पञ्चाभिज्ञं महा^तपं।
पृ43.2ab न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
पृ43.2cd क्षत्रिया रेणुका नाम जज्ञे रामं महा^मुनिं।
पृ43.2ef पण्डितं च विनीतं च सर्व^शास्त्र^विशारदं।
पृ43.3ab न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
पृ43.3cd ये च ते मनुजा; आसन् तेजसा तपसा युताः।
पृ43.4ab पण्डिताश् च विनीताश् च लोके च; ऋषिसम्मताः।
पृ43.4cd न हि ते ब्राह्मणीपुत्राः किं वा ब्राह्मण वक्ष्यसि॥
पृ43.5ab संज्ञा कृतेयं लोकस्य ब्राह्मणाः क्षत्रियास् तथा।
पृ43.5cd वैश्याx च^एव तथा शूद्राः संज्ञेयं संप्रकीर्तिता॥
पृ43.6 तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रकम् इदंलोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूदर इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे (44) शार्दूलकर्णाय प्रकृतिं दुहितरम् अनुप्रयच्छ भर्यर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
पृ44.1 इदं च पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्ब्राह्मणः पुस्करसारी त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्। किं गोत्रो भवान्। आह आत्रेयगोत्रोऽस्मि। हिंपूर्वः। आह। आत्रेयः। किंचरणःआह कालेयमैत्रायणीयः। कति प्रवराः। आह त्रयः प्रवराः। तद् यथा वात्स्याः कौत्स्या भरद्वाजाश् च। के भवन्तः सब्रह्म^चारिणः। छन्दोगाः। कति छन्तोगानां भेदाः। षट्। ते कतमे। आह। तद् यथा। कौथुमाः। च^अरायणीयाः। लाङ्गलाः। सौवर्चसाः। कापिञ्जलेयाः। आर्ष्टिषेणा इति।
पृ44.2 किं भवतो मातृजं गोत्रं। आह। पाराशरीयं। पठतु भवान् सावित्रीं। कथं भवति। कत्यक्षरा सावित्री। कथिगण्डा। कतिपदा।
पृ44.3 चतुर्विंशत्यक्षरा सावित्री। त्रिगण्डा। अष्टाक्षरपदा। उच्चारयतु भवान् सावित्रीं।अथ खलु भोः पुष्करसारिन् सोत्पत्तिकां सावित्रीं प्रवक्ष्यामि। तच् छ्रूयतां।
पृ44.4 कथयतु भवान्।
पृ44.5 भूत^पूर्वं ब्राह्मणातीतेऽध्वनि वसुर् नाम ऋषिर् भूव। पञ्चाभिज्ञ उग्रतेजा महानुभावो ध्यानानां लाभी। तेन तत्र तक्षकदुहिता कपिला नाम आसादिता भार्या^अर्थं। स तत्र संरक्त^चित्तस् तया कन्यया सार्धं मैथुनम् अगच्छत्। स ऋषि (45) ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः। ऋद्धिपरिहीनः स विप्रतिसारी आत्मनो दुश्चरितं विगर्हमाणस् तस्यां वेलायां सावित्रीं भाषते स्म। तद् यथा।
पृ45.1 ओं भूर् भुवः स्वः। तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।
पृ45.2 इति हि ब्राह्मण अज्ञान^शोधनार्थम् इमम् एव मन्त्रं स ब्राह्मणो दिवा^रात्रं जपति स्म। इयं ब्राह्मणानां सावित्री। पूर्वजः प्रजापतिः
पृ45.3ab जटिलस्तापसो भूत्वा गहनं वनम् आश्रितः।
पृ45.3cd गम्भीराव् अभासे तत्र ह्य् आत्मारामस् तपोरतः।
पृ45.4 देवस्य श्रेष्ठकं भीजनम् अपनाभ्यो पविष्ट इमंमन्त्रम् अजपत्। इयं क्षत्रियाणां सावित्री।
पृ45.5 ओं चित्रं हि वैश्यकन्यका। अथ सा कन्या अर्थतः प्रवीणा।
पृ46.1 इयं वैश्यानां सावित्री। ओम् अतपः सुतपः। जीवेम शरदां शतं। पश्येम शरदां शतं। इयं शूद्राणां सावित्री। ओं भूर् भुवः स्वः।
पृ46.2ab कामा हि लोके परमाः प्रजानां क्लेशप्रहाणे भूता अन्तरायाः।
पृ46.2cd तस्माद् भवन्तः प्रजहन्तु कामान् ततोऽतुलं प्राप्स्य् अथ ब्रह्म^लोकं।
पृ46.3 इतीयं ब्राह्मण ब्रह्मणा सहापतिना सावित्री भाषिता, पूर्वकैश् च सम्यक् संबुद्धैर् अभ्यनुमोदिता। %नक्षत्रवंशः 星宿の形、星の数、合の長さ、供物、主宰神、गोत्र 46
पृ46.4 पठ भोस् त्रिशङ्को नक्षत्र^वंशं। अथ किं। भोः कथयतु भवान्। श्रूयतां भोः पुष्करसारिन् नक्षत्र^वंशं कथयिष्यामि। तद् यथा।
पृ46.5 कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वस्ह्ः पुष्यः अश्लेषा मघा पूर्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती अश्विनी भरणी । इत्य् एतानि भोः पुष्करसारिन्न् अष्टाविंशति^नक्षत्राणी।
पृ46.6 कति^तारकाणि कति^संस्थानानि कति^मुहूर्त^योगानि किम्^आहाराणि किं^दैवतानि किं^गोत्राणि।
पृ46.7 कृत्तिका भोः पुष्करसारिन् नक्षत्रं षट्तारं क्षुर^संस्थानं त्रिंशन्^मुहूर्त^योगं (47) दध्याहारम् अग्निदैवतं वैश्यायनीयं गोत्रेण। रोहिणी^नक्षत्रं पञ्च^तारकं शकटाकृति^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मृगमांसाहारं प्रजापति^दैवतं भारद्वाजं गोत्रेण। मृगशिरा^नक्षत्रं त्रितारं मृगशीर्ष^संस्थानं त्रिंशन् मुहूर्त^योगं फलमूलाहारं सोम^दैवतं मृगायणीयं गोत्रेण। आर्द्र^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं सर्पिर्मण्डाहारं सूर्य^दैवतं हारीतीतायनीयं गोत्रेण। पुनर्वसु^नक्षत्रं द्वितारं पद^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मध्य्?आहारम् अदितिदैवतं वाशिष्ठं गोत्रेण। पुष्य^नक्षत्रं त्रितारं वर्धमान^संस्थानं त्रिशन्^मुहूर्त^योगं मधु^मण्डाहारं बृहस्पति^दैवतम् औपमन्यवीयं गोत्रेण। अश्लेषा^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं पायस^भोजनं सर्प^दैवतं मैत्रायणीयं गोत्रेण।
पृ47.1 इति^इमानि भोः पुष्करसारिन् सप्त^नक्षत्राणि पूर्व^द्वारकाणि। मघा^नक्षत्रं (48)पञ्च^तारं नदी^कुब्ज^संस्थानं त्रिशन्^मुहूर्त^योगं तिल^कृसराहारं पितृदैवतं पिङ्गलायनीयं गोत्रेण। पूर्वफल्गुनी^नक्षत्रं द्वितारं पदक^संस्थानं त्रिशन् मुहूर्त^योगं विल्वभोजनं भवदेवतं गौतमीयं गोत्रेण। उत्तरफल्गुनी^नक्षत्रं द्वितारं पदक^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं गोधूममत्स्याहारम् अर्यमादैवतं कौशिकं गोत्रेण। हस्त^नक्षत्रं पञ्च^तारं हस्त^संस्थानं त्रिंशन्^मुहूर्त^योगं श्यामाकभोजनं सूर्य^दैवतं काश्यपं गोत्रेण। चित्रा^नक्षत्रम् एक^तारं तिलक^संस्थानं त्रिंशन्^मुहूर्त^योगं मुद्गकृसरघृत^पूपाहारं त्वष्टृदैवतं कात्यायनीयं गोत्रेण।
पृ48.1 स्वाती^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं मुद्गकृसरफलाहारं वायुदैवतं कात्यायनीयं गोत्रेण। विशाखा^नक्षत्रं द्वितारं विषाण^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं तिल^पुष्पाहारम् इन्द्राग्निदैवतं शांखायनीयं गोत्रेण।
पृ49.1.इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि दक्षिणाद्वारकाणि।
पृ49.2 अनुराधा^नक्षत्रं चतुस्तारं रत्नाबली^संस्थानं त्रिशन्^मुहूर्त^योगं सुरामांसाहारं मित्रदैवतम् आलंबायनीयं गोत्रेण। ज्येष्ठा^नक्षत्रं त्रितारं यवमध्य^संस्थानं पञ्च^दश^मुहूर्त^योगं शालियवागुभोजनम् इन्द्रदैवतं दीर्घकात्यायनीयं गोत्रेण। मूल^नक्षत्रं सप्ततारं वृश्चिक^संस्थानं त्रिशन्^मुहूर्त^योगं मूलफलाहारं नैरृतिदैवतं कात्यायनीयं गोत्रेण। पूर्वाषाढा^नक्षत्रं चतुस्तारं गोविक्रम^संस्थानं त्रिशन्^मुहूर्त^योगं न्यग्रोधकषायाहारं तोयदैवतं दर्भकात्यायनीयं गोत्रेण। उत्तराषाढा^नक्षत्रं चतुस्तारं गजविक्रम^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मधु^लाजाहारं विश्व^दैवतं मौद्गलायनीयं गोत्रेण। अभिजिन्^नक्षत्रं त्रितारं गोशीर्स^संस्थानं षण्^मुहूर्त^योगं (50) वायुआहारं ब्रह्म^दैवतं ब्रह्मावतीयं गोत्रेण। श्रवणा^नक्षत्रं त्रितारं यवमध्य^संस्थानं त्रिंशन्^मुहूर्त^योगं पक्षिमांसाहारं विष्णुदैवतं कात्यायनीयं गोत्रेण।
पृ50.1 इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि पश्चिमद्वारकाणि।
पृ50.2 धनिष्ठा^नक्षत्रं चतुस्तारं शकुन^संस्थानं त्रिंशन्^मुहूर्त^योगं कुलत्थपूपाहारं वसुदैवतं कौण्डिन्यायनीयं गोत्रेण। शतभिषा^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं यवागुभोजनं वरुणदैवतं ताण्ड्यायनीयं गोत्रेण। पूर्वभाद्रपदा^नक्षत्रं द्वितारं पदक^संस्थानं त्रिंशन्^मुहूर्त^योगं मांस^रुधिराहारम् अहिर्बुध्न्यदैवतं जातूकर्ण्यं गोत्रेण। उत्तरभाद्रपदा^नक्षत्रं द्वितारं पदक^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं (51)मांसाहारम् अर्यमादैवतं ध्यानद्राह्यायणीयं गोत्रेण। रेवती^नक्षत्रम् एक^तारं तिलक^संस्थानं त्रिशन्^मुहूर्त^योगं दध्याहारं पूषदैवतम् अष्टभगिनीयं गोत्रेण। अश्विनी^नक्षत्रं द्वितारं तुरगशीर्ष^संस्थानं त्रिंशन्^मुहूर्त^योगं मधु^पायसभोजनं गन्धर्व^दैवतं मैत्रायाणीयं गोत्रेण। भरणी^नक्षत्रं त्रितारं भग^संस्थानं त्रिंशन्^मुहूर्त^योगं तिल^तण्डूलाहारं यमदैवतं भार्गवीयं गोत्रेण।
पृ51.1 इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि उत्तर^द्वारकाणि।
पृ51.2 अमीषां भोः प्प्पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां षण्^नक्षत्राणि पञ्च^चत्वारिंशन्^मुहूर्त^योगानि। तद् यथा। रोहिणी पुनर्वसु उत्तरफल्गुनी विशाखा उत्तराषाढा उत्तरभाद्रपदा चेति।
पृ51.3 पञ्च^नक्षत्राणि पञ्च^दश^मुहूर्त^योगानि। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा शतभिषा चेति। एकोऽभिजित् षण्^मुहूर्त^योगः। अवशिष्टानि त्रिंशन्^मुहूर्त^योगानि।
पृ52.1 अमीषां भोः पुष्करसारिन् सप्तानां नक्षत्राणां पूर्व^द्वारिकाणां कृत्तिका प्रथमा नामाश्लेषा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणां दक्षिण^द्वारिकाणां मघा प्रथमा नाम विशाखा पश्चिमा नाम। अमीषां पश्चिमद्वारिकाणां सप्तानां नक्षत्राणाम् अनुराधा प्रथमा नाम श्रवणा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणाम् उत्तर^द्वारिकाणां धनिष्ठा प्रथमा नाम भरणी पश्चिमा नाम।
पृ53.2 अमीषां भोः पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां सप्त बलानि। कतमानि सप्त। यद् उत त्रीणि पूर्वाणि विशाखानुराधा पुनर्वस्ह्ः स्वातिश् च। त्रीणि दारुणानि। आर्द्रा अश्लेषा भरणी चेति। चत्वारि सम्माननीयानि। यद् उत त्रीणि उत्तराणि रोहिणी चेति। पञ्च मृदुकानि। श्रवणा धनिष्ठा शतभिषा ज्येष्ठा मूला इति। पञ्च धारणीयानि। हस्ता चित्रा अश्लेषा मघा अभिजिच् चेति। चत्वारि क्षिप्र^करणीयानि। यद् उत कृत्तिका मृगशिरा पुष्या अश्विनी चेति। %नक्षत्राणां योगः 星宿の合
पृ52.3 अमीषां भोः पुष्करसारिन्न् अष्टविंशतीनां नक्षत्राणां त्रयो योगा भवन्ति। ऋषभानुसारी योगः। वत्सानुसारी योगः। युगनद्धो योगः। तत्र नक्षत्रं यदि पुरस्ताद् गच्छति चन्द्रश् च पृष्ठतः, अयम् उच्यते ऋषभानुसारी योग इति। यद् उत चन्द्रः पुरस्ताद् गच्छति नक्षत्रं च पृष्ठतः, तदा भवति वत्सानुसारी योगः। यदि पुनश् चन्द्रो नक्षत्रं च^उभौ समौ युगपद् गच्छतः, तदायम् उच्यते युगनद्धो योग इति।

%ग्रहः 惑星 53
पृ53.1 अथ खलु भोः पुष्करसारिन् ग्रहान् प्रवक्ष्यामि तच् छ्रूयतां। तद् यथा शुक्रो बृहस्पतिः शनैश्चरो बुधोऽङ्गारकः सूर्यस् ताराधिपतिश् चेति। %रात्रिदिवसयोर् ह्रासवृद्धी 昼夜の短長 53
पृ53.2 एवं विपरिवर्तमाने लोके नक्षत्रेषु प्रविभक्तेषु कथं रात्रिदिवसानां ह्रासो वृद्धिश् च भवति। तद् उच्यते।
पृ53.3 हेमन्तानां द्वितीये मासि रोहिण्याम् अष्टम्यां द्वादश^मुहूर्तो दिवसो भवति। अष्टादश^मुहूर्ता रात्रिः। ग्रीष्माणां पश्चिमे मासे रोहिण्याम् अष्टम्याम् अष्टादश^मुहूर्तो दिवसो भवति। द्वादश^मुहूर्ता रात्रिः। वर्षाणां पश्चिमे मासे रोहिण्याम् अष्टम्यां चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः।
पृ53.4 किं भोस् त्रिशङ्को रात्रिदिवसानां प्रस्थानं। दिवसानुदिवसं। किं पक्षस्य प्रस्थानं। (54)प्रतिपद्। किं संवत्सरस्य प्रस्थानं। पौषः। किम् ऋतूनां प्रस्थानं। प्रावृट्।

%^मुहूर्तनामानि ムフールタ 54
पृ54.1 किं भोस् त्रिशङ्को क्षणस्य परिमाणं । किं लवस्य। किं मुहूर्तस्य।
पृ54.2 तद् यथा भोः पुष्करसारिन् स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणः। विंशत्यधिकं तत्क्षणशतम् एकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमसम्बन्धेन त्रिंशन्^मुहूर्तम् एकं रात्रिदिवसम् अनुमीयते। तेषां मुहूर्तानाम् इमानि नामानि भवन्ति।
पृ54.3 आदित्य उदयति षण्णवति^पौरुषायां छायायां चतुरोजा नाम मुहूर्तो भवति। षष्टिपौरुषायां छायायां श्वेतो नाम मुहूर्तो भवति। द्वादश^पौरुषायां छायायां समृद्धो नाम मुहूर्तो भवति। षट्पौरुषायां छायायां शरपथो नाम मुहूर्तो भवति।
पृ55.1 पञ्च^पौरुषायां छायायाम् अतिसमृद्धो नाम मुहूर्तो भवत्। चतुः^पौरुषायां छायायाम् उद्गतो नाम मुहूर्तो भवति। त्रिपौरुषायां छायायां सुमुखो नाम मुहूर्तो भवति। स्थिते मध्याह्ने वज्रको नाम मुहूर्तो भवति। परिवृत्ते मध्याह्ने त्रिपुरुषायां छायायां रोहितो नाम मुहूर्तो भवति।
पृ55.2 चतुः^पौरुषायां छायायां बलो नाम मुहूर्तो भवति। पञ्च^पौरुषायां छययं विजयो नाम मुहूर्तः। षट्पौरुषायां छायायां सर्व^रसो नाम मुहूर्तः। द्वादश^परुषायां छायायां वसुर् नाम मुहूर्तः। षष्टिपौरुषायां छायायां सुन्दरो नाम मुहूर्तः। अवतरमाण आदित्ये षण्णवति^पौरुषायां छायायां परभयो नाम मुहूर्तो भवति।
पृ55.3 इत्य् एतानि दिवसस्य मुहूर्तानि।
पृ55.4 अथ खलु भोः पुष्करसारिन् रात्र्या मुहूर्तानि व्याख्यास्यामि।अस्तंगत आदित्ये रौद्रो नाम मुहूर्तः। ततस् तारावचरो नाम मुहूर्तः। संयमो नाम मुहूर्तः (56) सांप्रैयको नाम मुहूर्तः। अनन्तो नाम मुहूर्तः। गर्दभा नाम मुहूर्तः। राक्षसो नाम मुहूर्तः। स्थितेऽर्धरात्रेऽवयवो नाम मुहूर्तः। अतिक्रान्तेऽर्धरात्रे ब्रह्मा नाम मुहूर्तः। दितिर् नाम मुहूर्तः। आतपाग्निर् नाम मुहूर्त। अभिजिन् नाम मुहूर्तः। इत्य् एतानि रात्रेर् मुहूर्तनामानि। इति भोः पुष्करसारिन् इमानि त्रिशन् मुहूर्तानि यैर् अहो^रात्रं प्रज्ञायते।
पृ56.1 तत्क्षणः क्षणो लवो मुहूर्तः । तत्र त्रिंशतितमो भागो मुहूर्तस्य लवः। षष्टितमो भागो लवस्य क्षणः। विंशत्युत्तरभागशतं क्षणस्य तत्क्षणः। तद् यथा स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणःः। विंशत्युत्तरक्षणशतं तत्क्षणस्यैकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमयोगेन त्रिंशन्^मुहूर्तम् एकम् अहो^रात्रं। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादश^मासाः संवत्सरः। चतुरोजाः श्वेतः समृद्धः शरपथोऽतिसमृद्ध उद्गतः (57) सुमुखो वज्रको रोहितो बलो विजयः सर्व^रसो वसुः सुन्दरः पर^भयः। रौद्रस् तारावचरः संयमः सांप्रैयकोऽन्नन्तो गर्दभो राक्षसोऽवयवो ब्रह्मा दितिर् अर्को विधमनो आग्नेय आतपाग्निर् अभिजित्।
पृ57.1 इति^इमानि मुहूर्तानां नामानि। %काल^उत्पत्तिः 時間の発生 57
पृ57.2ab कालोत्पत्तिम् अपि ते ब्राह्मण वक्ष्यामि शृणु।
पृ57.2cd कालस्य किं प्रमाणम् इति तद् उच्यते।
पृ57.3 द्वावक्षिनिमेषाव् एको लवः। अस्टौ लवा एका काष्ठा। षोडशकाष्ठा एका कला। कलानां त्रिंशदेको नाडिका। तत्र द्वे नाडिक एको मुहूर्तः।
पृ57.4 नाडिकायाः पुनः किं प्रमाणं। तद् उच्यते।
पृ57.5 द्रोणं सलिलस्यैकं। तद्धरणतो द्वे पलशते भवतः। नालिकाछिद्रस्य किं प्रमाणं। सुवर्ण^मात्रं। उपरि चतुर्^अङ्गुला सुवर्ण^शलाका कर्तव्या। (58) वृत्तपरिमण्डला समान्ताच् चतुरस्रा आयता। यदा च^एवं शीर्येत तत् तोयं घटस्य तदैका नाडिका। एतेन नालिकाप्रमाणेन विभक्ते द्वे नाडिक एको मुहूर्तः। एतेन भो ब्राह्मण त्रिंशन् मुहूर्ताः। यै रात्रिदिवसा अनुमीयन्त इति।
पृ58.1 ततः षोडश निमेषा एका काष्ठा। षोडश काष्ठा एका कला। षष्टिकला एको मुहूर्तः। त्रिंशन्^मुहूर्ता एकम् अहोरात्रम्। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादश^मासाः संवत्सरः।
पृ58.2 एतेन पुनरक्षिनिमेषेण षोडशकोटयोऽष्टपञ्चाशच् च शत^सहस्राणि अष्टाशीति^सहस्राणि स एवं मापितः। तच् च ब्राह्मण कालोत्पत्तिर् व्याख्याता। %क्रोशयोजन^उत्पत्तिः クローシャ、ヨージャナの発生 58
पृ58.3 सृणु ब्राह्मण क्रोशयोजनानाम् उत्पत्तिं। सप्त परमाणव एकोऽणुर् भवति। सप्ताणवः सर्व^सूक्ष्मं दृस्यते। तद् एकं वातायनरजः। वातायनरजांसि सप्त, शश^करजः। सप्त शश^करजांस्य् एड^करजः। सप्त एड^करजांश्येकं गोरजः। सप्तगोरजांस्य् एका यूका। सप्तयूका एका लिक्षा। सप्तलिक्षा एको यवः। सप्त यवा एकाङ्गुलिः। द्वादशाङ्गुलयो वितस्तिः। द्वे वितस्ती एको हस्तः। चत्वारो हस्ता एकं धनुः। धनुः^सहस्रम् एकः क्रोशः। चत्वारः क्रोशा एको मागधयोजनः। योजनस्य प्रमाणं पिण्डितां।
पृ59.1 परमाणूनां कोटिशत^सहस्राणि चतुर्^विंशतिश् चैकोनत्रिंशत्कोटि^सहस्राणि द्वादश च शत^सहस्राणि। एवं मापितं योजनम् इति।
पृ59.2 शृणु ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिं। तत्कथयतु भवान्।
पृ59.3 द्वादश यवा माषकः। षोडश मासका एकः कर्षः।सुवर्णस्य परिमाणं पिण्डितम् इति। द्वे कोटी पञ्च^विंशतिश् च सहस्राणि पञ्च^शतान्य् अष्टौ च परमाणवः। एवं मापिता ब्राह्मण सुवर्णस्य परिमाण^उत्पत्तिः।
पृ59.4 शृणु ब्राह्मण पलप्रमाणं। चतुःषष्टि^माषकाः पलं मागधकं। मागधकया तुलया पलस्य परिमाणं पिण्डितं। परमाणूनाम् अष्टकोटयः सप्तचत्वारिंशच् च शत^सहस्राणि सप्त च सहस्राणि द्वे शतेऽशीतिश् च परमाणवः। एवं मापितं ब्राह्मण पलस्य परिमाणम् इति।
पृ59.5 शृणु ब्राह्मण रस^परिमाणस्य^उत्पत्तिं। चतुर्^विंशति^पलानि मागधकः। प्रस्थः। तत् रस^परिमाणं। मागधकया तुलया प्रस्थास्य परिमाणं पिण्डितं। द्वे कोटिशते तिस्रश् च कोटय एकोनतिंशच् च शत^सहस्राणि चतुःसप्तति (60) सहस्राणि सप्त च शतानि विंशतिश् च परमाणवः। एवं मापिता ब्राह्मण रस^मानस्य^उत्पत्तिर् इति।
पृ60.1 शृणु ब्राह्मण धान्य^परिमाणस्य^उत्पत्तिं। एकोनत्रिंशति^पलान्य् एक^कर्षेणोनानि मागधः प्रस्थः। मापितं धान्य^परिमाणं। मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितं। कोटिशतम् अष्टपञ्चाशच् च कोटयो द्विर् अशीतिश् च शत सहस्राणि एक^षष्टिश् च सहस्राणि पञ्च^शतानि त्रिंशच् च परमाणवः। एवं मापितं ब्राह्मण धान्यस्य परिमाणम् इति। %नक्षत्रव्या^करणं 月がそれぞれの星宿に入った時に生まれた人の性格
पृ60.2 पठ भोस् त्रिशङ्को नक्षत्र^व्याकरनं नाम^अध्यायं। अथ खलु भो ब्राह्मण नक्षत्र^व्याकरनं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान्।
पृ61.1 कृत्तिकासु जातो मानवो यशस्वी भवति। रोहिण्यां जातः सुभगो भवति भोगवांश् च। मृगशिरसि जातो युद्धार्थी भवति। आर्द्रायां जात उत्सोऽन्न^पानानां भवति। पुनर्वसौ जातः कृषिमान् भवति गोरक्षश् च। पुष्ये जातः शीलवान् भवति। अश्लेषायां जातः कामुको भवति। मघायां जातो मतिमान् भवति, महा^आत्मा च। पूर्वफल्गुन्यां जातोऽल्प^अयुष्को भवति। उत्तरफल्गुन्यां जात उपवासशीलो भवति, स्वर्गपरायणश् च। हस्ते जातश् चौरो भवति। चित्रायां जातो नृत्यगीतकुशलो भवति, आभरण^विधिज्ञश् च। स्वात्यां जातो गणको भवति, गणक^महामात्रो वा। विशाखायां जातो राज^भटो भवति। अनुराधायां जातो वाणिजको भवति सार्थिकः। ज्येष्ठायां जातोऽल्प^अयुष्को भवति, अल्प^भोगश् च। मूले जातः पुत्रवान् भवति, यशस्वी च। पूर्वाषाढायां जातो योगाचारो भवति। उत्तराषाढायां जातो भक्तेश्वरः कुलीनश् च भवति। अभिजिति जातः कीर्तिमान् पुरुषो भवति। श्रवणे जातो (62) राज^पूजितो भवति। धनिष्ठायां जातो धनाढ्यो भवति। शतभिषायां जातो मूलिको भवति। पूर्वभाद्रपदायां जातश् चौर^सेनापतिर् भवति। उत्तरभाद्रपदायां जातो गन्धिको भवति, गन्धर्वश् च। रेवत्यां जातो नाविको भवति। अश्विन्यां जातोऽश्ववाणिजको भवति। भरण्यां जातो वध्यघातको भवति। अयं भोः पुष्करसारिन् नक्षत्र^व्याकरणो नाम।

%नक्षत्रनिर्देशः 月がそれぞれの星宿に入った時都市が攻略される時の人や民族の性格と運命
पृ62.1 पठ भोस् त्रिशङ्को नक्षत्र^निर्देशं नाम^अध्यायं। अथ भोः पुष्करसारिन् नक्षत्र^निर्देशं नाम^अध्यायं व्याख्यास्यामि तच् छ्रूयतां । कथयतु भवान्।
पृ62.2ab कृत्तिकासु निविष्टं वै नगरं ज्वलति श्रिया।
पृ62.2cd प्रभूरत्नोज्वलं च^एव तन् नगरं विनिर्दिशेत्॥
पृ62.3ab रोहिण्यां तु निविष्टं वै नगरं तद् विनिर्दिशेत्।
पृ62.3cd धार्मिकोऽत्र जनो भूयात् प्रभूत^धन^सञ्चयः।
पृ62.3ef विद्या^प्रकृति^सम्पन्नः स्वदाराभिर् अतोऽपि च॥
पृ62.4ab मृगशीर्षे निविष्टं तु स्त्रीभिर् गोभिर् धनैस् तथा।
पृ62.4cd माल्यभोगैश् च सङ्कीर्णम् अद्भुतैश् च पुरस्कृतं॥
पृ63.1ab आर्द्रायां मत्स्य^मांसानि भक्ष्यभोज्यधनानि च।
पृ63.1cd भवन्ति क्रूरपुरुषा मूर्खप्रकृतयः पुरे॥
पृ63.2ab पुनर्वसौ निविष्टे तु नगरं दीप्यते श्रिया।
पृ63.2cd प्रभूत^धन^धान्यं च भूत्वा वा^अपि विनश्यति॥
पृ63.3ab स्रीमत्पुष्ये निविष्टे तु प्रजा दुष्टा प्रसीदति।
पृ63.3cd युक्ताः श्रिया च धर्मिष्ठास् तथिव चिरजीविनः॥
पृ63.4ab तेजस्विनश् च दीर्घायुर्^धन^धान्य^रसान्विताः।
पृ63.4cd वनस्पतिस् तथा क्षिप्रं पुष्येत् तत्र पुनः पुनः॥
पृ63.5ab अश्लेषायां निविष्टे तु दुर्भगाः कलह^प्रियाः।
पृ63.5cd दुःशीला दुःखभाजश् च निवसन्ति नराधमाः॥
पृ63.6ab मघायां च निविष्टे तु विद्यावन्तो महा^धनाः।
पृ63.6cd स्वदारा^अभिरता मर्त्या जायन्ते सुपराक्रमाः॥
पृ64.1ab फल्गुन्यां तु स्त्रियो माल्यं भोजनाच्छादनं शुभं।
पृ64.1cd गन्धोपेतानि धन्यानि निविष्टे नगरे भवेत्॥
पृ64.2ab उत्तरायां तु फाल्गुन्यां धान्यानि च धनानि च।
पृ64.2cd मूर्खा जना जिताः स्त्रीभिर् निविष्टे नगरे भवेत्॥
पृ64.3ab हस्ते च विनिविष्टे तु विद्यावन्तो महा^धनाः।
पृ64.3cd परस्परं च रुचितं शयनं नगरे भवेत्॥
पृ64.4ab चित्रायां च निविष्टे तु स्त्री^जिताः सर्व^मानवाः।
पृ64.4cd श्रीमत्^कान्तं च नगरं ज्वलन्तं तद् विनिर्दिशेत्॥
पृ64.5ab स्वात्यां पुरे निविष्टे तु प्रभूत^धन^सञ्चयाः।
पृ64.5cd लुब्धाः क्रूराश् च मूर्खाश् च प्रभूता नगरे भवेत्॥
पृ64.6ab विशाखायां निविष्टं तु नगरं ज्वलति श्रिया।
पृ64.6cd यायजूकजनाकीर्णं शस्त्रान्तं च विनिर्दिशेद्॥
पृ64.7ab अनुराधानिविष्टे तु धर्म^शीला जितेन्द्रियाः।
पृ64.7cd स्वदारनिरताः पुण्या जपहोमपरायणाः॥
पृ65.1ab ज्येष्ठायां सन्निविष्टं तु बहु^रत्नधनान्वितैः।
पृ65.1cd सत्त्वैर् वेद^विदैः पूर्णं शश्वत्समभिवर्धते॥
पृ65.2ab मूलेन सनिविष्टं तु पुरं धान्य^धनान्वितं।
पृ65.2cd दुःशीलजन^सङ्कीर्णं पांसुना च विनश्यति॥
पृ65.3ab पूर्वाषाढानिविष्टं तु पुरं स्याद् धन^धान्य^भाक्।
पृ65.3cd लुब्धाः क्रूराश् च मूर्खाश् च निवसन्ति नराधमाः॥
पृ65.4ab निविष्टे तूत्तरायां च धन^धान्य^समुच्चयः।
पृ65.4cd विद्याप्रकृतिसम्पन्नो जनश् च कलह^प्रियः॥
पृ65.5ab अभिजिति निविष्टे तु नगरे तत्र मोदिताः।
पृ65.5cd नराः सर्वे सदा हृष्टाः परस्परानुरागिणः॥
पृ65.6ab श्रवणायां निविष्टं तु पुरं धान्य^धनान्वितं।
पृ65.6cd अरोगिजन^भूयिष्ठसहितं तद् विनिर्दिशेत्॥
पृ65.7ab धनिष्ठायां निविष्टं तु स्त्री^जितं पुरम् आदिशेत्।
पृ65.7cd प्रभूत^वस्त्रमाल्यं च काम^भोग^विविर्जितम्॥
पृ65.8ab पुरे शतभिषा^युक्त मूर्खशाठ्य^प्रिया जहाः।
पृ65.8cd स्त्रीषु पानेषु संसक्ताः सलिलेन विनश्यति॥
पृ66.1ab पुरे प्रोष्ठपदाध्यक्षे नरास् तत्र सुख^प्रियाः।
पृ66.1cd परोपतापिनो मूर्खा मानकामविवर्जिताः॥
पृ66.2ab उत्तरायां निविष्टे तु शश्वद्वृद्धिर् अनुत्तरा।
पृ66.2cd पूर्णं च धन^धान्याभ्यां रत्नाढ्यं च विनिर्दिशेत्॥
पृ66.3ab पुरे निविष्टे रैवत्यां सुन्दरी जनता भवेत्।
पृ66.3cd खरोष्ट्रं च^एव गावश् च प्रभूत^धन^धान्यता॥
पृ66.4ab अश्विन्यां विनिविष्टं तु नगरं शिवम् आदिशेत्।
पृ66.4cd अरोगिजन^सम्पूर्णं दर्शनीयजनाकुलम्॥
पृ66.5ab भरण्यां सन्निविष्टे तु दुर्भगाः कलह^प्रियाः।
पृ66.5cd दुःशीला दुःखभाजश् च वसन्ति पुरुषाधमाः॥
पृ66.6ab पुराणि राष्ट्रणि तथा गृहाणि नक्षत्र^योगं प्रसमीक्ष्य विद्वान्।
पृ66.6cd इष्टे प्रशस्ते च निवेशयेत् तु पूर्वे च जन्मेऽधिगतं मयेदं॥
पृ67.1 अयं भोः पुष्करसारिन् नक्षत्र^निर्देशो नाम^अध्यायः। %नक्षत्राणां स्थान^निर्देशः それぞれの星宿に支配される国や地方のリスト(方位との関係付けはない。)
पृ67.2 अथ खलु भोः पुष्करसारिन्न् अष्टाविंशतीनां(28宿) नक्षत्राणां स्थान^निर्देशं नाम^अध्यायं प्रवक्ष्यामि। एतच् छ्रूयतां।
पृ67.3 कथयतु भगवान्।
पृ67.4 कृत्तिका भोः पुष्करसारिन् नक्षत्रं कलिङ्ग^मगधानां । रोहिणी सर्व^प्रजायाः। मृगशिरा विदेहानां राजोपसेवकानां च। एवम् आर्द्रा क्षत्रियाणां ब्राह्मणानं च। पुनर्वसुः सौपर्णानां। पुष्य^नक्षत्रं सर्वेषाम् अवदात^वदात^वसनानां। राज^पदसेवकानां च। अश्लेषा नागानां हैमवतानां च। मघा^नक्षत्रं गौडिकानां। पूर्वफल्गुनी चौराणां। उत्तरफल्गुनी अवन्तीनां। हस्ता सौराष्ट्रिकाणां। चित्रा पक्षिणां द्विपदानां। स्वाती सर्वेषां प्रव्रज्यासमापन्नानां। विशाखा औदकानां। अनुराधा वाणिजकानां शाकटिकानां च। ज्येष्ठा दौवालिकानां। (68) मूला पथिकानां। पूर्वाषाढा वाह्लीकानां च। उत्तराषाढा काम्बोजानां। अभिजित् सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च। श्रवणा घादकानां चौराणां च। धनिष्ठा कुरु^पाञ्चालानां। शतभिषा मौलिकानाम् आर्थवणिकानां च। पूर्वभाद्रपदा गन्धिकानां यवन^काम्बोजानां च। उत्तरभाद्रपदा गन्धर्वाणां। रेवती नाविकानां च। अश्विनी अश्ववाणिजानां च। भरणी भद्रपदकर्मणां भद्रकायाकानां च।
पृ68.1 अयं भोः पुष्करसारिन् नक्षत्राणां स्थान^निर्देश^व्याकरणो नाम^अध्यायः। %ऋतुवर्षः 月がそれぞれの星宿に入った時に夏(ग्राष्म)の最後の月に初雨があった時の国への影響
पृ68.2 पठ भोस् त्रिशङ्को ऋतुवर्षं नाम^अध्यायं। तद् अहं वक्ष्ये श्रूयतां। कथयतु भगवान्।
पृ68.3 कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। वर्षो दश^रात्रिकः। श्रवणायुक्तप्रोष्ठपदायाम् अग्नोदको वर्षारात्रो भवति। पश्चाद् वर्षं संजनयति। हेमन्ते ग्रीष्मे ग्रीणि च^अत्र (69) भय^प्रग्रहाणि भवन्ति। अग्नि^भयं शस्त्र^भयं च^उदक^भयं च भवति। उक्तं कृत्तिकासु।
पृ69.1 रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति। द्वौ च^अत्र रोगौ प्रबलौ भवतः। कुक्षिरोगश् चक्षूरोगश् च। चौर^बहुलाश् च^अत्र दिशो भवन्ति। उक्तं च रोहिण्यां।
पृ69.2 मृगशिरसि ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। सारोपरोधो वर्षारात्रः। पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् च^अत्र (70) राजानो भवन्ति। क्षेमिणः सुनीतिकाश् च दिशो भवन्ति। मुदिताश् च^अत्र जनपदा भवन्ति। उक्तं मृगशिरसि।
पृ70.1 आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टादशाढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। निधयश् च रक्षयितव्याः। चौर^बहुलाश् च^अत्र दिशो भवन्ति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। त्रयश् च^अत्र रोगाः प्रबला भवन्ति। ज्वरः श्वासो गलग्रहश् च। बालानां दारकदारिकाणां च मरणं भवति। इत्य् उक्तम् आर्द्रायां।
पृ70.2 पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति। नवत्याढकानि प्रवर्षति। महा^मेघान् उत्पादयति। आषाढायां प्रविष्टायां मृदूनि प्रवर्षति। अनन्तरं च निरन्तरेण प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। उक्तं पुनर्वसौ।
पृ71.1 पुष्ये ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति द्वात्रिंशदाढकानि प्रवर्षति। अत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। व्यक्तं प्रधान^वर्षाणि भवन्ति। सस्यं च निष्पादयति। ब्राह्मण^क्षत्रियाणां च विरोधो भवति। दंष्ट्रिणश् च^अत्र प्रबला भवन्ति। तत्र त्रयो रोगाश् च भवन्ति। गण्डाः पिटकाः पामानि च । इत्य् उक्तं पुष्ये।
पृ71.2 अश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। विषमाश् च वायवो वान्ति। संविग्नाश् च^अत्र ज्ञानिनो राजानश् च भवन्ति। एषो वर्षः सर्व^सस्यानि सम्पादयति। जायापतिकानां राजामात्यानां च विरोधो भवति। उक्तम् अश्लेषायां।
पृ71.3 मघायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि (72) प्रवर्षति। एषो वर्षः सर्व^सस्यानि सम्पादयति। मृगपक्षिपशुमनुष्याणां च^अत्र गर्भा विनश्यन्ति। जन^मरणं च^अत्र भविष्यति^इति। उक्तं मघायां।
पृ72.1 पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। एषो वर्षः सर्व^सस्यानि सम्पादयति। तच् च सस्यं जनयित्वा पर^चक्र^पीडिता मनुष्या न सुखेनोपभुञ्जते। पशूनां मणुष्याणां च^अत्र गर्भाः सुखिनो भवन्ति। उक्तं पूर्वफल्गुन्यां।
पृ72.2 उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि प्रवर्षति। एषो वर्षः सर्व^सस्यानि च सम्पादयति। निक्षिप्तशस्त्राश् च^अत्र राजानो भवन्ति। ब्रह्म^क्षत्रिययोश् च विरोधो भवति। क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति। च^उक्तम् उत्तरफल्गुन्यां।
पृ72.3 हस्ते ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकोनपञ्चाशदाढकानि (73) प्रवर्षति। देवश् च तद् यथा परिक्षिपति। पतितानि च सस्यानि जनस्यारसाग्राणि अनुदग्राणि अल्प^साराण्य् अल्पोदकानि। दुर्भिक्षश् च^अत्र भविष्यति। उक्तं हस्ते।
पृ73.1 चित्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। सारोपरोधस् ततः पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। मुदिताश् च^अत्र जनपदा भवन्ति। उक्तं चित्रायां।
पृ73.2 स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। चौराश् च^अत्र बलवत्तरा भवन्ति। उक्तं स्वात्यां।
पृ73.3 विशाखायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि (74) प्रवर्षति। एषा वर्षः सर्व^सस्यानि सम्पादयति। राजानश् च^अत्र छिद्र^युक्ता भवन्ति। अग्निदाहाश् च^अत्र प्रबला भवन्ति। दंष्ट्रिणश् च^अत्र बलवन्तोऽपि क्षयं गच्छन्ति। उक्तं विशाखायां।
पृ74.1 अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। मित्राणि च^अत्र दृढानि भवन्ति। उक्तम् अनुराधायां।
पृ74.2 ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि प्रवर्षति। तत्र कृषि^कर्मान् तानि प्रतिसंहर्तव्यानि। युगवरत्राणि वर्जयितव्यानि। स्वधान्यानि उपसंहर्तव्यानि। अग्नयः प्रतिसंहर्तव्याः। लाङ्गलानि प्रतिसंहर्तव्यानि। अवश्यम् अनेन जनपदेन विनष्टव्यं भवति। पर^चक्र^पीडितो भवति। उक्तं ज्येष्ठायां।
पृ74.3 मूले ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुषष्ट्याढकानि (75) प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। चौर^बहुलाश् च^अत्र दिशो भवन्ति। त्रयश् च^अत्र व्याधयो बलवन्तो भवन्ति। वात^गण्डः पार्श्वशूलम् अक्षिरोगश् च। पुष्प^फलानि च^अत्र समृद्धानि भवन्ति। निक्षिप्तशस्त्राश् च^अत्र राजानो भवन्ति। उक्तं मूले।
पृ75.1 पूर्वस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। द्वौ च^अत्र ग्राहौ भवतः । प्रोष्ठपदे वाऽश्वयुजौ वा पक्षे। एषो वर्षः सर्व^सस्यानि सम्पादयति। द्वौ च^अत्र रोगौ प्रबलौ भवतः। कुक्षिरोगोऽक्षिरोगश् च । उक्तं पूर्वाषाढायां।
पृ75.2 उत्तरस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि परिवर्जयितव्यानि। महा^स्रोतांसि च^अत्र प्रवहन्ति। अग्रोदका च^अत्र वर्षा भवति। सर्व^सस्यानि निष्पादयति। त्रयश् च^अत्र रोगाः प्रबला भवन्ति। गण्डः कच्छः कण्ठ^रोग इति। उक्तम् उत्तराषाढायाम्॥
पृ75.3 अभिजिति ग्रीष्माणां पश्चिमे मासे यद्य् अत्र प्रवर्षति चतुःषष्ट्य्^आढाकानि (76) प्रवर्षति। मण्डलवर्षं च देवः प्रवर्षति। पश्चाद् वर्षः सस्यं जनयति। औदकानां भूतानाम् उत्सर्गो भवति। उक्तम् अभिजिति।
पृ76.1 श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुष्षष्ट्याढकानि प्रवर्षति। मण्डलवर्षं च देवो वर्षति। पश्चाद् वर्षा सस्यं सम्पादयति। औदकानां भूतानाम् उत्सर्गो भवति। व्याधि^बहुलाश् च नरा भवन्ति। राजानश् च तीव्र^दण्डा भवन्ति। उक्तं श्रवणे।
पृ76.2 धनिष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^पञ्चाशदाढकानि प्रवर्षति। विभक्ताश् च^अत्र वर्षा भवन्ति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। दुर्मुखो रात्रौ वर्षो भवति। सस्यानि सम्पादयति। एकश् च^अत्र रोगो भवति। गण्ड^विकारः। शस्त्र^समादानाश् च राजानो भवन्ति। उक्तं धनिष्ठायां।
पृ76.3 शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि (77) प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषो वर्षः सर्व^सस्यानि सम्पादयति। चक्र^समारूढा जनपदा भवन्ति। मनुष्या दारकदारिकाश् च स्कन्धे कृत्वा देश^अन्तरं गच्छन्ति। उक्तं शतभिषायं।
पृ77.1 पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। वर्षामुखे च^अत्र एकोनविंशति रात्रिकोऽवग्रहो भवति। पुष्प^सस्यं च नाशयति। एताश् च वर्षा बहु^चौरा भवन्ति। द्वौ च^अत्र महा^व्याधी भवतः। प्रथमं पित्ततापज्वरो भवति। पश्चाद् बलवान् महा^ग्रहो भवति। मर्त्यानां नारीणां च मरणं भवति। उक्तं पूर्वभाद्रपदायां।
पृ77.2 उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। महा^स्रोतांसि प्रवहन्ति। ग्राम^नगर^निगमाः स्रोतसा उह्यन्ते। चत्वारश् च^अत्र व्याधयः प्रबला भवन्ति। तद् यथा कुक्षिरोगोऽक्षिरोगः (78) काशो ज्वरश् चेति। बालानां दारकदारिकाणां मरणां भवति। अत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि परिवर्जयितव्यानि। एताश् च वर्षाः पुष्पाणि फलानि च सम्पादयन्ति। उक्तम् उत्तरभाद्रपदायां।
पृ78.1 रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^षष्ट्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा परिभुञ्जते। निक्षिप्तशस्त्र^दण्डाश् च राजानो भवन्ति। अनुद्विग्नाश् च जनपदा भवन्ति। उद्विग्नाश् च दानपतयो भवन्ति। देव^नक्षत्र^समायुक्ताश् च जनपदा भवन्ति। मित्राणि समायुक्तानि भवन्ति। उक्तं रेवत्यां।
पृ78.2 अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टचत्वारिंशदाढकानि प्रवर्षति। यच् च मध्ये वर्षा भवति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा वर्षा सर्व^सस्यानि सम्पादयति। (79) भय^समायुक्ताश् च^अत्र जनपदा भवन्ति। चौराश् च प्रबला भवन्ति। उक्तम् अश्विन्यां।
पृ79.1 भरण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि परिवर्जयितव्यानि। दुर्भिक्षस् च^अत्र भवति। जरामरणं जनानां भवति। राजानश् च^अत्र अन्योन्यघातका भवन्ति। पुत्रपौत्राणां च कलहो भवति। उक्तं भरण्यां।
पृ79.2 अयं घोः पुष्करसारिन् नक्षत्र^र्तुवर्षाध्यायः॥ % राहुग्रहे फलविपाकः それぞれの星宿での月食が何を起こすか
पृ79.3 अमीषां भोः पुष्करसारिन्न् अश्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि।
पृ79.4 कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्र^ग्रहो भवति कलिङ्गमगधानाम् उपपीडा भवति। यदि रोहिण्यां चन्द्र^ग्रहो भवति प्रजानाम् उपपीडा भवति। यदि मृगशिरसि चन्द्र^ग्रहो भवति विदेहानां जनपदानाम् उपपीडा भवति। राजोपसेवकनां च। एवम् आर्द्रायां पुनर्वसौ पुष्ये च वक्तव्यं। अश्लेषायां यदि चन्द्र^ग्रहो भवति नागानां हैमवतानां च पीडा भवति। यदि मघासु चन्द्र^ग्रहो भवति गौडिकानाम् उपपीडा भवति। यदि पूर्वफल्गुन्यां सोमो गृह्यते चौराणाम् उपपीडा (80) भवति। यद्य् उत्तरफल्गुन्यां सोमो गृह्यतेऽवन्तीनाम् उपपीडा भवति। यदि हस्तेषु सोमो गृह्यते सौराष्ट्रिकाणाम् उपपीडा भवति। यदि चित्रायां सोमो गृह्यते पक्षिणां द्विपदानां च पीडा भवति। यदि स्वात्यां सोमो गृह्यते सर्वेषां प्रव्रज्यासमापन्नानाम् उपपीडा भवति। यद्य् अनुराधासु सोमो गृह्यते वणिजानाम् उपपीडा भवति शाकटिकानां च। यदि ज्येष्ठायां सोमो गृह्यते दौवालिकानां पीडा भवति। यदि मूले सोमो गृह्यतेऽध्वगानां पीडा भवति। यदि पूर्वाषाढायां सोमो गृह्यतेऽवन्तीनां पीडा भवति। यद्य् उत्तराषाढायां सोमो गृह्यते काम्बोजकानां पीडा भवति। बाह्लीकानां च। यद्य् अभिजिति सोमो गृह्यते दक्षिणापथिकानां पीडा भवति। ताम्रपर्णिकानां च। यदि श्रवणेषु सोमो गृह्यते चौराणां घातकानां च^उपपीडा भवति। यदि धनिष्ठायां सोमो गृह्यते कुरुपाञ्चालनां पीडा भवति। यदि शतभिषायां सोमो गृह्यते मौलिकानाम् आथर्वणिकानां च पीडा भवति। यदि पूर्वभाद्रपदायां सोमो गृह्यते गान्धिकानां यवन^काम्बोजकानां च पीडा भवति। यद्य् उत्तरभाद्रपदायां सोमो गृह्यते (81) गन्धर्वाणां पीडा भवति। यदि रेवत्यां सोमो गृह्यते नाविकानां पीडा भवति। यद्य् अश्च्विणिजानां पीडा भवति। यदि भरण्यां सोमो गृह्यते भरुकच्छानां पीडा भवति।
पृ81.1 एवं भोः पुष्करसारिन् नक्षत्रे चन्द्र^ग्रहो भवति तस्य तस्य देशस्य पीडा भवति। इत्य् उक्तो राहुग्रहफलविपाकाध्यायः। % नक्षत्रकर्म^निर्देशः 月がそれぞれの星宿に入った時に行うべき仕事
पृ81.2 प्रति^नक्षत्र^वंशशास्त्रे यथोक्तं कर्म तच् छृणु।
पृ81.3ab उच्यमानम् इदं विप्र;ऋषीणां वचनं यथा।
पृ81.3cd षट्तारां कृत्तिकां विद्याद् आश्रयं तासु कारयेत्।
पृ81.3ef अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश् च यः॥
पृ81.4ab सर्पिर्विलोडयेत् तत्र गवां वेश्म च कारयेत्।
पृ81.4cd अजैडकाश् च क्रेतव्या गवां च वृषम् उत्सृजेत्॥
पृ81.5ab अश्मसारमयं भाण्डं सर्वम् अत्र तु कारयेत्।
पृ81.5cd हिरण्यकारकर्म^अन्तमिष्व् अस्त्रं च^उपकारयेत्॥
पृ81.6ab मेतृको मापयेद् अत्र कुटिकाग्निनिवेशनं।
पृ81.6cd पीतलोहित^पुष्पाणां बीजान्य् अत्र तु घापयेत्॥
पृ82.1ab गृहं च मापयेत् अत्र तथाऽवासं प्रकल्पयेत्।
पृ82.1cd नवं च छादयेद् वस्त्रं क्रयणं न^अत्र कारयेत्॥
पृ82.2ab क्रूरकर्माणि सिध्यन्ति युद्धसंरोधबन्धनम्।
पृ82.2cd परपीडाम् अथात्रैव विद्वान् नैव प्रयोजयेत्॥
पृ82.3ab शस्त्राणि क्षुरकर्माणि सर्वाण्य् अत्र तु कारयेत्।
पृ82.3cd तेजसानि च भाण्डानि कारयेच् च क्रीणीत च॥
पृ82.4ab आयुष्यं च शिरः^स्नानां स्त्रीणां विष्कम्भणानि च।
पृ82.4cd प्रवर्षणं चेद् देवस्य न^अत्र वैरं प्रशाम्यति॥
पृ82.5ab क्रोधनो हर्षणः शूरस् तेजस्वी साहस^प्रियः।
पृ82.5cd आयुष्मांश् च यशस्वी च यज्ञ^शीलोऽत्र जायते॥कृत्तिकासु
पृ82.6ab सर्वं कृषि^पदं कर्म रोहिण्यां संप्रयोजयेत्।
पृ82.6cd क्षेत्रवस्तुविहारांश् च नवं वेश्म च कारयेत्॥
पृ82.7ab प्रयोजयेच् चक्रान् वारान् दासांश् च^एव गृहे पशून्।
पृ82.7cd वापयेत् सर्वबीजानि ध्रुवं वासांसि कारयेत्॥
पृ83.1ab ऋणं न दद्यात् तत्र^एव वैरम् अत्र तु वर्धते।
पृ83.1cd संग्रामं च सुरायोगं द्वयम् एव विवर्जयेत्॥
पृ83.2ab प्रवर्षणं च देवस्य जन्म च^अत्र प्रशस्यते।
पृ83.2cd सानुक्रोशः क्षमायुक्तः स्त्री^कामो भक्षलोलुपः।
पृ83.2ef आयुष्मान् पशुमान् धन्यो महा^भोगोऽत्र जायते॥रोहिण्यां॥
पृ83.3ab सौम्यं मृगशिरो विद्याद् ऋजु तिस्रश् च तारकाः।
पृ83.3cd मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत्।
पृ83.3ef यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत्॥
पृ83.3ab सक्षीरान् वापयेद् वृक्षान् बीजानि क्षीरवन्ति च।
पृ83.3cd राज^प्रासादवलभीछत्राण्य् अपि च कारयेत्॥
पृ83.4ab सर्वकर्मकथाः कुर्याच् चर्यावासान् न कारयेत्।
पृ83.4cd उष्ट्रांश् च बलीवर्दांश् च दमयेद् अपि कृष्टये॥
पृ83.5ab आच्छादयेन् नवं वासश् च^अलङ्कारं च कारयेत्।
पृ83.5cd द्विजातीनां तु कर्माणि सर्वाण्य् एवात्र कारयेत्॥
पृ83.6ab प्रवर्षणं च देवस्य सुवृष्टिं च^अत्र निर्दिशेत्।
पृ83.6cd स्वप्नशीलस् तथा त्रासी मेधावी स च जायते॥मृगशिरसि॥
पृ84.1ab आर्द्रायां मृगयेद् अर्थान् भद्रं कर्म च कारयेत्।
पृ84.1cd क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत्॥
पृ84.2ab उदपान^परीखांश् च तडागान्य् अत्र कारयेत्।
पृ84.2cd ऊहेत(ऊहयेत्) प्रथमां वृष्टिं विक्रीणीयाच् च न^अत्र गां।
पृ84.2ef तिल^पीडानि कर्माणि शौण्डिकानां तथापणं॥
पृ84.3ab पीडयेद् इक्षुदण्डानि; इक्षुबीजानि वापयेत्।
पृ84.3cd प्रवर्षणं च देवस्य विद्याद् बहु^परिस्रवं।
पृ84.3ef क्रोधनो मृगयाशीलो माम्सकामोऽत्र जायते॥आर्द्रायां॥
पृ84.4ab पुनर्वसौ तु युक्तेऽत्र कुर्याद् वै व्रत^धारणं।
पृ84.4cd गोदानं च^उपनायनं सर्वम् अत्र प्रसिध्यति॥
पृ84.5ab प्रजायमानां प्रमदां गृहीत्वा गृहम् आनयेत्।
पृ84.5cd पुनः पुनर् यदीच्छेत तत्र कर्माणि कारयेत्॥
पृ85.1ab चिकित्सनं न कुर्वीत यदीच्छेन् न पराभवं।
पृ85.1cd प्रवर्षणं च देवस्य जन्म च^अत्र प्रशस्यते॥
पृ85.2ab अलीलश् च^अत्र जायेत स्त्री^लोलश् च^अपि मानवः।
पृ85.2cd चित्र^शीलश् च नैकत्रार्पितचित्तः स; उच्यते॥पुनर्वसौ॥
पृ85.3ab धन्यं यशस्यम् आयुष्यं पुष्ये नित्यं प्रयोजयेत्।
पृ85.3cd सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
पृ85.4ab राजामात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत्।
पृ85.4cd राजानम् अभिपिञ्चेद् च; अलंकुर्यात् स्वकां तनु॥
पृ85.5ab श्मश्रुकर्माणि कुर्याच् च वपनं नखलोमतः।
पृ85.5cd पुरोहितं च कुर्वीत ध्वज^अग्रं च प्रकारयेत्॥
पृ85.6ab प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत्।
पृ85.6cd न च रोगो न चौरश् च क्षेमं च^अत्र सदा भवेत्॥
पृ85.7ab पुष्येण नित्य^युक्तः सन् सर्वकर्माणि साधयेत्।
पृ85.7cd वैरेणात्रोपनाहैश् च ये जनास् तान् विवर्जयेत्।
पृ85.7ef आयुष्मांश् च यशस्वी च महा^भोगः प्रजायते॥पुष्ये॥
पृ86.1ab सिध्यते दारुणं कर्म; अश्लेषायां च कारयेत्।
पृ86.1cd कुर्याद् आभरणान्य् अत्र प्राकारम् उपकल्पयेत्॥
पृ86.2ab देहबन्धं नदी^बन्धं सन्धिकर्म च कारयेत्।
पृ86.2cd प्रभूत^दंशमशकं वर्षं मन्दं च वर्षति।
पृ86.2ef क्रोधनः स्वप्नशीलश् च कुहकश् च^अत्र जायते॥अश्लेषायां॥
पृ86.3ab मघासु सर्वधान्यानि वापयेत् संहरेद् अपि।
पृ86.3cd संघातकर्म कुर्वीत सुमुखं च^अत्र कारयेत्॥
पृ86.4ab कोष्ठ^आगाराणि कुर्वीत फलं च^अत्र निवेशयत्।
पृ86.4cd सर्वदा पितृदेवेभ्यः श्राद्धं चैव^अत्र कारयेत्॥
पृ86.5ab सस्यानां बहुली^भावो यदि देवोऽत्र वर्षति।
पृ86.5cd सुहृच् च द्वारिकश् च^एव रस^कामश् च जायते।
पृ86.5ef आयुष्मान् बहु^पुत्रश् च स्त्री^कामो भक्त^लोलुपः॥
पृ86.6ab संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तते।
पृ86.6cd दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत्॥मघासु॥
पृ87.1ab फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत्।
पृ87.1cd विशेषाद् आमलक्यादि फलानाम् उपकारयेत्॥
पृ87.2ab कुमारीमङ्गलार्थानि स्नापनानि च कारयेत्।
पृ87.2cd कन्या^प्रवहनार्थाय विहारं च^एव कारयेत्॥
पृ87.3ab वेश्मानि कारयेत् तत्र वश्य(वैश्य)म् अत्र प्रयोजयेत्।
पृ87.3cd भागं ये च^उपजीवन्ति तेषां कर्म प्रयोजयेत्॥
पृ87.4ab अव्यक्तकेशोऽकेशः सुभगश् च^अत्र जायते।
पृ87.4cd प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
पृ87.4ef नष्टं विद्धं कृतं च^अपि न तद् अस्ति^इति निर्दिशेत्॥पूर्वफल्गुन्यां॥
पृ87.5ab उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत्।
पृ87.5cd मेधावी दर्शनीयश् च यशस्वी च^अत्र जायते॥
पृ87.6ab अथात्र नष्टं दग्धं वा सर्वम् अस्ति^इति निर्दिशेत्।
पृ87.6cd प्रवर्षणं च देवस्य विद्यात् संपदनुत्तमां॥उत्तरफल्गुन्यां॥
पृ88.1ab हस्तेन लघु^कर्माणि सर्वाण्य् एव प्रयोजयेत्।
पृ88.1cd सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
पृ88.2ab हस्त्यारोहं महा^मात्रं पुष्करिणीं च कारयेत्।
पृ88.2cd चौर्यं च सिध्यते तत्र तच् च विद्वान् विवर्जयेत्॥
पृ88.3ab प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत्।
पृ88.3cd अथात्र जातं जानीयाच् छूरं चौरं विचक्षणं।
पृ88.3ef कुशलं सर्वविद्यासु; आरोगं चिरजीविनं॥हस्ते॥
पृ88.4ab चित्रायाम् आहतं वस्त्रं भूषणानि च कारयेत्।
पृ88.4cd राजानं भूषितं पश्येत् सेनाव्यूहं च दर्शयेत्॥
पृ88.5ab हिरण्यं रजतं द्रव्यं नगराणि च मापयेत्।
पृ88.5cd अलङ्कुर्यात् तथात्मानं गन्ध^माल्यविलेपनैः॥
पृ88.6ab गणकानां च विद्यां च वाद्यं नर्तनगायनं।
पृ88.6cd पूर्विकां रूपकारांश् च रथकारांश् च शिक्षयेत्।
पृ88.6ef चित्र^करांश् च लेखकान् पुस्तकर्म च कारयेत्॥
पृ89.1ab प्रवर्षणं च देवस्य चित्र^वर्षं विनिर्दिशेत्।
पृ89.1cd मेधावी दर्शनीयश् च चित्राक्षो भक्त^लोलुपः॥
पृ89.2ab मृदु^शीलश् च भीरुश् च चलचित्तः कुतूहली।
पृ89.2cd आयुष्मान् सुभगश् च^एव स्त्री^लोलश् च^अत्र जायते॥चित्रायां॥
पृ89.3ab स्वात्यां प्रयोजयेद् योधान् अश्वान् अश्वतरीं खरान्।
पृ89.3cd क्षिप्रं गमनीयं भक्ष्यं लङ्घकान् अध्वमानिकान्॥
पृ89.4ab भेरीमृदङ्गपणवान् मुरजान् च^उपनाहयेत्।
पृ89.4cd आवाहंश् च विवाहंश् च सौहृद्यं च^अत्र कारयेत्॥
पृ89.5ab निर्वासनम् अमित्राणां स्वयं न प्रवसेद् गृहात्।
पृ89.5cd प्रवर्षणं च देवस्य वात^वृष्टिर् अभीक्ष्णशः।
पृ89.5ef मेधावी रोग^बहुलश् चलचित्तश् च जायते॥स्वातौ॥
पृ89.6ab लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत्।
पृ89.6cd यवगोधूमकर्म^अन्तान् शमीधान्यं च वर्जयेत्॥
पृ89.7ab शालयस् तिल^माषाश् च ये च वृक्षाः सुशाखिनः।
पृ90.1ab रोपयेत् तान् विशाखासु गृहकर्म च कारयेत्।
पृ90.1cd शिरः^स्नानानि कुर्वीत मेध्यं प्रायश् च कारयेत्॥
पृ90.2ab प्रवर्षणं च देवस्य विद्यात् कल्प^परिस्रवं।
पृ90.2cd मनस्वी दर्शनीयश् च मेधावी च^अत्र जायते।
पृ90.2ef क्रोधनोऽल्पसुतश् च^एव दुर्भगो भक्त^लोलुपः॥विशाखासु॥
पृ90.3ab अनुराधासु कुर्वीत मित्रैः सद्भिश् च सङ्गतिं।
पृ90.3cd सर्वाणि मृदु^कर्माणि माधुर्यं च^अत्र कारयेत्॥
पृ90.4ab क्षौरं च कारयेत् अत्र शस्त्र^कर्माणि कारयेत्।
पृ90.4cd संयुक्तान्तप्रयोगांश् च सन्धिं कुर्याच् च नित्यशः।
पृ90.4ef नष्टं पर्युपतप्तं वा स्वल्पायसेन(यासंवि)निर्दिशेत्॥
पृ90.5ab सुहृन्मित्रकृतश् च^अत्र धर्म^शीलश् च जायते।
पृ90.5cd प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥अनुराधायां॥
पृ90.6ab ज्येष्ठायां पूर्व^कारी स्याद् राजानं च^अभिषिञ्चयेत्।
पृ90.6cd नगरं निगमं ग्रामं मापयेद् आरभेत च।
पृ90.6ef क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत्॥
पृ91.1ab भ्रातृणां भवति ज्येष्ठो ज्येष्टायां योऽभिजायते।
पृ91.1cd आयुष्मांश् च यशस्वी च विद्वत्सु च कुतूहली॥
पृ91.2ab प्रासादम् आरोहेच् च^अत्र गजम् अश्वं रथं तथा।
पृ91.2cd ग्राम^निगमराष्ट्रेषु स्थापयेच् छ्रेष्ठिनां बलं॥
पृ91.3ab नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत्।
पृ91.3cd दारुणान्य् अत्र सिध्यन्ति तानि विद्वान् विवर्जयेत्।
पृ91.3ef प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥ज्येष्ठायां॥
पृ91.4ab मूले तु मूलजातानि मूलकन्दालुकान्य् अपि।
पृ91.4cd सूलाद्यानि च सर्वाणि बीजान्य् अत्र प्रयोजयेत्॥
पृ91.5ab ऋणं वै यत् पुराणं स्याद् अर्थो च^अस्याग्रतः स्थितः।
पृ91.5cd मूले सिद्धर्थम् आरभ्यं तथा सर्वं वराङ्गकं॥
पृ91.6ab चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः।
पृ91.6cd नदीषु स्नपनं च^एव मूले सर्वान् प्रयोजयेत्॥
पृ92.1ab दारुणान्य् अत्र सिध्यन्ति मङ्गलानि च कारयेत्।
पृ92.1cd किण्वयोगान् सुरायोगान् न कुर्याच् छत्रुभिः सह॥
पृ92.2ab धन^वान् बहु^पुत्रश् च मूलवान् अत्र जायते।
पृ92.2cd अथात्र नष्टं दग्धं वा नैतद् अस्ति^इति निर्दिशेत्।
पृ92.2ef प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥मूले॥
पृ92.3ab आषाढायां च पूर्वस्यां सरितश् च सरांसि च।
पृ92.3cd वापीकूपप्रपाश् च^एव तडागानि च कारयेत्॥
पृ92.4ab उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च।
पृ92.4cd आरामांश् च प्रकुर्वीत भैक्षकांश् च प्रयोजयेत्।
पृ92.4ef यानि च^उग्राणि कर्माणि सिध्यन्त्य् अत्र तु तानि च॥
पृ92.5ab नष्टं पर्युपतप्तं वा नैतद् अस्ति^इति निर्दिशेत्।
पृ92.5cd आयुष्मान् पुण्यशीलश् च दर्शनीयोऽत्र जायते॥पूर्वाषाढे॥
पृ92.6ab उत्तरस्याम् आषाढायां वैराणि न समाचरेत्।
पृ92.6cd वाययेत् सर्ववासांसि नवं नाच्छादयेद् इति॥
पृ93.1ab न संहरेद् भेदयेद् वा वास्तुकर्म न सिध्यति।
पृ93.1cd शालाकर्म गव^आदीनां ग्रामे ग्रामणिनस् तथा।
पृ93.1च् श्रेणविन्धं च राजा नु समयं च^अत्र कारयेत्॥
पृ93.2ab प्रगल्भश् च सभाशीलः कृती च^अत्र प्रजायते।
पृ93.2cd सुहृदाम् अभियोगी च मन्त्र^भाष्ये विचक्षणः॥
पृ93.3ab नष्टं वा^अप्य् उपतप्तं वा; अस्तीत्य् एवं विनिर्दिशेत्।
पृ93.3cd प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तराषाढायां॥
पृ93.4 अभिजिति न कुर्वीत ब्रह्म^देवस्य ह्य् अर्चनं॥अभिजिति॥%ひどく簡単、追加では?
पृ93.5ab श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः।
पृ93.5cd गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति॥
पृ93.6ab कर्णयोर् वेधनं कुर्याद् राजानं च^अभिषिञ्चयेत्।
पृ93.6cd द्विजातीनां तु कर्माणि सर्वाण्य् एव प्रयोजयेत्॥
पृ94.7ab बलि^कृत्यानि कुर्वीत दर्शयेच् च बलान्य् अपि।
पृ94.7cd मेधावी अरोगी बलवान् यज्ञ^शीलोऽत्र जायते॥
पृ94.8ab प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
पृ94.8cd नष्टं च लभ्यते तत्र श्रवनस्थे निशाकरे॥श्रवणे॥
पृ94.9ab धनिष्ठा लघु नक्षत्रं सर्वकर्मसु पूजितं।
पृ94.9cd अधीत्य ब्राह्मणः स्नायाद् राजानम् अभिषिञ्चयेत्॥
पृ94.10ab सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्।
पृ94.10cd श्रेष्ठिनं स्थापयेद् देशे गणाध्यक्षं गणेश्व् अपि॥
पृ94.11ab मेधावी च यशस्वी च महा^भोगी महा^धनः॥
पृ94.11cd बह्व्^अपत्यो मृदुर् दान्तो महा^आत्मा च^अत्र जायते।
पृ94.11च् प्रवर्षणं च देवस्य विद्याच् च^अत्र सुवृष्टितां॥धनिष्ठायां॥
पृ94.12ab नित्यं शतभिषायोगे भैषज्यानि प्रयोजयेत्।
पृ94.12cd कीर्तिकर्म च कुर्वीत सिध्यन्त्य् आथर्वणानि च॥
पृ94.13ab प्रसारयेच् च पण्यानि शौण्डिकं च प्रयोजयेत्।
पृ94.13cd अदधिं खानायेत् तत्र तिल^माषांश् च वापयेत्॥
पृ95.1ab (95)सामुद्रिकाणि पण्याणि नाविनश् च प्रयोजयेत्।
पृ95.1cd आदेयं च तदाऽदद्याद् व्ययं च^अत्र न कारयेत्॥
पृ95.2ab सन्धिपालान् द्वार^पालांल् लेखकांश् च प्रयोजयेत्।
पृ95.2cd भिषक्कर्म च कुर्वीत भैषज्यानि च संहरेत्॥
पृ95.3ab निधिं वा खानयेत् तत्र निदध्याद् अपि वा निधिं।
पृ95.3cd धनं च^अत्र प्रयुञ्जीत भिषक्कर्म च शिक्षयेत्॥
पृ95.4ab अथात्र मृगयेन् नष्टं लभ्यते तच् चिराद् अपि।
पृ95.4cd अरोगी क्रोधनश् च^अत्र स्वप्नशीलश् च जायते।
पृ95.4ef प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥शतभिषायां॥
पृ95.5ab पूर्वभाद्रपदायोगे क्रूराणां सिद्धिर् उच्यते।
पृ95.5cd नष्टविद्धोपतप्तं वा नैतद् अस्ति^इति निर्दिशेत्॥
पृ95.6ab दीर्घश्रोत्रो महा^भोगो ज्ञातीनां च सदा^प्रियः।
पृ95.6cd महा^धनोऽक्रूरकर्मा निःक्रोहश् च^अत्र जायते।
पृ95.6ef प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत्॥पूर्वभाद्रपदे॥
पृ96.1ab उत्तरस्यां तु कुर्वीत; आयुष्यं पुष्टिकर्म च।
पृ96.1cd न च दक्षिनतो गच्छेत् पुरं च^अत्र प्रदापयेत्॥
पृ96.2ab आयुष्मांश् च यशस्वी च धनवांश् च^अत्र जायते।
पृ96.2cd अत्र^अपि त्रिगुणं विन्देद् आदानं यदि वा व्ययं।
पृ96.2ef प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तरभाद्रपदे॥
पृ96.3ab रेवत्यां रत्न रजतं धन^धान्यं प्रयोजयेत्।
पृ96.3cd कोष्ठ^आगाराणि कुर्वीत किण्वं च^अत्र न कारयेत्॥
पृ96.4ab सुराकर्म च कुर्वीत हिरण्यं गोव्रजानि च।
पृ96.4cd गोसङ्घं स्थापयेच् च^अत्र गोशालां च^अत्र कारयेत्।
पृ96.4ef आच्छादयेन् नवं वस्त्रं हिरण्यम् अपि धारयेत्॥
पृ96.5ab भिक्षुको दानशीलश् च दरिद्रश् च^अनसूयकः।
पृ96.5cd ज्ञातीनां सेवको नित्यं धर्म^ज्ञश् च^अत्र जायते।
पृ96.5ef सुवृष्टिं नष्ट^लाभं च रेवत्याम् अभिनिर्दिशेत्॥रेवत्यां॥
पृ97.1ab स्त्री^पुंसम् अश्विना युञ्ज्याद् अश्वशालां च कारयेत्।
पृ97.1cd अश्वान् प्रयोजयेद् अत्र रथं च^अत्र प्रयोजयेत्॥
पृ97.2ab ऋणः प्रयोगः कर्तव्यो बीजान्य् अत्र प्रवापयेत्।
पृ97.2cd यानानि च हयान् दम्यान् दन्तिनश् च प्रयोजयेत्॥
पृ97.3ab भैषज्यं भोजयेद् अत्र भिषक्कर्म च कारयेत्।
पृ97.3cd मेधावी दर्शनीयश् च राज^योग्यश् च सम्पदा॥
पृ97.4ab अरोगो बलवांच् छूरः सुभगो ह्य् अत्र जायते।
पृ97.4cd सुवृष्टिं नष्ट^लाभं च; अश्विन्याम् अभिनिर्दिशेत्॥अश्विन्यां॥
पृ97.5ab त्रितारां भरणीं विद्यात् क्रूरकर्माणि साधयेत्।
पृ97.5cd भृत्यांश् च भृतकांश् च^अपि वृणुयाद् दर्शयेत् तथा॥
पृ97.6ab भूतिं च^उपनयेद् अत्र भार्यां च न विवाहयेत्।
पृ97.6cd उत्कटको वञ्चतकः कूटसाक्षी च तन्द्रिजः॥
पृ98.1ab विधिज्ञः पापचारित्रः कदर्यश् च^अत्र जायते।
पृ98.1cd जायते च^अत्र दुःशीलो गुरूणाम् अभ्यसूयकः।
पृ98.1ef परोपतापी लुब्धश् च परव्याहारगोचरः॥भरण्यां॥
पृ98.2ab सप्तविंशति^नक्षत्रे कृत्तिकादि यदा भवेत्।
पृ98.2cd भरण्यन्तानि; ऋक्षाणीमां प्रतिपादयेत् क्रियां॥
पृ98.3ab तेषां मध्ये यदा सर्वे शस्यान्य् ओषधयोऽपि च।
पृ98.3cd वनस्पतयश् च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः।
पृ98.3ef सर्वं प्रतिपादयितव्यम् उक्त^नक्षत्र^कर्मसु॥
पृ98.4 उक्तो नक्षत्र^कर्म^निर्देशो नाम^अध्यायः॥ % ध्रुव^क्षिप्र^अर्ध^रात्रिकाणि नक्षत्राणि 堅固宿、急速宿、半夜などに月が入った時に行うべき仕事
पृ98.5 चत्वारि भोः पुष्करसारिन् नक्षत्राणि ध्रुवाणि भवन्ति तानि व्याख्यास्यामि। तच् छृणु। तद् यथा। त्रीणि उत्तराणि रोहिणी च। क्षेमेऽध्यावसेत्। (99) बीजानि च^अत्र रोपयेद्। निवेशतं च^अत्र कल्पयेत्। राजानं च^अभिषिञ्चयेत्। यानि च^अन्यानि उक्तानि कर्माणि तानि कारयेत्।
पृ99.1ab अथ नष्टं दग्धं वा विद्धं च^अपि हृतं च वा।
पृ99.1cd एवम् अभिनिर्दिष्टां वा स्वस्ति क्षिप्रं भविष्यति॥
पृ99.2ab अथात्र जातो धन्योऽसौ विद्यात्मा च यशस्वी च।
पृ99.2cd मङ्गलीयो महा^भोगी महा^योगी भविष्यति॥
पृ99.3 चत्वारि भोः पुष्करसारिन् नक्षत्राणि क्षिप्रानि भवन्ति। तद् यथा पुष्यो हस्ताभिजिद् अश्विनो चेति। एषु क्षिप्राणि कर्माणि कारयेच् च विचक्षणः। स्वाध्यायं मन्त्र^समारम्भं प्रवास^प्रस्थानं गाश् च तुरङ्गान् अप्य् अत्र योजयेत्। धूयाणि युक्तकर्माणि च^ओषधीकर्माणि च। भेषज्यानि सर्वाण्य् अत्र प्रयोजयेत्।
पृ99.4 तत्र यज्ञ^समारम्भं चातुर्मास्यं च कारयेत्। अथात्र नष्टं दग्धं वा विद्धं वा स्वस्ति भविष्यति^इति वक्तव्यं।
पृ99.5ab अथात्र जातकं विद्यान् मङ्गलीयं यशस्विनं।
पृ99.5cd महा^भोगं च राजानं महा^योगिनम् ईश्वरं॥
पृ99.6ab महा^धनं महा^भोगं तथा च महद्^उत्तमं।
पृ99.6cd क्षत्रियं दानशीलं च ब्रह्मणं च पुरोहितं॥इति।
पृ99.7 पञ्च खलु भोः पुष्करसारिन् नक्षत्रानि दारुणानि भवन्ति।तद् यथा।
पृ99.8ab मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी।
पृ99.8cd अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति॥
पृ99.9 इति वक्तव्यं । अर्ध^रात्रिकाणि षट्। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा (100)शतभिषा भरणी चेति। नवंशाः षड्ग्रासा द्विक्षेत्राणि। रोहिणी पुनर्वसुर् विशाखा च। त्रीणी उत्तराणि चेति। उभयतो विभागानि। पञ्च^दशक्षेत्राणि। कृत्तिका च मघा मूला ग्रीणि पूर्वाणि। इमानि षट् पूर्वभागिनानि। मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती अश्विनो चेति। इमानि नव नक्षत्राणि पश्चाद् भागीयानि त्रिंशन्^मुहूर्त^योगानि क्षेत्राणि च।
पृ100.1 अपि च ब्राह्मण शुभाश् च मुहूर्ता भवन्ति। अशुभाश् च मुहूर्ता भवन्ति। शुभ^अशुभाश् च मुहूर्ता भवन्ति। संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभ^मुहूर्त^समापत्तयो भवन्ति तदा शोभना भवन्ति। यदाऽशुभ^मुहूर्तसमापत्तयो भवन्ति तदा न शोभना भवन्ति। यदा तु पुनः शुभाश् च^अशुभाश् च समापत्तयो भवन्ति तदा साधारना भवन्ति। %रात्रिदिवसयोर् ह्रासवृद्धी 昼夜の短長
पृ100.2 अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर् वा भवति^इति तद् उच्यते। वर्षाणां प्रथमे मासे पुष्य^नक्षत्रम् अमावास्यां भवति। श्रवणा पूर्णमास्यां। अष्टादश^मुहूर्तो दिवसो भवति। द्वादश^मुहूर्ता रात्रिः। षोडशाङ्गुल^काष्ठस्य मध्याह्नेऽर्धाङ्गुलायां छायायाम् आदित्यः परिवर्तते। आषाढा रात्रिं नयति। मृगशिरसि आदित्यो गतो भवति। वर्षाणां द्वितीये मासे मघाऽमावास्यां भवति भाद्रपदा पूर्णमास्यां। सप्तदश मुहूर्तो दिवसो भवति। त्रयोदश^मुहूर्ता रात्रिः। (101) द्वि^अङ्गुलायां छायायाम् आदित्यः परिवर्तते। श्रवणा रात्रिं नयति। पुष्य आदित्यो गतो भवति। वर्षाणां तृतीये मासे फल्गुन्यम् अमावास्यायां भवति। अश्विनी पूर्णमास्यां। षोडश^मुहूर्तो दिवसो भवति। चतुर्^दश^मुहूर्ता रात्रिः। चतुर्^अङ्गुलायां छायायाम् आदित्यः परिवर्तते। पूर्वभाद्रपदा रात्रिं नयति। मघा^आदित्यो गतो भवति। वर्षाणां चतुर्थे मासे चित्राम् अमावास्यायां भवति कृत्तिका पूर्णमास्यां। पञ्च^दश^मुहूर्तो भवति दिवसः। पञ्च^दश^मुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। अश्विनो रात्रिं नयति। फलुगुन्याम् आदित्यो गतो भवति।
पृ101.1 हेमन्तानां प्रथमे मासेऽनुराधाऽमावास्यं भवति। मृगशिरा पूर्णमास्यां। चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः। अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। कृत्तिका रात्रिं नयति। चित्रायाम् आदित्यो गतो भवति। हेमन्तानां द्वितीये मासेऽमावास्यां ज्येष्ठा भवति। पुष्यः पूर्णमास्यां। त्रयोदश^मुहूर्तो दिवसो भवति। सप्तदश^मुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मृगशिरा रात्रिं नयति। विशाखायाम् आदित्यो गतो भवति। (102) हेमन्तानां तृतीये मासे पूर्वाषाढाम् अवास्यां भवति। मघा पूर्णमास्यं। द्वादश^मुहूर्तो दिवसो भवति। अष्टादश^मुहूर्ता रात्रिः। द्वादशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। पुष्यो रात्रिं नयति। ज्येष्ठायाम् आदित्यो गतो भवति। हेमन्तानां चतुर्थे मासे श्रवणाम् आवास्यं भवति। फल्गुनी पूर्णमास्यां। त्रयोदश मुहूर्तो दिवसो भवति। सप्तदश^मुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मघा रात्रिं नयति। आषाढायाम् आदित्यो गतो भवति।
पृ102.1 ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदाम् आवास्ययं भवति। चित्रा पूर्णमास्यां चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः। (103) अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। फल्गुनी रात्रिं नयति। श्रवणायाम् आदित्यो गतो भवति। ग्रीष्माणां द्वितीये मासेऽश्विनी अमावास्यायां भवति। विशाखा पूर्णमास्यां। पञ्च^दश^मुहूर्तो दिवसो भवति। पञ्च^दश^मुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। चित्रा रात्रिं नयति। उत्तरायां भाद्रपदायाम् आदित्यो गतो भवति। ग्रीष्मानां तृतीये मासे कृत्तिकाम् अमावास्यायां भवति। ज्येष्ठा पूर्णमास्यां। षोडश^मुहूर्तो दिवसो भवति। चतुर्दश^मुहूर्ता रात्रिः। चतुर्^अङ्गुलायां छायायाम् आदित्याः परिवर्तते। विशाखा रात्रिं नयति। कृत्तिकायाम् आदित्यो गतो भवति। ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति। उत्तराषाढा पूर्णमास्यां। सप्तदश^मुहूर्तो दिवसो भवति। त्रयोदश^मुहूर्ता रात्रिः। मध्याह्ने द्वि^अङ्गुलायां छायायाम् आदित्यः परिवर्तते। ज्येष्ठा रात्रिं नयति। पुष्य आदित्यो गतो भवति।
पृ103.1 संवत्सरम् अन्वेषणतो मुहूर्तविशेषणैः सर्वाणि च^एतानि (नक्षताणि) भागानुभगेन^अमावास्ययं पूर्णमास्यं च युज्यन्ते। ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यं। तत्र तृतीये वर्षेऽधिको मासो युज्यते। षण्णां मासानाम् अहोरात्राणि समानि भवन्ति। अतः षण्^मासाद् दिवसो वधते। षण्^मासाद् रात्रिर् (104) वर्धते। षण्^मासाद् दिवसो मासे मासे समम् एव हीयते। षण्^मासाद् रात्रिर् मासे मासे परिहीयते।
पृ104.1 षण्^मासाद् आदित्यः परिवर्तते। उत्तरां दिशं संचरति। षण्^मासाद् दक्षिणां दिशं। षण्^मासात् समुद्(र्)ए उदकपरिमाणस्य ह्रासो वृद्धिश् च भवति। सूर्य^गत्या चन्द्र^गत्या च समुद्र^उदक^वेला^अभिवृद्धिर् भवति। अत्र गणनाप्रतिजागरणास्मरम् इत्य् एवम् एष संवत्सरो व्याख्यातो भवति।

