शार्ङ्गधरसंहिता/उत्तरखण्डम्

विकिस्रोतः तः
श्रीः
उत्तरखण्डम्

स्नेहपानविधिः[सम्पाद्यताम्]

अथ स्नेहपानविधिर्नाम प्रथमोऽध्यायः
अथ स्नेहस्य भेदास्तत्पानकालश्च
स्नेहश्चतुर्विंधः प्रोक्तो घृतं तैलं वसा तथा
मज्जा च तं पिबेन्मत्तर्याः किचिदभ्युदिते रवौ १
योनिभेदेन स्नेहस्य द्वैविध्यम्
स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते २
स्थावरजङ्गमयोः श्रेष्ठस्नेहनामनिर्देशः
तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम् ३
मिलितस्नेहनामानि
द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान् ४
स्नेहसात्म्ये कालावधिः
पिबेत् त्र्! यहं चतुरहं पञ्चाहं षडहं तथा
सप्तरात्रात्परं स्नेहं आत्मीभवति सेवितः ५
स्नेहपानमात्राविषयाः
दोषकालाग्निवयसां बलं दृष्ट्वा प्रयोजयेत्
हीनां च मध्यमां ज्येष्ठां मात्रां स्नेहस्य बुद्धिमान् ६
अमात्रादिसेवितस्नेहस्य दोषास्तदुपायाश्च
अमात्रया तथाऽकाले मिथ्याहारविहारतः
स्नेहः करोति शोफार्शस्तन्द्रा निद्रा विसंज्ञताः
प्रकुर्याल्लङ्घनं तत्र स्वेदं ज्ञात्वा विरेचनम् ७
स्नेहपानमात्राः
देया दीप्ताग्नये मात्रा स्नेहस्य पलसंमिता
मध्यमाय त्रिकर्षा स्याज्जघन्याय द्विकार्षिकी ८
स्नेहपानमात्राया अन्ये भेदाः
अथवा स्नेहमात्राः स्युस्तिस्रोऽन्या सर्वसम्मताः
अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा
जीर्यत्यल्पा दिनार्धेन सा विज्ञेया सुखावहा ९
मात्राभेदेन स्नेहपानगुणाः
अल्पा स्याद्दीपनी वृष्या स्वल्पदोषेषु पूजिता
मध्यमा स्नेहनी ज्ञेया बृंहणी भ्रमहारिणी १०
ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारनाशिनी ११
दोषानुसारेण घृतपानेऽनुपानव्यवस्था
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्
पेयं बहुकफे चापि व्योषक्षारसमन्वितम् १२
घृतपानयोग्या जनाः
रूक्षक्षतविषार्त्तानां वातपित्तविकारिणाम्
हीनमेधास्मृतीनां च सर्पिष्पानं प्रशस्यते १३
तैलपानयोग्या जनाः
कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः
पिबेयुस्तैलसात्म्या ये तैलं दार्ढ्यार्थिनस्तु ये १४
वसापानयोग्या जनाः
व्यायामकर्षिताः शुष्करेतोरक्ता महारुजः
महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः १५
मञ्जापानयोग्या जनाः
क्रूराशयाः क्लेशसहा वातार्त्ता दीप्तवह्नयः
मज्जानं च पिबेयुस्ते सपिर्वा सर्वतो हितम् १६
स्नेहपानसमयः
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि
वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा १७
तैलघृतयोर्विशिष्टकर्मनिर्देशः
नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणे
तैलं घृतं वा युञ्जीत दृष्ट्वा दोषबलाबलम् १८
स्नेहभेदेनानुपानभेदाः
घृते कोष्णजलं पेयं तैले यूषः प्रशस्यते
वसामज्ज्ञोः पिबेन्मण्डमनुपानं सुखावहम् १९
सान्नस्नेहपानस्य विषयाः
स्नेहद्विषः शिशून्वृद्धान्सुकुमारान्कृशानपि
उष्णकामानुष्णकाले सह भक्तेन पाययेत् २०
सद्यः स्नेहनयोगः
सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला
सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी २१
सद्यः स्नेहनयोगान्तरम्
शर्कराचूर्णसम्भृष्टे दोहनस्थे घृते तु गाम्
दुग्ध्वा क्षीरं पिबेदुष्णं सद्यःस्नेहनमुच्यते २२
स्नेहाजीर्णोपायः
मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति
विष्टभ्य वाऽपि जीर्येत वारिणोष्णेन वामयेत् २३
स्नेहाजीर्णप्रतीकारः
स्नेहस्याजीर्णशङ्कायां पिबेदुष्णोदकं नरः
तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा २४
स्नेहपानजतृष्णा चिकित्सा
स्नेहेन पैक्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः
तदाऽस्योदीरयेत्तृष्णां स्नेहमुष्णाम्बुना वमेत्
शीतं जलं पाययेच्च पिपासा तेन शाम्यति २५
स्नेहपानानर्हा नराः
अजीर्णी वर्जयेत्स्नेहमुदरी तरुणज्वरी
दुर्बलोऽरोचकी स्थूलो मूर्च्छार्त्तो मदपीडितः
दत्तवस्तिर्विरिक्तश्च वान्तस्तृष्णाश्रमान्वितः
अकालप्रसवा नारी दुर्दिने च विवर्जयेत् २६
स्नेहपानार्हा नराः
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः
वृद्धा बालाः कृशा रूक्षाः क्षीणास्राः क्षीणरेतसः
वातार्त्तास्तिमिरार्त्ता ये तेषां स्नेहनमुत्तमम् २७
सुस्निग्धरूक्षयोर्लक्षणनिर्देशः
वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम् २८
मृदुस्निग्धाङ्गताऽग्लानिः स्नेहावेगोऽथ लाघवम्
विमलेन्द्रि यता सम्यक् स्निग्धे रूक्षे विपर्ययः २९
अतिस्निग्धस्य लक्षणम्
भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवाहिका
तन्द्रा ऽतिसारः पाण्डुत्वं भृशं स्निग्धस्य लक्षणम् ३०
रूक्षातिस्निग्धयोरुपायः
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्
श्यामाकचणकाद्यैश्च तक्रपिण्याकसक्तुभिः ३१
स्नेहसेवनगुणाः
दीप्ताग्निःशुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रि यः
निर्जरो बलवर्णाढ्यः स्नेहसेवी भवेन्नरः ३२
स्नेहसेवने वर्ज्याः
स्नेहे व्यायामसंशीतवेगाघातप्रजागरान्
दिवास्वप्नमभिष्यन्दि रूक्षान्नं च विवर्जयेत् ३३
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्नेहपानविधिर्नाम प्रथमोऽध्यायः

स्वेदविधिः[सम्पाद्यताम्]

अथ स्वेदविधिर्नाम द्वितीयोऽध्यायः
तत्रादौ स्वेदभेदाः
स्वेदश्चतुर्विधः प्रोक्तस्तापोष्मौ स्वेदसंज्ञितौ
उपनाहो द्र वः स्वेदः सर्वे वातार्त्तिहारिणः १
दोषभेदेन स्वेदप्रयोगः
स्वेदौ तापोष्मजौ प्रायःश्लेष्मघ्नौ समुदीरितौ
उपनाहस्तु वातघ्नः पित्तसङ्गे द्र वो हितः २
रोगिबलाद्यनुसारेण स्वेदस्य त्रैविध्यनिर्देशः
महाबले महाव्याधौ शीते स्वेदो महान्स्मृतः
दुर्बले दुर्बलः स्वेदो मध्ये मध्यतमो मतः ३
दोषविशेषेण स्वेदविशेषनिर्देशः
बलासे रूक्षणः स्वेदो रूक्षस्निग्धः कफानिले
कफमेदावृते वाते कोष्णं गेहं रवेः करान् ४
नियुद्धं मार्गगमनं गुरुप्रावरणं ध्रुवम्
चिन्ताव्यायामभाराश्च सेवेतामयमुक्तये ५
प्रथमस्वेद्या जनाः
येषां नस्यं विधातव्यं वस्तिश्चापि हि देहिनाम्
शोधनीयाश्च ये केचित्पूर्वं स्वेद्याश्च ते मताः ६
उभयतः स्वेद्या जनाः
स्वेद्याः पूर्वं त्रयः प्लीहभगन्दर्यर्शसस्तथा
अश्मर्यश्चातुरो जन्तुः समये शस्त्रकर्मणः ७
पश्चात्स्वेद्या जनाः
पश्चात्स्वेद्या गते शल्ये मूढगर्भगदे तथा
काले प्रजाताऽकाले वा पश्चात्स्वेद्या नितम्बिनी ८
स्वेदकालः
सर्वान्स्वेद्यान्निवाते च जीर्णाहारे च कारयेत् ९
स्वेदफलम्
स्वेदाद्धातुस्थिता दोषाः स्नेहक्लिन्नस्य देहिनः
द्र वत्वं प्राप्य कोष्ठान्तर्गता यान्ति विरेचताम् १०
स्वेदितस्य रक्षाविधिः
स्विद्यमानशरीरस्य हृदयं शीतलैः स्पृशेत्
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ११
स्वेदानर्हा जनाः
अजीर्णी दुर्बलो मेही क्षतक्षीणः पिपासितः
अतिसारी रक्तपित्ती पाण्डुरोगी तथोदरी १२
मदार्त्तो गर्भिणी चैव न हि स्वेद्या विजानता
एतानपि मृदुस्वेदैः स्वेदसाध्यानुपाचरेत् १३
मृदुस्वेद्यान्यङ्गानि
मृदुस्वेदं प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु १४
अतिस्वेदजा रोगाः
अतिस्वेदात् सन्धिपीडा दाहस्तृष्णा क्लमो भ्रमः
पित्तासृक्पिटिकाकोपस्तत्र शीतैरुपाचरेत् १५
तापस्वेदलक्षणम्
तेषु तापामिधः स्वेदो वालुकावस्त्रपाणिभिः
कपालकन्दुकाङ्गारैर्यथायोग्यं प्रयुज्यते १६
ऊष्मस्वेदविधिः
ऊष्मस्वेदः प्रयोक्तव्यो लोहपिण्डेष्टकाश्मभिः
प्रतप्तैरम्लसिक्तैश्च कार्ये रल्लकवेष्टिते १७
अथवा वातनिर्णाशिद्र व्यक्वाथरसादिभिः
उष्णैर्घंटं पूरयित्वा पार्श्वे छिद्रं निधाय च
विमुद्र य्स्यां त्रिखण्डां च धातुजां काष्ठवंशजाम्
षडङ्गुलास्यां गोपुच्छां नलद्यं युञ्ज्याद् द्विहस्तिकाम् १८
सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्
हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् १९
पुरुषायाममात्रां वा भूमिमुत्कीर्य खादिरैः
काष्ठैर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः २०
वातघ्नपत्रैराच्छाद्य शयानं स्वेदयेन्नरम्
एवं माषादिभिः स्विन्नैः शयानं स्वेदमाचरेत् २१
उपनाहस्वेदविधिः
अथोपनाहस्वेदं च कुर्याद्वातहरौषधैः
प्रदिह्य देहं वातार्त्तं क्षीरमांसरसान्वितैः
अम्लपिष्टैः सलवणैः सुखोष्णैः स्नेहसंयुतैः २२
महाशाल्वणस्वेदविधिः
उपग्राम्यानूपमांसैर्जीवनीयगणेन च २३
दधिसौवीरकक्षारैर्वीरतर्वादिना तथा
कुलत्थमाषगोधूमैरतसीतिलसर्षपैः २४
शतपुष्पादेवदारुशेफालीस्थूलजीरकैः
एरण्डमूलबीजैश्च रास्नामूलकशिग्रुभिः २५
मिशिकृष्णाकुठेरैश्च लवणैरम्लसंयुतैः
प्रसारिण्यश्वगन्धाभ्यां बलाभिर्दशमूलकैः २६
गुडूचीवानरीबीजैर्यथालाभं समाहृतैः
क्षुण्णैः स्विन्नैश्च वस्त्रेण बद्धैः संस्वेदयेन्नरम् २७
द्र वस्वेदलक्षणम्
द्र वस्वेदस्तु वातघ्नद्र व्यक्वाथेन पूरिते
कटाहे कोष्ठके वाऽपि सूपविष्टोऽवगाहयेत् २८
द्र वस्वेदविधिः
नाभेः षडङ्गुलं यावन्मग्नः क्वाथस्य धारया २९
कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत्स्निग्धतनुर्नरः
एवं तैलेन दुग्धेन सर्पिषा स्वेदयेन्नरम् ३०
अवगाहनकालनियमः
एकान्तरे द्व्यन्तरे वा स्नेहो युक्तोऽवगाहने ३१
स्नेहावगाहनफलम्
शिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयेत्
शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ३२
स्नेहसिक्तस्य धातुवृद्धौ हेतुः
जलसिक्तस्य वर्धन्ते यथा मूलेऽङकुरास्तरोः
तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते
नातः परतरः कश्चिदुपायो वातनाशनः ३३
स्वेदनविरत्यवस्थानिर्देशः
शीतशूलाद्युपरमे स्तम्भगौरवनिग्रहे
दीप्ताग्नौ मार्दवे जाते स्वेदनाद्विरतिर्मता ३४
स्वेदनोत्तरं कर्त्तव्यकर्माणि
सम्यक् स्विन्नं विमृदितं स्नानमुष्णाम्बुभिः शनैः
भोजयेच्चानभिष्यन्दि व्यायामं च न कारयेत् ३५
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्वेदविधिर्नाम द्वितीयोऽध्यायः

वमनविधिः[सम्पाद्यताम्]

अथ वमनविधिर्नाम तृतीयोऽध्यायः
तत्र वमनविरेचनयोः कालः
शरत्काले वसन्ते च प्रावृट्काले च देहिनाम्
वमनं रेचनं चैव कारयेत्कुशलो भिषक् १
वमनार्हा जनाः
बलवन्तं कफव्याप्तं हृल्लासार्त्तिनिपीडितम्
तथा वमनसात्म्यं च धीरचित्तं च वामयेत् २
वमनसाध्या रोगाः
विषदोषे स्तन्यरोगे मन्देऽग्नौ श्लीपदेऽबुदे
हृद्रो गकुष्ठवीसर्पमेहाजीर्णभ्रमेषु च ३
विदारिकाऽपचीकासश्वासपीनसवृद्धिषु
अपस्मारे ज्वरोन्मादे तथा रक्तातिसारिषु ४
नासाताल्वोष्ठपाकेषु कर्णस्रावे द्विजिह्वके
गलशुण्ड्यामतीसारे पित्तश्लेष्मगदे तथा
मेदोगदेऽरुचौ चैव वमनं कारयेद्भिषक् ५
वमनानर्हा जनाः
न वामनीयस्तिमिरी न गुल्मी नोदरी कृशः ६
नातिवृद्धो गर्भिणी च न स्थूलो न क्षतातुरः
मदार्त्तो बालको रूक्षः क्षुधितश्च निरूहितः ७
उदावत्तर्यूर्ध्वरक्ती च दुश्छर्दिः केवलानिली
पाण्डुरोगी कृमिव्याप्तः पठनात्स्वरघातकः ८
वमनानर्हाणामपि वमनव्यवस्था
एतेऽप्यजीर्णव्यथिता वाम्या ये विषपीडिताः
कफव्याप्ताश्च ते वाम्या मधुकक्वाथपानतः ९
सुकुमारं कृशं बालं वृद्धं भीरुं न वामयेत्
पीत्वा यवागूमाकण्ठं क्षीरतक्रदधीनि वा १०
असात्म्यैः श्लेष्मलैर्भोज्यैर्दोषानुत्क्लिश्य देहिनः
स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्त्तते ११
क्रमेण वमनविरेचनयोर्हितकरपदार्थाः
वमनेषु च सर्वेषु सैन्धवं मधु वा हितम्
बीभत्सं वमनं दद्याद्विपरीतं विरेचनम् १२
वमनार्थकक्वाथनिर्माणविधिः
क्वाथ्यद्र व्यस्य कुडवं श्रपयित्वा जलाढके
अर्धभागावशिष्टं च वमनेष्ववचारयेत् १३
भेडमतेन वामकक्वाथपानमात्रा
क्वाथपाने नवप्रस्था ज्येष्ठा मात्रा प्रकीर्त्तिता
मध्यमा षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी १४
वामककल्कादिमात्रा
कल्कचूर्णावलेहानां त्रिपलं श्रेष्ठमात्रया
मध्यमं द्विपलं विद्यात्कनीयस्तु पलं भवेत् १५
उत्तमादिभेदेन वमनवेगसंख्याभेदाः
वमने चापि वेगाः स्युरष्टौ पित्तान्तमुत्तमाः
षड्वेगा मध्यमा वेगाश्चत्वारस्त्ववरे मताः १६
वमनादौ प्रस्थमानम्
वमने च विरेके च तथा शोणितमोक्षणे
सार्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः १७
दोषविशेषेण वामकद्र व्यविशेषनिर्देशः
कफं कटुकतीक्ष्णोष्णैः पित्तं स्वादु हिमैर्जयेत्
सुस्वादुलवणाम्लोष्णैः संसृष्टं वायुना कफम् १८
कृष्णा राठफलं सिन्धु कफे कोष्णजलैः पिबेत्
पटोलवासानिम्बैश्च पित्ते शीतजलं पिबेत् १९
सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत्
अजीर्णे कोष्णपानीयैः सिन्धु पीत्वा वमेत्सुधीः २०
वमनस्य प्रशस्तविधिः
वमनं पाययित्वा च जानुमात्रासने स्थितम्
कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक्
ललाटं वमतः पुंसः पार्श्वे द्वे च प्रदापयेत् २१
दुर्वान्तस्य लक्षणम्
प्रसेको हृद्ग्रहः कोठः कण्डूर्दुश्छर्दिताद्भवेत् २२
अतिवान्तस्य लक्षणम्
अतिवान्ते भवेत्तृष्णा हिक्कोद्गारौ विसंज्ञता
जिह्वानिःसर्पणं चाक्ष्णोर्व्यावृत्तिर्हनुसंहतिः
रक्तच्छर्दिः ष्ठीवनं च कण्ठे पीडा च जायते २३
अतिवमनोत्पन्नरोगचिकित्सा
वमनस्यातियोगी तु मृदु कुर्याद्विरेचनम् २४
वमनान्तः प्रविष्टायां जिह्वायां कवलग्रहः
स्निग्धाम्ललवणैर्हृद्यैर्घृतक्षीररसैर्हितः २५
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
निःसृतां तु तिलद्रा क्षाकल्कं लिप्त्वा प्रवेशयेत् २६
व्यावृत्तेऽक्ष्णि घृताभ्यक्ते पीडयेच्च शनैः शनैः
हनुमोक्षे स्मृतः स्वेदो नस्यं च श्लेष्मवातहृत् २७
रक्तपित्तविधानेन रक्तच्छर्दिमुपाचरेत्
धात्रीरसाञ्जनोशीरलाजाचन्दनवारिभिः २८
मन्थं कृत्वा पाययेच्च सघृतक्षौद्र शर्करम्
शाम्यन्त्यनेन तृष्णाद्याः पीडाश्छर्दिसमुद्भवाः २९
सम्यग्वान्तस्य लक्षणम्
हृकत्कण्ठशिरसां शुद्धिर्दीप्ताग्नित्वं च लाघवम्
कफपित्तविनाशश्च सम्यग्वान्तस्य चेष्टितम् ३०
वान्तस्य पथ्यानि
ततोऽपराह्णे दीप्ताग्निं मुद्गषष्टिकशालिभिः
हृद्यैश्च जाङ्गलरसैः कृत्वा यूषं च भोजयेत् ३१
सुवान्ते फलम्
तन्द्रा निद्रा स्यदौर्गन्ध्यं कण्डूश्च ग्रहणी विषम्
सुवान्तस्य न पीडायै भवन्त्येते कदाचन ३२
वमने कुपथ्यम्
अजीर्णं शीतपानीयं व्यायामं मैथुनं तथा
स्नेहाभ्यङ्गं प्रकोपं च दिनैकं वर्जयेत्सुधीः ३३
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे वमनविधिर्नाम तृतीयोऽध्यायः

