सामग्री पर जाएँ

शान्तिकमलाकरः/नवमः भागः

विकिस्रोतः तः
← अष्ठमः भागः शान्तिकमलाकरः
नवमः भागः
[[लेखकः :|]]
दशमः भागः →

अ थ दी प स्था प नं

सर्त्वॆश्च जपादौ दीपस्थापनं कार्यं तद्यथा :---
युग्मं स्वराणां विलिखेच्च पूर्वंकादींश्च वर्गास्क्रमशो विलिख्य ।
स्थानादिपाद्य क्षरमस्ति यंत्रं तं दीपदेशं मुनयोवदंति ।। 1
इदमेवकूर्म चक्रं यस्यतुभेदोय द्राम नामाद्यवर्णेन ।
कूर्ममुखमिति तदुक्तं शिवचंद्रिकायां ।। 2
अकाराद स्वरद्वंद्व् पूर्वादिष्वष्टसुन्यसेत् ।
उगदादीन् सदावर्णा न्न्यसेच्छिद्रदशांविना ।
ग्रामस्यान्त्याद्यवर्णस्तु यस्यां दिश्यवतिष्ठति ।
तत्र कूर्ममुखंज्ञेय मन्यांगानां परत्रच ।
मस्त्रसिद्धिं मुखेविंद्या त्करयोरल्पकं फलं ।। 3
निष्पलं पादयोर्मध्ये औदासिन्यंच पादयोः ।
वधबंधननिस्वानि पुच्छदेशे भवंतहि ।। 4
एवं रुद्रपादाव पीतिकेचित् :---
अन्येत्वस्यातांत्रिक जपपरत्वाद्वैदिकजपेन नियममित्याहुः ।
अस्यापवादस्तत्रैव :---
कुरुक्षेत्रे प्रयोगेच गंगसागरे संगमे ।
महोदयादौकाश्यं च दीपस्थापनं नचिंतयेत् ।। 5
इति दीपस्थानं।।

रुद्र पुरश्चरणविधिः
सचरावणभाष्य भट्टभास्कर विद्यारण्यभाष्यहेमाद्रि महार्ण वाद्यालोचनेनोच्यते । तत्र रुद्रस्यजपे रहोमोभिषेकेच शृतिस्मृत्यादौ विनियोगे दृश्यते । तत्र जाबालिश्रुतिः किं जप्येना मृतत्वन्नो ब्रूहि । शतरुद्रीयेयेनेत्येता निहवा अमृतानामध्ये यान्येतैर्हवा अनृता भवन्तीति = कैवल्योपनिषदियः शतरुद्रीय मधीतेसोग्निपूतो भवति -- स्वर्ण स्तेयात्पूतो भवति ब्रह्महत्यायाः पूतो भवति कृत्याकृत्यात्पूतो भवति । कैवल्यफलमश्रुत इति ।। 1 ।।

हेमाद्रौ बोधायनः :-----
अथ पंचांग रुद्राणां जपहोमार्चनविधिं व्याख्यास्यामः ।
विधिशब्दस्य जपादिषु प्रत्येक मन्वयः ।
अर्चन मभिषेक इति महार्णवः - पराशरः ।। 2
मद्यं पीत्वा गुरुदारांश्च गत्वास्तेयं ।
कृत्वा ब्रह्महत्यां च कृत्वा ।
कभस्मच्छन्नो भस्मशय्यायां शयनो ।
रुद्राध्याया मुच्यते सर्वपातकैः ।। 3
इद महारहः कृते मासमात्रं ज्ञेयं ।। 4
रुद्राध्यायी भव भेवेद्भक्त्या मासमेकमतंद्रितः ।
प्रायश्चित्तं भवेदेतद्रहस्यस्य नसंश इति पराशर पुराणात् ।। 5
पाद्मे शिवगीतासु :---
यन्तुरुद्रं जपेन्नित्यं ध्यायमानोममाकृतिं ।। 6
षडक्षरंवा प्रणवं निष्कायोवि जितेंद्रियः ।
अथाधर्वशिरो मंत्रं कैवल्यंवा रघात्तम ।। 7
सतेनैवचदेहेन शिवस्संजायते धृवं ।। 8
वायनीये :----
सर्वेषु ग्रहदोषेषु दुस्वप्नाद्भुतदर्शने ।
जपन्रुद्रान् सकृद्विप्रः सर्वदोषैः प्रमुच्यते ।। 9
यमः :----
पंचबृंहंवाल खिल्यान् निवित्प्रेषान् वृषाकपिं = होहृ न्रुद्रान्सकृज्ञाप्ता मुच्यते सर्वपातकै ।
शुक्रियारण्य कडपोगायत्र्याश्च विशेषतः ।। 10
सर्वपाप हराह्येते रुद्रैकादशिनि तथा ।। 11

हेमाद्रौ कौशिक बोधायनौ :----
रुद्रैकादशिनीत्वेषा सर्वकाम फलप्रदा ।। सर्वपाप क्षयकरी सर्वशांति प्रदायिनी ।।
विष्णु धर्मोत्तरेपि :-----
रुद्राणांच तथा जाप्यं सर्वाषु विनिघादनं ।
सर्वकामकरो होमस्तथा सर्वत्र शांतिदः ।। 12
अजानिकानाम श्वानां कुंजराणां तथा गवां ।
मनुष्याणां नरेंद्राणां बालानां योषितामपि ।। 13
ग्रामाणां सगराणांच देशनांचापि भार्गव ।
उपद्रवाणां धर्मज्ञ व्याधितानां तथैवच ।। 14
मारकेस मनुप्राप्ते रपुजेच तथा भये ।
रुध्रहोमः पराशांतिः पायसेन घृतेनवा ।। 15