%ग्रहः 惑星
पृ104.2 चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरोऽङ्गारको बुधश् च। इमे ग्रहाः। एषां ग्रहाणां बृहस्पतिः संवत्सरस्थायो। एवं शनैश्चरो बुधोऽङ्गारकः शुक्रश् च^इमे मण्डल^चारिणः।

%नक्षत्रमण्डलं 星宿マンダラ
पृ104.3 भरणी कृत्तिका रोहिणी मृगशिरा एतत् साधारणं प्रथमं मण्डलं। आर्द्रा पुनर्वसुः पुष्योऽश्लेषा एतत् साधारनं द्वितीयं मण्डलं। मघा अथ फल्गुनद्वयं हस्तो चित्रा एतत् साधारणं तृतीयं मण्डलं। स्वाती विशाखा अनुराधा एतत् साधारणं चतुर्थं मण्डलं। ज्येष्ठा मूलाषाढाद्वयम् (105) अत्र सर्वाणि महा^भायानि भवन्ति। इदं पञ्चमं मण्डलं। अभिजिच् छ्रवणा धनिष्ठा शतबिषा उभे भाद्रपदे चैतत् साधारणं षष्ठं मण्डलं। रेवती अविनी चैतत् साधारणं सप्तमं मण्डलं। संवत्सरम् एतेषु यद् यन् नक्षत्र^मण्डलं पीडयति तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या।
पृ105.1 द्वादश^मुहूर्तानि दिवसे ध्रुवाणि द्वादश रात्रौ। षण्^मुहूर्ताः सञ्चारिणः। कतमे षट्। नैरृतो वरुणो वायवो भर्गो देवो रौद्रो विचारी च। इतीमे सञ्चारिणः षट्। % 以下、^मुहूर्तの名称
पृ105.2 अथात्र श्रावणे मासे पूर्णेऽष्टादश^मुहूर्ते दिवसे सूर्य^उदये च चतुरोजा नाम मुहूर्तो भवति। रोहितस्य च मुहूर्तस्य बलस्य च^अन्तरे मध्याह्नो भवति। सूर्यावतारे तु विचारी नाम मुहूर्तो भवति। द्वादश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति। आतापाग्निर् एवं नाम मुहूर्तो रात्र्यवसाने भवति। भाद्रपदे मासे पूर्णे सप्तदश^मुहूर्ते दिवसे सूर्य^उदये च चतुरोजा एवं नाम मुहूर्ता भवति। मध्याह्नेऽभिजितो नाम मुहूर्तो भवति। (106) सूर्यावतारे रौद्रो नाम मुहूर्तो भवति। त्रयोदश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति। अर्ध^रात्रे महा^भयो वायावो नाम मुहूर्तो भवति।
पृ106.1 रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति। अश्वयुजे मासे पूर्णे षोडश^मुहूर्तो दिवसो भवति। सूर्य^उदये चतुरोजा नाम मुहूर्तो भवति। समुद्गतस्य च मुहूर्तस्य अभिजितस्य च^अन्तरे मध्याह्नो भवति। सूर्यावतारे भर्गो देवो नाम मुहूर्तो भवति।
पृ106.2 चतुर्^दश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति। अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेण^अर्ध^रात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
पृ106.3 कार्त्तिके मासे पूर्णे दिवसः समरात्रिर् भवति। पञ्च^दश^मुहूर्तो दिवसो भवति पञ्च^दश^मुहूर्तो रात्रिः। समानेऽहोरात्रे सूर्य^उदये चतुरोजा एवं नाम मुहूर्तो भवति। संमुखो नाम मुहूर्तो भवति मध्याह्ने। सन्ततो नाम मुहूर्तः (107) सूर्यावतारे। रात्राव् अवतीर्णमात्र सूर्ये भ्र्गो देवो नाम मुहूर्तो भवति। अर्ध^रात्रेऽभिजिन् मुहूर्तो भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
पृ107.1 मार्गशीर्षे मासे च पूर्णे चतुर्^दश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा एवं नाम मुहूर्तो भवति। विरतस्य संमुखस्य च मुहूर्तस्य^अन्तरे मध्याह्नो भवति। सूर्य^अवतारे वरुणो नाम मुहूर्तो भवति। षोडश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये संतापनः संयमो नाम मुहूर्तो भवति। राक्षसस्याभिजितस्य च मुहूर्तस्य^अन्तरेऽर्ध^रात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
पृ107.2 पौषमासे पूर्णे त्रयोदश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा एवं नम मुहूर्तो भवति। मध्याह्ने विरतो नाम मुहूर्तो भवति। सूर्यावतारे नैरृतो नाम मुहूर्तो भवति। सप्तदश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति। अर्ध^रात्रे राक्षसो नाम मुहूर्तो भव्ति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
पृ107.3 माघ^मासे पूर्णे द्वादश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा नाम मुहूर्तो भवति। सावित्रस्य च विरतस्य च मुहूर्तस्य^अन्तरेण मध्याह्नो भवति। सूर्यावतारे विजयो नाम मुहूर्तो भवति। अष्टादश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति। गर्दभस्य मुहूर्तस्य च राक्षसस्य च^अन्तरम् अर्ध^रात्रं भवति। रात्र्यवसान आतपाग्निर् एवं नाम मुहूर्तो भवति।
पृ108.1 यथा श्रावणे तथा माघे। यथा भाद्रपदे तथा फाल्गुने। यथाऽस्वयुजे तथा चैत्र। यथा कार्त्तिके तथा वैशाखे। यथा मार्गशीर्षे तथा ज्यैष्ठे। यथा पौषे तथाऽषाढे। एवम् एतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यं। नक्षत्र^विचरणं नाम प्रथमोऽध्यायाः।
पृ108.2 यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन च^उत्कर्षापकर्षौ कर्तव्यौ। हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णेऽर्ध^मासे वा। द्वितीया षष्ठी नवमी द्वादशी चतुर्दशी अत्र^अन्तरे दिवसे कला वर्धते रात्रौ कला हीयते। % भूमि^कम्प^निर्देशः 地震の際、月と合にある星宿からの前兆、および地震に関わる他の現象からの前兆
पृ108.3ab चत्वारो महा^राजानो ध्रियते यैर् वसुन्धरा।
पृ108.3cd अतिवृद्धिर् विशुद्धश् च वर्धमानः पृथक्श्रवाः॥
पृ108.4ab महा^भूतानि चत्वारि कम्पयन्ति वसुन्धरां।
पृ108.4cd आपो इन्द्रश् च वायुश् च तथाग्निर् भगवान् अपि॥
पृ108.5ab त्रयस् तु ते यत्र भवन्ति पक्षे षडेक^मासे तु भवन्ति वेगाः।
पृ108.5cd परस्य चक्रस्य निदर्शनं स्यात् प्रकम्पते यत्र मही त्व् अभीक्ष्णं॥
पृ109.1ab विशाखा दश^रात्री अयाज् ज्येष्ठा द्वादश^रात्रिका।
पृ109.1cd पञ्च^विंशतिर् आषाढा श्रवणा पञ्च^सप्ततिः॥
पृ109.2ab रात्रिशतं भाद्रपदे क्रतुर् अश्वयुजे स्मृतः।
पृ109.2cd अध्यर्धं तु पञ्च^पञ्चाशन् माघे रात्रिशतं स्मृतं।
पृ109.3ab अर्ध्यर्धं फाल्गुने मासे चैत्रे त्रिंशत् तु रात्रयः।
पृ109.3cd विपाको भूमि^वेगानाम् अतः कम्पः प्रवर्तते॥
पृ109.4ab यदा सर्वेषु मासेषु सततं कम्पते मही।
पृ109.4cd वृक्षास् तथा चलन्ति स्म जलं वा यदि कम्पते।
पृ109.4ef पर्वतः पर्णवत् कम्पेद् भयम् अत्र विनिर्दिशेत्॥
पृ110.1ab नगराण्य् अथ वा ग्रामा घोषा ये च^अत्र संश्रिताः।
पृ110.1cd शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः॥
पृ110.2ab अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च।
पृ110.2cd अनावासा दिशो विद्याद् भूमि^चालविचालिताः॥
पृ110.3ab कृत्तिकासु चलेद् भूमिर् ग्रामेषु नगरेषु वा।
पृ110.3cd अभीक्ष्णं मुच्यते ह्य् अग्निर् दहते सतृनालयान्॥
पृ110.4ab कृष्णाग्निर् अशनेः पातः, कर्मारा; आहिताश्रयाः।
पृ110.4cd आगाराश् च निवर्तन्ते संवर्तेनेव धातवः॥
पृ110.5ab ये जाता ये च संवृद्धा ये च तं ग्रामम् आश्रिताः।
पृ110.5cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ110.6ab रोहिण्यां चलिता भूमिः सर्व^बीज^विनाशनं।
पृ110.6cd प्रोप्तं शस्यं न रोहेत भवेत् फलस्य कृच्छ्रता॥
पृ111.1ab गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशं।
पृ111.1cd दुर्भिक्ष^व्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा॥
पृ111.2ab महा^आत्मानश् च राजानः श्रीमन्तश् च नरोत्तमाः।
पृ111.2cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ111.3ab मृगशीर्षे चलेद् भूमिर् ओषधीनां विनाशनं।
पृ111.3cd चिकित्सकाः श्रोत्रियाश् च घटकाः सोम^याजकाः॥
पृ111.4ab सोम^पीताश् च ये विप्रा वानप्रस्थाश् च तापसाः।
पृ111.4cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ111.5ab आर्द्रायां चलिता भूमिर् वृक्षा नश्यन्ति क्षीरिणः।
पृ111.5cd अन्न^पानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः॥
पृ111.6ab कूपखाः परिखाखाश् च पापका ये च तस्कराः।
पृ111.6cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ111.7ab पुनर्वसौ चलेद् भूमिर् मण्डलं कुण्डिका^अपि च।
पृ111.7cd वागुरिकाः कारण्डवाश् चक्रिणः शुक^सारिकाः॥
पृ111.8ab अर्भका भ्रमकाराश् च मांसिकाः शङ्खवाणिजाः।
पृ111.8cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ112.1ab पुष्येण च चलेद् भूमिर् ब्राह्मणा नायकास् तथा।
पृ112.1cd दुरङ्गमा वाणिजकाः सार्थवाहाश् च ये नराः॥
पृ112.2ab पार्थिवाः पार्वतीयाश् च ये च तद् भक्तिगोचराः।
पृ112.2cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः।
पृ112.2ef शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्॥
पृ112.3ab अश्लेषायां चलेद् भूमिर् नागाः सर्वे सरीसृपाः।
पृ112.3cd कीटाः पिपीलिकाः श्वाना; एक^खुराश् च ये मृगाः॥
पृ112.4ab वैद्या विसकराश् च^अपि ये च सत्वा दरीश्रयाः।
पृ112.4cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ112.5ab मघासु चलिता भूमिर् महा^राजोऽत्र तप्यते।
पृ112.5cd ये च श्राद्धा निवर्तन्ते समाजा; उत्सवास् तथा।
पृ112.5ef यज्ञाश् च देव^कृत्यं च सर्वम् अत्र निवर्तते॥
पृ112.6ab ये जाता ये च संवृद्धा ये च^अन्येऽप्य् अग्रपण्डिताः।
पृ112.6cd गन्धर्वाश् च विनश्यन्ति नरा ये च महा^कुलाः।
पृ112.6ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ112.7ab फल्गुन्यां चलिता भूमिर् ऋतुर् व्यावर्तते तदा।
पृ112.7cd त्रियग्वातश् च^एव वाति कृतं नश्यति शाश्वतं।
पृ112.7ef पथिकाश् च^उपतप्यन्ति माषयाच्योपजीविकाः॥
पृ113.1ab धर्मे रता; आसनिका ये च शुल्कोपजीविनः।
पृ113.1cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ113.2ab चलत्य् उत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः।
पृ113.2cd सार्थवाहा; आसनिका ये च शिल्पोपजीविनः॥
पृ113.3ab अङ्गाविदेहमगधा नैरृताः स्त्री^परिग्रहाः।
पृ113.3cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ113.4ab हस्तेन चलिता भूमिः कुम्भ^कार चिकित्सकाः।
पृ113.4cd गणमुख्या महा^मात्राः सेनाध्यक्षाश् च ये नराः॥
पृ113.5ab तारमका (?) नारपटा (?) विप्सरः (?) कौटिका; अपि।
पृ113.5cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ113.6ab चित्रायां चलिता भूमिः कारुका; उपकल्पकाः।
पृ113.6cd कुमार्यः सर्व^रत्नं च सस्यानां बीज^कैः सह॥
पृ113.7ab वङ्गा दशार्णकुरवश् चेदिमाहिषकास् तथा।
पृ113.7cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ113.8ab स्वातौ प्रचलिता भूमिश् चौरा ये च कुशीलकाः।
पृ113.8cd हिंसका ये च तत् कर्म^रताऽभ्यर्थितमूषकाः॥
पृ113.9ab हिमवत; उत्तरेण वायुभक्षास् तपस्विनः।
पृ113.9cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ114.1ab विशाखायां चलेद् भूमिर् महा^शैल^क्षयो भवेत्।
पृ114.1cd उग्रा वाताः प्रवान्त्य् अत्र; अश्मकैरकुशलिनः॥
पृ114.2ab अनुराधे चलेद् भूमिर् दस्यूनाम् अनयो महान्।
पृ114.2cd विटा द्यूत^कराश् च^एव ग्रन्थिभेदाश् च ये नराः॥
पृ114.3ab अन्ध्राः पुण्ड्राः पुलिन्दाश् च भये तिष्ठन्त्य् अनाश्रिताः॥
पृ114.3cd मित्रभेदश् च बलवान् तदा जगति जायते॥
पृ114.4ab ज्येष्ठायां चलिता भूमिर् महा^राजः प्रतप्यते।
पृ114.4cd वायसा वृषभा व्याडास् तथा चण्डमृगाश् च ये॥
पृ114.5ab कुरवः शूरसेनाश् च मल्ला बाह्लीकनिग्रहाः।
पृ114.5cd प्रत्यर्थिकेन शीघ्रेण ये च तद् भक्तिभाजनाः।
पृ114.5ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ114.6ab मूलेन चलिता भूमिश् चतुष्पद्द्विपदास् तथा।
पृ114.6cd ग्रहाश्रयाः पिशाचाश् च ये च सत्त्वा दरीश्रयाः।
पृ114.6ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ115.1ab दुर्भिक्षं च करोत्य् आशु धान्यम् अल्प^उदकं भवेत्।
पृ115.1cd दरीपर्वतमूलानि गच्छन्ति च तदा भुवि॥
पृ115.2ab पूर्वाषाढे चलेद् भूमिर् जलजा मत्स्य^शुक्तिकाः।
पृ115.2cd शिशुमारा; उद्रकाश् च नक्रा मकर^कच्छपाः॥
पृ115.3ab जातिगोत्र^प्रधानाश् च धनिनोऽथ विचक्षणाः।
पृ115.3cd द्वितीयाभिजाताश् च महा^विद्याकराश् च ये।
पृ115.3ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ115.4ab उत्तरस्यां चलेद् भूमिः शिल्पिनाम् अनयो महान्।
पृ115.4cd अयस्काराः स्थापतयस् त्रपु^काराश् च तक्षकाः॥
पृ115.5ab दरिद्रा धनिनश् च^अपि शिल्पिनो विविधा; अपि।
पृ115.5cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः।
पृ115.5ef ग्राम^कुटानि च घ्नन्ति सचलस्थावराणि च॥
पृ115.6ab वैष्णवे चलिता भूमिस् तदेति यद् अनीप्सितं।
पृ116.1ab अध्यापकाः शास्त्र^विदः कवयो मन्त्र^पारगाः।
पृ116.1cd युगन्धराः शूरसेना; अभिराजाः पटच्चराः॥
पृ116.2ab कुशण्डाः शरदण्डाश् च ये नरा राज^पूजिताः।
पृ116.2cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ116.3ab धनिष्ठायां चलेद् भूमिर् धनिना मनयो महान्।
पृ116.3cd महेश्वरास् तथा महा^नागराः श्रेष्ठिनस् तथा॥
पृ116.4ab प्रचण्डाः स्वस्तिमन्तश् च भद्रकारा युगन्धराः।
पृ116.4cd पारिकूलाश् च भोज्याश् च ह्य् अन्ये सन्नागरा; अपि।
पृ116.4ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ116.5ab वारुण्ये चलिता भूमिर् औदकेष्व् अनयो महान्।
पृ116.5cd हस्तिनोऽश्वखरोष्ट्राश् च स्पर्शम् अर्च्छन्ति दारुणं॥
पृ116.6ab तदासौ वीरकान् मद्रान् बाह्लीकान् केकयान् अपि।
पृ116.6cd अनाश्रयांश् चक्रवाकाञ् जनस्थान् अपि पीडयेत्॥
पृ117.1ab साजेन चलिता भूमी राक्षसान् घातकांस् तथा।
पृ117.1cd औरभ्रिकान् सौकरिकान् सौवीरांश् च निपातयेत्॥
पृ117.2ab वणिज्यजीविनो वैश्यान् शूद्रांश् च करीतीन् अपि।
पृ117.2cd यवनान् मालवाद्यांश् च ग्रन्थिभेदांश् च नाशयेत्॥
पृ117.3ab अहिर्बुध्न्ये चलेद् भूमिर् वणिजाम् अनयो महान्।
पृ117.3cd धर्मे रताश् च ये सिद्धा ये च शौक्तिककर्मिणः॥
पृ117.4ab शिबीन् वत्सान् तथा वात्स्यान् क्षत्रियान् आर्जुनायनान्।
पृ117.4cd सिन्धुराज^धनुष्पानीन् सर्वान् अर्दयतेऽचिरात्॥
पृ117.5ab रेवत्यां चलिता भूमिः संग्रामः स्यात् सुदारुणः।
पृ117.5cd ग्राम^घाताश् च वर्तन्ते ग्रामो ग्रामं च हिंसति॥
पृ117.6ab नौचरान् उदकाजीवान् रमठान् भरुकच्छकान्।
पृ117.6cd सुधन्वान् अभिसारांश् च सर्व^सेनांश् च निर्दहेत्॥
पृ118.1ab अश्विन्यां चलिता भूमिर् अश्वानाम् अनयो महान्।
पृ118.1cd ग्राम^घाताश् च वर्तन्ते भ्राता भ्रातॄन् जिघांसति॥
पृ118.2ab या च^अत्र गभम् आधत्ते ये च जाताश् च तान् इह।
पृ118.2cd त्रीणि वर्षाण्य् अतो दुःखम् उपैति च निरन्तरं॥
पृ118.3ab सहिताश् चित्र^गर्भाश् च ये ह्य् अन्ये च^अङ्गनाजनाः।
पृ118.3cd आर्जुनायना राजन्याः सुष्ठु त्रींश् च^अपि हिंसति॥
पृ118.4ab भरण्यां चलिता भूमिश् चौराणाम् अनयो महान्।
पृ118.4cd विटा द्यूत^कराश् च^एव ग्रन्थिभेदाश् च ये नराः॥
पृ118.5ab आदर्शचक्राटाधूर्तास् तथा बन्धन^रक्षकाः।
पृ118.5cd अन्तावशायिनः पापाश् चरन्ति ये तु दुर्जनाः।
पृ118.5ef तेऽपि तत्र विपद्यन्ते भूमि^चालविचालिताः॥
पृ118.6ab वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
पृ118.6cd सप्ताहाभ्यन्तरात् तत्र मेघो भवति प्रार्थितः॥
पृ119.1ab स्निग्धो ह्य् अङ्जन^संकाशो महा^पर्वतसन्निभः।
पृ119.1cd इन्द्रश् न वर्षते तत्र महर्षेर् वचनं यथा॥
पृ119.1ef [एवं निगदितं नार्थैर् इन्द्रश् च^अत्र प्रवर्षति॥]
पृ119.2ab स्वस्तिका कार^संकाशा; इन्द्रवज्रध्वयोपमाः।
पृ119.2cd दृश्यन्तेऽभ्रा हि सन्ध्यायां ग्रस्त्वा चन्द्र^दिवा^करौ॥
पृ119.3ab तदा नभसि जायन्ते मेघा डाडिम्बसन्निभाः।
पृ119.3cd लक्षणं तादृशं दृष्ट्वा विद्यात् तान्न् इन्द्रकम्पितान्।
पृ119.3ef स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
पृ119.4ab अतीव तत्र विश्वस्तः सर्व^बीजानि वापयेत्।
पृ119.4cd व्यवहारांश् च कुर्वीरन् निर्भयास् तत्र वाणिजाः।
पृ119.4ef सर्वेषां भूमि^कम्पानां प्रशस्ता; इन्द्रकंपिताः॥
पृ119.5ab वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
पृ119.5cd सप्ताहाभ्यन्तरे तत्र मेघः संच्छादयेन् नभः॥
पृ120.1ab ततोऽनुबद्धा जायन्ते; अभ्राः कौशेयसन्निभाः।
पृ120.1cd अनुलोमं च संयान्ति चरन्तः पश्चिमां दिशं॥
पृ120.2ab शिशुमार^उद्रकाणां मत्स्य^मकर^सन्निभाः।
पृ120.2cd दृश्यन्तेऽभ्राश् च सन्ध्यायां ग्रस्त्वा चन्द्र^दिवा^करौ॥
पृ120.3ab लक्षणं तादृशं दृष्ट्वा विद्यात् ताञ् जलकम्पितान्।
पृ120.3cd स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
पृ120.4ab स्थालेषु गिरि^कूटेषु क्षेत्रेषूपवनेषु च।
पृ120.4cd स्थाप्यन्ते तत्र बीजानि निम्ने नश्यन्ति वै तदा॥
पृ120.5ab पञ्केण^अपि जलेन^अपि नश्येयू रजसा^अपि वा।
पृ120.5cd एतेषां भूमि^कम्पानां प्रशस्ता जलकम्पिताः॥
पृ120.6ab वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
पृ120.6cd सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः॥
पृ120.7ab दृश्यते कपिला सन्ध्या चन्द्र^सूर्यौ तु लोहिताउ।
पृ120.7cd लक्षणं तादृशं दृष्ट्वा जानीयाद् वायुकम्पितान्॥
पृ121.1ab ततो भवति निर्देशो महर्षेर् वचनं यथा।
पृ121.1cd न तत्र प्रवसेत् प्राज्ञ; आत्मानं च^अत्र गोपयेत्॥
पृ121.2ab गुह्यम् आवरणं कुर्यात् प्राकारपरिखां खनेत्।
पृ121.2cd प्रातिसीमा विरुध्यन्ते नराणां जायते भयं॥
पृ121.3ab एतेषां भूमि^कम्पनं सर्वेषां कीर्तिता गुणाः।
पृ121.3cd विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः॥
पृ121.4ab कम्पितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
पृ121.4cd सप्ताहाभ्यन्तरात् तत्र; उल्का^पाताः सुदारुणाः॥
पृ121.5ab सन्ध्या च लोहिता भाति चन्द्र^सूर्यौ तु लोहितौ।
पृ121.5cd लक्षणं तादृशं दृष्ट्वा विज्ञेया; अग्निकम्पिताः॥
पृ121.6ab अग्निर् दहति काष्ठानि रक्षितानि धनानि च।
पृ121.6cd दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशं॥
पृ121.7ab वीणाश् च दिवि दृश्यन्ते नवमासान् न वर्षति।
पृ121.7cd एतेषां भूमि^कम्पानां जघन्या; अग्निकम्पिताः॥
पृ121.8अ जयति; अहनि पूर्वे क्षत्रियान् पार्थिवांश् च।
पृ121.8ब् हय^गज^रथ^मुख्यान् मन्त्रिणो मध्यम^अह्ने।
पृ122.1ab व्यथयति; आपर^अह्णे गोपशून् वैश्य^शूद्रान्।
पृ122.1cd प्रदहति निशि^सन्ध्या तस्कर^अनन्त^वासान्॥
पृ122.2अ रजनिम् इह प्रदोषे हिंसते म्लेच्छ^संघान्।
पृ122.2ब् स्त्रियम् अपि च नपुंसश् च^अर्ध^रात्रेष्व् अनन्तान्।
पृ122.2च् कृषि^वणिग् उपजीव्यान् हन्ति यामे तृतीये।
पृ122.2द् व्यथयति सुरपक्षं रौद्र^कर्म^अन्तकृष्णे॥
पृ122.3अ प्रदहति शशिपक्षे याज्ञिकं ब्रह्म^क्षत्रं।
पृ122.3ब् श्रपयति शुचि^वृत्ताम् एव धर्मे प्रधानान्।
पृ122.3च् विदुषि च मृदु^भावं विन्दते यो ह्य् अधीते।
पृ122.3द् स भवति नृप^पूज्यो बाह्मणो देव^दर्शी॥
पृ123.1ab बृहस्पतेश् च चत्वारि समानि शुभ^कर्मणा।
पृ123.1cd चत्वारि सूर्य^कर्माणि तुल्यानि शुक्र^कर्मणा।
पृ123.1ef सोम^कर्माणि चत्वारि ब्रह्म^कर्म च तत्समं॥
पृ123.2 अयं भोः पुष्करसारिन् भूमि^कम्प^निर्देशो नाम^अध्यायः। % व्याधि^समुत्थानं 病気の発生
पृ123.3 अथ भोः पुष्करसारिन् अमीषाम् अष्टाविंशतीनां नक्षत्राणां रोग^उत्पत्तिं नाम^अध्यायं व्याख्यामि। तच् छ्रूयतां। कथयतु भगवान्।
पृ123.4ab कृत्तिकासु^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ123.4cd चतूरात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ123.5ab अग्निर् हि देवता तत्र दध्ना ह्य् अस्य बलिं हरेत्।
पृ123.5cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ123.6ab रोहिण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ123.6cd पञ्च^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ123.7ab देवः प्रजापतिस् तत्र शुद्धमाल्यैर् बलिं हरेत्।
पृ123.7cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ123.8ab व्याधिर् मृगशिरोभुतः स्त्रियो वा पुरुषस्य वा।
पृ123.8cd अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ123.9ab सोमो हि देवता तत्र मण्डेन तु बलिं हरेत्।
पृ123.9cd अनेन बलि^दानेन तस्माद् रोगाद् विमुच्यते॥
पृ124.1ab (124) आद्रायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.1cd दश^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ124.2ab रुद्रो हि देवता तत्र पायसेन बलिं हरेत्।
पृ124.2cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ124.3ab पुनर्वसौ भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.3cd अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ124.4ab आदित्यो देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ124.4cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ124.5ab पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.5cd स्तोककालं भवेत् तस्य पञ्च^रात्राद् विमुच्यते॥
पृ124.6ab देवो बृहस्पतिस् तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ124.6cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ124.7ab अश्लेषायां भवेद् व्याधिः स्त्रियो वा पुरुषस्य वा।
पृ124.7cd न तं वैद्याश् चिकित्सन्तु सर्पस् तत्र तु दैवतः॥
पृ124.8ab मघा^समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.8cd अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ124.9ab पितरो देवतास् तत्र कृसरेण बलिं हरेत्।
पृ124.9cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ124.10ab पूर्वफाल्गुनीजा व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.10cd सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ125.1ab (125) अर्यमा देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।%भगではない
पृ125.1cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ125.2ab उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ125.2cd न तं वैद्याश् चिकित्सन्तु भगो प्य् अत्र तु देवता॥%अर्यमन्ではない
पृ125.3ab हस्तेनाप्य् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ125.3cd पञ्च^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ125.4ab रविर् हि देवता तत्र गन्ध^पुष्पैर् बलिं हरेत्।
पृ125.4cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ125.5ab चित्रायाम् उत्त्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ125.5cd अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ125.6ab त्वष्टा हि देवता तत्र घृतम् उद्गैर् बलिं हरेत्।
पृ125.6cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ125.7ab स्वात्यां समुत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
पृ125.7cd क्लेशितो हि भवेद् व्याधिः पञ्च^विंशति^रात्रिकः॥
पृ125.8ab देवता^अत्र भवेद् वायुश् चित्र^माल्यैर् बलिं हरेत्।
पृ125.8cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ125.9ab विशाखायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ125.9cd गुरुकोऽसौ भवेद् व्याधिर् अहान्य् एकोनविंशतिः॥
पृ126.1ab (126) इन्द्राग्नी^देवते तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ126.1cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.2ab अनुराधा^उत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
पृ126.2cd अर्ध^मासं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ126.3ab मित्रो हि देवता तत्र घृत^पात्रं बलिं हरेत्।
पृ126.3cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.4ab ज्येष्ठायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ126.4cd क्लेशिको हि भवेद् व्याधिर् अहोरात्र^त्रयोदश॥
पृ126.5ab इन्द्रो हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ126.5cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.6ab मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ126.6cd मासिको हि भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ126.7ab नैरृतिर् देवता तत्र मद्य^मांसैर् बलिं हरेत्।
पृ126.7cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.8ab पूर्वाषाढे भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ126.8cd सांक्लेशिको भवेद् व्याधिर् अष्टौ मासान् न संशयः॥
पृ126.9ab आपो हि देवतास् तत्र कृसरेण बलिं हरेत्।
पृ126.9cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.10ab उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ126.10cd सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ126.11ab विश्वो हि देवता तत्र पायसेन बलिं हरेत्।
पृ126.11cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.1ab (127) अभिजिद् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.1cd षण्^मासान् संभवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ127.2ab विष्णुश् च देवता तत्र दधि^मण्डं बलिं हरेत्।
पृ127.2cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.3ab श्रवणेन^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.3cd गुरुको हि भवेद् व्याधिः पूर्णं द्वादश^मासिकं॥
पृ127.4ab विष्णुर् हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ127.4cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.5ab धनिष्ठायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.5cd गुरुको हे भवेद् व्याधिः पूर्णमासान् त्रयोदश॥
पृ127.6ab वसवो देवतास् तत्र घृत^माल्यैर् बलिं हरेत्।
पृ127.6cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.7ab शतभिषा^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.7cd त्रयोदश^दिवस् तत्र ततश् च^ऊर्ध्वं विमुच्यते॥
पृ127.8ab वरुणो देवता तत्र पायसेन बलिं हरेत्।
पृ127.8cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.9ab पूर्वभद्र^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.9cd न तं वैद्याश् चिकित्सन्तु अहिर्बुध्न्योऽत्र दैवतः॥
पृ127.10ab उत्तरभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.10cd सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ128.1ab (128) अर्यमा देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ128.1cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ128.2ab रेवत्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ128.2cd मृदुको हि भवेद् व्याधिर् अष्टाविंशति^रात्रिकः॥
पृ128.3ab पूषा हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ128.3cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ128.4ab अश्विन्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ128.4cd सांक्लेशिको भवेद् व्याधिः पञ्च^विंशति^रात्रिकः॥
पृ128.5ab गन्धर्वो देवता तत्र यावकेन बलिं हरेत्।%主宰神がगन्धर्व!
पृ128.5cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ128.6ab भरण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ128.6cd न तं वैद्याश् चिकित्सन्तु यमस् तत्र तु दैवतः।
पृ128.7ab शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति॥
पृ128.7cd अयं भोः पुष्करसारिन् व्याधि^समुत्थानो नाम^अध्यायः। % बन्धन^निर्मोक्षः 月がそれぞれの星宿に入った時に捕縛された囚人の囚われの期間の長さ
पृ128.8 अथ खलु भोः पुष्करसारिन् बन्धन^निर्मोक्षं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥
पृ129.1 कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रि^रात्रेण मोक्ष्यति^इति वक्तव्यः। रोहिण्यां बद्धो वा रुद्धो वा त्रि^रात्रेण मोक्ष्यति^इति। मृगशिरसि बद्धो वा रुद्धो वा एक^विंशति रात्रेण मोक्ष्यति^इति। आर्द्रायां बद्धो वा रुद्धो वाऽर्ध^मासेन मोक्ष्यति^इति। पुनर्वसौ रुद्धो वा बद्धो वा सप्त^रात्रेन। पुष्ये त्रि^रात्रेण। अश्लेषायां त्रिंशद्^रात्रेण। मघासु षोडश^रात्रेण। चित्रायां सप्त^रात्रेण। स्वात्यां दश^रात्रेण। विशाखायां षड्विंशद्^रात्रेण। अनुराधायाम् एक^त्रिंशद् रात्रेण। ज्येष्ठायाम् अष्टादश^रात्रेण। मूले षट्त्रिंशद् रात्रेण। पूर्वाषाढायां चतुर्^दश^रात्रेण। उत्तराषाढायां चतुर्^दश^रात्रेण। अभिजिति षड्^रात्रेण। श्रवणे धनिष्ठायां शतभिषायां पूर्वभद्रपदे उत्तरभाद्रपदे रेवत्यां चतुर्^दश^रात्रेण। अश्विन्यां त्रि^रात्रेण। भरण्यां बद्धो वा रुद्धो वा परिक्लेशम् अवाप्स्यति^इति वक्तव्यः।
पृ129.2 अयं भोः पुष्करसारिन् बन्धन^निर्मोक्षो नाम^अध्याय। % तिलक^अध्यायः ティラカがある身体部分による女の運命
पृ129.3 अथ बोः पुस्करसारिन् तिलक^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥
पृ129.4 मूर्ध्नि तु यस्यास् तिलकोऽस्ति सूक्ष्मः स्निग्धो भवेत् पद्म^समान^वर्णः।
पृ129.5 राजा तु तस्या भवति^इह भर्ता स्तन^उपरिष्टात् प्रतिबिम्बम् आहुः॥
पृ130.1ab शीर्षे तु यस्यास् तिलक^अलकः स्यात् सूक्ष्मो भवेद् अञ्जन^चूर्ण^वर्णः।
पृ130.1cd सेनापतिस् तस्या भवेद् धि भर्ता स्तन^अन्तरेऽस्याः प्रतिबिम्बकं स्यात्॥
पृ130.2ab भ्रूवोन्तरेऽस्यास् तिलक^अलकः स्याद् दुष्चारिणीं तां प्रमदां वदन्ति।
पृ130.2cd पञ्च^एव तस्याः पतयो भवन्ति बह्व्^अन्न^पानं लभते च नारी॥
पृ131.1ab गण्डस्य नासादिकम् अध्यदेशे भवेच् च बिम्बं तिलकस्य यस्याः।
पृ131.1cd तां शोक^भाजं प्रमदां वदन्ति रोमप्रदेशे प्रतिबिम्बम् आहुः॥
पृ131.2ab कर्णे तु यस्यास् तिलक^अलकः स्याद् बहु^श्रुतां तां प्रमदां वदन्ति।
पृ131.2cd बहु^श्रूतां तां श्रुतिधारिणीं च त्रिके तु यस्याः प्रतिबिम्बकं स्यात्॥
पृ131.3ab यस्य^उत्तरोष्ठे तिलक^अलकः स्यात् तां भिन्न^सत्यां प्रमदां वदन्ति।
पृ131.3cd कृच्छ्रेण सा वै लभते हि वृत्तिम् ऊरौ तु तस्यास् तिल^बिम्बम् आहुः॥
पृ132.1ab यस्याऽधरोष्ठे तिलक^अलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
पृ132.1cd मिष्ट^अन्न^पानं बहु ऋच्छते सा तथा हि गुह्ये प्रतिबिम्बकं स्यात्॥
पृ132.2ab चिबुके तु यस्यास् तिलक^अलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
पृ132.2cd मिष्ट^अन्न^पानं बहु सा लभेत गुह्ये द्वितीयं प्रतिबिम्बकं स्यात्॥
पृ132.3 अयं भोः पुष्करसारिंस् तिलक^अध्यायो नाम^अध्यायः।
पृ132.4 अथ खलु भोः पुष्करसारिन् नक्षत्र^जन्म^गुणं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान् त्रिशङ्क्को।
पृ132.5अ कृत्तिकासु नरो जातस् तेजस्वी प्रिय^साहसः।
पृ132.5ब् भवेच् छूरस् तथा चण्डः प्रिय^वादी च मानवः॥
पृ132.6अ रोहिण्यां पुरुषो जातो धनवान् धर्मिकस् तथा।
पृ132.6ब् व्यवसायी स्थिरः शूरो ध्रुवं च^अस्य सदा मुखं॥
पृ133.1ab जातो मृगशिरे यस् तु मृदुः सौम्यस् तु मानवः।
पृ133.1cd दर्शनीयो भवेच् च^असौ स्त्री^कान्तस् तु विशेषतः॥
पृ133.2ab आर्द्रा^जातस् तु हिंसात्मा चण्डः परम^जल्पकः।
पृ133.2cd रोद्रकर्मा भवेच् च^असाव् ईश्चरश् च शतैर् महान्॥
पृ133.3ab जातः पुनर्वसौ यस् तु ह्य् अलोलो बुद्धिमान् नरः।
पृ133.3cd धर्म^शीलो भवेच् च^असौ जात^क्रोधश् च मानवः॥
पृ133.4ab पुष्येण पुरुषो जातस् तेजस्वी ब्राह्मणो भवेत्।
पृ133.4cd क्षत्रियश् च भवेद् राजा वैश्य^सूद्रौ च पूजितौ॥
पृ133.5ab श्वसनः क्रोधनः क्रूरो ह्य् अश्लेषा^सम्भवो नरः।
पृ133.5cd दुर्मनुष्यश् च चण्डश् च; इति सर्वम् इहादिशेत्॥
पृ133.6ab बहु^प्रज्ञः श्राद्ध^करो बहु^भाग्यस् तथा^एव च।
पृ133.6cd धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत्॥
पृ133.7ab पूर्वफाल्गुनी^जातस् तु यः कश्चित् पुरुषो भवेत्।
पृ133.7cd अर्धम् अबुच्छिशीलश् च गुरु^दारा^अभिमर्दकः॥
पृ133.8ab उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्।
पृ133.8cd दिव्यज्ञानश् च विज्ञाने पुरुषः सुभगो भवेत्॥
पृ133.9ab हस्ते जातश् च शुद्ध^आत्मा विक्रान्तो मृदु^भोजनः।
पृ133.9cd सेनापत्यम् च कुरुतेऽस्तेय^कर्मा भवेद् असौ॥
पृ133.10ab चित्रासु जातश् चित्रा^अक्षस् तथा चित्र^कथा^करः।
पृ133.10cd दर्शनीयो बहु^स्त्रीकश् चित्र^शीलो भवेन् नरः॥
पृ134.1ab स्वात्यां च पुरुषो जातो बन्धुश् लाघी चिचक्षणः।
पृ134.1cd मृदुकः पान^शौण्डश् च मित्र^कारी विचारवान्॥
पृ134.2ab विशाखासु नरो जातस् तेजस्वी द्रव्यवान् महान्।
पृ134.2cd शूरो विक्रमवान् दक्षः सुभगश् च भवेद् असौ॥
पृ134.3ab अनुराधा^उद्भवो मर्त्यो मित्रवान् संग्रही नरः।
पृ134.3cd शुचिश् च^एव कृत^ज्ञश् च धर्म^आत्मा च भवेच् च सः॥
पृ134.4ab ज्येष्ठासु पुरुषो जातो मित्रवान् अभिजायते।
पृ134.4cd धनुर्वेद^अभिरामश् च नारीषु कुरुते मनः॥
पृ134.5ab मूलेषु पुरुषो जातोऽकृतज्ञः स्याद् अधर्मिकः।
पृ134.5cd दृढो वीरो भवेच् च^असौ किल्विषी च स मानवः॥
पृ134.6ab आषाढासु च पूर्वासु मत्सरी चलित^इन्द्रियः।
पृ134.6cd मत्स्य^मांस^प्रियश् च^अपि घातकः स्यात् स मानवः॥
पृ134.7ab स^अनुक्रोशश् च दाता च विद्यानिष्ठः सुहृज्जनः।
पृ134.7cd विश्वदैवे नरो जातो भवेद् अपि च निश्चितः॥
पृ134.8ab आचार्यः शास्त्र^कर्ता च विश्वासी च क्रियापरः।
पृ134.8cd श्रवणे जत; आयुष्मान् श्रीमांश् च पुरुषो भवेत्॥
पृ134.9ab अनवस्थित^चित्तश् च च्चित्र^द्रव्यश् च मानवः।
पृ134.9cd धनिष्ठासु भवेज् जातः पुरुषः सर्व^शाङ्कितः॥
पृ135.1ab वारुणे यदि नक्षत्रे जातो भवति मानवः।
पृ135.1cd परुषो क्वेषशीलश् च परिवादी च सर्वशः॥
पृ135.2ab जातो भाद्रपदायां तु पूर्वस्याम् इह मानवः।
पृ135.2cd चारित्र^गुण^युक्तश् च कृत^ज्ञो मुखरस् तथा॥
पृ135.3ab उत्तरस्यां नरो जातो भविष्यति विचक्षणः।
पृ135.3cd मेधावी बह्व् अपत्यश् च धर्म^शीलो महा^धनः॥
पृ135.4ab रेवत्यां पुरुषो जातो धर्म^आत्मा ज्ञाति^सेवकः।
पृ135.4cd दरिद्रोऽल्प^धनो नित्यं दायको न^अनुसूयकः॥
पृ135.5ab अश्विन्यां पुरुषो जातो भवय् अतिविचक्षणः।
पृ135.5cd महा^जन^प्रियश् च^अपि शूरश् च सुभगश् च सः॥
पृ135.6ab भरण्यां पुरुषो जातः पापा^चारोऽविचक्षणः।
पृ135.6cd कन्दर्पे दातुकामश् च परतश् च^उपजीवकः॥
पृ135.7 अयं भोः पुष्करसारिन्न् नक्षत्र^जन्म^गुणो नाम^अध्यायः। %以下、漢訳、チベット訳にはないので、後代の挿入らしい。何から来たのか?
पृ135.8 पठ भोस् त्रिशङ्को उत्पात^चक्रं नाम^अध्यायं। कथयति च।
पृ1 उत्पात^चक्र^निर्देशः (प्.136)
पृ1.1ab अष्टाविंशति^पर्यन्त^कृत्स्ने नक्षत्र^मण्डले।
पृ1.1cd दिव्या विकारा दृश्यन्ते सूर्य^चन्द्र^ग्रहादिषु॥
पृ1.2ab माघस्य प्रथमे पक्षे शैलो वा पार्थिवा यदि।
पृ1.2cd धूमवृष्टिर् हि; आदित्ये; उदयति प्रदृश्यते।
पृ1.2ef विद्युतो वा^अथ दृश्यन्ते तदा विद्याज् जन^क्षयं॥
पृ1.3ab अश्विन्याम् अर्कतो धूमो निर्गच्छन्न् अपि छादयेत्।
पृ1.3cd अनावृष्टिं तदा विद्यात् पूर्णवर्षाणि द्वादश॥
पृ1.4ab भरण्यां माघ^मासे तु पीतसूर्योऽथ दृश्यते।
पृ1.4cd समन्ताद् वध्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
पृ1.5ab फाल्गुने कृत्तिकायां तु; आदित्ये परिखो यदि।
पृ1.5cd नश्यन्ति कर्वटास् तत्र यदि देवो न वर्षति॥
पृ1.6ab चैत्र^मासे यदा पुष्ये सूर्ये कृष्णां प्रदृश्यते।
पृ1.6cd अचिरोदयकाले तु क्षिति^पालोऽवरुध्यते॥
पृ1.7ab वैशाखमासे च^अर्द्रायाम् आदित्यः प्रतिसूर्यकः।
पृ1.7cd संग्रामं तत्र जानीयाद् उभौ घात्येते पार्थिवौ॥
पृ1.8ab गृह्येतां चन्द्र^सूर्यौ वा ज्यैष्ठे भरणि^ज्येष्ठयोः।
पृ1.8cd स^अमात्यो वध्यते राजा राष्ट्रे दुर्भिक्षम् आदिशेत्॥
पृ1.9ab आषाढे च यदा^आदित्ये पूर्वभाद्रपदे स्थिते।
पृ1.9cd सायाह्ने दृश्यतेऽत्यर्थं लोहितो मण्डले ब्रणः॥
पृ1.10ab पर^चक्रेण तद्^राष्ट्रं षण्^मासान् पीड्यते तदा।
पृ1.10cd क्षिति^पालश् च स^अमात्यः पुत्रदारेण वध्यते॥
पृ1.11ab पूर्वायां च^उत्तराषाढायाम् आषाढे गृह्यते शशी।
पृ1.11cd विद्याद् दुर्भिक्ष^कलह रोगांश् च^अत्र विनिर्दिशेत्॥
पृ1.12ab मासेऽथ श्रावणे मूले चन्द्र^सूर्यौ न भासतः।
पृ1.12cd स्फुलिङ्गाश् च^अत्र दृश्यन्ते विद्याद् रोग^भयं महत्॥
पृ1.13ab मासेऽश्वयुजि गृह्येतां एक^पक्षेन्दुभास्करो।(प्.137)
पृ1.13cd राज^पुत्र^सहस्राणां तदा जायेत संक्षयः॥
पृ1.14ab अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्त्तिके।
पृ1.14cd चन्द्र^सूर्याव् अग्निवर्णौ रक्त^वर्णे नभस्^तले॥
पृ1.15ab रविवद् भाति तद्^राष्ट्रं विनश्येत पुनः पुनः।
पृ1.15cd राज्ञां विद्याद् धतानां वै भूमिः पास्त्यति शोणितं॥
पृ1.16ab भरण्यां माघ^मासे तु कृष्णो वायुः समुत्थितः।
पृ1.16cd छादयेच् चन्द्र^सूर्यौ तु शीघ्रं राष्ट्रं विनश्यति॥
पृ1.17ab मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतं।
पृ1.17cd वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथा^अपरे॥
पृ1.18ab सह^आदित्येन चन्द्रेऽथ यदा कश्चिद् ग्रहश् चरेत्।
पृ1.18cd वायुर् वा विषमो वातिइ विद्याद् राज^वधं तदा॥
पृ1.19ab अशन्युल्के तु वैशाखे; आदित्येन सह^उत्थिते।
पृ1.19cd षण्^मास^अभ्यन्तरेण^अथ राष्ट्रे व्यसनम् आदिशेत्॥
पृ1.20ab ज्येष्ठ^मासे यदा^आदित्यो ग्रहतो निर्गतो भवेत्।
पृ1.20cd आदित्यस्य^उपघातेन ग्रहाः सर्वेऽथ पीडिताः॥
पृ1.21ab ज्येष्ठे च पांशुर् वर्षेत; आदित्यः परिविष्यते।
पृ1.21cd क्षिति^पाल^सहस्राणां एक; एकस् तु वध्यते॥
पृ1.22ab आषाढे वायवो वान्ति गच्छन्तो भरणी^स्थिताः।
पृ1.22cd उदपानानि शुष्यन्ते सर्व^शस्यं च शुष्यति॥
पृ1.23ab श्रावणे वायवः पीताः सदा कृष्णं नभस्^तलं।
पृ1.23cd भयं तत्र विजानीयात् समन्तात् समुपस्थितं॥
पृ1.24ab श्रावणे वर्षते ह्य् अग्निः पूर्वभाद्रपदे दिवा।
पृ1.24cd मेघाः शब्दम् उत्कुर्वन्ति रोग^दुर्भिक्षम् आदिशेत्॥
पृ1.25ab यदा भाद्रपदे मासे नभः स्याच् छन्न^गर्जितं।(प्.138)
पृ1.25cd पर^चक्रं तदा राष्ट्रे हरते धन^सञ्चयं॥
पृ1.26ab अश्वयुजि वात^वृष्टिः स्याद् आगत्य^उत्तरां दिशं।
पृ1.26cd पातयेच् च^एवम् आघातं कृत्स्नं राष्ट्रं विनश्यति॥
पृ1.27ab कार्त्तिके शुक्ल^त्रयोदश्यां यदा चन्द्रे धनुर् भवेत्।
पृ1.27cd समन्तान् नश्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
पृ1.28ab उल्का^पाता ह्य् अशनयो माघ^मासे भवन्ति वा।
पृ1.28cd अश्विन्यां विषये तत्र प्रजाऽश्वासेन वध्यते॥
पृ1.29ab मासे तु फाल्गुने यत्र; आग्निवर्षं नभस्^तलात्।
पृ1.29cd भवेच् छब्दस् तदाकाशे तद्^राष्ट्रं नश्यते लघु॥
पृ1.30ab स्वात्यां चैत्रे यदा वर्षं निरुद्धं वात^वर्षितं।
पृ1.30cd दृश्यत^इन्द्रधनुः क्षिप्रं नगरं तद् विनश्यते॥
पृ1.31ab भरण्यां ज्येष्ठ^मासे तु शब्द; उत्तरतो भवेत्।
पृ1.31cd पीतवर्णं तदाकाशं पर^चक्र^भयं भवेत्॥
पृ1.32ab आषाढे मासि पुष्येऽथ दृश्यन्ते व्योग्नि विद्युतः।
पृ1.32cd सतृण^उदकवृष्टिभिस् त्रिभागं मुच्यते प्रजा॥
पृ1.33ab श्रावणे तु यदा मूले बहु देवः प्रवर्षति।
पृ1.33cd दृश्यत^इन्द्रधनुस् तत्र क्षत्रियाणां महद्^भयं॥
पृ1.34ab मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ।
पृ1.34cd सुकृच्छ्रा वायवो वान्ति महद्^रोग^भयं तदा॥
पृ1.35ab मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद् ध्वनिः।
पृ1.35cd क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु दता प्रजा॥
पृ1.36ab भरण्याम् अश्वयुजे शब्द उपरिष्टाद् भवेद् यदि।
पृ1.36cd सतृणं च^उत्सृजेत् पांशुं तापसानां महद्^भयं॥
पृ1.37ab कार्त्तिके तु यदा^आर्द्रायां शब्दः श्रयेत भैरवः।
पृ1.37cd चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत्॥
पृ1.38ab मार्गशीर्षे धनिष्ठायां तूर्यशब्दोऽम्बरे भवेत्।(प्.139)
पृ1.38cd वातातुरस् तदा राष्ट्रे व्याधिर् भवति दारुणः॥
पृ1.39ab पौष^मासे यदा स्वात्यां शब्दो भवति भैरवः।
पृ1.39cd अभीक्ष्णं विद्युद् आकाशे पण्डितानां महद्^भयं॥
पृ1.40ab माघे शुक्ले तु निर्घातो नित्यं शाम्येद् वसुन्धरां।
पृ1.40cd जानीयात् तृतीये वर्षे सकलं राष्ट्रविभ्रमं॥
पृ1.41ab ज्येष्ठायां फाल्गुने मासे कृष्ण^वायुः समाकुलः।
पृ1.41cd अभीक्ष्णं कम्पते भूमिर् ब्रह्म^चारि^भयं तदा॥
पृ1.42ab पूर्वभाद्रपदायां तु चैत्रे कम्पेत् क्षितिर् दिवा।
पृ1.42cd तस्मिन् वर्षे च तद्राष्ट्रे परसैन्यान् महद्^भयं॥
पृ1.43ab पूर्वायां चेद् आषाढायां रात्रौ चैत्रे च निश्चलेत्।
पृ1.43cd असिभिर् हन्यते राजा हन्यते च महा^जनः॥
पृ1.44ab वैशाखे कम्पिता भूमिः कृष्ण^पक्षे ह्य् अभीक्ष्णशः।
पृ1.44cd अनावृष्ट्या तु दुर्भिक्षं मासान् षट् तत्र निर्दिशेत्॥
पृ1.45ab ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद् वसुन्धरा।
पृ1.45cd विद्याद् योध^सहस्राणां मही पास्यति शोणितं॥
पृ1.46ab ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पते।
पृ1.46cd प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत्॥
पृ1.47ab आषाढे कम्पते भूमिः पुष्य^नक्षत्र^संस्थिते।
पृ1.47cd शस्यं विनश्यते तत्र कलिकर्म च जायते॥
पृ1.48ab प्रकम्पन्ते यदा चैत्या; आद्रायां वा मघासु वा।
पृ1.48cd ज्वलेयुः प्रपतेयुर् वा नश्येद् राष्ट्रं तदा लघु॥
पृ1.49ab चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च।
पृ1.49cd सराष्ट्रः क्षितिपस् तत्र न चिरान् नाशम् अर्च्छति॥
पृ1.50ab श्रावणे कम्पते भूमिः पूर्वभाद्रपदा^स्थिते।(प्.140)
पृ1.50cd सदा पराजितो राजा चौर^राष्ट्रे च वध्यते॥
पृ1.51ab कार्त्तिके क्षिति^कम्पेन यदा चैत्यं विशीर्यते।
पृ1.51cd द्वारं वा नगरस्य^अथ भूयिष्ठं नश्यते प्रजा॥
पृ1.52ab वामे वा कषीणे चन्द्रोः शृङ्गे तिष्ठेद् बृहस्पतिः।
पृ1.52cd महा^भोगा विनश्येयुः प्रकाशाः पृथिवीश्वराः॥
पृ1.53ab सूर्याचन्द्रमसोः सृङ्गे लोहित^अङ्गो यदाऽरुहेत्।
पृ1.53cd क्रूर^अक्षमन्त्रिकात् पीडां प्रत्यन्तानां विनिर्दिशेत्॥
पृ1.54ab शनैश्चरो यदा शृङ्गे सोमस्य^अभिरुहेत् तदा।
पृ1.54cd ज्ञेयं रोग^भयं घोरं दुर्भिक्षं च^अत्र निर्दिशेत्॥
पृ1.55ab राहुणा निगृहीतस् तु च^उल्ल्कया हन्यते शशी।
पृ1.55cd षण्^मास^अभ्यन्तरात् तत्र राज्ञो व्यसनम् आदिशेत्॥
पृ1.56ab यस्य चैव^अथ नक्षत्रे शशी सूर्यो विगृह्यते।
पृ1.56cd राहुणा क्षितियो राज्यैः सह पीडाम् अवाप्नुयात्॥
पृ1.57ab राज्ञो वै च^अथ नक्षत्रे चन्द्रं केतुर् यदा विशेत्।
पृ1.57cd प्रत्यन्त^राजभिः सार्धं शस्त्राम् ऊर्च्छां विनिर्दिशेत्॥
पृ1.58ab चन्द्र^मध्य^गतः शुक्रः फाल्गुन्याथ मघा यदा।
पृ1.58cd सर्व^धान्यानि शुष्येयुस् तदा रोगं विनिर्दिशेत्॥
पृ1.59ab बृहस्पतिश् च शुक्रश् च लोहित^अङ्गः शनैश्चरः।
पृ1.59cd लिख्यन्ति सोम^शृङ्गस्य तदा विद्यान् महद्^भयं॥
पृ1.60ab धूमकेतुर् महा^भागः पुष्यम् आरुह्य तिष्ठति।
पृ1.60cd चतुर्^दिशं तदा विंच्यात् पर^चक्रैः पराभवं॥
पृ1.61ab मघायां लोहित^अङ्गो वा श्रवणे वा बृहस्पतिः।
पृ1.61cd तिष्ठेत् संवत्सर^त्रीणि भयं विद्यात् समागरं॥
पृ1.62ab तिष्ठेच् छुक्रोऽथ रोहिण्यां ज्येष्ठे मासे कथंचन।
पृ1.62cd व्याकुर्यान् नियतम् अत्र क्षत्रियाणां महद्^भयं॥
पृ1.63ab विशाखायां समीपस्थौ बृहस्पति^शनैश्चरौ।(प्.141)
पृ1.63cd सोमो वा रविणा सार्धं पर^चक्र^भयं तदा॥
पृ1.64ab काकाः श्येनाश् च बृध्राश् च वसेयुः सहिता मुदा।
पृ1.64cd मैथुनं वारितं वेयुः परैः सह रणस् तदा॥
पृ1.65ab श्येनो हस्तिनिवासे वा; अभिरोहेत् पुनः पुनः।
पृ1.65cd पर^चक्रेण युद्धं तु भवेच् च^अपि पुनः पुनः
पृ1.66ab कन्या प्रसूयते यत्र चतुर्^हस्ता चतुस्तनी।
पृ1.66cd स्त्रीणाम् एव भवेत् तत्र मरणं ह्य् अतिदारुणं॥
पृ1.67ab गर्भ^स्था दारका यत्र हसन्ति च वदन्ति च।
पृ1.67cd तस्य देशस्य जानीयाद् विनाशं समुपस्थितं॥
पृ1.68ab एक^पादां स्त्रिपादांश् च चतुर्^अङ्गांस् तथा^एव च।
पृ1.68cd नार्यो यत्र प्रसूयन्ते राज्ञो व्यसनम् आदिशेत्॥
पृ1.69ab सूयन्ते विकृतान् गर्भान् सन्तानान् भय^व्यञ्जनान्।
पृ1.69cd प्रमदा यत्र देशे तु राजा तत्र विनश्यति॥
पृ1.70ab लघु^हस्त^शीर्ष^मुखान् मानुषं कायम् अश्रितान्।
पृ1.70cd प्रमदा यत्र सूयन्ते राष्ट्रं तत्र विनश्यति॥
पृ1.71ab खराश् च महिषाश् च^अपि पशवोऽथ तथाविधाः।
पृ1.71cd द्वि^त्रि^शीर्षाः प्रसूयन्ते देशे यत्र स नश्यति॥
पृ1.72ab शृगाल^श्वान^मकर^हयरूपाश् च मानवाः।
पृ1.72cd जायन्ते यत्र देशे तु स देशो लघु नश्यति॥
पृ1.73ab पादाव् उभौ यदा वैश्या गुर्विणी संप्रसूयते।
पृ1.73cd देशस्य विलयं ब्रूयात् पर^चक्रेण दारुणं॥
पृ1.74ab पूर्वार्धः पक्षिनरयोर् गर्भो यत्र प्रसूयते।
पृ1.74cd राजा वा राजामात्यो वा सह देशेन नश्यति॥
पृ1.75ab कुम्भाण्डो जायते यत्र द्विसुखोऽथ चतुर्^मुखः।(प्.142)
पृ1.75cd त्रिनेत्रस् त्रिमुखो वा^अपि विद्यात् तत्र महद्^भयं॥
पृ1.76ab सौकरेण तु वक्रेण शरीरं मानुषं यदि।
पृ1.76cd सूतं चतुर्^दिशं राष्ट्रं हन्यात् तत्र न संशयः॥
पृ1.77ab आदित्यस्य तु रूपेण मानुषो यत्र जायते।
पृ1.77cd विभ्रमात् सकलं राष्ट्रं विनाशम् उपगच्छति॥
पृ1.78ab उत्तानशायी बालस् तु देशं यत्र द्विजोत्तमः।
पृ1.78cd दृष्टः प्रव्याहरन् वेदान् क्षिप्रं देशो विनश्यतेइ॥
पृ1.79ab कुक्षिं भित्वा यदा बालो गर्भान् निष्क्रमते स्वयं।
पृ1.79cd अत्राणां मातरं कृत्वा स देशो नश्यते लघु॥
पृ1.80ab गर्भ^स्थाः सूकरा; उष्ट्राः सर्पाश् च शकुनिस् तथा।
पृ1.80cd स्त्रीणां गर्भात् प्रसूयन्ते देशे तु भयम् आदिशेत्॥
पृ1.81ab पौरुषं गार्दभं च^अथ सौकरं च^अर्ध^विग्रहं।
पृ1.81cd गावो यत्र प्रसूयन्ते निर्दिशेद् भयम् आगतं॥
पृ1.82ab नारी गृह्णाति गर्भं वा; अदृष्ट^स्तन^रूपिणी।
पृ1.82cd विनाशं तस्य देशस्य सनृपस्य विनिर्दिशेत्॥
पृ1.83ab जटी दीर्घनखो यत्र सुकृष्णः परुष^च्छविः।
पृ1.83cd सजनो जायते यत्र राष्ट्रं साधिपतिं दहेत्॥
पृ1.84ab अग्रीवा दन्त^सहिता जायन्ते यत्र बालकाः।
पृ1.84cd शुष्येत सकलं शस्यं जनश् च विलयं व्रजेत्।
पृ1.85ab एक^बाहुर^शीर्षोऽथ गर्भो यत्र प्रसूयते।
पृ1.85cd स्वयं क्षुभ्येत तद्^राष्ट्रं विनश्येत न संशयः॥
पृ1.86ab फले फलं यदा पश्येत् पुष्पे वा पुष्पम् आश्रितं।
पृ1.86cd गर्भाः स्रवेयुर् नारीणां युवराजश् च वध्यते॥
पृ1.87ab अकाले पादपा यत्र पुष्प्यन्ति च फलन्ति च।(प्.143)
पृ1.87cd लता गुल्मोऽथ वल्ली वा देशे तत्र भयं भवेत्॥
पृ1.88ab वृक्ष^उपरिष्टात् पश्येद् वा स्रवन्तम् आत्म^शोणितम्।
पृ1.88cd कूजमानं पतङ्गं वा तदा विद्यान् महद्^भयं॥
पृ1.89ab वृक्षाणां मण्डपानां वा छाया न परिवर्तते।
पृ1.89cd चतुर्^वर्ण^भयं तत्र कलिकर्म च जायते॥
पृ1.90ab पुष्प्येग्रुः पादपा यत्र विविधाः पुष्प^जातयः।
पृ1.90cd कल्प^वृक्ष^प्रकृतयस् ततो विद्यान् महद्^भयं॥
पृ1.91ab अनावर्तं यदा पुष्पं फलं च^अपि प्रदृश्यते।
पृ1.91cd विनाशं तस्य देशस्य दुर्भिक्षं कलहं वदेत्॥
पृ1.92ab स्थानास्थानं गता वृक्षा दृश्येयुर् यत्र कुत्रचित्।
पृ1.92cd पूर्वप्रतिष्ठिता राजा न चिरेण विचाल्यते॥
पृ1.93ab दैव^असुरं च संग्रामं पश्येद् अद्भुत^दर्शनं।
पृ1.93cd शस्त्रं मूर्च्छयते तत्र तस्करैश् च^अपि पूर्ववत्॥
पृ1.94ab कम्पते रुदते शास्ता गच्छन् वा यत्र दृश्यते।
पृ1.94cd पर^चक्रात् तदा विद्याद् अत्यर्थं तत्प्रराजयं॥
पृ1.95ab देवता यत्र देशे तु नृत्यन्ति च हसन्ति च।
पृ1.95cd अश्रूणि पातयेयुर् वा तदा विद्यान् महद्^भयं॥
पृ1.96ab देवता यत्र क्रीडन्ति ज्वलन्ति निमिषन्ति वा।
पृ1.96cd चलेयुर् अथवा यत्र क्षिति^पोऽन्यो भवेत् तदा॥
पृ1.97ab शिवलिङं यदा कम्पेद् गगने वा^अथ दृश्यते।
पृ1.97cd निमज्जते धरण्यां वा ध्रुवं राज^वधो भवेत्॥
पृ1.98ab प्रतिमाः परिवर्तन्ते धूमायन्ते रुदन्ति च।
पृ1.98cd प्रस्विद्येयुः प्रधावेयुर् अन्यो राजा भविष्यति॥
पृ1.99ab अचलो वा चलेत् स्थानाच् चलं वा^अप्य् अचलं भवेत्।
पृ1.99cd अमात्यो हन्ति राजानं कलहं च^अत्र निर्दिशेत्॥
पृ1.100ab वमन्ति रुधिरं कन्या नमन्ते वा दिशो दश।(प्.144)
पृ1.100cd अयुक्ता वा प्रवर्तन्ते क्षत्रियाणां महद्^भयं॥
पृ1.101ab वर्षते कुसुमं यत्र रक्त^विन्दुम् अथ^अपि वा।
पृ1.101cd प्राणिनो विविधान् वा^अपि विद्याच् चौर^भयं तदा॥
पृ1.102ab यूपाः पुराणा निगमा देव^आगाराणि चैतियाः।
पृ1.102cd नगराण्य् अथ धूम्यन्ते क्षिप्रं राजा विनश्यति॥
पृ1.103ab इन्दुर् वा दीप^वृक्सो वा दीपो यत्र न दीप्यते।
पृ1.103cd राज्यकामः कुमारो वा क्षुभ्येद् विटपकोऽपि वा॥
पृ1.104ab अन्तःपुरे यदा नीडां कुर्वते मधु^मक्षिकाः।
पृ1.104cd अस्त्रं वा^अपि गृहं दह्याद् राज्ञो व्यसनम् आदिशेत्॥
पृ1.105ab पतेद् अन्तःपुरे विद्युद् वृक्षे वा^अप्य् आश्रमे तथा।
पृ1.105cd पुरि चैत्यच्छायायां वा राजार्थे पतिता हि सा॥
पृ1.106ab प्राकारे वाऽयुधागारे गोपुरास्थानकेषु वा।
पृ1.106cd वायसः कुरुते नीडं स^अमात्यो ध्वंसते नृपः॥
पृ1.107ab अनाहतेभ्यस् तूर्येह्भ्यः स्वयं शब्दो विनिश्चरेत्।
पृ1.107cd स्वचक्र^क्षोभदोषेण सर्वं राष्ट्रं विलुप्यते॥
पृ1.108ab मांस^शोणित^वर्षं वा पत्र^पुष्प^फलानि वा।
पृ1.108cd यदाभिवर्षेत् तद्वर्षं चक्रै राष्ट्रं विलुप्यते॥
पृ1.109ab मधु^फाणित^पुष्पाणि गन्ध^वर्षाण्य् अथ^अपि वा।
पृ1.109cd दिशो दाहाश् च दृश्येयुर् मार^दुर्भिक्ष^लक्षणं॥
पृ1.110ab मेघः समन्ततो गर्जेद् उपवर्षेत् सचातकं।
पृ1.110cd शोणितं सकरकं स्यात् तदा विद्यात् पराद् भयं॥
पृ1.111ab विद्युच् च पतते घोरा करकाणां च वर्षणं।
पृ1.111cd गन्धर्व^नगरं च^अथ दृष्ट्वा विद्यान् महद्^भयं॥
पृ1.112ab शशी शोणित^संकाशो मध्ये कृष्णो विवर्णवान्।(प्.145)
पृ1.112cd सामन्तकेन पीड्यते विद्याद् राष्ट्रे महद्^भयं॥
पृ1.113ab प्रदीपित^अग्नि^संकाशो यदा दृश्येत चन्द्रमाः।
पृ1.113cd गगनं दह्यते तत्र लोक^पीडा ज्वरेण च॥