विरेचनविधिः[सम्पाद्यताम्]

अथ विरेचनविधिर्नाम चतुर्थोऽध्यायः
तत्र विरेचनविषयः
स्निग्ध स्विन्नस्य वान्तस्य दद्यात्सम्यग्विरेचनम् १
वमनरहिते विरेचनदोषाः
अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः
मन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम् २
अथवा पाचनैरामं बलासं च विपाचयेत्
स्निग्धस्य स्नेहनैः कार्यं स्वेदैः स्विन्नस्य रेचनम् ३
विरेचनकालः
शरदृतौ वसन्ते च देहशुद्ध्यै विरेचयेत्
अन्यदात्ययिके काले शोधनं शीलयेद् बुधः ४
दोषनाशे विरेचनस्य श्रेष्ठता
दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः
ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः ५
विरेचनार्हा रोगाः
पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा
उदरे च तथाऽध्माने कोष्ठशुद्ध्यै विशेषतः ६
विरेचनानर्हा जनाः
बालवृद्धावतिस्निग्धः क्षतक्षीणो भयान्वितः
श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरी ७
नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी
शल्यार्दितश्चरूक्षश्च न विरेच्या विजानता ८
विरेचनार्हा जनाः
जीर्णज्वरी गरव्याप्तो वातरक्ती भगन्दरी
अर्शःपाण्डूदरग्रन्थिहृद्रो गारुचिपीडिताः
योनिरोगप्रमेहार्त्ता गुल्मप्लीहव्रणार्दिताः ९
विद्र धिच्छर्दिविस्फोटविषूचीकुष्ठसंयुताः
कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः १०
प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षीणानिलार्दिताः
शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ११
विरेचनार्थे कोष्ठभेदाः
बहुपित्तो मृदुः कोष्ठो बहुश्लेष्मा च मध्यमः
बहुवातः क्रूरकोष्ठो दुर्वि रेच्यः स कथ्यते १२
कोष्ठानुरूपविरेचनमात्रानिर्देशः
मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा
क्रूरे तीक्ष्णा मता द्र व्यैर्मृदुमध्यमतीक्ष्णकैः १३
मृद्वादिविरेचनद्र व्यनिर्देशः
मृदुद्रा र्क्षा!पयश्चञ्चुतैलैरपि विरिच्यते
मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरिच्यते
क्रूरः स्नुक्पयसा हेमक्षीरदन्तीफलादिभिः १४
विरेचनसंख्याऽनुसारेण मात्राया उत्तमत्वादिनिर्देशः
मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तिका
वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका १५
विरेके कषायादीनां मात्रानिर्देशः
द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत्
पलार्धे च कषायाणां कनीयस्तु विरेचनम् १६
कल्कमोदकचूर्णानां कर्षं मध्वाज्यलेहतः
कर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया १७
कोष्ठानुसारेण विरेकौषधव्यवस्था
पित्तोत्तरे त्रिवृच्चूर्णं द्रा क्षाक्वाथादिभिः पिबेत्
त्रिफलाक्वाथगोमूत्रैः पिबेद् व्योषं कफार्दितः १८
त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबेन्नरः
वातार्दितो विरेकाय जाङ्गलानां रसेन वा १९
एरण्डतैलप्रयोगः
एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन च
युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते २०
वर्षादिषडृतुषु क्रमेण षड् विरेचनयोगाः
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम् २१
समृद्वीकारसक्षौद्रं वर्षाकाले विरेचनम्
त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम् २२
द्रा क्षाऽम्बुना सयष्टीकं शीतलं च घनात्यये
त्रिवृतां चित्रकं पाठामजाजीं सरलां वचाम् २३
हेमक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्
पिप्पली नागरं सिन्धु श्यामा त्रिवृतया सह २४
लिहेत्क्षौद्रे ण शिशिरे वसन्ते च विरेचनम्
त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् २५
सर्वर्त्तुयोग्यो विरेचनयोगः
त्रिवृतां हपुषां दन्तीं सप्तलां कटुरोहिणीम्
स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत् त्र्! यहम्
एष सर्वर्त्तुको योगः स्निग्धानां मलदोषहा २६
अभयादिमोदकः
अभया मरिचं शुण्ठीविडङ्गामलकानि च २७
पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च
एतानि समभागानि दन्ती च द्विगुणा भवेत् २८
त्रिवृदष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा
मधुना मोदकान्कृत्वा कर्षमात्रप्रमाणतः २९
एकैकं भक्षयेत्प्रातः शीतं चानुपिबेज्जलम्
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ३०
पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा
विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान् ३१
दुर्नामकुष्ठगुल्मार्शोगलगण्डभ्रमोदरान्
विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान् ३२
वातरोगांस्तथाध्मानं मूत्रकृच्छ्राणि चाश्मरीम्
पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत् ३३
सततं शीलनादेषां पलितानि प्रणाशयेत्
अभयामोदका ह्येते रसायनवराः स्मृताः ३४
विरेचनान्ते कर्त्तव्यकर्मोपदेशः
पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी
सुगन्धिं किंचिदाघ्राय ताम्बूलं शीलयेन्नरः ३५
निर्वातस्थो न वेगांश्च धारयेन्न स्वपेत्तथा
शीताम्बु न स्पृशेत्क्वापि कोष्णनीरं पिबेन्मुहुः ३६
सम्यग्विरिक्तस्य लक्षणम्
बलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत्
रेकात्तथा मलं पित्तं भेषजं च कफो व्रजेत् ३७
दुर्विरिक्तस्य लक्षणम्
दुर्विरिक्तस्य नाभेस्तु स्तब्धत्वं कुक्षिशूलता
पुरीषवातसङ्गश्च कण्डूमण्डलगौरवाः
विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते ३८
दुर्विरिक्तस्य चिकित्सा
तं पुनः पाचनैः स्नेहैः पक्त्वा संस्निह्य रेचयेत्
तेनास्योपद्र वा यान्ति दीप्तोऽग्निर्लघुता भवेत् ३९
अतिविरिक्तस्य लक्षणम्
विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च ४०
शूलं कफातियोगः स्यान्मांसधावनसन्निभम्
मेदोनिभं जलाभासं रक्तं चापि विरिच्यते ४१
अतिविरिक्तस्य चिकित्सा
तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः
मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु ४२
तत्र नाभिप्रलेपः
सहकारत्वचः कल्को दध्ना सौवीरकेण वा
पिष्टो नाभिप्रलेपेन हन्त्यतीसारमुल्बणम् ४३
तत्र पथ्यव्यवस्था
अजाक्षीरं रसं वाऽपि वैष्किरं हारिणं तथा
शालिभिः षष्टिकैः स्वल्पं मसूरैर्वाऽपि भोजयेत् ४४
तत्रोपायान्तरम्
शीतैः संग्राहिभिर्द्र व्यैः कुर्यात्संग्रहणं भिषक् ४५
सुविरिक्तस्य लक्षणम्
लाघवे मनसस्तुष्टावनुलोमे गतेऽनिले
सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि ४६
विरेचनस्य फलम्
इन्द्रि याणां बलं बुद्धेः प्रसादो वह्निदीपनम्
धातुस्थैर्यं वयः स्थैर्यं भवेद्रे चनसेवनात् ४७
विरेचने निषिद्धकृत्यानि
प्रवातसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम्
व्यायामं मैथुनं चैव न सेवेत विरेचितः ४८
विरिक्तस्य पथ्यार्थे पेयादिद्र व्याणि
शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम्
जाङ्गलैर्विष्किराणां वा रसैः शाल्योदनं हितम् ४९
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे विरेचनविधिर्नाम चतुर्थोऽध्यायः

स्नेहबस्तिविधिः[सम्पाद्यताम्]

अथ बस्तिविधिर्नाम पञ्चमोऽध्यायः
तत्र बस्तेर्भेदो निरुक्तिश्च
बस्तिर्द्विधाऽनुवासाख्यो निरूहश्च ततः परम्
बस्तिभिर्दीयते यस्मात्तस्माद्बस्तिरिति स्मृतः १
अनुवासननिरूहबस्त्योर्लक्षणम्
यः स्नेहैर्दीयते स स्यादनुवासननामकः
कषायक्षीरतैलैर्यो निरूहः स निगद्यते २
अनुवासनादिबस्तीनामनुक्रमः
तत्रानुवासनाख्यो हि बस्तिर्यः सोऽत्र कथ्यते
पूर्वमेव ततो बस्तिर्निरूहाख्यो भविष्यति ३
निरूहादुत्तरश्चैव बस्तिः स्यादुत्तराभिधः
अनुवासनभेदश्च मात्राबस्तिरुदीरितः ४
मात्राबस्तौ स्नेहमात्रा
पलद्वयं तस्य मात्रा तस्मादर्धाऽपि वा भवेत् ५
अनुवास्या जनाः
अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली ६
अनुवासनायोग्या जनाः
नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी
नास्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृड्युताः
शोकमूर्च्छाऽरुचिभयश्वासकासक्षयातुराः ७
बस्तिनेत्रकरणद्र व्याणि
नेत्रं कार्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः
नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ८
आयुर्विभेदेन नेत्रपरिमाणभेदाः
एकवर्षात्तु षड्वर्षं यावन्मानं षडङ्गुलम्
ततो द्वादशकं यावन्मानं स्यादष्टसम्मितम्
ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता ९
बस्तिनेत्रच्छिद्र परिमाणम्
मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिसन्निभम्
यथासङ्ख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् १०
आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते
कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ११
तन्मूले कर्णिके द्वे च कार्ये भागाच्चतुर्थकात्
योजयेत्तत्र बस्तिं च बन्धद्वयविधानतः १२
बस्तिपुटकोपयोगिद्र व्यनिर्देशः
मृगाजशूकरगवां महिषस्यापि वा भवेत्
मूत्रकोशस्य बस्तिस्तु तदलाभेन चर्मजः
कषायरक्तः सुमृदुर्बस्तिः स्निग्धो दृढो हितः १३
व्रणबस्तिलक्षणम्
व्रणबस्तेस्तु नेत्रं स्याछ्लक्ष्णमष्टाङ्गुलोन्मितम्
मुद्गच्छिद्रं गृध्रपक्षनलिकापरिणाहि च १४
उचितबस्तिसेवनगुणाः
शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः १५
बस्तिकर्मोचितसमयनिर्देशः
दिवा शीते वसन्ते च स्नेहबस्तिः प्रदीयते
ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् १६
बस्तिकाले भोजनविधानम्
न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत् १७
भोजनवैपरीत्ये बस्तिफलम्
मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः
रूक्षं भुक्तवतोऽत्यन्नं बलं वर्णश्च हीयते १८
बस्तेर्हीनातिमात्रयोर्निषेधः
हीनमात्रावुभौ बस्ती नातिकार्यकरौ स्मृतौ
अतिमात्रौ तथानाहक्लमातीसारकारकौ १९
बस्तिमात्रा
उत्तमस्य पलैः षड्भिर्मध्यमस्य पलैस्त्रिभिः
पलाद्यर्धेन हीनस्य युक्ता मात्राऽनुवासने २०
स्नेहबस्तौ सैन्धवशताह्वाचूर्णप्रक्षेपमानम्
शताह्वासैन्धवाभ्यां च देयं स्नेहे च चूर्णकम्
तन्मात्रोत्तममध्यान्त्याः षट्चतुर्द्वयमाषकैः २१
विरेचनानन्तरमेवानुवासनदानस्य नियमः
विरेचनात्सप्तरात्रे गते जातबलाय च
भक्तान्नायानुवास्याय बस्तिर्देयोऽनुवासनः २२
बस्तिप्रयोगविधिः
अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः २३
उत्सृष्टानिलविण्मूत्रं योजयेत्स्नेहबस्तिना
सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः२४
कुञ्चितापरजङ्घस्य नेत्रं स्निग्धगुदे न्यसेत्
बद्ध्वा बस्तिमुखं स्रूत्रैर्वामहस्तेन धारयेत् २५
पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः
जृम्भाकासक्षवादींश्च बस्तिकाले न कारयेत् २६
बस्तिपीडने कालनिर्देशः
त्रिंशन्मात्रामितः कालः प्रोक्तो बस्तेस्तु पीडने
ततः प्रणिहितः स्नेह उत्तानो वाक्शतं भवेत् २७
मात्रालक्षणम्
जानुमण्डलमावेष्ट्य कुर्याच्छोटिकया युतम्
एका मात्रा भवेदेषा सर्वत्रैष विनिश्चयः २८
बस्तिप्रणिधानोत्तराङ्गकृत्यम्
प्रसारितैः सर्वगात्रैर्यथावीर्यं विसर्पति
ताडयेत्तलयोरेनं त्रीन्वारांश्च शनैः शनैः २९
स्फिजोश्चैवं ततः श्रोणीं शय्यां चैवोत्क्षिपेत्ततः
जाते विधाने तु ततः कुर्यान्निद्रा ं! यथासुखम् ३०
सम्यगनुवासितस्य लक्षणम्
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
उपद्र वं विना शीघ्रं स सम्यगनुवासितः ३१
प्रत्यागते स्नेहे व्यवस्था
जीर्णान्नमथ सायाह्ने स्नेहेप्रत्यागते पुनः
लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि ३२
अनुवासनव्यापत्तौ प्रतीकारः
अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम्
धान्यशुण्ठीकषायो वा स्नेहव्यापत्तिनाशनम् ३३
दोषानुसारेण बस्तिमानसंख्यानिर्देशः
अनेन विधिना षड् वा सप्तवाऽष्टौ नवापि वा
विधेया बस्तयस्तेषामन्ते चैवनिरूहणम् ३४
संख्यात्मकस्नेहबस्तीनां गुणाः
दत्तस्तु प्रथमो वस्तिः स्नेहयेद्बस्तिवङ्क्षणैः
सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत् ३५
बलं वर्णं च जनयेत्तृतीयस्तु प्रयोजितः
चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी ३६
षष्ठो मांसं स्नेहयति सप्तमो मेद एव च
अष्टमो नवमश्चापि मज्जानं च यथाक्रमम् ३७
एवं शुक्रगतान्दोषान्द्विगुणः साधु साधयेत्
अष्टादशाष्टादशकान्बस्तीनां यो निषेवयेत्
स कुञ्जरबलोऽप्यश्वं जयेत्तुल्योऽमरप्रभः ३८
रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने
दद्याद् वैद्यस्तथाऽन्येषामन्यां बाधामपाहरेत् ३९
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः
तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ४०
बस्तिदत्तस्नेहस्य तात्कालिकप्रत्यागतौ कर्त्तव्यं कर्म
अथवा यस्य तत्कालं स्नेहो निर्याति केवलः
तस्यान्योऽन्यतरो देयो न हि स्निह्यत्यतिष्ठति ४१
अनुवासनबस्तिस्नेहानिःसृतावुपद्र वास्तच्चिकित्सा च
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
तदा शैथिल्यमाध्मानं शूलं श्वासश्च जायते ४२
पक्वाशये गुरुत्वं च तत्र दद्यान्निरूहणम्
तीक्ष्णं तीक्ष्णौषधैर्युक्ताफलवर्तिंर्हिता तथा ४३
यथाऽनुलोमनं वायुर्मलं स्नेहश्च जायते
तथा विरेचनं दद्यात्तीक्ष्णं नस्यं च शस्यते ४४
स्नेहबस्तेरनिःसृतावप्युपद्र वानुत्पत्तौ कर्त्तव्यं कर्म
यस्य नोपद्र वं कुर्यात्स्नेहबस्तिरनिःसृतः
सर्वोऽल्पो वा वृते रौक्ष्यादुपेक्ष्यः स विजानता ४५
अहोरात्रादनिःसृते स्नेहे प्रतीकारः
अनायातं त्वहोरात्रे स्नेहं संशोधनैर्ह रेत्
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ४६
अनुवासनार्थं गुडूच्यादितैलम्
गुडूच्येरण्डपूतीकभार्ङ्गीविषकरोहिषम्
शतावरीं सहचरं काकनासां पलोन्मिताम् ४७
यवमाषातसीकोलकुलत्थान्प्रसृतोन्मितान्
चतुद्रो र्णे!ऽम्भसः पक्त्वा द्रो णशेषेण तेन च ४८
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः
अनुवासनमेतद्धि सर्ववातविकारनुत् ४९
बस्तिकर्मव्यापत्तिसंख्याचिकित्सयोर्निर्देशः
षटसप्ततिव्यापदस्तु जायन्ते बस्तिकर्मणः
दूषितात्समुदायेन ताश्चिकित्स्यास्तु सुश्रुतात् ५०
अनुवासनबस्तौ पथ्यव्यवस्था
पानहारविहाराश्च परिहाराश्च कृत्स्नशः
स्नेहपानसमाः कार्या नात्रकार्याविचारणा ५१
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्नेहबस्तिविधिर्नाम पञ्चमोऽध्यायः