हेमाद्रौ कालिका पुराणो :----
यः पुन स्सततं भक्त्या अभ्यर्च्य शशिशेखरं ।। 16
जपेद्थ्याये त्सदारुद्रान्योपियाति परं पदं ।। 17
अधैहिके फलं किंचिदैहिकं पुष्कलं तथा ।
तानेवहि जपे दुद्रान् शुचिर्भूत्वा समाहितः ।
अथवेदं जगत्सर्वं शशीकर्तुं समीहते ।। 18
तदा रुद्रं जपेद्भूयो ध्यायमानो महेश्वरं ।
तेन जपरुद्रो होमरुर्रोभिषेक रुद्रश्चेति त्रिधा रुद्र उक्तः ।। 19
आद्योद्विधा केपल जपात्मका होमांगश्च ।। 20
तत्रात्र्यंगिर्सौ :----
एकदश गुणान्‌वापि रुद्रनावर्त्या दर्मवित् ।
महापापैरपि स्पृष्टो मुच्यतेनात्र संशयः ।। 21
सर्व पापानि नश्यंति रुद्रैकादशिनी तथेति ।
कालिका पुराणादौ जपमात्रोक्तेः ।। 22
जपाद्दशांशतो होमस्तथा होमात्तु तर्पणं ।
तर्पणस्य दशांशेन मार्जनं कधितं किल ।। 23
मार्जनस्य दशांशेन ब्राह्मणानपि भोजयेत् ।
जपोर्चा पूर्वको होमस्तरपणंचाभि षेचनं ।। 24
भूदेवपूजनं पंचप्रकारोक्ता पुरस्क्रिया ।
होमाशक्तो जपंकुर्याद्धोमसंख्या चतुर्गुणं ।। 25
एंकृतेतु मंत्रस्य जायते सिद्धिरु त्तमेति ।
पुरश्चरण चंद्रिकादौ जपमात्रे तद्दशांश होमोक्तेः ।। 26

तेन तर्पणाद्यपि सिद्धं ।
होमरुद्रेतु तर्पणाद्य नावश्यकमेव ।। 27
जपमात्रे तदुक्तैः अन्येतु पुरश्चरणं एवायं विधिः ।
ततएव हेमाद्रि महार्णवादौ तर्पणाद्यनुक्तिः ।। 28
तेन तदु क्तहोमो जपो विप्रभोजनं चेत्ये ।
तत्त्रयं कार्य मित्याहु र्व्रुद्धाः ।
वृद्ध याज्ञवल्क्याः :---
सुरापः स्वर्णहीरीच रुद्रजापी जलेस्थितः ।
सहस्रशीर्षजापीच मुच्यते सर्वकिल्भिषैः ।। 29
सर्वपापहराह्येते रुद्रैखादशिनी तथा ।
वेदमेकगुणंजजप्त्वा ततोह्नै वविशुध्यति ।। 30

हेमाद्रौ काळिकापूराणे :---
यदामुष्मिकमीहेत फलं लोकेष्वनल्पकं ।
तदारुद्रं जपेन्नित्यं ध्यायमानो महेश्वरं ।। 31
यश्च सागरपर्यन्तां दद्याद्भूमिंस कांचनां ।। 32
तस्मादप्यधिकंतस्य कृद्रुद्र जपाद्भवेत् ।

वायुपुराणेप्येवं :---

नमकं चमकंचैव पुरुषसूक्तं तधैवच ।
नित्यं त्रयं प्रयुंजानो ब्रह्मलोके महीयते ।। 33
चमकं नमकादर्वा क्पुंसूक्त मपियोजपेत् ।
प्रविशेत्स महादेवं गृहं ग्रहपतिर्यधा ।। 34
रागोवान् पापवांश्चैव रुद्रं जप्त्वा जितेंद्रियः ।।
रोगात्पापात्प्रमुक्तो सावतुलं सुखमश्नुले ।

लिंगे उत्तरार्थे त्रिपंचाश दध्याये :---
मृत्युजय विधिं वक्ष्ये बहनाकिं द्विजोत्तम ।
रुद्राध्याये विधिनाघृतेन नियतः क्रमात् ।। 36
सघृतेन तिलेनैव कमले नैवयत्नतः ।
दूद्वया घृतगोक्षीर मिश्रया मधुनातधा ।। 37
चरुणान घृतेनैव केवलं पयसापिवा ।
जुहुया त्कालमृत्योस्तु प्रतीकारः प्रकीर्तितः ।। 38