पृ1.114ab यदा गैरिक^संकाशः क्षिप्रम् एव^उपशाम्यति।
पृ1.114cd वर्षणस्य^आगमो विद्याद् यदि वायुः प्रवायते॥
पृ1.115ab सन्ध्यायां धूम्र^वर्णायां दृश्येतेन्दुश् च भास्करः।
पृ1.115cd विच्छिन्नो ब्रह्म^रूपेण वर्षं तत्र विनिर्दिशेद्॥
पृ1.116ab नाप्सु मज्जति न^अप्य् अग्नौ पूर्ववच् च न दृश्यते।
पृ1.116cd अग्निर् उत्पत्स्यते तत्र कोष्ठ^आगारं दहेत सः॥
पृ1.117ab ध्वज^अग्रे वायसो यत्र लम्ब^पक्षो विधावते।
पृ1.117cd उदकं संहरेत् क्षिप्रम् अग्नितः सुमहद्^भयं॥
पृ1.118ab जलं जाज्वल्यमानं तु मत्स्यो निर्दहति स्वयं।
पृ1.118cd अनावृष्टिं तदा ब्रूयाद् दुर्भिक्षं च महद्^भयं॥
पृ1.119ab पुरद्वारे यदा^आगच्छेत् स्वयम् आरण्यको मृगः।
पृ1.119cd चक्र^द्वयेऽपि दुर्भिक्षं राष्ट्रे रोगं च निर्दिशेत्॥
पृ1.120ab त्रिशीर्षः पञ्च^शीर्षो वा यदा सर्पोऽथ दृश्यते।
पृ1.120cd अनावृष्ट्या तदा विद्यात् सर्व^शस्यं विनश्यति॥
पृ1.121ab कुशूलो यत्र दृश्येत कम्पयन् तु वसुन्धरां।
पृ1.121cd कोष्ठ^आगाराणि नश्येयुर् ये च^अन्ये धन^सञ्चयाः।
पृ1.122ab सर्प; उद्यत^शीर्षस् तु युध्यते पुरुषैः सह।
पृ1.122cd चक्र^द्वयाद् रोगतश् च विद्यात् तत्र महद्^भयं॥
पृ1.123ab बिल; एकत्र बहवः सर्पाः सुपरिवेष्टिताः।
पृ1.123cd शस्त्र^मृत्युं तदा विद्यात् क्षत्रियाणां महद्^भयं॥
पृ1.124ab निश्चरन्त्य् अवधानेन खड्गाः प्रज्वलिता यदा।
पृ1.124cd ततस् तं न चिरात् पश्येत् संग्रामं प्रत्युपस्थितं॥
पृ1.125ab काकः श्येनश् च गृध्रो वा यस्य नीयेत मूर्धनि।(146)
पृ1.125cd षण्^मास^अभ्यन्तरे राजा म्रियते सपुरोहितः॥
पृ1.126ab प्रासादाश् च प्रकम्पन्ते शरणानि गृहाणि च।
पृ1.126cd महा^बलं च वध्येत राष्ट्रस्य राज^पालकः॥
पृ1.127ab वज्र^उद्धृता दिशः सर्वाः कृष्ण^पक्षे चतुर्^दिशं।
पृ1.127cd वर्षेयुः शोणितं यत्र क्षिति^पालोऽत्र वध्यते॥
पृ1.128ab सूर्यस्य^उदय^काले तु महोल्का निपतेद् यदा।
पृ1.128cd राज^पुत्र^सहस्राणां भूमिः पास्याति शोणितं॥
पृ1.129ab वृक्षाः सर्पाः प्रकम्पेयुर् मुच्येयुस् त्वचो वा तथा।
पृ1.129cd सर्वस्मिन् एव राष्ट्रे तु विद्याच् छत्रु^भयं महत्॥
पृ1.130ab दिने ह्य् उल्का^प्रयुक्तिर् वा ज्वलन्ती यदि दृश्यते।
पृ1.130cd रक्त^उत्पादं तदा विद्यात् संग्रामं भीम^दर्शनं॥
पृ1.131ab असिं प्रज्वलितं पश्येत् तोमरं चक्रम् एव च।
पृ1.131cd विद्यात् पश्यन्ति शस्त्राणि संग्रामं भीम^दर्शनं॥
पृ1.132ab दीर्घम् उच्छ्वसते वाऽश्वः अश्रूणि च निपातयेत्।
पृ1.132cd पादेन कर्षते शीघ्रं युद्धे राज^वधो ध्रुवं॥
पृ1.133ab काकश् चेद् गृहम् आरुह्य हा पुत्र; इति वाशति।
पृ1.133cd सर्वः प्रणश्यते देशो नगर^ग्राम^कर्वटः॥
पृ1.134ab अनग्नौ जायते धूमः स्थले पद्मानि वा यदा।
पृ1.134cd विनाशं तस्य देशस्य नियमाच् छीघ्रम् आदिशेत्॥
पृ1.135ab आरवन्ति यदा घोरं मेघा वृकमृगास् तथा।
पृ1.135cd विनाशं तस्य देशस्य विद्याच् छीघ्रम् उपस्थितं॥
पृ1.136ab छिन्नस्रोता भवेन् नद्यश् चिरकारवहा; अपि।
पृ1.136cd गृहाः शून्योदकेन^अपि शुष्कास् तत्र भयं भवेत्॥
पृ1.137ab प्रतिस्रोता यदा नद्यो वहन्त्य् अप्रतिवारिताः।
पृ1.137cd नित्योद्विग्ना जनपदा निर्दिशेच् च जन^क्षयं॥
पृ1.138ab धनूंष्य् आकृZयमाणानि धूमायन्ति ज्वलन्ति च।(प्.147)
पृ1.138cd अन्यद् वा^अपि प्रहरणं परेभ्यो जायते भयं॥
पृ1.139ab मयूर^ग्रीव^संकाशः परिवेशो निशाकरे।
पृ1.139cd विद्याद् राज^सहस्राणां मही पास्यति शोणितं॥
पृ1.140ab नराणां प्रमदानां च रति^हर्षो न जायते।
पृ1.140cd सर्वत्र शोक^चिन्ता वा महत् तत्र भयं भवेत्॥
पृ1.141ab निर्ग्रन्था; ऋषयः सन्तो देशान् प्रक्रमेयुर् यतः।
पृ1.141cd नदीं भित्वा निकुञ्जान्वा स देशो नश्यतेऽचिरात्॥
पृ1.142ab यत्रौषध्यश् च विरसा जलं च परिहीयते।
पृ1.142cd विद्याद् देशं तम् उत्सृष्टं देवता^ऋषिसाधुभिः॥
पृ1.143ab मत्स्याः कूर्माश् च सर्पाश् च म्रियन्ते यत्र जाङ्गलाः।
पृ1.143cd धन^स्कन्धः स्त्रियास् तत्र सपत्नैर् विप्रलोप्स्यते॥
पृ1.144ab अपूर्वाः पक्षिणो यत्र स्थले वारिणि; एव वा।
पृ1.144cd दृश्येयुः पर^चक्रेण धन^स्कन्धो विलोप्स्यते॥
पृ1.145ab महा^पथो यदा कक्षैः प्रसृतैर् अपथो भवेत्।
पृ1.145cd सग्राम^कर्वटं राष्ट्रं पुत्रेण सह नश्यते॥
पृ1.146 नानोत्पातचक्र^निर्देशो नाम^अध्यायः।
पृ1.147 पठ भोस् त्रिशङ्को पुरुष^पिन्याध्यायं। अथ किं। कथयतु भगवान्।
पृ1.148 अथ खलु भोः पुष्करसारिन् पुरुष^पिन्याध्यायं व्याखामि तच् छ्रूयतां। कथयतु भगवान्।
पृ1.149 अष्टाविंशतिः पुष्करसारिन् नक्षत्राणि प्रकीर्तितानि। यानि चन्द्र^सूर्य^निःसृतान्य् अनुवहन्ति। तत्र सुकुगृष्ट्या अष्टाङ्गुल^प्रमाणया द्वादशाक्षगृष्टयः स्वशरीरं (प्.148) दैर्घ्येण ज्ञातव्यं। एकाक्षगृष्टिः शीर्ष^मूर्ध्नि एक^पाद^तलं भवेत्। चतुर्^दश गृष्टयो नक्षत्राणां पदं यत्र संदृश्यते। तद् अन्यथा न भवति। नक्षत्रे यत्र यो जातस् तत्र तत्र संकृश्यते।
पृ2 पुरुष^पिन्यः
पृ2.1ab कृत्तिकायां हि जातस्य मुखे वै चतुर्^अङ्गुलः।
पृ2.1cd पिन्यो दक्षिणतो यस्य लोमशः कृष्ण^लोहितः॥
पृ2.2ab भोगवान् यशसा युक्तः पण्डितो ज्वलति श्रिया।
पृ2.2cd कृत्तिकास्व् अथ जातस्य भवत्य् एतद् धि लक्षणं॥
पृ2.3ab दृश्यते व्रण; एवायं यस्य वै चतुर्^अङ्गुलः।
पृ2.3cd रोहिण्यां जातकः सोऽपि विद्वान् धर्म^रतः सदा॥
पृ2.4ab मण्डितो भोग^सम्पन्नो ह्री^युक्तश् च^अपि सर्वतः।
पृ2.4cd शूरो विजय^सम्पन्नो नित्यं शत्रु^प्रमर्दकः॥
पृ2.5ab ग्रीवायाम् अर्ध^गृष्ट्या तु दाहो यस्य प्रदृश्यते।
पृ2.5cd मृगशीर्षे ह्य् असौ जातः शूरो भोग^समर्पितः॥
पृ2.6ab अर्ध^द्वितीय^गृष्ट्या तु पिन्यो वामे हि यस्य तु।
पृ2.6cd आर्द्रायां क्रोधनो जातो मूर्खो गोपतिकश् च सः॥
पृ2.7ab वामे कक्षे व्रणो यस्य कृष्णश् च^एव पुनर्वसौ।
पृ2.7cd धन^धान्य^समृद्धो हि जायते स्वल्प^मेधसः॥
पृ2.8ab तथा^एव पुष्ये जातोऽसौ दृश्यते वर^लक्षणः।
पृ2.8cd चक्र^मध्ये च हस्ते च सूर्यश् चन्द्रो विराजते॥
पृ2.9ab अर्ध^प्रदक्षिणावर्ताः केशाः सर्वे हि संस्थिताः।(प्.149)
पृ2.9cd परिमण्डलश् च कायेन जितक्लेशोऽपि नायकः॥
पृ2.10ab हृदये यस्य दाहः स्याद् श्लेषायां कलि^प्रियः।
पृ2.10cd दुःशीलो दुःखसंवासो मैथुनाभिर् अतश् च सः॥
पृ2.11ab अध; उरसि पृष्ठे वा यस्य व्रणः प्रदृश्यते।
पृ2.11cd मघायां धनवान् जातो महा^आत्म धार्मिको नरः॥
पृ2.12ab नाभ्यां दक्षिण^वामाभ्यां व्रणो यस्य प्रदृश्यते।
पृ2.12cd पूर्वफाल्गुनीजातोऽसौ मत्सरी च^अल्प^जीवितः॥
पृ2.13ab चतुर्^अङ्गुलतो नाभ्या यस्य पिन्यः प्रदृश्यते।
पृ2.13cd उत्तरफाल्गुनीजातो भोग^शीलः श्रुतोद्यतः॥
पृ2.14ab श्रोण्यामलोहितः पिन्यो हस्ते जातस्य दृश्यते।
पृ2.14cd चौरः शठश् च मायावी मन्दपुण्योऽल्प^मेधसः॥
पृ2.15ab व्यंजने यस्य पिन्यस् तु दृश्यते नियमेनहि।
पृ2.15cd चित्रा^जातः स चेद् रोगी नृत्यगीतरतस् तथा॥
पृ2.16ab व्यञ्जनेऽपि च; ऊर्ध्वे वा पीतः पिन्यःप्रदृश्यते।
पृ2.16cd जातः स्वात्याम् असौ लुब्धो गुणद्विष्टो ह्य् अपण्डितः॥
पृ2.17ab कुगृष्ट्या यस्य; ऊरूभ्यां पिन्यो लोहित; एव हि।
पृ2.17cd आकीर्णो नरनारीभिर् विशाखायां भटोऽग्रणीः॥
पृ2.18ab विद्वान् शूरो जितमित्रो नित्यं सौख्यपरायणः।
पृ2.18cd श्रिया धृत्या च सम्पन्नोऽच्युतः स्वरुपपद्यते॥
पृ2.19ab द्वितीयगृष्ट्याम् ऊरुभ्याम् अङ्गे यस्य प्रदृश्यते।
पृ2.19cd शीलवान् अनुराधायां धर्म^भोग^समन्वितः॥
पृ2.20ab अधो यस्य^इह च^ऊरुभ्यां पिन्यो ज्येष्ठे स जायते।
पृ2.20cd अल्प^अयुर् अप्रियो दुःखी दुःशीलः कृपणस् तथा॥
पृ2.21ab जानुभ्याम् ऊर्ध्वतः सूक्ष्मो व्रणो यस्य^इह दृश्यते।(प्.150)
पृ2.21cd मूलेन भाग्यवान् जातः स्वगृहं नाशयेल् लघु॥
पृ2.22ab पूर्वाषाढासु जातस्य पिन्यः स्याज् जानु^मण्डले।
पृ2.22cd दायको धर्म; आसङ्ग्य^च्युतः स्वर्गपरायणः॥
पृ2.23ab उत्तरायाम् आषाढायां जातस्य तिलकस् त्रिके।
पृ2.23cd यदि दृश्येत् स मेधावी भोगवान् स्याज् जन^प्रियः॥
पृ2.24ab द्वितीयः पिन्यो दृश्येत धनवान् भोगवान् सदा।
पृ2.24cd सत्य^प्रियस् तथारोगोऽच्युतः स्वर्गं च गच्छति॥
पृ2.25ab धनिष्ठायां च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
पृ2.25cd क्रोधनो मन्दरागश् च प्राज्ञो भोग^विवर्जितः॥
पृ2.26ab द्विकुगृष्ट्या च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
पृ2.26cd मूर्खः शतभिषायां तु म्रियते ह्य् अदकेन सः॥
पृ2.27ab अधो जङ्घां कुगृष्ट्या तु पूर्वभाद्रपदे व्रणः।
पृ2.27cd परोपतापको मूर्खो दरिद्रश् चौर; इत्य् अपि॥
पृ2.28ab कुगुष्ट्या यस्य पिन्यः स्याज् जातो भाद्रपद^उत्तरे।
पृ2.28cd दानशीलः स्मृतिप्राप्तो दयापन्नो विशारदः॥
पृ2.29ab उभयोः पादयोः सूक्ष्मः पिन्यो यस्य प्रदृश्यते।
पृ2.29cd रेवत्यां जायते नीचो नापितः स हवत्य् अपि॥
पृ2.30ab अङ्गुष्ठविवरे पिन्यो नीलो यस्य प्रदृश्यते।
पृ2.30cd अरोगो बलवान् नित्यम् अश्विन्यां जात; एव सः॥
पृ2.31ab अथ पाणितले पिन्यो भरण्याम् अक्षयः स्मृतः।
पृ2.31cd वध्यघातश् च दुःशीलः स्यान् नरकपरायणः॥
पृ2.32ab नक्षत्राणां पदं ह्य् एतद् येन चर्या प्रजायते।
पृ2.32cd एतद् धि लोक^प्रज्ञानं लोको यत्र समाश्रितः॥इति पिन्याध्यायाः॥
पृ2.33 अथ खलु भोः पुष्करसारिन् पिटकाध्यायं नाम^अध्यायं व्याखास्यामि। तच् छ्रूयतां। कथयतु भगवान् त्रिसङ्कुः।(प्.151)
पृ3 पिटकाध्यायः
पृ3.1ab अतः ऊर्ध्वं प्रवक्ष्यामि सर्व^स्थान^गतं पुनः।
पृ3.1cd स्त्रीणां च पुरुषाणां च पिटकं सर्व^कर्मकं॥
पृ3.2ab लाभ^अलाभं सुखं दुःखं जीवितं मरणं तथा।
पृ3.2cd प्राज्ञा येनाभिजानन्ति तं च सर्वं निबोधतां॥
पृ3.3ab तत्राभिघातदग्धा वा तिलास् तद् रूपका; अपि।
पृ3.3cd विस्फोटवर्नभेदाश् च पिटकाभिहिताः स्मृताः॥
पृ3.4ab श्वेतवर्णेन पिटको विप्राणां पूजितो भवेत्।
पृ3.4cd क्षतोपमः क्षत्रियाणां वैश्यानां पीतकः स्मृतः॥
पृ3.5ab शूद्राणाम् असितः श्रेष्ठो विवर्णो म्लेच्छ^जातिषु।
पृ3.5cd यदा सवर्ण^पिटको मूर्ध्नि राजा महान् स्मृतः।
पृ3.6ab शीर्षे तु धन^धान्याभ्यां कान्तये सुभगाय च।
पृ3.6cd उपघातं भ्रूवोर् विद्यात् स्त्री^लाभो भ्रूवसङ्गमे॥
पृ3.7ab अक्षिस्थाने तु पिटकःकरोति प्रिय^दर्शनं।
पृ3.7cd अक्षिभ्रूभागे शोकाय गण्डे पुत्रवधो ध्रुवं॥
पृ3.8ab अश्रूपातः ध्रुवं शोकः श्रवणे गोषु नाशकः।
पृ3.8cd कर्ण^पीठे विभूषाय नासावंशे तु जातये॥
पृ3.9ab नासागण्डे पुत्र^लाभं वस्त्र^लाभं ध्रुवं वदेत्।
पृ3.9cd नास^अग्रे जातेनाप्नोति गन्ध^भोगान् अभीप्सितान्॥
पृ3.10ab उत्तरोष्ठे तथाधरे च^अन्न^पानं शुभ^अशुभं।(प्.152)
पृ3.10cd चिबुके हनुदेशे च धनं गावः सतां श्रियः॥
पृ3.11ab गले तु दानम् आप्नोति पानम् आभरणानि च।
पृ3.11cd शिरः^सन्धौ च ग्रीवायां शिरश्छेदनम् आदिशेत्॥
पृ3.12ab जातोऽयं शिरसो मूले हनुनि च धन^क्षयः।
पृ3.12cd भैक्षचर्या भवेत् सन्धौ हृदये प्रिय^सङ्गमः॥
पृ3.13ab पृष्ठे तु दुःखशय्यायै; अन्न^पानक्षयाय च।
पृ3.13cd पार्श्वे तु सुख^शय्यायै स्तने तु सुतजन्यता॥
पृ3.14ab जातेन शिवम् आप्नोति न च^अप्रिय^समागमः।
पृ3.14cd बाह्वोः शत्रु^विनाशाय युक्तं स्त्री^लाभ; एव च॥
पृ3.15ab ददात्य् आभरणं जातः प्रबाह्वोः कुर्परे क्षुधा।
पृ3.15cd मणिबन्धे नियमनमंसाभ्यां हर्ष; एव च॥
पृ3.16ab सौभगं धन^लाभंच जातः पाणौ ददाति च।
पृ3.16cd पुष्पितो ह्य् एकदेशे तु दशनेषु नखेषु च॥
पृ3.17ab जातेन हृदि जानीयाद् भ्रातृपुत्रसमागमं।
पृ3.17cd जठरे सोम^दानाय नाभ्यां स्त्री^लाभम् आदिशेत्॥
पृ3.18ab जघने व्यसनं विद्यान् नार्य दौःशील्यम् एव च।
पृ3.18cd पुत्रोत्पत्तिस् तु वृषणे लिङ्गे भार्या तु शोभना॥
पृ3.19ab पृष्ठान्ते सुख^भागित्वं स्फिचि च^अपि धन^क्षयः।
पृ3.19cd ऊरुजाताश् च पिटका धन^सौभाग्यदायकाः॥
पृ3.20ab जानौ शत्रु^भयं विद्यात् तथा^एव च धन^क्षयं।
पृ3.20cd जानु^संधौ विजानीयान् मेढ्रके ह्य् अथ जातकैः।
पृ3.20ef विजयं ज्ञान^लाभं च पुत्र^जन्म विनिर्दिशेत्॥
पृ3.21ab स्त्री^लाभं वक्षसि च^एव भवेद् अन्यो निरर्थकः।
पृ3.21cd जङ्घायां परसेवा तु परदेशात् तु भुज्यते॥
पृ3.22ab मणिबन्धे तु पिटको बन्धनं निर्दिशेद् ध्रुवं।(प्.153)
पृ3.22cd परिवाधं स लभते बन्धनं च न संशयः।
पृ3.22ef पार्श्वे गुल्फे च जानीयाच् छस्त्रेण मरणं ध्रुवं॥
पृ3.23ab अङ्गुलीषु ध्रुवं शोको व्याधिश् च^अङ्गुलिपर्वसु।
पृ3.23cd प्रवासं प्रवसेन् नित्यं तथा^एव^उत्तरपादके॥
पृ3.24ab यस्य पाद^तले जातस् तथा हस्त^तलेऽपि च।
पृ3.24cd धनं धान्यं सुता गावः स्त्रियो यानानि च^अप्नुयात्॥
पृ3.25ab स्निग्धं स्निग्धेषु विज्ञेयं चलेषु च चलं फलं।
पृ3.25cd स्थान^स्थे विपुलं दद्यात् फलं नृणां शुभोदयं॥
पृ3.26ab विवर्णो विपरीतश् च फलं सर्वं प्रयच्छति।
पृ3.26cd पुंसां मध्ये ये स्निग्धाश् च देशे दक्षिणतश् च ये।
पृ3.26ef तथा च^अभ्यन्तरे च^एव स्थाने तु प्रतिपूजिताः॥
पृ3.27ab स्त्रीणां मृदुषु देशेषु वक्त्रान् तेषु च पर्वतः।
पृ3.27cd तत्त्वं विज्ञाय पिन्यानं स्थानं वर्णं च जन्म च॥
पृ3.28ab स्थान^अस्थानं च मतिमान् विकारं गतिम् एव च।
पृ3.28cd आदिशेत् तु नरः पश्चाद् यथ^एवं समुदाहृतं॥
पृ3.29ab वामभागे तु नारीणां विज्ञेएयाः पिटकाः शुभाः।
पृ3.29cd दक्षिणे तु मनुष्याणां भवन्ति ह्य् अर्थ^साधकाः॥
पृ3.30ab विपरीतास् तु पिटका मोघास् तु बहवः स्मृताः।
पृ3.30cd यथोक्तानं च सन्धिस्थाः सर्वे विफलदाः स्मृताः॥
पृ3.31ab सिद्धाः ध्रुवा व्रणा भिद्यास् तथा सद्यः^कृताश् च ये।
पृ3.31cd धर्म^कीलसमाश् च^एव सर्वे ते पिटकाः स्मृताः॥
पृ3.32ab गुणदोषाश् च सर्वेषां तथा^अप्य्^अन्ये प्रकीर्त्तिताः।
पृ3.32cd इत्य् आह भगवांस् त्रिशङ्कुः शिष्येभ्यो नित्य^दर्शनं॥
पृ3.33ab न नखेन न शस्त्रेण न^आयसेन कथंचन।(प्.154)
पृ3.33cd काञ्चनेन सुवर्णेन दहेद् विप्रांश् च भोजयेद्॥
पृ3.34 अयं भोः पुष्करसारिन् पिटकाध्याय^नाम^अध्यायः।
पृ3.35 अथ खलु भोः पुष्करसारिन् स्वप्न^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान्।
पृ4 स्वप्न^अध्यायः
पृ4.1ab शुभ^अशुभं च स्वप्नानां यत् फलं समुदाहृतं।
पृ4.1cd देवता^ब्राह्मणौ गावौ बह्निं प्रज्वलितं तथा।
पृ4.1ef यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
पृ4.2ab यस् तु पश्यति स्वप्न^अन्ते राजान्नं कुञ्जरं हयं।
पृ4.2cd सुवर्णं वृषभं च^एव कुटुम्बं तस्य वर्धते।
पृ4.3ab सारसांश् च शुकान् हंसान् क्रौञ्चान् श्वेतांश् च पक्षिणः।
पृ4.3cd यस् तु पश्यति स्वप्ने वै कुटुम्बं तस्य वर्धते।
पृ4.4ab समृद्धानि च शस्यानि नवानि सुरभीणि च।
पृ4.4cd पद्मिनीं पुष्पितां च^अपि पुर्ण^कुम्भांस् तथा^एव च॥
पृ4.5ab प्रसन्नम् उदकं च^एव पुष्पाणि विविधानि च।
पृ4.5cd यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
पृ4.6ab पाणौ पादेऽथ वा जानौ शस्तेर्ण धनुषा^अपि वा।
पृ4.6cd प्रहारा यस्य दीयन्ते तस्य^अम्बरोऽभिवर्धते॥
पृ4.7ab तारा^चन्द्रमसौ सूर्यं नक्षत्राणि ग्रहांस् तथा।
पृ4.7cd यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
पृ4.8ab अश्व^पृष्ठं गज^स्कन्धं यानानि शयनानि च।
पृ4.8cd योऽभिरोहति स्वप्न^अन्ते महद्^ऐश्वर्यम् आप्नुयात्॥
पृ4.9ab पतितश् च^अरुहेद् भूयस् तत्रस्थश् च विबुध्यते।(प्.155)
पृ4.9cd ऐश्वर्य^धन^लाभाय नष्ट^लाभाय निर्दिशेत्॥
पृ4.10ab गोयुतं च रथं स्वप्ने हयं वा योऽभिरोहति।
पृ4.10cd तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
पृ4.11ab प्रपातं पर्वतं च^एव योऽभिरोहति मानवः।
पृ4.11cd तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
पृ4.12ab आसने शयने यने शरीरेऽथ गृहे क्षयः।
पृ4.12cd येषाम् आरोहणं शस्तं तेषाम् आरोहणात् क्षयः।
पृ4.12ef येषाम् आरोहणाद् दोषास् तेषाम् आरोहणाद् गुणाः॥
पृ4.13ab त्रि^साहस्रं भवेत् कण्ठे दश शीर्षस्य छेदने।
पृ4.13cd राज्यं शत^सहस्रं वा लभते शीर्ष^भक्षणे॥
पृ4.14ab शुष्कां नदीं ह्रदं वा^अपि शून्य^आगार^प्रवेशनं।
पृ4.14cd शुष्क^उदपान^ं तु लभते स्वप्ने दृष्ट्वा ध्रुवं भयं॥
पृ4.15ab शृगालं मानुषं नग्नं गोधा^वृश्चिक^सूकरं।
पृ4.15cd अजां वा पश्यतः स्वप्ने व्याधि^क्लेशं विनिर्दिशेत्॥
पृ4.16ab काकं श्येनम् उलूकं वा गृध्रं वा^अप्य् अथ वर्तकं।
पृ4.16cd मयूरं पश्यतः स्वप्ने तस्य व्यसनम् आदिशेत्॥
पृ4.17ab नग्नं पश्यति ह्य् आत्मानं पांशुना ध्वस्तम् एव वा।
पृ4.17cd कर्दमेन^उपलिप्तं वा व्याधि^क्लेशम् अवाप्नुयात्॥
पृ4.18ab कुण्ड्थाः स्त्रियोऽथ संलोक्य चौरान् द्यूत^करांस् तथा।
पृ4.18cd कुशीलांश् चारणान् धूर्तान् स्वप्ने दृष्ट्वा ध्रुवं भयं॥
पृ4.19ab वमि^मूत्र^पुरीषाणि विरेकं वसानो जनः।
पृ4.19cd उद्वर्तनं वा कुर्वाणः स्वप्न^अन्ते रोगम् अर्च्छति॥
पृ4.20ab ध्वजं छत्रं वितानं वा स्वप्न^अन्ते यस्य धार्यते।
पृ4.20cd तत्रस्थोऽपि विबुध्येत महद्^ऐश्वर्यम् आदिशेत्॥
पृ4.21अcd अन्त्रैस् तु यस्य नगरं समन्तात् परिवार्यते।(प्.156)
पृ4.21cd ग्रसते चन्द्र^सूर्यौ तु महद्^ऐश्वर्यम् आदिशेत्॥
पृ4.22ab मनुष्यं भूमि^भागं वा स्वप्न^अन्ते ग्रसते यदि।
पृ4.22cd ह्रदश् च वा समुद्रोऽयं महद्^ऐश्वर्यम् आप्नुयात्॥
पृ4.23ab धनुः प्रहरणं शस्त्रं रक्तम् आभरणं ध्वजं।
पृ4.23cd कवचं वा लभेत् स्वप्ने धन^लाभं विनिर्दिशेत्॥
पृ4.24ab प्रपातं पर्वतं तालं वृषभं कुञ्जरं हयं।
पृ4.24cd तोरणं नगरं द्वारं चन्द्र^आदित्यौ सतारकौ।
पृ4.24ef स्वप्ने प्रपतितौ दृष्ट्वा राज्ञां व्यसनम् आदिशेत्॥
पृ4.25ab उदयं चन्द्र^सूर्याणं स्वप्ने दृष्टं प्रशस्यते।
पृ4.25cd तयोर् अस्तं गतं दृष्ट्वा राज्ञो व्यसनम् आदिशेत्॥
पृ4.26ab श्मशान^वृक्ष^यूपं वा नरो यद्य् अभिरोहति।
पृ4.26cd वल्मीकं भस्म^राशिं वा स्वप्ने व्यसनम् आदिशेत्॥
पृ4.27ab कृष्ण^वस्त्रा तु या नारी काली कामयते नरं।
पृ4.27cd करवीर^स्रजा स्वप्ने तदन्तं तस्य जीवितं॥
पृ4.28ab तमसि प्रविशेत् स्वप्ने शम्भोर् वा च^अमरं तथा।
पृ4.28cd वृक्षाद् वा प्रपतेत् स्वप्ने मरणं तस्य निर्दिशेत्॥
पृ4.29ab वृक्षां काष्ठं तृणं वा^अपि विरुचं यस् तु पश्यति।
पृ4.29cd स्वप्ने शीर्षं शरीरं वा मरणं तस्य निर्दिशेत्॥
पृ4.30ab देवो वा वर्षते यत्र यत्र च^एव^अशनिः पतेत्।
पृ4.30cd भूमिर् वा कम्पते यत्र स्वप्ने व्यसनम् आदिशेत्॥
पृ4.31ab चन्द्र^आदित्यौ यदि स्वप्ने खण्डौ भिन्नौ च पश्यति।
पृ4.31cd पतितौ पतमानौ वा चक्षुस् तस्य विनश्यति॥
पृ4.32ab काषाय^प्रावृतां मुण्डां नारीं मलिन^वाससं।
पृ4.32cd नील^रक्त^अम्बरां दृष्ट्वा; आयासम् अधिगच्छति॥
पृ4.33ab त्रपु^सीसे; अयस्ताम्रलोहरजतम् अञ्जनं।(प्.157)
पृ4.33cd लब्ध्वा तु पुरुषः स्वप्ने धन^नाशं समर्च्छति॥
पृ4.34ab गायन्ती वा हसन्ती वा नृत्यन्ती वा विबुध्यते।
पृ4.34cd वादित्रवाद्यमानैर् वा; आयासं तत्र निर्दिशेत्॥
पृ4.35ab कर्दमे यदि वा पङ्के सिकतास्ववसीदति।
पृ4.35cd तत्रस्थो वा विबुध्येत व्याधिं समधिगच्छति॥
पृ4.36ab अष्टापदैर् अथान्यैर् वा क्रीडेज् जय^पराजये।
पृ4.36cd क्रीडेद् अकुशलाङ्कैर् वा स्वप्ने दृष्ट्वा ध्रुवं कलिः॥
पृ4.37ab आसने शयने यने वास्त्रे साभरणे गृहे।
पृ4.37cd नष्टे भ्रष्टे विशीर्णे वा; आयासम् अधिगच्छति॥
पृ4.38ab सुरामैरेयपानानि शार्करम् आसवं मधु।
पृ4.38cd पिवते पुरुषः स्वप्ने; आयासम् अधिगच्छति॥
पृ4.39ab प्रसन्नेऽम्भसि च^आदर्शे छायां पश्यति नात्मनः।
पृ4.39cd उत्पद्यते ध्रुवं तस्य स्कन्ध^न्यासो न संशयः॥
पृ4.40ab अभीक्ष्णं वर्षते देवो जलं पांशुम् अथ^अपि वा।
पृ4.40cd अङ्गारं वा^अपि वर्षेत मरणं तत्र निर्दिशेत्॥
पृ4.41ab जन^घातं विजानीयात् तत्र देशे महा^भयं।
पृ4.41cd रज्जु जालेन वा स्वप्ने पर^चक्राद् विनिर्दिशेत्॥
पृ4.42ab उदकेन समन्ताद् वै नगरं परिवार्यते।
पृ4.42cd जालेनान्येन वा स्वप्ने पर^चक्र^उद्गमो भवेत्॥
पृ4.43ab तैल^कर्दम^लिप्त^अङ्गो रक्त^कण्ठ^गुणो नरः।
पृ4.43cd गायते हसते च^एव प्रहारं तस्य निर्दिशेत्॥
पृ4.44ab यं कृष्ण^वसना नारी; आर्द्रा वा मलिनाथ वा।
पृ4.44cd परिष्वजेत् नरं स्वप्ने बन्धनं तस्य निर्दिशेत्॥
पृ4.45ab कृष्ण^सर्पो यदि स्वप्ने ह्य् अभिरोहति यं नरं।
पृ4.45cd गात्राणि वेष्टयेद् वा^अपि बन्धनं तस्य निर्दिशेत्॥
पृ4.46ab लताभिः स्थाणु^वृन्दैर् वा यन्त्रै वा परिवार्यते।(प्.158)
पृ4.46cd स्वप्न^अन्ते पुरुषो यस् तु बन्धनं तस्य निर्दिशेत्॥
पृ4.47ab यन्त्राणि यदि सर्वाणि वागुराबन्धनानि वा।
पृ4.47cd यस्य छिद्येरन् स्वप्न^अन्ते बन्धनात् स विमुच्यते॥
पृ4.48ab विषमाणि च निम्नानि पर्वतान् नगराणि च।
पृ4.48cd यस् तु पश्यति स्वप्न^अन्ते क्षिप्रं क्लेशाद् विमुच्यते॥
पृ4.49ab पूतना वा पिशाचा वा दुश्चला मलिना^अथ वा।
पृ4.49cd एवंरूपाणि रूपाणि दृष्ट्वा स्वप्ने ध्रुवं कलिः॥
पृ4.50ab सुस्नातं च सुवेशं च सुगन्धं शुक्ल^वाससं।
पृ4.50cd पुरुषं वा^अथ नारीं वा दृष्ट्वा स्वप्ने महत्^सुखं॥
पृ4.51ab तृणं वृक्षम अथो काष्ठं विरूढं यत्र दृश्यते।
पृ4.51cd गृहे वा यदि वा क्षेत्रे क्षिप्रं द्रव्य^क्षयो भवेत्॥
पृ4.52ab भद्रासने वा^श्भ्यासीनो शयने वा सुसंस्कृते।
पृ4.52cd नरो वा लभते नारीं नारी वा लभते नरं॥
पृ4.53ab नरः शुक्लम् अथो वस्त्रं शुक्ल^गन्ध^अनुलेपितं।
पृ4.53cd स्वप्न^अन्ते यस् तु पश्येत स्त्री^लाभं तस्य निर्दिशेत्॥
पृ4.54ab यस् तु ह्य् अन्नानि पश्येत भूषणं निगडैस् तथा।
पृ4.54cd नरस् तु लभते भार्यां नारी वा लभते पतिं॥
पृ4.55ab मेखलां कर्णिकां मालां स्त्रीणाम् आभरणानि च।
पृ4.55cd लब्ध्वा नरो लभेद् भार्यां नारी च लभते पतिं॥
पृ4.56ab कुञ्जरं वृषभं नागं चन्द्र^आदित्यौ सतारकौ।
पृ4.56cd अभिवदेत या नारी पतिं सा लभतेऽचिरात्॥
पृ4.57ab एषाम् अन्यतमः कुषौ प्रविशेच् च यदि स्त्रियाः।
पृ4.57cd सा काले सर्व^पूर्ण^अङ्गं श्रीमत्^पुत्रं प्रसूयते॥
पृ4.58ab फलानि च समग्राणि वनानि हरितानि च॥
पृ4.58cd स्वप्न^अन्ते लभते नारी श्रीमत्^पुत्रं प्रसूयते॥
पृ4.59ab उत्पलं कुमुदं पद्मं पुण्डरीकं सकुड्मलं।(प्.159)
पृ4.59cd लब्धा नारी तु स्वप्न^अन्ते श्रीमत्^पुत्रं प्रसूयते॥
पृ4.60ab उपायन^सूत्रयोर् अन्तः सज्जं तत्र तु पिण्डकं।
पृ4.60cd स्वप्ने या लभते नारी सा^अपि पुत्रं प्रसूयते।
पृ4.60ef यमं तु भाजनं च^अपि यमं तु सा प्रसूयते॥
पृ4.61ab म्लायन्तीम् अथ ग्रीष्मान् ते तरुणीम् आत्मिकाम् अपि।
पृ4.61cd शुष्कां दृष्ट्वा तथा स्वप्ने स्वपक्ष^मरणं भवेत्॥
पृ4.62ab बाहवो यस्य वर्धन्ते चक्षुर् अङ्गुलयोऽपि वा।
पृ4.62cd ज्ञातयो तस्य वर्धन्ते शत्रुणां मरणं भवेत्॥
पृ4.63ab बध्यन्ते बाहवो यस्य चक्षुश् च व्याकुलं भवेत्।
पृ4.63cd बाहुर् वा प्रपतेद् यस्य स्व^पक्ष^मरनं भवेत्॥
पृ4.64ab देवो वा यदि वा प्रेतो नार्या वस्त्रं फलानि वा।
पृ4.64cd स्वप्ने प्रयच्छते यस्याः पुत्रस् तस्याः प्रजायते॥
पृ4.65ab अपकृष्टो रुदन्यो वा नग्नोऽथ मलिनः कृशः।
पृ4.65cd क्रोधं व (लचुन) विनिर्दिशेत्॥
पृ4.66ab चर्म यन्त्रं गणितं वा कीलं वा^अथ किलाटकं।
पृ4.66cd स्वप्ने लब्ध्वा च प्राप्नु[जानी]याद् ध्रुवं वस्त्र^आगमो भवेत्॥
पृ4.67ab अमानुषोऽथ राजा वा देवः प्रेतोऽथ ब्राह्मणः।
पृ4.67cd स्वप्ने यथा ते जल्प^न्ति स तथा^अर्थो भविष्यति॥
पृ4.68ab (लचुन) पूर्वविचिन्तितं।
पृ4.68cd यच् च^अनुस्मरते दृष्ट्वा यच् च^अपि बहु पश्यति॥
पृ4.69ab अभ्युत्थितो यथा मार्गे स्वप्न^अन्ते प्रतिबुध्यते।
पृ4.69cd विषमं वा तथा^अध्वानं छिद्रं वा प्रतिपद्यते॥
पृ4.70ab अग्निं प्रज्वलितं तप्तं शमित्वा तु प्रशस्यते।(प्.160)
पृ4.70cd गृहाणां करणं शस्तं भेदनं न प्रशस्यते॥
पृ4.71ab निर्मलं गगनं शस्तं समेघं न प्रशस्यते॥
पृ4.71cd प्रसन्नम् उदकं शस्तं कलुषं न प्रशस्यते।
पृ4.72ab अध्वानं गमनं शस्तं न क्वचित् संनिवर्तनं।
पृ4.72cd सुवर्ण^दर्शनं शस्तं धारणं न प्रशस्यते॥
पृ4.73ab मांसस्य दर्शनं साधु भक्षणं न प्रशस्यते।
पृ4.73cd मद्यस्य दर्शनं शस्तं पानं तु न प्रशस्यते॥
पृ4.74ab पृथिवी हरिता शस्ता विवर्णा न प्रशस्यते।
पृ4.74cd यानस्य^आरोहणं शस्तं पतनं न प्रशस्यते॥
पृ4.75ab स्वप्नेषु रुदितं शस्तं हसितं न प्रशस्यते।
पृ4.75cd प्रच्छन्न^दर्शनं शस्तं नग्नं नैव प्रशस्यते॥
पृ4.76ab माल्यस्य दर्शनं शस्तं धारणं न प्रशस्यते।
पृ4.76cd गात्रं विकर्तितं साधु प्रोक्षितं न प्रशस्यते॥
पृ4.77ab मृदुः प्रशस्यते वातो न^अतिवातः प्रशस्यते।
पृ4.77cd व्याधितो मलिनः शस्तो भूषितो न प्रशस्यते।
पृ4.77ef पर्वत^आरोहणं शस्तं न तु तत्र^अवतारणं॥
पृ4.78ab धूम्रा घना दुन्दुभि^शङ्ख^शब्दो वातोऽभ्र^वृष्टिश् च तथा समन्तात्।
पृ4.78cd सर्व^स्थिराणां च चलश् च यः स्याद् ये च^अन्तरे दोष^कृता विकाराः॥
पृ4.79ab पूर्वेषु रूपेषु यथावद् इष्टा राज^र्षयो देव^गणाश् च सर्वे।
पृ4.79cd यद् ब्राह्मण^गात्र^विकर्तनं च; एतानि सर्वाण्य् अपि शोभनानि॥
पृ4.80ab यत् पूर्व^रूपेषु भवेत् प्रशस्तं दुःस्वप्नम् एतानि शमं नयन्ति।
पृ4.80cd गावः प्रदानं द्विज^पूजनं च दुःस्वप्नम् एतेन परिजितं स्यात्॥
पृ4.81ab देवं च यं भक्तिगतो मनुष्यस् तं तु परांश् च^अर्चयितुं यतेत।(प्.161)
पृ4.81cd स्वप्नं तु दृष्ट्वा प्रथमे प्रदोषे संवत्सर^अन्तेऽस्य विपाकम् आहुः॥
पृ4.82ab षण्^मासिकं यच् च भवेद् द्वितीये षट्पाक्षिकं यत् तु भवेत् तृतीये।
पृ4.82cd अध्यर्ध^मासे तरम् एव यत् स्यात् फलेच् चतुर्थे रजनी^प्रभाते॥
पृ4.83ab द्विजोत्तमे वा तिल^पात्र^दानं शान्ति^क्रियाः स्वस्त्ययन^प्रयोगाः।
पृ4.83cd पूजा गुरूणां परिमिष्टम् अन्नं दुःस्वप्नम् एतानि विनाशयन्ति॥
पृ4.84ab अयं भोः पुष्करसारिन् स्वप्न^अध्याय^नाम^अध्यायः। अथ खलु भोः पुष्करसारिन्न् अपरम् अपि स्वप्न^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।
पृ5 अपरः स्वप्न^अध्यायः
पृ5.1ab शुभ^अशुभानां स्वप्नानां यत् फलं समुदाहृतं।
पृ5.1cd निमित्तं यादृशं यस्य शृणु वक्ष्यामि तत्वतः॥
पृ5.2ab जाग्रतो यदि वा त्रस्तो दिवा स्वप्नानि पश्यति।
पृ5.2cd न तु भयं भवेत् तस्य जानीयाद् एव बुद्धिमान्॥
पृ5.3ab यस्य तु यो भवेच् छत्रुर् यस्य विधेयम् इच्छति।
पृ5.3cd स्वप्ने तु कलहं दृष्ट्वा क्षिप्रं प्रीतिर् भविष्यति॥
पृ5.4ab रजन्यां पुरिमे यामे योऽद्राक्षीत् सुख^दुःखदं।
पृ5.4cd अध्वानं चिर^कालेन तथा ह्य् एष निवर्तते॥
पृ5.5ab मध्यमे भवते नैव क्षिप्रं भवति पश्चिमे।
पृ5.5cd वैवार्गं त्वरितं दृष्ट्वा स्त्री^लाभम् अभिनिर्दिशेत्॥
पृ5.6ab दृष्ट्वा जलचरान् मत्स्यान् एवं जानीत बुद्धिमान्।
पृ5.6cd यत् किञ्चिद् आरभिष्यामि क्षिप्रम् एव भविष्यति॥
पृ5.7ab चम्पायां धृषणं हस्ते धृषेत् स्वप्न^अन्तरेषु वा।
पृ5.7cd प्रतिबुद्धो विजानीयाद् वर्णम् एवं भविष्यति॥
पृ5.8ab सर्वाणि खलु पानानि मधुराणि सुखानि च।
पृ5.8cd यस् तु पिबति स्वप्न^अन्ते स च लाभैः प्रयुज्यते॥
पृ5.9ab श्व^शृगालैर् भक्ष्यतेऽत्र स्वप्ने संपरिवार्यते।(प्.162)
पृ5.9cd प्रतिबुद्धस् तु जानीयात् शत्रुर् एव प्रमूर्च्छति॥
पृ5.10ab उपरि काका गृध्राश् च धावन्त्य् उपरि यान्ति च।
पृ5.10cd प्रतिबद्धो विजानीयाच् छत्रुर् मा वधयिष्यति॥
पृ5.11ab यस्य पर^गृह^श्वानो द्वारे मूत्रं प्रकुर्वते।
पृ5.11cd प्रतिबुद्धो विजानीयाद् भार्या मे जारम् इच्छति॥
पृ5.12ab एकश् च धरणौ पादो द्वितीयः शिरसि स्थितः।
पृ5.12cd प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
पृ5.13ab समुद्रं यदि पश्येद् वा पातुम् इच्छति तज्जलं।
पृ5.13cd प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
पृ5.14ab वृक्षं पर्वतम् आरुह्य नागं च तुरगं तथा।
पृ5.14cd प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
पृ5.15ab यस् तु स्वप्न^अन्तरे पश्येत् पितॄन् यान् इह च^अन्यथा।
पृ5.15cd तथा माता पिता च^एव तस्य जीवन्ति ते चिरं॥
पृ5.16ab यस् तु स्वप्न^अन्तरे पश्येत् केश^श्मश्रू^विकर्तितं।
पृ5.16cd प्रतिबुद्धो विजानीयाद् अर्थ^सिद्धिर् भविष्यति॥
पृ5.17ab आननं च^उदके दृष्ट्वा मध्येऽग्नौ च विधावितं।
पृ5.17cd प्रतिबुद्धो विजानीयाद् कुल^वृद्धिर् भविष्यति॥
पृ5.18ab धावनं लङ्घनं च^एव ग्रामाणां परिवर्तनं।
पृ5.18cd प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
पृ5.19ab चौराणाम् अपि सामग्रीं स्वप्न^अन्ते यस् तु पश्यति।
पृ5.19cd प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
पृ5.20ab कृष्ण^सर्प^गृहीतं तु स्वप्न^अन्ते यस् तु पश्यति।
पृ5.20cd प्रतिबुद्धो विजानीयाच् छत्रुपीडा भविष्यति॥
पृ5.21ab कटकान् कर्णिकाश् च^एव हंस^केयूर^कुण्डलं।(प्.163)
पृ5.21cd यस् तु च^आभरणं पश्येद् बन्धु^वर्गो भविष्यति॥
पृ5.22ab कुड्ये च गृह^प्राकारे धावतीह परस्परं।
पृ5.22cd नाविके धन^संयोगे; अंगते क्षणयं खजः॥
पृ5.23ab यस् तु स्वप्न^अन्तरे पश्येच् च^आत्मानम् अग्नितापितं।
पृ5.23cd प्रतिबुद्धो विजानीयाज् ज्वरं क्षिप्रं भविष्यति॥
पृ5.24ab राजानं कुपितं दृष्ट्वा; आत्मानं मलिनीकृतं।
पृ5.24cd प्रतिबुद्धो विजानीयात् कुटुम्बं तस्य नश्यति॥
पृ5.25ab काष्ठभारं तृणं च^एव बहु^भारम् अभीक्ष्णशः।
पृ5.25cd आत्मनः शिरसो दृष्ट्वा गुरु^व्याधिर् भविष्यति॥
पृ5.26ab यस्तु बानर^युक्तेन गच्छते पुर् इमां दिशं।
पृ5.26cd प्रतिबुद्धो विजानीयाद् रात्रिर् एषा ह्य् अपश्चिमा॥
पृ5.27ab चन्द्र^सूर्यौ च संगृह्य पाणिना परिमार्जति॥
पृ5.27cd प्रतिबुद्धो विजानीयाद् आर्य^धर्मागमो हि सः॥
पृ5.28ab सुमनां वार्षिकं [कीं] च^एव कुमुदान्य् उत्पलानि च।
पृ5.28cd यस्तु पश्यति स्वप्न^अन्ते दक्षिणीयसमागमः॥
पृ5.29ab ब्राह्मणं श्रमणं दृष्ट्वा क्षपणं सुरनायकं।
पृ5.29cd प्रतिबुद्धो विजानीयाद् यक्षा मे ह्य् अनुकम्पकाः॥
पृ5.30ab रुधिरेण विल्लिप्तस्य स्नात्वा चैव^आत्म^लोहितैः।
पृ5.30cd प्रतिबुद्धो विजानीयाद् ऐश्वर्याधिसमागमः॥
पृ5.31ab मुद्गमाषयवांश् च^एव धान्यं ज्वलनदर्शनं।
पृ5.31cd यस् तु स्वप्न^अन्तरे पश्येत् सुभिक्षं तत्र निर्दिशेत्॥
पृ5.32ab सुवर्णं च तथा रूप्यं मुक्ताहारं तथाइव च।
पृ5.32cd यस् तु स्वप्न^अन्तरे पश्यन् निधिं तत्र विनिर्दिशेत्॥
पृ5.33ab बन्धनं बहु दृष्ट्वा तु छेदनं कुट्टनं तथा।
पृ5.33cd प्रतिबुद्धो विजानीयाद् अर्थ^सिद्धिर् भविष्यति॥
पृ5.34 अयं भोः पुष्करसारिन्न् अपरः स्वप्न^अध्यायः।
पृ5.35 अथ खलु भोः पुष्करसारिन् मास^परीक्षा^नाम^अध्यायं व्याख्यास्यामि। तच् छूयतां। कथयतु भगवांस् त्रिशङ्कुः॥(E)35
पृ6 मास^परीक्षा (प्.164)
पृ6.1 यदि फाल्गुने मासे निर्घोष उपरि भवेत् मनुष्याणां मरणं चोदयति। नवचन्द्रो लोहित^आभासो दृश्यते। सर्व^सस्य^अनुत्पत्तिं चोदयति। यदि देवो गर्जति प्रथमं महा^सस्यानि भवन्ति। पश्चिमसस्यं न भवेत्। कलहं चोदयति।
पृ6.2 यदि चैत्रे मासे देवो गर्जति तदा सर्व^सस्य^समुत्पत्तिं चोदयति। यदि चन्द्र^ग्रहो भवति महान् सन्निपातो भवति। शून्यानि ग्राम^क्षेत्राणि भविष्यन्ति। यदि नीहारं भूमिं छादयति सुभिक्षं चोदयति।
पृ6.3 यदि वैशाखे मासे देवो गर्जति सुभिक्षं चोदयति। यदि पूर्वे पश्चिमे शङ्खे चन्द्र^ग्रहो भवति क्षेमं चोदयति। यदि च^उल्का^पातो भवति यस्मिंश् च जनपदे निपतति तत्र देशे प्रधान^पुरुषस्य विनाशो भवति। यदि भूमि^चालो भवति सुभिक्षं चोदयति।
पृ6.4 यदि जेय्ष्ठे मासे देवो गर्जति रोगं चोदयति। यदि सूर्य^ग्रहो भवति मनुष्याणां विनाशं चोदयति। पूर्वे पश्चिमे वा शङ्खे यदि चन्द्रस्य सूर्यस्य किञ्चिन् निमित्तं लक्ष्यते तदा क्षेमं चोदयति। यदि मध्य^रात्रौ चन्द्र^ग्रहो भवति मनुष्याणाम् अन्योन्य^घातं चोदयति। यदि च^उपरि निर्घोषो भवति अध्यक्ष^पुरुषस्य पीडां चोदयति। पर^चक्रागमं चेति।
पृ6.5 आषाढे मासे यदि सूर्य^ग्रहो रुचिर^आभासो भवति सुभिक्षं चोदयति। यदि चन्द्र^ग्रहो भवति रोगं चोदयति। यदि विद्युन् निश्चरति कल्पाणं चोदयति। यदि नीहारं भूमिं छादयति।
पृ6.6 श्रावण^मासे यदि सूर्य^ग्रहो भवति राज्यं परिवर्तते। यदि चन्द्र^ग्रहो भवति प्रथमे मासे दुर्भिक्षं चोदयति। शरभैः शोभन^शस्यनाशो भविष्यति। यदि (प्.165) तारका यत्र देशे पतन्ति तत्र युद्धं चोदयति। यदि च^अतिशयं भूमि^चालो भवति रोगं चोदयति। यदि निर्घोषो भवति तत्र गृहे यो गृह^स्वामी भवति तस्य विनाशं चोदयति। अत्र च मासेऽभिनवं प्रावरणं न प्रावरितव्यं। आवाहो विवाहो न कर्तव्यः। परिभूतो भवति।
पृ6.7 यद्य् अश्वयुजे मासे देवो गर्जति मनुष्याणां विनाशनं चोदयति। यदि सूर्य^उपरागो भवति महा^पुरुष^विनाशं चोदयति। यदि पूर्वे यामे चन्द्रस्य निमित्तं दृश्यते सुभिक्षं चोदयति। यदि भूमि^चालो भवति आकुलं चोदयति। परराजा देशं हनिष्यति। तत्र च मनुष्या अन्योन्यं वधयिष्यन्ति^इति चोदयति।
पृ6.8 यदि कार्त्तिके मासे देवो वर्षति महद्^आकुलं चोदयति। प्राणकाश् च धान्यं खादिष्यन्ति। यद्य् एक^अन्तरूपं वातो वाति तत्र च मनुष्या जलेन विभ्रमिष्यन्ति। महा^आत्मनः पुरुषस्य विनाशं चोदयति। यदि पूर्वे यामे उत्पातो भवति महा^वर्षं भवति। महा^पुरुषस्य च मरणं भवति। यदि निर्घोषो भवति रोगं चोदयति।
पृ6.9 यदि मार्गशीर्षे मासि देवो गर्जति शस्य^विनाशो भवति। अन्यश् च तत्र स्वामी भवति। यदि च^आकाशे निर्घोषो भवति यत् पूर्व^भागीया मनुष्यास् तेषाम् आमयं चोदयति। यदि भूमि^चालो भवति यस् तत्र जनपदे प्रधान^पुरुषो स वधान् मोक्ष्यति।
पृ6.10 यदि पौषे मासे देवो गर्जति प्रथमे यामे जनपद^नाशो भवति। द्वितीये महा^आत्मनः पुरुषस्य बन्धनं चोदयति। प्रथमे यामे च यदि चन्द्र^उपरागो भवति लोहित^वर्णश् च दृश्यते उदक^आगमं चोदयति। महा^आत्ममनुष्यं चोदयति। यदि सूर्य^ग्रहो भवति शुद्धपुरुषणां रणं। यदि तारकाः पतन्त्यो विदृश्यन्ते तत्र जनपदे आकुलं चोदयति। यत्य् आकाशे निर्घोषो भवति मनुष्याणां मरणं चोदयति। यदि द्वितीये निर्घोषो भवति अम्नुष्याश् चौरैर् हन्यन्ते। यद्य् अत्रैव मासे तारका उत्सृष्टा न चन्द्रो दृस्यते सस्यं संचोदयति। यदि भूमि^चालो भवति महामनुष्यस्य मरणं भवति। अत्रैव मासे देव^स्थानं कर्तव्यं। वृक्षा रोपयितव्याः। सूलवास्तु प्रतिष्ठापयितव्यं।
पृ6.11 अयं भोः पुष्करसारिन् मास^परीक्षा^नाम^अध्यायः।(प्.166)
पृ6.12 अथ खलु भोः पुष्करसारिन् खञ्जरीटक^ज्ञानं^नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः॥म्छेच्केद्
पृ7 खञ्जरीटक^ज्ञानं
पृ7.1ab खञ्जरीटक^शास्त्रं वै पर्वते गन्ध^मादने।
पृ7.1cd कुचरैर् दृश्यते सौम्य^कुचरस्य महा^भयं॥
पृ7.2ab यानि तानि निमित्तानि दर्शयेत् खञ्जरीटकः।
पृ7.2cd प्रचरतो भवेद् दृष्ट्वा पञ्च^उत्तरपदो द्विजः॥
पृ7.3ab तत्र सर्वे प्रवर्तेयुर् यत्र येषु भवेद् भवेत्।
पृ7.3cd शाद्वले बहु^चेलत्वं गोमयेषु प्रबन्धता॥
पृ7.4ab कञ्चारे बहु^चेलत्वं कर्दमे बहु^भक्षता।
पृ7.4cd कृकरे स्वल्प^चेलत्वं पुरीषे तु दृशं श्रवः॥
पृ7.5ab भस्मे विवादम् अफलं वालुकायां तु संभ्रमः।
पृ7.5cd देव^द्वारे तु सम्मानं पद्मेषु बहु^वित्तता।
पृ7.5ef फलेऽर्थ^अनुगुणं प्रोक्तं पुष्पेषु प्रिय^संअमः॥
पृ7.6ab भयं प्राकार^शृङ्गेषु कटकेष्व् अरिदर्शनं।
पृ7.6cd पक्षया चरते व्याधिः पतितो मृत्युम् आदिशेत्॥
पृ7.7ab सुगन्ध^तैल^भूतानि मेथुने निधि^दर्शनं।
पृ7.7cd वृक्ष^अग्रे विद्यते पानं गृहेष्व् अथ ... लसः॥
पृ7.8ab देश^भङ्गः प्रवादे च बन्धनं विग्रहीकृते।
पृ7.8cd अमृतं च स्थितं दृष्ट्वा; ओदनं न^अत्र संशयः॥
पृ7.9ab गवां पृष्ठे ध्रुवं सिद्धिर् अश्वपृष्ठे ध्रुवं जयः।
पृ7.9cd अविकानाम् अजानां च पृष्ठे सर्वत्र शस्यते॥
पृ7.10ab उष्ट्रपृष्ठे घ्रुवं क्लेशः श्वानपृष्ठे च विद्रवः।(प्.167)
पृ7.10cd पृष्ठे च गर्दभस्य^इह मरणं न^अत्र संशयः॥
पृ7.11ab कीले तु मरणं विद्याद् यूप^अग्रे च न संशयः।
पृ7.11cd कुम्भ^स्थाने श्मशाने वा मृतो वा यत्र दृश्यते॥
पृ7.12ab अन्तरीक्षे प्रडीनं तु; अफलं तु विनिर्दिशेत्।
पृ7.12cd दृष्ट्वा समागतं वासं प्रहृष्टं खञ्जरीटकं।
पृ7.12ef यथा^स्थानंअं यथावर्णं मनुष्याणां विनिर्दिशेत्॥
पृ7.13ab विषमे स्वल्प^कक्षेषु प्रसक्तः कलहो भवेत्।
पृ7.13cd समेषु समके क्षेत्रे समान् वर्णान् विनिर्दिशेत्।
पृ7.13ef नद्यां तु शैल^वाहिन्यां प्रवासम् अभिनिर्दिशेत्॥
पृ7.14ab काष्ठेषु नातिका चिन्ता तथा^अस्थिषु धन^क्षयः।
पृ7.14cd यां दिशं समुदागच्छत् पञ्च^उत्तरपदः खगः।
पृ7.14ef तां दिशं गमनं विद्याद् यथा तस्य तथा पुनः॥
पृ7.15ab कीटा वा^अथ पतङ्गा वा भयं यद् इह दृश्यते।
पृ7.15cd प्रचुरा^अपि यदा ज्ञेया नरस्य^अस्थीनि निर्दिशेत्॥
पृ7.16ab अपां समीपे गजमस्तके वा सूर्य^उदये ब्राह्मण^सन्निधौ वा।
पृ7.16cd मुख्य प्रकाशेऽप्य् अहिमस्तके वा यः पश्यते खञ्जनकं स धन्यः॥
पृ7.17ab मातङ्ग^राजो मतिमांस् त्रिशङ्कुः प्रोवाच तत्त्वं कञ्जनं च शास्त्रं।
पृ7.17cd स्निग्धे सरुक्षे विषमे समे च आदेश यद् दोष^गुणैर् यथोक्तैः।
पृ7.17ef तमादिशेत् तत्र समीक्ष्य विद्वान् शुभ^अशुभं तत्फलम् आदिशेच् च॥
पृ7.18 अयं भोः पुष्करसारिन् खञ्जरीटक^ज्ञानं नाम^अध्यायः।
पृ7.19 अथ खलु भोः पुष्करसारिन् शिवा^रुतं नाम^अध्यायंव्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः।
पृ8.शिवा^रुतं (प्.168)
पृ8.1 नमः सर्वेषाम् आर्याणां। नमः सर्वेषां सत्यवादिनां। तेषां सर्वेषां तपसा वीर्येण च इमं शिवा^रुतं नाम^अध्यायं व्याखामि।
पृ8.2 इत्य् आह भगवांस् त्रिशङ्कुः। शाण्डिल्यम् इदम् अब्रवीत्। यादृशं च यथा वाशेत् तेषां सर्वेषां वाशान् शृणोथ मे। पूर्वस्यां दिशि यदि वाशेत् शिवा पूर्व^मुखं स्थित्वा त्रीन् वारान् वाशेद् वृद्धिं निवेदयति। चतुरो वारान् यदि वाशेद् अत्र मङ्गलं निवेदयति। पञ्च वारान् वाशेद् वर्षां निवेदयति। षड्वारान् वाशेत् पर^चक्र^भयं निवेदयति। सप्तवारान् वाशेद् बन्धनं निवेदयति। अष्ट वारान् वाशेत् प्रिय^समागमं निवेदयति। अभीक्ष्णं वाशेत् पर^चक्र^भयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.3 दक्षिणायां दक्षिण^मुखं स्थित्वा त्रिवारान् वाशेद् `अतृ अतृ' कुरुते मरणं तत्र निवेदयति। चतुरो वारान् वाशति दक्षिण^मुखं स्थित्वा दक्षिणाया एव दिशायाः प्रिय^समागमं निवेदयति। अर्थ^लाभं च निवेदयति। पञ्च^वारान् वाशेद् अर्थं निवेदयति। षड्वारान् वाशेत् सिद्धिं निवेदयति। सप्तवारान् वाशेद् विवाद^कलहं निवेदयति। अष्टवारान् वाशेद् भयं निवेदयति। अभीक्ष्णं वाशेद् आकुलं निवेदयति। एत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.4 पश्चिमायां पश्चिम^अभिमुखं स्थित्वा शिवा त्रिवारान् वाशति मरणं निवेदयति। चतुर्वारान् वाशति बन्धनं निवेदयति। पञ्च^वारान् वाशति वर्षं निवेदयति। षड्वारान् वाशति अन्न^पानं निवेदयति। सप्तवारान् वाशति मैथुनं निवेदयति। अष्टवारान् वाशति अर्थ^सिद्धिं निवेदयति। अभीक्ष्णं वाशति महा^मेघं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.5 उत्तरस्यां दिशि उत्तर^अभिमुखं स्थित्वा त्रिवारान् वाशति पुरुषस्य प्रस्थितस्य निरर्थकं गमनं भवति। चतुर्वारान् वाशति राज^प्रतिभयं निवेदयति। पञ्च^वारान् शाशति विवादं निवेदयति। षड्वारान् वाशति कुशलं निवेदयति। सप्तवारान् वाशति वर्षां निवेदयति। अष्टवारान् वाशति राज^कुल^दण्डं निवेदयति। (प्.169)अभीक्ष्णं वाशति यक्ष^राक्षस^पिशाच^कुम्भाण्ड^भयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.6 दिशि विदिशि च^एव गिरि^प्राग्भारेषु शिखरेषु निर्देशं तं च शृणोथ मे। ``अमूं तुष्येत् पिपासार्ता विद्यासिद्ध्यै तथा^एव च।
पृ8.7ab विद्यालम्भं धन^लम्भं निर्दिशेच् च विचक्षणः।
पृ8.7cd तीर्थ^आकार^वृक्ष^मूले वाशती यदि दृश्यते॥
पृ8.8 सर्वत्र सिद्धिं निर्दिशेत्। न च शृगाल^भये शिवा (वा) मे समेति अप्रमत्तेन स्मृतिमता पूजयितव्या शिवा नित्यं। गन्ध^पुष्प^उपहारेण शुश्रूषा कर्तव्या। एवम् अर्चायमाना (?) सर्व^सिद्धिं निवेदयिष्यति। एवं ``सर्वेऽर्थास् तस्य सिध्यन्ति त्रिशङ्कोर् वचनं यथा । क्रौष्ट्रिको यदि वाशति अर्थ^लम्भं निवेदयति। अधोमुखो यदि वाशति निधानं तत्र निवेदयति। ऊर्ध्व^मुखो यदि वाशति वर्षां तत्र निवेदयति। द्विपथे यदि वाशति पूर्व^मुखं स्थित्वा अर्थ^लाभं निवेदयति। दक्षिण^अभिमुखो यदि वाशति यथा प्रिय^समागमनं निवेदयति। द्विपथे पश्चिम^अभिमुखो यदि वाशति कलहं विवादं विग्रहं मरणं च निवेदयति। कूपकण्ठके यदि वाशति अर्थं तत्र निवेदयति। शाद्वले यदि वाशति अर्थ^सिद्धिं निवेदयति। अतिमृदुकं यदि वाशति व्याधिकं तत्र निवेदयति। गीतहारेण यदि वाशति अर्थम् अनर्थं च निवेदयति। त्रिभिर् वारैर् अर्थं चतुर्भिर् अनर्थं पञ्चभिः प्रिय^समागमं षड्भिर् भोजनं सप्तभिर् भयम् अष्टभिर् विग्रहं विवादं च। इत्य् आह भगवांस् त्रिसङ्कुः।
पृ8.9 ``अथ भूयः प्रवक्ष्यामि अनुपूर्वं शृणोथ मे । नाना^आहारे यदि वाशति मार्गे संस्थितस्य^अपि सर्वं वक्ष्यामि तं शृणोथ मे। संप्रस्थितस्य पुरुषस्य शिवा वाशति वा या पूर्व^मुखं स्थित्वा क्षिप्र^गमनम् अर्थ^सिद्धिं निवेदयति। अथ दक्षिण^मुखं वाशति या अर्थ^सिद्धिं निवेदयति। पञ्चान् मुखं वाशति भयं निवेदयति। अथ^उत्तरमुखं वाशति अर्थ^लाभं निवेदयति। अथ संप्रस्थितस्य वाशति या पुरतः स्थित्वा उपक्लेशं निवेदयति। अथ दक्षिणे वाशति यदि दक्षिण^मुखा एव दिशः (प्.170) कर्म^सिद्धिं च निवेदयति। पश्चिमतो यदि वाशति चौरतोऽहितम् अस्य दुःख^दौर्मनस्यं निवेदयति। अथ मार्गे व्रजतो दक्षिणतो वाशति महा^व्याधिम् अनर्थं चौरा मुषन्ति तन् निवेदयति। ग्लानस्य यदि वाशति दक्षिण^मुखं, ``न स चिकित्सितुं शक्यो मृत्यु^दूतेन चोदितः। ग्लानस्य यदि वाशति उत्तर^मुखं स्थित्वा आरोग्यधन^लाभं च निवेदयति। अथ मूर्ध्ना वाशति या उपक्रेशं निवेदयति। अथ पश्चिममुखं स्थित्वा या अन्योन्यं व्याहरते यम^शासनं [निवेदयति]। नाना^आहारे यदि वाशति, या संक्षोभं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.10 शिवा पुरतः पुरुषस्य मार्ग^प्रयातस्य यदि वाशति, या अग्रतः क्षेम^मार्गं विज्ञापयति। अर्थ^सिद्धिं निवेदयति। मार्गं व्रजतोऽस्य शिवा वामेन^आगत्य गच्छते दक्षिण^मुखं क्षेम^मार्गं विजानीयाद् अर्थ^सिद्धिं च निवेदयति। मार्गे व्रजतः पुरुषस्य शिवा वामेन^आगत्य पुरता वाशति या तथा सभयं मार्गं विज्ञापयति। निवर्तेत विचक्षणः। दक्षिणां दिशं वामं गत्वा वामतः परिवर्तेत ``न तन् मार्गेण गन्तव्यं त्रिशङ्कु^वचनं यथा । पुरतः शिवा गत्वा अग्रतश् च निषीदति सभयं मार्गं विजानीयात्। निवर्तेत विचक्षणः। शिवा पुरत आगत्य वामेन परिवर्तते भयम् एतीहऽ तेन^अपि भयं जानीयाद् विचक्षणः। सेनायाम् आवाहितायां शिवा वशति पश्चिमं निवर्तनं निवेदयति। यदि गच्छेत् पराजयः। सेना न गच्छेत्। सेनायां व्रज^मानायां शिवा आगच्छेद् अग्रतः सेनाजयं निवेदयति। पर^चक्र^पराजयं च निवेदयति। सार्थस्य व्रजमानस्य शिवा गच्छत्य् अग्रतः क्षेममार्गं निवेदयति। अर्थ^सिद्धिं तथा^एव च। पुरुषस्य पथि व्रजतो वामतो वाशति मार्गं निवेदयति। ``तन्मार्गेण [हि} गन्तव्यं त्रिशङ्कु^वचनं यथा।
पृ8.11 ``ग्रामस्य नगरस्य^अपि चैत्यस्थाने तथा^एव च। पूर्वेण^उत्तरेण^अपि शिवा वाशति क्षेमं तत्र निवेदयति। दक्षिणे पश्चिमे यदि वाशति या भयं तत्र निवेदयति।
पृ8.12ab वामतो न प्रशंसन्ति तथा^एव विदिशासु च।
पृ8.12cd अतिदीर्घातिरूक्षा वा काले मासान्तिके तथा।
पृ8.13ab अधरां तु भयं वक्ष्ये त्रिशङ्कु^वचनं यथा॥
पृ8.13cd मधु^स्वरांशिवां ज्ञात्वा काले वेले उपस्थिते।(प्.171)
पृ8.14ab क्षेमं चैव^अर्थसिद्धिश् च चिन्तितव्यं विचक्षणैः॥
पृ8.15 व्याधिर् उपद्रवाश् च, ``सव तु प्रशमं यान्ति त्रिशङ्कु^वचनं यथा । शिवा^रुतस्य^उपचारो दिग्^विदिशासु निमित्ता ग्रहीतव्याः। यः शिवाया दिवसो भवति स दिवसो ज्ञातव्यः। पुष्प^गन्ध^माल्य^उपहारस् तद्दिवसे उपपादयितव्यः। नित्यं देवता^गुरुकेण भवितव्यं। दैव्यागुरुकेण भवितव्यं। देव्यै शुश्रूषा कर्तव्या। सर्वार्थान् सम्पादयिष्यति। सर्व^कार्याणि निवेदयति।
पृ8.16 यत् किञ्चित् कार्यम् आरभिष्यति तत्सर्वं निवेदयति। देव्यै सर्ज्जरसो गुग्गुलु च धूपयितव्यं। पुष्प^बलिश् च यथा^काले दापयितव्यः। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.17 शिवा^रुत^कथानेऽत्र विद्यां वक्ष्यामि यथासत्यं भविष्यति।
पृ8.18 नम आरण्यायै। चीरिण्यै स्वाहा सर्ज्ज^रस^धूपं।
पृ8.19 अयं भोः पुष्करसारिन् शिवा^रुत^नाम^अध्यायः।
पृ8.20 अथातः पुष्करसारिन् पाणि^लेखा^नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं कथयतु भगवांस् त्रिशङ्कुः।
पृ9 पाणिलेखा (प्.172)
पृ9.1ab अथातः संप्रवक्ष्यामि नराणां कर^संस्थितं।
पृ9.1cd लक्षणं सुख^दुःखानां जीवितं मरणं तथा॥
पृ9.2ab अङ्गुष्ठमूलम् आश्रित्य ऊर्ध्व^रेखा प्रवर्तते।
पृ9.2cd तत्र जातं सुखतरं द्वितीया ज्ञानम् अन्तरे॥
पृ9.3ab तृतीया सा लेखा यत्र प्रदेशिन्या प्रवर्तते।
पृ9.3cd तत्रोक्ता हेतवः शास्त्रे समासेन चतुर्^विधाः॥
पृ9.4ab अपर्वसु च पर्वाणि नक्ष्त्राणाम् उपद्रवः।
पृ9.4cd द्विनिःसृतो विशुद्ध^आत्मा जीवेद् वर्षशतं हि सः॥
पृ9.5ab त्रिंशत् त्रिभागेन जायीयाद् अर्धे पञ्चाशद् आयुषः।
पृ9.5cd सप्ततिस् त्र्यंशभागेषु अत्यन्तानुगते शतं॥
पृ9.6ab आउइर्;एल्जा प्रदृश्य^एवं व्यन्तरायः प्रकाश्यते।
पृ9.6cd नक्षत्र^संज्ञया ज्ञेया मनुजैर् अर्थशस् तथा॥
पृ9.7ab अङ्गुष्ठ^उदरमार्गे तु यावत्यो यस्य राजयः।
पृ9.7cd तस्यापत्यानि जानीयात् तावन्ति न^अत्र संशयः॥
पृ9.8ab दीर्घायुषं विजानीयाद् दीर्घलेखा तु या भवेत्।
पृ9.8cd ह्रस्वायुषं विजानीयाद् ध्रस्वलेखा तु या भवेत्॥
पृ9.9ab अङ्गुष्ठमूले यवको रात्रौ जन्माभिनिर्दिशेद्।
पृ9.9cd दिवा तु जन्म निर्दिष्टम् अङ्गुष्ठ^यवके ध्रवं॥
पृ9.10ab अव्यक्तो यवको यत्र तत्र लग्नं विनिर्दिशेत्।
पृ9.10cd लग्नं पुंसंज्ञको ज्ञेयोऽहो^रात्रं विनिर्दिशेत्॥
पृ9.11ab दिवसं जन्म निर्दिशेद् रात्रौ स्त्री^संज्ञको भवेत्।(प्.173)
पृ9.11cd रात्रिः सन्ध्या समाख्याता भागैर् अन्यैर् न संशयः।
पृ9.11ef पुंसंज्ञाद् उदयं तेषाम् अहोरात्रान्तिकं वदेत्॥
पृ9.12ab अङ्गुष्ठमूले यवके शले सौख्यं विधीयते।
पृ9.12cd अश्वाद् भद्रं विजानीयाद् अङ्गुष्ठ^यवकेष्व् इह॥
पृ9.13ab यवमाला च मत्स्यः स्याद् अङ्गुष्ठ^यवको रतौ।
पृ9.13cd बालयौवनमध्यान्ते सुखं तस्याभिनिर्दिशेत्॥
पृ9.14ab यस्य स्याद् यवकश् च^अपि च^अपो वा स्वस्तिकस् तथा।
पृ9.14cd तलेषु येषु दृश्यन्ते धन्यास् ते पुरुषा ह्य् अमी॥
पृ9.15ab मत्स्यो धान्यं भवेद् भोगायामिषादौ यवे धनं।
पृ9.15cd भोग^सौभाग्यं जानीयान् मीनादौ न^अत्र संशयः॥
पृ9.16ab पताकाभिर् ध्वजैर् वा^अपि शक्तिभिस् तोमरैस् तथा।
पृ9.16cd तलस्थाइर् अङ्कुशैश् च^अपि विज्ञेयः पृथिवीपतिः।
पृ9.16ef राज^वंशप्रसूतं च राज^मात्रं विनिर्दिशेत्॥
पृ9.17ab प्रेक्ष्यन्ते शाख्या पञ्च हस्ते चत्वार एव च।
पृ9.17cd क्षत्रियो वा भवेद् भोगी राजभिश् च^अपि सत्कृतः॥
पृ9.18ab वैश्योऽथ क्षत्रियो वाग्मी धन^धान्यं न संशयः।
पृ9.18cd शूद्रो विपुलभागी स्यात् पर्वशीलोऽथ नैष्ठिकः॥
पृ9.19ab सततम् अभिपूज्यः स्यात् सर्वेषां च प्रियंवदः।
पृ9.19cd विशीलः शीलकुञ्चो वा बहुभिर् न बहुस् तथा॥
पृ9.20ab श्यामवर्णाऽथ भिन्ना वा सा लेखा दुःखभागिनी।
पृ9.20cd क्तिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करथिताः।
पृ9.20ef महा^भोगो महा^विद्वान् जीवेद् वर्षशतं च सः॥
पृ9.21ab अजपदं राज^छत्रं शङ्खचक्र^पुरस्कृतं।(प्.174)
पृ9.21cd तलेषु यस्य दृश्यन्ते तं विद्यात् पृथिवीपतिं॥
पृ9.22ab भगस् तु भाग्याय ध्वजैः पताकैर् हस्त्यश्वमालाङ्कुशतश् च राजा।
पृ9.22cd मत्स्यो नु पानाय यवो धनाय वेदिस् तु यज्ञाय गवां च गोष्ठः॥
पृ9.23ab अनामिकापर्व अतिक्रमेद् यदि कनिष्ठिका वर्षशतं स जीवति।
पृ9.23cd समेत्वशीतिर् वर्षाणि सप्तभिर् यथा नदीनां भरिताय निर्दिशेद्॥
पृ9.24ab शरीरवर्ण^प्रभवां तु लेखां सवैशिखां वर्ण^विहीनकां च।
पृ9.24cd समीक्ष्य नीचोत्तममध्यमानां दारिद्य्र्मध्ये चरतां विजानतां॥
पृ9.25ab अभ्यञ्जनोद्वर्तन सत्करी[षैर]ध्यक्ष चूर्णैश् च विमृज्य पाणिं।
पृ9.25cd प्रक्षाल्य चैक^अन्तरघृष्ट^लेखाम् एकाग्रचित्तस् तु करं परीक्षेत्॥
पृ9.26ab वलयसमनराधिपं भजन्त्यः समनुगता मणिबन्धने तु तिस्रः।
पृ9.26cd द्विर् अपि च [स] भव^अन्तरे महा^आत्मा विप्पुलधन^श्रिय आह वस्त्र^लाभः॥
पृ9.27ab ददति सततम् उन्नतस् तु पाणिर् भवति चिराय तु दीर्घपीनपाणिः।
पृ9.27cd परिपतति शिराविरुद्धपाणिर् धनम् अधिगच्छति मांस^गूढपाणिः॥
पृ9.28ab सुदृश[कर^तलैश् च]साधवस्ते कुटिलकृतैर् विनिमीलितैश् च धूर्ताः।
पृ9.28cd भवति रुधिरसन्निभः सुरक्तश् चिरम् इह पिण्डितपाणिरीश्वरः स्यात्॥
पृ9.29ab धृतरुचिरमनाः शिलारविन्दैर् ज्वलनकषाय सुवर्ण^पाणिरा[जि]+।
पृ9.29cd भवति बहु^धनो निगूढपाणिश् चिरम् इह जीवति पान^भोग^भोगी॥
पृ9.30ab सुभग इह तथोष्णदीर्घपाणिर् ध्रुवम् इह शीतलपाणिकस् तु शण्ठः।
पृ9.30cd इह हि बहु^धनो बलेन युक्तः सुतनु सुसञ्चितपाणिरेखको यः॥
पृ9.31ab धनम् उपनयतीह पाणिलेखा कृत^जनिता जलवच् च या सुदीर्घा।(प्.175)
पृ9.31cd जलवदनुगता सुवर्ण^वर्णा धनम् अधिगच्छति निम्नशोन्नता या॥
पृ9.32ab धनम् उपलभते सुरक्त^पाणिर् विपुलमथो च निरन्तराङ्गुलिः स्यात्।
पृ9.32cd बलि^पुरुषम् अपि त्यजेद्धि वित्तं दितविवशा च विशीर्णवर्ण^लेखा॥