निरूहबस्तिविधिः[सम्पाद्यताम्]

अथ निरूहबस्तिविधिर्नाम षष्ठोऽध्यायः
तत्र तद्भेदानाह
निरूहबस्तिर्बहुधा भिद्यते कारणान्तरैः
तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः १
निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः
स्वस्थानस्थापनाद्दोषधातूनां स्थापनं मतम् २
दोषाद्यपेक्षया निरूहमात्राः
निरूहस्य प्रमाणं च प्रस्थं पादोत्तरं परम्
मध्यमं प्रस्थमुद्दिष्टं हीनस्य कुडवास्त्रयः ३
आस्थापनबस्त्यनर्हा जनाः
अतिस्निग्धोत्क्लिष्टदोषौ क्षतोरस्कः कृशस्तथा
आध्मानच्छर्दिहिक्काऽश कासश्वासप्रपीडितः ४
गुदशोफातिसारार्त्तो विषूचीकुष्ठसंयुतः
गर्भिणी मधुमेही च नास्थाप्यश्च जलोदरी ५
निरूहणबस्तियोग्या जनाः
वातव्याधावुदावर्त्ते वातासृग्विषमज्वरे
मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च ६
वृद्धासृग्दरमन्दाग्निप्रमेहेषु निरूहणम्
शूलेऽम्लपित्ते हृद्रो गे योजयेद्विधिवद् बुधः ७
निरूहबस्तिदानविधिः
उत्सृष्टानिलविण्मूत्रं स्निग्धस्विन्नमभोजितम्
मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत् ८
स्नेहबस्तिविधानेन बुधः कुर्यान्निरूहणम्
जाते निरूहे च ततो भवेदुत्कटकासनः ९
तिष्ठेन्मुहूर्त्तमात्रं तु निरूहागमनेच्छया
अनायातं मुहूर्तं तु निरूहं शौधनैर्ह रेत्
निरूहैरेव मतिमान्क्षारमूत्राम्लसैन्धवैः १०
सुनिरूढलक्षणम्
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः
लाघवं चोपजायेत सुनिरूहं तमादिशेत् ११
दुर्निरूढलक्षणम्
यस्य स्याद्बस्तिरल्पाल्पवेगो हीनमलानिलः
मूर्च्छार्त्तिजाड्यारुचिमान्दुर्निरूहं तमादिशेत् १२
निरूहस्य बस्तिदानविधेयतानिर्देशः
अनेन विधिना युञ्ज्यान्निरूहं बस्तिदानवित् ॠ
द्वितीयं वा तृतीयं वा चतुर्थं वा यथोचितम् १३
भोजनक्रमः
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
निरूहं भोजयित्वा च ततस्तदनुवासयेत् १४
मृदुबस्तियोग्या जनाः
सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः
बस्तिस्तीक्ष्णः प्रयुक्तस्तु तेषां हन्याद् बलायुषी १५
उत्क्लेशनादिबस्तीनां प्रयोगकालनिर्देशः
दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं ततः
पश्चात्संशमनीयं च दद्याद्बस्तिं विचक्षणः १६
उत्क्लेशनबस्तिद्र व्याणि
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः १७
दोषहरबस्तिद्र व्याणि
शताह्वा मधुकं बिल्वं कौटजं फलमेव च
सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः १८
शमनबस्तिद्र व्याणि
प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
सक्षीरः शस्यते बस्तिर्दोषाणां शमनः स्मृतः १९
शोधनबस्तिविधिः
शोधनद्र व्यनिष्क्वाथैस्तत्कल्कैः स्नेहसैन्धवैः
युक्त्या खजेन मथिता बस्तयः शोधनाः स्मृताः २०
लेखनबस्तिद्र व्याणि
त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुताः
ऊषकादिप्रतीवापैर्बस्तयो लेखनाः स्मृताः २१
बृंहणबस्तिद्र व्याणि
बृंहणद्र व्यनिष्क्वाथकल्कैर्मधुरकैर्युताः
सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः २२
पिच्छिलबस्तिद्र व्याणि
बदर्यैरावतीशेलुशाल्मलीधन्वनागराः
क्षीरसिद्धाः क्षौद्र युक्ता नाम्ना पिच्छिलसंज्ञिताः २३
अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः
मात्रा पिच्छिलबस्तीनां पलैर्द्वादशभिर्मता २४
निरूहार्थं द्र व्याणां परिमाणपूर्वकं विधानम्
दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतित्रयम् २५
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
संमूर्च्छिते कषायं तु चतुःप्रसृतिसंमितम् २६
क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक्
वाते चतुष्पलं क्षौद्रं दद्यात्स्नेहस्य षट्पलम् २७
पित्ते चतुष्पलं क्षौद्रं स्नेहं दद्यात्पलत्रयम्
कफे च षट्पलं क्षौद्रं क्षिपेत्स्नेहं चतुष्पलम् २८
मधुतैलिकबस्तिविधिः
एरण्डक्वाथतुल्यांशं मधु तैलं पलाष्टकम् २९
शतपुष्पापलार्धेन सैन्धवार्धेन संयुतम्
मधुतैलिकसंज्ञोऽय बस्तिः खजविलोडितः ३०
मेदोगुल्मकृमिप्लीहमलोदावर्त्तनाशनः
बलवर्णकरश्चैव वृष्यो दीपनबृंहणः ३१
दीपनबस्तिविधिः
क्षौद्रा ज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत्
हपुषासैन्धवाक्षांशो बस्तिः स्याद्दीपनः परः ३२
युक्तरथबस्तिविधिः
एरण्डमूलनिष्क्वाथो मधु तैलं ससैन्धवम्
एष युक्तरथो बस्तिः सवचापिप्पलीफलः ३३
सिद्धबस्तिविधिः
पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु
ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः ३४
पथ्यापथ्यम्
स्नानमुष्णोदकैः कुर्याद्दिवास्वप्नमजीर्णताम्
वर्जयेदपरं सर्वमाचरेत्स्नेहबस्तिवत् ३५
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे निरूहबस्तिविधिर्नाम षष्ठोऽध्यायः

उत्तरबस्तिविधिः[सम्पाद्यताम्]

अथोत्तरबस्तिविधिर्नाम सप्तमोऽध्यायः
तत्रादावुत्तरबस्तिस्वरूपम्
अतः परं प्रवक्ष्यामि बस्तिमुत्तरसञ्ज्ञितम्
द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम्
मालतीपुष्पवृन्ताभं छिद्रं सर्षपसन्निभम् १
उत्तरबस्तौ स्नेहमात्रा
पञ्चविंशतिवर्षाणामधो मात्रा द्विकार्षिकी
तदूर्ध्वं पलमात्रा च स्नेहस्योक्ता भिषग्वरैः २
उत्तरबस्तिविधिः
अथास्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः
स्थितस्य जानुमात्रे च पीठेऽन्विष्य शलाकया ३
स्निग्धया मेढ्रमार्गे च ततो नेत्रं नियोजयेत्
शनैः शनैर्घृताभ्यक्तं मेढ्ररन्ध्रेऽङ्गुलानि षट् ४
ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्ह रेत्
ततः प्रत्यागते स्नेहे स्नेहबस्तिक्रमो हितः ५
स्त्रीणां बस्तिदाने विधिः
स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्याद् दशांगुलम् ६
मुद्गप्रवेशं योज्यं च योन्यन्तश्चतुरङ्गुलम्
द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मं नेत्रं नियोजयेत् ७
बालानां बस्तिदाने विधिः
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम्
शनैर्निष्कम्पमाधेयं सूक्ष्मं नेत्रं विचक्षणः ८
स्त्रीणां बालानां च स्नेहमात्रा
योनिमार्गेषु नारीणां स्नेहमात्रा द्विपालिकी
मूत्रमार्गे पलोन्मानां बालानां च द्विकार्षिकी ९
स्त्रीणामुत्तरबस्तिदानप्रकारः
उत्तानायै स्त्रियै दद्यादूर्ध्वजान्वै विचक्षणः
अप्रत्यागच्छति भिषग्बस्तावुत्तरसंज्ञिते १०
भूयो बस्तिं निदध्याच्च संयुक्तैः शोधनैर्गणैः
फलवर्त्तिं निदध्याद्वा योनिमार्गे दृढां भिषक् ११
सूत्रैर्विनिर्मितां स्निग्धां शोधनद्र व्यसंयुताम्
दह्यमाने तथा बस्तौ दद्याद्बस्तिं विशारदः १२
क्षीरिवृक्षकषायेण पयसा शीतलेन वा
बस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजां रुजम्
हन्यादुत्तरबस्तिस्तु नोचितो मेहिनां क्वचित् १३
उत्तरबस्तेर्गुणदोषाः
सम्यग्दत्तस्य लिङ्गानि व्यापदःक्रम एव च
बस्तेरुत्तरसंज्ञस्य समानं स्नेहबस्तिना १४
फलवर्त्तिलक्षणम्
घृताभ्यक्ते गुदे क्षेप्या श्लक्ष्णा स्वाङ्गुष्ठसंनिभा
मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता १५
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे उत्तरबस्तिविधिर्नाम सप्तमोऽध्यायः

नस्यविधिः[सम्पाद्यताम्]