सूतसंहीतायां :----
यः श्रद्दयायुतोनित्यं शतरुद्रीय मभ्यसेत् ।
स्वर्णस्तेयात्सुरापाना दुष्कृताच रणात्तथा ।। 39
मुच्यते ब्रह्महत्याया इति कैवल्य शाखिनः ।
वायुपुराणे :---
तपस्तपतियोत्यर्थं सहस्राब्दानि संयमी ।। 40
गवां कोटिप्रदानं यः करोति विधिवद्गुरौ ।
नसत्फल मवाप्नोति यस्सकृद्रुद्रजापकः ।। 41
रुद्रेभ्यस्तु परंनास्ति जपोध्यानंहुतं तपः । तधा ।।
अनपत्यादिदोषेषु शाकिन्यादि ग्रहेषुच ।। 42
सर्वज्वरविनाशाय रुद्रजापो विनिश्चितः ।
आपस्तंभः :----
तस्य रुद्रः प्रजां पशू नभिमस्यते ।। 43
यज्ञादिसूक्तकल्प इत्यादि रावमभाष्येज्ञेयं ।। 44
तत्रादौ व्रतमुक्तं हेमाद्रौ कालिकापुराणे ।
कृछ्रमादौ स्वयंचीत्वान् पराकंचतधा पुनः ।। 45
कृत्वाध्याय न्महादेव मेवंभूयः समाचरेत् ।
स्नात्वाधेशं समभ्यर्च उषिता सप्तशर्वरीः ।
जपेदुद्रां स्तधाजस्रं तदन्नं प्राशयेद्धुतं ।। 46
आपरेहनिसंजाते समाप्यैवं व्रतं पुनः ।
भास्कराभिमुखोभूत्वा तस्मिन्न्यस्तेक्षणो जपेत् ।
भूयुश्चाह्नि परेरुद्रं संपूज्य विधिवत्कृतं ।
घृताक्तै बिल्वपत्रैश्च रुद्रहोमं प्रकल्पयेत् ।। 47
एवं सम्यक्कृतेन्यूनं कर्तासौजायते द्विजः ।
साक्षादुद्रोमहातेजा स्ततः कामांश्च साधयेत् ।। 48

शांतिहोमाद्रौ कौशिकः :---
बोधायनोक्तमेवाहं प्रवक्ष्ये शौनकोद्विजः ।। 49
कामिनां सर्वकामार्धं अकामानां शतरुद्रियं ।। 50
लिंगभ्या शेथवा तीर्थे स्नानं कृत्वा यधाविधि ।
रक्षार्धंतु शिखा ग्रंधि मूर्थकेशेति मंत्रतः ।। 51
भूतानि प्रार्थये त्तद्व दुत्तिष्ठंत्विति मंत्रतः ।
उपविश्य सुचौदेशे प्राणानायम्य वाग्यतः ।। 52
संकल्प जपहोमौतु यदर्दाय तदुच्यते ।
रुद्र प्रश्नस्य छेधोत्रस्या दनुष्टु बृषिस्तदा ।।
अघोरः सर्वपापघ्न अदित्यो देवतापरः ।
न्यासंभवादिभिः कृत्वा नमोंतैः प्रणवान्वितैः ।। 54
मंत्रै रष्टाभिरीशानं बिलाद्युक्तैः शुभ प्रदैः ।
भवंचपादयोर्नस्य शर्वंन्यस्योरु मध्यतः ।। 55
ईशानां गुह्यदेशेतु नाभौ पशुपतिं न्यसेत् ।
विन्यस्य हृदये रुद्र मुग्रं विन्यस्य वैमुखे ।। 56
भीमं ललाट देशेतु महांतं शीर्ष्णि विन्यपेत् ।। 57
महांस्तु कवचे कार्य मेकैकेनास्त्र मुत्तमं ।
तथैवान्त्यानुवाकस्य मंत्रैरद्वादशखिः शुचिः ।। 58
आद्यंतु पादयोर्स्य द्वितीयं जानु देशके ।। 59
ऊर्वोस्तृतीयं विन्यस्य चतुर्दंगुद देशतः ।
पंचमं नाभिदेशेतु षष्ठंतु हुजयेस्यसेत् ।। 60
सप्तमंकंठ देशेतु मुखेचाष्टम मुत्तमं ।
नवमं नासिकायांतु दशमं नेत्रयोर्दयोः ।। 61
एकादशं ललाटेतु द्वादशं शीर्षि विन्यसेत् ।
त्रयोदसंतु कवचेहुं कृत्वा स्त्रेतु फट् ततः ।। 62
एवं न्यास विधिं कृत्वा ततो मुद्रां प्रदर्शयेत् ।
एषते रुद्रभागस्तमिति मुद्रा प्रदर्शनं ।। 63
श्रीकामः शीर्ष्टिकर्वी ततेजिस्कामस्तु नेत्रयोः ।
मुख्येत्वन्याद्य कामस्तु ग्रीवायांरोग नाशने ।। 64
हृदये सर्वकामस्तु नाखौ ज्ञानी प्रदर्शयेत् ।
प्रजा कामस्तु गुह्येवै पशुकामस्तु जंघयोः ।। 65
जान्वोस्तु ग्राम कामस्तु राष्ट्र कामस्तु पादयोः ।
वशीकरण कामस्तु वामहस्ते प्रदश्शयेत् ।। 66
पापक्षयोभिचारे वाव्याधेरपगमे तथा ।
बहिश्शरीरात्कुर्वीत शिवस्याज्ञेति चस्मरन् ।। 67
एवं प्रदर्शयित्वातु ततोध्यानं समाचरेत् ।
त्रिलोच संचतुर्बाहुं सर्वाभरण भूषितं ।। 68
नाग चर्म परीधानं व्याघ्र चर्मोत्तरीयकं ।
वृषस्कंथ समारूढमु मादेहर्ध धारिणं ।। 69
अमृते नाप्लतं शांतं चंद्रार्द कृत शेखरं ।
शुद्द स्फटिक संकाशं जटा मकुट मंडितं ।। 70
वरदाभय हस्तंच सर्वकाम फलप्रदं ।
एवं ध्यात्वाद्विज स्सम्यगनं गांगहरं हरं ।। 71
अंगानां यजसंकूर्या त्सम्यग्भक्ति परायणः ।
हृदये हृदयं जप्त्वा मूर्ध्नि सूक्तंच पौरुषं ।। 72
शुखिया मुत्तरं चैव नारायण मनुत्तमं ।
कवचेना प्रतिरधं जप्त्वेध्धं शतरुद्रियं ।। 73
जप्त्वांगानि जपेच्चांतिं त्त्रिः शांतिरिति चोच्चरेत् ।
शान्तिं शन्योवातो नमोवाचं सत्रिविधोपि रुद्रः प्रत्येकं पंचथा ।। 74
रुद्रं रुद्री रुद्रो महारुद्रोति रुद्रश्चेति ।
तत्र नमक चमक मात्रमु भयं रूपं ।। 75