पृ9.33ab अपगतघृत^वर्ण^पाणिलेखो भवति नरो धनवान् बलेन युक्तः।
पृ9.33cd असुभृति सदृशा भवेत् तथा भूषण^वृत[रूपवती शुभा]एक^भार्या॥
पृ9.34ab भवति बहु^धनो धनैर् विहीनः श्रुतम् अधिगम्य विशालपाणिलेखः।
पृ9.34cd [सु]ऋजुभिर् अहिनील^निर्मला[भिः] कर^तल^राजि[भिरीश्वरः स धन्य]ः॥
पृ9.35 अयं भोः पुष्करसारिन् कर^तल^लेखानाम् आध्यायः।
पृ9.36 अथ खलु भोः पुष्करसारिन् वायस^रुतं नाम^अध्यायं व्याखास्यामि तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः। नमोऽर्हतां। तेषां नमस्कृत्वा।
पृ10 वायस^रुतं
पृ10.1ab इदं शास्त्रं प्रवक्ष्यामि वायसानां शुभ^अशुभं।
पृ10.1cd जयम् पराजयं च^एव लाभ^अलाभं तथा^एव च॥
पृ10.2ab सुखदुःखं प्रियाप्रियं जीवितं मरणं तथा।
पृ10.2cd वायसानां वचःसिद्धिं प्रवक्ष्यामि यथाविधि॥
पृ10.3ab देवाः प्रवदन्ति श्रेष्ठा वायसानां नमा नमः।
पृ10.3cd आगता मानुषं लोकं वायसा बलि^भोजनाः॥
पृ10.4ab प्रस्थितस्य यदाऽध्वानम् अग्रतो वायसो भवेत्।
पृ10.4cd व्याहरन् क्षीरवृक्ष^स्थो निर्दिशेद् अर्थ^सिद्धितां॥
पृ10.5ab स्वरेण परितुष्टेन फलवृक्ष^समाश्रितः।
पृ10.5cd पुनर् आगमनं च^एव सिद्धर् अर्थ^निवेदितं॥
पृ10.6ab विवृद्धवृक्ष^पत्राणि मधुरं च^अनुवासति।(प्.176)
पृ10.6cd असूपं निर्दिशेद् भोज्यं गुडमिश्रं तु गोरसं॥
पृ10.7ab दृष्टस् तु तुण्डपादेन आत्मनः परिमार्जति।
पृ10.7cd पायसं सर्पिषा मिश्रं तत्र विद्यान्नसंशयः॥
पृ10.8ab रूक्षं निर्घर्षते तुण्डं शिरश् च परिमार्जति।
पृ10.8cd सफलं वृक्षम् आस्थाय ध्रुवं मांसेन भोजनं॥
पृ10.9ab लोचयति व्याहरति फलवृक्ष^समाश्रितः।
पृ10.9cd व्याधेन च हतं मांसं निवेदयति भोजनं॥
पृ10.10ab घोरं व्याहरते कार्यं वायसो वृक्ष^माश्रितः।
पृ10.10cd कलहं संग्राम^भयं तत्र विद्यान्न संशयः॥
पृ10.11ab शुष्कवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।
पृ10.11cd कलहं सुमहत् कृत्वा न च^अर्थं तत्र सिध्यति॥
पृ10.12ab क्षीरवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।
पृ10.12cd क्रमेण युगमात्रेण न च्चार्थं तत्र सिध्यति॥
पृ10.13ab शुष्कवृक्षे निषीदित्वा कामुकाकं प्रवाशति।
पृ10.13cd तत्क्षणं सन्निवेदेति तत्र चौर^भयं भवेत्॥
पृ10.14ab शुष्कवृक्षे निषीदित्वा कामुकाकं प्रवाशति।
पृ10.14cd पृष्ठेन दर्शयेद् भारं क्षुधापीडां च निर्दिशेत्॥
पृ10.15ab पक्षं विधूयमानो यः पश्यन् पथस्य वाशति।
पृ10.15cd न तत्र गमनं कुर्याच् चौरैः पथम् उपद्रुतं॥
पृ10.16ab रज्जुं वा फलकं वा^अपि यदि कर्षति वायसः।
पृ10.16cd न तत्र गमनं श्रेयश् चौरैः पथम् उपद्रुतं॥
पृ10.17ab गोमये शुष्ककाष्ठे वा यदि वाशति वायसः।
पृ10.17cd कलहः कुवचो व्याधिर् न च^अर्थं तत्र सिध्यति॥
पृ10.18ab तृणं वा यदि वा काष्ठं दर्शयेच् च यदा खगः।(प्.177)
पृ10.18cd पुरतः शुष्कपाणिस् तु तत्र चौर^भयं भवेत्॥
पृ10.19ab सार्थोपरि निषीदित्वा क्षामं दीनं च व्याहरेत्।
पृ10.19cd निपतेत् सार्थमध्येऽस्मिन् चौर^सैन्यं न संशयः॥
पृ10.20ab यदा प्रदक्षिणं त्रस्तं वाशन्ति विविधं खगाः।
पृ10.20cd शुष्कवृक्षे निषीदित्वा तत्र विद्यान् महा^भयं॥
पृ10.21ab भीतस् त्रस्तः परीतश् च यस् तु व्याहरते खगः।
पृ10.21cd परिबाधन् दिशः सर्वास् तत्र भयम् उपस्थितं॥
पृ10.22ab गच्छन्तं समनुगच्छेत् पुरः स्थित्वा तु व्याहरेत्।
पृ10.22cd न तत्र गमनं क्कुर्यान् मार्गम् अत्र प्रशातनं॥
पृ10.23ab वास्तुमध्ये प्रतिस्थाने क्षामं दीनं च व्याहरेत्।
पृ10.23cd व्याधिं तत्र विजानीयाद् वासे वा गृह^स्वामिनां॥
पृ10.24ab शकटस्य यथा शब्दं विश्रब्धं वाशति वायसः।
पृ10.24cd दूराद् अभ्यागतं ज्ञात्वा प्रसिद्धिं च^अभिनिर्दिशेत्॥
पृ10.25ab गर्गरे घटके च^एव स्थालिकपिठरेषु वा।
पृ10.25cd निषण्णो वाशते काकः प्रसिद्धं गमनं ध्रुवं॥
पृ10.26ab आसने शयने वा^अपि स्थितो वाशति वायसः।
पृ10.26cd प्रसिद्धं गमनं ब्रूयात् प्रोषितेन समागमः॥
पृ10.27ab ब्रह्म^स्थाने निषीदित्वा ध्रुवं वाशति वायसः।
पृ10.27cd अर्थ^लाभं विजानीयाद् धन^लाभं च आकरेत्॥
पृ10.28ab ब्रह्म^स्थाने निषीदित्वा क्षामं दीनं च वाशति।
पृ10.28cd सन्धिस्थाने हरेच् चौरस् तत्र वै नास्ति संशयः॥
पृ10.29ab देवता^देवतानां च देवस्य^उपवनानि च।
पृ10.29cd यस्य वाचं वदेत् तस्य^अर्थ^लाभं विनिर्दिशेत्॥
पृ10.30ab लाक्षाहरिद्रामञ्जिष्ठाहरितालमनःशिलाः।
पृ10.30cd यस्याहरेत् पुरस्तस्य स्वर्ण^लाभं विनिर्दिशेत्॥
पृ10.31ab पात्रं च पात्रकं च^एव मृत्तिकावरभाजनं।(प्.178)
पृ10.31cd यस्य यस्य हरेत् तस्य द्रव्य^लाभं विनिर्दिशेत्॥
पृ10.32ab सङ्घीभूत्वा युगमात्रं शुभं तिष्ठति वायसः।
पृ10.32cd काष्ठं वा वायसा यत्र गृहम् आरोपयन्ति च।
पृ10.32ef निगदन्त्य् अत्र विजानीयाद् याचकात् तु महा^भयं॥
पृ10.33ab नीलं पीतं लोहितं च प्रतिसंहरणानि च।
पृ10.33cd निगृह्णन्ति यत्र काका व्याधिं तत्र विनिर्दिशेत्॥
पृ10.34ab ग्रामन्ते भयम् आख्याति काको वा वाशति ध्रुवं।
पृ10.34cd प्रत्येकतो वा वाशन्ति विद्यात् तत्र महा^भयं॥
पृ10.35ab वायसोऽस्थि गृहीत्वा वै प्रगच्छेद् अनुदक्षिणं।
पृ10.35cd निषीदन् सफले वृक्षे स वदेन् मांस^भोजनं॥
पृ10.36ab यस्य शीर्षे निषीदित्वा कर्णं कर्षति वायसः।
पृ10.36cd अभ्यन्तरे सप्त^रात्रान् मरणं तस्य निर्दिशेत्॥
पृ10.37ab करके च^उदके च^एव स्निग्धदेशेषु वाशति।
पृ10.37cd ऊर्ध्व^मुखं निरीक्षन्तु जगद्वृष्टिं विनिर्दिशेत्॥
पृ10.38ab स्वरेण परितुष्टेन तीर्थवृक्षेषु वाशति।
पृ10.38cd ऊर्ध्व^मुखं तथा वक्ति वात^वृष्टिं विनिर्दिशेत्॥
पृ10.39ab कायं किलकिलायन्तु स्निग्धदेशेषु वाशति।
पृ10.39cd वक्षो विध्न्वन्वायसः सद्यो वृष्टिं विनिर्दिशेत्॥
पृ10.40ab स्वरेण परितुष्टेन स्निग्धं मधुरं वाशति।
पृ10.40cd सक्षर^सद्रवं भागं वाशति भोजनं भवेत्॥
पृ10.41ab प्रकारे तोरण^अग्रे वा यदि वाशति वायसः।
पृ10.41cd अभीक्ष्णं घर्षते तुण्डं संग्रामं तत्र निर्दिशेत्॥
पृ10.42ab मण्डलानि वावर्तानि बहिर् वा नगरस्य च।
पृ10.42cd वैरं च विग्रहं घोरं तत्र च^एव विनिर्दिशेत्॥
पृ10.43ab ग्रामे वा नगरे वा^अपि कुर्वते यत्र मण्डलं।(प्.179)
पृ10.43cd ऊर्ध्व^मुखं वाशन्तो वै विषण्णत्वं समुत्थितं॥
पृ10.44ab पूर्वेण च^एव ग्रामस्य यदा सूयति वायसी।
पृ10.44cd अल्पोदकेनोत्प्लवन्ति वनानि नगराणि च॥
पृ10.45ab पुरस्ताद् दक्षिणे पार्श्वे यदि सूयति वायसी।
पृ10.45cd वर्षति प्रथमे मासे पश्चाद् देवो न वर्षति।
पृ10.45ef कृष्ण^धान्यानि वर्धन्ते माषधान्यं विनश्यति॥
पृ10.46ab दक्षिणे वृक्ष^शिकह्रे यदा सूयति वायसी।
पृ10.46cd मण्डूककीटकम् अक्षा चौरश् च बहुलीभवेत्॥
पृ10.47ab पश्चिम^उत्तरपार्श्वे तु यदा सूयति वायसी।
पृ10.47cd मध्यमं च भवेद् वर्षं मध्य^शस्यं च जायते॥
पृ10.48ab पश्चिम^उत्तरपार्श्वे तु यदा सूयति वायसी।
पृ10.48cd अशनिर् निपतेत् तत्र भयं च मृगपक्षीणां॥
पृ10.49ab उत्तरे वृक्ष^शिखरे यदा सूयति वायसी।
पृ10.49cd पूर्वम् उप्तं विजानीयाच् छस्यं समुपजायते॥
पृ10.50ab उपरि वृक्ष^शिखरे यदा सूयति वायसी।
पृ10.50cd अल्प^उदकं विजानीयात् स्थले बीजानि रोपयेत्॥
पृ10.51ab यदा तु मध्ये वृक्षस्य निलयं करोति वायसी।
पृ10.51cd मध्यमं वर्षते वर्षं मध्य^शस्यं प्रजायते॥
पृ10.52ab स्कन्ध^मूले तु वृक्षस्य यदा सूयति वायसी।
पृ10.52cd अनावृष्टिर् भवेद् घोरा दुर्भिक्षं तत्र निर्दिशेत्॥
पृ10.53ab चतुरः पञ्च वा पोतान् यदा सूयति वायसी।
पृ10.53cd सुभिक्षं च भवेत् तत्र फलानाम् उदितं भवेत्॥
पृ10.54 अयं भोः पुष्करसारिन् वायस^रुतं नाम^अध्यायः।
पृ10.55 अथ खलु भोः पुष्करसारिन् द्वार^लक्षणं नाम^अध्यायं व्याख्यास्यामि तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।
पृ11 द्वार^लक्षणं (प्.180)
पृ11.1ab माहेन्द्रम् अथ दिव्यं च माङ्गल्यं पूर्वतः स्मृतः।
पृ11.1cd दक्षिणे तु दिशो भागे पूषा च पित्र्यम् एव च॥
पृ11.2ab सुग्रीवं पुष्प^दन्तं च पश्चिमेनात्र निर्दिशेत्।
पृ11.2cd भल्लातकं राज^यक्ष्मं विद्याद् उत्तरतः शुभं॥
पृ11.3ab जन्म^संपद्विपत्क्षेत्रक्षेमप्रत्यरिसाधनं।
पृ11.3cd अथ वै धन्मित्रं च परमं मैत्रम् एव च॥
पृ11.4ab उवाच विधिवत् प्राज्ञो विश्व^कर्मा महा^मतिः।
पृ11.4cd वास्तूनां गुणदौषौ च प्रवक्ष्याम्य् अनुपूर्वशः॥
पृ11.5ab समं स्याच् चतुरस्रं च विस्तीर्णा च^एव मृत्तिका।
पृ11.5cd क्षीरवृक्षाकुलं धन्यं ब्राह्मणस्य प्रशस्यते॥
पृ11.6ab पूर्वायतनतया वास्तु रथचक्राकृति च यत्।
पृ11.6cd रक्त^पांशुर् भवेद् यत्र राज्ञां तत् तु प्रशस्यते॥
पृ11.7ab त्रिकोणं कुशसंस्तीर्णम् उत्तानं मधुरं च यत्।
पृ11.7cd व्यायाम् अतो जलं च^एव वास्तु तस्य धनौषधी॥
पृ11.8ab अङ्गाराकार^संस्थानं गोमुखं शकटाकृति।
पृ11.8cd अनावास्यं च तत् प्रोक्तं यच् च पुत्रक्षयावहं॥
पृ11.9ab यत् तु कञ्जलकक्षैस् तत् त्यक्तं वर्षोदकेन च।(प्.181)
पृ11.9cd अपसव्य^उदकं च^एव दूरतः परिवर्जयेत्॥
पृ11.10ab विप्रस्य चतुरस्रं तु क्षात्रियं परिमण्डलं।
पृ11.10cd दश द्वादशकं वैश्ये शूद्रस्य तत्र लेखनं॥
पृ11.11ab वास्तुपूर्व^उत्तरे देशे गोकुलं तत्र् कारयेत्।
पृ11.11cd तथा^एव च^अग्निशालां तु पूर्व^दक्षिणतो दिशे॥
पृ11.12ab वर्षवृष्यायुधागारान् दक्षीणेन निवेशयेत्।
पृ11.12cd पश्चिम^उत्तरतश् च^अत्र वणिग्भाण्डं निवेशयेत्॥
पृ11.13ab उत्तरायां तु कर्तव्यं वर्चः स्थानाम् अनुत्तरं।
पृ11.13cd ऐशान्याम् एव सर्वाणि प्रासादश् च पुरोमुखः॥
पृ11.14ab अविधिपरिवर्तेन तत्र वैरं वधो भवेत्।
पृ11.14cd रचितसर्व^द्वाराणाम् आयामो द्विगुणो मतः॥
पृ11.15ab कुर्यात् सुरभवनानां यथेष्टं द्वारकाण्य् अपि।
पृ11.15cd तद्द्वार^बाहुपर्यन्ते स्त्रियो दृष्टा दोषावहाः॥
पृ11.16ab विद्विषस्य सलोकस्य द्वारे स्यान् नु करग्रहः।
पृ11.16cd महेन्द्रे पुरे वा राज्यं सूर्ये सूरप्रभावता॥
पृ11.17ab सत्ये मृदुर् मृगे सूरोऽन्तरीक्षे धन^क्षयः।
पृ11.17cd वायव्ये तु बहु^व्याधिर् भगे भाग्यविपर्ययः॥
पृ11.18ab पुष्पे तु सुभगो नित्यं वितथेऽप्य् अशुभो भवेत्।
पृ11.18cd शोके भूत^विकारः स्यात् सोषे तस्य विषण्णता॥
पृ11.19ab बल्लातके गृहे वासो राज^यक्ष्मे समावृतिः।(प्.182)
पृ11.19cd ह्रदे रेणु परिश्राव आदित्ये तु कलिर् ध्रुवं॥
पृ11.20ab नाग^राजे नाग^भयं महश्चेएद् दीर्घम् आयुषं।
पृ11.20cd भवेद् अस्य च यद् द्वारं तत्र^अग्नि^भयम् आदिशेत्॥
पृ11.21ab क्षयं विद्यात् तस्य तस्य धनस्य च कुलस्य च।
पृ11.21cd यमे मृत्युं विजानीयात् कुले श्रेष्ठ^उत्तमस्य च।
पृ11.21ef भृङ्गिराजे त् मतिमान् गन्धर्वे गन्धमाल्यता॥
पृ11.22ab भृङ्गे क्रोधः कलिश् च^एव पितरि भोग^सम्पदः।
पृ11.22cd दौवारिके स्वल्प^धनं सुग्रीवे राज^पूजितः॥
पृ11.23ab पुष्प^दन्ते धनावाप्तिर् वरुणे जलचित्रता।
पृ11.23cd असुररे मरणं घोरं रोगे तु बहु^दोषता॥
पृ11.24ab बलींश् च उपहारांश् च प्रवक्ष्यांइ यथागृहं।
पृ11.24cd चिचित्रैर् विदिशैर् गन्धैः प्रैपूज्य बलिं हरेत्॥
पृ11.25ab कलत्रे हेतुबीजानि मध्यमेऽर्जितम् एव तु।
पृ11.25cd महेन्द्रे मुक्त^पुष्पाणि पावके च पयो दधि॥
पृ11.26ab आदित्ये परिदेयं तु भक्तं च^एव प्रियङ्गवः।
पृ11.26cd अन्तरीक्षे जलं दिव्यं पुष्पाणि जलजानि च॥
पृ11.27ab नन्दा प्रतिपादा ज्ञेया षष्ठी त्रयोदशी जया।
पृ11.27cd तासु तासु ध्रुवं कुर्यात् प्राज्ञो ह्य् एवं विचक्षणः॥
पृ11.28 अयं भोः पुष्करसारिन् द्वार^लक्षणं नाम^अध्यायः।
पृ11.29 अथ खलु भोः पुष्करसारिन् द्वादश^राशिकं नाम^अध्यायं व्याखास्यामि। तच् छ्रूयतां। अथ किं । कथायतु भगवान् त्रिशङ्कुः।
पृ12 द्वादश^रीशिकः (प्.183)
पृ12.1ab अतः परं प्रवक्ष्यामि चित्तविज्ञान^काण्डकं।
पृ12.1cd यथा दृष्टान्तेनैवैनं नराणां समुदाहृतं॥
पृ12.2ab तद् अहं संप्रवक्ष्यामि चित्तविज्ञानम् उत्तमं।
पृ12.2cd द्वादशैव तु चित्तास् ते ये लोके प्रचरन्ति वै॥
पृ12.3ab तान् अहं संप्रवक्ष्यामि शृणु तत्त्वेन मे ततः।
पृ12.3cd द्वादश^एव तु कुर्याच् च मण्डलानि विचक्षणः
पृ12.4ab प्रथमं मेषो नाम स्याद् द्वितीयं तु वृषः स्मृतः।
पृ12.4cd तृतीयं मिथुनं नाम चतुर्थं च^अपि कर्कटः॥
पृ12.5ab पञ्चमं च^अपि सिंहस् तु षष्ठं कन्या इति स्मृतं।
पृ12.5cd तुला तु सप्तमं ज्ञेया वृश्चिकस् तु तह्ताष्टमं॥
पृ12.6ab द्नवी तु नवमं ज्ञेया दशमं मकरः स्मृतः।
पृ12.6cd कुम्भश् चैकादशं ज्ञेयो द्वादशं मीन उच्यते॥
पृ12.7ab होरा शरीरं जातस्य द्वितीये चिन्तितं धनं।
पृ12.7cd तृतीये भ्रातुर च^एव चतुर्थे स्वजनस् तथा॥
पृ12.8ab चिन्त्यते पञ्चमे पुत्रः षष्ठे मण्डले शत्रुता।
पृ12.8cd सप्तमे दारसंयोगो ह्य् अष्टमे नैधनं स्मृतं॥
पृ12.9ab नवमे चिन्त्यते धर्मो दशमे दर्मजं फलं।
पृ12.9cd एकादशे च^अर्थ^लाभो द्वादशे व्यर्थ^संभवः॥
पृ12.10ab एते द्वादश^चित्तास् तु यथा दृष्टा महर्षिभिः।
पृ12.10cd सर्व^भूतात्मभूताश् च यथाज्ञेयास्त देहिनां॥
पृ12.11ab आगस्त्य पृच्छते कश्चित् प्रथमं मण्डलं स्पृशेत्।(प्.184)
पृ12.11cd शिरस् तु स्पृशते यश् च शब्दश् च उपलक्ष्यते॥
पृ12.12ab व्याधितं च^एव ह्य् आत्मानम् आग्नेयाश् च विनष्टयः।
पृ12.12cd यदि ब्रूयात् तदा तस्य आत्मार्थं चिन्तितं भवेत्॥
पृ12.13ab काञ्चनं रजतं ताम्रं लौहं च^एव भृशं हवेत्।
पृ12.13cd स च सर्व^गतश् च^एव अग्निर् अश्नाति निश्चितं॥
पृ12.14ab एतादृशं दृष्ट्वोत्पातम् आग्नेयं तस्य निर्दिशेत्।
पृ12.14cd यादृशश् च भवेच् छब्दस् तादृशं तेन चिन्तितं॥
पृ12.15ab पुरुषः कश्चिद् आगत्य द्वितीयं मण्डलं स्पृशेत्।
पृ12.15cd ग्रीवां वा परिमार्जयेद् गलं च चिबुकं पुनः॥
पृ12.16ab यदि शब्दश् च श्रूयेत दृष्टा गावस् तथा^एव च।
पृ12.16cd ईदृशं च दृXट्वोत्पातं गोशब्दं तत्र निर्दिशेत्।
पृ12.16ef अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितम्॥
पृ12.17ab पुरुषः कश्चिद् आगत्य तृतीयं मण्डलं स्पृशेत्।
पृ12.17cd मार्जयेन् मुखदेशं तु स्त्री^चित्तं तस्य निर्दिशेत्॥
पृ12.18ab अथ शब्दो भवेत् तत्र श्रूयन्तां तादृशास् तु ते।
पृ12.18cd जातं प्रजातम् उपजातं तथा जातो भविष्यति॥
पृ12.19ab एतादृशं दृZट्वोत्पातं गर्भं तस्य विनिर्दिशेत्।
पृ12.19cd अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
पृ12.20ab पुरुषः कश्चिद् आगत्य चतुर्थं मण्डलं स्पृशेत्।
पृ12.20cd कच्छपं स्पृशते यस् तु कलहं तत्र निर्दिशेत्।
पृ12.20ef स्वजनं व्यवहारस् तु सति कलहे न संशयः॥
पृ12.21ab आकट्टा कट्टेति शब्दा भवन्ति च निरन्तरं।(प्.185)
पृ12.21cd एतादृशं दृष्ट्वा^उत्पातं कलहं तत्र न्रिदिशेत्॥
पृ12.22ab पुरुषः कश्चिद् आगत्य पञ्चमं मण्डलं स्पृशेत्।
पृ12.22cd हृदयं स्पृशते यस् तु अपत्यं तत्र चिन्तितं॥
पृ12.23ab प्रवासकश् च विज्ञेयः परग्राम^गतो मृतः।
पृ12.23cd शस्त्र^द्रव्यं च यत् तस्य ब्राह्मणानं कुले स्थितं॥
पृ12.24ab अथ शब्दो भवेत् तत्र यं दृष्ट्वा तु महर्षिभिः।
पृ12.24cd पुत्रपुत्रेति यच्छब्दो यद् गतं गतम् एव च।
पृ12.24ef एतादृशं दृष्ट्वा^उत्पातं मरणं तत्र निर्दिशेत्॥
पृ12.25ab पुरुषः कश् चिद् आगत्य षष्ठं तु मण्डलं स्पृशेत्।
पृ12.25cd स्पृशते च^अपि पार्श्वानि गात्रचिन्ता तु चिन्तिता॥
पृ12.26ab विग्रहस् तु महा^घोरः शत्रुश् च^अपि प्रवध्यते।
पृ12.26cd अथ वा तत्र ये शब्दाः श्रोतव्यास् ते न संशयः॥
पृ12.27ab अयं तु प्रक्षरश् च^एव हतश् च विहतस् तथा।
पृ12.27cd एतादृशं दृZट्वा^उत्पातम् अरिविग्रहम् आदिशेत्।
पृ12.27ef अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
पृ12.28ab पुरुषः कश्चिद् आगताय् सप्तमं मण्डलं स्पृशेत्।
पृ12.28cd हस्तेन मर्दयेद् हस्तं तथा नाडीं च मर्दयेद्॥
पृ12.29ab निवेशचिन्ता विज्ञेया अन्यग्राम^गता भवेत्।
पृ12.29cd तत्रेमे भवन्ति शब्दाः श्रोतव्या भूमिम् इच्छता॥
पृ12.30ab स्थितं निविष्टं वर्तञ् च कृतं हस्त^गतं तथा।
पृ12.30cd एतादृशं दृष्ट्वा^उत्पातं निवेशं तस्य निर्दिशेत्।
पृ12.30ef यादृशो वा श्रुतः शब्दस् तादृशं तेन चिन्तितं॥
पृ12.31ab पुरुषः कश्चिद् आगत्य अष्टमं मण्डलं स्पृशेत्।(प्.186)
पृ12.31cd उदरं च^एव फिचकं द्वे इमे परिमार्जयेत्॥
पृ12.32ab निधनं दृश्यते तस्य मरणं च^अपि दृश्यते।
पृ12.32cd यदि भवेद् भवेन् मृत्युर् यश् च^अन्य^प्रिय^सङ्गमः॥
पृ12.33ab तत्रेमे शब्दाः श्रोतव्या मृत एव भविष्यति।
पृ12.33cd एतादृशं दृष्ट्वा^उत्पातं व्यापत्तिं तस्य निर्दिशेत्॥
पृ12.34ab पुरुषः कश् चिद् आगत्य नवमं मण्डलं स्पृशेत्।
पृ12.34cd ऊरुं च स्पृशते भूया धर्म^चिन्ता च चिन्तिता॥
पृ12.35ab तत्र शब्दाश् च श्रोतव्या भवन्ति हि न संशयः॥
पृ12.35cd यज हि याजकश् च^एव यजमानस् तथाइव च।
पृ12.35ef शब्दानेवंविधान् श्रूत्वा यज्ञ^चिन्तां तु निर्दिशेत्॥
पृ12.36ab पुरुषः कश्चिद् आगत्य दशमं मण्डलं स्पृशेत्।
पृ12.36cd कर्मचिन्ता विचिन्त्येति गृह^कर्म न संशयः॥
पृ12.37ab स्पृशते जानुनी च^एव कर्म^चिन्तां तु निर्दिशेत्।
पृ12.37cd तत्र शब्दा अह्ब्वन्तीमे श्रोतव्याश् च न संशयः॥
पृ12.38ab भूमिकर्म च क्षेत्रं च क्षेत्रकर्म तथाइव च।
पृ12.38cd एतादृशं दृZट्वा^उत्पातं कर्म^चिन्तां विनिर्दिसेत्॥
पृ12.39ab पुरुषः कश्चिद् आगत्य एकादशं तु संस्पृशेत्।
पृ12.39cd जङ्घे तु स्पृशते भूयो ह्य् अर्थ^लाभं विनिर्दिशेत्॥
पृ12.40ab तत्रेमे शब्दाः श्रोतव्या भवन्तीह न संशयः।
पृ12.40cd पणसुवर्ण^चेलानि धान्यं समणिकुण्डलं॥
पृ12.41ab एतादृशं रवं श्रूत्वा हिरण्यं तस्य निर्दिशेत्।
पृ12.41cd अथ वा यादृशः शब्दस् तादृशं फलम् आदिशेत्॥
पृ12.42ab पुरुषः कश्चिद् आगत्य द्वादशं मण्डलं स्पृशेत्।(प्.187)
पृ12.42cd पादौ च स्पृशते पृच्छन् चित्तं वा^अप्य् अनर्थिकं॥
पृ12.43ab यस् तु तच् चिन्तितो ह्य् अर्थ^आशा आगन्तुका च या।
पृ12.43cd अथ वा शब्दाः श्रोतव्या निमित्त^ज्ञान^पारगैः॥
पृ12.44ab निराशश् च^एव घोषश् च निराशं तस्य निर्दिशेत्।
पृ12.44cd अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
पृ12.45 अयं भोः पुष्करसारिन् द्वादश^राशिको नाम^अध्यायः।
पृ12.46 अथ खलु भोः पुष्करसारिन् कन्या^लक्षणं नाम^अध्यायं व्याखास्यामि। तच् छ्रूयतां । अथ किं। कथयतु भग्वांस् त्रिशङ्कुः॥
पृ13 कन्या^लक्षणं
पृ13.1ab तत्वं विज्ञायते येन येन शुभम् उपस्थितं।
पृ13.1cd निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणं॥
पृ13.2ab पितरं मातरम् च^एव मातुलं भ्रातरं तथा।
पृ13.2cd विम्बाद् विम्बं परीक्षेत त्रिशङ्कु^वचनं यथा॥
पृ13.3ab मुहूर्ते तिथि^सम्पन्ने नक्षत्रे च^अपि पूजिते।
पृ13.3cd तद् विज्ञैः सह सङ्गम्य कन्यां पश्येत शास्त्र^वित्॥
पृ13.4ab हस्तौ पादौ निरीक्षेत नखानि ह्य् अङ्गुलीस् तथा।
पृ13.4cd पाणिलेखाश् च जञ्घए च कटिनाभ्यूरुम् एव च॥
पृ13.5ab ओष्ठौ जिह्वां च दन्तांश् च कपोलौ नासिकां तथा।
पृ13.5cd अक्षिभ्रवौ ललाटं च कर्णौ केशांस् तथा^एव च॥
पृ13.6ab रोमराजीं सवरं वर्णं मन्त्रितं गतिम् एव च।(प्.188)
पृ13.6cd मतिं सत्त्वं समीक्षेत कन्यानां शास्त्र^कोविदः।
पृ13.6ef तत्र पूर्वं परीक्षेत स्वयम् एव विचक्षणः॥
पृ13.7ab कंसस्वरा मेघवर्णा नारी मधुर^लोचना।
पृ13.7cd अष्टौ पुत्रान् प्रसूयेत दासीदासैः समावृता॥
पृ13.8ab अव्यावर्ताश् चत्वारो यस्याः सर्वे च^एव प्रदक्षिणाः।
पृ13.8cd समगात्रविभक्ताङ्गी पुत्रानष्टौ प्रसूयते॥
पृ13.9ab मण्डूककुक्षिर् या नारी सैश्वर्यम् अधिगच्छति।
पृ13.9cd धन्यान् सा जनयेत् पुत्रांस् तेषां प्रीतिं च भुञ्जते॥
पृ13.10ab यस्याः पाणितले व्यक्तः कच्छपः स्वस्तिको धवजः।
पृ13.10cd अङ्कुशं कुण्डलं माला दृश्यन्ते सुप्रतिष्ठिताः।
पृ13.10ef एकं सा जनयेत् पुत्रं तं च राजानम् आदिशेत्॥
पृ13.11ab यस्याः पाणौ प्रकृश्येत कोष्ठ^आगारं सतोरणं।
पृ13.11cd अपि दासकुले जाता राज^पत्नी भविष्यति॥
पृ13.12ab द्वात्रिंशद् दशना यस्याः सर्वे गोक्षीरपाण्डराः।
पृ13.12cd समशिखरि स्निग्धाभा राजानं सा प्रसूयते॥
पृ13.13ab स्निग्धा कारण्डवप्रेक्षा हरिणाक्षी तनुत्वचा।
पृ13.13cd रक्त^उष्ठजिह्वा सुमुखी राजानम् उपतिष्ठति॥
पृ13.14ab सूक्ष्मा च तुङ्गनासा च मुक्तम् आरक्तिमोदरी।
पृ13.14cd सुभ्रूः सुवरकेशान्ता सा तु कन्या बहु^प्रजा॥
पृ13.15ab अङ्गुल्यः संहिताः कान्ता नखाः कमलसन्निभाः।
पृ13.15cd सुऋजुरक्त^चरणा सा कन्या सुख^मेधते॥
पृ13.16ab यस्यावर्तौ समौ स्निघ्दौ उभौ पार्श्वौ सुसंस्थितौ।
पृ13.16cd .....................राज^पत्नी तु सा भवेत्॥
पृ13.17ab प्रदक्षिणं प्रक्रमेत प्रेक्षते च प्रदक्षिणं।(प्.189)
पृ13.17cd प्रदक्षिण^समाचारां कन्यां भार्या^अर्थम् आवहेत्॥
पृ13.18ab ऊरू जङ्घे च पार्श्वे च तथा विक्रमः संस्थितः।
पृ13.18cd रक्त^अन्ते विपुले नेत्रे सा कन्या सुखमेधते॥
पृ13.19ab मृग^अक्षी मृग^जङ्घा च मृग^ग्रीवा मृग^उदरी।
पृ13.19cd युक्त^नामा तु या नारी राजानम् उपतिष्ठिते॥
पृ13.20ab यस्य^अग्र^ललिताः केशा मुखं च परिमण्डलं।
पृ13.20cd नाभिः प्रदक्षिण^आवर्ता सा कन्या कुल^वर्धिनी॥
पृ13.21ab न^अतिदीर्घा न^अतिह्रस्वा सुप्रतिष्ठ^तनु^त्वचा।
पृ13.21cd सुख^संस्पर्श^केश^अग्रा सौभाग्यं न^अतिवर्तते॥
पृ13.22ab कान्त^जिह्वा तु या नारी रक्त^उष्ठी प्रिय^भाषिणी।
पृ13.22cd तादृशीं वरयेत् प्राज्ञो गृह^अर्थं सुखमेधिनीं॥
पृ13.23ab नील^उत्पल^सुवर्ण^आभा दीर्घ^अङ्गुलि तला तु या।
पृ13.23cd सहस्राणां बहूनां तु स्वामिनी सा भविष्यति॥
पृ13.24ab धन^धान्यैः समायुक्तां आयुषा यशसा श्रिया।
पृ13.24cd कन्यां लक्षण^सम्पन्नां प्राप्य वर्धति मानवः॥
पृ13.25ab कीर्तितास् तु मया धन्या मङ्गल्य^लक्षणाः स्त्रियः।
पृ13.25cd अप्रशस्तं प्रवक्ष्यामि यथा^उद्देशेन लक्षणं॥
पृ13.26ab ऊर्ध्व^प्रेक्षी अधःप्रेक्षी या च तिर्यक् च प्रेक्षिणी।
पृ13.26cd उद्भ्रान्ता विपुलाक्षी च वर्जनीया विचक्षणैः॥
पृ13.27ab भिन्न^अग्रशतिका रूक्षाः केशआ यस्याः प्रलम्भिकाः॥
पृ13.27cd चित्र^अवली चित्र^गात्रा भवति काम^चारिणी॥
पृ13.28ab कामुका पिङ्गला च^एव गौरी चैव^अतिकालिका।
पृ13.28cd अतिदीर्घा अतिह्रस्वा वर्जनीय विचक्षणैः॥
पृ13.29ab यस्य^अस्त्रीणि प्रलम्बन्ति ललाटम् उदरं स्फिचौ।(प्.190)
पृ13.29cd त्रींश् च सा पुरुषान् हन्ति देवरं श्वशुरं पतिं॥
पृ13.30ab पार्श्वतो रोम^राजी तु विनता च कटिर् भवेत्।
पृ13.30cd दीर्घम् आयुर् अवाप्नोति दीर्घ^कालं च दुःखिता॥
पृ13.31ab काक^जङ्घा च या नारी रक्त^अक्षी वर्धस्वरा।
पृ13.31cd निःसुखा च निराशा च वर्जिता नष्ट^बान्धवा॥
पृ13.32ab अतिस्थूल^उदरं यस्याः प्रलम्बो निम्र^सन्निभः।
पृ13.32cd अत्यन्तम् अवशा नारी बहु^पुत्रा सुदुःखिता॥
पृ13.33ab या तु सर्व^समाचारा मृद्^वङ्गी समतां गता।
पृ13.33cd सर्वैः समैर् गुणैर् युक्ता विज्ञेया काम^चारिणी॥
पृ13.34ab यस्या रोम^चिते जङ्घे मुखं च परिमण्डलं।
पृ13.34cd पुत्रं वा भ्रातरं वा^अपि जारम् इच्छति तादृशी॥
पृ13.35ab यस्या बाहु^प्रकोष्ठौ द्वौ रोम^राजी^समावृतौ।
पृ13.35cd उत्तरोष्ठे च रोमाणि सा तु भक्षयते पतिं॥
पृ13.36ab यस्य हस्तौ च पादाउ च छिद्रौ दन्त^अन्तराणि च।
पृ13.36cd पतिना^उपार्जितं द्रव्यं न तस्या रमते गृहे॥
पृ13.37ab तस्यास् तु व्रजमानायाः स्फुटन्ते पर्व^सन्धयः।
पृ13.37cd सा ज्ञेया दुःख^बहुला सुखं नैव^अधिगच्छति॥
पृ13.38ab यस्याः कनिष्ठिका पादे भूमिं न स्पृशतेऽङ्गुलिः।
पृ13.38cd कौमारं सा पतिं स्यक्त्वा आत्मनः कुरुते प्रियं॥
पृ13.39ab अनामाङ्गुलिः पादस्य महीं न स्पृशतेऽङ्गुलिः।
पृ13.39cd न सा रमति कौमारं बन्धकीत्वेन जीवति॥
पृ13.40ab यस्याः प्रदेशिनी पादेऽङ्गुल्ष्ठं समतिक्रमेत्।
पृ13.40cd कुमारी कुरुते जारं यौवनस्था विशेषतः॥
पृ13.41ab आवर्तः पृष्ठतो यस्या नाभी सा च^अनुबन्धति।(प्.191)
पृ13.41cd न सा रमति कौमारं द्वितीयं लभते पतिं॥
पृ13.42ab विकृता स्थिरजाला च रूक्ष^गण्ड^शिरोरुहा।
पृ13.42cd अपि राज^कुले जाता दासीत्वम् अधिगच्छति॥
पृ13.43ab यस्यास् तु हसमानाया गण्डे जायति कूपकं।
पृ13.43cd अग्निकार्येऽपि सा गत्वा क्षिप्रं दोषं करिष्यति॥
पृ13.44ab सम^असम^गता सुभ्रूर् गण्ड^आवर्ता च य भवेत्।
पृ13.44cd प्रलम्भोष्ठी तु या नारी नैकत्र रमते चिरं॥
पृ13.45ab लम्ब^उदरी स्थूलशिरा रक्त^अक्षी पिङ्गल^आनना।
पृ13.45cd अष्टौ भक्षयते वीरान् नवमे तिष्ठते चिरं॥
पृ13.46ab न देविका न नदिका न च दैवत^नामिका।
पृ13.46cd वृक्ष^गुल्म^सनामा च वर्जयीया विचक्षणैः॥
पृ13.47ab नक्षत्र^नामा या नारी या च गोत्र^सनामिका।
पृ13.47cd सुगुप्ता रक्षिता वा^अपि मनसा पापाम् आचरेत्॥
पृ13.48ab दारान् विवर्जयेद् एतान् या मया परिकीर्तिताः।
पृ13.48cd प्रशस्ता यास् तु पूर्वोक्तास् तादृशीयान् नरः सदा॥
पृ13.49ab पद्म^अङ्कुश^स्वस्तिक^वर्धमानैश् चक्र^ध्वजाभ्यां कलशेन पाणौ॥
पृ13.49cd शङ्ख^आतपत्र^उत्तम^लक्षणैश् च सम्पत्तये साधु भवन्ति कन्याः॥
पृ13.50 अयं भोः पुष्करसारिन् कन्या^लक्षणं नाम^अध्यायः।
पृ13.51 अथ खलु भोः पुष्करसारिन् वस्त्र^अध्यायं व्याखास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः॥
पृ14 वस्त्र^अध्यायः (प्.192)
पृ14.1ab कृत्तिकासु दहत्य् अग्निर् अर्थ^लाभाय रोहिणी।
पृ14.1cd मृगशिरा मूषीदंशा आर्द्रा प्राण^विनाशिनी॥
पृ14.2ab पुनर्वसुश् च धन्या स्यात् पुष्ये वै वस्त्रवान् भवेत्।
पृ14.2cd अश्लेषासु भवेन् मोषः श्मशानं मघया व्रजेत्॥
पृ14.3ab फाल्गुनीसु भवेद् विद्या उत्तरासु च वस्त्रवान्।
पृ14.3cd हस्तासु हस्त^कर्माणि चित्रायां गमनं ध्रुवं॥
पृ14.4ab स्वात्यां च शोभनं वस्त्रं विशाखा प्रिय^दर्शनं।
पृ14.4cd बहु^वस्त्रा च^अनुराधा ज्येष्ठा वस्त्र^विनाश्नी॥
पृ14.5ab मूलेन क्लेदयेद् वास आषाढा रोग^सम्भवा।
पृ14.5cd उत्तरा मृष्ट^भोजी स्याच् छ्रवणे चक्षुषो रुजं॥
पृ14.6ab धनिष्ठा धान्य^बहुला विद्याच् छतभिषे भयं।
पृ14.6cd पूर्वभाद्रपदे तोयं पुत्र^लाभाय च^उत्तरा॥
पृ14.7ab रेवती धन^लाभाय अश्विनी वस्त्र^लाभदा।
पृ14.7cd भरणी च भय^आकीर्णा चौर^गम्या च सा भवेत्॥
पृ14.8 अयं भोः पुष्करसारिन् वस्त्र^अध्यायः।
पृ14.8 अथ खलु भोः पुष्करसारिन् लुङ्गाध्यायं प्रवक्ष्यामि। तच् छ्रूयतां। अथ किं।कथयतु भगवान् त्रिशङ्कुः॥
पृ15 लुङ्गाध्यायः (प्.193)
पृ15.1ab कुत्र^उत्पन्ना इमे बीजाः (?) शस्यानां च यवादयः।
पृ15.1cd यैर् इदं ध्रियते विश्वं कृत्स्नं स्थावर^जङ्गमं॥
पृ15.2ab वापयेत् तु कथं बीजं लाङ्गलं योजयेत् कथं।
पृ15.2cd केषु नक्षत्र^योगेषु तिथि^योगेषु केषु च॥
पृ15.3ab शारदं वा^अथ ग्रैष्मं तु कस्मिन् मासे तु वापयेत्।
पृ15.3cd निमित्तं कति शस्यन्ते कानि वा परिवर्जयेत्।
पृ15.3ef कस्य वा दापयेद् धूपं केन मन्त्रेण दापयेत्॥
पृ15.4ab प्रदक्षिण^समावृत्ता यदि लुङ्गा प्रजायते।
पृ15.4cd तदा नाग^मुखी लुङ्गा दहति चित्र^मुख्य् अपि॥
पृ15.5ab दर्भ^सूची^मुखी वा^अपि कारणं तत्र को भवेत्।
पृ15.5cd कति सौभिक्षिका लुङ्गः कति दौर्भिक्षिकाः स्मृताः।
पृ15.5ef कति वर्णाः समाख्याताः कति वर्णा निदर्शिताः॥
पृ15.6ab नष्ट^अपनष्ट^बीजस्य वर्षति यदि वासवः।
पृ15.6cd निर्घातो वा भवेत् तीव्रोऽथवा^अपि मेदिनी चलेत्॥
पृ15.7ab शस्यं फलस्य किं तत्र निमित्तम् उपलक्षयेत्।
पृ15.7cd सर्वम् एतत् समासेन श्रोतुम् इच्छामि तत्त्वतः॥
पृ15.8ab पुष्करसारिणो ब्राह्मणस्य वचनं श्रूत्वा त्रिशङ्कु^मातङ्ग^अधिपतिर् इदं वचनम् अब्रवीत्।
पृ15.9ab पुरा देव^असुरर् नागैर् यक्ष^राक्षस^किन्नरैः।
पृ15.9cd सागराद् अमृतं दृष्टं मन्थिते तु समुद्भवं॥
पृ15.10ab अमृते भक्ष्यमाणे तु भागं प्रार्थितवान् द्विजः।(प्.194)
पृ15.10cd ततो दत्ताः सुरैर् भागा अमृताद् दशविन्दवः॥
पृ15.11ab तत उत्पन्ना इमे बीजा भुवि लोक^सुख^आवहाः।
पृ15.11cd यव^ब्रीहि^तिलाश् च^एव गोधूमा मुद्ग^माषकाः॥
पृ15.12ab श्यामकं सप्तमं विद्याद् इक्षुश् च^अष्टमकः स्मृतः।
पृ15.12cd शेषास् तु सङ्गता जाता बहवः शस्य^जातयः॥
पृ15.13ab हरितकेषु सर्वेषु ये च^अन्ये सत्त्व^जातयः।
पृ15.13cd परितो नवमो विन्दुः सर्व^देहेऽमृतोऽभवत्।
पृ15.13ef मूलेषु च^एव सर्वेषु विन्दुर् एकः प्रपातितः॥
पृ15.14ab आषाढे शुक्ल^पक्षेऽस्य व्रीहि^धान्यानि वापयेत्।
पृ15.14cd शारद^आदीनि सर्वाणि मासे भाद्रपदे तथा॥
पृ15.15ab कार्त्तिके मार्गशीर्षे वा ग्रीआम धान्यानि वापयेत्।
पृ15.15cd पञ्चभ्यां शुक्ल^सप्तम्यां षष्ठ्याम् एकादशीषु च॥
पृ15.16ab त्रयोदश्यां द्वितीयायां तथा हि नवमीषु च।
पृ15.16cd विशेषतस् तु निम्नेषु सर्व^बीजानि ह्य् उत्सृजेत्॥
पृ15.17ab भरणी पुष्य^मूलेषु हस्त^अशिवनी^मघासु च।
पृ15.17cd कृत्तिकासु विशाखासु विशेषेण तु शारदं॥
पृ15.18ab सौम्ये मैत्रेऽनुराधे च धनिष्ठा^श्रवणासु च।
पृ15.18cd उत्सर्गः सर्व^बीजानाम् उत्तरेषु प्रशस्यते।
पृ15.18ef वर्जयेज् जन्म^नक्षत्रं संग्रहं च विवर्हयेत्॥
पृ15.19ab ग्राम^क्षेत्रे च यद् बीजं गृहे च गृह^देवता।
पृ15.19cd निमित्तम् उपलक्षेत मङ्गलानि शुभानि च॥
पृ15.20ab ब्राह्मणं क्षत्रियं कन्याम् अर्चिष्मन्तं च पावकं।(प्.195)
पृ15.20cd वारण^इन्द्रं वृषं च^एव हयं वा स्वभ्यलंकृतं॥
पृ15.21ab पूर्ण^कुम्भं ध्वजं छत्रम् आमामांसं सुरां तथा।
पृ15.21cd उद्धृतां धारणीं च^एव बद्धम् एक^पशुं दधि॥
पृ15.22ab चक्र^आरूढं च शकटं काक^आरूढां च सूकरीं।
पृ15.22cd परस्य^आरोपणं दृष्ट्वा सस्य^सम्पत्तिम् आदिशेत्॥
पृ15.23ab सर्वे दक्षिणतो धन्याः पुरश् च मृग^पक्षिणः।
पृ15.23cd दशनं शुख^पुष्पाणां फलानं च^एव शस्यते॥
पृ15.24ab अजो वा वामतः शस्यो जम्बुकश् च प्रशस्यते।
पृ15.24cd विकृतं कुब्ज^कुष्ठिं च मुखं श्मश्रुधरं तथा॥
पृ15.25ab नरं निर्भर्त्सितं दीनं शोकार्तं व्याधि^पीडितं।
पृ15.25cd वराह^वृन्दं सर्पं च गर्दभं भार^हीनकं।
पृ15.25ef दृष्ट्वा निवर्तयेद् बीजं पुनर् ग्रामं प्रवेशयेत्॥
पृ15.26ab तिलस्य बहु(?) पूर्णस्य भाण्डे स्याद् वपनम् तथा।
पृ15.26cd श्रूत्वा ह्य् एतानि व्रजतां सस्य^सम्पत्तिम् आदिशेत्॥
पृ15.27ab राशिस्थं ग्रथितं धौतं स्वस्थमं कुरितं तथा।
पृ15.27cd श्रूत्वा संमार्जितं च^एव इत्य् आशुकृतिनं विदुः॥
पृ15.28ab श्रूत्वा म्लानं च शुष्कं च मन्द^वृष्टिं च निर्दिशेत्।
पृ15.28cd श्रूत्वा निवर्तयेद् बीजं पुनर् ग्रामं प्रवेशयेत्॥
पृ15.29ab नीयमानं च यद् बीजं वर्षते यदि वासवः।
पृ15.29cd स्वयम् एव तु तच् छस्यं कामं कालेन भुज्यते॥
पृ15.30ab नीयमानं च यद् बीजं कम्पते यदि मेदिनी।
पृ15.30cd भ्रम्यते कर्षकः स्थानान् न तच् छक्यं तु वापितुं॥
पृ15.31ab नीयमानस्य बीजस्य निर्घातो दारुणो भवेत्।(प्.196)
पृ15.31cd स्वामिनो मरणं क्षिप्रं शस्य^पालस्य निर्दिशेत्॥
पृ15.32ab अथ वा व्याकुलं कुर्याद् राज^दण्ड^निकृन्तति।
पृ15.32cd दृष्ट्वा निवर्तयेद् बीजं पुनर् ग्रामं निवेशयेत्॥
पृ15.33ab ब्राह्मणेभ्यो यथा^शक्ति दत्वा तु संप्रयोजयेत्।
पृ15.33cd कृत्वा सुविपुलां वेदीं दर्भान् आस्तीर्य सर्वतः।
पृ15.34ab समिद्भिर् अग्निं प्रज्वाल्य जुहुयाद् घृत^सर्षपं।
पृ15.34cd वेद^शान्तिं जपेत् पूर्वं शस्याशान्तिम् अतः प्रं।
पृ15.35ab जयेत् पाराशरं पूर्वं प्रियतं वाचयेद् द्विजैः।
पृ15.35cd प्रथमं प्राङ्मुखं बीजं प्रक्षिपेद् उत्तरेऽथ वा॥
पृ15.36ab पिपीलिका यदा क्षेत्रे बीजं कुर्वन्ति सङ्चयं।
पृ15.36cd सुवृष्टिं च सुभिक्षं च सर्व^सस्येषु सम्पदा।
पृ15.37ab हरन्ति चेत् तृणाद् बीजं तृणे शस्य^अपहा अपि।
पृ15.37cd प्रस्परं च हिंसन्ति धान्यं च निधनं व्रजेत्॥
पृ15.38ab स्थलेषु सञ्चयं दृष्ट्वा महा^वृष्टिं विनिर्दिशेत्।
पृ15.38cd दृष्ट्वा तु सञ्चयं निम्नेऽनावृष्टिं च निर्दिशेत्॥
पृ15.39ab यदा तु प्रोषितं बीजं सप्त^रात्रेण जायते।
पृ15.39cd सुवृष्टिं च सुभिक्षं च सर्व^शस्येषु सम्पदा॥
पृ15.40ab यदा तु प्रोषितं बीजम् अर्ध^मासेन जायते।
पृ15.40cd अल्पं निष्पद्यते शस्यं दुर्भिक्षं च^अत्र जायते॥
पृ15.41ab त्रि^रात्राच् चतूरात्राद् वा यदि लुङ्गः प्रजायते।
पृ15.41cd अतिवृष्टिर् भवेत् तत्र पर^चक्र^भयं विदुः॥
पृ15.42ab लुङ्गस्य तु ये पादाः पञ्च सप्त नवा तथा।
पृ15.42cd सुवृष्टिं च सुभिक्षं च सर्व^सस्येषु सम्पदा॥
पृ15.43ab स्याल् लुङ्गस्य तु ये पादाश् चत्वारोष्टपदा^अथ वा।(प्.197)
पृ15.43cd अल्पं निष्पद्यते शस्यं दुर्भिक्षं च^अत्र निर्दिशेत्॥
पृ15.44ab लुङ्गस्य यदि पादास् तु दृश्यन्ते द्वादश क्वचित्।
पृ15.44cd क्वचिन् निष्पद्यते शस्यं द्रुभिक्षं क्वचिद् आदिशेत्।
पृ15.44ef वाम^आवर्ताः प्रदृश्यन्ते दुर्भिक्षं तत्र निर्दिशेत्॥
पृ15.45ab यदा पूर्व^मूखी लुङ्गा क्षेमं वृष्टिं च निर्दिशेत्।
पृ15.45cd यदा पश्चान् मुखी लुङ्गा अतिवृष्टिं च निर्देशेत्॥
पृ15.46ab क्षेमं सुभिक्षं चैव^अत्र यदा लुङ्ग^उत्तरामुखी
पृ15.46cd हरिताल^सुवर्ण^आभा भद्र^शोचिर् इव^उत्थिता॥
पृ15.47ab दर्भ^सूची^मुखी च^अपि दृश्यते यत्र कुत्रचित्।
पृ15.47cd क्वचिन् निष्पद्यते शस्यं दुर्भिक्षं तत्र निर्दिशेत्॥
पृ15.48ab यदा नाग^मुखी लुङ्गा दृश्यते यत्र वा कव्चित्।
पृ15.48cd क्वचिन् निश्यद्यते शस्यं दुर्भिक्षं च^अत्र निर्दिशेत्।
पृ15.48ef तत्र^अशनि^भयं च^अपि भयं मेघान् न संशयः॥
पृ15.49ab कृषि^मूलम् इदं सर्वं त्रैलोक्यं सचराचरं।
पृ15.49cd न^अस्ति कृषि^समावृत्तिः स्वयम् उक्तं स्वयम्भुवा॥
पृ15.50ab नाकृषेर् धर्मम् आप्नोति नाकृषेः सुखम् आप्नुयात्।
पृ15.50cd धर्मम् अर्थं तथा कामं सर्वं प्राप्नोति कर्षकः॥
पृ15.51ab इति लुङ्गाध्यायः॥
पृ15.52ab पुनर् अपि पुष्करसारी ब्राह्मणस् त्रिशङ्कुं मातङ्ग^अधिपतिम् एतद् अवोचत्।
पृ15.53ab कथं पृथिव्यां नागाश् च केन वा विनिवारिताः।(प्.198)
पृ15.53cd कुतो मूल^समुत्थानं निर्घातः कुत्र जायते॥
पृ15.54ab कुतश् च^अभ्राणि जायन्ते नाना^वर्णा दिशो दश।
पृ15.54cd कस्य^एष महतः शब्दः श्रूयते दुन्दुभिस् वरः॥
पृ15.55ab को हि सृजति दुर्भिक्षं सुभिक्षं च^एव प्राणिनां।
पृ15.55cd कस् तत्र स मुनि^श्रेष्ठो नाम गोत्रं ब्रवीहि मे॥
पृ15.56ab दैवतानि च मे ब्रूहि विधानानि स्वयम्भुवः।
पृ15.56cd यज्ञं च यज्ञ^भागं च होतव्यश् च यथा बलिः॥
पृ15.57ab पृथिव्यां दैवतं ब्रूहि आश्रमे दैवतं ब्रूहि।
पृ15.57cd देवे तु दैवतं ब्रूहि केन देवो सा कल्पिता॥
पृ15.58ab पात्रस्य दैवतं ब्रूहि पूर्ण^कुम्भस्य दैवतं।
पृ15.58cd करके दैवतं ब्रूहि तथा स्थाल्यां च दैवतं॥
पृ15.59ab शस्यस्य दैवतं ब्रूहि शस्य^पालस्य दैवतं।
पृ15.59cd वायु^स्कन्धैश् च कतिभिः शुक्रो वेगं प्रमुञ्चति॥
पृ15.60ab अथ त्रिशङ्कुर् मातङ्ग^अधिपतिर् ब्राह्मणं पुष्करसारिणम् एतद् अवोचत्।
पृ15.61ab पृथिवी वा वायुर् आकाशम् अपो ज्योतिश् च पञ्चमं।
पृ15.61cd तत्र संवर्तते पिण्डं ततो मेघः प्रवर्तते॥
पृ15.62ab एष व्याप्नोति च^आकाशं वायुना जन्यते घनः।
पृ15.62cd आदित्य^रश्मयो वारि समुद्रस्य नभस्^तले॥
पृ15.63ab तज्जलं नाग^संक्षिप्तं ततो वरुण^संक्षयः।
पृ15.63cd वायुर् नभो गर्जयते अग्निर् विद्योतते दिशः॥
पृ15.64ab मरुता क्षिप्यते पिण्डं सन्निपातश् च गर्जते।(प्.199)
पृ15.64cd विरोधनं तु वायोश् च अग्नश् च अनिलस्य च॥
पृ15.65ab आकाशे वर्तते पिण्डं पश्चात् पतति मेदिनीं।
पृ15.65cd यद् ग्रहाणाम् अधिपतिर् नक्षत्र^ज्योतिषाम् अपि।
पृ15.65ef ततो मारुत^संसर्गात् पर्जन्यम् अपि वर्षति॥
पृ15.66ab वर्षते शैल^शिखरे यत्र संप्रस्थितो जनः।
पृ15.66cd यत्र सत्यं च धर्मश् च हविर्मेघश् च वर्तते॥
पृ15.67ab तत्र बीजानि रोहन्ति अन्न^पानं समृध्यति।
पृ15.67cd एवं पिण्डाशनिराद्या ततो वाताशनी स्मृता।
पृ15.67ef दन्ताशनी तृतीया तु अशनिस् तु चतुर्थिका॥
पृ15.68ab पञ्चमी क्रिमयः प्रोक्ताः षष्ठी तु शलभास् तथा।
पृ15.68cd सप्तमी स्याद् अनावृष्टिर् अतिवृष्ठिस् तथाष्टमी॥
पृ15.69 नवमी सम्बरः प्रोक्ता इत्य् आह भगवाम्स् त्रिशङ्कुः।
पृ15.70ab एतास्त्व् अशन्यो व्याख्यातास् तासां वै देवताः शृणु।
पृ15.70cd पिण्डाशनी ब्रह्मसृष्टा एषा ज्येष्ठाद्यदेवता॥
पृ15.71ab दन्ताशनी तु सैन्यानां ग्रहा वाताशनी स्मृता।
पृ15.71cd अदेश ................... देवताः॥
पृ15.72ab शलभाः केतुदैवत्या आदित्या दितिदेवताः।
पृ15.72cd संसकाम् अतिवर्षस्य अनावृष्टेस् तु ज्योति[षः}।
पृ15.73ab [सम्ब]रस्य तु पर्जन्यम् आख्याताः नव देवताः।
पृ15.73cd अशन्या देवताः प्रोक्ता आकाश^गमन^अर्थं बोधत॥
पृ15.74ab पूर्वम् अधीन्द्र^दैवत्यं दक्षिणो यम^दैवतं।
पृ15.74cd वरुणं पश्चिमे विद्याद् उत्तरे धनदः स्मृतः।(प्.200)
पृ15.74ef .... त्या दैवतं विZणुर् आश्रमं विश्व^दैवतं॥
पृ15.75ab समिहा^दैवता देवास् तेभ्यो देवी प्रकल्पिता।
पृ15.75cd समिधा^दैवता ..........तोऽग्नि^हुताशनं॥
पृ15.76ab वेद्यां तु दैवतं ......... कारादित्य^दैवतं।
पृ15.76cd पात्रस्य देवता धर्मः पूर्ण^कुम्भे जनार्दनः॥
पृ15.77ab चरुं चेति ...........धूप^स्थानस्य ज्योतिषः।
पृ15.77cd शस्य ....... शस्य^पालो महा^मतिः।
पृ15.77ef वायु^स्कन्धैश् चतुर्भिस् तु शुक्रो वेगं प्रमुञ्चति॥
पृ15.78ab अत्र मध्ये पृथिव्याय आश्रमो विश्व^दैवतः।
पृ15.78cd तस्मिन् देशे ...... यस्मिन् प्रीतो वृष^ध्वजः॥
पृ15.79ab अत्य् आह भगवांस् त्रिशङ्कुः। पुनर् अपि पुष्करसारी ब्राह्मणस् त्रिशङ्कुम् एवम् आह।
पृ15.80ab किम् अर्थम् आश्रमे नित्यं हूयते हव्य^वाहनः।
पृ15.80cd तृण^काष्ठानि संहृत्य मेघं दृष्ट्वा समुत्थितं॥
पृ15.81ab अति .......... न्यते अग्निं सुदारुणं।
पृ15.81cd सर्व^लोक^हित^अर्थाय ध्यात्वा दिव्येन चक्षुषा।
पृ15.81ef प्रशमेच् च समासेन तद् भव^अर्थं तु ..... ॥
पृ15.82 एवम् उक्ते त्रिशङ्कुर् मातङ्ग^अधिपतिर् ब्राह्मणं पुष्करसारिणम् एतद् अवोचत्।
पृ16 धूमिकाध्यायः (प्.201)
पृ16.1ab पुरा हि खाण्डव^द्वीपम् अर्जुनेन महा^आत्मना।
पृ16.1cd ............... ज्वलितं जात^वेदसा॥
पृ16.2ab ............... प्रसन्न^मानान् निधि^गतं।
पृ16.2cd तत्र दग्धा अनेका हि नागाः कोटी^सहस्रशः॥
पृ16.3ab पुरा महा^उरगगणा यक्ष^राक्षस^पन्नगाः।
पृ16.3cd पाद^हीनाः कृताः केचिद् वाहु^हीनाः कृतापरे॥
पृ16.4ab वैकल्यं कर्ण^नासाभ्यां कृतं चैव^अक्षिपातनं।
पृ16.4cd तदा^प्रभृति भूतानां दृष्टं वै त्रासितं मनः॥
पृ16.5ab अग्निना तापिताः केचिद् वाणैर् अन्ये च सूदिताः।
पृ16.5cd वाचाटकेन^अपि पुरा काद्रवेयाः प्रपातिताः॥
पृ16.6ab आचषा हवि^गन्धेन मुह्यमाना नभोन्तरे।
पृ16.6cd तद्विहीनाः पतन्त्य् अन्ये गुह्यका धरणी^तले॥
पृ16.7ab सहाम्पतिस् तु नाम्ना स शस्य^काले तदाश्रमे।
पृ16.7cd शस्य^पालैस् तु सततम् होतव्यो हव्य^वाहनः॥
पृ16.8ab गृह^मेधी ज्वालयेद् अग्निं निर्मलेऽपि नभोन्तरे।
पृ16.8cd दिग्^भागेषु च भूतानां तेषाम् अर्थं दिने दिने॥
पृ16.9ab जाग्रतम् सततं वह्निम् आश्रमस्थोऽपि धारयेत्।
पृ16.9cd मेघं दृष्ट्वा विशेषेण ज्वालितव्यो हुताशनः॥
पृ16.10ab सधूम्लं ज्वलितं दृष्ट्वा दीप्यमानं तु पावकं।
पृ16.10cd भयम् आपतते तेषां नाग^सैन्यं विमुह्यते॥
पृ16.11ab अग्निं परिचरतोऽस्य शस्य^पालस्य च^आश्रमे।
पृ16.11cd अग्निना हूयमानेन सिध्यते सर्व^कर्म च॥
पृ16.12 अयं भोः पुष्करसारिन् धूमिकाध्यायः।
पृ16.13 अथ खलु भोः पुष्करसारिन् तिथि^कर्म^निर्देशं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।
पृ17 तिथि^कर्म^निर्देशः (प्.202)
पृ17.1ab नन्दां प्रतिपदाम् आहुः प्रशस्तां सर्व^क्रमसु।
पृ17.1cd विज्ञानस्य समारम्भे प्रवासे च विगर्हिता॥
पृ17.2ab द्वितीया कथिता भद्रा शस्ता भूषण^कर्मसु।
पृ17.2cd जया तृतीया व्याख्याता प्रशस्ता जय^कर्मसु॥
पृ17.3ab चतुर्थी कथिता रिक्ता ग्राम^सैन्य^वधे हिता।
पृ17.3cd चौर्य^अभिचार^कूट^अग्निदाह^गोरस^साधने॥
पृ17.4ab पूर्णा तु पञ्चमी ज्ञेया चिकित्सा^गमन^अध्वसु।
पृ17.4cd दान^अध्ययन^शिल्पेषु व्यायामे च प्रशस्यते॥
पृ17.5ab ज्येति संज्ञिता षष्ठी गर्हिताऽध्वसु शस्यते।
पृ17.5cd गृहे क्षेत्रे विवाहे वाऽवाह^कर्मसु मित्र^इति॥
पृ17.6ab भद्रा च सप्तमी ख्याता श्रेष्ठा सा सौकृतेऽध्वनि।
पृ17.6cd नृपाणां शासने छत्रे शय्यानां करणेषु च॥
पृ17.7ab महा^बल^अष्टमी सा च प्रयोज्या परिरक्षणे।
पृ17.7cd भय^मन्दर^बद्धेषु योगेषु हरणेषु च॥
पृ17.8ab अग्रसेना तु नवमी तस्यां कुर्याद् रिपु^क्षयं।
पृ17.8cd तथा विषघ्न^अवस्कन्द^विद्या^बन्ध^वध^क्रियाः॥
पृ17.9ab सुधर्मा दशमी शस्ता शास्त्र^आरम्भे धनोद्यते।
पृ17.9cd शान्ति^स्वस्त्ययन^आरम्भे दान^यज्ञ^उद्यतेषु च॥
पृ17.10ab एकादशी पुनर्मान्या स्त्रीषु च मांस^मद्ययोः।
पृ17.10cd कारयेन् नगरं गुप्तं विवाहं शास्त्र^कर्म च॥
पृ17.11ab यशेति द्वादशीम्म् आहुर् वैरेऽध्वनि च गर्हिता।
पृ17.11cd विवाहे च गिरौ क्षेत्रे गृह^क्रमसु पूजिता॥
पृ17.12ab जया त्रयोदशी साध्वी मण्डलेषु च योषितां।(प्.203)
पृ17.12cd कन्या^वरण^वाणिज्य^विवाह^आदिषु च^इष्यते॥
पृ17.13ab उग्रा चतुर्दशी तु स्यात् कारयेद् अभिचारकं।
पृ17.13cd वध^बन्ध^प्रयोगांश् च पूर्वं च प्रहरेद् अपि॥
पृ17.14ab सिद्धा पञ्चदशी साध्वी देवता^अग्नि^विधौ हिता।
पृ17.14cd गो^संग्रह^वृष^उत्सर्ग^बलि^जप्य^व्रतेषु च॥
पृ17.15ab नन्द^आदीनां क्रिया पूर्वे षष्ठ्य्^आदीनां तु मध्यमे।
पृ17.15cd सुनन्दायाश् च संध्याभिर् दिनरात्र्योः प्रसिध्यते॥
पृ17.16 अयं भोः पुष्करसारिन् तिथि^कर्म^निर्देशो नाम^अध्यायः।
पृ17.17 अपि च महा^ब्राह्मण इदं पूर्व^निवास^अनुस्मृति^ज्ञान^साक्षात् क्रियायां विद्यायां चित्तम् अभिनिर्णयामि निवर्तयामि। अनेक^विध^पूर्व^निवासं समनुस्मरमि।
पृ17.18 स्यात् ते ब्राह्मण काक्षा वा विमतिर् वा अन्यः स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूत्। न ह्य् एवं द्रष्टव्यं। अहम् एव स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूवं। सोऽहं ततश् च्युतः समान इन्द्रः कौशिकोऽभूवं। ततश् च्युतः समानोऽरणेमिर् गौतमोऽभूवं। ततश् च्युतः समानः श्वेतकेतुर् नाम महर्षिर् अभूवं। ततश् च्युतः समानः शुक^पण्डितोऽभूवं। मया ते तदा ब्राह्मण चत्वारो वेदा विभक्ताः।
पृ17.19 (प्.204)तद् यथा पुष्यो बहवृचानां पंक्तिश् छन्दोगानां। एक^विंशति^चरणा अध्वर्यवः। क्रतुर् अर्थ^वणिकानां। स्यात् तव ब्राह्मण काङ्क्षा वा विमतिर् वा अन्यः स तेन कालेन तेन समयेन वसुर् नाम महर्षिर् अभूत्। न ह्य् एवं द्रष्टव्यं। अहम् एव स तेन कालेन तेन समयेन वसुर् नाम महर्षिर् अभूवं। मया सा तक्षकवधूकायाः कपिला नाम माणिविका दुहिताऽसादिता भार्या^अर्थाय। सोऽहं तत्र संरक्त^चित्त ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः परिहीनः। सोऽहम् आत्मानं जुगुप्समानस् तस्यां वेलायाम् इमां गाथां बभाषे। ओं भुभुवः स्वः। तत्सवितुर् वरेण्यं भर्गा देवस्य धीमहि। धियो यो नः प्रचोदयात्।
पृ17.20 सोऽहं ब्राह्मण त्वां ब्रवीमि सामान्य^संज्ञा मात्रकम् इदं लोकस्य ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् एव^इदं सर्वं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् अनुप्रयच्छ भार्या^अर्थाय। यावतकं कुल^शुल्कं मन्यसे तावतकम् अनुप्रदास्यामि। इदं च वचनं पुनः श्रूत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्क्रसारी इदम् अवोचत्।
पृ17.21ab भगवान् श्रोत्रियः श्रेष्ठस् त्वत्तो भूयान् न विद्यते।
पृ17.21cd स^देवकेषु लोकेषु महा^ब्रह्मासमो भवान्॥
पृ17.22ab पुत्राय ते भोः प्रकृतिं ददामि (प्.205) शीलेन रूपेण गुणैर् उपेतः।
पृ17.22cd शार्दूलकर्णः प्रकृतिस् तु भद्रा उभौ रमेतां रुचितं मम^इदं।
पृ17.23 तत्र तानि पञ्च^मात्राणि माणवक^शतानि उच्चैः शब्दानि प्रोचुर् महा^शब्दानि। मा त्वं भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं सम्बन्धं रोचय। न^अर्हसि भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं सम्बन्धं कर्तुम्।
पृ17.24 अथ ब्राह्मणः पुष्करसारी तेषां निदानं निदाय शब्दं संस्थाप्य निपत्य श्लोकेन^एतान् अर्थान् अभाषत।
पृ17.25ab एवम् एतद् यथा ह्य् एष त्रिशङ्कुर् भाषते गिरं।
पृ17.25cd तत्वं ह्य् अवितथं भूतं सत्यम् नित्यं तथा ध्रुवं॥
पृ17.26 अथ ब्राह्मणः पुष्करसारी तेषां माणवकानां तं महान्तं शब्दं संस्थाप्य (प्.206) त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्। अयं भोस् त्रिशङ्को ब्रह्मणा सहापतिना चातुर्महा^भौतिको महा^पुरुषः प्रज्ञप्तः। यस्य।
पृ17.27ab शिरः सतारं गगनम् आकाशम् उदरं तथा।
पृ17.27cd पर्वताश् च^अप्य् उभाव् ऊरू पादौ च धरणी^तलं॥
पृ17.28ab सूर्या^चन्द्रमसौ नेत्रे रोम तृण^वनस्पती।
पृ17.28cd सागराश् च^अप्य् अमेध्यं वै नद्यो सूत्र^स्रवोऽस्य तु॥
पृ17.29ab अश्रूणि वर्षणं चारस्य एष ब्रह्मा सहापतिः।
पृ17.29cd भवांस् तु परम^ज्ञोऽसि तन् मे ब्रूहि यथा तथा॥
पृ17.30 इह भोस् त्रिशङ्को किम् आह स्वलक्षणं ब्रह्मणः प्रत्यवेक्षस्व। पित्रा च मात्रा च कृतानि कर्माणि भवन्ति। अश्वस्तना स्तेन वञ्चिताः।
पृ17.31ab गच्छन्ति सत्त्वा बहु^गर्भ^योनिं न च^एव कश्चिन् मनुजो ह्य् अयोनिः।
पृ17.31cd समस्त जातौ प्रचरन्ति सत्त्वा न मारुताज् जायते कश्चिद् एव॥
पृ17.32ab स्वभाव^भाव्यं ह्य् अवगच्छ लोके के ब्राह्मण^क्षत्रिय^वैश्य^शूद्राः।
पृ17.32cd सर्वत्र काणाः कुणिनश् च खञ्जाः कुष्ठी किलासी ह्य् अपस्मारिणोऽपि॥
पृ17.33ab कृष्णाश् च गौराश् च तथा^एव श्यामाः सत्त्वाः प्रजा ह्य् अन्यतमे विशिष्टाः।(प्.207)
पृ17.33cd सह^अस्थि^चर्माः सनखाः समांसा दुःखी सुखी मूत्र^पुरीष^युक्ताः।
पृ17.33ef न च^इन्द्रियाणां प्रविविक्तिर् अस्ति तस्मान् न वर्णाश् चतुरो भवन्ति॥
पृ17.34ab मन्त्रैर् हि यदि लभ्येत स्वर्गं तु गमनं द्विजः।
पृ17.34cd कृष्ण^शुक्लानि कर्माणि भवेयुर् निष्फलानि हि।
पृ17.34ef यस्मात् कृष्णानि शुक्लानि कर्माणि सफलानि हि।
पृ17.34घ् पच्यमानानि दृश्यन्ते गतिष्व् एतानि पञ्च^सु॥
पृ17.35 मानवक^शतेषु स तत्र विनिहतो महा^यशसा त्रिशङ्कुना पुष्करसारी ब्राह्मणोऽब्रवीत्। ब्राह्मणोऽसौ मातङ्ग^राजो हि त्रिशङ्कुर् नाम। भवान् हि ब्रह्मा इन्द्रश् च कौशिकः। त्वम् अरणेमिश् च गौतमः। त्वं श्वेतकेतुश् च शुक^पण्डितः। वेदः समाख्यातस् त्वया चतुर्धा। भगवान् वसूराज^र्षिर् महा^यशा भगवान्।
पृ17.36ab ज्ञानेन हि त्वं परमेण युक्तः स्वषु शास्त्रेषु भवान् कृतार्थः।
पृ17.36cd श्रेष्ठो विशिष्टो परमोऽसि लोके भवान् हि विद्या^चरणेन युक्तः॥
पृ17.37ab ददामि तेऽहं प्रकृतिं ममामलां शीलेन रूपेण गुणैर् उपेतः।
पृ17.37cd शार्दूलकर्णः प्रकृतिश् च भद्रा उभौ रमेतं रुचितं मम^इदं॥
पृ17.38ab प्रगृह्य भृङ्गारम् उदक^प्रपूर्णम् आवर्जितो ब्राह्मणो हृष्ट^चित्तः।(प्.208)
पृ17.38cd अनुप्रदासीद् उदकेन कन्यकां शार्दूलकर्णस्य इयम् अस्तु भार्या॥
पृ17.39 उदग्रचित्त आसीन् मातङ्ग^राजः।
पृ17.40ab कृत्वा निवेशं स तदात्मजस्य गत्वा^आश्रमेऽसौ नगरं यशस्वी।
पृ17.40cd धर्मेण वै कारयति स्वराज्यं क्षेमं सुभिक्षं च सदा^उत्सव^आद्यं ॥ इति।
पृ17.41 स्याद् भिक्षवो युष्माकं काङ्क्षा वा विमतिर् वा विचिकित्सा वा। अन्यः स तेन कालेन तेन समयेन त्रिशङ्कुर् नाम मातङ्ग^राजोऽभूवं। स्याद् एवं च भिक्षवो युस्माकम् अन्यः स तेन कालेन तेन समयेन शार्दूलकर्णा नाम मातङ्ग^राज^कुमारोऽभूत्। नैव द्रष्टव्यं। एष स आनन्दो भिक्षुः स तेन कालेन तेन समयेन शार्दूलकर्णा नाम मातङ्ग^राज^कुमारोऽभूत्। स्याद् एवं युष्माकम् अन्यः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत्। नैव द्रष्टव्यं। एष शारद्वतीपुत्रो भिक्षुः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत्। न^अन्या सा तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता^अभूत्। न^एवं द्रष्टव्यं। एषा सा प्रकृतिर् भिक्षुणी तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता^अभूत्। सा एतर्हि (प्.209) तेन^एव स्नेहेन तेन^एव प्रेम्णाऽनन्दं भिक्षुं गच्छन्तम् अनुगच्छति तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशति तत्र तत्र^एव द्वारे तूष्णीं भूताऽस्थात्।
पृ17.42 अथ खलु भगवान् एतस्मिन् निदाने एतस्मिन् प्रकरणे तस्यां वेलायाम् इमां गाथाम् अभाषत।
पृ17.43ab पूर्वकेण निवासेन प्रत्युत्पन्नेन तेन च।
पृ17.43cd एतेन जायते प्रेम चन्द्रस्य कुमुदे यथा॥
पृ17.44 तस्मात् तर्हि भिक्षवोऽनभिसमितानां चतुर्णाम् आर्य^सत्यानाम् अभिसमयाय, अधिमात्रं वीर्यं तीव्र^च्छन्दो वीर्यं शब्दापयामि। उत्साह उन्नतिर् अप्रतिवाणिः स्मृत्या संप्रजन्येन अप्रमादतो योगः चरणीयः। द्रुतम् एषां चतुर्णा दुःखस्य^आर्य^सत्यस्य दुःख^समुदयन्य निरोधस्य निरोध^गामिन्याः प्रतिपद आर्य^सत्यस्य अमीषां चतुर्णाम् आर्य^सत्यानाम् अनभिसमितानाम् अभिसमयाय^अधिमात्रं तीव्र^च्छन्दो वीर्यं व्यायाम उत्साह उन्नतिर् अप्रतिवाणिः स्मृत्या संप्रजन्येन^अप्रमादतो योगः करणीयः।
पृ17.45 (प्.210) अस्मिंश् च खलु पुनर् धर्म^पर्याये भाष्यमाणे भिक्षूणां षष्टि^मात्राणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि। संबहुलानां श्रावकाणां ब्रह्मणां गृहपतीनं च विरजस्कं विगत^मलं धर्म^चक्षुर् उदपादि विशुद्धं।
पृ17.46 इदम् अवोचद् भगवान्। आत्त^मनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्।