अथ नस्यविधिर्नाम अष्टमोऽध्यायः
तत्र नस्यस्य निरुक्तिर्नाम च
नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम्
नावनं नस्यकर्मेति तस्य नामद्वयं मतम् १
नस्यभेदाः
नस्यभेदो द्विधा प्रोक्तो रेचनं स्नेहनं तथा
रेचनं कर्षणं प्रोक्तं स्नेहनं बृंहणं मतम् २
नस्यकर्मकालः
कफपित्तानिलध्वंसे पूर्वमध्यापराह्णके
दिने तु गृह्यते नस्यं रात्रावप्युत्कटे गदे ३
नस्यानर्हाः समया जनाश्च
नस्यं त्यजेद्भोजनान्ते दुर्दिने चापतर्पणे
तथा नवप्रतिश्यायी गर्भिणी गरदूषितः ४
अजीर्णीदत्तबस्तिश्च पीतस्नेहोदकासवः
क्रुद्धः शोकाभिभूतश्च तृषाऽत्तो वृद्धबालकौ
वेगावरोधी स्नातश्च स्नातुकामश्च वर्जयेत् ५
नस्यार्हानर्हा अवस्थाः
अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत्
अशीतिवर्षादूर्ध्वं च नावनं नैव दीयते ६
वैरेचनं नस्यम्
अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः
तीक्ष्णभेषजसिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा ७
शिरोविरेचननस्यमात्रा
नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च बिन्दवः
प्रत्येकं रेचने योज्या मुख्यमध्यान्त्यमात्रया ८
नस्यकर्मण्यौषधप्रमाणम्
नस्यकर्मणि दातव्यं शाणैकं तीक्ष्णमौषधम्
हिङ्गु स्याद्यावमात्रं तु माषैकं सैन्धवं मतम् ९
क्षीरं चैवाष्टशाणं स्यात्पानीयं च त्रिकार्षिकम्
कार्षिकं मधुरं द्र व्यं नस्यकर्मणि योजयेत् १०
शिरोविरेचननस्यभेदाः
अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ
शिरोविरेचनस्यात्र तौ तु देयौ यथायथम् ११
अवपीडननस्यस्वरूपम्
कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः
सोऽवपीडः समुद्दिष्टस्तीक्ष्णद्र व्यसमुद्भवः १२
प्रधमननस्यस्वरूपम्
षडङ्गुला द्विवक्रा वा नाडी चूर्णं तया धमेत्
तीक्ष्णं कोलमितं वक्त्रवातैः प्रधमनं हि तत् १३
रेचननस्ययोर्योग्या जनाः
ऊर्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये
अरोचके प्रतिश्याये शिरःशूले च पीनसे
शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम् १४
स्नेहननस्ययोग्या जनाः
भीरुस्त्रीकृशबालानां नस्यं स्नेहेन दीयते १५
अवपीडननस्ययोग्या जनाः
गलरोगे सन्निपाते निद्रा यां विषमज्वरे
मनोविकारे कृमिषु युज्यते चावपीडनम् १६
प्रधमननस्ययोग्या जनाः
अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते
चूर्णं प्रधमनं धीरैस्तद्धि तीक्ष्णतरं यतः १७
अथावपीडनप्रधमनयोः कतिपययोगाः
नस्यं स्याद् गुडशुण्ठीभ्यां पिप्पल्या सैन्धवेन च
जलपिष्टेन तेनाक्षिकर्णनासाशिरोगदाः १८
मन्याहनुगलोद्भूता नश्यन्ति भुजपृष्ठजाः १९
मधूकसारादिनस्यम्
मधूकसारकृष्णाभ्यां वचामरिचसैन्धवैः
नस्यं कोष्णजले पिष्टं दद्यात्सञ्ज्ञाप्रबोधनम्
अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके २०
तन्द्रा यां सैन्धवादि नस्यम्
सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण पिष्टानि नस्यं तन्द्रा निवारणम् २१
तत्रैव मरिचादिप्रधमननस्यम्
रोहितमत्स्यपित्तेन भावितं सैन्धवं वचा २२
मरिचं पिप्पली शुण्ठी कङ्कोलं लशुनं परम्
कट्फलं चेति तच्चूर्णं देयं प्रधमनं बुधैः २३
बृंहणनस्यविधिः
अथ बृंहणनस्यस्य कल्पना कथ्यतेऽधुना
मर्शश्च प्रतिमर्शश्च द्वौ भेदौ स्नेहनौ मतौ २४
मर्शस्य तर्पणी मात्रा मुख्या शाणैः स्मृताऽष्टभिः
मध्यमा च चतुःशाणैर्हीना शाणमिता स्मृता २५
एकैकस्मिंस्तु मात्रेयं देया नासापुटे बुधैः
मर्शस्य द्वित्रिवेलं वा वीक्ष्य दोषबलाबलम् २६
एकान्तरं द्व्यन्तरं वा नस्यं दद्याद्विचक्षणः
त्र्! यहं पञ्चाहमथवा सप्ताहंवा सुयन्त्रितम् २७
मर्शे शिरोविरेके च व्यापदो विविधाः स्मृताः
दोषोत्क्लेशात्क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् २८
दोषोत्क्लेशनिमित्तासु युञ्ज्याद्वमनशोधनम्
अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् २९
शिरोनासाऽक्षिरोगेषु सूर्यावर्त्तार्धभेदके
दन्तरोगे बले हीने मन्याबाह्वंसजे गदे ३०
मुखशोषे कर्णनादे वातपित्तगदे तथा
अकालपलिते चैव केशश्मश्रुप्रपातने
युज्यते बृंहणं नस्यं स्नेहैर्वा मधुरद्र वैः ३१
तत्र कुङ्कुमनस्यम्
सशर्करं पयःपिष्ठं भृष्टमाज्येन कुङ्कुमम् ३२
नस्यप्रयोगतो हन्याद्वातरक्तभवा रुजः
भ्रूशङ्खाक्षिशिरः कर्णसूर्यावर्त्तार्धभेदकान् ३३
अन्यद् बृंहणनस्यम्
नस्यं स्यादणुतैलेन तथा नारायणेन वा
माषादिना वा सर्पिर्भिस्तत्तद्भेषजसाधितैः ३४
दोषानुसारेण नस्ये स्नेहव्यस्था
तैलं कफे स्याद्वाते च केवले पवने वसा
दद्यान्नस्यं सदा पित्ते सर्पिर्मज्जानमेव च ३५
पक्षाघातादौ माषादिनस्यम्
माषात्मगुप्तारास्नाभिर्बलारुबुकरोहिषैः
कृतोऽश्वगन्धया क्वाथो हिङ्गुसैन्धवसंयुतः ३६
कोष्णो नस्यप्रयोगेण पक्षाघातं सकम्पनम्
जयेदर्दितवातं च मन्यास्तम्भापबाहुकौ ३७
प्रतिमर्शनस्यमात्रा
प्रतिमर्शस्य मात्रा तु द्विद्विबिन्दुमिता मता
प्रत्येकशो नस्तकयोः स्नेहेनेति विनिश्चितम् ३८
विन्द्वात्मकमात्रालक्षणम्
स्नेहे ग्रन्थिद्वयं यावन्निमग्ना चोद्धृता ततः
तर्जनी यं स्रवेद्विन्दुं सा मात्रा बिन्दुसञ्ज्ञिता ३९
एवं विधैर्बिन्दुसञ्ज्ञैरष्टभिः शाण उच्यते
स देयो मर्शनस्ये तु प्रतिमर्शो द्विबिन्दुकः ४०
प्रतिमर्शनस्यस्य चतुर्दशसमयः
समयाः प्रतिमर्शस्य बुधैः प्रोक्ताश्चतुर्दश
प्रभाते दन्तकाष्ठान्ते गृहान्निर्गमने तथा ४१
व्यायामाध्वव्यवायान्ते विण्मूत्रान्तेऽञ्जने कृते
कवलान्ते भोजनान्ते दिवासुप्तोत्थिते तथा
वमनान्ते तथा सायं प्रतिमर्शः प्रयुज्यते ४२
प्रतिमर्शनस्यस्य निषिक्तलक्षणम्
ईषदुच्छिक्कनात्स्नेहो यदा वक्त्रं प्रपद्यते ४३
नस्ये निषिक्तं तं विद्यात्प्रतिमर्शप्रमाणतः
उच्छिन्दन्न पिबेच्चैतन्निष्ठीवेन्मुखमागतम् ४४
प्रतिमर्शनस्ययोग्या जनाः
क्षीणे तृष्णास्यशीर्षार्त्ते बाले वृद्धे च युज्यते
प्रतिमर्शेनशाम्यन्ति रोगाश्चैवोर्ध्वजत्रुजाः
वलीपलितनाशश्च बलमिन्द्रि यजं भवेत् ४५
पलितरोगे नस्यम्
बिभीतनिम्बगम्भारी शिवा शेलुश्च काकिनी
एकैकतैलनस्येन पलितं नश्यति ध्रुवम् ४६
नस्यग्रहणविधिः
अथ नस्यविधिं वक्ष्ये नस्यग्रहणहेतवे
देशे वातरजोमुक्ते कृतदन्तनिघर्षणम् ४७
विशुद्धं धूमपानेन स्विन्नभालगलं तथा
उत्तानशायिनं किंचित्प्रलम्बशिरसं नरम् ४८
आस्तीर्णहस्तपादं च वस्त्राच्छादितलोचनम्
समुन्नमितनासाऽग्र वैद्यौ नस्येन योजयेत् ४९
कोष्णमच्छिन्नधारं च हेमतारादिशुक्तिभिः
शुक्त्या वा यत्र युक्त्या वा प्लोतैर्वा नस्यमाचरेत् ५०
नस्यप्रयोगसमये वर्ज्या विषयाः
नस्येष्वासिच्यमानेषु शिरो नैव प्रकम्पयेत्
न कुप्येन्न प्रभाषेत नोच्छिन्देन्नहसेत्तथा ५१
एतैर्हि विहितः स्नेहो नैवान्तः संप्रपद्यते ५२
नस्यप्रमादजा रोगाः
ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः
शृङ्गाटकमभिप्लाव्य स्थापयेन्न गिलेद् द्र वम् ५३
नस्यधारणमात्रा
पञ्च सप्त दशैव स्युर्मात्रा नस्यस्य धारणे ५४
नस्यधारणानन्तरं कर्त्तव्यकर्म
उपविश्याथ निष्ठीवेन्नासावक्त्रगतं द्र वम्
वामदक्षिणपार्श्वाभ्यां निष्ठीवेत्सम्मुखे न हि ५५
नस्यानन्तरं त्याज्यकर्माणि
नस्ये नीते मनस्तापं रजः क्रोधं च सन्त्यजेत्
शयीत निद्रा ं! त्यक्त्वा च प्रोत्तानो वाक्शतं नरः
तथा वैरेचनस्यान्ते धूमो वा कवलो हितः ५६
नस्यस्य लक्षणत्रयम्
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः
शुद्धिहीनातियोगानि विशेषाच्छास्त्रचिन्तकैः ५७
शिरःशुद्धिलक्षणम्
लाघवं मनसः शुद्धिः स्रोतसां व्याधिसंक्षयः
चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् ५८
हीनशुद्धिलक्षणम्
कण्डूपदेहोगुरुता स्रोतसां कफसंस्रवः
मूर्ध्नि हीनविशुद्धेस्तु लक्षणं परिकीर्त्तितम् ५९
अतिशयशुद्धस्य लक्षणम्
मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते ६०
हीनातिसम्यक्शुद्धिक्रियाः
हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
सम्यग्विशुद्धे शिरसि सर्पिर्नस्ये निषेचयेत् ६१
अतिस्निग्धस्य लक्षणं चिकित्सा च
कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः
लक्षणं तदतिस्निग्धे तत्र रूक्षं प्रदापयेत्
भोजयेच्चानभिष्यन्दि नस्याचारिकमादिशेत् ६२
पञ्चकर्मणां नामानि
वमनं रेचनं नस्यं निरूहश्चानुवासनम्
एतानि पञ्च कर्माणि कथितानि मुनीश्वरैः ६३
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे नस्यविधिर्नामाष्टमोऽध्यायः

धूमपानविधिः[सम्पाद्यताम्]

अथ धूमपानविधिर्नाम नवमोऽध्यायः
तत्र धूमसंख्या
धूमस्तु षड्विधः प्रोक्तः शमनो बृंहणस्तथा
रेचनः कासहा चैव वामनो व्रणधूपनः १
शमनबृंहणरेचनधूमानां पर्यायाः
शमनस्य तु पर्यायौ मध्यः प्रायोगिकस्तथा
बृंहणस्यापि पर्यायौ स्नेहनो मृदुरेव च
रेचनस्यापि पर्यायौ शोधनस्तीक्ष्ण एव च २
धूमपानानर्हा जनाः
अधूमार्हाश्च खल्वेते श्रान्तो भीतश्च दुःखितः ३
दत्तबस्तिर्विरिक्तश्च रात्रौ जागरितस्तथा
पिपासितश्च दाहार्तस्तालुशोषी तथोदरी ४
शिरोऽभितापी तिमिरी छर्द्याध्मानप्रपीडितः
क्षतोरस्कः प्रमेहार्तः पाण्डुरोगी च गर्भिणी ५
रूक्षः क्षीणोऽभ्यवहृतक्षीरक्षौद्र घृतासवः
भुक्तान्नदधिमत्स्यश्च बालो वृद्धः कृशस्तथा ६
अकाले धूमपाने दोषस्तत्प्रतीकारश्च
अकाले चातिपीतश्च धूमः कुर्यादुपद्र वान्
तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ७
सर्पिरिक्षुरसं द्रा क्षां पयो वा शर्कराम्बु वा
मधुराम्लौ रसौ वाऽपि शमनाय प्रदापयेत् ८
धूमपानस्य समया गुणाश्च
धूमस्तु द्वादशाद्वर्षाद् गृह्यतेऽशीतिकान्न च
कासश्वासप्रतिश्यायान्मन्याहनुशिरोरुजः ९
वातश्लेष्मविकारांश्च हन्याद् धूमः सुयोजितः
धूमप्रयोगात्पुरुषः प्रसन्नेन्द्रि यवाङ्मनाः
दृढकेशद्विजश्मश्रुः सुगन्धिवदनो भवेत् १०
धूमनलिकाविधानम्
धूमनाडी भवेत्तत्र त्रिखण्डा च त्रिपर्विका ११
कनिष्ठिकापरीणाहा राजमाषागमान्तरा
धूमनाडी भवेद्दीर्घा शमने रोगिणोऽङ्गुलैः १२
चत्वारिंशन्मितैस्तद्वद् द्वात्रिंशद्भिर्मृदौ मता
तीक्ष्णे चतुर्विंशतिभिः कासघ्नी षोडशोन्मितैः १३
दशाङ्गुलैर्वामनीये तथा स्याद् व्रणनाडिका
कलायमण्डलस्थूला कुलत्थागमरन्ध्रिका १४
धूमपानार्थमीषिकाविधानम्
अथेषिकां प्रलिम्पेच्च सुश्लक्ष्णां द्वादशाङ्गुलाम्
धूमद्र व्यस्य कल्केन लेपश्चाष्टाङ्गुलः स्मृतः १५
कल्कं कर्षमितं लिप्त्वा छायाशुष्कं च कारयेत्
ईषिकामपनीयाथ स्नेहाक्तां वर्त्तिमादरात् १६
अङ्गारैर्दीपितां कृत्वा धृत्वा नेत्रस्य रन्ध्रके
वदनेन पिबेद् धूमं वदनेनैव सन्त्यजेत् १७
नासिकाभ्यां ततः पीत्वा मुखेनैव वमेत्सुधीः
शरावसम्पुटे क्षिप्त्वा कल्कमङ्गारदीपितम्
छिद्रे नेत्रं निवेश्याथ व्रणं तेनैव धूपयेत् १८
शमनादिधूमानां द्र व्याणि
एलादिकल्कं शमने स्निग्धं सर्जरसं मृदौ
रेचने तीक्ष्णकल्कं च कासघ्नं क्षुद्रि कोषणम् १९
वामने स्नायुचर्माद्यं दद्याद् धूमस्य पानकम्
व्रणे निम्बवचाद्यं च धूपनं सम्प्रशस्यते २०
बालग्रहादिष्वपराजितो धूपः
अन्येऽपि धूमा गेहेषु कर्तव्या रोगशान्तये २१
मयूरपिच्छं निम्बस्य पत्राणि बृहतीफलम्
मरिचं हिङ्गु मांसी च बीजं कार्पाससम्भवम् २२
छागरोमाहिनिर्मोकं विष्ठा वैडालिकी तथा
गजदन्तश्च तच्चूर्णं किच्चिद्घृतविमिश्रितम् २३
गेहेषु धूपनं दत्तं सर्वान्बालग्रहाञ्जयेत्
पिशाचान्राक्षसाञ्जित्वा सर्वज्वरहरं भवेत् २४
धूमपाने पथ्यं नेत्रद्र व्याणि च
परिहारस्तु धूमेषु कार्यो रेचननस्यवत्
नेत्राणि धातुजान्याहुर्नलवंशादिजान्यपि २५
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे धूमपानविधिर्नाम नवमोऽध्यायः

गण्डूषादिविधिः[सम्पाद्यताम्]

अथ गण्डूषकवलप्रतिसारणविधिर्नाम दशमोऽध्यायः
तत्र गण्डूषकवलयोर्भेदा!
चतुर्विधः स्याद्गण्डूषः स्नैहिकः शमनस्तथा
शोधनो रोपणश्चैव कवलश्चापि तद्विधः १
तद्भेदानां प्रकाराः
स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे २
कषायतिक्तमधुरैः कदुष्णो रोपणो व्रणे
चतुष्प्रकारो गण्डूषः कवलश्चापि कीर्त्तितः ३
गण्डूषकवलयोर्लक्षणम्
असञ्चारी मुखे पूर्णे गण्डूषः कवलश्चरः
तत्र द्र वेण गण्डूषः कल्केन कवलः स्मृतः ४
गण्डूषकवलयोरौषधमात्रा
दद्याद् द्र वेषु चूर्णं च गण्डूषे कोलमात्रकम्
कर्षप्रमाणः कल्कश्च दीयते कवले बुधैः ५
गण्डूषस्य योग्याऽवस्था तद्धारणप्रमाणं च
धार्यन्ते पञ्चमाद्वर्षाद्गण्डूषकवलादयः
गण्डूषान्सुस्थितः कुर्यात्स्विन्नभालगलादिकः ६
मनुष्यस्त्रींस्तथा पञ्च सप्त वा दोषनाशनात्
कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत्
नेत्रघ्राणस्रुतिर्यावत्तावद् गण्डूषधारणम् ७
वाते स्नैहिकगण्डूषः
तिलकल्कोदकं क्षीरं स्नेहो वा स्नैहिके हितः ८
दाहनाशनगण्डूषः
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च
सक्षौद्रो हनुवक्त्रस्थो गण्डूषो दाहनाशनः ९
मुखव्रणादौ मधुगण्डूषः
वैशद्यं जनयत्यास्ये सन्दधाति मुखव्रणान्
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम् १०
विषक्षाराग्निदग्धे गण्डूषः
विषक्षाराग्निदग्धे च सर्पिधार्यं पयोऽथवा ११
दन्तचाले गण्डूषः
तैलसैन्धवगण्डूषो दन्तचाले प्रशस्यते १२
मुखशोषे कफे च हितः काञ्जिकगण्डूषः
शोषं मुखस्य वैरस्यं गण्डूषः काञ्जिको जयेत्
सिन्धुत्रिकटुराजीभिरार्द्र केण कफे हितः १३
कफरक्तपित्तनाशनो गण्डूषः
त्रिफलामधुगण्डूषः कफासृक्पित्तनाशनः १४
मुखपाकर्न्घो गण्डूषः
दार्वी गुडूची त्रिफला द्रा क्षा जात्याश्च पल्लवाः
यवासश्चेति तत्क्वाथः षष्ठांशक्षौद्र संयुतः
शीतो मुखे धृतो हन्यान्मुखपाकं त्रिदोषजम् १५
गण्डूषादिषु परस्परं द्र व्यैक्यम्
यस्यौषधस्य गण्डूषस्तस्यैव प्रतिसारणम्
कवलश्चापि तस्यैव ज्ञेयोऽत्र कुशलैर्न रैः १६
कफवातजारुचिनाशकः कवलः
केसरं मातुलुङ्गस्य सैन्धवोषणसंयुतम्
हन्यात्कवलतो जाड्यमरुचिं कफवातजाम् १७
प्रतिसारणप्रयोगमाह
प्रतिसारणप्रयोगभेदाः
कल्कोऽवलेहश्चूर्णं च त्रिविधं प्रतिसारणम्
अङ्गुल्यग्रगृहीतं च यथास्वं मुखरोगिणाम् १८
दन्तमुखकण्ठरोगेषु प्रतिसारणचूर्णम्
कुष्ठं दार्वी समङ्गा च पाठा तिक्ता च पीतिका
तेजनी मुस्तलोध्रे च चूर्णं स्यात्प्रतिसारणम्
रक्तस्रुतिं दन्तपीडां शोथं दाहं च नाशयेत् १९
गण्डूषादीनां हीनातियोगजा दोषाः
हीनयोगात्कफोत्क्लेशो रसाज्ञानारुची तथा
अतियोगान्मुखे पाकः शोषस्तृष्णा क्लमो भवेत् २०
गण्डूषे शुद्धिलक्षणम्
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
इन्द्रि याणां प्रसादश्च गण्डूषे शुद्धिलक्षणम् २१
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे गण्डूषादिविधिर्नाम दशमोऽध्यायः

लेपमूर्धतैलकर्णपूरणविधिः[सम्पाद्यताम्]