अन्येशाता तपेनोक्ताः :---
षडंगैकादशिनी रुद्रो रुद्रैकादश रुद्रतः ।
एकादशभिरोताभिर्महा रुद्रश्च कथ्यते ।। 76
एकादश महा रुद्रैरति रुद्र इतीरितः ।।
असार्ध महा महार्णवः ।।
पूर्वन्यासंते एकादश नमकान् पठित्वा आद्यंच मकानुवाकं पठेत् ।
पुनस्ताव् पठित्वा द्वितीयंच मकानुवाक मित्येकादशावृत्या रुद्र इत्युच्यते ।। 77
एकादशिन्या रुद्र इति पर्यायः । तदाह बोधयनः ।।
नमस्ते रुद्र मन्यव इत्येकादशानु वाकानामग्ना विष्णू
सजोषन इत्यैकैन मनुवाकं जपेदिति ।
सर्व नमकान् पठित्वा एकैकं चमकानुवाकं पठेदित्यर्थः ।। 78
तेनैकरूपे सर्व चमक जपोनतु विभागः ।
तैरेकादश रुद्रैः रुद्रीत्युच्यते ।। 79
सैवलघुरुद्रः रुद्रैकादशि नीतिचोच्यते ।।
ताभिरेकादशबि र्महारुद्रः । तै रेकादशावृत्तिरतिरुद्र इति ।।
एतदेवाहतुर्हेमाद्रौ कौशिक बोधायनौ ।
सद्यादि पंचवक्त्रांश्च रुद्रानै कादशैवच ।। 80
जपित्वा सर्वरुंद्रंश्च चमकाद्यंततो जपेत् ।
पुनरेत ज्जपेत्सर्वं द्वितीयं चमकं तधा ।। 81
रुद्रैकादशनीत्येषा सर्वकाम फलप्रदा ।
सर्वपापक्षयकरी सर्वशांति प्रदायिनी ।। 82
एकादशगुणैसैव रुद्र इत्यभिधीयते ।
महानेकादशगुण्य स्त्वति रुद्र इहोच्यते ।। 83
रुद्रं महातिरुद्रंच जपेत्कार्यस्य गौरवात् ।
अयं रुद्रैकादशिनीरीत्या महारुद्रादि प्रकारः ।। 84
सर्वशाखिनां जपसमयोभिषेके च समासः ।
काण्य कात्यायनीयानां त्वेकादशधा चमकविभागं वक्ष्यामः ।। 85

तथा :---
ततो होमं प्रकुर्वीत नमः शंभवमंत्रतः ।
रुद्रैकादश जाप्येव त्रयस्त्रिं शदधाहुतीः ।। 86
लघुरुद्रेश तंप्रोक्तं षष्ट्यात्र्यधिकया ततः ।
चत्वारश्च तथारुद्रे सहस्राः सप्तवर्जताः ।
चत्वारिंश त्सहस्राश्च होतव्या श्चतुरोत्तराः ।। 87
ऊनाश्चैवाष्टसप्तत्या त्वतिरुद्रे विनिश्चयः ।
पापक्षयेभिचारेच तथा व्याधिविमोचने ।। 88
पालाशस्यमिधः कार्या नान्यत्रोत्पात दर्शनात् ।
औदुंबर्याश्च समिधो मथ्वक्ताश्च तथाक्षताः ।। 89
ग्राह्यश्चान्नाद्यकामे नश्रियै शांत्यैच पायसं ।
सर्वकामे नवाग्राह्य मायुर्वुध्यै तिलाः स्मृताः ।। 90
घृताक्ता अथवादूर्वा स्तेजस्कामेनवै घृतं ।
व्रीहयः पशुकामेन राष्टकामेन वैयवाः ।। 91
उपविश्यशुचौदेशे दूर्वास्तंभे जपेद्यदि ।
जुहुयश्वेत पुष्पैर्वा सव्विश्वं कुरुतेवशं ।। 92
स्पृष्ट्वाशतत्थं जपेद्यस्तु रुद्रैकादशिनीं नरः ।
रोगान् ज्वराति सारादीन् नाशये दुल्पिणावपि ।। 93
होम पलाश समिधः कर्तव्या मधु संयुताः ।
एकादश महारुद्रान् परचक्रागमे पुनः ।। 94
जपेदेकदश गुणान्‌होमस्तु विधि वत्स्मृतः ।
तिलै राज्येन संसिक्तै र्विदिवत्तं विवर्तयेत् ।। 95
रुद्रैकादशिनी जाप्ये शतमेको नमिष्यते ।
सहस्राश्च तधा रुद्रै नवत्येको नयायुतः ।। 96
एवं त्रिगुणिताकार्या महारुद्राति रुद्रयोः ।
वृष्टि कामेन वायोज्या हस्त्यश्यामय शांतये ।। 97
उद्भवेत्यद्भुतानांच ग्रहणांतु विपर्यये ।
ग्रह ग्रामादि शांत्यैच तिलाश्चाज्येन संयुताः ।। 98
होमान्ते सर्वकामानां कुष्मांडैश्चापि वाजपः ।
होचव्य माज्यं विधि वन्महा व्याहृतिभि स्तथा ।। 99
परिषिच्यततो वह्निं तत्वायामीति चार्च्यच ।
अभिषेकं ततः कुर्यान्मंत्रे स्वब्लिंगकैः शुचिः ।। 100
आदावन्तेच संपूज्य पार्वती सहितं शिवं ।
लोकपालांश्च संपूज्य निधिवच्चिव सन्निधौ ।। 101
गंगां दुर्गांच मंत्त्रेण विधिवद्द्विर दाननं ।
स्नपनोक्त विदानेन त्वरितेन नमस्कृतिः ।। 102
तर्पये द्विविथै रन्नैः पयसा पायसेनवा ।
प्रियतां शंभुरित्युक्त्वा भूमि देवन् शुचिः शुचीन् ।
धत्वातु दक्षिणांतेभ्यः प्रणिपत्य विसर्जयेत् ।
एवं कृतेस भगवान् प्रीतिकामान् प्रयच्चति ।। 103
अकामस्य फल मुक्तिनान् त्रकार्या विचारणा ।
बोधायनोक्त मंत्रोयं सर्सकाम समृद्दये ।। 104