इति श्रीदिव्यावदाने शार्दूलकर्णावदानं।

वाह्यसूत्राणी

   शार्दूलकर्णावदान

स्थूलक्षरम् वलिताक्षरम् परिसन्धिः अन्तर्गता सञ्चिका सन्दर्भः उन्नतम् विशेष-वर्णानि साहाय्यम् ल्याटिन् ल्याटिन्-विस्तारितम् ऐपिए प्रतीक ग्रीक सिरिलिक् अरबी अरबीविस्तारितम् हिब्रू वङ्गलिपि तमिल् तेलुगु सिंहल देवनागरी गुजराती थाई लाओ खमेर ऀँंःऄअआइईउऊऋऌऍऎएऐऑऒओऔकखगघङचछजझञटठडढणतथदधनऩपफबभमयरऱलळऴवशषसहऺऻ़ऽािीुूृॄॅॆेैॉॊोौ्ॎॏॐ॒॑॓॔ॕॖॗक़ख़ग़ज़ड़ढ़फ़य़ॠॡॢॣ।॥०१२३४५६७८९॰ॱॲॳॴॵॶॷॹॺॻॼॽॾॿ

ॐ नमो रत्नत्रयाय

पृ1.1 एवं मया श्रुतम्। एकसिन् समये भगवान् श्रावस्त्यां विहरति स्म। जेतवनेऽनाथपिण्डदस्य^आरामे।
पृ1.2 अथ^आयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्र^चीवरम् आदाय श्रावस्तीं महा^नगरीं पिण्डाय प्राविक्षत्। अथ^आयुष्मान् आनन्दः श्रावस्तीं पिण्डाय चरित्वा कृत^भक्त^कृत्यो येनान्यतमम् उदपानं तेन^उपसंक्रान्तः।
पृ1.3 तेन खलु समयेन तस्मिन्न् उदपाने प्रकृतिर् नाम मातङ्ग^दारिका उदकम् उद्धरते स्म। अथ^आयुष्मान् आनन्दः प्रकृतिं मातङ्ग^दारिकाम् एतद् अवोचत्। देहि मे भगिनि पानीयं पास्यामि।
पृ1.4 एवं किते प्रकृतिर् मातङ्ग^दारिकायुष्मन्तम् आनन्दम् इदम् अवोचत्। मातङ्ग^दारिकाहम् अस्मि भदन्तानन्द। न^अहं ते भगिनि कुलं वा जातिं वा पृच्छामि। अपि तु सचेत्ते परित्यक्तं पानीयं देहि पास्यामि।
पृ1.5 अथ प्रकृतिर् मातङ्ग^दारिकायुष्मन्तम् आनन्दाय पानीयम् अदात्। अथ^आयुष्मान् आनन्दः पानीयं पीत्वा प्रक्रान्तः।
पृ1.6 अथ प्रकृतिर् मातङ्ग^दारिकायुष्मन्त आनन्द्स्य शरीरे मुखे स्वरे साधु च सुष्ठु च निमित्तम् उद्गृहीत्वा योनिशो मनसिकारेणाविष्टा संरागचित्तम् उत्पादयति (1) स्म। आर्यो मे आनन्दः स्वामी स्याद् इति। माता च मे महा^विद्याधरी सा शक्ष्यत्य् आर्यम् आनन्दम् आनयितुम्।

पृ2.1 अथ प्रकृतिर् मातङ्ग^दारिका पानीयघटम् आदाय येन चण्डाल^गृहं तेन^उपसंक्रम्य पानीय^घटम् एकान्ते निक्षिप्य स्वां जननीम् इदम् अवोचत्।
पृ2.2 यत् खल्व् एवम् अम्ब जानीया आनन्दो नाम श्रमणो महाश्रमण^गौतमस्य श्रावक उपस्थायकस् तम् अहं स्वामिनम् इच्छामि। शक्ष्यसि तम् अम्ब आनयितुम्।
पृ2.3 सा ताम् अवोचत्। शक्ताऽहं पुत्रि आनन्दम् आनयितुं। स्थापयित्वा यो मृतः स्याद् यो वा वीत^रागः। अपि च राजा प्रसेनजित् कौशलः श्रमण^गौतमम् अतीव सेवते भजते पर्युपासते। यदि जानीयात् सोऽयं चण्डाल^कुलस्यानर्थाय प्रतिपद्येत। श्रमणश् च गौतमो वीत^रागः श्रूयते। वीत^रागस्य [मन्त्राः] पुनः सर्व^मन्त्रान् अभिभवन्ति।
पृ2.4 एवम् उक्ता प्रकृतिर् मातङ्ग^दारिका मातरम् इदम् अवोचत्। स चेद् अम्ब श्रमणो गौतमा वीत^रागस्तस्य^अन्तिकाच् छ्रमणम् आनन्दं न प्रतिलप्स्ये जीवितं परित्यजेयं स चेत् प्रतिलिप्स्ये जीवामि।
पृ2.5 मा ते पुत्रि जीवितं परित्यजसि आनयामि श्रमणम् आनन्दम्।
पृ2.6 अथ प्रकृतेर् मातङ्ग^दारिकाया माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीम् आलिप्य दर्भान् संस्तीर्य^अग्निं प्रज्वाल्य^अष्टशतम् अर्क^पुष्पाणां गृहीत्वा मन्त्रान् आवर्तयमाना एकैकम् अर्क^पुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म। तत्र^इयं विद्या भवतिः

पृ3.1 अमले विमले कुङ्कुमे सुमने। येन बद्धाऽसि विद्युत्। इच्छया देवो वर्षति विद्योतति गजेति विस्मयं महा^राजस्य समभिवर्धायितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्योः शिखि^ग्रहा देवा विशिखि^ग्र(@)हा देवा आनन्दस्य^आगमनाय संगमनाय क्रमणाय ग्रहणाय जुहोमि स्वाहा।%@から京大写本दिव्यावदानが始まる。
पृ3.2 अथ^आयुष्मत आनन्दस्य चित्तम् आक्षिप्तं। स विहारान् निष्क्रम्य येन चण्डाल^गृहं तेन^उपसंक्रामति स्म।
पृ3.3 अद्राक्षीच् चण्डाली आयुष्मन्तम् आनन्दं दूराद् एव^आगच्छन्तं। दृष्ट्वा च पुनः प्रकृतिं दुहितरम् इदम् अवोचत्। अयम् असौ पुत्रि श्रमण आनन्द आगच्छति शयनं प्रज्ञपय।
पृ3.4 अथ प्रकृतिर् मातङ्ग^दारिका हृष्ट^तुष्टा प्रमुदित^मना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म।
पृ3.5 अथ^आयुष्मान् आनन्दो येन चण्डाल^गृहं तेन^उपसंक्रान्तः। उपसंक्रम्य वेदीम् उपनिश्रित्याऽस्थात्। एकान्त^स्थितः स पुनर् आयुष्मान् आनन्दः प्रारोदीद्। अश्रूणि प्रवर्तयमान एवम् आह। व्यसन^प्राप्तोऽहम् अस्मि न च मे भगवान् समन्वाहरति।
पृ3.6 अथ भगवान् आयुष्मन्तम् आनन्दं समन्वाहरति स्म। समन्वाहृत्य संबुद्ध^मन्त्रैश् चण्डाल^मन्त्रान् प्रतिहन्ति स्म। तत्र^इयं विद्याः।
पृ3.7 स्थितिर् अच्युतिः सुनीतिः। स्वस्ति सर्व^प्राणिभ्यः।

पृ4.1ab सरः प्रसन्नं निर्दोषं प्रशान्तं सर्वतोऽभयं।
पृ4.1cd ईतयो यत्र शाम्यन्ति भयानि चलितानि च।
पृ4.2ab तद् वै देवा नम्स्यन्ति सर्व^सिद्धाश् च योगिनः।
पृ4.2cd एतेन सत्य^वाक्येन स्वस्त्या^आनन्दाय भिक्षवे॥
पृ4.3 अथ^आयुष्मान् आनन्दः प्रतिहत^चण्डाल^मन्त्रश् चण्डाल^गृहान् निष्क्रम्य येन स्वको विहारस् तेन^उपसंक्रमितुम् आरब्धः।
पृ4.4 अद्राक्षीत् प्रकृतिर् मातङ्ग^दारिका। आनन्दम् आयुष्मन्तं प्रतिगच्छन्तं दृष्ट्वा च पुनः स्वां जननीम् इदम् अवोचत्। अयम् असौ मातः श्रमण आनन्दः प्रतिगच्छति। ताम् आह माता। नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति। तेन मम मन्त्राः प्रतिहता भविष्यन्ति। प्रकृतिर् आह। किं पुनर् अम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा न^अस्माकं। ताम् आह माता। बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा न^अस्माकं। ये पुत्रि मन्ताः सर्व^लोकस्य प्रभवन्ति तान् मन्त्रान् श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति। न पुनर् लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुं। एवं बलवत्तराः अवमणस्य गौतमस्य मन्त्राः।
पृ4.5 अथ^आयुष्मान् आनन्दो येन भगवांस् तेन^उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा^एकान्तेऽस्थात्।
पृ4.6 एकान्त^स्थितम् आयुष्मन्तम् आनन्दं भगवान् इदम् अवोचत्। उद्गृह्ण त्वम् आनन्द इमां षडक्षरीविद्यां धारय वाचय पर्यवाप्नुहि। आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपसिकानां हिताय सुखाय। इयम् आनन्द षड्क्षरीविद्या षड्भिः सम्यक् संबुद्धैर् भाषिता चतुर्भिश् च महा^राजैः शक्रेण देवानाम् इन्द्रेण ब्रह्मणा च सहापतिना। मया च^एतर्हि शाक्यमुनिना सम्यक्^संबुद्धेन भाषिता। त्वम् अप्य् एतर्ह्य् आनन्द तां धारय वाचय पर्यवाप्नुहि। यद् उत तद् यथा:

पृ5.1 अण्डरे पाण्डरे कारण्डे केयूरेऽर्चि^हस्ते खर^ग्रीवे बन्धु^मति चीर^मति धरविध चिलिमिले विलोडय विषाणि लोके। विष चल चल। गोल^मति गण्डविले चिलिमिले स^अतिनिम्ने यथा संविभक्त^गोल^मति गण्ड^विलायै स्वाहा।
पृ5.2 यः कश् चिद् आनन्द^षडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात् स यदि वध^अर्हो भवेत् दण्डेन मुच्यते। दण्ड^अर्हः प्रहारेण प्रहार^अर्हः परिभाषणया परिभाषण^अर्हो रोमहर्षणेन रोमहर्षण^अर्हः पुनर् एव मुच्यते।
पृ5.3 न^अहम् आनन्द तं समनुपश्यामि स^देव^लोके समार^लोके सब्रह्म^लोके सश्रमण^ब्राह्मणिकायां प्रजायां स^देव^मानुषिकायां स^असुरायां यस् त्व् अनया षडक्षयं विद्यया रक्षायां कृतायां रक्षा^सूत्रे बाहौ बद्धे स्वस्त्ययने कृतेऽभिभवितुं शक्रोति वर्जयित्वा पौराणं कर्म^विपाकम्।

पृ6.1 अथ प्रकृतिर् मातङ्ग^दारिका तस्या एव रात्र्या अत्ययात् शिरः^स्नाताऽनाहत दूष्य^प्रावृता मुक्ता^माल्य^आभरणा येन श्रावस्तो नगरी तेन^उपसंक्रम्य नगर^द्वारे कपाट^मूले निश्रित्याऽस्थात्। आयुष्मन्तम् आनन्दम् आगमयमाना। नियतम् अनेन मार्गेण^आनन्दो भिक्षुरागम् इष्यति^इति।
पृ6.2 अथ^आयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्र^चीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्। ददर्श प्रकृतिर् मातङ्ग^दारिक^आयुष्मन्तम् आनन्दं। दूरत एव दृष्ट्वा च पुनर् आयुष्मन्तम् आनन्दं पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशति तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति आयुष्मन्तम् आनन्दम् आमन्त्रयमाणा।
पृ6.3 ददर्शायुष्मानानन्दः प्रकृतिं मातङ्ग^दारिकां। पृष्ठतः पृष्ठतः समनुबद्धां दृष्ट्वा च पुनर् जेह्रीय्माणरूपोऽप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वेकान्तेऽस्थाद्। एकान्त^स्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्। इयं मे भगवन् प्रकृतिर् मातङ्ग^दारिका पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति, तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशामि तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति। त्राहि मे भगवन् त्राहि मे सुगत।
पृ6.4 एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्। मा भेर् मा भेर् इति। अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् इदम् अवोचत्। हिं ते प्रकृते मातङ्ग^दारिके आनन्देन भिक्षुणा। प्रकृतिर् आह। स्वामिनं भदन्तम् आनन्दम् इच्छामि। भगवान् आह। (7) अनुज्ञातासि प्रकृते मातापितृभ्याम् आनन्दाय। अनुज्ञातास्मि भगवन्न् अनुज्ञातास्मि सुगत। भगवान् आह। तेन हि सम्मुखं ममानुज्ञापय्य त्वम्।

पृ7.1 अथ प्रकृतिर् मातङ्ग^दारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्ता। येन स्वकौ मातापितरौ तेन^उपसंक्रान्ता। उपसंक्रम्य मातापित्रोः पादान् शिरसा वन्दित्वा^एकान्तेऽस्थाद्। एकान्त^स्थिता स्वकौ माता पितराव् इदम् अवोचत्। सम्मुखं मेऽम्ब तात श्रमणस्य गौतमस्यानन्दायोत्सृजतम्।
पृ7.2 अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितरौ प्रकृतिम् आदाय यन भगवाम्स् तेन^उपसंक्रान्तौ। उअप्संक्रम्य भगवतः पादौ शिरसा वन्दित्वा^एकान्ते न्यषीदतां। अथ प्रकृतिर् मातङ्ग^दारिका भगवतः पादौ शिरसा बन्दित्वा एकान्तेऽस्थाद्। एकान्त^स्थिता भगवन्तम् एतद् अवोचत्। इमौ तौ भगवन् मातापितराव् आगतौ।
पृ7.3 अथ भगवान् प्रकृतेर् मातङ्ग^दारिकाया मातापितराव् इदम् अवोच्त्। अनुज्ञाता युवाभ्यां प्रकृतिर् मातङ्ग^दारिकानन्दायेति। ताव् आहुतुः। अनुज्ञाता भगवन्न् अनुज्ञाता सुगत। तेन हि यूयं प्रकृतिम् अपहाय गच्छत स्वगृहम्।
पृ7.4 अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्तौ।
पृ7.5 अथ प्रकृतेर् मातङ्ग^दारिकाया मातापितराव् अचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्ग^दारिकाम् इद्म् अवोचत्। अर्थिकासि प्रकृते आनन्देन भिक्षुणा। प्रकृतिर् आह। अर्थिकास्मि भगवन्न् अर्थिकास्मि सुगत। तेन हि प्रकृते य आनन्दस्य वेशः स त्वया धारयितव्यः। सा आह। धारयामि भगवन् धारयामि सुगत। प्रव्राजयतु मां सुगत प्रव्राजयतु मां भगवान्।

पृ8.1 अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् इदम् अवोचत्। एहि त्वं भिक्षुणि चर ब्रह्म^चर्यम्।
पृ8.2 एवम् उक्ते प्रकृतिर् मातङ्ग^दारिका भगवता मुण्डा काषाय^प्रावृता। अथ भगवान् प्रकृतिं मातङ्ग^दारिकाम् एहि भिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, समुत्तेजयति स्म, संप्रहर्षयति स्म। येयं कथा दीर्घ^रात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया।तद् यथा। दानकथा शीलकथा स्वर्गकथा कामेष्व् आदीनवं निःसरणं भयं संक्लेशव्यवदानं बोधिपक्षांस् तान् धर्मान् भग्वान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म।
पृ8.3 अथ प्रकृतिर् भिक्षुणी भगवता धर्म्यय कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्ट^चित्ता कल्याणचित्ता मुदितचित्ता विनीवरणचित्ता ऋजुचित्ताऽखिलचित्ता भव्या धर्म^देशितम् आज्ञातुम्।

पृ9.1 यदा च भगवान् ज्ञातः प्रकृतिं भिक्षुणीं हृष्ट^चित्तां कल्याणचित्तां मुदितचित्तां विनिवरणचित्तां भव्यां प्रतिबलां सामुत्कर्पिकीं धर्म^देशनाम् आज्ञातुं तदा येयं भगवतां बुद्धानां चतुरार्य^सत्यप्रतिवेधिकी सामुत्कर्षिकी धर्म^देशना, यद् उत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेर् भिक्षुण्या विस्तरेण संप्रकाशयति स्म।
पृ9.2 अथ प्रकृतिभिक्षुणी तस्मिन्न् एवासने निषण्णा चतुरार्य^सत्यान्यभिज्ञातासित्। दुःखं सुमुदयं निरोधं मार्गं॥ तद् यथा वस्ताम् अपगतकालकं रजनोपगतं रङ्ग^उदके प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णीयाद् एवम् एव प्रकृतिर् भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरार्य^सत्यानि अभिसमयति स्म, तद् यथा दुःखं सुमुदयं निरोधं मार्गम्।
पृ9.3 अथ प्रकृतिर् भिक्षुणी कृष्ट^धर्मा प्राप्त^धर्मा विदित^धर्मा अकोप्य^धर्मा पर्यवसित^धर्म^अधिगत^अर्थ^लाभ^संवृत्ता तीर्ण^काङ्क्षा^विचिकित्सा विगत^कथंकथा वैशारद्य^प्राप्ताऽपर^प्रत्ययाऽनन्यनेया शास्तुः शासनेऽनुधर्म^चारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तम् इदम् अवोचत्।
पृ9.4 अत्ययो मे भगवन्न् अत्ययो मे सुगत। यथा बाला यथा मूढा यथाऽव्यक्ता यथाऽकुशला दुष्प्रज्ञ^जातीया याहम् आनन्दं भिक्षुं स्वामि^वादेन समुदाचर्षं। स^अहं भदन्तात्ययमत्ययतः पश्यामि। अत्ययम् अत्ययतो दृष्ट्वा देशयामि। अत्ययम् अत्ययत आविष्करोमि। आयत्यां संवरम् आपद्ये। अतस् तस्या मम भगवन्न् अत्ययम् अत्ययतो जानातु प्रतिगृह्णातु अनुकम्पाम् उपादाय। भगवान् आह। आयत्यां संवराय स्थित्वा त्वं प्रकृतेऽत्ययम् अत्ययतोऽध्यागमः। यथा बाला यथा मूढा यथाऽव्यक्ता यथाऽकुशला दुष्प्रज्ञ^जातीय त्वम् आनन्दं भिक्षुं स्वामि^वादेन (10) अमुदाचरसि^इति। यतश् च त्वं प्रकृतेऽत्ययं जानासि अत्ययं पश्यसि आयत्यां च संवरम् आपद्यसे, अहम् अपि तेऽत्ययम् अत्ययतो गृह्णामि। वृद्धिर् एव ते प्रकृते प्रतिकाङ्क्षतव्या कुशलानां धर्माणां न हानिः।

पृ10.1 अथ प्रकृतिर् भिक्षुणी भगवता^अभिनन्दिता अनुशिष्टा एकाव्यपकृष्टाऽप्रमत्ता आतापिनी स्मृतिम् अती संप्रजाना प्रहितानि विविक्तानि विहरति स्म। यद् अर्थं कुल^दुहितरः केशान् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया^आगाराद् अनागारिकां प्रव्रजन्ति तदनुत्तर^ब्रह्मचर्य^पर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञय साक्षात् कृत्य^उपसंपद्य प्रवेदयते स्म। क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं न^अपरमस्माद् भवं प्रजानामि^इति।

पृ10.2 अश्रौषुः श्रावस्तेयका ब्राह्मण^गृहपतयो भगवता किल चन्डाल^दारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायन्ति। कथं हि नाम चण्डाल^दारिका भिक्षूणां सम्यक्चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्^चर्यां चरिष्यति। कथं हि नाम चण्डाल^दारिका ब्रह्म^क्षत्रिय^गृहपति^महा^शाल^कुलेषु प्रवेक्ष्यति।

पृ11.1 अश्रौषीद् राजा प्रसेनजित् कौशलो भगवता चण्डाल^दारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायाति। कथं हि नाम चण्डाल^दारिका भिक्षूणां सम्यक्^चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्^चर्यां चरिष्यति। कथं ब्राह्मण^क्षत्रिय^गृहपति^महा^शाल^कुलेषु प्रवेक्ष्यति।
पृ11.2 विमृष्य च भदरं यानं योजयित्वा भद्रं यानम् अभिरुह्य संबहुलैश् च श्रावस्तेयैर् ब्राह्मण^गृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म। येन जेतवनम् अनाथपिण्डदस्य^आरामस् तेन^उपसंक्रान्तः। तस्य खलु यावती यानस्य भूमिस् तावद् यानेन गत्वा स यानाद् अवतीर्य पत्तिकाय^परिवृतः पत्तिकाय^पुरस्कृतः पद्भ्याम् एव^आरामं प्राविक्षत्। प्रविश्य येन भगवांस् तेन^उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। तेऽपि संबहुलाः श्रावस्तेयका ब्राह्मण^क्षतिर्य^गृहपतयो भगवतः पादौ शिरसा वन्दित्वा^एकान्ते निषण्णाः। अप्य् ऐकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्य^एकान्ते निषण्णाः। अप्य् ऐकस्या भगवतः पुरतः स्वकस्वकानि माता^पैतृकाणि नाम^गोत्राणि अनुश्राव्य^एकान्ते निषण्णाः। अप्य् ऐकत्य येन भगवांस् तेन^अञ्जलिं प्रणम्य^एकान्ते निषण्णाः। अप्य् ऐकत्यास् तूष्णीं भूता एकान्ते निषण्णाः।
पृ11.3 अथ भगवान् राजानं प्रसेनजितं कौशलम् आरभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मण^क्षत्रिय^गृहपतीनां चेतसा चित्तम् आज्ञाय प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य भिक्षूनाम् अन्त्रयते स्म। इच्छथ यूयं भिक्षवस् तथा^आगतस्य सम्मुखं प्रकृतेर् भिक्षुण्याः पूर्व^निवासम् आरभ्य धर्म^कथां श्रोतुम्।
पृ11.4 भिक्षवो भगवन्तम् आहुः । एतस्य भगवन् काल एतस्य सुगत समयो यद् भगवान् प्रकृतेर् भिक्षुण्याः पूर्व^निवासम् आरभ्य धर्म^कथां कथायेत्। यद् भगवतः (12) श्रुत्वा भिक्षवो धारयिष्यन्ति। भगवान् आह। तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। एवं साधु भगवन्न् इति ते भिक्षवो भगवतः प्रत्यश्रौषुः। भगवांस् तान् इदम् अवोचत्।

पृ12.1 भूत^पूर्वं भिक्षवोऽतीतेऽध्वनि गङ्गा^तटेऽतिमुक्त^कदली^पाटलक^आमलकी वन^गहन^प्रदेशे तत्र त्रिशङ्कुर् नाम मातङ्ग^राजः प्रतिवसति स्म। संबहुलैश् च मातङ्ग^सहस्रैः सार्धं। स पुनर् भिक्षवस् त्रिशङ्कुर् मातङ्ग^रजः पूर्व^जन्म^अधीतान् वेदान् समनुस्मरति स्म स^अङ्ग^उपाङ्गान् सरहस्यान् सनिघण्ट^कैटभान् स^अक्षर^प्रभेदान् इतिहास^पञ्च^मानन्यानि च शास्त्राणि। पदको वैयाकरणो लोकायत^यज्ञ^मन्त्रे महा^पुरुष^लक्षणे निष्णातो निष्काङ्क्षो भाष्यं च यथार्धर्मं वेद^व्रत^पदान्य् अनुश्रुतं च भाषते स्म।
पृ12.2 तस्य त्रिशङ्कुर् मातङ्ग^राजस्य शार्दूअकर्णो नाम कुमारोऽभूद् उत्पन्नः। रूपतश् च कुलतश् च शीलतश् च गुणतश् च सर्व^गुणैश् च^उपेतोऽभिरूपो दर्शनीयः प्रासादिकः परमया शुभ^वर्ण^पुष्कलतया समन्वागतः।
पृ12.3 अथ त्रिशङ्कुर् मातङ्ग^राजः।शार्दूलकर्णं कुमारं पूर्व^जन्माधीतान् वेदान् अध्यापयति स्म। यद् उत स^अङ्ग^उपाङ्गान् सरहस्यान् सनिघण्ट^कैटभान् स^अक्षर^प्रभेदान् इतिहास^पञ्च^मानन्यानि च शास्त्राणि भाष्यं च यथा^धर्मं वेद^व्रत^पदानि।
पृ12.4 अथ त्रिशङ्कोर् मातङ्ग^राजस्य^एतद् अभवत्। अयं मम पुत्रः शार्दूलकर्णो नाम कुमारः। उपेतो रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्व^गुण^उपेतोऽभिरूपो (13) दर्शनीयः प्रासादिकः परमया च वर्ण^पुष्कलतया समन्वागतः। चीर्ण^व्रतोऽधीत^मन्त्रो वेद^पारगः। समयोऽयं यन् न्य् अहम् अस्य निवेशन^धर्मं करिष्ये। तत् कुतो न्य् अवं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयम् इति।छेच्केद्

पृ13.1 तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोण^मुखं परिभुङ्क्ते स्म। समप्त^उत्सदं स^तृण^काष्ठ^उदकं धान्य^सहगतं राज्ञाऽग्निदत्तेन ब्रह्म^देयं दत्तम्।
पृ13.2 पुष्करसारी पुनर् ब्राह्मण उपेतः मातृतः पितृतः संशुद्धो गृहिण्यामनाक्षिप्तो जातिवादेन गोत्र^वादेन यावद् आसप्तममातामहपितामहं। युगपद् उपाध्यायोऽध्यापको मन्त्र^धरस् त्रयाणां वेदानां पारगः स^अङ्ग^उपाङ्गानां सरहस्यानां सनिघण्ट^कैटभानां स^अक्षर^प्रभेदानाम् इतिहास^पञ्च^मानां सदृश^व्याकर्ता पदको वैयाकरणः। लोकायत^यज्ञ^मन्त्र^महा^पुरुष^लक्षणेषु पारगः। स्फीतम् उत्कूटं नाम द्रोण^मुखं परिभुङ्क्ते।
पृ13.3 पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता भूता। उपेता रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्व^गुण^उपेताऽभिरूपा दर्शनीया प्रासादिका परमया वर्ण^पुष्कलतया समन्वागता शीलवती गुणवती।
पृ13.4 अथ त्रिशङ्कोर् मातङ्ग^राजस्य^एतद् अभवत्। अस्त्य् उत्तर^पूर्वेण^उत्कूटो नाम द्रोण^मुखः, तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति। उपेतो मातृतः पितृतो (14) यावत् तत्रैवेदिके प्रवचने विस्तरेण। स च^उत्कूटं द्रोण^मुखं परिभ्ङ्क्ते। ससप्त^उत्सदं सतृण^काष्ठ^उदकं धान्य^भोगैः सहगतं राज्ञाऽग्निदत्तेन ब्रह्म^देयं दत्तम्।

पृ14.1 तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता उपेता रूपतश् च कुलतश् च शीलतश् च सर्व^गुण^उपेताऽभिरूपा दर्शनीया प्रासादिका परमया वर्ण^पुष्कलतया समन्वागता। शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतिति।
पृ14.2 अत्र त्रिशङ्कुर् मातङ्ग^राज एतम् एवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्य तस्या एव रात्र्या अत्ययात् प्रत्यूष^काल^समये सर्व^श्वेतं वडवा रथम् अभिरुह्य महता श्वपाकगणेनामात्यगणेन परिवृतश् चण्डाल^कुल^नगरान् निष्क्रम्य^उत्तरेन प्रागच्छद्येनोत्कूटं द्रोण^मुखम्।
पृ14.3 अथ त्रिशङ्कुर् मातङ्ग^राज उत्कूटस्य^उत्तरपूर्वेण सुमनस्कं नाम^उद्यानं नाना^वृक्ष^संच्छन्नं नाना^वृक्ष^कुसुमितं नाना^द्विजनिकूजितं नन्दनम् इव देवानां तद् उपसंक्रान्तः। उपसंक्रम्य ब्राह्मणं पुष्करसारिणम् आगमयमानोऽस्थात्। ब्राह्मणः पुष्करसारी माणवकान् मन्त्रान् वाचयितुम् इहागमिष्यति^इति।
पृ14.4 अथ ब्राह्मणः पुष्करसारी तस्या एव रात्र्या अत्ययात् सर्व^श्वेतं वडवारथम् अभिरुह्य शिष्यगणप्रिवृतः पञ्च^मात्रैर् माणवक^शतेः पुरस्कृत उत्कूटान् निर्य्ति स्म, ब्राह्मणकान् मन्त्रान् वाचयितुम्।

पृ15.1 अद्राक्षीत् त्रिशङ्कुर् मातङ्ग^राजो ब्राह्मणं पुष्करसारिणं सूर्यम् इव^उदयन्तं तेजसा ज्वलन्तम् इव हुतवहं यज्ञम् इव ब्राह्मण^परिवृतं शक्रम् इव देव^गणपरिवृतं हैमवन्तम् इवौषधिभिः समुद्रम् इव रत्नैश् चन्द्रम् इव नक्षत्रैर् वैश्रवणम् इव यक्ष^गणैर् ब्रह्माणम् इव देव^र्षिगणैः परिवृतं शोभमानं। दूरत एवागच्छन्तं दृष्ट्वा चैनं प्रत्युद्गम्य यथा^धर्मं कृत्वेदम् अवोचत्।
पृ15.2 अहं भोः पुष्करसारिन् स्वागतम् आयाहि। कार्यं च ते वक्ष्यामि तच् छ्रूयतां। एवम् उक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुमातङ्ग^राजम् इदम् अवोचत्।
पृ15.3 न हि भोस् त्रिशङ्को शक्यं ब्राह्मणेन सह भोः कारं कर्तुं।
पृ15.4 अहं भोः पुष्करसारिन् शक्नोमि भोः कारं कर्तुं। यच्छक्यं मे कर्तुं भवति नैव तच्छक्यं ते कर्तुं। अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यसमारम्भाः पूर्व^समारब्धा भवन्ति। यद् उत आत्मार्थं वा परार्थं वात्मीयार्थं (16) वा सर्व^भूत^संग्रहार्थं वा। इदं च^अत्र महत्तरं कार्यं यत् ते व्याख्यास्यामि तच् छ्रूयतां। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तं दास्यामि।

पृ16.1 इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य भृशं ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतोऽनात्तमनाः कोपं च क्वेषं च म्रक्ष्यं च तत्प्रत्ययात् संजनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वाऽक्षिणी परिवर्त्य नकुल^पिङ्गलां दृष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्।
पृ16.2 धिग् ग्राम्यविषय। चण्डाल। नेदं श्वपाकवचनं युक्तं। यस्त्वं ब्राह्मणं वेद^पारगं हीनश् चण्डाल^योनिजो भूत्वा इच्छस्य् अवमर्दितुं। भो दुर्मते।
पृ16.3ab प्रकृतिं त्वं न जानासि; आत्मानं च^अभिमन्यसे।
पृ16.3cd बाल^अग्रे सर्षपं मा भो स्थापय(मा)क्लेशम् आगमः।
पृ16.4ab मा प्रार्थयाऽप्रार्थनीयां वायुं पाशेन बन्धय।

पृ17.1ab न हि चामी^करं मूढ भवेद् भस्म कदाचन।
पृ17.1cd प्रकाशे बान्धकारे किं विशेषो नोपलभ्यते॥
पृ17.2ab चण्डाल^योनिजस् त्वं हि द्विजातिः पुनर् अप्य् अहं।
पृ17.2cd हीनः श्रेष्ठेन सम्बन्धं मूढ प्राथयसे कथं॥
पृ17.3ab चण्डाल^योनिभूतस् त्वम् अहम् अस्मि द्विजातिजः।
पृ17.3cd न हि श्रेष्ठः प्रहीनेन सम्बन्धं कर्तुम् इच्छति॥
पृ17.4ab श्रेष्ठाः श्रेष्ठैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः।
पृ17.4cd विद्यया ये तु सम्पन्नाः संशुद्धश् चरणेन च॥
पृ17.5ab जात्या चैवान् अभिक्षिप्ता मन्त्रैः परमतां गताः।
पृ17.5cd अध्यापका मन्त्र^धरास् त्रिषु वेदेषु पारगाः॥
पृ17.6ab निघण्टकैटभान् वेदान् ब्राह्मण ये ह्य् अधीयते।
पृ17.6cd तैस् तादृशैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः॥
पृ17.7ab न हि श्रेष्ठो हि हीनेन सम्बन्धं कर्तुम् इच्छति।
पृ17.7cd प्रार्थयसेऽप्रार्थनीयां वायुं पाशेन बन्धितुं॥
पृ17.8ab यद् अस्माभिश् च सम्बन्धम् इह त्वं कर्तुम् इच्छसि।
पृ17.8cd जुगुप्सितः सर्व^लोके कृपणःपुरुषाधमः।
पृ17.8ef गच्छ त्वं वृषल क्षिप्रं किम् अस्मान् अवमन्यसे॥
पृ18.1ab चण्डालाः सह चण्डालैः पुक्कशाः सह पुक्कशैः।

पृ18.1cd कुर्वन्तीहैव सम्बन्धं जातिभिर् जातिर् एव च॥
पृ18.2ab ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह।
पृ18.2cd सार्धं वैश्यास् तथा वैश्यैः शूद्राः शूद्रैस् तथा सह॥
पृ18.3ab सदृशाः सदृशैः सार्धम् आवहन्ति परस्परं।
पृ18.3cd न हि कुर्वन्ति चण्डालाः सम्बन्धं ब्राह्मणैः सह॥
पृ18.4ab सर्व^जातिविहीनोऽसि सर्व^वर्ण^जुगुप्सितः।
पृ18.4cd कथं हीनश् च श्रेष्ठेन सम्बन्धं कर्तुम् इच्छसि॥
पृ18.5 इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्ग^राज इदम् अवोचत्।
पृ18.6ab यथा भस्मनि सौवर्णे विशेष; उपलभ्यते।
पृ18.6cd ब्राह्मणे वान्य^जातौ वा न विशेषोऽस्ति वै तथा॥
पृ18.7ab यथा प्रकाशतमसोर् विशेष; उपलभ्यते।
पृ18.7cd ब्राह्मणे वान्य^जातौ वा न विशेषोऽस्ति वै तथा॥
पृ18.8ab न हि ब्राह्मण; आकाशान् मरुतो वा समुत्थितः।
पृ18.8cd भित्वा वा पृथिवीं जातो जात^वेदा यथारणेः॥
पृ18.9ab ब्राह्मणा योनितो जाताश् चण्डाला; अपि योनितः।
पृ18.9cd श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणं॥
पृ18.10ab ब्राह्मणोऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिर् उच्यते।
पृ18.10cd वर्णास् तथा^एव वा^अप्य् अन्ये का नु तत्र विशेषता॥

पृ19.1ab यत् किञ् चित् पापकं कर्म किल्विषं कलिर् एव च।
पृ19.1cd सत्त्वानाम् उपघाताय ब्राह्मणैस् तत् प्रकाशितं॥
पृ19.2ab इति कर्माणि च^एतानि प्रकाशितानि ब्राह्मणैः।
पृ19.2cd कर्मभिर् दारुणैश् च^अपि ``पुण्योऽहं ब्रूवते द्विजाः॥
पृ19.3ab मांसं खादितुकामैस् तु ब्राह्मणैर् उपकल्पितं।
पृ19.3cd मन्त्रैर् हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्य् अजैडकाः॥
पृ19.4ab यद्य् एष मार्गः स्वर्ताय कस्मान् न ब्राह्मणा ह्य् अमी।
पृ19.4cd आत्मानम् अथवा बन्धून् मन्त्रैः संप्रोक्षयन्ति वै॥
पृ19.5ab मातरं पितरं च^एव भ्रातरं भगिनीं तथा।
पृ19.5cd पुत्रं दुहितरं भार्यां द्विजा न प्रोक्षयन्त्य् अमी॥
पृ19.6ab मित्रं ज्ञातिं सखीं वा^अपि ये वा विषयवासिनः।
पृ19.6cd प्रोक्षितास् तेऽपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिं॥
पृ19.7ab सर्वे यज्ञैः समाहुता गमिष्यन्ति सतां गतिं।
पृ19.7cd पशुभिः किं नु भो यष्टैर् आत्मानं किं न यक्ष्यसे॥
पृ19.8ab न प्रोक्षणैर् न मन्त्रैश् च स्वर्गं गच्छन्त्य् अजैडकाः।
पृ19.8cd न ह्य् एष मार्गः स्वर्गाय मिथ्याप्रोक्षणम् उच्यते॥
पृ19.9ab ब्राह्मणैर् औद्रचित्तैस् तु पर्यायो ह्य् एष चिन्तितः।
पृ19.9cd मांसं खादितुकामैस् तु प्रोक्षणं कल्पितं पशोः॥
पृ19.10ab अन्यच् च^अहं प्रवक्ष्यामि ब्राह्मणैर् यत् प्रकल्पितं।
पृ19.10cd पातका हि समाख्याता ब्राह्मणेषु चतुर्^विधाः॥

पृ20.1ab सुवर्ण^चौर्यं मद्यं च गुरु^दारा^अभिमर्दनं।
पृ20.1cd ब्रह्माघ्नता च चत्वारः पातका ब्राह्मणेष्व् अमी॥
पृ20.2ab सुवर्ण^हरणं वर्ज्यं स्तेयम् अन्यन्न विद्यते।
पृ20.2cd सुवर्णं यो हरेद् विप्रः स तेनऽब्राह्मणो भवेत्॥
पृ20.3ab सुरापानं न पातव्यम् अन्यपानं यथेष्टतः।
पृ20.3cd सुरां तु यः पिवेद् विप्रः स तेन^अब्राह्मणो भवेत्॥
पृ20.4ab गुरु^दारा न गन्तव्या; अन्यदारा यथेष्टतः।
पृ20.4cd गुरु^दारां तु यो गच्छेत् स तेन^अब्राह्मणो भवेत्॥
पृ20.5ab न हन्याद् ब्राह्मणं ह्य् एकं हन्याद् अन्यान् अनेकशः।
पृ20.5cd हयात्त ब्राह्मणं यो वै स तेन^अब्राह्मणो भवेत्॥
पृ20.6ab इत्य् एते पातका ह्य् उक्ता ब्राह्मणेषु चतुर्^विधाः।
पृ20.6cd भवन्त्य् अब्राह्मणा येन ततोऽन्येऽपातकाः स्मृताः॥
पृ20.7ab कृत्वा चतुर्णम् एकैकं भवेद् अब्राह्मणस् तु सः।
पृ20.7cd लभते न च सामीचीं ब्राह्मणाणां समागमे।
पृ20.7ef आसनं च^उदकं च^एव व्युत्थानं स न च^अर्हति॥
पृ20.8ab तस्य निःसरनं दृष्टं ब्राह्मणैः पतितस्य तु।
पृ20.8cd व्रतं वै स समादाय पुनर् ब्राह्मणतां व्रजेत्॥
पृ20.9ab असौ द्वादश^वर्षाणि धारयित्वा खराजिनं।
पृ20.9cd खाट्वाङ्गम् उच्छ्रितं कृत्वा मृतशीर्षे च भोजनं॥

पृ21.1ab एतद् व्रतं समादाय निश्चयेन निरन्तरं।
पृ21.1cd पूर्णे द्वादशमे वर्षे पुनर् ब्राह्मणतां व्रजेत्॥
पृ21.2ab इति निःसरणं दृष्टं ब्राह्मणैस् तु तपस्विभिः।
पृ21.2cd कुमार्गगामिभिर् मूढैर् अनिःसरणदर्शिभिः॥
पृ21.3 तद् इदं ब्राह्मण ते ब्रवीमि, संज्ञामात्रकम् इदं लोकस्य यद् इदम् उच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इत्य् वा। सर्वम् इदम् एकम् एवेति विज्ञय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि। इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च चत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं (22) धमयित्वाऽक्षिणी परिवर्त्य नकुल^पिङ्गलां दूष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्।
पृ22.1ab असमीक्ष्यैतत्त्वया हि कृता संज्ञेयम् ईदृशी।

पृ22.1cd एकैव जातिर् लोकेऽस्मिन् सामान्या न पृथग्^विधा॥
पृ22.2ab कथं श्वपाक^जातीयो ब्राह्मणं वेद^पारगं।
पृ22.2cd निहीनयोनिजो भूत्वा विमर्दितुम् इह^इच्छसि॥
पृ22.3 राजानः खलु वृषल प्रति[वि]भागज्ञा भवन्ति। तद् यथा देश^धर्मे वा नगर^धर्मे वा ग्राम^धर्मे वा निगमधम वा शुल्क^धर्मे वा आवाह^धर्मे वा विवाह^धर्मे वा पूर्व^कर्मसु वा। चत्वार इमे वृषल वर्णाः। यद् उत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। तेषां विवाह^धर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति। तद् यथा ब्राह्मणी क्षत्रिया वैश्या शूद्री चेति। तिस्रः क्षत्रियस्य भार्या भवन्ति। क्षत्रिया वैश्या शूद्री चेति। वैश्यस्य द्वे भार्ये भवतः। वैश्या शूद्री चेति। शूद्रस्य अव् एका भार्या भवति शूद्री एव। एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति।तद् यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चेति। क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्यः शूद्र इति। वैश्यस्य द्वौ पुत्रौ, वैश्यः शूद्र इति। शूद्रस्य त्व् एक एव पुत्रो भवति यद् उत शूद्र एव।
पृ22.4 ते ब्राह्मणाः पुनर् वृषल ब्रह्मणः पुत्राः। औरसा मुखतो जाताः। उरस्तो बाहुतः क्षत्रियाः। नाभितो वैश्याः। पद्भ्यां शूद्राः।
पृ22.5 ब्रह्मणा^अयं खलु वृषल लोकः सर्व^भूतानि निर्मितानि।

पृ23.1ab तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
पृ23.1cd वैश्यास्त्रितीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥ इति॥
पृ23.2 स त्वं वृषल चतुर्थेऽपि वर्णे न संदृश्यसे। अहं च^अग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्णे। परमार्थं च संयोगमाकाङ्क्षसि प्रणश्य त्वं वृषल क्षिप्रं । मा च^अस्माकम् अवमंस्थाः।
पृ23.3 इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्ग^राज इदम् अवोचत्। इदम् अत्र ब्राह्मण शृणु यद् ब्रवीमि। ब्रह्मणा^अयं लोकः, सर्व^भूतानि निर्मितानि।
पृ23.4ab तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
पृ23.4cd वैश्यास् त्रृतीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥इति॥
पृ23.5ab सपाद^जङ्घाः सनखाः समांसाः सपार्श्वपृष्ठाश् च नरा भवन्ति।
पृ23.5cd एकांशतो नास्ति यतो विशेषो वर्णाश् च चत्वार इतो न सन्ति॥
पृ23.6ab अथो विशेषः प्रवतोस्ति कश्चित् तद् ब्रूहि यच् च^अनुमतं यथा ते।
पृ23.6cd अथो विशेषः प्रवरो हि नास्ति वर्णाश् च चत्वार इतो न सन्ति॥

पृ24.1ab यथा हि दाउरुका बालाः क्रीडमाना महा^पथे।
पृ24.1cd पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते॥
पृ24.2ab इदं क्षीरम् इदं दधि; इदं मांसम् इदं घृतं।
पृ24.2cd न च बालस्य वचनात् पांशवोऽन्नं भवन्ति हि॥
पृ24.3ab वर्णास् तथाइव चत्वारो यथा ब्राह्मण भाषसे।
पृ24.3cd पांशुपुञ्जाभिधानेन योगो [यः को] प्य् एष न विद्यते॥
पृ24.4ab न केशेन न कर्णाभ्यां न शीर्षण न चक्षुषा।
पृ24.4cd न मुखेन न नासया न ग्रीवय न बाहुना॥
पृ24.5ab नोरसाप्यथ पार्श्वाभ्यां न पृष्ठेन^उदरेण च।
पृ24.5cd नोरुभ्याम् अथ जञ्ङ्हाभ्यां पाणिपाद^नखेन च॥
पृ24.6ab न स्वरेण न वर्णेन न सर्वांशैर् न मैथुनैः।
पृ24.6cd नानाविशेषः सर्वेषु मनुष्येषु हि विद्यते॥
पृ24.7ab यथा हि जातिष्व् अन्यासु लिङ्गं योनिः पृथक् पृथक्।
पृ24.7cd सामान्यं कारणं तत्र किं वा जातिषु मन्यसे॥
पृ24.8ab सशीर्षकाश् च^अथ नरास्थि^युक्ताः सचर्मकाः सेन्द्रियसोदराश् च।
पृ24.8cd एकांशतो नास्ति यतो विशेषो वर्णा न युक्ताश् चतुरोऽभिधातुं॥
पृ24.9ab अथास्ति कश्चित् प्रवरो विशेषस् तद् ब्रूहि यच्चानुमतं यथा ते।
पृ24.9cd अथो विशेषः प्रवरोऽत्र नास्ति वर्णा न युक्ताश् चतुरोभिधातुं॥

पृ25.1ab दोषो ह्य् अयं च^अत्र भवेद् अयुक्तो यद् यत् त्वया च^अभिहितं निदाने।
पृ25.1cd श्रुत्वा तु मत्तः प्रतिपद्य सौम्य यच् च^अत्र मन्ये शृणुचोद्यमानं॥
पृ25.2ab यच् च^अत्र युक्तं विषमं समं वा तात् ते प्रवक्ष्यामि नियुज्यमानः।
पृ25.2cd दोषो हि यश् च^अपि भवेद् अयुक्तो वक्ष्यामि ते ह्य् उत्तरत^उत्तरं च।
पृ25.3ef श्रुत्वा तु मत्तः प्रतिपद्य सौम्य कर्म^अधिपत्यप्रभवा मनुष्याः॥
पृ25.4 अनुमानम् अपि ते ब्राह्मण यदि प्रमाणं, तत्र यद् ब्रवीषि ब्रह्मा एक इति तस्मात् प्रजा अपि एक^जात्या एव। वयम् अप्य् एक^जात्या भवामः। यच् च व्रवीषि ब्रह्मणा^अयं लोकः सर्व^भूतानि च निर्मितानि^इति। स चेत्ते ब्राह्मण इदं प्रमाणं, तद् इदं ते ब्राह्मण अयुक्तं यद् ब्रवीषि चत्वारो वर्णा ब्राह्मणाः क्षत्रिया वैश्या शूद्राश् चेति।
पृ25.4 अपि तु ब्राह्मण मिथ्या मम वचो भवेत् यदि ब्राह्मण संवादेन मुनुष्यजातेर् नाना^करणं प्रज्ञायते। यद् उत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो वा (26) भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वाऽ'कारतो वा योनितो वाऽ'हारतो वा सम्भावतो वा नाना^करणं प्रज्ञायते।

पृ26.1 तद् यथा^अपि भोः पुष्करसारिन् गवाश् च गर्दभो ष्ट्रमृगपक्ष्यजैडका^नामण्डजजरायुजसंस्वेदजौपपादुकानांनाना^करनं प्रज्ञायते। यद् उत पादतोऽपि मुखतोपि वर्णतोऽपि संस्थानतोऽपि आहारतोऽपि योनिसम्भवतोऽपि नाना^करणं प्रज्ञायते नच^एवं तेषां चतुर्णां वर्णानां नाना^करणं प्रज्ञायते। तत् तस्मात् सर्वम् इदम् एकम् इति।
पृ26.2 अपि च। ब्राह्मणामीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीज^पूरककपित्थाक्षोडनारिकेलतिनिशकरञ्ज^आदीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न च^एवं चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ26.3 तद् यथा ब्राह्मणामीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारस्सप्तपर्णशिरीषकोविदारस्यन्दनचन्दनशिंशपैरण्डखदिर^आदीनां नाना^करणं प्रज्ञायते।
पृ26.4 यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च विशेष उपलभ्यते। न च^एवं चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ26.5 तद् यथा भोः पुष्करसारिन्न् अमीषां क्षीरवृक्षाणाम् उदुम्बरप्लक्षाश्वत्थन्यग्रोधवल्गुकेत्य् एवम् आदीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग् भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ26.6 तद् यथा पुष्करसारिन्न् अमीषाम् अपि फलबैषज्यवृक्षाणाम् आमलकीहरीतकीविभीतकी फरसक^आदीनाम् अन्यासाम् अपि विविधानाम् ओषधीनां ग्राम^जानां पार्वतीयानां तृण^वनस्पतीनां नाना^करणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च (27) गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।

पृ27.1 तद् यथा स्थलजानां पुष्प^वृक्षाणाम् अतिमुक्तक^चम्पक^पाटलानां सुमना वार्षिकाधनष्कारिक^आदीनां नाना^करणं प्रज्ञायते। यद् उतो रूपतोऽपि वर्णतोऽपि गन्धतोऽपि संस्थानतोऽपि नाना^करणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नाना^करणं प्रज्ञायते।
पृ27.2 तद् यथा ब्राह्मणाम् ईषाम् अपि जलजानां पुष्पाणां पद्म^उत्पल^सौगन्धिक^मृदु^गन्धिक^आदीनां नाना^करणं प्रज्ञायते। यद् उत रूपतश् च गन्धतश् च संस्थानतश् च वणतश् च नाना^करणं प्रज्ञायते। नत्वेव वर्णानां नाना^करणं प्रज्ञायते। तद् यथा पुष्करसारिन् अमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति। तस्माद् एकम् एव^इदं सर्वम् इति।
पृ27.3ab अप्य् अन्यत् ते प्रवक्ष्यामि ब्राह्मणैः कल्पितं यथ्|आ।
पृ27.3cd शिरः सतारं गगनम् आकाशम् उदरं तथा॥
पृ27.4ab पर्वताश् च^अप्य् उभाव् ऊरू पादौ च धरणी^तलं।
पृ27.4cd सूर्याचन्द्रमसौ नेत्रे रोम तृण^वनस्पती॥
पृ27.5ab अश्रूण्य् अवोचद् वर्षाऽस्य नद्यः प्रस्रावम् एव च।
पृ27.5cd सागराश् च^अप्य् अमेध्यं वै; एवं ब्रह्मा प्रजापतिः॥

पृ28.1 परीक्षस्व त्वं ब्रह्मणः स्व^लक्षणं। यस्माद् ब्रह्मणो ब्राह्मणा उत्पन्नास् तस्मात् क्षत्रिया अपि वैश्या अपि शूद्रा अप्य् उत्पन्नाः।
पृ28.2ab एवं प्रसूतिर् यदि तत्वतः स्यात् ततो हि स्याद् वर्ण^कृतो विशेषः।
पृ28.2cd यदि ब्राह्मणा ब्रह्म^लोकं व्रजेयुस् त्रयश् च वर्णा न व्रजेयुः स्वर्गं।
पृ28.2ef एवं भवेद् वर्ण^कृतो विशेषो न चेन्न चत्वारो भवन्ति वर्णाः॥
पृ28.3ab यस्माद् धि वर्णश् चतुर्थ एवं प्रयाति स्वर्गं स्वकृतेन कर्मणा।
पृ28.3cd यतस् तपश् च^आर्षम् इह प्रशस्तं तस्माद् द्विजातेर् न विशेषणं स्याद्॥
पृ28.4ab यदि ब्राह्मणः स्याद् इहैक एव द्विजिह्वश् चतुः^श्रवणस् तथा^एव।
पृ28.4cd चतुर्^विषाणो बहुपाद् द्विशीर्ष एवं कृते वर्ण^कृतो विशेषः॥

पृ29.1ab रागैश् च नाम परघातनं च एवं प्रकारं च विहेठनं च।
पृ29.1cd सत्त्वस्य वै कर्मणो ध्वंसनं च एतान्य् अकल्याणकृतानि विप्रैः॥
पृ29.2ab युद्धं विवादं कलहान्य् अभीक्ष्णं गोप्रोक्षणं चिन्तितं ब्राह्मणैर् हि।
पृ29.2cd अथर्वणः कर्मणा त्रासनं च एतानि मन्त्राणि कृतानि विप्रैः॥
पृ29.3ab पापेच्छता बहु^जन^वञ्चनं च शाठ्यं च धौर्त्यं च तथा^एव कल्पं।
पृ29.3cd एवं परेषाम् अहितं विचिन्त्य कदा च ते स्वर्गम् इतो व्रजेयुः॥
पृ29.4ab ये ब्राह्मणा उग्रतपा विनीता व्रतेन शीलेन सदा ह्य् उपेताः।
पृ29.4cd अहिंसका ये दम संयमे रतास् ते ब्राह्मणा ब्रह्म^पुरं व्रजन्ति॥
पृ29.5ab सह^अस्थि^मांसः सनखः सचर्मा दुःखं सुखं मूत्र^पुरीषम् एकं।
पृ29.5cd पञ्च^इन्द्रियैर् नास्ति यतो विशेषस् तस्मान् न वै वर्ण^चतुष्क एषः॥
पृ29.6 तद् यथा नाम ब्राह्मण कस्य^चित् पुरुषस्य चत्वारः पुत्रा भवेयुः। स तेषां नामानि कुर्यान् नन्दक इति वा जीवक इति वा अशोक इति वा शतायुर् इति वा । इष्टाश् च (30) पुनर् भो एतस्य पुरुषस्य पुत्रा भवेयुः। तत्र यो नन्दकः स नन्देत्। यो जीवकः स ईवेत्। योऽशोकः स न शोचेत्। यः शतायुः स वर्षशतं जीवेत्।

पृ30.1 नामतः पुनर् ब्राह्मण तेषां नाना^करणं प्रज्ञायते न जातितः। तत्कस्य हेतोः। इह खलु पुनर् ब्राह्मण पितृतः पुत्रो जाय्ते। तस्माच् च तत्रेदं व्याकरणं भवति:
पृ30.2ab माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
पृ30.2cd यद्य् एवं भो विजानासि न ते (पुत्रा) परभूताः क्वचित्॥
पृ30.3 परीक्षस्व ब्राह्मण संयगेव कोऽत्र ब्राह्मणः क्षत्रियो वैश्यः शूत्र इति।
पृ30.4ab सर्वे काणाश् च कुब्जाश् च सर्वेऽपस्मारिणोपि वा।
पृ30.4cd किलासिनः कुष्ठिनश् च गौराः कृष्णाः पृथक् पृथक्॥
पृ30.5 प्रतिष्ठिताः सममज्जानखत्वचपार्श्व^उदरवक्त्राः प्रजा हि ताः स्वकर्मणा। एवं गते ब्राह्मण नैव भवति विशेषः। को जाति^कृतो विशेषः।
पृ30.6 यस्मान् न जातेर् विशेषणोऽस्ति तस्मान् न वै वर्ण^चतुष्क एव।

पृ31.1 तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रम् इदं लोकस्य यद् इदं ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाल इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
पृ31.2 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारीदम् अवोचत्। किं पुनर्भवता ऋग्वेदोऽधीतः, यजुर्वेदोऽधीतः, सामवेदोऽधीतः, अथर्ववेदोऽधीतः, आयुर्वेदोऽधीतः कल्पाध्यायो पि। अध्यात्मम् अपि मृगचक्रं वा नक्षत्र^गणो वा तिथि^क्रमगणो वा त्वयाधीतः। कर्म^चक्रं वा त्वयाधिगतं। अथवाऽङ्गविद्या वा वस्त्रविद्या वा शिवाविद्या शकुनिविद्या वा त्वयाधीता। अथवा राहुचैर्तं वा शुक्र^चरितं वा ग्रहचरितं वा त्वयाधीतं। अथवा लोकायतें भवता भाष्यप्रवचनं वा पक्षाध्यायो वा न्यायो वा त्वयाधीतः।

पृ32.1 एवम् उक्ते त्रिशङ्कुर् मातङ्ग^राहः पुष्करसारिणं ब्राह्मणम् एतद् अवोचत्। एतच् च मया ब्राह्मणाधीतं भूयश् च^उत्तरं । यद् अपि ते ब्राह्मण एवं स्याद् अहम् अस्मि मन्त्रेषु पारं प्राप्त इति। तत्र ते ब्राह्मण सह धर्मेणानुमानं प्रवक्ष्यामि। न खल्व् एवं ब्राह्मण प्राथमकल्पिकानां सत्त्वानाम् एतद् अभवत्। यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं।
पृ32.2 अथ ब्राह्मण सत्त्वानामसदृशानां च^उभयथा सदृशानां ततोऽन्ये सत्त्वाः शालिक्षेत्राणि केलायन्ति गोपायन्ति वापयन्ति वा। तेऽमी क्षत्रिया इति संज्ञा उदपादि। अथात्र ब्राह्मण तद् अन्यतमानां सत्तानाम् एतद् अभवत्। परिग्रहो रोगः परिग्रहो गण्डः परिग्रहः शल्यः। यन्नु वयं स्वपरिग्रहम् अपहायारण्यायतनं गत्वा तृण^काष्ठशाखापर्णपलाशकानुपसंहृत्य तृण^कुटिकां वा पर्णकुटिकां वा कृत्वा प्रविश्य ध्यायेन इति।
पृ32.3 अथ ते सत्त्वास् तं स्वकं परिग्रहम् अपहायारण्यायतनं गत्वा तृण^काष्ठशाखापत्रपर्णपलाशकैस् तृण^कुटिं वा पर्णकुटिकां वा कृत्वा तत्र^एव प्रविश्य ध्यायन्ति स्म। ते तत्र सायम् आसनहेतोः प्रान्तवाटिकां प्रातरशनहेतोश् च ग्रामं पिण्डाय प्रविशन्ति स्म।
पृ32.4 अथ तेषां ग्राम^वासिनां सत्त्वानाम् एतद् अभवत्। दुष्करकारका वत भोः सत्त्वा ये स्वकं परिग्रहम् उतृज्य ग्राम^निगमजन^पदेभ्यो बहिर् निर्गतास् तेषां बहिर्मनस्का ब्राह्यणा इति संज्ञा उदपादि। ते च पुनर् ग्राम^वासिनः सत्त्वास् तान् अतीव सत्कुर्वन्ति स्म। तेषां च दातव्यं मन्यन्ते स्म।

पृ33.1 अथ तेषाम् एव सत्त्वानाम् अन्यतमे सत्त्वास् तानि ध्यानान्य् असंभावयन्तो ग्रामेष्व् अवतीर्य मन्त्र^पदान् स्वाध्यायन्ति स्म। तांस् ते ग्राम^निवासिन आहुः --- न लेवलम् इमे सत्त्वा इमेऽध्यापकाः, तेषाम् अध्यापका इति लोके संज्ञा उदपादि।
पृ33.2 अयं हेतुर् अयं प्रत्ययो ब्राह्मणानां लोके प्रादुर्भावाय। अथान्यतमे सत्त्वा विवेक^काल^प्रतिसंयुक्तान् कर्म^अन्तान् विविधान् अर्थ^प्रतिसंयुक्तान् कुर्वन्ति स्म। तेषां वैश्या इति संज्ञा उदपादि।
पृ33.3 अथान्यतमे सत्त्वाः क्षुद्रेण कर्मणा जीविकां कल्पयन्ति स्म। तेषां शूद्रा इति संज्ञा उदपादि।
पृ33.4 भूत^पूर्वं ब्राहम्ण अन्यतमः सत्त्वो वधूम् आदाय रथम् आरुह्यान्यतम् अस्मिन्न् अरण्यप्रदेशे गतः। तत्र च रथो भग्नः। तस्मान् मातङ्गम [मा त्वं गमः] इति संज्ञा उदपादि।
पृ33.5 क्षेत्रं कर्षन्ति ये तेषां कर्षका इति संज्ञा प्र्वृत्ता। भाष्येण च पर्षदं रञ्जयति धर्मेण शीलब्रतसमाचारेण सम्यक्, तस्य राजा इति संज्ञाऽभूत्।
पृ33.6 ततोऽन्ये सत्त्वा वाणिज्यया जीविकां कल्पयन्ति तेषां वणिज इति संज्ञा (34) उदपादि। ततश् च^अन्ये सत्त्वाः प्रव्रजन्ति स्म। प्रव्रजित्वा परान् जयन्ति क्लेशान् जयन्ति^इति तेषां प्रव्रजिता इति लोके संज्ञा उदपादि।

पृ34.1 अपि तु ब्राह्मण एकैव संज्ञा लोक उदपादि। तां ते प्रवक्ष्यामि।

पृ35.1 ब्रह्मा लोकेऽस्मिन् इमान् वेदान् वाचयति। ब्रह्मा देवानां परम^तापसः। इन्द्रस्य कौशिकस्य वेदान् वाचयति स्म। इन्द्रः कौशिकोऽरणेमि गौतमं वेदान् वाचयति। अरणेमि गौतमः श्वेतकेतुं वेदान् वाचयति। श्वेतकेतुः शुकं पण्डितं वेदान् वाचयति। शुकः पण्डितश् च वेदान् विभजति स्म। तद् यथा पुष्यो बह्व्^ऋचानां पंक्तिश् छन्तोगानाम् एक^विंशतिर् अध्वर्यवः। क्रतुर् अर्थ^वणिकानां। बह्व्^ऋचानाम् एते ब्राह्मणाः। सर्वे ते व्याख्यायन्ते। पुष्य एको भूत्वा पञ्च^विंशतिधा भिन्नः। तद् यथा शुक्ला वल्कला माण्डव्या इति। तत्र दश शुक्लाः। अष्टौ वल्कलाः। सप्त माण्डव्याः। इतीयं ब्राह्मण बह्व्^ऋचानां शाखा। पुष्य एको भूत्वा पञ्च^विंशतिधा भिन्नः।
पृ35.2 अनुमानम् अपि ब्राह्मण प्रमाणं छन्दोगानां। ब्राह्मणाः सर्व एते छन्दोगाः। पंक्तिर् एत्य् एका भूत्वा स^अशीति^सहस्रधा भिन्ना। तद् यथा शीलवल्का अरणेमिका लौकाक्षाः कौथुमा ब्रह्म^समा महा^समा महा^यागिकाः स^अत्यम् उग्राः समन्त^वेदाः।

पृ36.1 तत्र शीलवल्का विंशतिः। अरणेमिका विंशतिः। लौकाक्षाश् चत्वारिंशत्। कौथुमानां शतं। ब्रह्म^समानां शतं। महा^समानां पञ्च^शतानि। महा^यागिकानां शतं। स^अत्यम् उग्राणां शतं । समन्त^वेदानां शतं। इतीयं ब्राह्मण^छन्दोगानां शाखा। पंक्तिर् इत्य् एका भूत्वा स^अशीति सहस्रधा भिन्ना।
पृ36.2 अनुमानम् अपि प्रमाणम् अध्वर्यूणां। एते ब्राह्मणा एक^विंशत्य् अध्वर्यवो भूत्वा एक^उत्तरशतधा भिन्नाः। तद् यथा कठाः कंइना वाजसनेयिनो जातुकर्णाः प्रोष्ठपदा ऋषयः। तत्र दश कठा दश कणिमा एकादश वाजसनेयिनः।त्रयोदश जातुकर्नाः। षोडश प्रोष्ठपदाः। एक चत्वारिंशद् ऋषयः। इतीयं ब्राह्मणाध्वर्यूणां शाखा। एक^विंशत्यध्वर्यवो भूत्वा एक^उत्तरशतधा भिन्नाः।
पृ36.3 अनुमानम् अपि ब्राह्मण प्रमाणम् अथर्वणिकानां । एते मन्त्राः सर्वे तेऽथर्वणिकाः। क्रतुर् एको भूत्वा द्विधा भिन्नः। द्विधा भूत्वा चतुर्धा भिन्नः।चतुर्धा भूत्वाऽष्टधा भिन्नः। अष्टधा भूत्वा [नव]दशधा भिन्नः। इतीयं ब्राह्मणाथर्वणिकानां शाखा। क्रतुर् एकः षोडश^उत्तरद्वादश^शतधा भिन्नः।
पृ36.4 अनुमानम् अपि ब्राह्मण प्रमाणं प्रतीत्य एतानि द्वादश^भेदशतानि षोडशभेदाश् च ये ब्राह्मणैः पौराणैः सम्यग् दृष्टाः। छन्दसि वा व्याकरणे वा लोकायते वा (37) पदमीमांसायां वा न चैषामूहापोहः प्रज्ञायते। यद् उत एक^जात्यो नामेति विदित्वा बन्धुर् भवितुम् अर्हति। तत् ते व्राह्मण ब्रवीमि संज्ञामात्रकम् एतल् लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्या^अर्थाय यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

पृ37.1 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारी तुष्णींभूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरोऽस्थात्।
पृ37.2 ददर्श त्रिशङ्कुर् मातङ्ग^राजो ब्राह्मणं पुष्करसारिणं तृष्णींभूतं मद्गुभूतं स्रस्त^स्कन्धम् अधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अब्रवीत्। यद् अपि ते ब्राह्मण एवं स्याद् असदृशेन सह सम्बन्धो भविष्यति^इति। न पुनस्त्वया ब्राह्मण^एवं द्रष्टव्यं। (38)तत् कस्य हेतोः। ये प्रमाणश्रुतिशीलप्रञ्ञादयो गुणा अग्य्रा लोकस्य ते मम पुत्रस्य शार्दूलकर्णस्य संविद्यन्ते। यद् अपि ते ब्राह्मण एवं स्यात् --- ये वाजपियं यज्ञं यजन्ति। अश्वमेधं पुरुष^मेधं शाम्यप्राशं निरर्गडं यज्ञं यजन्ति, सर्वे ते कायस्य भेदात्सुगतौ स्वर्ग^लोके देवेषूपपद्यन्त इति। न पुनर्ब्राह्मण त्वय^एवं द्रष्टव्यं। तत् कस्य हेतोः।वाजपेयं ब्राह्मण यज्ञं यजमाना अश्वमेधं पुरुष^मेधं शाम्यप्राशं निरर्गडं यज्ञं च यजमाना बहुधा मन्त्रान् प्रवर्तयन्तः प्राणिहिंसां च प्रवर्तयन्ति। तस्मात् ते ब्राह्मण ब्रवीमि न ह्य् एष मार्गः स्वर्गाय। अहं ते ब्राह्मण मार्गं स्वर्गाय व्याखामि। तच् छृणु।

पृ38.1ab शीलं रक्षेत मेधावी प्रार्थयानः सुख^त्रयं।
पृ38.1cd प्रशंसां वित्त^लाभं च प्रेत्य स्वर्गे च मोदनं॥
पृ38.2 यैर् ब्राह्मण इतः पूर्वं वाजपेयो यज्ञ इष्टः। यैर् अश्वमेधो यैः पुरुष^मेधो यैः शाम्यप्राशो यैर् निरर्गडो यज्ञ इष्टः, परिगृहीतस् तैर् निरर्गलं च कामैः कामः। इतो नाकः पर्येष्यते। ये ब्राह्मण इतः पश्चाद् वाजपेयं यज्ञं यक्ष्यन्ति येऽश्वमेधं पुरुष^मेधं ये शाम्यप्राशं निरर्गडं यज्ञं यक्ष्यन्ति ते निरर्थकं महा^विघातं संयोक्ष्यन्ति।
पृ38.3 तस्मात् ते ब्राह्मन ब्रवीमि --- एहि त्वं मया सार्धं सम्बन्धं योजयस्वा। तत् कस्य हेतोः। धर्मेण हि चण्डाला अजुगुप्सनीया भवन्ति। अपि च।

पृ39.1ab श्रद्धा शीलं तपस्त्यागः श्रुतिर् ज्ञानं दयैव च।
पृ39.1cd दर्शनं सर्व^वेदानां स्वर्गव्रत^पदानि वै॥
पृ39.2 प्रमाणम् अष्टप्रकारं स्वर्गाय। तद् एभिर् अष्टाभिः प्रकारैः स्वर्गगमनम् इष्यते। ये प्रायेण जानन्ति विशेषेण खल्व् अप्य् अनेकैर् विविधरि यज्ञैः। अष्टौ चेमा ब्राह्मण निर्दिष्टा मातृतुल्या भगिन्यो लोके प्रवर्तन्ते। तद् यथा अदितिर् देवानां माता। दिवित् दानवानां। मनुर् मानवानां। सुरभिः सौरभेयानां। विनता सुपर्णानां। कद्रुर् नागानां। पृथिवी भूतानां माता सर्व^बीजानां। मरुतां महामहः। महा^काश्यपं मनसा विदन्ति ऋषयः।
पृ39.3 अथ खलु भोः पुष्करसारिन् ब्राह्मणानां सप्तगोत्राणि व्याख्यास्यामि तानि श्रूयन्तां। तद् यथा गौतमा वात्स्याः कौत्साः कौशिकाः काश्यपा वाशिष्ठा माण्डव्या इत्य् एतानि ब्राह्मण सप्तगोत्राणि। एषाम् एकैकं गोत्रं सप्तधा भिन्नं। अत्र ये गौतमास् ते कौथुमास्ते गर्गास् ते भरद्वाजास्त आर्ष्टिषेणास् ते वैखानसास् ते (40) वज्रपादाः। तत्र ये वात्स्यास्त आत्रेयास् ते मैत्रेयास् ते भार्गवास् ते सावर्ण्या स्ते सलोलास् ते बहुजाताः। तत्र ये कौत्सास् ते मौद्गल्यायनास् ते गौणायनास् ते लाङ्गलास्ते लग्नास्ते दण्डलग्नास्ते सोम^भुवाः[वह्}। तत्र ये कौशिकास् ते कात्यायनास् ते दर्भकात्यायनास् ते वल्कलिनस् ते पक्षिणस् ते लौकाक्षास् ते लोहित^आयनाः (लोहित्यायनाः) । तत्र ये काश्यपास् ते मण्डनास् ते इष्टास् ते शौण्डायनास् ते रोचनेयास् तेऽनपेक्षास् तेऽग्निवेश्याः। तत्र ये वःशिष्ठास् ते जातुकर्ण्यास् ते धान्यायनास् ते पाराशरास् ते व्याघ्रनखास् त आण्डायनस्त औपमन्यवाः। तत्र ये माण्डव्यास् ते भाण्डायनास् ते धौम्रायणास् ते कात्यायनास् ते खल्व् अवाहनास् ते सुगन्धारायणास् ते कापिष्ठलायनाः।

पृ40.1 इत्य् एतानि ब्राह्मण एवम् एकोनपञ्चाशद् गोत्राणि ब्राह्मणैः पौराणैः सम्यग् दृष्टानि छन्दसि व्याकरणे पदमीमांसायां। अन्यानि च गोत्राणि विस्तरतो मया वाचितानि। तानि अन्यैर् न ज्ञायन्ते।
पृ40.2 यद् उतैकत्वम् इति विदित्वा भवान् बन्धुर् भवितुम् अर्हति। तस्मात् ते ब्राह्मण ब्रवीमि सामान्यं संज्ञामात्रकम् इदं लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं । प्प्प्प्प्पुत्राय मे शार्दूलकर्णाय प्रकृतिंदुहितरम् उत्सृज भार्या^अर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

पृ41.1 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्राह्मणः पुष्करसारी तृष्णीं भूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरः स्थितोऽभूत्। अद्राक्षीत् त्रिशङ्कुर् मातङ्ग^राजः पुष्करसारिणं ब्राह्मणं तूष्णीं भूतं मद्गुभूतं स्रस्तस्कन्धम् अभोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अवोचत्।
पृ41.2ab यादृशं वाप्यते बीजं तादृशं लभ्यते फलं।
पृ41.2cd प्रजापतेर् हि चैकत्वे निर्विशेषो भवत्य् अतः॥
पृ41.3ab न च^इन्द्रियाणां नानात्वं क्रियाभेदश् च दृश्यते।
पृ41.3cd ब्राह्मणे वान्य^जातौ वा नैषां किञ्चिद् विशिष्यते॥
पृ41.4ab न ह्य् आत्मनः समुत्कर्षः श्रेष्ठ त्वम् इह युज्यते।
पृ41.4cd शुक्र^शोणित^सम्भूतं योनितो ह्य् उभयं समं॥
पृ41.5ab चातुर्वर्ण्यं प्रवक्ष्यामि पशु^धर्म^कथां तव।
पृ41.5cd भवेत् ते भगिनी भार्या नैतद् ब्राह्मण युज्यते॥
पृ41.6ab यदि तावद् अयं लोको ब्रह्मणा जनितः स्वयं।
पृ41.6cd ब्राह्मणी ब्राह्मण^स्वसा क्षत्रिया क्षत्रियस्वसा॥
पृ41.7ab अथ वैश्यस्य वैश्या वै शूद्रा शूद्रस्य वा पुनः।
पृ41.7cd न भार्या भगिनी युक्ता ब्रह्मणा जनिता यदि॥
पृ41.8ab न सत्त्वा ब्रह्मणो जाताः क्लेशजाः कर्मजास्त्वमी।
पृ41.8cd नीचैश् च^उच्चैश् च दूश्यन्ते सत्त्वा नाना^आश्रयाः पृथक्॥
पृ41.9ab तेषां च जातिसामान्याद् ब्राह्मणे क्षत्रिये तथा।
पृ41.9cd अथ वैश्ये च शूद्रे च समं ज्ञानं प्रवर्तते॥