अथ लेपविधिर्नाम एकादशोऽध्यायः
लेपस्य नामानि तद्भेदाश्च
आलेपस्य च नामानि लिप्तो लेपश्च लेपनम्
दोषघ्नो विषहा वर्ण्यो मुखलेपस्त्रिधा मतः १
लेपस्य मात्रा
त्रिप्रमाणश्चतुर्भागस्त्रिभागोऽधाङ्गुलोन्नतः
आद्रो र्! व्याधिहरः स स्याच्छुष्को दूषयतिच्छविम् २
शोथघ्नो लेपः
पुनर्नवा दारु शुण्ठीं सिद्धार्थं शिग्रुमेव च
पिष्ट्वा चैवारनालेन प्रलेपः सर्वशोथजित् ३
दाहनाशको लेपः
बिभीतफलमज्जाया लेपो दाहार्त्तिनाशनः ४
विसर्पशोथव्रणादौ दशाङ्गलेपः
शिरीषं मधुयष्टी च तगरं रक्तचन्दनम्
एला मांसी निशायुग्मं कुष्ठं बालकमेव च
इति संचूर्ण्य लेपोऽय पञ्चमांशघृतप्लुतः ५
जलेन क्रियते सुज्ञैर्दशाङ्ग इति संज्ञितः
विसर्पान्विषविस्फोटशोथान्दुष्टव्रणाञ्जयेत् ६
आरुष्करशोथघ्नो लेपः
अजादुग्धतिलैर्लेपो नवनीतेन संयुतः
शोथमारुष्करं हन्ति लेपो वा कृष्णमृत्तिकैः ७
कीटघ्नो लेपः
लाङ्गल्यतिविषाऽलाबुजालिनीमूलबीजकैः
लेपो धान्याम्बुसम्पिष्टः कीटविस्फोटनाशनः ८
मुखकान्तिकरो लेपः
रक्तचन्दनमञ्जिष्ठलोध्रकुष्ठप्रियङ्गवः
वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ९
मुखकान्तिकरं लेपान्तरम्
मातुलुङ्गजटा सर्पिः शिला गोशकृतो रसः
मुखकान्तिकरो लेपः पिटिकाव्यङ्गकालजित् १०
तारुण्यपिटिकाऽपहा लेपा
लोध्रधान्यवचालेपस्तारुण्यपिटिकाऽपहः
तद्वद्गोरोचनायुक्तं मरिचं मुखलेपनम्
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम् ११
व्यङ्गहरा लेपाः
व्यङ्गेषु चार्जुनत्वग्वामञ्जिष्ठा वा समाक्षिका
लेपः सनवनीतो वा श्वेताश्वखुरजामषी १२
मुखकार्ष्ण्ये लेपः
अर्कक्षीरहरिद्रा भ्यां मर्दयित्वा विलेपनात्
मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम् १३
तत्रैव लेपान्तरम्
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् १४
कुष्ठं कालीयकं लोध्रमेभिर्लेपं प्रयोजयेत्
तारुण्यपिटिकाव्यङ्गनीलिकादिविनाशनम् १५
अरुंषिकायां लेपः
पुराणमथ पिण्याकं पुरीषं कुक्कुटस्य च
मूत्रपिष्टः प्रलेपोऽय शीघ्रं हन्यादरुंषिकाम् १६
तत्रैव लेपान्तरम्
खदिरारिष्टजम्बूनां त्वग्भिर्वा मूत्रसंयुतैः
कुटजत्वक्सैन्धवं च लेपो हन्यादरुंषिकाम् १७
दारुणके लेपः
प्रियाल बीजमधुककुष्ठमाषैः ससैन्धवैः
कार्यो दारुणके मूर्ध्नि प्रलेपो मधुसंयुतः १८
तत्रैवान्यल्लेपद्वयम्
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं जयेत्
आम्रबीजस्य चूर्णं तु शिवाचूर्णसमं द्वयम्
दुग्धपिष्टः प्रलेपोऽय दारुणं हन्ति दारुणम् १९
इन्द्र लुप्ते लेपः
रसस्तिक्तपटोलस्य पत्राणां तद्विलेपनात्
इन्द्र लुप्तं शमं याति त्रिभिरेव दिनैर्ध्रुवम् २०
अत्रैवान्येऽपि लेपाः
इन्द्र लुप्तापहो लेपो मधुना बृहतीरसः
गुञ्जामूलं फलं वाऽपि भल्लातकरसोऽपि वा २१
केशवर्द्धको लेपः
गोक्षुरस्तिलपुष्पाणि तुल्ये च मधुसर्पिषी
शिरः प्रलेपनं तेन केशसंवर्धनं परम् २२
रोमोत्पादको लेपः
हस्तिदन्तमषीं कृत्वा छागीदुग्धं रसाञ्जनम्
रोमाण्यनेन जायन्ते लेपात्पाणितलेष्वपि २३
इन्द्र लुप्तघ्नोऽन्यो लेपः
यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः
इन्द्र लुप्तं शमं याति केशाः स्युः सघना दृढाः २४
केशवर्द्धकोऽन्यो लेपः
चतुष्पदानां त्वग्रोमनखशृङ्गास्थिभस्मभिः
तैलेन सह लेपोऽय रोमसंजननः परः २५
केशकृष्णीकरणलेपः
इन्द्र वारुणिकाबीजतैलेनाभ्यङ्गमाचरेत्
प्रत्यहं तेन जायन्ते कुन्तला भृङ्गसन्निभाः २६
पलितघ्नो लेपः
अयोरजो भृङ्गराजस्त्रिफला कृष्णमृत्तिका
स्थितमिक्षुरसे मासं लेपनात्पलितं जयेत् २७
अन्यो लेपः
धात्रीफलत्रयं पथ्ये द्वे तथैकं बिभीतकम्
पञ्चाम्रमज्जा लोहस्य कर्षैकं च प्रदीयते २८
पिष्ट्वा लोहमये भाण्डे स्थापयेदुषितं निशि
लेपोऽय हन्ति न चिरादकालपलितं महत् २९
अन्यः केशकृष्णीकरणलेपः
त्रिफला नीलिकापत्रं लोहं भृङ्गरजः समम्
अविमूत्रेण सम्पिष्टं लेपात्कृष्णीकरं स्मृतम् ३०
पलितनाशककल्पविधिः
त्रिफला लोहचूर्णं च दाडिमत्वग्बिसं तथा
प्रत्येकं पञ्चपलिकं चूर्णं कुर्याद्विचक्षणः ३१
भृङ्गराजरसस्यापि प्रस्थषट्कं प्रदापयेत्
क्षिप्त्वा लोहमये पात्रे भूमिमध्ये निधापयेत् ३२
मासमेकं ततः कुर्याच्छागीदुग्धेन लेपनम्
कूर्चे शिरसि रात्रौ च संवेष्ट्यैरण्डपत्रकैः ३३
स्वपेत्प्रातस्ततः कुर्यात्स्नानं तेन च जायते
पलितस्य विनाशश्च त्रिभिर्लेपैर्न संशयः ३४
केशनाशको लेपः
शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम् ३५
मनः शिला चार्धभागा स्वर्जिका चैकभागिका
लेपोऽय वारिपिष्टस्तु केशानुत्पाट्य दीयते ३६
अनया लेपयुक्त्या च सप्तवेलं प्रयुक्तया
निर्मूलं केशस्थानं स्यात्क्षपणस्य शिरो यथा ३७
अन्यो लेपः
तालकं शाणयुग्मं स्यात्षट् शाणं शङ्खचूर्णकम्
द्विशाणिकं पलाशस्य क्षारं दत्त्वा प्रमर्दयेत् ३८
कदलीदण्डतोयेन रविपत्ररसेन वा
अस्यापि सप्तभिर्लेपै रोम्णां शातनमुत्तमम् ३९
श्वित्रनाशको लेपः
सुवर्णपुष्पी कासीसं विडङ्गानि मनः शिला
रोचना सैन्धवं चैव लेपनाच्छिवत्रनाशनम् ४०
अन्योः लेपः
वायस्येडगजाकुष्ठकृष्णाभिर्गुटिका कृता
बस्तमूत्रेण सम्पिष्टा प्रलेपाच्छिवत्रनाशिनी ४१
लेपान्तरम्
तालकं शाणमात्रं स्याच्चतुःशाणा च वाकुची
गोमूत्रपिष्टं तच्चूर्णं लेपनाच्छिक्त्रनाशनम् ४२
सर्वश्वित्रहरलेपः
वाकुची वेतसो लाक्षा काकोदुम्बरिका कणा
रसाञ्जनमयश्चूर्णं तिलाः कृष्णास्तदेकतः ४३
चूर्णयित्वा गवां पित्तैः पिष्ट्वा च गुटिका कृता
अस्याः प्रलेपाच्छिवत्राणि प्रणश्यन्त्यतिवेगतः ४४
सिध्महरो लेपः
धात्री सर्जरसश्चैव यवक्षारश्च चूर्णितः
सौवीरेण प्रलेपोऽय प्रयोज्यः सिध्मनाशने ४५
अन्यो लेपः
दार्वी मूलकबीजानि तालकं सुरदारु च
ताम्बूलपत्रं सर्वाणि कार्षिकाणि पृथक्पृथक् ४६
शङ्खचूर्णं शाणमात्रं सर्वाण्येकत्र कारयेत्
लेपोऽय वारिणा पिष्टः सिध्मनां नाशनः परः ४७
नेत्ररोगहरो लेपः
हरीतकी सैन्धवं च गैरिकं च रसाञ्जनम्
विडालको जले पिष्टः सर्वनेत्रामयापहः ४८
अन्यो लेपः
रसाञ्जनं व्योषयुतं सम्पिष्टं वटकीकृतम्
कण्डूं पाकान्वितां हन्ति लेपादञ्जननामिकाम् ४९
दद्रू कण्ड्वादौ लेपः
प्रपुन्नाटस्य बीजानि वाकुची सर्षपास्तिलाः
कुष्ठं निशाद्वयं मुस्तं पिष्ट्वा तक्रेण चैकतः
प्रलेपादस्य नश्यन्ति दद्रू कण्डूविचर्चिकाः ५०
पामादिषु लेपः
हेमक्षीरी विडङ्गानि दरदं गन्धकस्तथा
दद्रू घ्नः कुष्ठसिन्दूरे सर्वाण्येकत्र मर्दयेत् ५१
धत्तूरनिम्बताम्बूलीपत्राणां स्वरसैः पृथक्
अस्य प्रलेपमात्रेण पामादद्रू विर्चिकाः ५२
कण्डूश्च रकसश्चैव प्रशमं यान्ति वेगतः ५३
कण्डूपामादिष्वन्यो लेपः
दूर्वाऽभया सैन्धवं च चक्रमर्दः कुठेरकः
एभिस्तक्रयुतो लेपः कण्डूपामाविनाशनः ५४
तत्रैवान्यो लेपः
दूर्वानिशायुतो लेपः कण्डूपामाविनाशनः
कृमिदद्रुहरश्चैव शीतपित्तापहः स्मृतः ५५
दद्रू घ्नो लेपः
सिद्धार्थरजनीकुष्ठप्रपुन्नाटतिलैः सह
कटुतैलेन संमिश्रं दद्रू घ्नं च प्रलेपनम् ५६
वातविसर्पहा लेपः
रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला
घृतक्षीरयुतो लेपो वातवीसर्पनाशनः ५७
पित्तविसर्पहा लेपः
मृणालं चन्दनं लोध्रमुशीरं कमलोत्पलम्
सारिवामलकी पथ्या लेपः पित्तविसर्पनुत् ५८
कफविसर्पघ्नो लेपः
त्रिफला पद्मकोशीरं समङ्गा करवीरकम्
नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ५९
पित्तवातरक्तघ्नो लेपः
मांसी सर्जरसो लोध्रं मधुकं सहरेणुकम्
मूर्वा नीलोत्पलं पद्मं शिरीषकुसुमैः सह
प्रलेपः पित्तवातास्रे शतधौतघृतप्लुतः ६०
नासासृतरक्तहरो लेपः
आमलं घृतभृष्टं तु पिष्टं काञ्जिकवारिभिः
जयेन्मूर्ध्नि प्रलेपेन रक्तं नासिकया सृतम् ६१
वातजशिरःपीडाहरो लेपः
कुष्ठमेरण्डतैलेन लेपात्काञ्जिकपेषितम्
शिरोऽत्ति वातजां हन्यात्पुष्पं वा मुचुकुन्दजम् ६२
अन्यो लेपः
देवदारुं नतं कुष्ठं नलदं विश्वभेषजम्
सकाञ्जिकः स्नेहयुक्तो लेपो वातशिरोऽत्तिनुत् ६३
रक्तपित्तजशिरःपीडाहरो लेपः
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः
क्षीरपिष्टैः प्रलेपः स्याद्र क्तपित्तशिरोऽत्तिजित् ६४
रक्तपित्तहरो लेपः
धात्रीकसेरुह्रीबेरपद्मपद्मकचन्दनैः
दूर्वोशीरनलानां च मूलैः कुर्यात्प्रलेपनम् ६५
शिरोऽत्ति पित्तजां हन्याद्र क्तपित्तरुजं तथा ६६
कफजशिरःपीडाहरो लेपः
हरेणुनतशैलेयमुस्तैलागरुदारुभिः
मांसीरास्नारुबूकश्च कोष्णो लेपः कफार्त्तिनुत् ६७
अन्यो लेपः
शुण्ठीकुष्ठप्रपुन्नाटदेवकाष्ठैः सरोहिषैः
मूत्रपिष्टैः सुखोष्णैश्च लेपः श्लेष्मशिरोऽत्तिनुत् ६८
सूर्यावर्त्तार्धावभेदकयोर्लेपः
सारिवाकुष्ठमधुकवचाकृष्णोत्पलैस्तथा
लेपः सकाञ्जिकस्नेहः सूर्यावर्त्तार्धभेदयोः ६९
सर्वशिरःपीडाहरो लेपः
वरी नीलोत्पलं दूर्वा तिलाः कृष्णा पुनर्नवा
शङ्खकेऽनन्तवाते च लेपः सर्वशिरोऽत्तिजित् ७०
लेपस्य भेदद्वयम्
अथ लेपविधिश्चान्यः प्रोच्यते सुज्ञसम्मतः
द्वौ तस्य कथितौ भेदौ प्रलेपाख्यप्रदेहकौ ७१
तयोर्लक्षणम्
चर्माद्र रं! माहिषं यद्वत्प्रोन्नतं सा मितिस्तयोः
शीतस्तनुर्विशोषी च प्रलेपः परिकीर्त्तितः
आद्रो र्! घनस्तथोष्णः स्यात्प्रदेहः श्लेष्मवातहा ७२
लेपविधिः
रोमाभिमुखमादेयौ प्रलेपाख्यप्रदेहकौ
वीर्यं सम्यग्विशत्याशु रोमकूपैः शिरामुखैः ७३
रात्रौ लेपनिषिद्धता
न रात्रौ लेपनं कुर्याच्छुष्यमाणं न धारयेत्
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति ७४
रात्रिलेपनिषेधे हेतुः
तमसा पिहतो ह्यूष्मा रोमकूपमुखे स्थितः
विना लेपेन निर्याति रात्रौ नो लेपयेदतः ७५
रोगविशेषे रात्रौ लेपाज्ञा
रात्रावपि प्रलेपादिविधिः कार्यो विचक्षणैः
अपक्वशोथे गम्भीरे रक्तश्लेष्मसमुद्भवे ७६
व्रणविषये लेपक्रमनिर्देशः
आदौ शोथहरो लेपो द्वितीयो रक्तसेचनः
तृतीयश्चोपनाहः स्याच्चतुर्थः पाटनक्रमः ७७
पञ्चमः शोधनो भूयात्षष्ठो रोपण इष्यते
सप्तमो वर्णकरणो व्रणस्यैते क्रमा मताः ७८