इति हेमाद्रौ रुद्र विधिः :----
अयं रुद्रैकादशिनी प्रकार अपस्तंभ शाखेय रुद्र परः ।
माध्यंदिन कण्वशाखिनांतु चमके एकादशानुवाकाभावा ।
च्चमकानै कादशधाविभज्यैकैकभागं नमकेषु ।
याज्यैकादशिनीं कुर्यात् ।। 105
होमेप्येपं --- अत्र षडंगन्यासो वैकल्पिकः :----
पंचांगरुद्राणा मित्युक्तेरितिकेचित् ।
अभिषेकेतदुकैष्षट् अन्यः पंचेति महरणवः ।। 106
बोधयनोकैस्तैत्तरीय शाखीय रुदैः ।
पंचांगन्यासः षडंगेति वाजसनेयादि परं ।
बृहत्परशरेण तथो कैरित्यन्ये ।
अभेषेक रुद्रपरेत्य परे ।
यत्तुछंदोगानां सामविधाने ब्राह्मणे ।। 107
आवोराजा तद्वोवर्ग आज्यदोहानि देव ।
व्रतानिचैषा रौद्रीनाम संहीतैतां ।
प्रयुजन् रुद्रं प्रीणातीतत्युक्तं ।
आवोराजात्येकं सामतदकद्वोवर्गः चत्वारि ।। 108
आज्यदोहानित्रिणि देवव्रतानि त्रीणि ।
एतत्पलातंरार्ध प्रयोगांतरं ।। 109
नत्वेवैते महारुद्रादिकरणे प्रमाणमस्ति ।
तेनयद्घूर्जराणां द्वादशसामभिर्महारुद्राण्या चरणं ।
यच्चऋग्वेदिनां रुद्रसूक्तैस्तन्नि र्मूलं ।। 110
भ्रांतिकुत्तमाभि मानमात्र मित्युपेक्ष्यं मंत्रस्य ।
प्रतिनिधिभावाच्च :---
अतएव बृहत्पराशरेण कुर्याद्विधानं ।
रुद्राणां यजुर्वेदेन संमितमित्युक्तं ।
अथ बृहत्पराशरोक्तः -- कात्यायानानां विशेषः :---
इषेत्यादिषु मंत्रेषु खंब्रह्मंतेषु ।
दशप्रणव सहितेषु याः क्रियाः ।
मंत्रादौ प्रणवःकार्यो मंत्रांते प्रणवः पनः ।
ततोव्याहृति संयुक्तस्त्वेतेच प्रणवादशेत्येकः पक्षः ।। अन्यस्तु ।। 111
आदौ प्रणवमुच्चार्य सर्वाव्याहृतय स्ततः ।
मंत्रादौ प्रणवकार्यो मंत्रांते प्रणवः पुनरिति ।। तथा ।।
मनोज्योति रभोद्यग्नि रग्निर्मूर्धा ।
मूर्धानं मर्माणिते जातवेदा इति ।
मानस्तोकेचगुह्ये तत्प्रधमं पंचकं स्मरेत् ।। 112
ततोयाते रुद्रेत्य द्यैराद्यं न्यासं दशाक्षरस्य वर्णैः द्वितीयं ।
त्रातारमित्याद्यैः संपुटं बोधायन वदुक्त्वाहा ।। 113
सुत्रा मादिदि शापालान् प्राच्यादिषुन्मरेदथ ।
रौद्रीकरणीमे तद्वै कृत्वा पापात्प्रमुच्यते ।
इत्याद्युक्तत्वात्  :----
पंचास्यं सोममात्मानं सर्वाभरण भूषितं ।
मृगलांछन मूर्थानं शुद्ध स्फटिक सन्निभं ।। 114
फणौ सहस्र विन्फूर्ज दुरगेंद्रोप वीतिनं ।
सप्तार्चिर्ज्विल नज्वाल जटा जूट किरीचिनं ।। 115
सहस्र कर विभ्राजत् खट्वांगादि विभूषितं ।
देदीप्यमानं चंद्रर्कज्वल दग्नि त्रिणेत्रिणं ।
जगद्भाधिर्य कृन्नाद चंच ड्डमरु धारिणं ।। 116
केयुर बद्द नागेंद्र मूर्ध्न रत्न विराजितं ।
मेखला किंकिणीमाला मुक्ताराव विराजितं ।। 117
घर्घराव्यक्त निर्गच्च द्गंखीरा राव नूपुरं ।
सहोम पट्ट नीलाभं व्याघ्र चर्मो त्तरीयकं ।। 118
दिग्देवता समायुक्तं सुरासुर नमस्कृतं ।
द्विजोध्यात्वैव मात्मानं सम्यग्रुद्र स्वरूपिणं ।। 119
संप्रध्वस्तांतरायस्सन् ततो यजन मारभेत् ।
अनुलिप्तेसु गुप्तेच देशे गोचर्म मात्रके ।
संथिडिलेंदुज मालिख्य मंत्र मालिख्यतं पुनः ।। 120