पृ42.1ab ऋग्वेदोऽथ यजुर्वेदः सामवेदोप्य् अथर्वाणं।
पृ42.1cd इतिहासो निघण्टश् च कुतश् छन्दो निरर्थकं॥
पृ42.2ab अस्माकम् अप्य् अध्ययने मैत्री विद्या तथा शिखी।
पृ42.2cd संक्रामणी प्रकामणी स्तम्भनी काम^रूपिणी॥
पृ42.3ab मनोजवा च गान्धारी घोरी विद्या वशङ्करी।
पृ42.3cd काक^वाणी च मन्त्रं च; इन्द्रजालं च भञ्जनी॥
पृ42.4ab अस्माकम् आसीत् पुरुषा विद्यास्वाख्यातपण्डिताः।
पृ42.4cd मणि^पुष्पाश् च; ऋषयो भास्वराश् च महर्षयः॥
पृ42.5ab संप्राप्ता देवता;ऋद्धिं किं चिकित्सासि विद्यया।
पृ42.5cd अशिक्षिताश् च चण्डाला ब्राह्मणा वेद^पारगाः॥
पृ42.6ab कपिञ्जलाद्या जनितो मन्त्राणां पारभिंगतः।
पृ42.6cd न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण मन्यसे॥

पृ43.1अ निषाद्यजनयत्काली पुत्रं द्वैपायानं मुनिं।
पृ43.1ब् उग्रं तेजस्विनं भीष्मं पञ्चाभिज्ञं महा^तपं।
पृ43.2ab न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
पृ43.2cd क्षत्रिया रेणुका नाम जज्ञे रामं महा^मुनिं।
पृ43.2ef पण्डितं च विनीतं च सर्व^शास्त्र^विशारदं।
पृ43.3ab न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
पृ43.3cd ये च ते मनुजा; आसन् तेजसा तपसा युताः।
पृ43.4ab पण्डिताश् च विनीताश् च लोके च; ऋषिसम्मताः।
पृ43.4cd न हि ते ब्राह्मणीपुत्राः किं वा ब्राह्मण वक्ष्यसि॥
पृ43.5ab संज्ञा कृतेयं लोकस्य ब्राह्मणाः क्षत्रियास् तथा।
पृ43.5cd वैश्याx च^एव तथा शूद्राः संज्ञेयं संप्रकीर्तिता॥
पृ43.6 तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रकम् इदंलोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूदर इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे (44) शार्दूलकर्णाय प्रकृतिं दुहितरम् अनुप्रयच्छ भर्यर्थाय। यावन्तं कुल^शुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

पृ44.1 इदं च पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्ग^राजस्य ब्ब्राह्मणः पुस्करसारी त्रिशङ्कुं मातङ्ग^राजम् इदम् अवोचत्। किं गोत्रो भवान्। आह आत्रेयगोत्रोऽस्मि। हिंपूर्वः। आह। आत्रेयः। किंचरणःआह कालेयमैत्रायणीयः। कति प्रवराः। आह त्रयः प्रवराः। तद् यथा वात्स्याः कौत्स्या भरद्वाजाश् च। के भवन्तः सब्रह्म^चारिणः। छन्दोगाः। कति छन्तोगानां भेदाः। षट्। ते कतमे। आह। तद् यथा। कौथुमाः। च^अरायणीयाः। लाङ्गलाः। सौवर्चसाः। कापिञ्जलेयाः। आर्ष्टिषेणा इति।
पृ44.2 किं भवतो मातृजं गोत्रं। आह। पाराशरीयं। पठतु भवान् सावित्रीं। कथं भवति। कत्यक्षरा सावित्री। कथिगण्डा। कतिपदा।
पृ44.3 चतुर्विंशत्यक्षरा सावित्री। त्रिगण्डा। अष्टाक्षरपदा। उच्चारयतु भवान् सावित्रीं।अथ खलु भोः पुष्करसारिन् सोत्पत्तिकां सावित्रीं प्रवक्ष्यामि। तच् छ्रूयतां।
पृ44.4 कथयतु भवान्।
पृ44.5 भूत^पूर्वं ब्राह्मणातीतेऽध्वनि वसुर् नाम ऋषिर् भूव। पञ्चाभिज्ञ उग्रतेजा महानुभावो ध्यानानां लाभी। तेन तत्र तक्षकदुहिता कपिला नाम आसादिता भार्या^अर्थं। स तत्र संरक्त^चित्तस् तया कन्यया सार्धं मैथुनम् अगच्छत्। स ऋषि (45) ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः। ऋद्धिपरिहीनः स विप्रतिसारी आत्मनो दुश्चरितं विगर्हमाणस् तस्यां वेलायां सावित्रीं भाषते स्म। तद् यथा।

पृ45.1 ओं भूर् भुवः स्वः। तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।
पृ45.2 इति हि ब्राह्मण अज्ञान^शोधनार्थम् इमम् एव मन्त्रं स ब्राह्मणो दिवा^रात्रं जपति स्म। इयं ब्राह्मणानां सावित्री। पूर्वजः प्रजापतिः
पृ45.3ab जटिलस्तापसो भूत्वा गहनं वनम् आश्रितः।
पृ45.3cd गम्भीराव् अभासे तत्र ह्य् आत्मारामस् तपोरतः।
पृ45.4 देवस्य श्रेष्ठकं भीजनम् अपनाभ्यो पविष्ट इमंमन्त्रम् अजपत्। इयं क्षत्रियाणां सावित्री।
पृ45.5 ओं चित्रं हि वैश्यकन्यका। अथ सा कन्या अर्थतः प्रवीणा।

पृ46.1 इयं वैश्यानां सावित्री। ओम् अतपः सुतपः। जीवेम शरदां शतं। पश्येम शरदां शतं। इयं शूद्राणां सावित्री। ओं भूर् भुवः स्वः।
पृ46.2ab कामा हि लोके परमाः प्रजानां क्लेशप्रहाणे भूता अन्तरायाः।
पृ46.2cd तस्माद् भवन्तः प्रजहन्तु कामान् ततोऽतुलं प्राप्स्य् अथ ब्रह्म^लोकं।
पृ46.3 इतीयं ब्राह्मण ब्रह्मणा सहापतिना सावित्री भाषिता, पूर्वकैश् च सम्यक् संबुद्धैर् अभ्यनुमोदिता।
%नक्षत्रवंशः 星宿の形、星の数、合の長さ、供物、主宰神、गोत्र 46
पृ46.4 पठ भोस् त्रिशङ्को नक्षत्र^वंशं। अथ किं। भोः कथयतु भवान्। श्रूयतां भोः पुष्करसारिन् नक्षत्र^वंशं कथयिष्यामि। तद् यथा।
पृ46.5 कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वस्ह्ः पुष्यः अश्लेषा मघा पूर्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती अश्विनी भरणी । इत्य् एतानि भोः पुष्करसारिन्न् अष्टाविंशति^नक्षत्राणी।
पृ46.6 कति^तारकाणि कति^संस्थानानि कति^मुहूर्त^योगानि किम्^आहाराणि किं^दैवतानि किं^गोत्राणि।
पृ46.7 कृत्तिका भोः पुष्करसारिन् नक्षत्रं षट्तारं क्षुर^संस्थानं त्रिंशन्^मुहूर्त^योगं (47) दध्याहारम् अग्निदैवतं वैश्यायनीयं गोत्रेण। रोहिणी^नक्षत्रं पञ्च^तारकं शकटाकृति^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मृगमांसाहारं प्रजापति^दैवतं भारद्वाजं गोत्रेण। मृगशिरा^नक्षत्रं त्रितारं मृगशीर्ष^संस्थानं त्रिंशन् मुहूर्त^योगं फलमूलाहारं सोम^दैवतं मृगायणीयं गोत्रेण। आर्द्र^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं सर्पिर्मण्डाहारं सूर्य^दैवतं हारीतीतायनीयं गोत्रेण। पुनर्वसु^नक्षत्रं द्वितारं पद^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मध्य्?आहारम् अदितिदैवतं वाशिष्ठं गोत्रेण। पुष्य^नक्षत्रं त्रितारं वर्धमान^संस्थानं त्रिशन्^मुहूर्त^योगं मधु^मण्डाहारं बृहस्पति^दैवतम् औपमन्यवीयं गोत्रेण। अश्लेषा^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं पायस^भोजनं सर्प^दैवतं मैत्रायणीयं गोत्रेण।

पृ47.1 इति^इमानि भोः पुष्करसारिन् सप्त^नक्षत्राणि पूर्व^द्वारकाणि। मघा^नक्षत्रं (48)पञ्च^तारं नदी^कुब्ज^संस्थानं त्रिशन्^मुहूर्त^योगं तिल^कृसराहारं पितृदैवतं पिङ्गलायनीयं गोत्रेण। पूर्वफल्गुनी^नक्षत्रं द्वितारं पदक^संस्थानं त्रिशन् मुहूर्त^योगं विल्वभोजनं भवदेवतं गौतमीयं गोत्रेण। उत्तरफल्गुनी^नक्षत्रं द्वितारं पदक^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं गोधूममत्स्याहारम् अर्यमादैवतं कौशिकं गोत्रेण। हस्त^नक्षत्रं पञ्च^तारं हस्त^संस्थानं त्रिंशन्^मुहूर्त^योगं श्यामाकभोजनं सूर्य^दैवतं काश्यपं गोत्रेण। चित्रा^नक्षत्रम् एक^तारं तिलक^संस्थानं त्रिंशन्^मुहूर्त^योगं मुद्गकृसरघृत^पूपाहारं त्वष्टृदैवतं कात्यायनीयं गोत्रेण।

पृ48.1 स्वाती^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं मुद्गकृसरफलाहारं वायुदैवतं कात्यायनीयं गोत्रेण। विशाखा^नक्षत्रं द्वितारं विषाण^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं तिल^पुष्पाहारम् इन्द्राग्निदैवतं शांखायनीयं गोत्रेण।

पृ49.1.इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि दक्षिणाद्वारकाणि।
पृ49.2 अनुराधा^नक्षत्रं चतुस्तारं रत्नाबली^संस्थानं त्रिशन्^मुहूर्त^योगं सुरामांसाहारं मित्रदैवतम् आलंबायनीयं गोत्रेण। ज्येष्ठा^नक्षत्रं त्रितारं यवमध्य^संस्थानं पञ्च^दश^मुहूर्त^योगं शालियवागुभोजनम् इन्द्रदैवतं दीर्घकात्यायनीयं गोत्रेण। मूल^नक्षत्रं सप्ततारं वृश्चिक^संस्थानं त्रिशन्^मुहूर्त^योगं मूलफलाहारं नैरृतिदैवतं कात्यायनीयं गोत्रेण। पूर्वाषाढा^नक्षत्रं चतुस्तारं गोविक्रम^संस्थानं त्रिशन्^मुहूर्त^योगं न्यग्रोधकषायाहारं तोयदैवतं दर्भकात्यायनीयं गोत्रेण। उत्तराषाढा^नक्षत्रं चतुस्तारं गजविक्रम^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं मधु^लाजाहारं विश्व^दैवतं मौद्गलायनीयं गोत्रेण। अभिजिन्^नक्षत्रं त्रितारं गोशीर्स^संस्थानं षण्^मुहूर्त^योगं (50) वायुआहारं ब्रह्म^दैवतं ब्रह्मावतीयं गोत्रेण। श्रवणा^नक्षत्रं त्रितारं यवमध्य^संस्थानं त्रिंशन्^मुहूर्त^योगं पक्षिमांसाहारं विष्णुदैवतं कात्यायनीयं गोत्रेण।

पृ50.1 इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि पश्चिमद्वारकाणि।
पृ50.2 धनिष्ठा^नक्षत्रं चतुस्तारं शकुन^संस्थानं त्रिंशन्^मुहूर्त^योगं कुलत्थपूपाहारं वसुदैवतं कौण्डिन्यायनीयं गोत्रेण। शतभिषा^नक्षत्रम् एक^तारं तिलक^संस्थानं पञ्च^दश^मुहूर्त^योगं यवागुभोजनं वरुणदैवतं ताण्ड्यायनीयं गोत्रेण। पूर्वभाद्रपदा^नक्षत्रं द्वितारं पदक^संस्थानं त्रिंशन्^मुहूर्त^योगं मांस^रुधिराहारम् अहिर्बुध्न्यदैवतं जातूकर्ण्यं गोत्रेण। उत्तरभाद्रपदा^नक्षत्रं द्वितारं पदक^संस्थानं पञ्च^चत्वारिंशन्^मुहूर्त^योगं (51)मांसाहारम् अर्यमादैवतं ध्यानद्राह्यायणीयं गोत्रेण। रेवती^नक्षत्रम् एक^तारं तिलक^संस्थानं त्रिशन्^मुहूर्त^योगं दध्याहारं पूषदैवतम् अष्टभगिनीयं गोत्रेण। अश्विनी^नक्षत्रं द्वितारं तुरगशीर्ष^संस्थानं त्रिंशन्^मुहूर्त^योगं मधु^पायसभोजनं गन्धर्व^दैवतं मैत्रायाणीयं गोत्रेण। भरणी^नक्षत्रं त्रितारं भग^संस्थानं त्रिंशन्^मुहूर्त^योगं तिल^तण्डूलाहारं यमदैवतं भार्गवीयं गोत्रेण।

पृ51.1 इत्य् एतानि भोः पुष्करसारिन् सप्त^नक्षत्राणि उत्तर^द्वारकाणि।
पृ51.2 अमीषां भोः प्प्पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां षण्^नक्षत्राणि पञ्च^चत्वारिंशन्^मुहूर्त^योगानि। तद् यथा। रोहिणी पुनर्वसु उत्तरफल्गुनी विशाखा उत्तराषाढा उत्तरभाद्रपदा चेति।
पृ51.3 पञ्च^नक्षत्राणि पञ्च^दश^मुहूर्त^योगानि। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा शतभिषा चेति। एकोऽभिजित् षण्^मुहूर्त^योगः। अवशिष्टानि त्रिंशन्^मुहूर्त^योगानि।

पृ52.1 अमीषां भोः पुष्करसारिन् सप्तानां नक्षत्राणां पूर्व^द्वारिकाणां कृत्तिका प्रथमा नामाश्लेषा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणां दक्षिण^द्वारिकाणां मघा प्रथमा नाम विशाखा पश्चिमा नाम। अमीषां पश्चिमद्वारिकाणां सप्तानां नक्षत्राणाम् अनुराधा प्रथमा नाम श्रवणा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणाम् उत्तर^द्वारिकाणां धनिष्ठा प्रथमा नाम भरणी पश्चिमा नाम।
पृ53.2 अमीषां भोः पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां सप्त बलानि। कतमानि सप्त। यद् उत त्रीणि पूर्वाणि विशाखानुराधा पुनर्वस्ह्ः स्वातिश् च। त्रीणि दारुणानि। आर्द्रा अश्लेषा भरणी चेति। चत्वारि सम्माननीयानि। यद् उत त्रीणि उत्तराणि रोहिणी चेति। पञ्च मृदुकानि। श्रवणा धनिष्ठा शतभिषा ज्येष्ठा मूला इति। पञ्च धारणीयानि। हस्ता चित्रा अश्लेषा मघा अभिजिच् चेति। चत्वारि क्षिप्र^करणीयानि। यद् उत कृत्तिका मृगशिरा पुष्या अश्विनी चेति।
%नक्षत्राणां योगः 星宿の合
पृ52.3 अमीषां भोः पुष्करसारिन्न् अष्टविंशतीनां नक्षत्राणां त्रयो योगा भवन्ति। ऋषभानुसारी योगः। वत्सानुसारी योगः। युगनद्धो योगः। तत्र नक्षत्रं यदि पुरस्ताद् गच्छति चन्द्रश् च पृष्ठतः, अयम् उच्यते ऋषभानुसारी योग इति। यद् उत चन्द्रः पुरस्ताद् गच्छति नक्षत्रं च पृष्ठतः, तदा भवति वत्सानुसारी योगः। यदि पुनश् चन्द्रो नक्षत्रं च^उभौ समौ युगपद् गच्छतः, तदायम् उच्यते युगनद्धो योग इति।

%ग्रहः 惑星 53
पृ53.1 अथ खलु भोः पुष्करसारिन् ग्रहान् प्रवक्ष्यामि तच् छ्रूयतां। तद् यथा शुक्रो बृहस्पतिः शनैश्चरो बुधोऽङ्गारकः सूर्यस् ताराधिपतिश् चेति।
%रात्रिदिवसयोर् ह्रासवृद्धी 昼夜の短長 53
पृ53.2 एवं विपरिवर्तमाने लोके नक्षत्रेषु प्रविभक्तेषु कथं रात्रिदिवसानां ह्रासो वृद्धिश् च भवति। तद् उच्यते।
पृ53.3 हेमन्तानां द्वितीये मासि रोहिण्याम् अष्टम्यां द्वादश^मुहूर्तो दिवसो भवति। अष्टादश^मुहूर्ता रात्रिः। ग्रीष्माणां पश्चिमे मासे रोहिण्याम् अष्टम्याम् अष्टादश^मुहूर्तो दिवसो भवति। द्वादश^मुहूर्ता रात्रिः। वर्षाणां पश्चिमे मासे रोहिण्याम् अष्टम्यां चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः।
पृ53.4 किं भोस् त्रिशङ्को रात्रिदिवसानां प्रस्थानं। दिवसानुदिवसं। किं पक्षस्य प्रस्थानं। (54)प्रतिपद्। किं संवत्सरस्य प्रस्थानं। पौषः। किम् ऋतूनां प्रस्थानं। प्रावृट्।

%^मुहूर्तनामानि ムフールタ 54
पृ54.1 किं भोस् त्रिशङ्को क्षणस्य परिमाणं । किं लवस्य। किं मुहूर्तस्य।
पृ54.2 तद् यथा भोः पुष्करसारिन् स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणः। विंशत्यधिकं तत्क्षणशतम् एकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमसम्बन्धेन त्रिंशन्^मुहूर्तम् एकं रात्रिदिवसम् अनुमीयते। तेषां मुहूर्तानाम् इमानि नामानि भवन्ति।
पृ54.3 आदित्य उदयति षण्णवति^पौरुषायां छायायां चतुरोजा नाम मुहूर्तो भवति। षष्टिपौरुषायां छायायां श्वेतो नाम मुहूर्तो भवति। द्वादश^पौरुषायां छायायां समृद्धो नाम मुहूर्तो भवति। षट्पौरुषायां छायायां शरपथो नाम मुहूर्तो भवति।

पृ55.1 पञ्च^पौरुषायां छायायाम् अतिसमृद्धो नाम मुहूर्तो भवत्। चतुः^पौरुषायां छायायाम् उद्गतो नाम मुहूर्तो भवति। त्रिपौरुषायां छायायां सुमुखो नाम मुहूर्तो भवति। स्थिते मध्याह्ने वज्रको नाम मुहूर्तो भवति। परिवृत्ते मध्याह्ने त्रिपुरुषायां छायायां रोहितो नाम मुहूर्तो भवति।
पृ55.2 चतुः^पौरुषायां छायायां बलो नाम मुहूर्तो भवति। पञ्च^पौरुषायां छययं विजयो नाम मुहूर्तः। षट्पौरुषायां छायायां सर्व^रसो नाम मुहूर्तः। द्वादश^परुषायां छायायां वसुर् नाम मुहूर्तः। षष्टिपौरुषायां छायायां सुन्दरो नाम मुहूर्तः। अवतरमाण आदित्ये षण्णवति^पौरुषायां छायायां परभयो नाम मुहूर्तो भवति।
पृ55.3 इत्य् एतानि दिवसस्य मुहूर्तानि।
पृ55.4 अथ खलु भोः पुष्करसारिन् रात्र्या मुहूर्तानि व्याख्यास्यामि।अस्तंगत आदित्ये रौद्रो नाम मुहूर्तः। ततस् तारावचरो नाम मुहूर्तः। संयमो नाम मुहूर्तः (56) सांप्रैयको नाम मुहूर्तः। अनन्तो नाम मुहूर्तः। गर्दभा नाम मुहूर्तः। राक्षसो नाम मुहूर्तः। स्थितेऽर्धरात्रेऽवयवो नाम मुहूर्तः। अतिक्रान्तेऽर्धरात्रे ब्रह्मा नाम मुहूर्तः। दितिर् नाम मुहूर्तः। आतपाग्निर् नाम मुहूर्त। अभिजिन् नाम मुहूर्तः। इत्य् एतानि रात्रेर् मुहूर्तनामानि। इति भोः पुष्करसारिन् इमानि त्रिशन् मुहूर्तानि यैर् अहो^रात्रं प्रज्ञायते।

पृ56.1 तत्क्षणः क्षणो लवो मुहूर्तः । तत्र त्रिंशतितमो भागो मुहूर्तस्य लवः। षष्टितमो भागो लवस्य क्षणः। विंशत्युत्तरभागशतं क्षणस्य तत्क्षणः। तद् यथा स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणःः। विंशत्युत्तरक्षणशतं तत्क्षणस्यैकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमयोगेन त्रिंशन्^मुहूर्तम् एकम् अहो^रात्रं। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादश^मासाः संवत्सरः। चतुरोजाः श्वेतः समृद्धः शरपथोऽतिसमृद्ध उद्गतः (57) सुमुखो वज्रको रोहितो बलो विजयः सर्व^रसो वसुः सुन्दरः पर^भयः। रौद्रस् तारावचरः संयमः सांप्रैयकोऽन्नन्तो गर्दभो राक्षसोऽवयवो ब्रह्मा दितिर् अर्को विधमनो आग्नेय आतपाग्निर् अभिजित्।

पृ57.1 इति^इमानि मुहूर्तानां नामानि।
%काल^उत्पत्तिः 時間の発生 57
पृ57.2ab कालोत्पत्तिम् अपि ते ब्राह्मण वक्ष्यामि शृणु।
पृ57.2cd कालस्य किं प्रमाणम् इति तद् उच्यते।
पृ57.3 द्वावक्षिनिमेषाव् एको लवः। अस्टौ लवा एका काष्ठा। षोडशकाष्ठा एका कला। कलानां त्रिंशदेको नाडिका। तत्र द्वे नाडिक एको मुहूर्तः।
पृ57.4 नाडिकायाः पुनः किं प्रमाणं। तद् उच्यते।
पृ57.5 द्रोणं सलिलस्यैकं। तद्धरणतो द्वे पलशते भवतः। नालिकाछिद्रस्य किं प्रमाणं। सुवर्ण^मात्रं। उपरि चतुर्^अङ्गुला सुवर्ण^शलाका कर्तव्या। (58) वृत्तपरिमण्डला समान्ताच् चतुरस्रा आयता। यदा च^एवं शीर्येत तत् तोयं घटस्य तदैका नाडिका। एतेन नालिकाप्रमाणेन विभक्ते द्वे नाडिक एको मुहूर्तः। एतेन भो ब्राह्मण त्रिंशन् मुहूर्ताः। यै रात्रिदिवसा अनुमीयन्त इति।

पृ58.1 ततः षोडश निमेषा एका काष्ठा। षोडश काष्ठा एका कला। षष्टिकला एको मुहूर्तः। त्रिंशन्^मुहूर्ता एकम् अहोरात्रम्। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादश^मासाः संवत्सरः।
पृ58.2 एतेन पुनरक्षिनिमेषेण षोडशकोटयोऽष्टपञ्चाशच् च शत^सहस्राणि अष्टाशीति^सहस्राणि स एवं मापितः। तच् च ब्राह्मण कालोत्पत्तिर् व्याख्याता।
%क्रोशयोजन^उत्पत्तिः クローシャ、ヨージャナの発生 58
पृ58.3 सृणु ब्राह्मण क्रोशयोजनानाम् उत्पत्तिं। सप्त परमाणव एकोऽणुर् भवति। सप्ताणवः सर्व^सूक्ष्मं दृस्यते। तद् एकं वातायनरजः। वातायनरजांसि सप्त, शश^करजः। सप्त शश^करजांस्य् एड^करजः। सप्त एड^करजांश्येकं गोरजः। सप्तगोरजांस्य् एका यूका। सप्तयूका एका लिक्षा। सप्तलिक्षा एको यवः। सप्त यवा एकाङ्गुलिः। द्वादशाङ्गुलयो वितस्तिः। द्वे वितस्ती एको हस्तः। चत्वारो हस्ता एकं धनुः। धनुः^सहस्रम् एकः क्रोशः। चत्वारः क्रोशा एको मागधयोजनः। योजनस्य प्रमाणं पिण्डितां।

पृ59.1 परमाणूनां कोटिशत^सहस्राणि चतुर्^विंशतिश् चैकोनत्रिंशत्कोटि^सहस्राणि द्वादश च शत^सहस्राणि। एवं मापितं योजनम् इति।
पृ59.2 शृणु ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिं। तत्कथयतु भवान्।
पृ59.3 द्वादश यवा माषकः। षोडश मासका एकः कर्षः।सुवर्णस्य परिमाणं पिण्डितम् इति। द्वे कोटी पञ्च^विंशतिश् च सहस्राणि पञ्च^शतान्य् अष्टौ च परमाणवः। एवं मापिता ब्राह्मण सुवर्णस्य परिमाण^उत्पत्तिः।
पृ59.4 शृणु ब्राह्मण पलप्रमाणं। चतुःषष्टि^माषकाः पलं मागधकं। मागधकया तुलया पलस्य परिमाणं पिण्डितं। परमाणूनाम् अष्टकोटयः सप्तचत्वारिंशच् च शत^सहस्राणि सप्त च सहस्राणि द्वे शतेऽशीतिश् च परमाणवः। एवं मापितं ब्राह्मण पलस्य परिमाणम् इति।
पृ59.5 शृणु ब्राह्मण रस^परिमाणस्य^उत्पत्तिं। चतुर्^विंशति^पलानि मागधकः। प्रस्थः। तत् रस^परिमाणं। मागधकया तुलया प्रस्थास्य परिमाणं पिण्डितं। द्वे कोटिशते तिस्रश् च कोटय एकोनतिंशच् च शत^सहस्राणि चतुःसप्तति (60) सहस्राणि सप्त च शतानि विंशतिश् च परमाणवः। एवं मापिता ब्राह्मण रस^मानस्य^उत्पत्तिर् इति।

पृ60.1 शृणु ब्राह्मण धान्य^परिमाणस्य^उत्पत्तिं। एकोनत्रिंशति^पलान्य् एक^कर्षेणोनानि मागधः प्रस्थः। मापितं धान्य^परिमाणं। मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितं। कोटिशतम् अष्टपञ्चाशच् च कोटयो द्विर् अशीतिश् च शत सहस्राणि एक^षष्टिश् च सहस्राणि पञ्च^शतानि त्रिंशच् च परमाणवः। एवं मापितं ब्राह्मण धान्यस्य परिमाणम् इति।
%नक्षत्रव्या^करणं 月がそれぞれの星宿に入った時に生まれた人の性格
पृ60.2 पठ भोस् त्रिशङ्को नक्षत्र^व्याकरनं नाम^अध्यायं। अथ खलु भो ब्राह्मण नक्षत्र^व्याकरनं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान्।

पृ61.1 कृत्तिकासु जातो मानवो यशस्वी भवति। रोहिण्यां जातः सुभगो भवति भोगवांश् च। मृगशिरसि जातो युद्धार्थी भवति। आर्द्रायां जात उत्सोऽन्न^पानानां भवति। पुनर्वसौ जातः कृषिमान् भवति गोरक्षश् च। पुष्ये जातः शीलवान् भवति। अश्लेषायां जातः कामुको भवति। मघायां जातो मतिमान् भवति, महा^आत्मा च। पूर्वफल्गुन्यां जातोऽल्प^अयुष्को भवति। उत्तरफल्गुन्यां जात उपवासशीलो भवति, स्वर्गपरायणश् च। हस्ते जातश् चौरो भवति। चित्रायां जातो नृत्यगीतकुशलो भवति, आभरण^विधिज्ञश् च। स्वात्यां जातो गणको भवति, गणक^महामात्रो वा। विशाखायां जातो राज^भटो भवति। अनुराधायां जातो वाणिजको भवति सार्थिकः। ज्येष्ठायां जातोऽल्प^अयुष्को भवति, अल्प^भोगश् च। मूले जातः पुत्रवान् भवति, यशस्वी च। पूर्वाषाढायां जातो योगाचारो भवति। उत्तराषाढायां जातो भक्तेश्वरः कुलीनश् च भवति। अभिजिति जातः कीर्तिमान् पुरुषो भवति। श्रवणे जातो (62) राज^पूजितो भवति। धनिष्ठायां जातो धनाढ्यो भवति। शतभिषायां जातो मूलिको भवति। पूर्वभाद्रपदायां जातश् चौर^सेनापतिर् भवति। उत्तरभाद्रपदायां जातो गन्धिको भवति, गन्धर्वश् च। रेवत्यां जातो नाविको भवति। अश्विन्यां जातोऽश्ववाणिजको भवति। भरण्यां जातो वध्यघातको भवति। अयं भोः पुष्करसारिन् नक्षत्र^व्याकरणो नाम।

%नक्षत्रनिर्देशः 月がそれぞれの星宿に入った時都市が攻略される時の人や民族の性格と運命
पृ62.1 पठ भोस् त्रिशङ्को नक्षत्र^निर्देशं नाम^अध्यायं। अथ भोः पुष्करसारिन् नक्षत्र^निर्देशं नाम^अध्यायं व्याख्यास्यामि तच् छ्रूयतां । कथयतु भवान्।
पृ62.2ab कृत्तिकासु निविष्टं वै नगरं ज्वलति श्रिया।
पृ62.2cd प्रभूरत्नोज्वलं च^एव तन् नगरं विनिर्दिशेत्॥
पृ62.3ab रोहिण्यां तु निविष्टं वै नगरं तद् विनिर्दिशेत्।
पृ62.3cd धार्मिकोऽत्र जनो भूयात् प्रभूत^धन^सञ्चयः।
पृ62.3ef विद्या^प्रकृति^सम्पन्नः स्वदाराभिर् अतोऽपि च॥
पृ62.4ab मृगशीर्षे निविष्टं तु स्त्रीभिर् गोभिर् धनैस् तथा।
पृ62.4cd माल्यभोगैश् च सङ्कीर्णम् अद्भुतैश् च पुरस्कृतं॥

पृ63.1ab आर्द्रायां मत्स्य^मांसानि भक्ष्यभोज्यधनानि च।
पृ63.1cd भवन्ति क्रूरपुरुषा मूर्खप्रकृतयः पुरे॥
पृ63.2ab पुनर्वसौ निविष्टे तु नगरं दीप्यते श्रिया।
पृ63.2cd प्रभूत^धन^धान्यं च भूत्वा वा^अपि विनश्यति॥
पृ63.3ab स्रीमत्पुष्ये निविष्टे तु प्रजा दुष्टा प्रसीदति।
पृ63.3cd युक्ताः श्रिया च धर्मिष्ठास् तथिव चिरजीविनः॥
पृ63.4ab तेजस्विनश् च दीर्घायुर्^धन^धान्य^रसान्विताः।
पृ63.4cd वनस्पतिस् तथा क्षिप्रं पुष्येत् तत्र पुनः पुनः॥
पृ63.5ab अश्लेषायां निविष्टे तु दुर्भगाः कलह^प्रियाः।
पृ63.5cd दुःशीला दुःखभाजश् च निवसन्ति नराधमाः॥
पृ63.6ab मघायां च निविष्टे तु विद्यावन्तो महा^धनाः।
पृ63.6cd स्वदारा^अभिरता मर्त्या जायन्ते सुपराक्रमाः॥

पृ64.1ab फल्गुन्यां तु स्त्रियो माल्यं भोजनाच्छादनं शुभं।
पृ64.1cd गन्धोपेतानि धन्यानि निविष्टे नगरे भवेत्॥
पृ64.2ab उत्तरायां तु फाल्गुन्यां धान्यानि च धनानि च।
पृ64.2cd मूर्खा जना जिताः स्त्रीभिर् निविष्टे नगरे भवेत्॥
पृ64.3ab हस्ते च विनिविष्टे तु विद्यावन्तो महा^धनाः।
पृ64.3cd परस्परं च रुचितं शयनं नगरे भवेत्॥
पृ64.4ab चित्रायां च निविष्टे तु स्त्री^जिताः सर्व^मानवाः।
पृ64.4cd श्रीमत्^कान्तं च नगरं ज्वलन्तं तद् विनिर्दिशेत्॥
पृ64.5ab स्वात्यां पुरे निविष्टे तु प्रभूत^धन^सञ्चयाः।
पृ64.5cd लुब्धाः क्रूराश् च मूर्खाश् च प्रभूता नगरे भवेत्॥
पृ64.6ab विशाखायां निविष्टं तु नगरं ज्वलति श्रिया।
पृ64.6cd यायजूकजनाकीर्णं शस्त्रान्तं च विनिर्दिशेद्॥
पृ64.7ab अनुराधानिविष्टे तु धर्म^शीला जितेन्द्रियाः।
पृ64.7cd स्वदारनिरताः पुण्या जपहोमपरायणाः॥

पृ65.1ab ज्येष्ठायां सन्निविष्टं तु बहु^रत्नधनान्वितैः।
पृ65.1cd सत्त्वैर् वेद^विदैः पूर्णं शश्वत्समभिवर्धते॥
पृ65.2ab मूलेन सनिविष्टं तु पुरं धान्य^धनान्वितं।
पृ65.2cd दुःशीलजन^सङ्कीर्णं पांसुना च विनश्यति॥
पृ65.3ab पूर्वाषाढानिविष्टं तु पुरं स्याद् धन^धान्य^भाक्।
पृ65.3cd लुब्धाः क्रूराश् च मूर्खाश् च निवसन्ति नराधमाः॥
पृ65.4ab निविष्टे तूत्तरायां च धन^धान्य^समुच्चयः।
पृ65.4cd विद्याप्रकृतिसम्पन्नो जनश् च कलह^प्रियः॥
पृ65.5ab अभिजिति निविष्टे तु नगरे तत्र मोदिताः।
पृ65.5cd नराः सर्वे सदा हृष्टाः परस्परानुरागिणः॥
पृ65.6ab श्रवणायां निविष्टं तु पुरं धान्य^धनान्वितं।
पृ65.6cd अरोगिजन^भूयिष्ठसहितं तद् विनिर्दिशेत्॥
पृ65.7ab धनिष्ठायां निविष्टं तु स्त्री^जितं पुरम् आदिशेत्।
पृ65.7cd प्रभूत^वस्त्रमाल्यं च काम^भोग^विविर्जितम्॥
पृ65.8ab पुरे शतभिषा^युक्त मूर्खशाठ्य^प्रिया जहाः।
पृ65.8cd स्त्रीषु पानेषु संसक्ताः सलिलेन विनश्यति॥

पृ66.1ab पुरे प्रोष्ठपदाध्यक्षे नरास् तत्र सुख^प्रियाः।
पृ66.1cd परोपतापिनो मूर्खा मानकामविवर्जिताः॥
पृ66.2ab उत्तरायां निविष्टे तु शश्वद्वृद्धिर् अनुत्तरा।
पृ66.2cd पूर्णं च धन^धान्याभ्यां रत्नाढ्यं च विनिर्दिशेत्॥
पृ66.3ab पुरे निविष्टे रैवत्यां सुन्दरी जनता भवेत्।
पृ66.3cd खरोष्ट्रं च^एव गावश् च प्रभूत^धन^धान्यता॥
पृ66.4ab अश्विन्यां विनिविष्टं तु नगरं शिवम् आदिशेत्।
पृ66.4cd अरोगिजन^सम्पूर्णं दर्शनीयजनाकुलम्॥
पृ66.5ab भरण्यां सन्निविष्टे तु दुर्भगाः कलह^प्रियाः।
पृ66.5cd दुःशीला दुःखभाजश् च वसन्ति पुरुषाधमाः॥
पृ66.6ab पुराणि राष्ट्रणि तथा गृहाणि नक्षत्र^योगं प्रसमीक्ष्य विद्वान्।
पृ66.6cd इष्टे प्रशस्ते च निवेशयेत् तु पूर्वे च जन्मेऽधिगतं मयेदं॥

पृ67.1 अयं भोः पुष्करसारिन् नक्षत्र^निर्देशो नाम^अध्यायः।
%नक्षत्राणां स्थान^निर्देशः それぞれの星宿に支配される国や地方のリスト(方位との関係付けはない。)
पृ67.2 अथ खलु भोः पुष्करसारिन्न् अष्टाविंशतीनां(28宿) नक्षत्राणां स्थान^निर्देशं नाम^अध्यायं प्रवक्ष्यामि। एतच् छ्रूयतां।
पृ67.3 कथयतु भगवान्।
पृ67.4 कृत्तिका भोः पुष्करसारिन् नक्षत्रं कलिङ्ग^मगधानां । रोहिणी सर्व^प्रजायाः। मृगशिरा विदेहानां राजोपसेवकानां च। एवम् आर्द्रा क्षत्रियाणां ब्राह्मणानं च। पुनर्वसुः सौपर्णानां। पुष्य^नक्षत्रं सर्वेषाम् अवदात^वदात^वसनानां। राज^पदसेवकानां च। अश्लेषा नागानां हैमवतानां च। मघा^नक्षत्रं गौडिकानां। पूर्वफल्गुनी चौराणां। उत्तरफल्गुनी अवन्तीनां। हस्ता सौराष्ट्रिकाणां। चित्रा पक्षिणां द्विपदानां। स्वाती सर्वेषां प्रव्रज्यासमापन्नानां। विशाखा औदकानां। अनुराधा वाणिजकानां शाकटिकानां च। ज्येष्ठा दौवालिकानां। (68) मूला पथिकानां। पूर्वाषाढा वाह्लीकानां च। उत्तराषाढा काम्बोजानां। अभिजित् सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च। श्रवणा घादकानां चौराणां च। धनिष्ठा कुरु^पाञ्चालानां। शतभिषा मौलिकानाम् आर्थवणिकानां च। पूर्वभाद्रपदा गन्धिकानां यवन^काम्बोजानां च। उत्तरभाद्रपदा गन्धर्वाणां। रेवती नाविकानां च। अश्विनी अश्ववाणिजानां च। भरणी भद्रपदकर्मणां भद्रकायाकानां च।

पृ68.1 अयं भोः पुष्करसारिन् नक्षत्राणां स्थान^निर्देश^व्याकरणो नाम^अध्यायः।
%ऋतुवर्षः 月がそれぞれの星宿に入った時に夏(ग्राष्म)の最後の月に初雨があった時の国への影響
पृ68.2 पठ भोस् त्रिशङ्को ऋतुवर्षं नाम^अध्यायं। तद् अहं वक्ष्ये श्रूयतां। कथयतु भगवान्।
पृ68.3 कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। वर्षो दश^रात्रिकः। श्रवणायुक्तप्रोष्ठपदायाम् अग्नोदको वर्षारात्रो भवति। पश्चाद् वर्षं संजनयति। हेमन्ते ग्रीष्मे ग्रीणि च^अत्र (69) भय^प्रग्रहाणि भवन्ति। अग्नि^भयं शस्त्र^भयं च^उदक^भयं च भवति। उक्तं कृत्तिकासु।

पृ69.1 रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति। द्वौ च^अत्र रोगौ प्रबलौ भवतः। कुक्षिरोगश् चक्षूरोगश् च। चौर^बहुलाश् च^अत्र दिशो भवन्ति। उक्तं च रोहिण्यां।
पृ69.2 मृगशिरसि ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। सारोपरोधो वर्षारात्रः। पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् च^अत्र (70) राजानो भवन्ति। क्षेमिणः सुनीतिकाश् च दिशो भवन्ति। मुदिताश् च^अत्र जनपदा भवन्ति। उक्तं मृगशिरसि।

पृ70.1 आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टादशाढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। निधयश् च रक्षयितव्याः। चौर^बहुलाश् च^अत्र दिशो भवन्ति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। त्रयश् च^अत्र रोगाः प्रबला भवन्ति। ज्वरः श्वासो गलग्रहश् च। बालानां दारकदारिकाणां च मरणं भवति। इत्य् उक्तम् आर्द्रायां।
पृ70.2 पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति। नवत्याढकानि प्रवर्षति। महा^मेघान् उत्पादयति। आषाढायां प्रविष्टायां मृदूनि प्रवर्षति। अनन्तरं च निरन्तरेण प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। उक्तं पुनर्वसौ।

पृ71.1 पुष्ये ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति द्वात्रिंशदाढकानि प्रवर्षति। अत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। व्यक्तं प्रधान^वर्षाणि भवन्ति। सस्यं च निष्पादयति। ब्राह्मण^क्षत्रियाणां च विरोधो भवति। दंष्ट्रिणश् च^अत्र प्रबला भवन्ति। तत्र त्रयो रोगाश् च भवन्ति। गण्डाः पिटकाः पामानि च । इत्य् उक्तं पुष्ये।
पृ71.2 अश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। विषमाश् च वायवो वान्ति। संविग्नाश् च^अत्र ज्ञानिनो राजानश् च भवन्ति। एषो वर्षः सर्व^सस्यानि सम्पादयति। जायापतिकानां राजामात्यानां च विरोधो भवति। उक्तम् अश्लेषायां।
पृ71.3 मघायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि (72) प्रवर्षति। एषो वर्षः सर्व^सस्यानि सम्पादयति। मृगपक्षिपशुमनुष्याणां च^अत्र गर्भा विनश्यन्ति। जन^मरणं च^अत्र भविष्यति^इति। उक्तं मघायां।

पृ72.1 पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। एषो वर्षः सर्व^सस्यानि सम्पादयति। तच् च सस्यं जनयित्वा पर^चक्र^पीडिता मनुष्या न सुखेनोपभुञ्जते। पशूनां मणुष्याणां च^अत्र गर्भाः सुखिनो भवन्ति। उक्तं पूर्वफल्गुन्यां।
पृ72.2 उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि प्रवर्षति। एषो वर्षः सर्व^सस्यानि च सम्पादयति। निक्षिप्तशस्त्राश् च^अत्र राजानो भवन्ति। ब्रह्म^क्षत्रिययोश् च विरोधो भवति। क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति। च^उक्तम् उत्तरफल्गुन्यां।
पृ72.3 हस्ते ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकोनपञ्चाशदाढकानि (73) प्रवर्षति। देवश् च तद् यथा परिक्षिपति। पतितानि च सस्यानि जनस्यारसाग्राणि अनुदग्राणि अल्प^साराण्य् अल्पोदकानि। दुर्भिक्षश् च^अत्र भविष्यति। उक्तं हस्ते।

पृ73.1 चित्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। सारोपरोधस् ततः पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। मुदिताश् च^अत्र जनपदा भवन्ति। उक्तं चित्रायां।
पृ73.2 स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। चौराश् च^अत्र बलवत्तरा भवन्ति। उक्तं स्वात्यां।
पृ73.3 विशाखायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि (74) प्रवर्षति। एषा वर्षः सर्व^सस्यानि सम्पादयति। राजानश् च^अत्र छिद्र^युक्ता भवन्ति। अग्निदाहाश् च^अत्र प्रबला भवन्ति। दंष्ट्रिणश् च^अत्र बलवन्तोऽपि क्षयं गच्छन्ति। उक्तं विशाखायां।

पृ74.1 अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। मित्राणि च^अत्र दृढानि भवन्ति। उक्तम् अनुराधायां।
पृ74.2 ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि प्रवर्षति। तत्र कृषि^कर्मान् तानि प्रतिसंहर्तव्यानि। युगवरत्राणि वर्जयितव्यानि। स्वधान्यानि उपसंहर्तव्यानि। अग्नयः प्रतिसंहर्तव्याः। लाङ्गलानि प्रतिसंहर्तव्यानि। अवश्यम् अनेन जनपदेन विनष्टव्यं भवति। पर^चक्र^पीडितो भवति। उक्तं ज्येष्ठायां।
पृ74.3 मूले ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुषष्ट्याढकानि (75) प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। चौर^बहुलाश् च^अत्र दिशो भवन्ति। त्रयश् च^अत्र व्याधयो बलवन्तो भवन्ति। वात^गण्डः पार्श्वशूलम् अक्षिरोगश् च। पुष्प^फलानि च^अत्र समृद्धानि भवन्ति। निक्षिप्तशस्त्राश् च^अत्र राजानो भवन्ति। उक्तं मूले।

पृ75.1 पूर्वस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। द्वौ च^अत्र ग्राहौ भवतः । प्रोष्ठपदे वाऽश्वयुजौ वा पक्षे। एषो वर्षः सर्व^सस्यानि सम्पादयति। द्वौ च^अत्र रोगौ प्रबलौ भवतः। कुक्षिरोगोऽक्षिरोगश् च । उक्तं पूर्वाषाढायां।
पृ75.2 उत्तरस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि परिवर्जयितव्यानि। महा^स्रोतांसि च^अत्र प्रवहन्ति। अग्रोदका च^अत्र वर्षा भवति। सर्व^सस्यानि निष्पादयति। त्रयश् च^अत्र रोगाः प्रबला भवन्ति। गण्डः कच्छः कण्ठ^रोग इति। उक्तम् उत्तराषाढायाम्॥
पृ75.3 अभिजिति ग्रीष्माणां पश्चिमे मासे यद्य् अत्र प्रवर्षति चतुःषष्ट्य्^आढाकानि (76) प्रवर्षति। मण्डलवर्षं च देवः प्रवर्षति। पश्चाद् वर्षः सस्यं जनयति। औदकानां भूतानाम् उत्सर्गो भवति। उक्तम् अभिजिति।

पृ76.1 श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुष्षष्ट्याढकानि प्रवर्षति। मण्डलवर्षं च देवो वर्षति। पश्चाद् वर्षा सस्यं सम्पादयति। औदकानां भूतानाम् उत्सर्गो भवति। व्याधि^बहुलाश् च नरा भवन्ति। राजानश् च तीव्र^दण्डा भवन्ति। उक्तं श्रवणे।
पृ76.2 धनिष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^पञ्चाशदाढकानि प्रवर्षति। विभक्ताश् च^अत्र वर्षा भवन्ति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। दुर्मुखो रात्रौ वर्षो भवति। सस्यानि सम्पादयति। एकश् च^अत्र रोगो भवति। गण्ड^विकारः। शस्त्र^समादानाश् च राजानो भवन्ति। उक्तं धनिष्ठायां।
पृ76.3 शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि (77) प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषो वर्षः सर्व^सस्यानि सम्पादयति। चक्र^समारूढा जनपदा भवन्ति। मनुष्या दारकदारिकाश् च स्कन्धे कृत्वा देश^अन्तरं गच्छन्ति। उक्तं शतभिषायं।

पृ77.1 पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति। वर्षामुखे च^अत्र एकोनविंशति रात्रिकोऽवग्रहो भवति। पुष्प^सस्यं च नाशयति। एताश् च वर्षा बहु^चौरा भवन्ति। द्वौ च^अत्र महा^व्याधी भवतः। प्रथमं पित्ततापज्वरो भवति। पश्चाद् बलवान् महा^ग्रहो भवति। मर्त्यानां नारीणां च मरणं भवति। उक्तं पूर्वभाद्रपदायां।
पृ77.2 उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। महा^स्रोतांसि प्रवहन्ति। ग्राम^नगर^निगमाः स्रोतसा उह्यन्ते। चत्वारश् च^अत्र व्याधयः प्रबला भवन्ति। तद् यथा कुक्षिरोगोऽक्षिरोगः (78) काशो ज्वरश् चेति। बालानां दारकदारिकाणां मरणां भवति। अत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि परिवर्जयितव्यानि। एताश् च वर्षाः पुष्पाणि फलानि च सम्पादयन्ति। उक्तम् उत्तरभाद्रपदायां।

पृ78.1 रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^षष्ट्याढकानि प्रवर्षति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा परिभुञ्जते। निक्षिप्तशस्त्र^दण्डाश् च राजानो भवन्ति। अनुद्विग्नाश् च जनपदा भवन्ति। उद्विग्नाश् च दानपतयो भवन्ति। देव^नक्षत्र^समायुक्ताश् च जनपदा भवन्ति। मित्राणि समायुक्तानि भवन्ति। उक्तं रेवत्यां।
पृ78.2 अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टचत्वारिंशदाढकानि प्रवर्षति। यच् च मध्ये वर्षा भवति। तत्र निम्नानि कृषि^कर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा वर्षा सर्व^सस्यानि सम्पादयति। (79) भय^समायुक्ताश् च^अत्र जनपदा भवन्ति। चौराश् च प्रबला भवन्ति। उक्तम् अश्विन्यां।

पृ79.1 भरण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषि^कर्तव्यानि। निम्नानि परिवर्जयितव्यानि। दुर्भिक्षस् च^अत्र भवति। जरामरणं जनानां भवति। राजानश् च^अत्र अन्योन्यघातका भवन्ति। पुत्रपौत्राणां च कलहो भवति। उक्तं भरण्यां।
पृ79.2 अयं घोः पुष्करसारिन् नक्षत्र^र्तुवर्षाध्यायः॥
% राहुग्रहे फलविपाकः それぞれの星宿での月食が何を起こすか
पृ79.3 अमीषां भोः पुष्करसारिन्न् अश्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि।
पृ79.4 कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्र^ग्रहो भवति कलिङ्गमगधानाम् उपपीडा भवति। यदि रोहिण्यां चन्द्र^ग्रहो भवति प्रजानाम् उपपीडा भवति। यदि मृगशिरसि चन्द्र^ग्रहो भवति विदेहानां जनपदानाम् उपपीडा भवति। राजोपसेवकनां च। एवम् आर्द्रायां पुनर्वसौ पुष्ये च वक्तव्यं। अश्लेषायां यदि चन्द्र^ग्रहो भवति नागानां हैमवतानां च पीडा भवति। यदि मघासु चन्द्र^ग्रहो भवति गौडिकानाम् उपपीडा भवति। यदि पूर्वफल्गुन्यां सोमो गृह्यते चौराणाम् उपपीडा (80) भवति। यद्य् उत्तरफल्गुन्यां सोमो गृह्यतेऽवन्तीनाम् उपपीडा भवति। यदि हस्तेषु सोमो गृह्यते सौराष्ट्रिकाणाम् उपपीडा भवति। यदि चित्रायां सोमो गृह्यते पक्षिणां द्विपदानां च पीडा भवति। यदि स्वात्यां सोमो गृह्यते सर्वेषां प्रव्रज्यासमापन्नानाम् उपपीडा भवति। यद्य् अनुराधासु सोमो गृह्यते वणिजानाम् उपपीडा भवति शाकटिकानां च। यदि ज्येष्ठायां सोमो गृह्यते दौवालिकानां पीडा भवति। यदि मूले सोमो गृह्यतेऽध्वगानां पीडा भवति। यदि पूर्वाषाढायां सोमो गृह्यतेऽवन्तीनां पीडा भवति। यद्य् उत्तराषाढायां सोमो गृह्यते काम्बोजकानां पीडा भवति। बाह्लीकानां च। यद्य् अभिजिति सोमो गृह्यते दक्षिणापथिकानां पीडा भवति। ताम्रपर्णिकानां च। यदि श्रवणेषु सोमो गृह्यते चौराणां घातकानां च^उपपीडा भवति। यदि धनिष्ठायां सोमो गृह्यते कुरुपाञ्चालनां पीडा भवति। यदि शतभिषायां सोमो गृह्यते मौलिकानाम् आथर्वणिकानां च पीडा भवति। यदि पूर्वभाद्रपदायां सोमो गृह्यते गान्धिकानां यवन^काम्बोजकानां च पीडा भवति। यद्य् उत्तरभाद्रपदायां सोमो गृह्यते (81) गन्धर्वाणां पीडा भवति। यदि रेवत्यां सोमो गृह्यते नाविकानां पीडा भवति। यद्य् अश्च्विणिजानां पीडा भवति। यदि भरण्यां सोमो गृह्यते भरुकच्छानां पीडा भवति।

पृ81.1 एवं भोः पुष्करसारिन् नक्षत्रे चन्द्र^ग्रहो भवति तस्य तस्य देशस्य पीडा भवति। इत्य् उक्तो राहुग्रहफलविपाकाध्यायः।
% नक्षत्रकर्म^निर्देशः 月がそれぞれの星宿に入った時に行うべき仕事
पृ81.2 प्रति^नक्षत्र^वंशशास्त्रे यथोक्तं कर्म तच् छृणु।
पृ81.3ab उच्यमानम् इदं विप्र;ऋषीणां वचनं यथा।
पृ81.3cd षट्तारां कृत्तिकां विद्याद् आश्रयं तासु कारयेत्।
पृ81.3ef अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश् च यः॥
पृ81.4ab सर्पिर्विलोडयेत् तत्र गवां वेश्म च कारयेत्।
पृ81.4cd अजैडकाश् च क्रेतव्या गवां च वृषम् उत्सृजेत्॥
पृ81.5ab अश्मसारमयं भाण्डं सर्वम् अत्र तु कारयेत्।
पृ81.5cd हिरण्यकारकर्म^अन्तमिष्व् अस्त्रं च^उपकारयेत्॥
पृ81.6ab मेतृको मापयेद् अत्र कुटिकाग्निनिवेशनं।
पृ81.6cd पीतलोहित^पुष्पाणां बीजान्य् अत्र तु घापयेत्॥

पृ82.1ab गृहं च मापयेत् अत्र तथाऽवासं प्रकल्पयेत्।
पृ82.1cd नवं च छादयेद् वस्त्रं क्रयणं न^अत्र कारयेत्॥
पृ82.2ab क्रूरकर्माणि सिध्यन्ति युद्धसंरोधबन्धनम्।
पृ82.2cd परपीडाम् अथात्रैव विद्वान् नैव प्रयोजयेत्॥
पृ82.3ab शस्त्राणि क्षुरकर्माणि सर्वाण्य् अत्र तु कारयेत्।
पृ82.3cd तेजसानि च भाण्डानि कारयेच् च क्रीणीत च॥
पृ82.4ab आयुष्यं च शिरः^स्नानां स्त्रीणां विष्कम्भणानि च।
पृ82.4cd प्रवर्षणं चेद् देवस्य न^अत्र वैरं प्रशाम्यति॥
पृ82.5ab क्रोधनो हर्षणः शूरस् तेजस्वी साहस^प्रियः।
पृ82.5cd आयुष्मांश् च यशस्वी च यज्ञ^शीलोऽत्र जायते॥कृत्तिकासु
पृ82.6ab सर्वं कृषि^पदं कर्म रोहिण्यां संप्रयोजयेत्।
पृ82.6cd क्षेत्रवस्तुविहारांश् च नवं वेश्म च कारयेत्॥
पृ82.7ab प्रयोजयेच् चक्रान् वारान् दासांश् च^एव गृहे पशून्।
पृ82.7cd वापयेत् सर्वबीजानि ध्रुवं वासांसि कारयेत्॥

पृ83.1ab ऋणं न दद्यात् तत्र^एव वैरम् अत्र तु वर्धते।
पृ83.1cd संग्रामं च सुरायोगं द्वयम् एव विवर्जयेत्॥
पृ83.2ab प्रवर्षणं च देवस्य जन्म च^अत्र प्रशस्यते।
पृ83.2cd सानुक्रोशः क्षमायुक्तः स्त्री^कामो भक्षलोलुपः।
पृ83.2ef आयुष्मान् पशुमान् धन्यो महा^भोगोऽत्र जायते॥रोहिण्यां॥
पृ83.3ab सौम्यं मृगशिरो विद्याद् ऋजु तिस्रश् च तारकाः।
पृ83.3cd मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत्।
पृ83.3ef यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत्॥
पृ83.3ab सक्षीरान् वापयेद् वृक्षान् बीजानि क्षीरवन्ति च।
पृ83.3cd राज^प्रासादवलभीछत्राण्य् अपि च कारयेत्॥
पृ83.4ab सर्वकर्मकथाः कुर्याच् चर्यावासान् न कारयेत्।
पृ83.4cd उष्ट्रांश् च बलीवर्दांश् च दमयेद् अपि कृष्टये॥
पृ83.5ab आच्छादयेन् नवं वासश् च^अलङ्कारं च कारयेत्।
पृ83.5cd द्विजातीनां तु कर्माणि सर्वाण्य् एवात्र कारयेत्॥
पृ83.6ab प्रवर्षणं च देवस्य सुवृष्टिं च^अत्र निर्दिशेत्।
पृ83.6cd स्वप्नशीलस् तथा त्रासी मेधावी स च जायते॥मृगशिरसि॥

पृ84.1ab आर्द्रायां मृगयेद् अर्थान् भद्रं कर्म च कारयेत्।
पृ84.1cd क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत्॥
पृ84.2ab उदपान^परीखांश् च तडागान्य् अत्र कारयेत्।
पृ84.2cd ऊहेत(ऊहयेत्) प्रथमां वृष्टिं विक्रीणीयाच् च न^अत्र गां।
पृ84.2ef तिल^पीडानि कर्माणि शौण्डिकानां तथापणं॥
पृ84.3ab पीडयेद् इक्षुदण्डानि; इक्षुबीजानि वापयेत्।
पृ84.3cd प्रवर्षणं च देवस्य विद्याद् बहु^परिस्रवं।
पृ84.3ef क्रोधनो मृगयाशीलो माम्सकामोऽत्र जायते॥आर्द्रायां॥
पृ84.4ab पुनर्वसौ तु युक्तेऽत्र कुर्याद् वै व्रत^धारणं।
पृ84.4cd गोदानं च^उपनायनं सर्वम् अत्र प्रसिध्यति॥
पृ84.5ab प्रजायमानां प्रमदां गृहीत्वा गृहम् आनयेत्।
पृ84.5cd पुनः पुनर् यदीच्छेत तत्र कर्माणि कारयेत्॥

पृ85.1ab चिकित्सनं न कुर्वीत यदीच्छेन् न पराभवं।
पृ85.1cd प्रवर्षणं च देवस्य जन्म च^अत्र प्रशस्यते॥
पृ85.2ab अलीलश् च^अत्र जायेत स्त्री^लोलश् च^अपि मानवः।
पृ85.2cd चित्र^शीलश् च नैकत्रार्पितचित्तः स; उच्यते॥पुनर्वसौ॥
पृ85.3ab धन्यं यशस्यम् आयुष्यं पुष्ये नित्यं प्रयोजयेत्।
पृ85.3cd सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
पृ85.4ab राजामात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत्।
पृ85.4cd राजानम् अभिपिञ्चेद् च; अलंकुर्यात् स्वकां तनु॥
पृ85.5ab श्मश्रुकर्माणि कुर्याच् च वपनं नखलोमतः।
पृ85.5cd पुरोहितं च कुर्वीत ध्वज^अग्रं च प्रकारयेत्॥
पृ85.6ab प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत्।
पृ85.6cd न च रोगो न चौरश् च क्षेमं च^अत्र सदा भवेत्॥
पृ85.7ab पुष्येण नित्य^युक्तः सन् सर्वकर्माणि साधयेत्।
पृ85.7cd वैरेणात्रोपनाहैश् च ये जनास् तान् विवर्जयेत्।
पृ85.7ef आयुष्मांश् च यशस्वी च महा^भोगः प्रजायते॥पुष्ये॥

पृ86.1ab सिध्यते दारुणं कर्म; अश्लेषायां च कारयेत्।
पृ86.1cd कुर्याद् आभरणान्य् अत्र प्राकारम् उपकल्पयेत्॥
पृ86.2ab देहबन्धं नदी^बन्धं सन्धिकर्म च कारयेत्।
पृ86.2cd प्रभूत^दंशमशकं वर्षं मन्दं च वर्षति।
पृ86.2ef क्रोधनः स्वप्नशीलश् च कुहकश् च^अत्र जायते॥अश्लेषायां॥
पृ86.3ab मघासु सर्वधान्यानि वापयेत् संहरेद् अपि।
पृ86.3cd संघातकर्म कुर्वीत सुमुखं च^अत्र कारयेत्॥
पृ86.4ab कोष्ठ^आगाराणि कुर्वीत फलं च^अत्र निवेशयत्।
पृ86.4cd सर्वदा पितृदेवेभ्यः श्राद्धं चैव^अत्र कारयेत्॥
पृ86.5ab सस्यानां बहुली^भावो यदि देवोऽत्र वर्षति।
पृ86.5cd सुहृच् च द्वारिकश् च^एव रस^कामश् च जायते।
पृ86.5ef आयुष्मान् बहु^पुत्रश् च स्त्री^कामो भक्त^लोलुपः॥
पृ86.6ab संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तते।
पृ86.6cd दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत्॥मघासु॥

पृ87.1ab फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत्।
पृ87.1cd विशेषाद् आमलक्यादि फलानाम् उपकारयेत्॥
पृ87.2ab कुमारीमङ्गलार्थानि स्नापनानि च कारयेत्।
पृ87.2cd कन्या^प्रवहनार्थाय विहारं च^एव कारयेत्॥
पृ87.3ab वेश्मानि कारयेत् तत्र वश्य(वैश्य)म् अत्र प्रयोजयेत्।
पृ87.3cd भागं ये च^उपजीवन्ति तेषां कर्म प्रयोजयेत्॥
पृ87.4ab अव्यक्तकेशोऽकेशः सुभगश् च^अत्र जायते।
पृ87.4cd प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
पृ87.4ef नष्टं विद्धं कृतं च^अपि न तद् अस्ति^इति निर्दिशेत्॥पूर्वफल्गुन्यां॥
पृ87.5ab उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत्।
पृ87.5cd मेधावी दर्शनीयश् च यशस्वी च^अत्र जायते॥
पृ87.6ab अथात्र नष्टं दग्धं वा सर्वम् अस्ति^इति निर्दिशेत्।
पृ87.6cd प्रवर्षणं च देवस्य विद्यात् संपदनुत्तमां॥उत्तरफल्गुन्यां॥

पृ88.1ab हस्तेन लघु^कर्माणि सर्वाण्य् एव प्रयोजयेत्।
पृ88.1cd सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
पृ88.2ab हस्त्यारोहं महा^मात्रं पुष्करिणीं च कारयेत्।
पृ88.2cd चौर्यं च सिध्यते तत्र तच् च विद्वान् विवर्जयेत्॥
पृ88.3ab प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत्।
पृ88.3cd अथात्र जातं जानीयाच् छूरं चौरं विचक्षणं।
पृ88.3ef कुशलं सर्वविद्यासु; आरोगं चिरजीविनं॥हस्ते॥
पृ88.4ab चित्रायाम् आहतं वस्त्रं भूषणानि च कारयेत्।
पृ88.4cd राजानं भूषितं पश्येत् सेनाव्यूहं च दर्शयेत्॥
पृ88.5ab हिरण्यं रजतं द्रव्यं नगराणि च मापयेत्।
पृ88.5cd अलङ्कुर्यात् तथात्मानं गन्ध^माल्यविलेपनैः॥
पृ88.6ab गणकानां च विद्यां च वाद्यं नर्तनगायनं।
पृ88.6cd पूर्विकां रूपकारांश् च रथकारांश् च शिक्षयेत्।
पृ88.6ef चित्र^करांश् च लेखकान् पुस्तकर्म च कारयेत्॥

पृ89.1ab प्रवर्षणं च देवस्य चित्र^वर्षं विनिर्दिशेत्।
पृ89.1cd मेधावी दर्शनीयश् च चित्राक्षो भक्त^लोलुपः॥
पृ89.2ab मृदु^शीलश् च भीरुश् च चलचित्तः कुतूहली।
पृ89.2cd आयुष्मान् सुभगश् च^एव स्त्री^लोलश् च^अत्र जायते॥चित्रायां॥
पृ89.3ab स्वात्यां प्रयोजयेद् योधान् अश्वान् अश्वतरीं खरान्।
पृ89.3cd क्षिप्रं गमनीयं भक्ष्यं लङ्घकान् अध्वमानिकान्॥
पृ89.4ab भेरीमृदङ्गपणवान् मुरजान् च^उपनाहयेत्।
पृ89.4cd आवाहंश् च विवाहंश् च सौहृद्यं च^अत्र कारयेत्॥
पृ89.5ab निर्वासनम् अमित्राणां स्वयं न प्रवसेद् गृहात्।
पृ89.5cd प्रवर्षणं च देवस्य वात^वृष्टिर् अभीक्ष्णशः।
पृ89.5ef मेधावी रोग^बहुलश् चलचित्तश् च जायते॥स्वातौ॥
पृ89.6ab लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत्।
पृ89.6cd यवगोधूमकर्म^अन्तान् शमीधान्यं च वर्जयेत्॥
पृ89.7ab शालयस् तिल^माषाश् च ये च वृक्षाः सुशाखिनः।

पृ90.1ab रोपयेत् तान् विशाखासु गृहकर्म च कारयेत्।
पृ90.1cd शिरः^स्नानानि कुर्वीत मेध्यं प्रायश् च कारयेत्॥
पृ90.2ab प्रवर्षणं च देवस्य विद्यात् कल्प^परिस्रवं।
पृ90.2cd मनस्वी दर्शनीयश् च मेधावी च^अत्र जायते।
पृ90.2ef क्रोधनोऽल्पसुतश् च^एव दुर्भगो भक्त^लोलुपः॥विशाखासु॥
पृ90.3ab अनुराधासु कुर्वीत मित्रैः सद्भिश् च सङ्गतिं।
पृ90.3cd सर्वाणि मृदु^कर्माणि माधुर्यं च^अत्र कारयेत्॥
पृ90.4ab क्षौरं च कारयेत् अत्र शस्त्र^कर्माणि कारयेत्।
पृ90.4cd संयुक्तान्तप्रयोगांश् च सन्धिं कुर्याच् च नित्यशः।
पृ90.4ef नष्टं पर्युपतप्तं वा स्वल्पायसेन(यासंवि)निर्दिशेत्॥
पृ90.5ab सुहृन्मित्रकृतश् च^अत्र धर्म^शीलश् च जायते।
पृ90.5cd प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥अनुराधायां॥
पृ90.6ab ज्येष्ठायां पूर्व^कारी स्याद् राजानं च^अभिषिञ्चयेत्।
पृ90.6cd नगरं निगमं ग्रामं मापयेद् आरभेत च।
पृ90.6ef क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत्॥

पृ91.1ab भ्रातृणां भवति ज्येष्ठो ज्येष्टायां योऽभिजायते।
पृ91.1cd आयुष्मांश् च यशस्वी च विद्वत्सु च कुतूहली॥
पृ91.2ab प्रासादम् आरोहेच् च^अत्र गजम् अश्वं रथं तथा।
पृ91.2cd ग्राम^निगमराष्ट्रेषु स्थापयेच् छ्रेष्ठिनां बलं॥
पृ91.3ab नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत्।
पृ91.3cd दारुणान्य् अत्र सिध्यन्ति तानि विद्वान् विवर्जयेत्।
पृ91.3ef प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥ज्येष्ठायां॥
पृ91.4ab मूले तु मूलजातानि मूलकन्दालुकान्य् अपि।
पृ91.4cd सूलाद्यानि च सर्वाणि बीजान्य् अत्र प्रयोजयेत्॥
पृ91.5ab ऋणं वै यत् पुराणं स्याद् अर्थो च^अस्याग्रतः स्थितः।
पृ91.5cd मूले सिद्धर्थम् आरभ्यं तथा सर्वं वराङ्गकं॥
पृ91.6ab चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः।
पृ91.6cd नदीषु स्नपनं च^एव मूले सर्वान् प्रयोजयेत्॥

पृ92.1ab दारुणान्य् अत्र सिध्यन्ति मङ्गलानि च कारयेत्।
पृ92.1cd किण्वयोगान् सुरायोगान् न कुर्याच् छत्रुभिः सह॥
पृ92.2ab धन^वान् बहु^पुत्रश् च मूलवान् अत्र जायते।
पृ92.2cd अथात्र नष्टं दग्धं वा नैतद् अस्ति^इति निर्दिशेत्।
पृ92.2ef प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥मूले॥
पृ92.3ab आषाढायां च पूर्वस्यां सरितश् च सरांसि च।
पृ92.3cd वापीकूपप्रपाश् च^एव तडागानि च कारयेत्॥
पृ92.4ab उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च।
पृ92.4cd आरामांश् च प्रकुर्वीत भैक्षकांश् च प्रयोजयेत्।
पृ92.4ef यानि च^उग्राणि कर्माणि सिध्यन्त्य् अत्र तु तानि च॥
पृ92.5ab नष्टं पर्युपतप्तं वा नैतद् अस्ति^इति निर्दिशेत्।
पृ92.5cd आयुष्मान् पुण्यशीलश् च दर्शनीयोऽत्र जायते॥पूर्वाषाढे॥
पृ92.6ab उत्तरस्याम् आषाढायां वैराणि न समाचरेत्।
पृ92.6cd वाययेत् सर्ववासांसि नवं नाच्छादयेद् इति॥

पृ93.1ab न संहरेद् भेदयेद् वा वास्तुकर्म न सिध्यति।
पृ93.1cd शालाकर्म गव^आदीनां ग्रामे ग्रामणिनस् तथा।
पृ93.1च् श्रेणविन्धं च राजा नु समयं च^अत्र कारयेत्॥
पृ93.2ab प्रगल्भश् च सभाशीलः कृती च^अत्र प्रजायते।
पृ93.2cd सुहृदाम् अभियोगी च मन्त्र^भाष्ये विचक्षणः॥
पृ93.3ab नष्टं वा^अप्य् उपतप्तं वा; अस्तीत्य् एवं विनिर्दिशेत्।
पृ93.3cd प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तराषाढायां॥
पृ93.4 अभिजिति न कुर्वीत ब्रह्म^देवस्य ह्य् अर्चनं॥अभिजिति॥%ひどく簡単、追加では?
पृ93.5ab श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः।
पृ93.5cd गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति॥
पृ93.6ab कर्णयोर् वेधनं कुर्याद् राजानं च^अभिषिञ्चयेत्।
पृ93.6cd द्विजातीनां तु कर्माणि सर्वाण्य् एव प्रयोजयेत्॥

पृ94.7ab बलि^कृत्यानि कुर्वीत दर्शयेच् च बलान्य् अपि।
पृ94.7cd मेधावी अरोगी बलवान् यज्ञ^शीलोऽत्र जायते॥
पृ94.8ab प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
पृ94.8cd नष्टं च लभ्यते तत्र श्रवनस्थे निशाकरे॥श्रवणे॥
पृ94.9ab धनिष्ठा लघु नक्षत्रं सर्वकर्मसु पूजितं।
पृ94.9cd अधीत्य ब्राह्मणः स्नायाद् राजानम् अभिषिञ्चयेत्॥
पृ94.10ab सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्।
पृ94.10cd श्रेष्ठिनं स्थापयेद् देशे गणाध्यक्षं गणेश्व् अपि॥
पृ94.11ab मेधावी च यशस्वी च महा^भोगी महा^धनः॥
पृ94.11cd बह्व्^अपत्यो मृदुर् दान्तो महा^आत्मा च^अत्र जायते।
पृ94.11च् प्रवर्षणं च देवस्य विद्याच् च^अत्र सुवृष्टितां॥धनिष्ठायां॥
पृ94.12ab नित्यं शतभिषायोगे भैषज्यानि प्रयोजयेत्।
पृ94.12cd कीर्तिकर्म च कुर्वीत सिध्यन्त्य् आथर्वणानि च॥
पृ94.13ab प्रसारयेच् च पण्यानि शौण्डिकं च प्रयोजयेत्।
पृ94.13cd अदधिं खानायेत् तत्र तिल^माषांश् च वापयेत्॥

पृ95.1ab (95)सामुद्रिकाणि पण्याणि नाविनश् च प्रयोजयेत्।
पृ95.1cd आदेयं च तदाऽदद्याद् व्ययं च^अत्र न कारयेत्॥
पृ95.2ab सन्धिपालान् द्वार^पालांल् लेखकांश् च प्रयोजयेत्।
पृ95.2cd भिषक्कर्म च कुर्वीत भैषज्यानि च संहरेत्॥
पृ95.3ab निधिं वा खानयेत् तत्र निदध्याद् अपि वा निधिं।
पृ95.3cd धनं च^अत्र प्रयुञ्जीत भिषक्कर्म च शिक्षयेत्॥
पृ95.4ab अथात्र मृगयेन् नष्टं लभ्यते तच् चिराद् अपि।
पृ95.4cd अरोगी क्रोधनश् च^अत्र स्वप्नशीलश् च जायते।
पृ95.4ef प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥शतभिषायां॥
पृ95.5ab पूर्वभाद्रपदायोगे क्रूराणां सिद्धिर् उच्यते।
पृ95.5cd नष्टविद्धोपतप्तं वा नैतद् अस्ति^इति निर्दिशेत्॥
पृ95.6ab दीर्घश्रोत्रो महा^भोगो ज्ञातीनां च सदा^प्रियः।
पृ95.6cd महा^धनोऽक्रूरकर्मा निःक्रोहश् च^अत्र जायते।
पृ95.6ef प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत्॥पूर्वभाद्रपदे॥

पृ96.1ab उत्तरस्यां तु कुर्वीत; आयुष्यं पुष्टिकर्म च।
पृ96.1cd न च दक्षिनतो गच्छेत् पुरं च^अत्र प्रदापयेत्॥
पृ96.2ab आयुष्मांश् च यशस्वी च धनवांश् च^अत्र जायते।
पृ96.2cd अत्र^अपि त्रिगुणं विन्देद् आदानं यदि वा व्ययं।
पृ96.2ef प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तरभाद्रपदे॥
पृ96.3ab रेवत्यां रत्न रजतं धन^धान्यं प्रयोजयेत्।
पृ96.3cd कोष्ठ^आगाराणि कुर्वीत किण्वं च^अत्र न कारयेत्॥
पृ96.4ab सुराकर्म च कुर्वीत हिरण्यं गोव्रजानि च।
पृ96.4cd गोसङ्घं स्थापयेच् च^अत्र गोशालां च^अत्र कारयेत्।
पृ96.4ef आच्छादयेन् नवं वस्त्रं हिरण्यम् अपि धारयेत्॥
पृ96.5ab भिक्षुको दानशीलश् च दरिद्रश् च^अनसूयकः।
पृ96.5cd ज्ञातीनां सेवको नित्यं धर्म^ज्ञश् च^अत्र जायते।
पृ96.5ef सुवृष्टिं नष्ट^लाभं च रेवत्याम् अभिनिर्दिशेत्॥रेवत्यां॥

पृ97.1ab स्त्री^पुंसम् अश्विना युञ्ज्याद् अश्वशालां च कारयेत्।
पृ97.1cd अश्वान् प्रयोजयेद् अत्र रथं च^अत्र प्रयोजयेत्॥
पृ97.2ab ऋणः प्रयोगः कर्तव्यो बीजान्य् अत्र प्रवापयेत्।
पृ97.2cd यानानि च हयान् दम्यान् दन्तिनश् च प्रयोजयेत्॥
पृ97.3ab भैषज्यं भोजयेद् अत्र भिषक्कर्म च कारयेत्।
पृ97.3cd मेधावी दर्शनीयश् च राज^योग्यश् च सम्पदा॥
पृ97.4ab अरोगो बलवांच् छूरः सुभगो ह्य् अत्र जायते।
पृ97.4cd सुवृष्टिं नष्ट^लाभं च; अश्विन्याम् अभिनिर्दिशेत्॥अश्विन्यां॥
पृ97.5ab त्रितारां भरणीं विद्यात् क्रूरकर्माणि साधयेत्।
पृ97.5cd भृत्यांश् च भृतकांश् च^अपि वृणुयाद् दर्शयेत् तथा॥
पृ97.6ab भूतिं च^उपनयेद् अत्र भार्यां च न विवाहयेत्।
पृ97.6cd उत्कटको वञ्चतकः कूटसाक्षी च तन्द्रिजः॥

पृ98.1ab विधिज्ञः पापचारित्रः कदर्यश् च^अत्र जायते।
पृ98.1cd जायते च^अत्र दुःशीलो गुरूणाम् अभ्यसूयकः।
पृ98.1ef परोपतापी लुब्धश् च परव्याहारगोचरः॥भरण्यां॥
पृ98.2ab सप्तविंशति^नक्षत्रे कृत्तिकादि यदा भवेत्।
पृ98.2cd भरण्यन्तानि; ऋक्षाणीमां प्रतिपादयेत् क्रियां॥
पृ98.3ab तेषां मध्ये यदा सर्वे शस्यान्य् ओषधयोऽपि च।
पृ98.3cd वनस्पतयश् च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः।
पृ98.3ef सर्वं प्रतिपादयितव्यम् उक्त^नक्षत्र^कर्मसु॥
पृ98.4 उक्तो नक्षत्र^कर्म^निर्देशो नाम^अध्यायः॥
% ध्रुव^क्षिप्र^अर्ध^रात्रिकाणि नक्षत्राणि 堅固宿、急速宿、半夜などに月が入った時に行うべき仕事
पृ98.5 चत्वारि भोः पुष्करसारिन् नक्षत्राणि ध्रुवाणि भवन्ति तानि व्याख्यास्यामि। तच् छृणु। तद् यथा। त्रीणि उत्तराणि रोहिणी च। क्षेमेऽध्यावसेत्। (99) बीजानि च^अत्र रोपयेद्। निवेशतं च^अत्र कल्पयेत्। राजानं च^अभिषिञ्चयेत्। यानि च^अन्यानि उक्तानि कर्माणि तानि कारयेत्।