वातजव्रणशोथहरो लेपः
बीजपूरजटा हिंस्रा देवदारु महौषधम्
रास्नाऽग्निमन्थो लेपोऽय वातशोथविनाशनः ७९
पित्तजव्रणशोथघ्नो लेपः
मधुकं चन्दनं मूर्वा नलमूलं च पद्मकम्
उशीरं बालकं पद्मं पित्तशोथे प्रलेपनम् ८०
कफजव्रणशोथघ्नो लेपः
कृष्णा पुराणपिण्याकं शिग्रुत्वक्सिकता शिवा
मूत्रपिष्टः सुखोष्णोऽय प्रदेहः श्लेष्मशोथहा ८१
आगन्तुकरक्तजव्रणशोथघ्नो लेपः
द्वे निशे चन्दने द्वे च शिवा दूर्वा पुनर्नवा ८२
उशीरं पद्मकं लोध्रं गैरिकं च रसाञ्जनम्
आगन्तुके रक्तजे च शोथे कुर्यात्प्रलेपनम् ८३
व्रणपाचको लेपः
शणमूलकशिग्रूणां फलानि तिलसर्षपाः
सवचः किण्वमतसी प्रदेहः पाचनः स्मृतः ८४
व्रणदारणे लेपाः
तत्र दन्त्यादिलेपः
दन्ती चित्रकमूलत्वक्स्नुह्यर्कपयसी गुडः
भल्लातकास्थिकासीसं सैन्धवं दारणः स्मृतः ८५
चिरबिल्वादिलेपः
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
कपोतकङ्कगृध्राणां मलं लेपेन दारणम् ८६
स्वर्जिकादिहेमक्षीरीलेपौ
स्वर्जिकायावशूकाद्याः क्षारा लेपेन दारणाः
हेमक्षीर्यास्तथा लेपो व्रणे परमदारणः ८७
व्रणशोधनरोपणो लेपः
तिलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः
त्रिवृद्घृतयुतैः पिष्टैः प्रलेपो व्रणशोधनः ८८
व्रणशोधनरोपणो लेपः
निम्बपत्रघृतक्षौद्र दार्वीमधुकसंयुतः
तिलैश्च सह संयुक्तो लेपः शोधनरोपणः ८९
व्रणकृमिघ्नो लेपः
करञ्जारिष्टनिर्गुण्डीलेपो हन्याद् व्रणकृमीन्
लशुनस्याथवा लेपो हिङ्गुनिम्बभवोऽथवा ९०
दुष्टव्रणप्रशमनो लेपः
निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्
द्रुष्टव्रणप्रशमनो लेपः शोधनरोपणः ९१
अन्तर्विद्र धिजशूलघ्नो लेपः
मदनस्य फलं तिक्तां पिष्ट्वा काञ्जिकवारिणा
कोष्णं कुर्यान्नाभिलेपं शूलशान्तिर्भवेत्ततः ९२
वातविद्र धिहरो लेपः
शिग्रुशेफालिकैरण्डयवगोधूममुद्गकैः
सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्र धौ ९३
पित्तविद्र धिहरो लेपः
पैत्तिके सर्पिषा लाजामधुकैः शर्कराऽन्वितैः
प्रलिम्पेत्क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ९४
कफविद्र धिहरो लेपः
इष्टिका सिकता लोहकिट्टं गोशकृता सह
सुखोष्णश्च प्रदेहोऽय मूत्रैः स्याच्छ्लेष्मविद्र धौ ९५
आगन्तुकविद्र धिहरो लेपः
रक्तचन्दनमञ्जिष्ठानिशामधुकगैरिकैः
क्षीरेण विद्र धौ लेपो रक्तागन्तुनिमित्तजे ९६
वातजगलगण्डहरो लेपः
निचुलः शिग्रुबीजानि दशमूलमथापि वा
प्रदेहो वातगण्डेषु सुखोष्णः सम्प्रदीयते ९७
कफजगलगण्डहरो लेपः
देवदारु विशाला च कफगण्डे प्रदेहकः ९८
अपचीनाशको लेपः
सर्षपारिष्टपत्राणि दग्ध्वा भल्लातकैः सह
छागमूत्रेण संपिष्टमपचीघ्नं प्रलेपनम् ९९
गण्डमालादिषु लेपः
सर्षपाः शिग्रुबीजानि शणबीजातसीयवाः
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत्
गण्डमालाऽबुदं गण्डं लेपेनानेन शाम्यति १००
गृधस्यादिषु लेपः
तक्षयित्वा क्षुरेणाङ्गं केवलानिलपीडितम्
तत्र प्रदेहं दद्याच्च पिष्टं गुञ्जाफलैः कृतम् १०१
तेनापबाहुजा पीडा विश्वाची गृध्रसी तथा
अन्याऽपि वातजा पीडा प्रशमं याति वेगतः१०२
श्लीपदरोगहरो लेपः
धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् १०३
कुरण्डघ्नो लेपः
आजाजीहपुषाकुष्ठमेरण्डबदरान्वितम्
काञ्जिकेन तु संपिष्टं कुरण्डघ्नं प्रलेपनम् १०४
उपदंशे लेपः
करवीरस्य मूलेन परिपिष्टेन वारिणा
असाध्याऽपि व्रजत्यस्तं लिङ्गोत्था रुक्प्रलेपनात् १०५
तत्रान्यो लेपः
दहेत्कटाहे त्रिफलां सा मषी मधुसंयुता
उपदंशे प्रलेपोऽय सद्यो रोपयति व्रणम् १०६
अन्यो लेपः
रसाञ्जनं शिरीषेण पथ्यया च समन्वितम्
सक्षौद्रं लेपनं योज्यमुपदंशगदापहम् १०७
अग्निदग्धे लेपाः
अग्निदग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् १०८
तिन्दुकीत्वक्कषायैर्वा घृतमिश्रः प्रलेपयेत्
यवान्दग्ध्वा मषी कार्या तैलेन युतया तथा
दद्यात्सर्वाग्निदग्धेषु प्रलेपो व्रणरोपणः १०९
योनिसङ्कोचको लेपः
पलाशोदुम्बरफलैस्तिलतैलसमन्वितैः
मधुना योनिमालिम्पेद् गाढीकरणमुत्तमम् ११०
तत्रैवान्यो लेपः
माकन्दफलसंयुक्तमधुकर्पूरलेपनात्
गतेऽपि यौवने स्त्रीणां योनिर्गाढाऽतिजायते १११
लिङ्गस्तनादिवृद्धौ लेपः
मरिचं सैन्धवं कृष्णा तगरं बृहतीफलम् ११२
अपामार्गस्तिलाः कुष्ठं यवा माषाश्च सर्षपाः
अश्वगन्धा च तच्चूर्णं मधुना सह योजयेत् ११३
अस्य सन्ततलेपेन मर्दनाच्च प्रजायते
लिङ्गवृद्धिः स्तनोत्सेधः संहतिर्भुजकर्णयोः ११४
लिङ्गवृद्धिकरो लेपः
सिताऽश्वगन्धासिन्धूत्थछागक्षीरैर्घृतं पचेत्
तल्लेपान्मर्दनाल्लिङ्गवृद्धिः सञ्जायते परा ११५
योनिद्रा वकरो लेपः
इन्द्र वारुणिकापत्ररसैः सूतं विमर्दयेत्
रक्तस्य करवीरस्य काष्ठेन च मुहुर्मुहुः
तल्लिप्तलिङ्गसंयोगाद्योनिद्रा वोऽभिजायते ११६
गात्रदुर्गन्धहरो लेपः
ताम्बूलपत्रचूर्णं तु चूर्णं कुष्ठशिवाभवम्
वारिणा लेपनं कुर्याद् गात्रदौर्गन्ध्यनाशनम् ११७
स्वेददौर्गन्ध्यहरो लेपः
कुलित्थसक्तवः कुष्ठं मांसी चन्दनजं रजः ११८
सक्तवश्चणकस्यैव त्वक्चैवैकत्र कारयेत्
स्वेददौर्गन्ध्यनाशश्च जायतेऽस्यावधूलनात् ११९
वशीकरणलेपः
वचा सौवर्चलं कुष्ठं रजन्यौ मरिचानि च
एतल्लेपप्रभावेण वशीकरणमुत्तमम् १२०
अथ मूर्धतैलविधिः
तत्र मूर्धतैलभेदाः
अभ्यङ्गः परिषेकश्च पिचुर्बस्तिरिति क्रमात्
मूर्धतैलं चतुर्धा स्याद्बलवच्च यथोत्तरम् १२१
केवलशिरोबस्तिविधिकथने हेतुनिर्देशः
त्रयोऽभ्यङ्गादयः पूर्वे प्रसिद्धाःसर्वतःस्मृताः
शिरोबस्तिविधिश्चात्र प्रोच्यतेसुज्ञसंमतः १२२
अथ शिरोबस्तिविधिः
शिरोबस्तिश्चर्मणःस्याद् द्विमुखो द्वादशाङ्गुलः
शिरः प्रमाणं तं बद्ध्वा मस्तके माषपिष्टकैः
सन्धिरोधं विधायादौ स्नेहैः कोष्णैः प्रपूरयेत् १२३
तत्र शिरोबस्तिधारणकालविधिनिर्देशः
तावद्धार्यस्तु यावत्स्यान्नासानेत्रमुखस्रुतिः
वेदनोपशमोवाऽपि मात्राणां वा सहस्रकम् १२४
शिरोबस्तिप्रयोगकालविधिनिर्देशः
विना भोजनमेवात्र शिरोबस्तिः प्रशस्यते
प्रयोज्यस्तु शिरोबस्तिः पञ्चसप्ताहमेव वा १२५
शिरोबस्त्युत्तराङ्गकृत्यम्
विमोच्य शिरसोबस्तिं गृह्णीयाच्च समन्ततः
उर्ध्वकायं ततः कोष्णनीरैः स्नानं च कारयेत् १२६
शिरोबस्तिगुणाः
अनेन दुर्जया रोगा वातजा यान्ति सङ्क्षयम्
शिरः कम्पादयस्तेन सर्वकालेषु युज्यते १२७
कर्णपूरणविधिः
स्वेदयेत्कर्णदेशं तु किञ्चिन्नुः पार्श्वशायिनः
मूत्रैः स्नेहै रसैः कोष्णैस्ततः श्रोत्रं प्रपूरयेत् १२८
कर्णस्थौषधधारणकालावधिः
कर्णं च पूरितं रक्षेच्छतं पञ्चशतानि वा
सहस्रं वाऽपि मात्राणां श्रोत्रकण्ठशिरोगदे १२९
मात्रालक्षणम्
स्वजानुनः करावर्त्तं कुर्याच्छोटिकया युतम्
एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः १३०
रसाद्यनुसारेण कर्णपूरणसमयभेदः
रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते १३१
कर्णशूलहरो रसः
पीतार्कपत्रमाज्येन लिप्तं वह्नौ प्रतापयेत्
तद्र सः श्रवणे क्षिप्तः कर्णशूलहरः परः १३२
कर्णशूले बस्तमूत्रप्रयोगः
कर्णशूलातुरे कोष्णं बस्तमूत्रं ससैन्धवम्
निःक्षिपेत्तेन शाम्यन्ति शूलपाकादिका रुजः १३३
कर्णशूलेऽन्ये प्रयोगाः
शृङ्गबेरं च मधुकं मधु सैन्धवमामलम् १३४
तिलपर्णीरसस्तैलं टङ्कणं निम्बुकद्र वम्
कदुष्णं कर्णयोर्देयमेतद्वा वेदनाऽपहम् १३५
तत्रैव प्रयोगान्तरम्
कपित्थमातुलुङ्गाम्लशृबेररसैः शुभैः
सुखोष्णैः पूरयेत्कर्णं कर्णशूलोपशान्तये १३६
तत्रैवार्काङ्कुरप्रयोगः
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तांल्लवणान्वितान्
सन्निदध्यात्स्नुहीकाण्डे कोरितेतच्छदावृते १३७
पुटपाकक्रमं कृत्वा रसैस्तच्च प्रपूरयेत्
सुखोष्णैस्तेन शाम्यन्ति कर्णपीडाः सुदारुणाः १३८
तत्रैव दीपिकातैलम्
महतः पञ्चमूलस्य काण्डान्यष्टाङ्गुलानि च
क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः १३९
यत्तैलं च्यवते तेभ्यः सुखोष्णं तेन पूरयेत्
ज्ञेयं तद्दीपिकातैलंसद्यो गृह्णातिवेदनाम्
एवं स्याद्दीपिकातैलं कुष्ठे देवतरौ तथा १४०
तत्रैव स्योनाकतैलम्
तैलं स्योनाकमूलेन मन्देऽग्नौ परिपाचितम्
हरेदाशु त्रिदोषोत्थं कर्णशूलं प्रपूरणात् १४१
कर्णनादे यष्टीवसा
कल्कक्वाथेन यष्ट्याह्वकाकोलीमाषधान्यकैः
सूकरस्य वसां पक्त्वा कर्णनादार्त्तिनाशिनी १४२
कर्णरोगे स्वर्जिकादितैलम्
स्वर्जिका मूलकं शुष्कं हिङ्गु कृष्णासमन्वितम् १४३
शतपुष्पा च तैस्तैलं पक्वं शुक्तचतुर्गुणम्
प्रणादं शूलबाधिर्यं स्रावं कर्णस्य नाशयेत् १४४
बाधिर्येऽपामार्गक्षारतैलम्
अपामार्गक्षारजले तत्क्षारं कल्कितं क्षिपेत्
तेन पक्वं जयेत्तैलं बाधिर्यं कर्णनादकम् १४५
कर्णनाड्यां शम्बूकतैलम्
शम्बूकस्य तु मांसेन पचेत्तैलं तु सार्षपम्
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति १४६
कर्णस्रावनाशको योगः
चूर्णं पञ्चकषायाणां कपित्थरसमेव च
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह १४७
पञ्च कषायाः
तिन्दुकान्यभया लोध्रः समङ्गा चामलक्यपि
ज्ञेयाः पञ्च कषायास्तु कर्मण्यस्मिन्भिषग्वरैः १४८
कर्णस्रावादौ स्वर्जिकादियोगः
स्वर्जिकाचूर्णसंयुक्तं बीजपूररसं क्षिपेत्
कर्णस्रावरुजा दाहाः प्रणश्यन्ति न संशयः १४९
पूतिकर्णे आम्रादितैलम्
आम्रजम्बूप्रवालानि मधूकस्य वटस्य च
एभिः संसाधितं तैलं पूतिकर्णोपशान्तिकृत् १५०
कर्णकीटनाशकौ योगौ
पूरणं हरितालेन गवां मूत्रयुतेन च
अथवा सार्षपं तैलं कर्णकीटहरं परम् १५१
कर्णकीटेऽन्यो योगः
स्वरसं शिग्रुमूलस्य सूर्यावर्त्तरसं तथा
त्र्! यूषणं चूर्णितं चैव कपिकच्छूजटारसम्
कृत्वैकत्र क्षिपेत्कर्णे कर्णकीटहरं परम् १५२
अन्यौ योगौ
सद्यो मद्यं निहन्त्याशु कर्णकीटं सुदारुणम्
सद्यो हिङ्गुनिहन्त्याशु कर्णकीटं सुदारुणम्
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे लेपमूर्धतैलकर्णपूरणविधिर्नामैकादशोऽध्यायः