दशाक्षर मित्यर्धः :-----
तत्रपूजादि कंकुर्या न्नमश्शंभवेतिच ।।
यत्तुते नैकादश कलश स्थापन मुक्त्वा ।
तत्र रुद्र पूजं रुद्रैश्चाभि मंत्रण मुक्तं ।
तत्काम्य प्रयोगातरं ।। 121

तंतु रुद्रांत तश्च वक्ष्यामः :-----
मानो महंतमितिच सिद्धं मंत्रं स्मरेद्विजः ।।
न्यास मंत्रैश्च सोंकारैर्मान स्तोकेति गुह्येपि ।। 122
शंभवायेति मंत्रेण दद्याद्गंधोदकादकं ।
धूपनैवेद्य दीपादीन् यधालाभं निवेद्यच ।। 123
दशाक्षरेणतेनैव नमस्कुर्या त्पुनद्विजः ।
शिखातस्यतु रुद्रस्योत्तर नारायणं स्मृता ।। 124
शिरः पुरुषसूक्तंच शिवसंकल्पंच हृत् ।
कवचंचा प्रतिंधं नैत्रे विभ्राड् बृहत्मृतं ।। 125
शतरुद्रीयमस्त्रंच देवस्यास्त्रं प्रकल्पयेत् ।

शतरुद्रीयं --- रुद्रध्यायं :----
अदातः शतरुद्रीयं जुहोतीतितस्यैव ।
शतरुद्रीय शब्णेना प्यभिधानात् ।। 126

एवं तैत्तिरीयाणामपि :---
महार्णवस्तुत्वमग्ने रुद्र इति शतरुद्रीयंवर्द ब्रांतएव ।
पंचागान्नि स्मरेदष्टप्रणवं च जपेद्विजः ।। 127