पृ99.1ab अथ नष्टं दग्धं वा विद्धं च^अपि हृतं च वा।
पृ99.1cd एवम् अभिनिर्दिष्टां वा स्वस्ति क्षिप्रं भविष्यति॥
पृ99.2ab अथात्र जातो धन्योऽसौ विद्यात्मा च यशस्वी च।
पृ99.2cd मङ्गलीयो महा^भोगी महा^योगी भविष्यति॥
पृ99.3 चत्वारि भोः पुष्करसारिन् नक्षत्राणि क्षिप्रानि भवन्ति। तद् यथा पुष्यो हस्ताभिजिद् अश्विनो चेति। एषु क्षिप्राणि कर्माणि कारयेच् च विचक्षणः। स्वाध्यायं मन्त्र^समारम्भं प्रवास^प्रस्थानं गाश् च तुरङ्गान् अप्य् अत्र योजयेत्। धूयाणि युक्तकर्माणि च^ओषधीकर्माणि च। भेषज्यानि सर्वाण्य् अत्र प्रयोजयेत्।
पृ99.4 तत्र यज्ञ^समारम्भं चातुर्मास्यं च कारयेत्। अथात्र नष्टं दग्धं वा विद्धं वा स्वस्ति भविष्यति^इति वक्तव्यं।
पृ99.5ab अथात्र जातकं विद्यान् मङ्गलीयं यशस्विनं।
पृ99.5cd महा^भोगं च राजानं महा^योगिनम् ईश्वरं॥
पृ99.6ab महा^धनं महा^भोगं तथा च महद्^उत्तमं।
पृ99.6cd क्षत्रियं दानशीलं च ब्रह्मणं च पुरोहितं॥इति।
पृ99.7 पञ्च खलु भोः पुष्करसारिन् नक्षत्रानि दारुणानि भवन्ति।तद् यथा।
पृ99.8ab मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी।
पृ99.8cd अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति॥
पृ99.9 इति वक्तव्यं । अर्ध^रात्रिकाणि षट्। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा (100)शतभिषा भरणी चेति। नवंशाः षड्ग्रासा द्विक्षेत्राणि। रोहिणी पुनर्वसुर् विशाखा च। त्रीणी उत्तराणि चेति। उभयतो विभागानि। पञ्च^दशक्षेत्राणि। कृत्तिका च मघा मूला ग्रीणि पूर्वाणि। इमानि षट् पूर्वभागिनानि। मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती अश्विनो चेति। इमानि नव नक्षत्राणि पश्चाद् भागीयानि त्रिंशन्^मुहूर्त^योगानि क्षेत्राणि च।

पृ100.1 अपि च ब्राह्मण शुभाश् च मुहूर्ता भवन्ति। अशुभाश् च मुहूर्ता भवन्ति। शुभ^अशुभाश् च मुहूर्ता भवन्ति। संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभ^मुहूर्त^समापत्तयो भवन्ति तदा शोभना भवन्ति। यदाऽशुभ^मुहूर्तसमापत्तयो भवन्ति तदा न शोभना भवन्ति। यदा तु पुनः शुभाश् च^अशुभाश् च समापत्तयो भवन्ति तदा साधारना भवन्ति।
%रात्रिदिवसयोर् ह्रासवृद्धी 昼夜の短長
पृ100.2 अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर् वा भवति^इति तद् उच्यते। वर्षाणां प्रथमे मासे पुष्य^नक्षत्रम् अमावास्यां भवति। श्रवणा पूर्णमास्यां। अष्टादश^मुहूर्तो दिवसो भवति। द्वादश^मुहूर्ता रात्रिः। षोडशाङ्गुल^काष्ठस्य मध्याह्नेऽर्धाङ्गुलायां छायायाम् आदित्यः परिवर्तते। आषाढा रात्रिं नयति। मृगशिरसि आदित्यो गतो भवति। वर्षाणां द्वितीये मासे मघाऽमावास्यां भवति भाद्रपदा पूर्णमास्यां। सप्तदश मुहूर्तो दिवसो भवति। त्रयोदश^मुहूर्ता रात्रिः। (101) द्वि^अङ्गुलायां छायायाम् आदित्यः परिवर्तते। श्रवणा रात्रिं नयति। पुष्य आदित्यो गतो भवति। वर्षाणां तृतीये मासे फल्गुन्यम् अमावास्यायां भवति। अश्विनी पूर्णमास्यां। षोडश^मुहूर्तो दिवसो भवति। चतुर्^दश^मुहूर्ता रात्रिः। चतुर्^अङ्गुलायां छायायाम् आदित्यः परिवर्तते। पूर्वभाद्रपदा रात्रिं नयति। मघा^आदित्यो गतो भवति। वर्षाणां चतुर्थे मासे चित्राम् अमावास्यायां भवति कृत्तिका पूर्णमास्यां। पञ्च^दश^मुहूर्तो भवति दिवसः। पञ्च^दश^मुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। अश्विनो रात्रिं नयति। फलुगुन्याम् आदित्यो गतो भवति।

पृ101.1 हेमन्तानां प्रथमे मासेऽनुराधाऽमावास्यं भवति। मृगशिरा पूर्णमास्यां। चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः। अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। कृत्तिका रात्रिं नयति। चित्रायाम् आदित्यो गतो भवति। हेमन्तानां द्वितीये मासेऽमावास्यां ज्येष्ठा भवति। पुष्यः पूर्णमास्यां। त्रयोदश^मुहूर्तो दिवसो भवति। सप्तदश^मुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मृगशिरा रात्रिं नयति। विशाखायाम् आदित्यो गतो भवति। (102) हेमन्तानां तृतीये मासे पूर्वाषाढाम् अवास्यां भवति। मघा पूर्णमास्यं। द्वादश^मुहूर्तो दिवसो भवति। अष्टादश^मुहूर्ता रात्रिः। द्वादशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। पुष्यो रात्रिं नयति। ज्येष्ठायाम् आदित्यो गतो भवति। हेमन्तानां चतुर्थे मासे श्रवणाम् आवास्यं भवति। फल्गुनी पूर्णमास्यां। त्रयोदश मुहूर्तो दिवसो भवति। सप्तदश^मुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मघा रात्रिं नयति। आषाढायाम् आदित्यो गतो भवति।

पृ102.1 ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदाम् आवास्ययं भवति। चित्रा पूर्णमास्यां चतुर्^दश^मुहूर्तो दिवसो भवति। षोडश^मुहूर्ता रात्रिः। (103) अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। फल्गुनी रात्रिं नयति। श्रवणायाम् आदित्यो गतो भवति। ग्रीष्माणां द्वितीये मासेऽश्विनी अमावास्यायां भवति। विशाखा पूर्णमास्यां। पञ्च^दश^मुहूर्तो दिवसो भवति। पञ्च^दश^मुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। चित्रा रात्रिं नयति। उत्तरायां भाद्रपदायाम् आदित्यो गतो भवति। ग्रीष्मानां तृतीये मासे कृत्तिकाम् अमावास्यायां भवति। ज्येष्ठा पूर्णमास्यां। षोडश^मुहूर्तो दिवसो भवति। चतुर्दश^मुहूर्ता रात्रिः। चतुर्^अङ्गुलायां छायायाम् आदित्याः परिवर्तते। विशाखा रात्रिं नयति। कृत्तिकायाम् आदित्यो गतो भवति। ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति। उत्तराषाढा पूर्णमास्यां। सप्तदश^मुहूर्तो दिवसो भवति। त्रयोदश^मुहूर्ता रात्रिः। मध्याह्ने द्वि^अङ्गुलायां छायायाम् आदित्यः परिवर्तते। ज्येष्ठा रात्रिं नयति। पुष्य आदित्यो गतो भवति।

पृ103.1 संवत्सरम् अन्वेषणतो मुहूर्तविशेषणैः सर्वाणि च^एतानि (नक्षताणि) भागानुभगेन^अमावास्ययं पूर्णमास्यं च युज्यन्ते। ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यं। तत्र तृतीये वर्षेऽधिको मासो युज्यते। षण्णां मासानाम् अहोरात्राणि समानि भवन्ति। अतः षण्^मासाद् दिवसो वधते। षण्^मासाद् रात्रिर् (104) वर्धते। षण्^मासाद् दिवसो मासे मासे समम् एव हीयते। षण्^मासाद् रात्रिर् मासे मासे परिहीयते।

पृ104.1 षण्^मासाद् आदित्यः परिवर्तते। उत्तरां दिशं संचरति। षण्^मासाद् दक्षिणां दिशं। षण्^मासात् समुद्(र्)ए उदकपरिमाणस्य ह्रासो वृद्धिश् च भवति। सूर्य^गत्या चन्द्र^गत्या च समुद्र^उदक^वेला^अभिवृद्धिर् भवति। अत्र गणनाप्रतिजागरणास्मरम् इत्य् एवम् एष संवत्सरो व्याख्यातो भवति।

%ग्रहः 惑星
पृ104.2 चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरोऽङ्गारको बुधश् च। इमे ग्रहाः। एषां ग्रहाणां बृहस्पतिः संवत्सरस्थायो। एवं शनैश्चरो बुधोऽङ्गारकः शुक्रश् च^इमे मण्डल^चारिणः।

%नक्षत्रमण्डलं 星宿マンダラ
पृ104.3 भरणी कृत्तिका रोहिणी मृगशिरा एतत् साधारणं प्रथमं मण्डलं। आर्द्रा पुनर्वसुः पुष्योऽश्लेषा एतत् साधारनं द्वितीयं मण्डलं। मघा अथ फल्गुनद्वयं हस्तो चित्रा एतत् साधारणं तृतीयं मण्डलं। स्वाती विशाखा अनुराधा एतत् साधारणं चतुर्थं मण्डलं। ज्येष्ठा मूलाषाढाद्वयम् (105) अत्र सर्वाणि महा^भायानि भवन्ति। इदं पञ्चमं मण्डलं। अभिजिच् छ्रवणा धनिष्ठा शतबिषा उभे भाद्रपदे चैतत् साधारणं षष्ठं मण्डलं। रेवती अविनी चैतत् साधारणं सप्तमं मण्डलं। संवत्सरम् एतेषु यद् यन् नक्षत्र^मण्डलं पीडयति तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या।

पृ105.1 द्वादश^मुहूर्तानि दिवसे ध्रुवाणि द्वादश रात्रौ। षण्^मुहूर्ताः सञ्चारिणः। कतमे षट्। नैरृतो वरुणो वायवो भर्गो देवो रौद्रो विचारी च। इतीमे सञ्चारिणः षट्।
% 以下、^मुहूर्तの名称
पृ105.2 अथात्र श्रावणे मासे पूर्णेऽष्टादश^मुहूर्ते दिवसे सूर्य^उदये च चतुरोजा नाम मुहूर्तो भवति। रोहितस्य च मुहूर्तस्य बलस्य च^अन्तरे मध्याह्नो भवति। सूर्यावतारे तु विचारी नाम मुहूर्तो भवति। द्वादश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति। आतापाग्निर् एवं नाम मुहूर्तो रात्र्यवसाने भवति। भाद्रपदे मासे पूर्णे सप्तदश^मुहूर्ते दिवसे सूर्य^उदये च चतुरोजा एवं नाम मुहूर्ता भवति। मध्याह्नेऽभिजितो नाम मुहूर्तो भवति। (106) सूर्यावतारे रौद्रो नाम मुहूर्तो भवति। त्रयोदश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति। अर्ध^रात्रे महा^भयो वायावो नाम मुहूर्तो भवति।

पृ106.1 रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति। अश्वयुजे मासे पूर्णे षोडश^मुहूर्तो दिवसो भवति। सूर्य^उदये चतुरोजा नाम मुहूर्तो भवति। समुद्गतस्य च मुहूर्तस्य अभिजितस्य च^अन्तरे मध्याह्नो भवति। सूर्यावतारे भर्गो देवो नाम मुहूर्तो भवति।
पृ106.2 चतुर्^दश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति। अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेण^अर्ध^रात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
पृ106.3 कार्त्तिके मासे पूर्णे दिवसः समरात्रिर् भवति। पञ्च^दश^मुहूर्तो दिवसो भवति पञ्च^दश^मुहूर्तो रात्रिः। समानेऽहोरात्रे सूर्य^उदये चतुरोजा एवं नाम मुहूर्तो भवति। संमुखो नाम मुहूर्तो भवति मध्याह्ने। सन्ततो नाम मुहूर्तः (107) सूर्यावतारे। रात्राव् अवतीर्णमात्र सूर्ये भ्र्गो देवो नाम मुहूर्तो भवति। अर्ध^रात्रेऽभिजिन् मुहूर्तो भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।

पृ107.1 मार्गशीर्षे मासे च पूर्णे चतुर्^दश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा एवं नाम मुहूर्तो भवति। विरतस्य संमुखस्य च मुहूर्तस्य^अन्तरे मध्याह्नो भवति। सूर्य^अवतारे वरुणो नाम मुहूर्तो भवति। षोडश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये संतापनः संयमो नाम मुहूर्तो भवति। राक्षसस्याभिजितस्य च मुहूर्तस्य^अन्तरेऽर्ध^रात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
पृ107.2 पौषमासे पूर्णे त्रयोदश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा एवं नम मुहूर्तो भवति। मध्याह्ने विरतो नाम मुहूर्तो भवति। सूर्यावतारे नैरृतो नाम मुहूर्तो भवति। सप्तदश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति। अर्ध^रात्रे राक्षसो नाम मुहूर्तो भव्ति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
पृ107.3 माघ^मासे पूर्णे द्वादश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा नाम मुहूर्तो भवति। सावित्रस्य च विरतस्य च मुहूर्तस्य^अन्तरेण मध्याह्नो भवति। सूर्यावतारे विजयो नाम मुहूर्तो भवति। अष्टादश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति। गर्दभस्य मुहूर्तस्य च राक्षसस्य च^अन्तरम् अर्ध^रात्रं भवति। रात्र्यवसान आतपाग्निर् एवं नाम मुहूर्तो भवति।

पृ108.1 यथा श्रावणे तथा माघे। यथा भाद्रपदे तथा फाल्गुने। यथाऽस्वयुजे तथा चैत्र। यथा कार्त्तिके तथा वैशाखे। यथा मार्गशीर्षे तथा ज्यैष्ठे। यथा पौषे तथाऽषाढे। एवम् एतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यं। नक्षत्र^विचरणं नाम प्रथमोऽध्यायाः।
पृ108.2 यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन च^उत्कर्षापकर्षौ कर्तव्यौ। हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णेऽर्ध^मासे वा। द्वितीया षष्ठी नवमी द्वादशी चतुर्दशी अत्र^अन्तरे दिवसे कला वर्धते रात्रौ कला हीयते।
% भूमि^कम्प^निर्देशः 地震の際、月と合にある星宿からの前兆、および地震に関わる他の現象からの前兆
पृ108.3ab चत्वारो महा^राजानो ध्रियते यैर् वसुन्धरा।
पृ108.3cd अतिवृद्धिर् विशुद्धश् च वर्धमानः पृथक्श्रवाः॥
पृ108.4ab महा^भूतानि चत्वारि कम्पयन्ति वसुन्धरां।
पृ108.4cd आपो इन्द्रश् च वायुश् च तथाग्निर् भगवान् अपि॥
पृ108.5ab त्रयस् तु ते यत्र भवन्ति पक्षे षडेक^मासे तु भवन्ति वेगाः।
पृ108.5cd परस्य चक्रस्य निदर्शनं स्यात् प्रकम्पते यत्र मही त्व् अभीक्ष्णं॥

पृ109.1ab विशाखा दश^रात्री अयाज् ज्येष्ठा द्वादश^रात्रिका।
पृ109.1cd पञ्च^विंशतिर् आषाढा श्रवणा पञ्च^सप्ततिः॥
पृ109.2ab रात्रिशतं भाद्रपदे क्रतुर् अश्वयुजे स्मृतः।
पृ109.2cd अध्यर्धं तु पञ्च^पञ्चाशन् माघे रात्रिशतं स्मृतं।
पृ109.3ab अर्ध्यर्धं फाल्गुने मासे चैत्रे त्रिंशत् तु रात्रयः।
पृ109.3cd विपाको भूमि^वेगानाम् अतः कम्पः प्रवर्तते॥
पृ109.4ab यदा सर्वेषु मासेषु सततं कम्पते मही।
पृ109.4cd वृक्षास् तथा चलन्ति स्म जलं वा यदि कम्पते।
पृ109.4ef पर्वतः पर्णवत् कम्पेद् भयम् अत्र विनिर्दिशेत्॥

पृ110.1ab नगराण्य् अथ वा ग्रामा घोषा ये च^अत्र संश्रिताः।
पृ110.1cd शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः॥
पृ110.2ab अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च।
पृ110.2cd अनावासा दिशो विद्याद् भूमि^चालविचालिताः॥
पृ110.3ab कृत्तिकासु चलेद् भूमिर् ग्रामेषु नगरेषु वा।
पृ110.3cd अभीक्ष्णं मुच्यते ह्य् अग्निर् दहते सतृनालयान्॥
पृ110.4ab कृष्णाग्निर् अशनेः पातः, कर्मारा; आहिताश्रयाः।
पृ110.4cd आगाराश् च निवर्तन्ते संवर्तेनेव धातवः॥
पृ110.5ab ये जाता ये च संवृद्धा ये च तं ग्रामम् आश्रिताः।
पृ110.5cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ110.6ab रोहिण्यां चलिता भूमिः सर्व^बीज^विनाशनं।
पृ110.6cd प्रोप्तं शस्यं न रोहेत भवेत् फलस्य कृच्छ्रता॥

पृ111.1ab गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशं।
पृ111.1cd दुर्भिक्ष^व्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा॥
पृ111.2ab महा^आत्मानश् च राजानः श्रीमन्तश् च नरोत्तमाः।
पृ111.2cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ111.3ab मृगशीर्षे चलेद् भूमिर् ओषधीनां विनाशनं।
पृ111.3cd चिकित्सकाः श्रोत्रियाश् च घटकाः सोम^याजकाः॥
पृ111.4ab सोम^पीताश् च ये विप्रा वानप्रस्थाश् च तापसाः।
पृ111.4cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ111.5ab आर्द्रायां चलिता भूमिर् वृक्षा नश्यन्ति क्षीरिणः।
पृ111.5cd अन्न^पानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः॥
पृ111.6ab कूपखाः परिखाखाश् च पापका ये च तस्कराः।
पृ111.6cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ111.7ab पुनर्वसौ चलेद् भूमिर् मण्डलं कुण्डिका^अपि च।
पृ111.7cd वागुरिकाः कारण्डवाश् चक्रिणः शुक^सारिकाः॥
पृ111.8ab अर्भका भ्रमकाराश् च मांसिकाः शङ्खवाणिजाः।
पृ111.8cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥

पृ112.1ab पुष्येण च चलेद् भूमिर् ब्राह्मणा नायकास् तथा।
पृ112.1cd दुरङ्गमा वाणिजकाः सार्थवाहाश् च ये नराः॥
पृ112.2ab पार्थिवाः पार्वतीयाश् च ये च तद् भक्तिगोचराः।
पृ112.2cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः।
पृ112.2ef शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्॥
पृ112.3ab अश्लेषायां चलेद् भूमिर् नागाः सर्वे सरीसृपाः।
पृ112.3cd कीटाः पिपीलिकाः श्वाना; एक^खुराश् च ये मृगाः॥
पृ112.4ab वैद्या विसकराश् च^अपि ये च सत्वा दरीश्रयाः।
पृ112.4cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ112.5ab मघासु चलिता भूमिर् महा^राजोऽत्र तप्यते।
पृ112.5cd ये च श्राद्धा निवर्तन्ते समाजा; उत्सवास् तथा।
पृ112.5ef यज्ञाश् च देव^कृत्यं च सर्वम् अत्र निवर्तते॥
पृ112.6ab ये जाता ये च संवृद्धा ये च^अन्येऽप्य् अग्रपण्डिताः।
पृ112.6cd गन्धर्वाश् च विनश्यन्ति नरा ये च महा^कुलाः।
पृ112.6ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ112.7ab फल्गुन्यां चलिता भूमिर् ऋतुर् व्यावर्तते तदा।
पृ112.7cd त्रियग्वातश् च^एव वाति कृतं नश्यति शाश्वतं।
पृ112.7ef पथिकाश् च^उपतप्यन्ति माषयाच्योपजीविकाः॥

पृ113.1ab धर्मे रता; आसनिका ये च शुल्कोपजीविनः।
पृ113.1cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ113.2ab चलत्य् उत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः।
पृ113.2cd सार्थवाहा; आसनिका ये च शिल्पोपजीविनः॥
पृ113.3ab अङ्गाविदेहमगधा नैरृताः स्त्री^परिग्रहाः।
पृ113.3cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ113.4ab हस्तेन चलिता भूमिः कुम्भ^कार चिकित्सकाः।
पृ113.4cd गणमुख्या महा^मात्राः सेनाध्यक्षाश् च ये नराः॥
पृ113.5ab तारमका (?) नारपटा (?) विप्सरः (?) कौटिका; अपि।
पृ113.5cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ113.6ab चित्रायां चलिता भूमिः कारुका; उपकल्पकाः।
पृ113.6cd कुमार्यः सर्व^रत्नं च सस्यानां बीज^कैः सह॥
पृ113.7ab वङ्गा दशार्णकुरवश् चेदिमाहिषकास् तथा।
पृ113.7cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ113.8ab स्वातौ प्रचलिता भूमिश् चौरा ये च कुशीलकाः।
पृ113.8cd हिंसका ये च तत् कर्म^रताऽभ्यर्थितमूषकाः॥
पृ113.9ab हिमवत; उत्तरेण वायुभक्षास् तपस्विनः।
पृ113.9cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥

पृ114.1ab विशाखायां चलेद् भूमिर् महा^शैल^क्षयो भवेत्।
पृ114.1cd उग्रा वाताः प्रवान्त्य् अत्र; अश्मकैरकुशलिनः॥
पृ114.2ab अनुराधे चलेद् भूमिर् दस्यूनाम् अनयो महान्।
पृ114.2cd विटा द्यूत^कराश् च^एव ग्रन्थिभेदाश् च ये नराः॥
पृ114.3ab अन्ध्राः पुण्ड्राः पुलिन्दाश् च भये तिष्ठन्त्य् अनाश्रिताः॥
पृ114.3cd मित्रभेदश् च बलवान् तदा जगति जायते॥
पृ114.4ab ज्येष्ठायां चलिता भूमिर् महा^राजः प्रतप्यते।
पृ114.4cd वायसा वृषभा व्याडास् तथा चण्डमृगाश् च ये॥
पृ114.5ab कुरवः शूरसेनाश् च मल्ला बाह्लीकनिग्रहाः।
पृ114.5cd प्रत्यर्थिकेन शीघ्रेण ये च तद् भक्तिभाजनाः।
पृ114.5ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ114.6ab मूलेन चलिता भूमिश् चतुष्पद्द्विपदास् तथा।
पृ114.6cd ग्रहाश्रयाः पिशाचाश् च ये च सत्त्वा दरीश्रयाः।
पृ114.6ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥

पृ115.1ab दुर्भिक्षं च करोत्य् आशु धान्यम् अल्प^उदकं भवेत्।
पृ115.1cd दरीपर्वतमूलानि गच्छन्ति च तदा भुवि॥
पृ115.2ab पूर्वाषाढे चलेद् भूमिर् जलजा मत्स्य^शुक्तिकाः।
पृ115.2cd शिशुमारा; उद्रकाश् च नक्रा मकर^कच्छपाः॥
पृ115.3ab जातिगोत्र^प्रधानाश् च धनिनोऽथ विचक्षणाः।
पृ115.3cd द्वितीयाभिजाताश् च महा^विद्याकराश् च ये।
पृ115.3ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ115.4ab उत्तरस्यां चलेद् भूमिः शिल्पिनाम् अनयो महान्।
पृ115.4cd अयस्काराः स्थापतयस् त्रपु^काराश् च तक्षकाः॥
पृ115.5ab दरिद्रा धनिनश् च^अपि शिल्पिनो विविधा; अपि।
पृ115.5cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः।
पृ115.5ef ग्राम^कुटानि च घ्नन्ति सचलस्थावराणि च॥
पृ115.6ab वैष्णवे चलिता भूमिस् तदेति यद् अनीप्सितं।

पृ116.1ab अध्यापकाः शास्त्र^विदः कवयो मन्त्र^पारगाः।
पृ116.1cd युगन्धराः शूरसेना; अभिराजाः पटच्चराः॥
पृ116.2ab कुशण्डाः शरदण्डाश् च ये नरा राज^पूजिताः।
पृ116.2cd एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ116.3ab धनिष्ठायां चलेद् भूमिर् धनिना मनयो महान्।
पृ116.3cd महेश्वरास् तथा महा^नागराः श्रेष्ठिनस् तथा॥
पृ116.4ab प्रचण्डाः स्वस्तिमन्तश् च भद्रकारा युगन्धराः।
पृ116.4cd पारिकूलाश् च भोज्याश् च ह्य् अन्ये सन्नागरा; अपि।
पृ116.4ef एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः॥
पृ116.5ab वारुण्ये चलिता भूमिर् औदकेष्व् अनयो महान्।
पृ116.5cd हस्तिनोऽश्वखरोष्ट्राश् च स्पर्शम् अर्च्छन्ति दारुणं॥
पृ116.6ab तदासौ वीरकान् मद्रान् बाह्लीकान् केकयान् अपि।
पृ116.6cd अनाश्रयांश् चक्रवाकाञ् जनस्थान् अपि पीडयेत्॥

पृ117.1ab साजेन चलिता भूमी राक्षसान् घातकांस् तथा।
पृ117.1cd औरभ्रिकान् सौकरिकान् सौवीरांश् च निपातयेत्॥
पृ117.2ab वणिज्यजीविनो वैश्यान् शूद्रांश् च करीतीन् अपि।
पृ117.2cd यवनान् मालवाद्यांश् च ग्रन्थिभेदांश् च नाशयेत्॥
पृ117.3ab अहिर्बुध्न्ये चलेद् भूमिर् वणिजाम् अनयो महान्।
पृ117.3cd धर्मे रताश् च ये सिद्धा ये च शौक्तिककर्मिणः॥
पृ117.4ab शिबीन् वत्सान् तथा वात्स्यान् क्षत्रियान् आर्जुनायनान्।
पृ117.4cd सिन्धुराज^धनुष्पानीन् सर्वान् अर्दयतेऽचिरात्॥
पृ117.5ab रेवत्यां चलिता भूमिः संग्रामः स्यात् सुदारुणः।
पृ117.5cd ग्राम^घाताश् च वर्तन्ते ग्रामो ग्रामं च हिंसति॥
पृ117.6ab नौचरान् उदकाजीवान् रमठान् भरुकच्छकान्।
पृ117.6cd सुधन्वान् अभिसारांश् च सर्व^सेनांश् च निर्दहेत्॥

पृ118.1ab अश्विन्यां चलिता भूमिर् अश्वानाम् अनयो महान्।
पृ118.1cd ग्राम^घाताश् च वर्तन्ते भ्राता भ्रातॄन् जिघांसति॥
पृ118.2ab या च^अत्र गभम् आधत्ते ये च जाताश् च तान् इह।
पृ118.2cd त्रीणि वर्षाण्य् अतो दुःखम् उपैति च निरन्तरं॥
पृ118.3ab सहिताश् चित्र^गर्भाश् च ये ह्य् अन्ये च^अङ्गनाजनाः।
पृ118.3cd आर्जुनायना राजन्याः सुष्ठु त्रींश् च^अपि हिंसति॥
पृ118.4ab भरण्यां चलिता भूमिश् चौराणाम् अनयो महान्।
पृ118.4cd विटा द्यूत^कराश् च^एव ग्रन्थिभेदाश् च ये नराः॥
पृ118.5ab आदर्शचक्राटाधूर्तास् तथा बन्धन^रक्षकाः।
पृ118.5cd अन्तावशायिनः पापाश् चरन्ति ये तु दुर्जनाः।
पृ118.5ef तेऽपि तत्र विपद्यन्ते भूमि^चालविचालिताः॥
पृ118.6ab वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
पृ118.6cd सप्ताहाभ्यन्तरात् तत्र मेघो भवति प्रार्थितः॥

पृ119.1ab स्निग्धो ह्य् अङ्जन^संकाशो महा^पर्वतसन्निभः।
पृ119.1cd इन्द्रश् न वर्षते तत्र महर्षेर् वचनं यथा॥
पृ119.1ef [एवं निगदितं नार्थैर् इन्द्रश् च^अत्र प्रवर्षति॥]
पृ119.2ab स्वस्तिका कार^संकाशा; इन्द्रवज्रध्वयोपमाः।
पृ119.2cd दृश्यन्तेऽभ्रा हि सन्ध्यायां ग्रस्त्वा चन्द्र^दिवा^करौ॥
पृ119.3ab तदा नभसि जायन्ते मेघा डाडिम्बसन्निभाः।
पृ119.3cd लक्षणं तादृशं दृष्ट्वा विद्यात् तान्न् इन्द्रकम्पितान्।
पृ119.3ef स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
पृ119.4ab अतीव तत्र विश्वस्तः सर्व^बीजानि वापयेत्।
पृ119.4cd व्यवहारांश् च कुर्वीरन् निर्भयास् तत्र वाणिजाः।
पृ119.4ef सर्वेषां भूमि^कम्पानां प्रशस्ता; इन्द्रकंपिताः॥
पृ119.5ab वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
पृ119.5cd सप्ताहाभ्यन्तरे तत्र मेघः संच्छादयेन् नभः॥

पृ120.1ab ततोऽनुबद्धा जायन्ते; अभ्राः कौशेयसन्निभाः।
पृ120.1cd अनुलोमं च संयान्ति चरन्तः पश्चिमां दिशं॥
पृ120.2ab शिशुमार^उद्रकाणां मत्स्य^मकर^सन्निभाः।
पृ120.2cd दृश्यन्तेऽभ्राश् च सन्ध्यायां ग्रस्त्वा चन्द्र^दिवा^करौ॥
पृ120.3ab लक्षणं तादृशं दृष्ट्वा विद्यात् ताञ् जलकम्पितान्।
पृ120.3cd स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
पृ120.4ab स्थालेषु गिरि^कूटेषु क्षेत्रेषूपवनेषु च।
पृ120.4cd स्थाप्यन्ते तत्र बीजानि निम्ने नश्यन्ति वै तदा॥
पृ120.5ab पञ्केण^अपि जलेन^अपि नश्येयू रजसा^अपि वा।
पृ120.5cd एतेषां भूमि^कम्पानां प्रशस्ता जलकम्पिताः॥
पृ120.6ab वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
पृ120.6cd सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः॥
पृ120.7ab दृश्यते कपिला सन्ध्या चन्द्र^सूर्यौ तु लोहिताउ।
पृ120.7cd लक्षणं तादृशं दृष्ट्वा जानीयाद् वायुकम्पितान्॥

पृ121.1ab ततो भवति निर्देशो महर्षेर् वचनं यथा।
पृ121.1cd न तत्र प्रवसेत् प्राज्ञ; आत्मानं च^अत्र गोपयेत्॥
पृ121.2ab गुह्यम् आवरणं कुर्यात् प्राकारपरिखां खनेत्।
पृ121.2cd प्रातिसीमा विरुध्यन्ते नराणां जायते भयं॥
पृ121.3ab एतेषां भूमि^कम्पनं सर्वेषां कीर्तिता गुणाः।
पृ121.3cd विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः॥
पृ121.4ab कम्पितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
पृ121.4cd सप्ताहाभ्यन्तरात् तत्र; उल्का^पाताः सुदारुणाः॥
पृ121.5ab सन्ध्या च लोहिता भाति चन्द्र^सूर्यौ तु लोहितौ।
पृ121.5cd लक्षणं तादृशं दृष्ट्वा विज्ञेया; अग्निकम्पिताः॥
पृ121.6ab अग्निर् दहति काष्ठानि रक्षितानि धनानि च।
पृ121.6cd दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशं॥
पृ121.7ab वीणाश् च दिवि दृश्यन्ते नवमासान् न वर्षति।
पृ121.7cd एतेषां भूमि^कम्पानां जघन्या; अग्निकम्पिताः॥
पृ121.8अ जयति; अहनि पूर्वे क्षत्रियान् पार्थिवांश् च।
पृ121.8ब् हय^गज^रथ^मुख्यान् मन्त्रिणो मध्यम^अह्ने।

पृ122.1ab व्यथयति; आपर^अह्णे गोपशून् वैश्य^शूद्रान्।
पृ122.1cd प्रदहति निशि^सन्ध्या तस्कर^अनन्त^वासान्॥
पृ122.2अ रजनिम् इह प्रदोषे हिंसते म्लेच्छ^संघान्।
पृ122.2ब् स्त्रियम् अपि च नपुंसश् च^अर्ध^रात्रेष्व् अनन्तान्।
पृ122.2च् कृषि^वणिग् उपजीव्यान् हन्ति यामे तृतीये।
पृ122.2द् व्यथयति सुरपक्षं रौद्र^कर्म^अन्तकृष्णे॥
पृ122.3अ प्रदहति शशिपक्षे याज्ञिकं ब्रह्म^क्षत्रं।
पृ122.3ब् श्रपयति शुचि^वृत्ताम् एव धर्मे प्रधानान्।
पृ122.3च् विदुषि च मृदु^भावं विन्दते यो ह्य् अधीते।
पृ122.3द् स भवति नृप^पूज्यो बाह्मणो देव^दर्शी॥

पृ123.1ab बृहस्पतेश् च चत्वारि समानि शुभ^कर्मणा।
पृ123.1cd चत्वारि सूर्य^कर्माणि तुल्यानि शुक्र^कर्मणा।
पृ123.1ef सोम^कर्माणि चत्वारि ब्रह्म^कर्म च तत्समं॥
पृ123.2 अयं भोः पुष्करसारिन् भूमि^कम्प^निर्देशो नाम^अध्यायः।
% व्याधि^समुत्थानं 病気の発生
पृ123.3 अथ भोः पुष्करसारिन् अमीषाम् अष्टाविंशतीनां नक्षत्राणां रोग^उत्पत्तिं नाम^अध्यायं व्याख्यामि। तच् छ्रूयतां। कथयतु भगवान्।
पृ123.4ab कृत्तिकासु^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ123.4cd चतूरात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ123.5ab अग्निर् हि देवता तत्र दध्ना ह्य् अस्य बलिं हरेत्।
पृ123.5cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ123.6ab रोहिण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ123.6cd पञ्च^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ123.7ab देवः प्रजापतिस् तत्र शुद्धमाल्यैर् बलिं हरेत्।
पृ123.7cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ123.8ab व्याधिर् मृगशिरोभुतः स्त्रियो वा पुरुषस्य वा।
पृ123.8cd अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ123.9ab सोमो हि देवता तत्र मण्डेन तु बलिं हरेत्।
पृ123.9cd अनेन बलि^दानेन तस्माद् रोगाद् विमुच्यते॥

पृ124.1ab (124) आद्रायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.1cd दश^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ124.2ab रुद्रो हि देवता तत्र पायसेन बलिं हरेत्।
पृ124.2cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ124.3ab पुनर्वसौ भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.3cd अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ124.4ab आदित्यो देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ124.4cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ124.5ab पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.5cd स्तोककालं भवेत् तस्य पञ्च^रात्राद् विमुच्यते॥
पृ124.6ab देवो बृहस्पतिस् तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ124.6cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ124.7ab अश्लेषायां भवेद् व्याधिः स्त्रियो वा पुरुषस्य वा।
पृ124.7cd न तं वैद्याश् चिकित्सन्तु सर्पस् तत्र तु दैवतः॥
पृ124.8ab मघा^समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.8cd अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ124.9ab पितरो देवतास् तत्र कृसरेण बलिं हरेत्।
पृ124.9cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ124.10ab पूर्वफाल्गुनीजा व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ124.10cd सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥

पृ125.1ab (125) अर्यमा देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।%भगではない
पृ125.1cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ125.2ab उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ125.2cd न तं वैद्याश् चिकित्सन्तु भगो प्य् अत्र तु देवता॥%अर्यमन्ではない
पृ125.3ab हस्तेनाप्य् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ125.3cd पञ्च^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ125.4ab रविर् हि देवता तत्र गन्ध^पुष्पैर् बलिं हरेत्।
पृ125.4cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ125.5ab चित्रायाम् उत्त्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ125.5cd अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ125.6ab त्वष्टा हि देवता तत्र घृतम् उद्गैर् बलिं हरेत्।
पृ125.6cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ125.7ab स्वात्यां समुत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
पृ125.7cd क्लेशितो हि भवेद् व्याधिः पञ्च^विंशति^रात्रिकः॥
पृ125.8ab देवता^अत्र भवेद् वायुश् चित्र^माल्यैर् बलिं हरेत्।
पृ125.8cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ125.9ab विशाखायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ125.9cd गुरुकोऽसौ भवेद् व्याधिर् अहान्य् एकोनविंशतिः॥

पृ126.1ab (126) इन्द्राग्नी^देवते तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ126.1cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.2ab अनुराधा^उत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
पृ126.2cd अर्ध^मासं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ126.3ab मित्रो हि देवता तत्र घृत^पात्रं बलिं हरेत्।
पृ126.3cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.4ab ज्येष्ठायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ126.4cd क्लेशिको हि भवेद् व्याधिर् अहोरात्र^त्रयोदश॥
पृ126.5ab इन्द्रो हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ126.5cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.6ab मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ126.6cd मासिको हि भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ126.7ab नैरृतिर् देवता तत्र मद्य^मांसैर् बलिं हरेत्।
पृ126.7cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.8ab पूर्वाषाढे भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ126.8cd सांक्लेशिको भवेद् व्याधिर् अष्टौ मासान् न संशयः॥
पृ126.9ab आपो हि देवतास् तत्र कृसरेण बलिं हरेत्।
पृ126.9cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ126.10ab उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ126.10cd सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ126.11ab विश्वो हि देवता तत्र पायसेन बलिं हरेत्।
पृ126.11cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥

पृ127.1ab (127) अभिजिद् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.1cd षण्^मासान् संभवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥
पृ127.2ab विष्णुश् च देवता तत्र दधि^मण्डं बलिं हरेत्।
पृ127.2cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.3ab श्रवणेन^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.3cd गुरुको हि भवेद् व्याधिः पूर्णं द्वादश^मासिकं॥
पृ127.4ab विष्णुर् हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ127.4cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.5ab धनिष्ठायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.5cd गुरुको हे भवेद् व्याधिः पूर्णमासान् त्रयोदश॥
पृ127.6ab वसवो देवतास् तत्र घृत^माल्यैर् बलिं हरेत्।
पृ127.6cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.7ab शतभिषा^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.7cd त्रयोदश^दिवस् तत्र ततश् च^ऊर्ध्वं विमुच्यते॥
पृ127.8ab वरुणो देवता तत्र पायसेन बलिं हरेत्।
पृ127.8cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ127.9ab पूर्वभद्र^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.9cd न तं वैद्याश् चिकित्सन्तु अहिर्बुध्न्योऽत्र दैवतः॥
पृ127.10ab उत्तरभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ127.10cd सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते॥

पृ128.1ab (128) अर्यमा देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ128.1cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ128.2ab रेवत्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ128.2cd मृदुको हि भवेद् व्याधिर् अष्टाविंशति^रात्रिकः॥
पृ128.3ab पूषा हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्।
पृ128.3cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ128.4ab अश्विन्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ128.4cd सांक्लेशिको भवेद् व्याधिः पञ्च^विंशति^रात्रिकः॥
पृ128.5ab गन्धर्वो देवता तत्र यावकेन बलिं हरेत्।%主宰神がगन्धर्व!
पृ128.5cd अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते॥
पृ128.6ab भरण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
पृ128.6cd न तं वैद्याश् चिकित्सन्तु यमस् तत्र तु दैवतः।
पृ128.7ab शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति॥
पृ128.7cd अयं भोः पुष्करसारिन् व्याधि^समुत्थानो नाम^अध्यायः।
% बन्धन^निर्मोक्षः 月がそれぞれの星宿に入った時に捕縛された囚人の囚われの期間の長さ
पृ128.8 अथ खलु भोः पुष्करसारिन् बन्धन^निर्मोक्षं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥

पृ129.1 कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रि^रात्रेण मोक्ष्यति^इति वक्तव्यः। रोहिण्यां बद्धो वा रुद्धो वा त्रि^रात्रेण मोक्ष्यति^इति। मृगशिरसि बद्धो वा रुद्धो वा एक^विंशति रात्रेण मोक्ष्यति^इति। आर्द्रायां बद्धो वा रुद्धो वाऽर्ध^मासेन मोक्ष्यति^इति। पुनर्वसौ रुद्धो वा बद्धो वा सप्त^रात्रेन। पुष्ये त्रि^रात्रेण। अश्लेषायां त्रिंशद्^रात्रेण। मघासु षोडश^रात्रेण। चित्रायां सप्त^रात्रेण। स्वात्यां दश^रात्रेण। विशाखायां षड्विंशद्^रात्रेण। अनुराधायाम् एक^त्रिंशद् रात्रेण। ज्येष्ठायाम् अष्टादश^रात्रेण। मूले षट्त्रिंशद् रात्रेण। पूर्वाषाढायां चतुर्^दश^रात्रेण। उत्तराषाढायां चतुर्^दश^रात्रेण। अभिजिति षड्^रात्रेण। श्रवणे धनिष्ठायां शतभिषायां पूर्वभद्रपदे उत्तरभाद्रपदे रेवत्यां चतुर्^दश^रात्रेण। अश्विन्यां त्रि^रात्रेण। भरण्यां बद्धो वा रुद्धो वा परिक्लेशम् अवाप्स्यति^इति वक्तव्यः।
पृ129.2 अयं भोः पुष्करसारिन् बन्धन^निर्मोक्षो नाम^अध्याय।
% तिलक^अध्यायः ティラカがある身体部分による女の運命
पृ129.3 अथ बोः पुस्करसारिन् तिलक^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥
पृ129.4 मूर्ध्नि तु यस्यास् तिलकोऽस्ति सूक्ष्मः स्निग्धो भवेत् पद्म^समान^वर्णः।
पृ129.5 राजा तु तस्या भवति^इह भर्ता स्तन^उपरिष्टात् प्रतिबिम्बम् आहुः॥

पृ130.1ab शीर्षे तु यस्यास् तिलक^अलकः स्यात् सूक्ष्मो भवेद् अञ्जन^चूर्ण^वर्णः।
पृ130.1cd सेनापतिस् तस्या भवेद् धि भर्ता स्तन^अन्तरेऽस्याः प्रतिबिम्बकं स्यात्॥
पृ130.2ab भ्रूवोन्तरेऽस्यास् तिलक^अलकः स्याद् दुष्चारिणीं तां प्रमदां वदन्ति।
पृ130.2cd पञ्च^एव तस्याः पतयो भवन्ति बह्व्^अन्न^पानं लभते च नारी॥
पृ131.1ab गण्डस्य नासादिकम् अध्यदेशे भवेच् च बिम्बं तिलकस्य यस्याः।
पृ131.1cd तां शोक^भाजं प्रमदां वदन्ति रोमप्रदेशे प्रतिबिम्बम् आहुः॥
पृ131.2ab कर्णे तु यस्यास् तिलक^अलकः स्याद् बहु^श्रुतां तां प्रमदां वदन्ति।
पृ131.2cd बहु^श्रूतां तां श्रुतिधारिणीं च त्रिके तु यस्याः प्रतिबिम्बकं स्यात्॥
पृ131.3ab यस्य^उत्तरोष्ठे तिलक^अलकः स्यात् तां भिन्न^सत्यां प्रमदां वदन्ति।
पृ131.3cd कृच्छ्रेण सा वै लभते हि वृत्तिम् ऊरौ तु तस्यास् तिल^बिम्बम् आहुः॥
पृ132.1ab यस्याऽधरोष्ठे तिलक^अलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
पृ132.1cd मिष्ट^अन्न^पानं बहु ऋच्छते सा तथा हि गुह्ये प्रतिबिम्बकं स्यात्॥
पृ132.2ab चिबुके तु यस्यास् तिलक^अलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
पृ132.2cd मिष्ट^अन्न^पानं बहु सा लभेत गुह्ये द्वितीयं प्रतिबिम्बकं स्यात्॥
पृ132.3 अयं भोः पुष्करसारिंस् तिलक^अध्यायो नाम^अध्यायः।
पृ132.4 अथ खलु भोः पुष्करसारिन् नक्षत्र^जन्म^गुणं नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान् त्रिशङ्क्को।
पृ132.5अ कृत्तिकासु नरो जातस् तेजस्वी प्रिय^साहसः।
पृ132.5ब् भवेच् छूरस् तथा चण्डः प्रिय^वादी च मानवः॥
पृ132.6अ रोहिण्यां पुरुषो जातो धनवान् धर्मिकस् तथा।
पृ132.6ब् व्यवसायी स्थिरः शूरो ध्रुवं च^अस्य सदा मुखं॥
पृ133.1ab जातो मृगशिरे यस् तु मृदुः सौम्यस् तु मानवः।
पृ133.1cd दर्शनीयो भवेच् च^असौ स्त्री^कान्तस् तु विशेषतः॥
पृ133.2ab आर्द्रा^जातस् तु हिंसात्मा चण्डः परम^जल्पकः।
पृ133.2cd रोद्रकर्मा भवेच् च^असाव् ईश्चरश् च शतैर् महान्॥
पृ133.3ab जातः पुनर्वसौ यस् तु ह्य् अलोलो बुद्धिमान् नरः।
पृ133.3cd धर्म^शीलो भवेच् च^असौ जात^क्रोधश् च मानवः॥
पृ133.4ab पुष्येण पुरुषो जातस् तेजस्वी ब्राह्मणो भवेत्।
पृ133.4cd क्षत्रियश् च भवेद् राजा वैश्य^सूद्रौ च पूजितौ॥
पृ133.5ab श्वसनः क्रोधनः क्रूरो ह्य् अश्लेषा^सम्भवो नरः।
पृ133.5cd दुर्मनुष्यश् च चण्डश् च; इति सर्वम् इहादिशेत्॥
पृ133.6ab बहु^प्रज्ञः श्राद्ध^करो बहु^भाग्यस् तथा^एव च।
पृ133.6cd धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत्॥
पृ133.7ab पूर्वफाल्गुनी^जातस् तु यः कश्चित् पुरुषो भवेत्।
पृ133.7cd अर्धम् अबुच्छिशीलश् च गुरु^दारा^अभिमर्दकः॥
पृ133.8ab उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्।
पृ133.8cd दिव्यज्ञानश् च विज्ञाने पुरुषः सुभगो भवेत्॥
पृ133.9ab हस्ते जातश् च शुद्ध^आत्मा विक्रान्तो मृदु^भोजनः।
पृ133.9cd सेनापत्यम् च कुरुतेऽस्तेय^कर्मा भवेद् असौ॥
पृ133.10ab चित्रासु जातश् चित्रा^अक्षस् तथा चित्र^कथा^करः।
पृ133.10cd दर्शनीयो बहु^स्त्रीकश् चित्र^शीलो भवेन् नरः॥

पृ134.1ab स्वात्यां च पुरुषो जातो बन्धुश् लाघी चिचक्षणः।
पृ134.1cd मृदुकः पान^शौण्डश् च मित्र^कारी विचारवान्॥
पृ134.2ab विशाखासु नरो जातस् तेजस्वी द्रव्यवान् महान्।
पृ134.2cd शूरो विक्रमवान् दक्षः सुभगश् च भवेद् असौ॥
पृ134.3ab अनुराधा^उद्भवो मर्त्यो मित्रवान् संग्रही नरः।
पृ134.3cd शुचिश् च^एव कृत^ज्ञश् च धर्म^आत्मा च भवेच् च सः॥
पृ134.4ab ज्येष्ठासु पुरुषो जातो मित्रवान् अभिजायते।
पृ134.4cd धनुर्वेद^अभिरामश् च नारीषु कुरुते मनः॥
पृ134.5ab मूलेषु पुरुषो जातोऽकृतज्ञः स्याद् अधर्मिकः।
पृ134.5cd दृढो वीरो भवेच् च^असौ किल्विषी च स मानवः॥
पृ134.6ab आषाढासु च पूर्वासु मत्सरी चलित^इन्द्रियः।
पृ134.6cd मत्स्य^मांस^प्रियश् च^अपि घातकः स्यात् स मानवः॥
पृ134.7ab स^अनुक्रोशश् च दाता च विद्यानिष्ठः सुहृज्जनः।
पृ134.7cd विश्वदैवे नरो जातो भवेद् अपि च निश्चितः॥
पृ134.8ab आचार्यः शास्त्र^कर्ता च विश्वासी च क्रियापरः।
पृ134.8cd श्रवणे जत; आयुष्मान् श्रीमांश् च पुरुषो भवेत्॥
पृ134.9ab अनवस्थित^चित्तश् च च्चित्र^द्रव्यश् च मानवः।
पृ134.9cd धनिष्ठासु भवेज् जातः पुरुषः सर्व^शाङ्कितः॥

पृ135.1ab वारुणे यदि नक्षत्रे जातो भवति मानवः।
पृ135.1cd परुषो क्वेषशीलश् च परिवादी च सर्वशः॥
पृ135.2ab जातो भाद्रपदायां तु पूर्वस्याम् इह मानवः।
पृ135.2cd चारित्र^गुण^युक्तश् च कृत^ज्ञो मुखरस् तथा॥
पृ135.3ab उत्तरस्यां नरो जातो भविष्यति विचक्षणः।
पृ135.3cd मेधावी बह्व् अपत्यश् च धर्म^शीलो महा^धनः॥
पृ135.4ab रेवत्यां पुरुषो जातो धर्म^आत्मा ज्ञाति^सेवकः।
पृ135.4cd दरिद्रोऽल्प^धनो नित्यं दायको न^अनुसूयकः॥
पृ135.5ab अश्विन्यां पुरुषो जातो भवय् अतिविचक्षणः।
पृ135.5cd महा^जन^प्रियश् च^अपि शूरश् च सुभगश् च सः॥
पृ135.6ab भरण्यां पुरुषो जातः पापा^चारोऽविचक्षणः।
पृ135.6cd कन्दर्पे दातुकामश् च परतश् च^उपजीवकः॥
पृ135.7 अयं भोः पुष्करसारिन्न् नक्षत्र^जन्म^गुणो नाम^अध्यायः।
%以下、漢訳、チベット訳にはないので、後代の挿入らしい。何から来たのか?
पृ135.8 पठ भोस् त्रिशङ्को उत्पात^चक्रं नाम^अध्यायं। कथयति च।

पृ1 उत्पात^चक्र^निर्देशः (प्.136)
पृ1.1ab अष्टाविंशति^पर्यन्त^कृत्स्ने नक्षत्र^मण्डले।
पृ1.1cd दिव्या विकारा दृश्यन्ते सूर्य^चन्द्र^ग्रहादिषु॥
पृ1.2ab माघस्य प्रथमे पक्षे शैलो वा पार्थिवा यदि।
पृ1.2cd धूमवृष्टिर् हि; आदित्ये; उदयति प्रदृश्यते।
पृ1.2ef विद्युतो वा^अथ दृश्यन्ते तदा विद्याज् जन^क्षयं॥
पृ1.3ab अश्विन्याम् अर्कतो धूमो निर्गच्छन्न् अपि छादयेत्।
पृ1.3cd अनावृष्टिं तदा विद्यात् पूर्णवर्षाणि द्वादश॥
पृ1.4ab भरण्यां माघ^मासे तु पीतसूर्योऽथ दृश्यते।
पृ1.4cd समन्ताद् वध्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
पृ1.5ab फाल्गुने कृत्तिकायां तु; आदित्ये परिखो यदि।
पृ1.5cd नश्यन्ति कर्वटास् तत्र यदि देवो न वर्षति॥
पृ1.6ab चैत्र^मासे यदा पुष्ये सूर्ये कृष्णां प्रदृश्यते।
पृ1.6cd अचिरोदयकाले तु क्षिति^पालोऽवरुध्यते॥
पृ1.7ab वैशाखमासे च^अर्द्रायाम् आदित्यः प्रतिसूर्यकः।
पृ1.7cd संग्रामं तत्र जानीयाद् उभौ घात्येते पार्थिवौ॥
पृ1.8ab गृह्येतां चन्द्र^सूर्यौ वा ज्यैष्ठे भरणि^ज्येष्ठयोः।
पृ1.8cd स^अमात्यो वध्यते राजा राष्ट्रे दुर्भिक्षम् आदिशेत्॥
पृ1.9ab आषाढे च यदा^आदित्ये पूर्वभाद्रपदे स्थिते।
पृ1.9cd सायाह्ने दृश्यतेऽत्यर्थं लोहितो मण्डले ब्रणः॥
पृ1.10ab पर^चक्रेण तद्^राष्ट्रं षण्^मासान् पीड्यते तदा।
पृ1.10cd क्षिति^पालश् च स^अमात्यः पुत्रदारेण वध्यते॥
पृ1.11ab पूर्वायां च^उत्तराषाढायाम् आषाढे गृह्यते शशी।
पृ1.11cd विद्याद् दुर्भिक्ष^कलह रोगांश् च^अत्र विनिर्दिशेत्॥
पृ1.12ab मासेऽथ श्रावणे मूले चन्द्र^सूर्यौ न भासतः।
पृ1.12cd स्फुलिङ्गाश् च^अत्र दृश्यन्ते विद्याद् रोग^भयं महत्॥
पृ1.13ab मासेऽश्वयुजि गृह्येतां एक^पक्षेन्दुभास्करो।(प्.137)
पृ1.13cd राज^पुत्र^सहस्राणां तदा जायेत संक्षयः॥
पृ1.14ab अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्त्तिके।
पृ1.14cd चन्द्र^सूर्याव् अग्निवर्णौ रक्त^वर्णे नभस्^तले॥
पृ1.15ab रविवद् भाति तद्^राष्ट्रं विनश्येत पुनः पुनः।
पृ1.15cd राज्ञां विद्याद् धतानां वै भूमिः पास्त्यति शोणितं॥
पृ1.16ab भरण्यां माघ^मासे तु कृष्णो वायुः समुत्थितः।
पृ1.16cd छादयेच् चन्द्र^सूर्यौ तु शीघ्रं राष्ट्रं विनश्यति॥
पृ1.17ab मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतं।
पृ1.17cd वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथा^अपरे॥
पृ1.18ab सह^आदित्येन चन्द्रेऽथ यदा कश्चिद् ग्रहश् चरेत्।
पृ1.18cd वायुर् वा विषमो वातिइ विद्याद् राज^वधं तदा॥
पृ1.19ab अशन्युल्के तु वैशाखे; आदित्येन सह^उत्थिते।
पृ1.19cd षण्^मास^अभ्यन्तरेण^अथ राष्ट्रे व्यसनम् आदिशेत्॥
पृ1.20ab ज्येष्ठ^मासे यदा^आदित्यो ग्रहतो निर्गतो भवेत्।
पृ1.20cd आदित्यस्य^उपघातेन ग्रहाः सर्वेऽथ पीडिताः॥
पृ1.21ab ज्येष्ठे च पांशुर् वर्षेत; आदित्यः परिविष्यते।
पृ1.21cd क्षिति^पाल^सहस्राणां एक; एकस् तु वध्यते॥
पृ1.22ab आषाढे वायवो वान्ति गच्छन्तो भरणी^स्थिताः।
पृ1.22cd उदपानानि शुष्यन्ते सर्व^शस्यं च शुष्यति॥
पृ1.23ab श्रावणे वायवः पीताः सदा कृष्णं नभस्^तलं।
पृ1.23cd भयं तत्र विजानीयात् समन्तात् समुपस्थितं॥
पृ1.24ab श्रावणे वर्षते ह्य् अग्निः पूर्वभाद्रपदे दिवा।
पृ1.24cd मेघाः शब्दम् उत्कुर्वन्ति रोग^दुर्भिक्षम् आदिशेत्॥
पृ1.25ab यदा भाद्रपदे मासे नभः स्याच् छन्न^गर्जितं।(प्.138)
पृ1.25cd पर^चक्रं तदा राष्ट्रे हरते धन^सञ्चयं॥
पृ1.26ab अश्वयुजि वात^वृष्टिः स्याद् आगत्य^उत्तरां दिशं।
पृ1.26cd पातयेच् च^एवम् आघातं कृत्स्नं राष्ट्रं विनश्यति॥
पृ1.27ab कार्त्तिके शुक्ल^त्रयोदश्यां यदा चन्द्रे धनुर् भवेत्।
पृ1.27cd समन्तान् नश्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
पृ1.28ab उल्का^पाता ह्य् अशनयो माघ^मासे भवन्ति वा।
पृ1.28cd अश्विन्यां विषये तत्र प्रजाऽश्वासेन वध्यते॥
पृ1.29ab मासे तु फाल्गुने यत्र; आग्निवर्षं नभस्^तलात्।
पृ1.29cd भवेच् छब्दस् तदाकाशे तद्^राष्ट्रं नश्यते लघु॥
पृ1.30ab स्वात्यां चैत्रे यदा वर्षं निरुद्धं वात^वर्षितं।
पृ1.30cd दृश्यत^इन्द्रधनुः क्षिप्रं नगरं तद् विनश्यते॥
पृ1.31ab भरण्यां ज्येष्ठ^मासे तु शब्द; उत्तरतो भवेत्।
पृ1.31cd पीतवर्णं तदाकाशं पर^चक्र^भयं भवेत्॥
पृ1.32ab आषाढे मासि पुष्येऽथ दृश्यन्ते व्योग्नि विद्युतः।
पृ1.32cd सतृण^उदकवृष्टिभिस् त्रिभागं मुच्यते प्रजा॥
पृ1.33ab श्रावणे तु यदा मूले बहु देवः प्रवर्षति।
पृ1.33cd दृश्यत^इन्द्रधनुस् तत्र क्षत्रियाणां महद्^भयं॥
पृ1.34ab मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ।
पृ1.34cd सुकृच्छ्रा वायवो वान्ति महद्^रोग^भयं तदा॥
पृ1.35ab मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद् ध्वनिः।
पृ1.35cd क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु दता प्रजा॥
पृ1.36ab भरण्याम् अश्वयुजे शब्द उपरिष्टाद् भवेद् यदि।
पृ1.36cd सतृणं च^उत्सृजेत् पांशुं तापसानां महद्^भयं॥
पृ1.37ab कार्त्तिके तु यदा^आर्द्रायां शब्दः श्रयेत भैरवः।
पृ1.37cd चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत्॥
पृ1.38ab मार्गशीर्षे धनिष्ठायां तूर्यशब्दोऽम्बरे भवेत्।(प्.139)
पृ1.38cd वातातुरस् तदा राष्ट्रे व्याधिर् भवति दारुणः॥
पृ1.39ab पौष^मासे यदा स्वात्यां शब्दो भवति भैरवः।
पृ1.39cd अभीक्ष्णं विद्युद् आकाशे पण्डितानां महद्^भयं॥
पृ1.40ab माघे शुक्ले तु निर्घातो नित्यं शाम्येद् वसुन्धरां।
पृ1.40cd जानीयात् तृतीये वर्षे सकलं राष्ट्रविभ्रमं॥
पृ1.41ab ज्येष्ठायां फाल्गुने मासे कृष्ण^वायुः समाकुलः।
पृ1.41cd अभीक्ष्णं कम्पते भूमिर् ब्रह्म^चारि^भयं तदा॥
पृ1.42ab पूर्वभाद्रपदायां तु चैत्रे कम्पेत् क्षितिर् दिवा।
पृ1.42cd तस्मिन् वर्षे च तद्राष्ट्रे परसैन्यान् महद्^भयं॥
पृ1.43ab पूर्वायां चेद् आषाढायां रात्रौ चैत्रे च निश्चलेत्।
पृ1.43cd असिभिर् हन्यते राजा हन्यते च महा^जनः॥
पृ1.44ab वैशाखे कम्पिता भूमिः कृष्ण^पक्षे ह्य् अभीक्ष्णशः।
पृ1.44cd अनावृष्ट्या तु दुर्भिक्षं मासान् षट् तत्र निर्दिशेत्॥
पृ1.45ab ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद् वसुन्धरा।
पृ1.45cd विद्याद् योध^सहस्राणां मही पास्यति शोणितं॥
पृ1.46ab ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पते।
पृ1.46cd प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत्॥
पृ1.47ab आषाढे कम्पते भूमिः पुष्य^नक्षत्र^संस्थिते।
पृ1.47cd शस्यं विनश्यते तत्र कलिकर्म च जायते॥
पृ1.48ab प्रकम्पन्ते यदा चैत्या; आद्रायां वा मघासु वा।
पृ1.48cd ज्वलेयुः प्रपतेयुर् वा नश्येद् राष्ट्रं तदा लघु॥
पृ1.49ab चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च।
पृ1.49cd सराष्ट्रः क्षितिपस् तत्र न चिरान् नाशम् अर्च्छति॥
पृ1.50ab श्रावणे कम्पते भूमिः पूर्वभाद्रपदा^स्थिते।(प्.140)
पृ1.50cd सदा पराजितो राजा चौर^राष्ट्रे च वध्यते॥
पृ1.51ab कार्त्तिके क्षिति^कम्पेन यदा चैत्यं विशीर्यते।
पृ1.51cd द्वारं वा नगरस्य^अथ भूयिष्ठं नश्यते प्रजा॥
पृ1.52ab वामे वा कषीणे चन्द्रोः शृङ्गे तिष्ठेद् बृहस्पतिः।
पृ1.52cd महा^भोगा विनश्येयुः प्रकाशाः पृथिवीश्वराः॥
पृ1.53ab सूर्याचन्द्रमसोः सृङ्गे लोहित^अङ्गो यदाऽरुहेत्।
पृ1.53cd क्रूर^अक्षमन्त्रिकात् पीडां प्रत्यन्तानां विनिर्दिशेत्॥
पृ1.54ab शनैश्चरो यदा शृङ्गे सोमस्य^अभिरुहेत् तदा।
पृ1.54cd ज्ञेयं रोग^भयं घोरं दुर्भिक्षं च^अत्र निर्दिशेत्॥
पृ1.55ab राहुणा निगृहीतस् तु च^उल्ल्कया हन्यते शशी।
पृ1.55cd षण्^मास^अभ्यन्तरात् तत्र राज्ञो व्यसनम् आदिशेत्॥
पृ1.56ab यस्य चैव^अथ नक्षत्रे शशी सूर्यो विगृह्यते।
पृ1.56cd राहुणा क्षितियो राज्यैः सह पीडाम् अवाप्नुयात्॥
पृ1.57ab राज्ञो वै च^अथ नक्षत्रे चन्द्रं केतुर् यदा विशेत्।
पृ1.57cd प्रत्यन्त^राजभिः सार्धं शस्त्राम् ऊर्च्छां विनिर्दिशेत्॥
पृ1.58ab चन्द्र^मध्य^गतः शुक्रः फाल्गुन्याथ मघा यदा।
पृ1.58cd सर्व^धान्यानि शुष्येयुस् तदा रोगं विनिर्दिशेत्॥
पृ1.59ab बृहस्पतिश् च शुक्रश् च लोहित^अङ्गः शनैश्चरः।
पृ1.59cd लिख्यन्ति सोम^शृङ्गस्य तदा विद्यान् महद्^भयं॥
पृ1.60ab धूमकेतुर् महा^भागः पुष्यम् आरुह्य तिष्ठति।
पृ1.60cd चतुर्^दिशं तदा विंच्यात् पर^चक्रैः पराभवं॥
पृ1.61ab मघायां लोहित^अङ्गो वा श्रवणे वा बृहस्पतिः।
पृ1.61cd तिष्ठेत् संवत्सर^त्रीणि भयं विद्यात् समागरं॥
पृ1.62ab तिष्ठेच् छुक्रोऽथ रोहिण्यां ज्येष्ठे मासे कथंचन।
पृ1.62cd व्याकुर्यान् नियतम् अत्र क्षत्रियाणां महद्^भयं॥
पृ1.63ab विशाखायां समीपस्थौ बृहस्पति^शनैश्चरौ।(प्.141)
पृ1.63cd सोमो वा रविणा सार्धं पर^चक्र^भयं तदा॥
पृ1.64ab काकाः श्येनाश् च बृध्राश् च वसेयुः सहिता मुदा।
पृ1.64cd मैथुनं वारितं वेयुः परैः सह रणस् तदा॥
पृ1.65ab श्येनो हस्तिनिवासे वा; अभिरोहेत् पुनः पुनः।
पृ1.65cd पर^चक्रेण युद्धं तु भवेच् च^अपि पुनः पुनः
पृ1.66ab कन्या प्रसूयते यत्र चतुर्^हस्ता चतुस्तनी।
पृ1.66cd स्त्रीणाम् एव भवेत् तत्र मरणं ह्य् अतिदारुणं॥
पृ1.67ab गर्भ^स्था दारका यत्र हसन्ति च वदन्ति च।
पृ1.67cd तस्य देशस्य जानीयाद् विनाशं समुपस्थितं॥
पृ1.68ab एक^पादां स्त्रिपादांश् च चतुर्^अङ्गांस् तथा^एव च।
पृ1.68cd नार्यो यत्र प्रसूयन्ते राज्ञो व्यसनम् आदिशेत्॥
पृ1.69ab सूयन्ते विकृतान् गर्भान् सन्तानान् भय^व्यञ्जनान्।
पृ1.69cd प्रमदा यत्र देशे तु राजा तत्र विनश्यति॥
पृ1.70ab लघु^हस्त^शीर्ष^मुखान् मानुषं कायम् अश्रितान्।
पृ1.70cd प्रमदा यत्र सूयन्ते राष्ट्रं तत्र विनश्यति॥
पृ1.71ab खराश् च महिषाश् च^अपि पशवोऽथ तथाविधाः।
पृ1.71cd द्वि^त्रि^शीर्षाः प्रसूयन्ते देशे यत्र स नश्यति॥
पृ1.72ab शृगाल^श्वान^मकर^हयरूपाश् च मानवाः।
पृ1.72cd जायन्ते यत्र देशे तु स देशो लघु नश्यति॥
पृ1.73ab पादाव् उभौ यदा वैश्या गुर्विणी संप्रसूयते।
पृ1.73cd देशस्य विलयं ब्रूयात् पर^चक्रेण दारुणं॥
पृ1.74ab पूर्वार्धः पक्षिनरयोर् गर्भो यत्र प्रसूयते।
पृ1.74cd राजा वा राजामात्यो वा सह देशेन नश्यति॥
पृ1.75ab कुम्भाण्डो जायते यत्र द्विसुखोऽथ चतुर्^मुखः।(प्.142)
पृ1.75cd त्रिनेत्रस् त्रिमुखो वा^अपि विद्यात् तत्र महद्^भयं॥
पृ1.76ab सौकरेण तु वक्रेण शरीरं मानुषं यदि।
पृ1.76cd सूतं चतुर्^दिशं राष्ट्रं हन्यात् तत्र न संशयः॥
पृ1.77ab आदित्यस्य तु रूपेण मानुषो यत्र जायते।
पृ1.77cd विभ्रमात् सकलं राष्ट्रं विनाशम् उपगच्छति॥
पृ1.78ab उत्तानशायी बालस् तु देशं यत्र द्विजोत्तमः।
पृ1.78cd दृष्टः प्रव्याहरन् वेदान् क्षिप्रं देशो विनश्यतेइ॥
पृ1.79ab कुक्षिं भित्वा यदा बालो गर्भान् निष्क्रमते स्वयं।
पृ1.79cd अत्राणां मातरं कृत्वा स देशो नश्यते लघु॥
पृ1.80ab गर्भ^स्थाः सूकरा; उष्ट्राः सर्पाश् च शकुनिस् तथा।
पृ1.80cd स्त्रीणां गर्भात् प्रसूयन्ते देशे तु भयम् आदिशेत्॥
पृ1.81ab पौरुषं गार्दभं च^अथ सौकरं च^अर्ध^विग्रहं।
पृ1.81cd गावो यत्र प्रसूयन्ते निर्दिशेद् भयम् आगतं॥
पृ1.82ab नारी गृह्णाति गर्भं वा; अदृष्ट^स्तन^रूपिणी।
पृ1.82cd विनाशं तस्य देशस्य सनृपस्य विनिर्दिशेत्॥
पृ1.83ab जटी दीर्घनखो यत्र सुकृष्णः परुष^च्छविः।
पृ1.83cd सजनो जायते यत्र राष्ट्रं साधिपतिं दहेत्॥
पृ1.84ab अग्रीवा दन्त^सहिता जायन्ते यत्र बालकाः।
पृ1.84cd शुष्येत सकलं शस्यं जनश् च विलयं व्रजेत्।
पृ1.85ab एक^बाहुर^शीर्षोऽथ गर्भो यत्र प्रसूयते।
पृ1.85cd स्वयं क्षुभ्येत तद्^राष्ट्रं विनश्येत न संशयः॥
पृ1.86ab फले फलं यदा पश्येत् पुष्पे वा पुष्पम् आश्रितं।
पृ1.86cd गर्भाः स्रवेयुर् नारीणां युवराजश् च वध्यते॥
पृ1.87ab अकाले पादपा यत्र पुष्प्यन्ति च फलन्ति च।(प्.143)
पृ1.87cd लता गुल्मोऽथ वल्ली वा देशे तत्र भयं भवेत्॥
पृ1.88ab वृक्ष^उपरिष्टात् पश्येद् वा स्रवन्तम् आत्म^शोणितम्।
पृ1.88cd कूजमानं पतङ्गं वा तदा विद्यान् महद्^भयं॥
पृ1.89ab वृक्षाणां मण्डपानां वा छाया न परिवर्तते।
पृ1.89cd चतुर्^वर्ण^भयं तत्र कलिकर्म च जायते॥
पृ1.90ab पुष्प्येग्रुः पादपा यत्र विविधाः पुष्प^जातयः।
पृ1.90cd कल्प^वृक्ष^प्रकृतयस् ततो विद्यान् महद्^भयं॥
पृ1.91ab अनावर्तं यदा पुष्पं फलं च^अपि प्रदृश्यते।
पृ1.91cd विनाशं तस्य देशस्य दुर्भिक्षं कलहं वदेत्॥
पृ1.92ab स्थानास्थानं गता वृक्षा दृश्येयुर् यत्र कुत्रचित्।
पृ1.92cd पूर्वप्रतिष्ठिता राजा न चिरेण विचाल्यते॥
पृ1.93ab दैव^असुरं च संग्रामं पश्येद् अद्भुत^दर्शनं।
पृ1.93cd शस्त्रं मूर्च्छयते तत्र तस्करैश् च^अपि पूर्ववत्॥
पृ1.94ab कम्पते रुदते शास्ता गच्छन् वा यत्र दृश्यते।
पृ1.94cd पर^चक्रात् तदा विद्याद् अत्यर्थं तत्प्रराजयं॥
पृ1.95ab देवता यत्र देशे तु नृत्यन्ति च हसन्ति च।
पृ1.95cd अश्रूणि पातयेयुर् वा तदा विद्यान् महद्^भयं॥
पृ1.96ab देवता यत्र क्रीडन्ति ज्वलन्ति निमिषन्ति वा।
पृ1.96cd चलेयुर् अथवा यत्र क्षिति^पोऽन्यो भवेत् तदा॥
पृ1.97ab शिवलिङं यदा कम्पेद् गगने वा^अथ दृश्यते।
पृ1.97cd निमज्जते धरण्यां वा ध्रुवं राज^वधो भवेत्॥
पृ1.98ab प्रतिमाः परिवर्तन्ते धूमायन्ते रुदन्ति च।
पृ1.98cd प्रस्विद्येयुः प्रधावेयुर् अन्यो राजा भविष्यति॥
पृ1.99ab अचलो वा चलेत् स्थानाच् चलं वा^अप्य् अचलं भवेत्।
पृ1.99cd अमात्यो हन्ति राजानं कलहं च^अत्र निर्दिशेत्॥
पृ1.100ab वमन्ति रुधिरं कन्या नमन्ते वा दिशो दश।(प्.144)
पृ1.100cd अयुक्ता वा प्रवर्तन्ते क्षत्रियाणां महद्^भयं॥
पृ1.101ab वर्षते कुसुमं यत्र रक्त^विन्दुम् अथ^अपि वा।
पृ1.101cd प्राणिनो विविधान् वा^अपि विद्याच् चौर^भयं तदा॥
पृ1.102ab यूपाः पुराणा निगमा देव^आगाराणि चैतियाः।
पृ1.102cd नगराण्य् अथ धूम्यन्ते क्षिप्रं राजा विनश्यति॥
पृ1.103ab इन्दुर् वा दीप^वृक्सो वा दीपो यत्र न दीप्यते।
पृ1.103cd राज्यकामः कुमारो वा क्षुभ्येद् विटपकोऽपि वा॥
पृ1.104ab अन्तःपुरे यदा नीडां कुर्वते मधु^मक्षिकाः।
पृ1.104cd अस्त्रं वा^अपि गृहं दह्याद् राज्ञो व्यसनम् आदिशेत्॥
पृ1.105ab पतेद् अन्तःपुरे विद्युद् वृक्षे वा^अप्य् आश्रमे तथा।
पृ1.105cd पुरि चैत्यच्छायायां वा राजार्थे पतिता हि सा॥
पृ1.106ab प्राकारे वाऽयुधागारे गोपुरास्थानकेषु वा।
पृ1.106cd वायसः कुरुते नीडं स^अमात्यो ध्वंसते नृपः॥
पृ1.107ab अनाहतेभ्यस् तूर्येह्भ्यः स्वयं शब्दो विनिश्चरेत्।
पृ1.107cd स्वचक्र^क्षोभदोषेण सर्वं राष्ट्रं विलुप्यते॥
पृ1.108ab मांस^शोणित^वर्षं वा पत्र^पुष्प^फलानि वा।
पृ1.108cd यदाभिवर्षेत् तद्वर्षं चक्रै राष्ट्रं विलुप्यते॥
पृ1.109ab मधु^फाणित^पुष्पाणि गन्ध^वर्षाण्य् अथ^अपि वा।
पृ1.109cd दिशो दाहाश् च दृश्येयुर् मार^दुर्भिक्ष^लक्षणं॥
पृ1.110ab मेघः समन्ततो गर्जेद् उपवर्षेत् सचातकं।
पृ1.110cd शोणितं सकरकं स्यात् तदा विद्यात् पराद् भयं॥
पृ1.111ab विद्युच् च पतते घोरा करकाणां च वर्षणं।
पृ1.111cd गन्धर्व^नगरं च^अथ दृष्ट्वा विद्यान् महद्^भयं॥
पृ1.112ab शशी शोणित^संकाशो मध्ये कृष्णो विवर्णवान्।(प्.145)
पृ1.112cd सामन्तकेन पीड्यते विद्याद् राष्ट्रे महद्^भयं॥
पृ1.113ab प्रदीपित^अग्नि^संकाशो यदा दृश्येत चन्द्रमाः।
पृ1.113cd गगनं दह्यते तत्र लोक^पीडा ज्वरेण च॥
पृ1.114ab यदा गैरिक^संकाशः क्षिप्रम् एव^उपशाम्यति।
पृ1.114cd वर्षणस्य^आगमो विद्याद् यदि वायुः प्रवायते॥
पृ1.115ab सन्ध्यायां धूम्र^वर्णायां दृश्येतेन्दुश् च भास्करः।
पृ1.115cd विच्छिन्नो ब्रह्म^रूपेण वर्षं तत्र विनिर्दिशेद्॥
पृ1.116ab नाप्सु मज्जति न^अप्य् अग्नौ पूर्ववच् च न दृश्यते।
पृ1.116cd अग्निर् उत्पत्स्यते तत्र कोष्ठ^आगारं दहेत सः॥
पृ1.117ab ध्वज^अग्रे वायसो यत्र लम्ब^पक्षो विधावते।
पृ1.117cd उदकं संहरेत् क्षिप्रम् अग्नितः सुमहद्^भयं॥
पृ1.118ab जलं जाज्वल्यमानं तु मत्स्यो निर्दहति स्वयं।
पृ1.118cd अनावृष्टिं तदा ब्रूयाद् दुर्भिक्षं च महद्^भयं॥
पृ1.119ab पुरद्वारे यदा^आगच्छेत् स्वयम् आरण्यको मृगः।
पृ1.119cd चक्र^द्वयेऽपि दुर्भिक्षं राष्ट्रे रोगं च निर्दिशेत्॥
पृ1.120ab त्रिशीर्षः पञ्च^शीर्षो वा यदा सर्पोऽथ दृश्यते।
पृ1.120cd अनावृष्ट्या तदा विद्यात् सर्व^शस्यं विनश्यति॥
पृ1.121ab कुशूलो यत्र दृश्येत कम्पयन् तु वसुन्धरां।
पृ1.121cd कोष्ठ^आगाराणि नश्येयुर् ये च^अन्ये धन^सञ्चयाः।
पृ1.122ab सर्प; उद्यत^शीर्षस् तु युध्यते पुरुषैः सह।
पृ1.122cd चक्र^द्वयाद् रोगतश् च विद्यात् तत्र महद्^भयं॥
पृ1.123ab बिल; एकत्र बहवः सर्पाः सुपरिवेष्टिताः।
पृ1.123cd शस्त्र^मृत्युं तदा विद्यात् क्षत्रियाणां महद्^भयं॥
पृ1.124ab निश्चरन्त्य् अवधानेन खड्गाः प्रज्वलिता यदा।
पृ1.124cd ततस् तं न चिरात् पश्येत् संग्रामं प्रत्युपस्थितं॥
पृ1.125ab काकः श्येनश् च गृध्रो वा यस्य नीयेत मूर्धनि।(146)
पृ1.125cd षण्^मास^अभ्यन्तरे राजा म्रियते सपुरोहितः॥
पृ1.126ab प्रासादाश् च प्रकम्पन्ते शरणानि गृहाणि च।
पृ1.126cd महा^बलं च वध्येत राष्ट्रस्य राज^पालकः॥
पृ1.127ab वज्र^उद्धृता दिशः सर्वाः कृष्ण^पक्षे चतुर्^दिशं।
पृ1.127cd वर्षेयुः शोणितं यत्र क्षिति^पालोऽत्र वध्यते॥
पृ1.128ab सूर्यस्य^उदय^काले तु महोल्का निपतेद् यदा।
पृ1.128cd राज^पुत्र^सहस्राणां भूमिः पास्याति शोणितं॥
पृ1.129ab वृक्षाः सर्पाः प्रकम्पेयुर् मुच्येयुस् त्वचो वा तथा।
पृ1.129cd सर्वस्मिन् एव राष्ट्रे तु विद्याच् छत्रु^भयं महत्॥
पृ1.130ab दिने ह्य् उल्का^प्रयुक्तिर् वा ज्वलन्ती यदि दृश्यते।
पृ1.130cd रक्त^उत्पादं तदा विद्यात् संग्रामं भीम^दर्शनं॥
पृ1.131ab असिं प्रज्वलितं पश्येत् तोमरं चक्रम् एव च।
पृ1.131cd विद्यात् पश्यन्ति शस्त्राणि संग्रामं भीम^दर्शनं॥
पृ1.132ab दीर्घम् उच्छ्वसते वाऽश्वः अश्रूणि च निपातयेत्।
पृ1.132cd पादेन कर्षते शीघ्रं युद्धे राज^वधो ध्रुवं॥
पृ1.133ab काकश् चेद् गृहम् आरुह्य हा पुत्र; इति वाशति।
पृ1.133cd सर्वः प्रणश्यते देशो नगर^ग्राम^कर्वटः॥
पृ1.134ab अनग्नौ जायते धूमः स्थले पद्मानि वा यदा।
पृ1.134cd विनाशं तस्य देशस्य नियमाच् छीघ्रम् आदिशेत्॥
पृ1.135ab आरवन्ति यदा घोरं मेघा वृकमृगास् तथा।
पृ1.135cd विनाशं तस्य देशस्य विद्याच् छीघ्रम् उपस्थितं॥
पृ1.136ab छिन्नस्रोता भवेन् नद्यश् चिरकारवहा; अपि।
पृ1.136cd गृहाः शून्योदकेन^अपि शुष्कास् तत्र भयं भवेत्॥
पृ1.137ab प्रतिस्रोता यदा नद्यो वहन्त्य् अप्रतिवारिताः।
पृ1.137cd नित्योद्विग्ना जनपदा निर्दिशेच् च जन^क्षयं॥
पृ1.138ab धनूंष्य् आकृZयमाणानि धूमायन्ति ज्वलन्ति च।(प्.147)
पृ1.138cd अन्यद् वा^अपि प्रहरणं परेभ्यो जायते भयं॥
पृ1.139ab मयूर^ग्रीव^संकाशः परिवेशो निशाकरे।
पृ1.139cd विद्याद् राज^सहस्राणां मही पास्यति शोणितं॥
पृ1.140ab नराणां प्रमदानां च रति^हर्षो न जायते।
पृ1.140cd सर्वत्र शोक^चिन्ता वा महत् तत्र भयं भवेत्॥
पृ1.141ab निर्ग्रन्था; ऋषयः सन्तो देशान् प्रक्रमेयुर् यतः।
पृ1.141cd नदीं भित्वा निकुञ्जान्वा स देशो नश्यतेऽचिरात्॥
पृ1.142ab यत्रौषध्यश् च विरसा जलं च परिहीयते।
पृ1.142cd विद्याद् देशं तम् उत्सृष्टं देवता^ऋषिसाधुभिः॥
पृ1.143ab मत्स्याः कूर्माश् च सर्पाश् च म्रियन्ते यत्र जाङ्गलाः।
पृ1.143cd धन^स्कन्धः स्त्रियास् तत्र सपत्नैर् विप्रलोप्स्यते॥
पृ1.144ab अपूर्वाः पक्षिणो यत्र स्थले वारिणि; एव वा।
पृ1.144cd दृश्येयुः पर^चक्रेण धन^स्कन्धो विलोप्स्यते॥
पृ1.145ab महा^पथो यदा कक्षैः प्रसृतैर् अपथो भवेत्।
पृ1.145cd सग्राम^कर्वटं राष्ट्रं पुत्रेण सह नश्यते॥
पृ1.146 नानोत्पातचक्र^निर्देशो नाम^अध्यायः।
पृ1.147 पठ भोस् त्रिशङ्को पुरुष^पिन्याध्यायं। अथ किं। कथयतु भगवान्।
पृ1.148 अथ खलु भोः पुष्करसारिन् पुरुष^पिन्याध्यायं व्याखामि तच् छ्रूयतां। कथयतु भगवान्।
पृ1.149 अष्टाविंशतिः पुष्करसारिन् नक्षत्राणि प्रकीर्तितानि। यानि चन्द्र^सूर्य^निःसृतान्य् अनुवहन्ति। तत्र सुकुगृष्ट्या अष्टाङ्गुल^प्रमाणया द्वादशाक्षगृष्टयः स्वशरीरं (प्.148) दैर्घ्येण ज्ञातव्यं। एकाक्षगृष्टिः शीर्ष^मूर्ध्नि एक^पाद^तलं भवेत्। चतुर्^दश गृष्टयो नक्षत्राणां पदं यत्र संदृश्यते। तद् अन्यथा न भवति। नक्षत्रे यत्र यो जातस् तत्र तत्र संकृश्यते।