शोणितस्रावविधिः[सम्पाद्यताम्]

अथ शोणितस्रावविधिर्नाम द्वादशोऽध्यायः
तत्र शोणितस्रावमानम्
शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च
प्रस्थं प्रस्थार्द्धकं वाऽपि प्रस्थार्धार्धमथापि वा १
रक्तस्रावसमयः
शरत्काले स्वभावेन कुर्याद्र क्तस्रुतिं नरः
त्वग्दोषग्रन्थिशोथाद्या न स्यू रक्तस्रुतेर्यतः २
रक्तस्य प्रकृतिनिर्देशः
मधुरं वर्णतो रक्तमशीतोष्णं तथा गुरु
शोणितं स्निग्धविस्रं स्याद्विदाहश्चास्य पित्तवत् ३
रक्ते पञ्चमहाभूतगुणाः
विस्रता द्र वता रागश्चलनं विलयस्तथा
भूम्यादिपञ्चभूतानामेते रक्तगुणाः स्मृताः ४
दुष्टरक्तलक्षणम्
रक्ते दुष्टे वेदना स्यात्पाको दाहश्च जायते
रक्तमण्डलता कण्डूः शोथश्च पिटिकोद्गमः ५
रक्तवृद्धिलक्षणम्
वृद्धे रक्ताङ्गनेत्रत्वं शिराणां पूरणं तथा
गात्राणां गौरवं निद्रा मदो दाहश्च जायते ६
क्षीणरक्तलक्षणम्
क्षीणेऽम्लमधुराकाङ्क्षा मूर्च्छा च त्वचि रूक्षता
शैथिल्यं च शिराणां स्याद्वातादुन्मार्गगामिता ७
वातदूषितरक्तलक्षणम्
अरुणं फेनिलं रूक्षं परुषं तनु शीघ्रगम्
अस्कन्दि सूचिनिस्तोदि रक्तं स्याद्वातदूषितम् ८
पित्तदूषितरक्तलक्षणम्
पित्तेन पीतं हरितं नीलं श्यावं च विस्रकम्
अस्कन्द्युष्णं मक्षिकाणां पिपीलानामनिष्टकम् ९
कफदूषितरक्तलक्षणम्
शीतलं बहलं स्निग्धं गैरिकोदकसन्निभम्
मांसपेशीप्रभं स्कन्दि मन्दगं कफदूषितम् १०
द्वित्रिदोषदुष्टरक्तयोर्लक्षणम्
द्विदोषदुष्टं संसृष्टं त्रिदुष्टं पूतिगन्धकम्
सर्वलक्षणसंयुक्तं काञ्जिकाभं च जायते ११
विषदूषितरक्तलक्षणम्
विषदुष्टं भवेच्छ्यावं नासिकोन्मार्गगं तथा
विस्रं काञ्जिकसङ्काशं सर्वकुष्ठकरं बहु १२
शुद्धरक्तलक्षणम्
इन्द्र गोपप्रभं ज्ञेयं प्रकृतिस्थमसंहतम् १३
रक्तस्रावसाध्या रोगाः
शोथे दाहेऽङ्गपाके च रक्तवर्णेऽसृजः स्रुतौ
वातरक्ते तथा कुष्ठे सपीडे दुर्जयेऽनिले
पाणिरोगे श्लीपदे च विषदुष्टे च शोणिते १४
ग्रन्थ्यर्बुदापचीक्षुद्र रोगरक्ताधिमन्थिषु
विदारीस्तनरोगेषु गात्राणां सादगौरवे १५
रक्ताभिष्यन्दतन्द्रा यां पूतिघ्राणास्यदेहके
यकृत्प्लीहविसर्पेषु विद्र धौ पिटिकोद्गमे १६
कर्णोष्ठघ्राणवक्त्राणां पाके दाहे शिरोरुजि
उपदंशे रक्तपित्ते रक्तस्रावः प्रशस्यते १७
रक्तस्रावविधिः
एषु रोगेषु शृङ्गैर्वा जलौकाऽलाबुकैरपि
अथवाऽपि शिरामोक्षैः कुर्याद्र क्तस्रुतिं नरः १८
रक्तस्रावायोग्या जनाः
न कुर्वीत शिरामोक्षं कृशस्यातिव्यवायिनः
क्लीबस्य भीरोर्गर्भिण्याः सूतिकापाण्डुरोगिणाम् १९
पञ्चकर्मविशुद्धस्य पीतस्नेहस्य चार्शसाम्
सर्वाङ्गशोथयुक्तानामुदरश्वासकासिनाम् २०
छर्द्यतीसारदुष्टानामतिस्विन्नतनोरपि
ऊनषोडशवर्षस्य गतसप्ततिकस्य च २१
आघातस्रुतरक्तस्य शिरामोक्षो न शस्यते
एषां चात्ययिकेरोगे जलौकाभिस्तु निर्ह रेत् २२
विषदुष्टरक्तस्य स्रावप्रकारः
तथा च विषदुष्टानां शिरामोक्षोऽपि शस्यते २३
वातादिदोषानुसारेण रक्तस्रावप्रकारः
गोशृङ्गेण जलौकाभिरलाबुभिरपि त्रिधा
वातपित्तकफैर्दुष्टं शोणितं स्रावयेद् बुधः २४
द्विदोषाभ्यां तु सन्दुष्टं त्रिदोषैरपि दूषितम्
शोणितं स्रावयेद्युक्त्या शिरामोक्षैः पदैस्तथा २५
शृङ्गादीनां शोणितग्रहणे प्रमाणम्
गृह्णाति शोणितं शृङ्गं दशाङ्गुलमितं बलात्
जलौका हस्तमात्रं तु तुम्बी च द्वादशाङ्गुलम्
पदमङ्गुलमात्रस्य शिरा सर्वाङ्गशोधिनी २६
रुधिरस्रावप्रतिबन्धिकाऽवस्था
शीते निरन्ने मूर्च्छाऽतिनिद्रा भीतिमदश्रमैः
युतानां न स्रवेद्र क्तं तथा विण्मूत्रसङ्गिनाम् २७
रक्ताप्रवृत्तावुपचारः
अप्रवर्त्तितरक्ते च कुष्ठत्रिकटुसैन्धवैः
मर्दयेद् व्रणवक्त्रं च तेन सम्यक्प्रवर्त्तते २८
रक्तमोक्षणसमयः
तस्मान्न शीते नात्युष्णे न स्विन्ने नातितापिते
पीत्वा यवागूं तृप्तस्य स्रावयेच्छोणितं बुधः २९
रक्तातिप्रवृत्तौ हेतुः
अतिस्विन्नस्योष्णकाले तथ्वातिशिराव्यधात्
अतिप्रवर्त्तते रक्तं तत्र कुर्यात्प्रतिक्रियाम् ३०
रक्तातिप्रवृत्तौ चिकित्सा
अतिप्रवृत्ते रक्ते च लोध्रसर्जरसाञ्जनैः
यवगोधूमचूणैर्वा धवधन्वनगैरिकैः ३१
सर्पनिर्मोकचूर्णैर्वा भस्मना क्षौमवस्त्रयोः
मुखं व्रणस्य बध्वा च शीतैश्चोपचरेद्व्रणम् ३२
तत्रैवोपचारान्तरम्
विध्येदूर्ध्वशिरां तां च दहेत्क्षारेण वाऽग्निना
व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम्
व्रणास्यं पाचयेत्क्षारो दाहः सङ्कोचयेच्छिराम् ३३
अग्निदाहसाध्या रोगाः
तत्र मुष्कशोथे कराङ्गुष्ठदाहनिर्देशः
वामाण्डशोथे दक्षस्य करस्याङ्गुष्ठमूलजाम् ३४
दहेच्छिरां व्यत्यये तु वामाङ्गुष्ठशिरां दहेत्
शिरादाहप्रभावेण मुष्कशोथः प्रणश्यति ३५
विषूच्यां पार्ष्णिदाहव्यवस्था
विषूच्यां पार्ष्णिदाहेन जायतेऽग्ने प्रदीपनम्
सङ्कुचन्ति यतस्तेन रसश्लेष्मवहाः शिराः ३६
रक्तजबालयकृत्प्लीहवृद्धौ तत्स्थानदाहव्यवस्था
यदावृद्धिर्यकृत्प्लीह्नोः शिशोः सञ्जायतेऽसृजः
तदा तत्स्थानदाहेन सङ्कुचन्त्यसृजः शिराः ३७
अत्यन्तरक्तस्रावणनिषेधः
रक्ते दुष्टेऽवशिष्टेऽपि व्याधिर्नैव प्रकुप्यति
अतः स्राव्यं सावशेषं रक्ते नातिक्रमो हितः ३८
अतिरक्तस्रुतिजन्या हानयः
आन्ध्यमाक्षेपकं तृष्णां तिमिरं शिरसो रुजम्
पक्षाघातं श्वासकासौ हिक्कां दाहं च पांडुताम्
कुरुतेऽतिस्रुतं रक्तं मरणं वा करोति च ३९
रुधिरस्य महत्ता
देहस्योत्पत्तिरसृजा देहस्तेनैव धार्यते
विना तेन व्रजेज्जीवो रक्षेद्र क्तमतोबुधः ४०
स्रुते रक्तेऽपि दोषकोपे प्रतीकारः
शीतोपचारः कुपिते स्रुतरक्तस्य मारुते
कोष्णेन सर्पिषा शोथं सव्यथं परिषेचयेत् ४१
रक्तस्रुतिक्षीणस्य पथ्यव्यवस्था
क्षीणस्यैणशशोरभ्रहरिणच्छागमांसजः
रसः समुचितः पाने क्षीरं वा षष्टिका हिताः ४२
सम्यक्स्रुतरक्तलक्षणम्
पीडाशान्तिर्लघुत्वं च व्याधेरुद्रे कसंक्षयः
मनः स्वास्थ्यं भवेच्चिह्नं सम्यग्विस्रावितेऽसृजि ४३
रक्तस्रावोत्तरं वर्ज्याविषयाः
व्यायाममैथुनक्रोधशीतस्नानप्रवातकान् ४४
एकाशनं दिवास्वप्नं क्षाराम्लकटुभोजनम्
शोकं वादमजीर्णं च त्यजेदाबलदर्शनात् ४५
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे शोणितस्रावविधिर्नाम द्वादशोऽध्यायः

नेत्रप्रसादनकर्म[सम्पाद्यताम्]