पंचागानि सद्योजातादीनि - हेमाद्रौचैवं :-----
उद्दृत्यप्रणवेनेशं वकिरेणविसर्जयेत् ।
एवं पूजांकृत्वा जपं कुर्यात् ।। 128
तत्रैकादशिन्यां चमकं विनैव ।
रुद्रध्याय मात्रस्य एकादशावृत्थिः ।
एकादशपुराणान् :---
रुद्रान् जपित्वा रुद्रतान् व्रजेति ।
बृहत्पराशराद्यैः रुद्रमात्र जपोकैः ।
चमकांनांच रुद्रशब्दवाच्यत्वा भावादितिकेचित् ---
तन्नअस्य प्रयोगांत रत्वादत्ररुदैकादशिनी ।
महारुद्रादि प्रकारासुकैः जपमात्रोक्त्या ।
होमे तदप्रसंगात्काण्वानां कात्यायनानां ।
चाष्टौ चमकानुवाका नेकादशथाकृत्वा ।
प्रत्यावृत्यैकै कभांगयो जयेदित्येव सादुः ।। 129
एवं होमेपि --- चमकविभागस्तु :-----
आदौ चत्वारोनुवाकाः । अश्माचम इति चतस्रः ।। 1 ।।
अग्निश्चम इंद्रश्चम इति तिस्रः ।। 2 ।।
आग्ं शुश्चम इति तिस्रः ।। 3 ।।
अग्निश्च मेघर्मश्चम इतिद्वे ।। 4 ।।
एकाचमे तिस्रश्चमे इत्येका ।। 5 ।।
मेच तस्रश्च मेष्टौचमे इत्येका ।। 6 ।।
त्रविश्च मेत्रविचमे इतिद्वे ।। 7 ।।
वायजसयाहेत्यष्टम ।। 8 ।।
आयुर्जज्ञेनमितिद्ये इयंतयोराट् ।। 9 ।।
त्र्या ।। 10 ।।
सोमश्च यजुश्येति ।। 11 ।।
अत्रमूलंतु - अथार्डेद्राणि जुहोति अथ ग्रहन् जुहोति --- अधैतां यज्ञ क्रतुं जिहोति -- अथा हेयः ते राट् - अथ कल्पां जुहोति -- अथा हस्तो मश्च युजुश्चेत्यादयः श्रुतंयो यजाग्रती तिदिक् - अयं हिश्रुतावेकादशधा विभाग एतद्विषय एव विषयां तराभावात् तत्वंतु - भागेष्वनुकाकत्वा भावादनुवाकै कैकं योजयेदिति बोधायन सूत्रहेमाद्यादावसु वाकानुषंगेन भागहरयोगः - अंतस्यैव चमकासु वाकस्य त्रिरभ्यासो युक्तः --- अष्टा कपाल मंत्र स्त्यॆंद्राग्ने इप सामिथेवि यानि वृद्धौ स्तोम वृद्धौच एक विंशति ब्रूयादिति वदन्यत्र चमकानुकावा प्रसिध्या गम बादे प्रयाजैकादश त्वादभ्यासस्त्यैव प्राप्ते रंताल्लोपोवि वृद्धिर्वेत्यापस्तंभोक्तेश्च ।। 130
यत्तु कात्यायनाः काण्वाश्च परशुरामीयं पठंति - सांग मद्यं जपे दुद्रं केवलंतु नवांतरे - सांगं सशीर्षकं चास्त्यं विरंग मितिकेचनेति - अंत्यंरूपं पथित्वांगानीति केचित् - अन्येतु संपुटे मानाभावात् - प्रधमा वृत्तिवदंगावि ततो रुद्र इत्याहुः - वयग्ं सोमे त्यष्टा वृचः शीर्षं उग्रश्चेत्यादि सप्त रुद्र जपेश्चैत्याहुः - तद्वचना भवान्निर्मूल मंध परं परा मात्र इत्युपेक्ष्यां - तधा शिव संकल्पमस्तु हृदयं सूक्तः स्यात्यौरुषं शिरः - पाहुर्नारायणी यंच शिखां तस्योत्तराभिधां . अद्भ्य संभूत इतयुत्तर नारायण मित्यर्थः ।
131
आशुश्शिनः कवचं नेत्रं विभ्रड् बृहत्म्सतं ।
शतरुद्रीय मस्त्रंस्यात् षडंगक्रम ईरितः ।। 132
हृच्चिरस्तु शिखावर्म नेत्रमस्त्रं महामते ।
प्राहुर्विधिज्ञा रुद्रस्य षडंगानि स्वशास्त्रतः ।। 133
अत्रमूलं बृहत्पराशरोक्तं ।
एषामृषि देवता छंदांसिते नैवोक्तानि ।। बृहत्पराशरः ।। 134
अक्षतांश्च तिलान्‌वापि यवान्‌ वासमिधोपिवा ।
शंभवायेति जुहुयात्पूर्वं स्नानाज्यसिक्तकान् ।। 135
पंचपंचाथषड्वाद्या अष्टावष्टादशापिवा ।
दशदशै कादशवा जुहुयात्साधको द्विजः ।। 136
जपतर्पणहोमादौ रतोयो वत्सरंजपेत् ।
अथ प्रयोगांतराण्याह :----
अदातः सिद्धिकामस्पन् कंदमूल फलाशनः ।
गोमूत्र यावकक्षीर दधिशाकाज्य भोजनः ।। 137
हविष्य भोजनोवासौ विप्रो नन्यत्रभोजनः ।
जपेहोमादिकुर्वाणो यधोक्त फलबाग् भवेत् ।। 138
शिरसा सहरुद्राणां सप्तैकादशिनी ध्रुवं ।
सर्वेमंत्रा भवंतस्य ब्राह्मणस्योक्तकारिणः ।। 139
एकादशशुभान् कुंभा नाहृत्य विधिवच्चतान् ।
सहिरण्यने् सवस्त्रांश्च फलपुष्पोप शोभितान् ।। 140
गंधोदकाक्षतै र्युक्तान् पूजये दुद्रभक्तितः ।
अथैकादशभीरुद्रै रेकैक मभिमंत्रयेत् ।। 141
एवं संपूज्यतान् कुंभान्नमस्कृत्याभि मंत्र्यच ।
एकादशमहात्मान एकंवा हितकारिणं ।। 142
विनायकोपसृष्चंवा स्नापये त्काकपद्धतिं ।
मृतवत्सां काकवंध्यां स्नापये दश्नियाच्चरुं ।
अनड्वाहंच वस्त्रंच दद्याद्देनुं सदक्षिणां ।। 143
समाप्तौकर्मणि तधाविप्रान्द्वि दशभोजयेत् ।
नमो गणेभ्य इत्यस्य मंत्रस्य ब्राह्मणो युतं ।। 144
जप्त्वाच श्रीफलै र्हूत्वा सर्वकार्येषु सिद्धिभाक् ।
नमो अस्तुनीलग्रीवा येत्ये तन्मंत्रेण सप्तच ।
आवर्त्योदकमामंत्र्य विषार्तश्रवणेन्यसेत् ।। 145
विषेणमुच्यते सद्यः कालदष्टोपि जीवति ।
ग्रहग्रस्तस्तधाप्रेत रक्षः शाकिनिदूषितं ।। 146
प्रमुंचधन्वन इति भस्मनासर्षपैस्तधा ।
ताडयेन्मुंचमुंचेति शीघ्रमेव विमुंचति ।। 147
नमश्संभव इत्यस्य मंत्रस्याप्ययुतं द्विजः ।
जप्त्वाखादिरकाष्ठेस्तु हुत्वा विप्रः सहस्रकं ।। 148
कुटतै लपुतास्सम्यक् मन्त्रंते चामुकंहस ।
फट्कारेणै वजुहुयात् क्षयहोगी सुखीभवेत् ।। 149
जलमध्ये शतावृत्या सद्योवृष्टिर्निगद्यते ।। 150
नाभिमात्र जलेविप्रः प्रविश्य जुहुयाज्जलं ।
कुर्यादेकार्णवा - पृध्वीं मंत्रमहात्म्योतो भृशं ।। 151