पृ2 पुरुष^पिन्यः
पृ2.1ab कृत्तिकायां हि जातस्य मुखे वै चतुर्^अङ्गुलः।
पृ2.1cd पिन्यो दक्षिणतो यस्य लोमशः कृष्ण^लोहितः॥
पृ2.2ab भोगवान् यशसा युक्तः पण्डितो ज्वलति श्रिया।
पृ2.2cd कृत्तिकास्व् अथ जातस्य भवत्य् एतद् धि लक्षणं॥
पृ2.3ab दृश्यते व्रण; एवायं यस्य वै चतुर्^अङ्गुलः।
पृ2.3cd रोहिण्यां जातकः सोऽपि विद्वान् धर्म^रतः सदा॥
पृ2.4ab मण्डितो भोग^सम्पन्नो ह्री^युक्तश् च^अपि सर्वतः।
पृ2.4cd शूरो विजय^सम्पन्नो नित्यं शत्रु^प्रमर्दकः॥
पृ2.5ab ग्रीवायाम् अर्ध^गृष्ट्या तु दाहो यस्य प्रदृश्यते।
पृ2.5cd मृगशीर्षे ह्य् असौ जातः शूरो भोग^समर्पितः॥
पृ2.6ab अर्ध^द्वितीय^गृष्ट्या तु पिन्यो वामे हि यस्य तु।
पृ2.6cd आर्द्रायां क्रोधनो जातो मूर्खो गोपतिकश् च सः॥
पृ2.7ab वामे कक्षे व्रणो यस्य कृष्णश् च^एव पुनर्वसौ।
पृ2.7cd धन^धान्य^समृद्धो हि जायते स्वल्प^मेधसः॥
पृ2.8ab तथा^एव पुष्ये जातोऽसौ दृश्यते वर^लक्षणः।
पृ2.8cd चक्र^मध्ये च हस्ते च सूर्यश् चन्द्रो विराजते॥
पृ2.9ab अर्ध^प्रदक्षिणावर्ताः केशाः सर्वे हि संस्थिताः।(प्.149)
पृ2.9cd परिमण्डलश् च कायेन जितक्लेशोऽपि नायकः॥
पृ2.10ab हृदये यस्य दाहः स्याद् श्लेषायां कलि^प्रियः।
पृ2.10cd दुःशीलो दुःखसंवासो मैथुनाभिर् अतश् च सः॥
पृ2.11ab अध; उरसि पृष्ठे वा यस्य व्रणः प्रदृश्यते।
पृ2.11cd मघायां धनवान् जातो महा^आत्म धार्मिको नरः॥
पृ2.12ab नाभ्यां दक्षिण^वामाभ्यां व्रणो यस्य प्रदृश्यते।
पृ2.12cd पूर्वफाल्गुनीजातोऽसौ मत्सरी च^अल्प^जीवितः॥
पृ2.13ab चतुर्^अङ्गुलतो नाभ्या यस्य पिन्यः प्रदृश्यते।
पृ2.13cd उत्तरफाल्गुनीजातो भोग^शीलः श्रुतोद्यतः॥
पृ2.14ab श्रोण्यामलोहितः पिन्यो हस्ते जातस्य दृश्यते।
पृ2.14cd चौरः शठश् च मायावी मन्दपुण्योऽल्प^मेधसः॥
पृ2.15ab व्यंजने यस्य पिन्यस् तु दृश्यते नियमेनहि।
पृ2.15cd चित्रा^जातः स चेद् रोगी नृत्यगीतरतस् तथा॥
पृ2.16ab व्यञ्जनेऽपि च; ऊर्ध्वे वा पीतः पिन्यःप्रदृश्यते।
पृ2.16cd जातः स्वात्याम् असौ लुब्धो गुणद्विष्टो ह्य् अपण्डितः॥
पृ2.17ab कुगृष्ट्या यस्य; ऊरूभ्यां पिन्यो लोहित; एव हि।
पृ2.17cd आकीर्णो नरनारीभिर् विशाखायां भटोऽग्रणीः॥
पृ2.18ab विद्वान् शूरो जितमित्रो नित्यं सौख्यपरायणः।
पृ2.18cd श्रिया धृत्या च सम्पन्नोऽच्युतः स्वरुपपद्यते॥
पृ2.19ab द्वितीयगृष्ट्याम् ऊरुभ्याम् अङ्गे यस्य प्रदृश्यते।
पृ2.19cd शीलवान् अनुराधायां धर्म^भोग^समन्वितः॥
पृ2.20ab अधो यस्य^इह च^ऊरुभ्यां पिन्यो ज्येष्ठे स जायते।
पृ2.20cd अल्प^अयुर् अप्रियो दुःखी दुःशीलः कृपणस् तथा॥
पृ2.21ab जानुभ्याम् ऊर्ध्वतः सूक्ष्मो व्रणो यस्य^इह दृश्यते।(प्.150)
पृ2.21cd मूलेन भाग्यवान् जातः स्वगृहं नाशयेल् लघु॥
पृ2.22ab पूर्वाषाढासु जातस्य पिन्यः स्याज् जानु^मण्डले।
पृ2.22cd दायको धर्म; आसङ्ग्य^च्युतः स्वर्गपरायणः॥
पृ2.23ab उत्तरायाम् आषाढायां जातस्य तिलकस् त्रिके।
पृ2.23cd यदि दृश्येत् स मेधावी भोगवान् स्याज् जन^प्रियः॥
पृ2.24ab द्वितीयः पिन्यो दृश्येत धनवान् भोगवान् सदा।
पृ2.24cd सत्य^प्रियस् तथारोगोऽच्युतः स्वर्गं च गच्छति॥
पृ2.25ab धनिष्ठायां च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
पृ2.25cd क्रोधनो मन्दरागश् च प्राज्ञो भोग^विवर्जितः॥
पृ2.26ab द्विकुगृष्ट्या च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
पृ2.26cd मूर्खः शतभिषायां तु म्रियते ह्य् अदकेन सः॥
पृ2.27ab अधो जङ्घां कुगृष्ट्या तु पूर्वभाद्रपदे व्रणः।
पृ2.27cd परोपतापको मूर्खो दरिद्रश् चौर; इत्य् अपि॥
पृ2.28ab कुगुष्ट्या यस्य पिन्यः स्याज् जातो भाद्रपद^उत्तरे।
पृ2.28cd दानशीलः स्मृतिप्राप्तो दयापन्नो विशारदः॥
पृ2.29ab उभयोः पादयोः सूक्ष्मः पिन्यो यस्य प्रदृश्यते।
पृ2.29cd रेवत्यां जायते नीचो नापितः स हवत्य् अपि॥
पृ2.30ab अङ्गुष्ठविवरे पिन्यो नीलो यस्य प्रदृश्यते।
पृ2.30cd अरोगो बलवान् नित्यम् अश्विन्यां जात; एव सः॥
पृ2.31ab अथ पाणितले पिन्यो भरण्याम् अक्षयः स्मृतः।
पृ2.31cd वध्यघातश् च दुःशीलः स्यान् नरकपरायणः॥
पृ2.32ab नक्षत्राणां पदं ह्य् एतद् येन चर्या प्रजायते।
पृ2.32cd एतद् धि लोक^प्रज्ञानं लोको यत्र समाश्रितः॥इति पिन्याध्यायाः॥
पृ2.33 अथ खलु भोः पुष्करसारिन् पिटकाध्यायं नाम^अध्यायं व्याखास्यामि। तच् छ्रूयतां। कथयतु भगवान् त्रिसङ्कुः।(प्.151)

पृ3 पिटकाध्यायः
पृ3.1ab अतः ऊर्ध्वं प्रवक्ष्यामि सर्व^स्थान^गतं पुनः।
पृ3.1cd स्त्रीणां च पुरुषाणां च पिटकं सर्व^कर्मकं॥
पृ3.2ab लाभ^अलाभं सुखं दुःखं जीवितं मरणं तथा।
पृ3.2cd प्राज्ञा येनाभिजानन्ति तं च सर्वं निबोधतां॥
पृ3.3ab तत्राभिघातदग्धा वा तिलास् तद् रूपका; अपि।
पृ3.3cd विस्फोटवर्नभेदाश् च पिटकाभिहिताः स्मृताः॥
पृ3.4ab श्वेतवर्णेन पिटको विप्राणां पूजितो भवेत्।
पृ3.4cd क्षतोपमः क्षत्रियाणां वैश्यानां पीतकः स्मृतः॥
पृ3.5ab शूद्राणाम् असितः श्रेष्ठो विवर्णो म्लेच्छ^जातिषु।
पृ3.5cd यदा सवर्ण^पिटको मूर्ध्नि राजा महान् स्मृतः।
पृ3.6ab शीर्षे तु धन^धान्याभ्यां कान्तये सुभगाय च।
पृ3.6cd उपघातं भ्रूवोर् विद्यात् स्त्री^लाभो भ्रूवसङ्गमे॥
पृ3.7ab अक्षिस्थाने तु पिटकःकरोति प्रिय^दर्शनं।
पृ3.7cd अक्षिभ्रूभागे शोकाय गण्डे पुत्रवधो ध्रुवं॥
पृ3.8ab अश्रूपातः ध्रुवं शोकः श्रवणे गोषु नाशकः।
पृ3.8cd कर्ण^पीठे विभूषाय नासावंशे तु जातये॥
पृ3.9ab नासागण्डे पुत्र^लाभं वस्त्र^लाभं ध्रुवं वदेत्।
पृ3.9cd नास^अग्रे जातेनाप्नोति गन्ध^भोगान् अभीप्सितान्॥
पृ3.10ab उत्तरोष्ठे तथाधरे च^अन्न^पानं शुभ^अशुभं।(प्.152)
पृ3.10cd चिबुके हनुदेशे च धनं गावः सतां श्रियः॥
पृ3.11ab गले तु दानम् आप्नोति पानम् आभरणानि च।
पृ3.11cd शिरः^सन्धौ च ग्रीवायां शिरश्छेदनम् आदिशेत्॥
पृ3.12ab जातोऽयं शिरसो मूले हनुनि च धन^क्षयः।
पृ3.12cd भैक्षचर्या भवेत् सन्धौ हृदये प्रिय^सङ्गमः॥
पृ3.13ab पृष्ठे तु दुःखशय्यायै; अन्न^पानक्षयाय च।
पृ3.13cd पार्श्वे तु सुख^शय्यायै स्तने तु सुतजन्यता॥
पृ3.14ab जातेन शिवम् आप्नोति न च^अप्रिय^समागमः।
पृ3.14cd बाह्वोः शत्रु^विनाशाय युक्तं स्त्री^लाभ; एव च॥
पृ3.15ab ददात्य् आभरणं जातः प्रबाह्वोः कुर्परे क्षुधा।
पृ3.15cd मणिबन्धे नियमनमंसाभ्यां हर्ष; एव च॥
पृ3.16ab सौभगं धन^लाभंच जातः पाणौ ददाति च।
पृ3.16cd पुष्पितो ह्य् एकदेशे तु दशनेषु नखेषु च॥
पृ3.17ab जातेन हृदि जानीयाद् भ्रातृपुत्रसमागमं।
पृ3.17cd जठरे सोम^दानाय नाभ्यां स्त्री^लाभम् आदिशेत्॥
पृ3.18ab जघने व्यसनं विद्यान् नार्य दौःशील्यम् एव च।
पृ3.18cd पुत्रोत्पत्तिस् तु वृषणे लिङ्गे भार्या तु शोभना॥
पृ3.19ab पृष्ठान्ते सुख^भागित्वं स्फिचि च^अपि धन^क्षयः।
पृ3.19cd ऊरुजाताश् च पिटका धन^सौभाग्यदायकाः॥
पृ3.20ab जानौ शत्रु^भयं विद्यात् तथा^एव च धन^क्षयं।
पृ3.20cd जानु^संधौ विजानीयान् मेढ्रके ह्य् अथ जातकैः।
पृ3.20ef विजयं ज्ञान^लाभं च पुत्र^जन्म विनिर्दिशेत्॥
पृ3.21ab स्त्री^लाभं वक्षसि च^एव भवेद् अन्यो निरर्थकः।
पृ3.21cd जङ्घायां परसेवा तु परदेशात् तु भुज्यते॥
पृ3.22ab मणिबन्धे तु पिटको बन्धनं निर्दिशेद् ध्रुवं।(प्.153)
पृ3.22cd परिवाधं स लभते बन्धनं च न संशयः।
पृ3.22ef पार्श्वे गुल्फे च जानीयाच् छस्त्रेण मरणं ध्रुवं॥
पृ3.23ab अङ्गुलीषु ध्रुवं शोको व्याधिश् च^अङ्गुलिपर्वसु।
पृ3.23cd प्रवासं प्रवसेन् नित्यं तथा^एव^उत्तरपादके॥
पृ3.24ab यस्य पाद^तले जातस् तथा हस्त^तलेऽपि च।
पृ3.24cd धनं धान्यं सुता गावः स्त्रियो यानानि च^अप्नुयात्॥
पृ3.25ab स्निग्धं स्निग्धेषु विज्ञेयं चलेषु च चलं फलं।
पृ3.25cd स्थान^स्थे विपुलं दद्यात् फलं नृणां शुभोदयं॥
पृ3.26ab विवर्णो विपरीतश् च फलं सर्वं प्रयच्छति।
पृ3.26cd पुंसां मध्ये ये स्निग्धाश् च देशे दक्षिणतश् च ये।
पृ3.26ef तथा च^अभ्यन्तरे च^एव स्थाने तु प्रतिपूजिताः॥
पृ3.27ab स्त्रीणां मृदुषु देशेषु वक्त्रान् तेषु च पर्वतः।
पृ3.27cd तत्त्वं विज्ञाय पिन्यानं स्थानं वर्णं च जन्म च॥
पृ3.28ab स्थान^अस्थानं च मतिमान् विकारं गतिम् एव च।
पृ3.28cd आदिशेत् तु नरः पश्चाद् यथ^एवं समुदाहृतं॥
पृ3.29ab वामभागे तु नारीणां विज्ञेएयाः पिटकाः शुभाः।
पृ3.29cd दक्षिणे तु मनुष्याणां भवन्ति ह्य् अर्थ^साधकाः॥
पृ3.30ab विपरीतास् तु पिटका मोघास् तु बहवः स्मृताः।
पृ3.30cd यथोक्तानं च सन्धिस्थाः सर्वे विफलदाः स्मृताः॥
पृ3.31ab सिद्धाः ध्रुवा व्रणा भिद्यास् तथा सद्यः^कृताश् च ये।
पृ3.31cd धर्म^कीलसमाश् च^एव सर्वे ते पिटकाः स्मृताः॥
पृ3.32ab गुणदोषाश् च सर्वेषां तथा^अप्य्^अन्ये प्रकीर्त्तिताः।
पृ3.32cd इत्य् आह भगवांस् त्रिशङ्कुः शिष्येभ्यो नित्य^दर्शनं॥
पृ3.33ab न नखेन न शस्त्रेण न^आयसेन कथंचन।(प्.154)
पृ3.33cd काञ्चनेन सुवर्णेन दहेद् विप्रांश् च भोजयेद्॥
पृ3.34 अयं भोः पुष्करसारिन् पिटकाध्याय^नाम^अध्यायः।
पृ3.35 अथ खलु भोः पुष्करसारिन् स्वप्न^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान्।

पृ4 स्वप्न^अध्यायः
पृ4.1ab शुभ^अशुभं च स्वप्नानां यत् फलं समुदाहृतं।
पृ4.1cd देवता^ब्राह्मणौ गावौ बह्निं प्रज्वलितं तथा।
पृ4.1ef यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
पृ4.2ab यस् तु पश्यति स्वप्न^अन्ते राजान्नं कुञ्जरं हयं।
पृ4.2cd सुवर्णं वृषभं च^एव कुटुम्बं तस्य वर्धते।
पृ4.3ab सारसांश् च शुकान् हंसान् क्रौञ्चान् श्वेतांश् च पक्षिणः।
पृ4.3cd यस् तु पश्यति स्वप्ने वै कुटुम्बं तस्य वर्धते।
पृ4.4ab समृद्धानि च शस्यानि नवानि सुरभीणि च।
पृ4.4cd पद्मिनीं पुष्पितां च^अपि पुर्ण^कुम्भांस् तथा^एव च॥
पृ4.5ab प्रसन्नम् उदकं च^एव पुष्पाणि विविधानि च।
पृ4.5cd यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
पृ4.6ab पाणौ पादेऽथ वा जानौ शस्तेर्ण धनुषा^अपि वा।
पृ4.6cd प्रहारा यस्य दीयन्ते तस्य^अम्बरोऽभिवर्धते॥
पृ4.7ab तारा^चन्द्रमसौ सूर्यं नक्षत्राणि ग्रहांस् तथा।
पृ4.7cd यस् तु पश्यति स्वप्न^अन्ते कुटुम्बं तस्य वर्धते॥
पृ4.8ab अश्व^पृष्ठं गज^स्कन्धं यानानि शयनानि च।
पृ4.8cd योऽभिरोहति स्वप्न^अन्ते महद्^ऐश्वर्यम् आप्नुयात्॥
पृ4.9ab पतितश् च^अरुहेद् भूयस् तत्रस्थश् च विबुध्यते।(प्.155)
पृ4.9cd ऐश्वर्य^धन^लाभाय नष्ट^लाभाय निर्दिशेत्॥
पृ4.10ab गोयुतं च रथं स्वप्ने हयं वा योऽभिरोहति।
पृ4.10cd तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
पृ4.11ab प्रपातं पर्वतं च^एव योऽभिरोहति मानवः।
पृ4.11cd तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
पृ4.12ab आसने शयने यने शरीरेऽथ गृहे क्षयः।
पृ4.12cd येषाम् आरोहणं शस्तं तेषाम् आरोहणात् क्षयः।
पृ4.12ef येषाम् आरोहणाद् दोषास् तेषाम् आरोहणाद् गुणाः॥
पृ4.13ab त्रि^साहस्रं भवेत् कण्ठे दश शीर्षस्य छेदने।
पृ4.13cd राज्यं शत^सहस्रं वा लभते शीर्ष^भक्षणे॥
पृ4.14ab शुष्कां नदीं ह्रदं वा^अपि शून्य^आगार^प्रवेशनं।
पृ4.14cd शुष्क^उदपान^ं तु लभते स्वप्ने दृष्ट्वा ध्रुवं भयं॥
पृ4.15ab शृगालं मानुषं नग्नं गोधा^वृश्चिक^सूकरं।
पृ4.15cd अजां वा पश्यतः स्वप्ने व्याधि^क्लेशं विनिर्दिशेत्॥
पृ4.16ab काकं श्येनम् उलूकं वा गृध्रं वा^अप्य् अथ वर्तकं।
पृ4.16cd मयूरं पश्यतः स्वप्ने तस्य व्यसनम् आदिशेत्॥
पृ4.17ab नग्नं पश्यति ह्य् आत्मानं पांशुना ध्वस्तम् एव वा।
पृ4.17cd कर्दमेन^उपलिप्तं वा व्याधि^क्लेशम् अवाप्नुयात्॥
पृ4.18ab कुण्ड्थाः स्त्रियोऽथ संलोक्य चौरान् द्यूत^करांस् तथा।
पृ4.18cd कुशीलांश् चारणान् धूर्तान् स्वप्ने दृष्ट्वा ध्रुवं भयं॥
पृ4.19ab वमि^मूत्र^पुरीषाणि विरेकं वसानो जनः।
पृ4.19cd उद्वर्तनं वा कुर्वाणः स्वप्न^अन्ते रोगम् अर्च्छति॥
पृ4.20ab ध्वजं छत्रं वितानं वा स्वप्न^अन्ते यस्य धार्यते।
पृ4.20cd तत्रस्थोऽपि विबुध्येत महद्^ऐश्वर्यम् आदिशेत्॥
पृ4.21अcd अन्त्रैस् तु यस्य नगरं समन्तात् परिवार्यते।(प्.156)
पृ4.21cd ग्रसते चन्द्र^सूर्यौ तु महद्^ऐश्वर्यम् आदिशेत्॥
पृ4.22ab मनुष्यं भूमि^भागं वा स्वप्न^अन्ते ग्रसते यदि।
पृ4.22cd ह्रदश् च वा समुद्रोऽयं महद्^ऐश्वर्यम् आप्नुयात्॥
पृ4.23ab धनुः प्रहरणं शस्त्रं रक्तम् आभरणं ध्वजं।
पृ4.23cd कवचं वा लभेत् स्वप्ने धन^लाभं विनिर्दिशेत्॥
पृ4.24ab प्रपातं पर्वतं तालं वृषभं कुञ्जरं हयं।
पृ4.24cd तोरणं नगरं द्वारं चन्द्र^आदित्यौ सतारकौ।
पृ4.24ef स्वप्ने प्रपतितौ दृष्ट्वा राज्ञां व्यसनम् आदिशेत्॥
पृ4.25ab उदयं चन्द्र^सूर्याणं स्वप्ने दृष्टं प्रशस्यते।
पृ4.25cd तयोर् अस्तं गतं दृष्ट्वा राज्ञो व्यसनम् आदिशेत्॥
पृ4.26ab श्मशान^वृक्ष^यूपं वा नरो यद्य् अभिरोहति।
पृ4.26cd वल्मीकं भस्म^राशिं वा स्वप्ने व्यसनम् आदिशेत्॥
पृ4.27ab कृष्ण^वस्त्रा तु या नारी काली कामयते नरं।
पृ4.27cd करवीर^स्रजा स्वप्ने तदन्तं तस्य जीवितं॥
पृ4.28ab तमसि प्रविशेत् स्वप्ने शम्भोर् वा च^अमरं तथा।
पृ4.28cd वृक्षाद् वा प्रपतेत् स्वप्ने मरणं तस्य निर्दिशेत्॥
पृ4.29ab वृक्षां काष्ठं तृणं वा^अपि विरुचं यस् तु पश्यति।
पृ4.29cd स्वप्ने शीर्षं शरीरं वा मरणं तस्य निर्दिशेत्॥
पृ4.30ab देवो वा वर्षते यत्र यत्र च^एव^अशनिः पतेत्।
पृ4.30cd भूमिर् वा कम्पते यत्र स्वप्ने व्यसनम् आदिशेत्॥
पृ4.31ab चन्द्र^आदित्यौ यदि स्वप्ने खण्डौ भिन्नौ च पश्यति।
पृ4.31cd पतितौ पतमानौ वा चक्षुस् तस्य विनश्यति॥
पृ4.32ab काषाय^प्रावृतां मुण्डां नारीं मलिन^वाससं।
पृ4.32cd नील^रक्त^अम्बरां दृष्ट्वा; आयासम् अधिगच्छति॥
पृ4.33ab त्रपु^सीसे; अयस्ताम्रलोहरजतम् अञ्जनं।(प्.157)
पृ4.33cd लब्ध्वा तु पुरुषः स्वप्ने धन^नाशं समर्च्छति॥
पृ4.34ab गायन्ती वा हसन्ती वा नृत्यन्ती वा विबुध्यते।
पृ4.34cd वादित्रवाद्यमानैर् वा; आयासं तत्र निर्दिशेत्॥
पृ4.35ab कर्दमे यदि वा पङ्के सिकतास्ववसीदति।
पृ4.35cd तत्रस्थो वा विबुध्येत व्याधिं समधिगच्छति॥
पृ4.36ab अष्टापदैर् अथान्यैर् वा क्रीडेज् जय^पराजये।
पृ4.36cd क्रीडेद् अकुशलाङ्कैर् वा स्वप्ने दृष्ट्वा ध्रुवं कलिः॥
पृ4.37ab आसने शयने यने वास्त्रे साभरणे गृहे।
पृ4.37cd नष्टे भ्रष्टे विशीर्णे वा; आयासम् अधिगच्छति॥
पृ4.38ab सुरामैरेयपानानि शार्करम् आसवं मधु।
पृ4.38cd पिवते पुरुषः स्वप्ने; आयासम् अधिगच्छति॥
पृ4.39ab प्रसन्नेऽम्भसि च^आदर्शे छायां पश्यति नात्मनः।
पृ4.39cd उत्पद्यते ध्रुवं तस्य स्कन्ध^न्यासो न संशयः॥
पृ4.40ab अभीक्ष्णं वर्षते देवो जलं पांशुम् अथ^अपि वा।
पृ4.40cd अङ्गारं वा^अपि वर्षेत मरणं तत्र निर्दिशेत्॥
पृ4.41ab जन^घातं विजानीयात् तत्र देशे महा^भयं।
पृ4.41cd रज्जु जालेन वा स्वप्ने पर^चक्राद् विनिर्दिशेत्॥
पृ4.42ab उदकेन समन्ताद् वै नगरं परिवार्यते।
पृ4.42cd जालेनान्येन वा स्वप्ने पर^चक्र^उद्गमो भवेत्॥
पृ4.43ab तैल^कर्दम^लिप्त^अङ्गो रक्त^कण्ठ^गुणो नरः।
पृ4.43cd गायते हसते च^एव प्रहारं तस्य निर्दिशेत्॥
पृ4.44ab यं कृष्ण^वसना नारी; आर्द्रा वा मलिनाथ वा।
पृ4.44cd परिष्वजेत् नरं स्वप्ने बन्धनं तस्य निर्दिशेत्॥
पृ4.45ab कृष्ण^सर्पो यदि स्वप्ने ह्य् अभिरोहति यं नरं।
पृ4.45cd गात्राणि वेष्टयेद् वा^अपि बन्धनं तस्य निर्दिशेत्॥
पृ4.46ab लताभिः स्थाणु^वृन्दैर् वा यन्त्रै वा परिवार्यते।(प्.158)
पृ4.46cd स्वप्न^अन्ते पुरुषो यस् तु बन्धनं तस्य निर्दिशेत्॥
पृ4.47ab यन्त्राणि यदि सर्वाणि वागुराबन्धनानि वा।
पृ4.47cd यस्य छिद्येरन् स्वप्न^अन्ते बन्धनात् स विमुच्यते॥
पृ4.48ab विषमाणि च निम्नानि पर्वतान् नगराणि च।
पृ4.48cd यस् तु पश्यति स्वप्न^अन्ते क्षिप्रं क्लेशाद् विमुच्यते॥
पृ4.49ab पूतना वा पिशाचा वा दुश्चला मलिना^अथ वा।
पृ4.49cd एवंरूपाणि रूपाणि दृष्ट्वा स्वप्ने ध्रुवं कलिः॥
पृ4.50ab सुस्नातं च सुवेशं च सुगन्धं शुक्ल^वाससं।
पृ4.50cd पुरुषं वा^अथ नारीं वा दृष्ट्वा स्वप्ने महत्^सुखं॥
पृ4.51ab तृणं वृक्षम अथो काष्ठं विरूढं यत्र दृश्यते।
पृ4.51cd गृहे वा यदि वा क्षेत्रे क्षिप्रं द्रव्य^क्षयो भवेत्॥
पृ4.52ab भद्रासने वा^श्भ्यासीनो शयने वा सुसंस्कृते।
पृ4.52cd नरो वा लभते नारीं नारी वा लभते नरं॥
पृ4.53ab नरः शुक्लम् अथो वस्त्रं शुक्ल^गन्ध^अनुलेपितं।
पृ4.53cd स्वप्न^अन्ते यस् तु पश्येत स्त्री^लाभं तस्य निर्दिशेत्॥
पृ4.54ab यस् तु ह्य् अन्नानि पश्येत भूषणं निगडैस् तथा।
पृ4.54cd नरस् तु लभते भार्यां नारी वा लभते पतिं॥
पृ4.55ab मेखलां कर्णिकां मालां स्त्रीणाम् आभरणानि च।
पृ4.55cd लब्ध्वा नरो लभेद् भार्यां नारी च लभते पतिं॥
पृ4.56ab कुञ्जरं वृषभं नागं चन्द्र^आदित्यौ सतारकौ।
पृ4.56cd अभिवदेत या नारी पतिं सा लभतेऽचिरात्॥
पृ4.57ab एषाम् अन्यतमः कुषौ प्रविशेच् च यदि स्त्रियाः।
पृ4.57cd सा काले सर्व^पूर्ण^अङ्गं श्रीमत्^पुत्रं प्रसूयते॥
पृ4.58ab फलानि च समग्राणि वनानि हरितानि च॥
पृ4.58cd स्वप्न^अन्ते लभते नारी श्रीमत्^पुत्रं प्रसूयते॥
पृ4.59ab उत्पलं कुमुदं पद्मं पुण्डरीकं सकुड्मलं।(प्.159)
पृ4.59cd लब्धा नारी तु स्वप्न^अन्ते श्रीमत्^पुत्रं प्रसूयते॥
पृ4.60ab उपायन^सूत्रयोर् अन्तः सज्जं तत्र तु पिण्डकं।
पृ4.60cd स्वप्ने या लभते नारी सा^अपि पुत्रं प्रसूयते।
पृ4.60ef यमं तु भाजनं च^अपि यमं तु सा प्रसूयते॥
पृ4.61ab म्लायन्तीम् अथ ग्रीष्मान् ते तरुणीम् आत्मिकाम् अपि।
पृ4.61cd शुष्कां दृष्ट्वा तथा स्वप्ने स्वपक्ष^मरणं भवेत्॥
पृ4.62ab बाहवो यस्य वर्धन्ते चक्षुर् अङ्गुलयोऽपि वा।
पृ4.62cd ज्ञातयो तस्य वर्धन्ते शत्रुणां मरणं भवेत्॥
पृ4.63ab बध्यन्ते बाहवो यस्य चक्षुश् च व्याकुलं भवेत्।
पृ4.63cd बाहुर् वा प्रपतेद् यस्य स्व^पक्ष^मरनं भवेत्॥
पृ4.64ab देवो वा यदि वा प्रेतो नार्या वस्त्रं फलानि वा।
पृ4.64cd स्वप्ने प्रयच्छते यस्याः पुत्रस् तस्याः प्रजायते॥
पृ4.65ab अपकृष्टो रुदन्यो वा नग्नोऽथ मलिनः कृशः।
पृ4.65cd क्रोधं व (लचुन) विनिर्दिशेत्॥
पृ4.66ab चर्म यन्त्रं गणितं वा कीलं वा^अथ किलाटकं।
पृ4.66cd स्वप्ने लब्ध्वा च प्राप्नु[जानी]याद् ध्रुवं वस्त्र^आगमो भवेत्॥
पृ4.67ab अमानुषोऽथ राजा वा देवः प्रेतोऽथ ब्राह्मणः।
पृ4.67cd स्वप्ने यथा ते जल्प^न्ति स तथा^अर्थो भविष्यति॥
पृ4.68ab (लचुन) पूर्वविचिन्तितं।
पृ4.68cd यच् च^अनुस्मरते दृष्ट्वा यच् च^अपि बहु पश्यति॥
पृ4.69ab अभ्युत्थितो यथा मार्गे स्वप्न^अन्ते प्रतिबुध्यते।
पृ4.69cd विषमं वा तथा^अध्वानं छिद्रं वा प्रतिपद्यते॥
पृ4.70ab अग्निं प्रज्वलितं तप्तं शमित्वा तु प्रशस्यते।(प्.160)
पृ4.70cd गृहाणां करणं शस्तं भेदनं न प्रशस्यते॥
पृ4.71ab निर्मलं गगनं शस्तं समेघं न प्रशस्यते॥
पृ4.71cd प्रसन्नम् उदकं शस्तं कलुषं न प्रशस्यते।
पृ4.72ab अध्वानं गमनं शस्तं न क्वचित् संनिवर्तनं।
पृ4.72cd सुवर्ण^दर्शनं शस्तं धारणं न प्रशस्यते॥
पृ4.73ab मांसस्य दर्शनं साधु भक्षणं न प्रशस्यते।
पृ4.73cd मद्यस्य दर्शनं शस्तं पानं तु न प्रशस्यते॥
पृ4.74ab पृथिवी हरिता शस्ता विवर्णा न प्रशस्यते।
पृ4.74cd यानस्य^आरोहणं शस्तं पतनं न प्रशस्यते॥
पृ4.75ab स्वप्नेषु रुदितं शस्तं हसितं न प्रशस्यते।
पृ4.75cd प्रच्छन्न^दर्शनं शस्तं नग्नं नैव प्रशस्यते॥
पृ4.76ab माल्यस्य दर्शनं शस्तं धारणं न प्रशस्यते।
पृ4.76cd गात्रं विकर्तितं साधु प्रोक्षितं न प्रशस्यते॥
पृ4.77ab मृदुः प्रशस्यते वातो न^अतिवातः प्रशस्यते।
पृ4.77cd व्याधितो मलिनः शस्तो भूषितो न प्रशस्यते।
पृ4.77ef पर्वत^आरोहणं शस्तं न तु तत्र^अवतारणं॥
पृ4.78ab धूम्रा घना दुन्दुभि^शङ्ख^शब्दो वातोऽभ्र^वृष्टिश् च तथा समन्तात्।
पृ4.78cd सर्व^स्थिराणां च चलश् च यः स्याद् ये च^अन्तरे दोष^कृता विकाराः॥
पृ4.79ab पूर्वेषु रूपेषु यथावद् इष्टा राज^र्षयो देव^गणाश् च सर्वे।
पृ4.79cd यद् ब्राह्मण^गात्र^विकर्तनं च; एतानि सर्वाण्य् अपि शोभनानि॥
पृ4.80ab यत् पूर्व^रूपेषु भवेत् प्रशस्तं दुःस्वप्नम् एतानि शमं नयन्ति।
पृ4.80cd गावः प्रदानं द्विज^पूजनं च दुःस्वप्नम् एतेन परिजितं स्यात्॥
पृ4.81ab देवं च यं भक्तिगतो मनुष्यस् तं तु परांश् च^अर्चयितुं यतेत।(प्.161)
पृ4.81cd स्वप्नं तु दृष्ट्वा प्रथमे प्रदोषे संवत्सर^अन्तेऽस्य विपाकम् आहुः॥
पृ4.82ab षण्^मासिकं यच् च भवेद् द्वितीये षट्पाक्षिकं यत् तु भवेत् तृतीये।
पृ4.82cd अध्यर्ध^मासे तरम् एव यत् स्यात् फलेच् चतुर्थे रजनी^प्रभाते॥
पृ4.83ab द्विजोत्तमे वा तिल^पात्र^दानं शान्ति^क्रियाः स्वस्त्ययन^प्रयोगाः।
पृ4.83cd पूजा गुरूणां परिमिष्टम् अन्नं दुःस्वप्नम् एतानि विनाशयन्ति॥
पृ4.84ab अयं भोः पुष्करसारिन् स्वप्न^अध्याय^नाम^अध्यायः। अथ खलु भोः पुष्करसारिन्न् अपरम् अपि स्वप्न^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।

पृ5 अपरः स्वप्न^अध्यायः
पृ5.1ab शुभ^अशुभानां स्वप्नानां यत् फलं समुदाहृतं।
पृ5.1cd निमित्तं यादृशं यस्य शृणु वक्ष्यामि तत्वतः॥
पृ5.2ab जाग्रतो यदि वा त्रस्तो दिवा स्वप्नानि पश्यति।
पृ5.2cd न तु भयं भवेत् तस्य जानीयाद् एव बुद्धिमान्॥
पृ5.3ab यस्य तु यो भवेच् छत्रुर् यस्य विधेयम् इच्छति।
पृ5.3cd स्वप्ने तु कलहं दृष्ट्वा क्षिप्रं प्रीतिर् भविष्यति॥
पृ5.4ab रजन्यां पुरिमे यामे योऽद्राक्षीत् सुख^दुःखदं।
पृ5.4cd अध्वानं चिर^कालेन तथा ह्य् एष निवर्तते॥
पृ5.5ab मध्यमे भवते नैव क्षिप्रं भवति पश्चिमे।
पृ5.5cd वैवार्गं त्वरितं दृष्ट्वा स्त्री^लाभम् अभिनिर्दिशेत्॥
पृ5.6ab दृष्ट्वा जलचरान् मत्स्यान् एवं जानीत बुद्धिमान्।
पृ5.6cd यत् किञ्चिद् आरभिष्यामि क्षिप्रम् एव भविष्यति॥
पृ5.7ab चम्पायां धृषणं हस्ते धृषेत् स्वप्न^अन्तरेषु वा।
पृ5.7cd प्रतिबुद्धो विजानीयाद् वर्णम् एवं भविष्यति॥
पृ5.8ab सर्वाणि खलु पानानि मधुराणि सुखानि च।
पृ5.8cd यस् तु पिबति स्वप्न^अन्ते स च लाभैः प्रयुज्यते॥
पृ5.9ab श्व^शृगालैर् भक्ष्यतेऽत्र स्वप्ने संपरिवार्यते।(प्.162)
पृ5.9cd प्रतिबुद्धस् तु जानीयात् शत्रुर् एव प्रमूर्च्छति॥
पृ5.10ab उपरि काका गृध्राश् च धावन्त्य् उपरि यान्ति च।
पृ5.10cd प्रतिबद्धो विजानीयाच् छत्रुर् मा वधयिष्यति॥
पृ5.11ab यस्य पर^गृह^श्वानो द्वारे मूत्रं प्रकुर्वते।
पृ5.11cd प्रतिबुद्धो विजानीयाद् भार्या मे जारम् इच्छति॥
पृ5.12ab एकश् च धरणौ पादो द्वितीयः शिरसि स्थितः।
पृ5.12cd प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
पृ5.13ab समुद्रं यदि पश्येद् वा पातुम् इच्छति तज्जलं।
पृ5.13cd प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
पृ5.14ab वृक्षं पर्वतम् आरुह्य नागं च तुरगं तथा।
पृ5.14cd प्रतिबुद्धो विजानीयाद् राज्य^लाभो भविष्यति॥
पृ5.15ab यस् तु स्वप्न^अन्तरे पश्येत् पितॄन् यान् इह च^अन्यथा।
पृ5.15cd तथा माता पिता च^एव तस्य जीवन्ति ते चिरं॥
पृ5.16ab यस् तु स्वप्न^अन्तरे पश्येत् केश^श्मश्रू^विकर्तितं।
पृ5.16cd प्रतिबुद्धो विजानीयाद् अर्थ^सिद्धिर् भविष्यति॥
पृ5.17ab आननं च^उदके दृष्ट्वा मध्येऽग्नौ च विधावितं।
पृ5.17cd प्रतिबुद्धो विजानीयाद् कुल^वृद्धिर् भविष्यति॥
पृ5.18ab धावनं लङ्घनं च^एव ग्रामाणां परिवर्तनं।
पृ5.18cd प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
पृ5.19ab चौराणाम् अपि सामग्रीं स्वप्न^अन्ते यस् तु पश्यति।
पृ5.19cd प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
पृ5.20ab कृष्ण^सर्प^गृहीतं तु स्वप्न^अन्ते यस् तु पश्यति।
पृ5.20cd प्रतिबुद्धो विजानीयाच् छत्रुपीडा भविष्यति॥
पृ5.21ab कटकान् कर्णिकाश् च^एव हंस^केयूर^कुण्डलं।(प्.163)
पृ5.21cd यस् तु च^आभरणं पश्येद् बन्धु^वर्गो भविष्यति॥
पृ5.22ab कुड्ये च गृह^प्राकारे धावतीह परस्परं।
पृ5.22cd नाविके धन^संयोगे; अंगते क्षणयं खजः॥
पृ5.23ab यस् तु स्वप्न^अन्तरे पश्येच् च^आत्मानम् अग्नितापितं।
पृ5.23cd प्रतिबुद्धो विजानीयाज् ज्वरं क्षिप्रं भविष्यति॥
पृ5.24ab राजानं कुपितं दृष्ट्वा; आत्मानं मलिनीकृतं।
पृ5.24cd प्रतिबुद्धो विजानीयात् कुटुम्बं तस्य नश्यति॥
पृ5.25ab काष्ठभारं तृणं च^एव बहु^भारम् अभीक्ष्णशः।
पृ5.25cd आत्मनः शिरसो दृष्ट्वा गुरु^व्याधिर् भविष्यति॥
पृ5.26ab यस्तु बानर^युक्तेन गच्छते पुर् इमां दिशं।
पृ5.26cd प्रतिबुद्धो विजानीयाद् रात्रिर् एषा ह्य् अपश्चिमा॥
पृ5.27ab चन्द्र^सूर्यौ च संगृह्य पाणिना परिमार्जति॥
पृ5.27cd प्रतिबुद्धो विजानीयाद् आर्य^धर्मागमो हि सः॥
पृ5.28ab सुमनां वार्षिकं [कीं] च^एव कुमुदान्य् उत्पलानि च।
पृ5.28cd यस्तु पश्यति स्वप्न^अन्ते दक्षिणीयसमागमः॥
पृ5.29ab ब्राह्मणं श्रमणं दृष्ट्वा क्षपणं सुरनायकं।
पृ5.29cd प्रतिबुद्धो विजानीयाद् यक्षा मे ह्य् अनुकम्पकाः॥
पृ5.30ab रुधिरेण विल्लिप्तस्य स्नात्वा चैव^आत्म^लोहितैः।
पृ5.30cd प्रतिबुद्धो विजानीयाद् ऐश्वर्याधिसमागमः॥
पृ5.31ab मुद्गमाषयवांश् च^एव धान्यं ज्वलनदर्शनं।
पृ5.31cd यस् तु स्वप्न^अन्तरे पश्येत् सुभिक्षं तत्र निर्दिशेत्॥
पृ5.32ab सुवर्णं च तथा रूप्यं मुक्ताहारं तथाइव च।
पृ5.32cd यस् तु स्वप्न^अन्तरे पश्यन् निधिं तत्र विनिर्दिशेत्॥
पृ5.33ab बन्धनं बहु दृष्ट्वा तु छेदनं कुट्टनं तथा।
पृ5.33cd प्रतिबुद्धो विजानीयाद् अर्थ^सिद्धिर् भविष्यति॥
पृ5.34 अयं भोः पुष्करसारिन्न् अपरः स्वप्न^अध्यायः।
पृ5.35 अथ खलु भोः पुष्करसारिन् मास^परीक्षा^नाम^अध्यायं व्याख्यास्यामि। तच् छूयतां। कथयतु भगवांस् त्रिशङ्कुः॥(E)35

पृ6 मास^परीक्षा (प्.164)
पृ6.1 यदि फाल्गुने मासे निर्घोष उपरि भवेत् मनुष्याणां मरणं चोदयति। नवचन्द्रो लोहित^आभासो दृश्यते। सर्व^सस्य^अनुत्पत्तिं चोदयति। यदि देवो गर्जति प्रथमं महा^सस्यानि भवन्ति। पश्चिमसस्यं न भवेत्। कलहं चोदयति।
पृ6.2 यदि चैत्रे मासे देवो गर्जति तदा सर्व^सस्य^समुत्पत्तिं चोदयति। यदि चन्द्र^ग्रहो भवति महान् सन्निपातो भवति। शून्यानि ग्राम^क्षेत्राणि भविष्यन्ति। यदि नीहारं भूमिं छादयति सुभिक्षं चोदयति।
पृ6.3 यदि वैशाखे मासे देवो गर्जति सुभिक्षं चोदयति। यदि पूर्वे पश्चिमे शङ्खे चन्द्र^ग्रहो भवति क्षेमं चोदयति। यदि च^उल्का^पातो भवति यस्मिंश् च जनपदे निपतति तत्र देशे प्रधान^पुरुषस्य विनाशो भवति। यदि भूमि^चालो भवति सुभिक्षं चोदयति।
पृ6.4 यदि जेय्ष्ठे मासे देवो गर्जति रोगं चोदयति। यदि सूर्य^ग्रहो भवति मनुष्याणां विनाशं चोदयति। पूर्वे पश्चिमे वा शङ्खे यदि चन्द्रस्य सूर्यस्य किञ्चिन् निमित्तं लक्ष्यते तदा क्षेमं चोदयति। यदि मध्य^रात्रौ चन्द्र^ग्रहो भवति मनुष्याणाम् अन्योन्य^घातं चोदयति। यदि च^उपरि निर्घोषो भवति अध्यक्ष^पुरुषस्य पीडां चोदयति। पर^चक्रागमं चेति।
पृ6.5 आषाढे मासे यदि सूर्य^ग्रहो रुचिर^आभासो भवति सुभिक्षं चोदयति। यदि चन्द्र^ग्रहो भवति रोगं चोदयति। यदि विद्युन् निश्चरति कल्पाणं चोदयति। यदि नीहारं भूमिं छादयति।
पृ6.6 श्रावण^मासे यदि सूर्य^ग्रहो भवति राज्यं परिवर्तते। यदि चन्द्र^ग्रहो भवति प्रथमे मासे दुर्भिक्षं चोदयति। शरभैः शोभन^शस्यनाशो भविष्यति। यदि (प्.165) तारका यत्र देशे पतन्ति तत्र युद्धं चोदयति। यदि च^अतिशयं भूमि^चालो भवति रोगं चोदयति। यदि निर्घोषो भवति तत्र गृहे यो गृह^स्वामी भवति तस्य विनाशं चोदयति। अत्र च मासेऽभिनवं प्रावरणं न प्रावरितव्यं। आवाहो विवाहो न कर्तव्यः। परिभूतो भवति।
पृ6.7 यद्य् अश्वयुजे मासे देवो गर्जति मनुष्याणां विनाशनं चोदयति। यदि सूर्य^उपरागो भवति महा^पुरुष^विनाशं चोदयति। यदि पूर्वे यामे चन्द्रस्य निमित्तं दृश्यते सुभिक्षं चोदयति। यदि भूमि^चालो भवति आकुलं चोदयति। परराजा देशं हनिष्यति। तत्र च मनुष्या अन्योन्यं वधयिष्यन्ति^इति चोदयति।
पृ6.8 यदि कार्त्तिके मासे देवो वर्षति महद्^आकुलं चोदयति। प्राणकाश् च धान्यं खादिष्यन्ति। यद्य् एक^अन्तरूपं वातो वाति तत्र च मनुष्या जलेन विभ्रमिष्यन्ति। महा^आत्मनः पुरुषस्य विनाशं चोदयति। यदि पूर्वे यामे उत्पातो भवति महा^वर्षं भवति। महा^पुरुषस्य च मरणं भवति। यदि निर्घोषो भवति रोगं चोदयति।
पृ6.9 यदि मार्गशीर्षे मासि देवो गर्जति शस्य^विनाशो भवति। अन्यश् च तत्र स्वामी भवति। यदि च^आकाशे निर्घोषो भवति यत् पूर्व^भागीया मनुष्यास् तेषाम् आमयं चोदयति। यदि भूमि^चालो भवति यस् तत्र जनपदे प्रधान^पुरुषो स वधान् मोक्ष्यति।
पृ6.10 यदि पौषे मासे देवो गर्जति प्रथमे यामे जनपद^नाशो भवति। द्वितीये महा^आत्मनः पुरुषस्य बन्धनं चोदयति। प्रथमे यामे च यदि चन्द्र^उपरागो भवति लोहित^वर्णश् च दृश्यते उदक^आगमं चोदयति। महा^आत्ममनुष्यं चोदयति। यदि सूर्य^ग्रहो भवति शुद्धपुरुषणां रणं। यदि तारकाः पतन्त्यो विदृश्यन्ते तत्र जनपदे आकुलं चोदयति। यत्य् आकाशे निर्घोषो भवति मनुष्याणां मरणं चोदयति। यदि द्वितीये निर्घोषो भवति अम्नुष्याश् चौरैर् हन्यन्ते। यद्य् अत्रैव मासे तारका उत्सृष्टा न चन्द्रो दृस्यते सस्यं संचोदयति। यदि भूमि^चालो भवति महामनुष्यस्य मरणं भवति। अत्रैव मासे देव^स्थानं कर्तव्यं। वृक्षा रोपयितव्याः। सूलवास्तु प्रतिष्ठापयितव्यं।
पृ6.11 अयं भोः पुष्करसारिन् मास^परीक्षा^नाम^अध्यायः।(प्.166)
पृ6.12 अथ खलु भोः पुष्करसारिन् खञ्जरीटक^ज्ञानं^नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः॥म्छेच्केद्

पृ7 खञ्जरीटक^ज्ञानं
पृ7.1ab खञ्जरीटक^शास्त्रं वै पर्वते गन्ध^मादने।
पृ7.1cd कुचरैर् दृश्यते सौम्य^कुचरस्य महा^भयं॥
पृ7.2ab यानि तानि निमित्तानि दर्शयेत् खञ्जरीटकः।
पृ7.2cd प्रचरतो भवेद् दृष्ट्वा पञ्च^उत्तरपदो द्विजः॥
पृ7.3ab तत्र सर्वे प्रवर्तेयुर् यत्र येषु भवेद् भवेत्।
पृ7.3cd शाद्वले बहु^चेलत्वं गोमयेषु प्रबन्धता॥
पृ7.4ab कञ्चारे बहु^चेलत्वं कर्दमे बहु^भक्षता।
पृ7.4cd कृकरे स्वल्प^चेलत्वं पुरीषे तु दृशं श्रवः॥
पृ7.5ab भस्मे विवादम् अफलं वालुकायां तु संभ्रमः।
पृ7.5cd देव^द्वारे तु सम्मानं पद्मेषु बहु^वित्तता।
पृ7.5ef फलेऽर्थ^अनुगुणं प्रोक्तं पुष्पेषु प्रिय^संअमः॥
पृ7.6ab भयं प्राकार^शृङ्गेषु कटकेष्व् अरिदर्शनं।
पृ7.6cd पक्षया चरते व्याधिः पतितो मृत्युम् आदिशेत्॥
पृ7.7ab सुगन्ध^तैल^भूतानि मेथुने निधि^दर्शनं।
पृ7.7cd वृक्ष^अग्रे विद्यते पानं गृहेष्व् अथ ... लसः॥
पृ7.8ab देश^भङ्गः प्रवादे च बन्धनं विग्रहीकृते।
पृ7.8cd अमृतं च स्थितं दृष्ट्वा; ओदनं न^अत्र संशयः॥
पृ7.9ab गवां पृष्ठे ध्रुवं सिद्धिर् अश्वपृष्ठे ध्रुवं जयः।
पृ7.9cd अविकानाम् अजानां च पृष्ठे सर्वत्र शस्यते॥
पृ7.10ab उष्ट्रपृष्ठे घ्रुवं क्लेशः श्वानपृष्ठे च विद्रवः।(प्.167)
पृ7.10cd पृष्ठे च गर्दभस्य^इह मरणं न^अत्र संशयः॥
पृ7.11ab कीले तु मरणं विद्याद् यूप^अग्रे च न संशयः।
पृ7.11cd कुम्भ^स्थाने श्मशाने वा मृतो वा यत्र दृश्यते॥
पृ7.12ab अन्तरीक्षे प्रडीनं तु; अफलं तु विनिर्दिशेत्।
पृ7.12cd दृष्ट्वा समागतं वासं प्रहृष्टं खञ्जरीटकं।
पृ7.12ef यथा^स्थानंअं यथावर्णं मनुष्याणां विनिर्दिशेत्॥
पृ7.13ab विषमे स्वल्प^कक्षेषु प्रसक्तः कलहो भवेत्।
पृ7.13cd समेषु समके क्षेत्रे समान् वर्णान् विनिर्दिशेत्।
पृ7.13ef नद्यां तु शैल^वाहिन्यां प्रवासम् अभिनिर्दिशेत्॥
पृ7.14ab काष्ठेषु नातिका चिन्ता तथा^अस्थिषु धन^क्षयः।
पृ7.14cd यां दिशं समुदागच्छत् पञ्च^उत्तरपदः खगः।
पृ7.14ef तां दिशं गमनं विद्याद् यथा तस्य तथा पुनः॥
पृ7.15ab कीटा वा^अथ पतङ्गा वा भयं यद् इह दृश्यते।
पृ7.15cd प्रचुरा^अपि यदा ज्ञेया नरस्य^अस्थीनि निर्दिशेत्॥
पृ7.16ab अपां समीपे गजमस्तके वा सूर्य^उदये ब्राह्मण^सन्निधौ वा।
पृ7.16cd मुख्य प्रकाशेऽप्य् अहिमस्तके वा यः पश्यते खञ्जनकं स धन्यः॥
पृ7.17ab मातङ्ग^राजो मतिमांस् त्रिशङ्कुः प्रोवाच तत्त्वं कञ्जनं च शास्त्रं।
पृ7.17cd स्निग्धे सरुक्षे विषमे समे च आदेश यद् दोष^गुणैर् यथोक्तैः।
पृ7.17ef तमादिशेत् तत्र समीक्ष्य विद्वान् शुभ^अशुभं तत्फलम् आदिशेच् च॥
पृ7.18 अयं भोः पुष्करसारिन् खञ्जरीटक^ज्ञानं नाम^अध्यायः।
पृ7.19 अथ खलु भोः पुष्करसारिन् शिवा^रुतं नाम^अध्यायंव्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः।

पृ8.शिवा^रुतं (प्.168)
पृ8.1 नमः सर्वेषाम् आर्याणां। नमः सर्वेषां सत्यवादिनां। तेषां सर्वेषां तपसा वीर्येण च इमं शिवा^रुतं नाम^अध्यायं व्याखामि।
पृ8.2 इत्य् आह भगवांस् त्रिशङ्कुः। शाण्डिल्यम् इदम् अब्रवीत्। यादृशं च यथा वाशेत् तेषां सर्वेषां वाशान् शृणोथ मे। पूर्वस्यां दिशि यदि वाशेत् शिवा पूर्व^मुखं स्थित्वा त्रीन् वारान् वाशेद् वृद्धिं निवेदयति। चतुरो वारान् यदि वाशेद् अत्र मङ्गलं निवेदयति। पञ्च वारान् वाशेद् वर्षां निवेदयति। षड्वारान् वाशेत् पर^चक्र^भयं निवेदयति। सप्तवारान् वाशेद् बन्धनं निवेदयति। अष्ट वारान् वाशेत् प्रिय^समागमं निवेदयति। अभीक्ष्णं वाशेत् पर^चक्र^भयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.3 दक्षिणायां दक्षिण^मुखं स्थित्वा त्रिवारान् वाशेद् `अतृ अतृ' कुरुते मरणं तत्र निवेदयति। चतुरो वारान् वाशति दक्षिण^मुखं स्थित्वा दक्षिणाया एव दिशायाः प्रिय^समागमं निवेदयति। अर्थ^लाभं च निवेदयति। पञ्च^वारान् वाशेद् अर्थं निवेदयति। षड्वारान् वाशेत् सिद्धिं निवेदयति। सप्तवारान् वाशेद् विवाद^कलहं निवेदयति। अष्टवारान् वाशेद् भयं निवेदयति। अभीक्ष्णं वाशेद् आकुलं निवेदयति। एत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.4 पश्चिमायां पश्चिम^अभिमुखं स्थित्वा शिवा त्रिवारान् वाशति मरणं निवेदयति। चतुर्वारान् वाशति बन्धनं निवेदयति। पञ्च^वारान् वाशति वर्षं निवेदयति। षड्वारान् वाशति अन्न^पानं निवेदयति। सप्तवारान् वाशति मैथुनं निवेदयति। अष्टवारान् वाशति अर्थ^सिद्धिं निवेदयति। अभीक्ष्णं वाशति महा^मेघं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.5 उत्तरस्यां दिशि उत्तर^अभिमुखं स्थित्वा त्रिवारान् वाशति पुरुषस्य प्रस्थितस्य निरर्थकं गमनं भवति। चतुर्वारान् वाशति राज^प्रतिभयं निवेदयति। पञ्च^वारान् शाशति विवादं निवेदयति। षड्वारान् वाशति कुशलं निवेदयति। सप्तवारान् वाशति वर्षां निवेदयति। अष्टवारान् वाशति राज^कुल^दण्डं निवेदयति। (प्.169)अभीक्ष्णं वाशति यक्ष^राक्षस^पिशाच^कुम्भाण्ड^भयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.6 दिशि विदिशि च^एव गिरि^प्राग्भारेषु शिखरेषु निर्देशं तं च शृणोथ मे। ``अमूं तुष्येत् पिपासार्ता विद्यासिद्ध्यै तथा^एव च
पृ8.7ab विद्यालम्भं धन^लम्भं निर्दिशेच् च विचक्षणः।
पृ8.7cd तीर्थ^आकार^वृक्ष^मूले वाशती यदि दृश्यते॥
पृ8.8 सर्वत्र सिद्धिं निर्दिशेत्। न च शृगाल^भये शिवा (वा) मे समेति अप्रमत्तेन स्मृतिमता पूजयितव्या शिवा नित्यं। गन्ध^पुष्प^उपहारेण शुश्रूषा कर्तव्या। एवम् अर्चायमाना (?) सर्व^सिद्धिं निवेदयिष्यति। एवं ``सर्वेऽर्थास् तस्य सिध्यन्ति त्रिशङ्कोर् वचनं यथा । क्रौष्ट्रिको यदि वाशति अर्थ^लम्भं निवेदयति। अधोमुखो यदि वाशति निधानं तत्र निवेदयति। ऊर्ध्व^मुखो यदि वाशति वर्षां तत्र निवेदयति। द्विपथे यदि वाशति पूर्व^मुखं स्थित्वा अर्थ^लाभं निवेदयति। दक्षिण^अभिमुखो यदि वाशति यथा प्रिय^समागमनं निवेदयति। द्विपथे पश्चिम^अभिमुखो यदि वाशति कलहं विवादं विग्रहं मरणं च निवेदयति। कूपकण्ठके यदि वाशति अर्थं तत्र निवेदयति। शाद्वले यदि वाशति अर्थ^सिद्धिं निवेदयति। अतिमृदुकं यदि वाशति व्याधिकं तत्र निवेदयति। गीतहारेण यदि वाशति अर्थम् अनर्थं च निवेदयति। त्रिभिर् वारैर् अर्थं चतुर्भिर् अनर्थं पञ्चभिः प्रिय^समागमं षड्भिर् भोजनं सप्तभिर् भयम् अष्टभिर् विग्रहं विवादं च। इत्य् आह भगवांस् त्रिसङ्कुः।
पृ8.9 ``अथ भूयः प्रवक्ष्यामि अनुपूर्वं शृणोथ मे । नाना^आहारे यदि वाशति मार्गे संस्थितस्य^अपि सर्वं वक्ष्यामि तं शृणोथ मे। संप्रस्थितस्य पुरुषस्य शिवा वाशति वा या पूर्व^मुखं स्थित्वा क्षिप्र^गमनम् अर्थ^सिद्धिं निवेदयति। अथ दक्षिण^मुखं वाशति या अर्थ^सिद्धिं निवेदयति। पञ्चान् मुखं वाशति भयं निवेदयति। अथ^उत्तरमुखं वाशति अर्थ^लाभं निवेदयति। अथ संप्रस्थितस्य वाशति या पुरतः स्थित्वा उपक्लेशं निवेदयति। अथ दक्षिणे वाशति यदि दक्षिण^मुखा एव दिशः (प्.170) कर्म^सिद्धिं च निवेदयति। पश्चिमतो यदि वाशति चौरतोऽहितम् अस्य दुःख^दौर्मनस्यं निवेदयति। अथ मार्गे व्रजतो दक्षिणतो वाशति महा^व्याधिम् अनर्थं चौरा मुषन्ति तन् निवेदयति। ग्लानस्य यदि वाशति दक्षिण^मुखं, ``न स चिकित्सितुं शक्यो मृत्यु^दूतेन चोदितः। ग्लानस्य यदि वाशति उत्तर^मुखं स्थित्वा आरोग्यधन^लाभं च निवेदयति। अथ मूर्ध्ना वाशति या उपक्रेशं निवेदयति। अथ पश्चिममुखं स्थित्वा या अन्योन्यं व्याहरते यम^शासनं [निवेदयति]। नाना^आहारे यदि वाशति, या संक्षोभं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.10 शिवा पुरतः पुरुषस्य मार्ग^प्रयातस्य यदि वाशति, या अग्रतः क्षेम^मार्गं विज्ञापयति। अर्थ^सिद्धिं निवेदयति। मार्गं व्रजतोऽस्य शिवा वामेन^आगत्य गच्छते दक्षिण^मुखं क्षेम^मार्गं विजानीयाद् अर्थ^सिद्धिं च निवेदयति। मार्गे व्रजतः पुरुषस्य शिवा वामेन^आगत्य पुरता वाशति या तथा सभयं मार्गं विज्ञापयति। निवर्तेत विचक्षणः। दक्षिणां दिशं वामं गत्वा वामतः परिवर्तेत ``न तन् मार्गेण गन्तव्यं त्रिशङ्कु^वचनं यथा । पुरतः शिवा गत्वा अग्रतश् च निषीदति सभयं मार्गं विजानीयात्। निवर्तेत विचक्षणः। शिवा पुरत आगत्य वामेन परिवर्तते भयम् एतीहऽ तेन^अपि भयं जानीयाद् विचक्षणः। सेनायाम् आवाहितायां शिवा वशति पश्चिमं निवर्तनं निवेदयति। यदि गच्छेत् पराजयः। सेना न गच्छेत्। सेनायां व्रज^मानायां शिवा आगच्छेद् अग्रतः सेनाजयं निवेदयति। पर^चक्र^पराजयं च निवेदयति। सार्थस्य व्रजमानस्य शिवा गच्छत्य् अग्रतः क्षेममार्गं निवेदयति। अर्थ^सिद्धिं तथा^एव च। पुरुषस्य पथि व्रजतो वामतो वाशति मार्गं निवेदयति। ``तन्मार्गेण [हि} गन्तव्यं त्रिशङ्कु^वचनं यथा
पृ8.11 ``ग्रामस्य नगरस्य^अपि चैत्यस्थाने तथा^एव च। पूर्वेण^उत्तरेण^अपि शिवा वाशति क्षेमं तत्र निवेदयति। दक्षिणे पश्चिमे यदि वाशति या भयं तत्र निवेदयति।
पृ8.12ab वामतो न प्रशंसन्ति तथा^एव विदिशासु च।
पृ8.12cd अतिदीर्घातिरूक्षा वा काले मासान्तिके तथा।
पृ8.13ab अधरां तु भयं वक्ष्ये त्रिशङ्कु^वचनं यथा॥
पृ8.13cd मधु^स्वरांशिवां ज्ञात्वा काले वेले उपस्थिते।(प्.171)
पृ8.14ab क्षेमं चैव^अर्थसिद्धिश् च चिन्तितव्यं विचक्षणैः॥
पृ8.15 व्याधिर् उपद्रवाश् च, ``सव तु प्रशमं यान्ति त्रिशङ्कु^वचनं यथा । शिवा^रुतस्य^उपचारो दिग्^विदिशासु निमित्ता ग्रहीतव्याः। यः शिवाया दिवसो भवति स दिवसो ज्ञातव्यः। पुष्प^गन्ध^माल्य^उपहारस् तद्दिवसे उपपादयितव्यः। नित्यं देवता^गुरुकेण भवितव्यं। दैव्यागुरुकेण भवितव्यं। देव्यै शुश्रूषा कर्तव्या। सर्वार्थान् सम्पादयिष्यति। सर्व^कार्याणि निवेदयति।
पृ8.16 यत् किञ्चित् कार्यम् आरभिष्यति तत्सर्वं निवेदयति। देव्यै सर्ज्जरसो गुग्गुलु च धूपयितव्यं। पुष्प^बलिश् च यथा^काले दापयितव्यः। इत्य् आह भगवांस् त्रिशङ्कुः।
पृ8.17 शिवा^रुत^कथानेऽत्र विद्यां वक्ष्यामि यथासत्यं भविष्यति।
पृ8.18 नम आरण्यायै। चीरिण्यै स्वाहा सर्ज्ज^रस^धूपं।
पृ8.19 अयं भोः पुष्करसारिन् शिवा^रुत^नाम^अध्यायः।
पृ8.20 अथातः पुष्करसारिन् पाणि^लेखा^नाम^अध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं कथयतु भगवांस् त्रिशङ्कुः।

पृ9 पाणिलेखा (प्.172)
पृ9.1ab अथातः संप्रवक्ष्यामि नराणां कर^संस्थितं।
पृ9.1cd लक्षणं सुख^दुःखानां जीवितं मरणं तथा॥
पृ9.2ab अङ्गुष्ठमूलम् आश्रित्य ऊर्ध्व^रेखा प्रवर्तते।
पृ9.2cd तत्र जातं सुखतरं द्वितीया ज्ञानम् अन्तरे॥
पृ9.3ab तृतीया सा लेखा यत्र प्रदेशिन्या प्रवर्तते।
पृ9.3cd तत्रोक्ता हेतवः शास्त्रे समासेन चतुर्^विधाः॥
पृ9.4ab अपर्वसु च पर्वाणि नक्ष्त्राणाम् उपद्रवः।
पृ9.4cd द्विनिःसृतो विशुद्ध^आत्मा जीवेद् वर्षशतं हि सः॥
पृ9.5ab त्रिंशत् त्रिभागेन जायीयाद् अर्धे पञ्चाशद् आयुषः।
पृ9.5cd सप्ततिस् त्र्यंशभागेषु अत्यन्तानुगते शतं॥
पृ9.6ab आउइर्;एल्जा प्रदृश्य^एवं व्यन्तरायः प्रकाश्यते।
पृ9.6cd नक्षत्र^संज्ञया ज्ञेया मनुजैर् अर्थशस् तथा॥
पृ9.7ab अङ्गुष्ठ^उदरमार्गे तु यावत्यो यस्य राजयः।
पृ9.7cd तस्यापत्यानि जानीयात् तावन्ति न^अत्र संशयः॥
पृ9.8ab दीर्घायुषं विजानीयाद् दीर्घलेखा तु या भवेत्।
पृ9.8cd ह्रस्वायुषं विजानीयाद् ध्रस्वलेखा तु या भवेत्॥
पृ9.9ab अङ्गुष्ठमूले यवको रात्रौ जन्माभिनिर्दिशेद्।
पृ9.9cd दिवा तु जन्म निर्दिष्टम् अङ्गुष्ठ^यवके ध्रवं॥
पृ9.10ab अव्यक्तो यवको यत्र तत्र लग्नं विनिर्दिशेत्।
पृ9.10cd लग्नं पुंसंज्ञको ज्ञेयोऽहो^रात्रं विनिर्दिशेत्॥
पृ9.11ab दिवसं जन्म निर्दिशेद् रात्रौ स्त्री^संज्ञको भवेत्।(प्.173)
पृ9.11cd रात्रिः सन्ध्या समाख्याता भागैर् अन्यैर् न संशयः।
पृ9.11ef पुंसंज्ञाद् उदयं तेषाम् अहोरात्रान्तिकं वदेत्॥
पृ9.12ab अङ्गुष्ठमूले यवके शले सौख्यं विधीयते।
पृ9.12cd अश्वाद् भद्रं विजानीयाद् अङ्गुष्ठ^यवकेष्व् इह॥
पृ9.13ab यवमाला च मत्स्यः स्याद् अङ्गुष्ठ^यवको रतौ।
पृ9.13cd बालयौवनमध्यान्ते सुखं तस्याभिनिर्दिशेत्॥
पृ9.14ab यस्य स्याद् यवकश् च^अपि च^अपो वा स्वस्तिकस् तथा।
पृ9.14cd तलेषु येषु दृश्यन्ते धन्यास् ते पुरुषा ह्य् अमी॥
पृ9.15ab मत्स्यो धान्यं भवेद् भोगायामिषादौ यवे धनं।
पृ9.15cd भोग^सौभाग्यं जानीयान् मीनादौ न^अत्र संशयः॥
पृ9.16ab पताकाभिर् ध्वजैर् वा^अपि शक्तिभिस् तोमरैस् तथा।
पृ9.16cd तलस्थाइर् अङ्कुशैश् च^अपि विज्ञेयः पृथिवीपतिः।
पृ9.16ef राज^वंशप्रसूतं च राज^मात्रं विनिर्दिशेत्॥
पृ9.17ab प्रेक्ष्यन्ते शाख्या पञ्च हस्ते चत्वार एव च।
पृ9.17cd क्षत्रियो वा भवेद् भोगी राजभिश् च^अपि सत्कृतः॥
पृ9.18ab वैश्योऽथ क्षत्रियो वाग्मी धन^धान्यं न संशयः।
पृ9.18cd शूद्रो विपुलभागी स्यात् पर्वशीलोऽथ नैष्ठिकः॥
पृ9.19ab सततम् अभिपूज्यः स्यात् सर्वेषां च प्रियंवदः।
पृ9.19cd विशीलः शीलकुञ्चो वा बहुभिर् न बहुस् तथा॥
पृ9.20ab श्यामवर्णाऽथ भिन्ना वा सा लेखा दुःखभागिनी।
पृ9.20cd क्तिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करथिताः।
पृ9.20ef महा^भोगो महा^विद्वान् जीवेद् वर्षशतं च सः॥
पृ9.21ab अजपदं राज^छत्रं शङ्खचक्र^पुरस्कृतं।(प्.174)
पृ9.21cd तलेषु यस्य दृश्यन्ते तं विद्यात् पृथिवीपतिं॥
पृ9.22ab भगस् तु भाग्याय ध्वजैः पताकैर् हस्त्यश्वमालाङ्कुशतश् च राजा।
पृ9.22cd मत्स्यो नु पानाय यवो धनाय वेदिस् तु यज्ञाय गवां च गोष्ठः॥
पृ9.23ab अनामिकापर्व अतिक्रमेद् यदि कनिष्ठिका वर्षशतं स जीवति।
पृ9.23cd समेत्वशीतिर् वर्षाणि सप्तभिर् यथा नदीनां भरिताय निर्दिशेद्॥
पृ9.24ab शरीरवर्ण^प्रभवां तु लेखां सवैशिखां वर्ण^विहीनकां च।
पृ9.24cd समीक्ष्य नीचोत्तममध्यमानां दारिद्य्र्मध्ये चरतां विजानतां॥
पृ9.25ab अभ्यञ्जनोद्वर्तन सत्करी[षैर]ध्य