अथ नेत्रप्रसादनकर्मनाम त्रयोदशोऽध्यायः
तत्रादौ तन्नामानि
सेकं आश्च्योतनं पिण्डी बिडालस्तर्पणं तथा
पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् १
सेकविधिः
सेकस्तु सूक्ष्मधाराभिः सर्वस्मिन्नयने हितः
मीलिताक्षस्य मत्तर्यस्य प्रदेयश्चतुरङ्गुलात् २
दोषानुसारेण सेकप्रकारभेदाः
स चापि स्नेहनो वाते रक्ते पित्ते च रोपणः
लेखनश्च कफे कार्यस्तस्य मात्राऽधुनोच्यते ३
सेकधारणमात्रा
षड्वाक्शतैः स्नेहनेषु चतुर्भिश्चैव रोपणे
वाक्शतैश्च त्रिभिः कार्यः सेकोलेखनकर्मणि ४
सेकसमयः
कार्यस्तु दिवसे सेको रात्रौ चात्ययिके गदे ५
दोषानुसारेण सेकव्यवस्था
एरण्डत्वक्पत्रमूलैः शृतमाजं पयोहितम्
सुखोष्णं सेचनं नेत्रे वाताभिष्यन्दनाशनम् ६
वाताभिष्यन्द मारुतपर्ययशुष्काक्षिपाकेषु सेकौ
परिषेकोहितोनेत्रे पयः कोष्णं ससैन्धवम्
रजनीदारुसिद्धं वा सैन्धवेनसमन्वितम् ७
वाताभिष्यन्दशमनं हितं मारुतपर्यये
शुष्काक्षिपाके च हितमिदं सेचनकं सदा ८
पित्तरक्ताभिघातजनेत्रपीडाहृत्सेकः
साबरं मधुकं तुल्यं घृतभृष्टं सुचूर्णितम्
छागक्षीरे घृतं सेकात्पित्तरक्ताभिघातजित् ९
रक्ताभिष्यन्दे सेकः
त्रिफलालोध्रयष्टीभिः शर्कराभद्र मुस्तकैः
पिष्टः शीताम्बुना सेको रक्ताभिष्यन्दनाशनः १०
तत्रैवान्यः सेकः
लाक्षामधुकमञ्जिष्ठालोध्रकालानुसारिवाः
पुण्डरीकयुतः सेको रक्ताभिष्यन्दनाशनः ११
नेत्रशूलघ्नः सेकः
श्वेतलोध्रं घृते भृष्टं चूर्णितं पटविस्रुतम्
उष्णाम्बुना विमृदितं सेकाच्छूलघ्नमम्बके १२
अथाश्च्योतनविधिः
तत्राश्च्योतनकर्मसमयः
अथाश्च्योतनकं कार्यं निशायां न कथंचन १३
आश्च्योतनविधिः
उन्मीलितेऽक्ष्णि दृङ्मध्ये बिन्दुभिर्द्व्यङ्गुलाद्धितम् १४
गुणानुसारेण बिन्दुप्रक्षेपसंख्यानिर्देशः
बिन्दवोऽष्टौ लेखनेषु स्नेहने दश बिन्दवः
रोपणे द्वादश प्रोक्तास्ते शीतेकोष्णरूपिणः
उष्णे च शीतरूपाः स्युः सर्वत्रैवैष निश्चयः १५
वातादिभेदेनाश्च्योतनपदार्थनिर्देशः
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलम्
तिक्तोष्णरूक्षं च कफे क्रमादाश्च्योतनं हितम् १६
आश्च्योतनमात्रानिर्णयः
आश्च्योतनानां सर्वेषां मात्रा स्याद्वाक्शतं हिता
निमेषोन्मेषणं पुंसामङ्गुल्याच्छोटिकाऽथवा
गुर्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः १७
वाताभिष्यन्दहरमाश्च्योतनम्
बिल्वादिपञ्चमूलेन बृहत्येरण्डशिग्रुभिः
क्वाथ आश्च्योतने कोष्णो वाताभिष्यन्दनाशनः १८
वातरक्तपित्तोत्थाभिष्यन्दोपायः
अम्बुपिष्टैर्निम्बपत्रैस्त्वचं लोध्रस्य लेपयेत्
प्रताप्य वह्निना पिष्ट्वा तद्र सो नेत्रपूरणात्
वातोत्थं रक्तपित्तोत्थमभिष्यन्दं विनाशयेत् १९
सर्वाभिष्यन्दघ्नमाश्च्योतनम्
त्रिफलाश्च्योतनं नेत्रे सर्वाभिष्यन्दनाशनम् २०
रक्तपित्तादिजनेत्रपीडास्वाश्च्योतनम्
स्त्रीस्तन्याश्च्योतनं नेत्रे रक्तपित्तानिलार्त्तिजित्
क्षीरसर्पिर्घृतं वाऽपि वातरक्तरुजं जयेत् २१
पिण्डिकाविधिः
पिण्डी कवलिका प्रोक्ता बद्ध्य्ते पट्टवस्त्रकैः
नेत्राभिष्यन्दयोग्या सा व्रणेष्वपि निबद्ध्यते २२
अभिष्यन्दाधिमन्थयोः शिरोविरेचनम्
अभिष्यन्देऽधिमन्थे च सञ्जाते श्लेष्मसम्भवे
स्निग्धस्विन्नोत्तमाङ्गस्य शिरस्तीक्ष्णैर्विरेचयेत् २३
अधिमन्थे शिराव्यधाग्निदाहौ
अधिमन्थेषु सर्वेषु ललाटे वेधयेच्छिराम्
अशान्ते सर्वथा मन्थे भ्रुवोरुपरि दाहयेत् २४
सर्वाभिष्यन्दे पिण्डिकाप्रयोगः
अभिष्यन्देषु सर्वेषु बध्नीयात्पिण्डिकां बुधः २५
वाताभिष्यन्दे पिण्डिकाप्रयोगः
वातामिष्यन्दशान्त्यर्थं स्निग्धोष्णा पिण्डिका भवेत्
एरण्डपत्रमूलत्वङ्निर्मिता वातनाशिनी २६
पित्ताभिष्यन्दे पिण्डीद्वयम्
पित्ताभिष्यन्दनाशाय धात्रीपिंडी सुखावहा
महा निम्बफलोद्भूता पिंडी वा पित्तनाशिनी २७
कफाभिष्यन्दे पिण्डी
शिग्रुपत्रकृता पिण्डी श्लेष्माभिष्यन्दनाशिनी २८
कफपित्ताभिष्यन्दे पिण्डीद्वयम्
निम्बपत्रकृता पिण्डी श्लेष्मपित्तहरा भवेत्
त्रिफलापिण्डिका प्रोक्ता नाशने श्लेष्मपित्तयोः २९
रक्ताभिष्यन्दे पिण्डी
पिष्ट्वा काञ्जिकतोयेन घृतभृष्टा च पिण्डिका
लोध्रस्य हरति क्षिप्रमभिष्यन्दमसृग्भवम् ३०
शोथकण्ड्वादौ पिण्डी
शुण्ठीनिम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा
धार्या चक्षुषि संयोगाच्छोथकण्डूव्यथाऽपहा ३१
बिडालकविधिः
बिडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जितः
तस्य मात्रा परिज्ञेया मुखलेपविधानवत् ३२
सर्व नेत्रामयेषु लेपः
यष्टीगैरिकसिन्धूत्थदार्वीतार्क्ष्यः समांशकैः
जलपिष्टैर्बहिर्लेपः सर्वनेत्रामयापहः ३३
तत्रैवान्ये षड् लेपाः
रसाञ्जनेन वा लेपः पथ्याविश्वदलैरपि
कुमारिकाऽग्निपत्रैर्वा दाडिमीपल्लवैरपि
वचाहरिद्रा निम्बैर्वा तथा नागरगैरिकैः ३४
सद्योनेत्रपीडाहरो लेपः
दग्ध्वा ससैन्धवं लोध्रं मधूच्छिष्टयुते घृते
पिष्टमञ्जनलेपाभ्यां सद्यो नेत्ररुजाऽपहम् ३५
नेत्रपीडाहरो लेपः
लोहस्य पात्रे संघृष्टो रसो निम्बफलोद्भवः
किञ्चिद्घनो बहिर्लेपान्नेत्रबाधां व्यपोहति ३६
अर्मनाशको लेपः
संचूर्ण्य मरिचं केशराजस्वरसमर्दनात्
लेपनादर्मणां नाशं करोत्येष प्रयोगराट् ३७
अञ्जननामिकोपरि प्रतिसारणम्
स्विन्नां भित्वा विनिष्पीड्य भिन्नामञ्जननामिकाम्
शिलैलानतसिन्धूत्थैः सक्षौद्रै ः! प्रतिसारयेत् ३८
अथ तर्पणविधिः
तत्रादौ तर्पणयोग्यनेत्रलक्षणम्
अथ तर्पणकं वच्मि नेत्रतृप्तिकरं परम्
यद्रू क्षं परिशुष्कं च नेत्रं कुटिलमाविलम् ३९
शीर्णपक्ष्मशिरोत्पातकृच्छ्रोन्मीलन संयुतम्
तिमिरार्जुनशुक्राद्यैरभिष्यन्दाधिमन्थकैः ४०
शुष्काक्षिपाकशोथाभ्यां युक्तं वातविपर्ययैः
तन्नेत्रं तर्पणे योज्यं नेत्ररोगविशारदैः
तर्पणे वर्ज्यविषयाः
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च
अशान्तोपद्र वे चाक्ष्णि तर्पणं न प्रशस्यते ४१
तर्पणप्रक्रिया
वातातपरजोहीने देशे चोत्तानशायिनः
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ४२
समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोशयोः
पूरयेद् घृतमण्डेन विलीनेन सुखोदकैः
अथवा शतधौतेन सर्पिषा क्षीरजेन वा ४३
पूरणमात्रा
निमग्नान्यक्षिपक्ष्माणि यावत्स्युस्तावदेव हि
पूरयेन्मीलिते नेत्रे तत उन्मीलयेच्छनैः ४४
तर्पणे स्नेहधारणमात्राः
धारयेद्वर्त्मरोगेषु वाङ्मात्राणां शतं बुधः ४५
स्वच्छे कफे सन्धिरोगे मात्रापञ्चशतं हितम्
शुक्ले च षट्शतं कृष्णरोगे सप्तशतं मतम् ४६
दृष्टिरोगेष्वष्टशतमधिमन्थे सहस्रकम्
सहस्रं वातरोगेषु धार्यमेवं हि तर्पणम् ४७
तर्पणोत्तरं कर्त्तव्यं कर्म
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः
यथास्वं धूमपानेन कफमस्य विशोधयेत् ४८
तर्पणकर्मावधिः
एकाहं वा त्र्! यहं वाऽपि पञ्चाहं चेष्यते परम् ४९
तर्पणे सम्यक् तृप्तिलक्षणम्
तर्पणे तृप्तिलिङ्गानि नेत्रेष्वेतानि भावयेत्
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्
निवृत्तिर्व्याधिशान्तिश्च क्रियालाघवमेव च ५०
अतितर्पितलक्षणम्
अथ साश्रु गुरु स्निग्धं नेत्रं स्यादतितर्पितम् ५१
हीनतर्पितलक्षणम्
रूक्षमस्राविलं रुग्णं नेत्रं स्याद्धीनतर्पितम् ५२
हीनातितर्पितयोश्चिकित्सा
रूक्षस्निग्धोपचाराभ्यामेतयोः स्यात्प्रतिक्रिया ५३
पुटपाकविधानम्
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकस्य साधनम्
द्वौ बिल्वमात्रौ मांसस्य पिण्डौ स्निग्धौ सुपेषितौ ५४
द्र व्याणां बिल्वमात्रं तु द्र वाणां कुडवो मतः
तदेकस्थं समालोड्य पत्रैः सुपरिवेष्टितम्
पुटपाकेन तत्पक्त्वा गृह्णीयात्तद्र सं बुधः
दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः ५५
पुटपाकभेदाः
स्नेहनो लेखनश्चैव रोपणश्चेति स त्रिधा ५६
त्रिविधपुटपाकविषयाः
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि हि लेखनः
दृष्टेर्बलार्थमितरः पित्तासृग्व्रणवातनुत् ५७
स्नेहनपुटपाकः
सर्पिर्मांसवसामज्जामेदःस्वाद्वौषधैः कृतः
स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते दृशोः ५८
लेखनपुटपाकः
जाङ्गलानां यकृन्मांसैर्लेखनद्र व्यसंयुतैः
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः
समुद्र फेनकासीसस्रोतोजदधिमस्तुभिः
लेखनो वाक्शतं धार्यस्तस्यैतावद्विधारणम् ५९
रोपणपुटपाकः
स्तन्यजाङ्गलमध्वाज्यतिक्तकद्र व्यपाचितः
लेखनात्त्रिगुणो धार्यः पुटपाकस्तु रोपणः ६०
व्यापत्तिदर्शनकर्त्तव्योपदेशः
वितरेत्तर्पणोक्तां तु क्रियां व्यापत्तिदर्शने ६१
अथाञ्जनविधानम्
तत्रादावञ्जनयोग्य समयाः
अथ सम्पक्वदोषस्य प्राप्तमञ्जनमाचरेत्
हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते ६२
पूर्वाह्णे चापराह्णेच ग्रीष्मे शरदि चेष्यते
वर्षासु नाभ्रे नात्युष्णे वसन्ते च सदैव हि ६३
अञ्जनभेदाः
लेखनं रोपणं चैव तथा स्यात्स्नेहनाञ्जनम् ६४
लेखनरोपणप्रसादनाञ्जनानि
लेखनं क्षारतीक्ष्णाम्लरसैरञ्जनमिष्यते
कषायतिक्तरसयुक्सस्नेहं रोपणं मतम्
मधुरं स्नेहसम्पन्नमञ्जनं च प्रसादनम् ६५
त्रिविधाञ्जनस्य स्वरूपाणि
गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि च
कुर्याच्छलाकयाऽङ्गुल्या हीनानि च यथोत्तरम् ६६
अञ्जनानर्हा जनाः
श्रान्ते प्ररुदिते भीते पीतमद्ये नवज्वरे
अजीर्णे वेगघाते च नाञ्जनं सम्प्रशस्यते ६७
वर्त्तिप्रमाणानि
हरेणुमात्रां कुर्वीत वर्त्तिं तीक्ष्णाञ्जने भिषक्
प्रमाणं मध्यमेऽध्यर्द्धं द्विगुणं तु मृदौ भवेत् ६८
रसक्रियाप्रमाणानि
रसक्रिया तूत्तमा स्यात्त्रिविडङ्गमिता हिता
मध्यमा द्विविडङ्गा स्याद्धीना त्वेकविडङ्गिका ६९
चूर्णाञ्जनमात्रा
वैरेचनिकचूर्णं तु द्विशलाकं विधीयते
मृदौ तु त्रिशलाकं स्याच्चतस्रः स्नैहिकेऽञ्जने ७०
अञ्जनशलाकास्वरूपम्
मुखयोः कुण्ठिता श्लक्ष्णा शलाकाऽष्टाङ्गुलोन्मिता
अश्मजा धातुजा वा स्यात्कलायपरिमण्डला ७१
कर्मानुसारेण शलाकास्वरूपम्
ताम्रलोहाश्मसञ्जाता शलाका लेखने मता
सुवर्णरजतोद्भूता शलाका स्नेहने मता
अङ्गुली च मृदुत्वेन कथिता रोपणे बुधैः ७२
अञ्जनसमयनिर्देशः
सायं प्रातर्वाञ्जनं स्यात्तत्सदा नैव कारयेत् ७३
नातिशीतोष्णवाताभ्रवेलायां सम्प्रशस्यते
कृष्णभागादधः कुर्यादपाङ्गं यावदञ्जनम् ७४
चन्द्रो दया वर्त्तिः
शङ्खनाभिर्बिभीतस्य मज्जा पथ्या मनः शिला
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् ७५
छागीक्षीरेण संपिष्य वर्त्तिं कृत्वा यवोन्मिताम्
हरेणुमात्रां संघृष्य जलैः कुर्यादथाञ्जनम् ७६
तिमिरं मांसवृद्धिं च काचं पटलमर्बुदम्
रात्र्! यान्ध्यं वार्षिकं पुष्पं वर्त्तिश्चन्द्रो दया जयेत् ७७
करञ्जवर्त्तिः
पलाशपुष्पस्वरसैर्बहुशः परिभाविता
करञ्जीबीजवर्त्तिस्तु दृष्टेः पुष्पं विनाशयेत् ७८
समुद्र फेनादिवर्त्तिः
समुद्र फेनसिन्धूत्थशङ्खदक्षाण्डवल्कलैः
शिग्रुबीजयुतैर्वर्त्तिः शुक्रादींश्छस्त्रवल्लिखेत् ७९
दन्तवर्त्तिः
दन्तैर्हस्तिवराहोष्ट्रगोहयाजखरोद्भवैः
शङ्खमुक्ताऽम्भोधिफेनयुतैः सर्वैर्विचूर्णितैः
दन्तवर्त्तिः कृता श्लक्ष्णा शुक्राणां नाशिनी परा ८०
तन्द्रा नाशिनी वर्त्तिः
नीलोत्पलं शिग्रुबीजं नागकेशरकं तथा
एतत्कल्कैः कृता वर्त्तिरतिनिद्रा ं! निवारयेत् ८१
पुष्पवर्त्तिः
तिलपुष्पाण्यशीतिः स्युः षष्टिसंख्याः कणाकणाः ८२
जातीकुसुमपञ्चाशन्मरिचानि च षोडश
सूक्ष्मं पिष्ट्वा जले वर्त्तिः कृता कुसुमिकाऽभिधा ८३
तिमिरार्जुनशुक्राणां नाशिनी मांसवृद्धिहृत्
एतस्याश्चाञ्जने मात्रा प्रोक्ता सार्धहरेणुका ८४
रसाञ्जनवर्त्तिः
रसाञ्जनं हरिद्रे द्वे मालतीनिम्बपल्लवाः
गोशकृद्र ससंयुक्ता वर्त्तिर्नक्तान्ध्यनाशिनी ८५
धात्र्! यादिवर्त्तिः
धात्र्! यक्षपथ्याबीजानि एकद्वित्रिगुणानि च
पिष्ट्वा वर्त्तिं जलैः कुर्यादञ्जनं द्विहरेणुकम्
नेत्रस्रावं हरत्याशु वातरक्तरुजं तथा ८६
रसक्रिया
तुत्थमाक्षिकसिन्धूत्थं सिताशङ्खमनः शिलाः
गैरिकोदधिफेनं च मरिचं चेति चूर्णयेत् ८७
संयोज्य मधुना कुर्यादञ्जनार्थं रसक्रियाम्
वर्त्मरोगार्मतिमिरकाचशुक्रहरां पराम् ८८
पुष्पहरी रसक्रिया
वटक्षीरेण संयुक्तो मुख्यःकर्पूरजःकणः
क्षिप्रमञ्जनतो हन्ति कुसुमं तु द्विमासिकम् ८९
अतिनिद्रा हरमञ्जनम्
क्षौद्रा श्वलालासंघृष्टैर्मरिचैर्नेत्रमञ्जयेत्
अतिनिद्रा शमं याति तमः सूर्योदयादिव ९०
प्रबोधाञ्जनम्
जातीपुष्पं प्रवालं च मरिचं कटुकी वचा
सैन्धवं बस्तमूत्रेण पिष्टं तन्द्रा घ्नमञ्जनम् ९१
अन्यत् प्रबोधाञ्जनम्
शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः
अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः ९२
दार्व्यादिरसक्रिया
दार्वी पटोलं मधुकं सनिम्बं पद्मकोत्पलम् ९३
प्रपौण्डरीकं चैतानि पचेत्तोये चतुर्गुणे
विपाच्य पादशेषं तु शृतं नीत्वा पुनः पचेत् ९४
शीते तस्मिन्मधुसितां दद्यात्पादांशिकां नरः
रसक्रियैषा दाहाश्रुरक्तरागरुजोहरेत् ९५
रसाञ्जनादिरसक्रिया
रसाञ्जनं सर्जरसो जातीपुष्पं मनः शिला
समुद्र फेनो लवणं गैरिकं मरिचानि च ९६
एतत्समांशंमधुना पिष्ट्वा प्रक्लिन्नवर्त्मनि
अञ्जनं क्लेदकण्डूघ्नंपक्ष्मणां च प्ररोहणम् ९७
गुडूच्यादिरसाञ्जनम्
गुडूचीस्वरसः कर्षः क्षौद्रं स्यान्माषकोन्मितम्
सैन्धवं क्षौद्र तुल्यं स्यात्सर्वमेकत्र मर्दयेत् ९८
अञ्जयेन्नयनं तेन पिल्लार्मतिमिरं जयेत्
काचं कण्डूं लिङ्गनाशंशुक्लकृष्णगतान्गदान् ९९
पुनर्नवादिरसाञ्जनम्
दुग्धेन कण्डूं क्षौद्रे ण नेत्रस्रावं च सर्पिषा
पुष्पं तैलेन तिमिरं काञ्जिकेन निशान्ध्यताम्
पुनर्नवा जयेदाशु भास्करस्तिमिरं यथा १००
बब्बूलरसाञ्जनम्
बब्बूलदलनिःक्वाथो लेहीभूतस्तदञ्जनात्
नेत्रस्रावं जयत्येष मधुयुक्तो न संशयः १०१
हिज्जलरसाञ्जनम्
हिज्जलस्य फलं घृष्ट्वा पानीये नित्यमञ्जनम्
चक्षुःस्रावोपशान्त्यर्थं कार्यमेतन्महौषधम् १०२
नेत्रप्रसादनं कतकादिरसाञ्जनम्
कतकस्यफलं घृष्ट्वा मधुना नेत्रमञ्जयेत्
ईषत्कर्पूरसहितं स्मृतं नेत्रप्रसादनम् १०३
शिरोत्पाते रसक्रिया
सर्पिः क्षौद्रं चाञ्जनं स्याच्छिरोत्पातस्य शान्तये १०४
कृष्णसर्पवसारसक्रिया
कृष्णसर्पवसा शङ्खः कतकात्फलमञ्जनम्
रसक्रियेयमचिरादन्धानां दर्शनप्रदा १०५
लेखनाञ्जनम्
दक्षाण्डत्वक्शिलाकाचशंखचन्दनसैन्धवैः
द्र व्यैरञ्जनयोगोऽय पुष्पार्मादिविलेखनः १०६
रात्र्! यान्ध्यनाशकमञ्जनम्
कणा छागयकृन्मध्ये पक्त्वा नेत्रयुगेऽञ्जिता
अचिराद्धन्ति नक्तान्ध्यं तद्वत्सक्षौद्र मूषणम् १०७
नक्तान्ध्यहरचूर्णाञ्जनम्
शाणार्धं मरिचं द्वौ च पिप्पल्यर्णवफेनयोः
शाणार्धं सैन्धवं शाणा नव सौवीरकाञ्जनात् १०८
पिष्टं सुसूक्ष्मं चित्रायां चूर्णाञ्जनमिदं शुभम्
कण्डूकाचकफार्त्तानां मलानां च विशोधनम् १०९
रोपणाञ्जनमृदुचूर्णाञ्जनम्
शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा
गृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम् ११०
शुष्कं च तज्जलं सर्वं पर्पटीसंनिभं भवेत्
विचूर्ण्य भावयेत्सम्यक्त्रिवेलं त्रिफलारसैः १११
कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत्
अञ्जयेन्नयने तेन सर्वदोषहरं हि तत्
सर्वरोगहरं चूर्णं चक्षुषोः सुखकारि च ११२
प्रसादनाञ्जने सौवीराञ्जनम्
अग्नितप्तं हि सौवीरं निषिञ्चेत्त्रिफलारसैः
सप्तवेलं तथा स्तन्यैः स्त्रीणां सिक्तं विचूर्णितम् ११३
अञ्जयेत्तेन नयने प्रत्यहं चक्षुषोर्हितम्
सर्वानक्षिविकारांस्तु हन्यादेतन्न संशयः ११४
दृष्टिप्रसादनी नाम शलाका
त्रिफलाभृङ्गशुण्ठीनां रसैस्तद्वच्च सर्पिषा ११५
गोमूत्रमध्वजाक्षीरैः सिक्तो नागः प्रतापितः
तच्छलाका हरत्येव सर्वान्नेत्रभवान्गदान् ११६
प्रत्यञ्जनम्
गतदोषमपेताश्रु संपश्यन्सम्यगम्भसि
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः ११७
अञ्जने नेत्रधावननिषेधः
न वाऽनिर्गतदोषेऽक्ष्णि धावनं संप्रयोजयेत्
प्रत्यञ्जनं तीक्ष्णतप्ते नेत्रे चूर्णं प्रसादनम् ११८
नयनामृताञ्जनम्
शुद्धे नागे द्रुते तुल्यं शुद्धं सूतं विनिक्षिपेत्
कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् ११९
दशमांशेन कर्पूरं तस्मिंश्चूर्णे प्रदापयेत्
एतत्प्रत्यञ्जनं नेत्रगदजिन्नयनामृतम् १२०
सर्पविषहरमञ्जनम्
जयपालभवां मज्जां भावयेन्निम्बुकद्र वैः
एकविंशतिवेलं तत्ततो वर्त्तिं प्रकल्पयेत् १२१
मनुष्यलालया घृष्ट्वा ततो नेत्रे तयाऽञ्जयेत्
सर्पदष्टविषं जित्वा संजीवयति मानवम् १२२
नेत्रज्योतिर्वर्द्धकोपदेशः
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्दीयते यदि
जाता रोगा विनश्यन्ति तिमिराणि तथैव च १२३
दृष्टिवर्द्धकोपायः
शीताम्बुपूरितमुखः प्रतिवासरं यः कालत्रयेण नयनद्वितयं जलेन
आसिञ्चति ध्रुवमसौ न कदाचिदक्षिरोगव्यथाविधुरतां भजते मनुष्यः १२४
ग्रन्थकर्तृकृतं नम्रनिवेदनम्
आयुर्वेदसमुद्र स्य गूढार्थमणिसंचयम्
ज्ञात्वा कैश्चिद् बुधैस्तैस्तु कृता विविधसंहिताः १२५
किञ्चिदर्थं ततो नीत्वा कृतेयं संहिता मया
कृपाकटाक्षनिक्षेपमस्यां कुर्वन्तु साधवः १२६
ग्रन्थाध्ययनफलम्
विविधगदार्तिदरिद्र नाशनं या हरिरमणीव करोति योगरत्नैः
विलसतु शार्ङ्गधरस्य संहिता सा जन हृदयेषु सरोजनिर्मलेषु १२७
उपसंहारः
अल्पायुषामल्पधियामिदानीं कृतं समस्तश्रुतिपाठशक्त्या
तदत्र युक्तं प्रतिबीजमात्रमभ्यस्यतामात्महितं प्रयत्नात् १२८
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे नेत्रप्रसादनविधिर्नाम त्रयोदशोऽध्यायः समाप्तः १३
समाप्तेयं शार्ङ्गधर संहिता