इत्यादिज्ञेयः -- अथ प्रयोगः :---
कर्तादेशकालौ स्मृत्वा अमुक कामनयामुक रुद्र जपहोम मभि,ेकं वास्वयं ब्राह्मणद्वारावा करिष्य इति संकल्प्य गणेश पूजन पुण्यहवाचन मातृतापूजन नांदीश्राद्धानि कृत्वाचार्यं ब्राह्मण मृत्विजश्च वृणुयात् । तत ऋत्विजो देशकालौ स्मृत्वा मुकस्यामुक कामनार्थं रुद्रजपं करिष्ये ।।
इत्युक्त्वान्यासान्कुर्युः ।। 152
तत्र बोधायनोक्ताः पंचन्यासाः सर्वेषां समानाः ।
कात्यायन परिशिष्टेत्वन्ये न्यासा उक्ताः ।। 153
ब्रह्मयज्ञारंभे यधाविधि ।
स्नात्वा छंदः पुरुषं शरीरेन्यसेत् ।
इत्युक्त्वा तिर्यग्भिलश्चमस ऊर्ध्वं ।
बुध्नस्तस्य चक्षुषी गौतम भरद्वाभौ ।। 154
शोत्रे विश्वामित्र जमदग्नी नासिकेव वसिष्ट कश्यपौ ।
वागत्रि र्गायत्री छंदोग्नि र्देवताशिरसि ।
विन्यसेदुष्णिहंसविता रंग्रीवासु चुबुकेबृहतीं बृहस्पतीं ।। 155
बाह्यो र्बुहद्रधं तरंद्यावा पृथिवीं ।
मध्ये त्रिष्टुभ मिंद्रं ।। 156
श्रोण्योर्जगतीमादित्यं मेढ्रे अतिछंदसं प्रजापतिं ।
अण्णयोरग्निं यज्ञायज्ञीयं ।। 157
वैश्वानरमूर्वो रनुष्ठुभं विश्वान् ।
देवानष्टीवतः पक्तिं परुतः ।
पादयोः द्विपदां विष्णुं ।
प्राणेषुवि छंदसं वायुं ।। 158
न्यूनातिरिक्तेष्वंगेषु न्यूनाक्षरं छंदः अपो देवतेत्येवं सर्वांगेषु योजयित्वा वेदमयः संपद्यते शापानुग्रह समर्धो भवति । ब्राह्मं तेजः प्रवर्तते -- नकुतश्चिद्भयं विंदते ऋज्मुयो यजुर्मयस्या ममयोधर्वमयस्तेजो मयोमृतमयः संभूतय ब्रह्मैवाप्येति तस्मादेतन्ना ब्रह्मचारिणेना तपस्विनेना संवत्सरोषतायना प्रवक्त्रेषु ब्रूयादित्यादि तदे तद्ब्रह्मयज्ञे सर्व जपेषु चेक्तानु क्रमणेव । अस्य रुद्रजपमात्रां गत्वे किं मासमितिन विद्मः ।।

तथा :----
जातवेदसेति पुरश्चरणं -- चतुस्रक्तिरित्यासनं -- मनोज्योतिरिति हृदयं -- अभोद्यग्निरिति शिरसि -- मूर्थिनंदिव इति शिखायां --- मर्माणीति कवचं --- विश्वतश्चक्षुरिति नेत्रं -- मानस्तोक इत्यस्त्रं -- अदन्यासः --- तत्र पंचांगंन्यासेषु शिखाद्यस्त्रांत मेकत्रिंश दंगन्यासः प्रदमः --- मूर्दादि पादां तदशांगन्यापो द्वितीयः - पादादि मूर्थांतं पचागन्यास स्तृतीयः -- गुह्यादि मस्तकांतं पंचांगन्यास श्चतुर्धः -- हृदयाद्यस्त्रांतं पंचांगः पंचमः --- षडंगन्यस पक्षे प्रजननादि षोडशांगन्यासः षष्ठः ।। 160
हेमाद्रौ महार्णवेच बोधायनः :---
अदातः पंचांग रुद्राणां न्यासपूर्वकं जप होमार्च नाभिषेक विदिं व्याख्यास्यामो यातेरुद्रेति शिखायां । अस्मिन्महत्यर्णव इति शिरसि -- सहस्राणी तिललाटे -- हग्ं सश्शुचि षदिति भृवोर्मध्ये --- त्रियंबकमिति नेत्रयोः ।। 161
आ त्रकात्यायना नामग्निर्जोतिरिति नेत्रं--- नमः स्रुत्यायेति कर्णयोः मानस्तोकेति नासिकायां - अवतत्येति मुखे -- नीलग्रीवौद्वौ कंठे -- नमस्ते अस्त्वायुदायेति बाह्वोःयाते हेतिरितयुप बाह्वोः --- ये तीर्था नीतिहस्तयोः -- सद्योजातमिति पंचानुवाकान् पंचस्वंगुळीषु - नमोवः किरिकेभ्य इति हृदये - ये वृक्षेष्वित्युदरे - नमः शंभव इति कुक्षॊ - नमो गणेभ्य इति पृष्ठे --- नमो हिरण्य भाहव इति पार्श्वयोः --- विद्यंधनुरिति जठरे --- हिरण्य गर्भ इति गुह्ये -- सशिराजात वेदा इत्यपाने --- मानो महंत मित्यूर्वोः -- एषतेति जान्वोः सग्ं नृष्टजिदिति जंघयोः -- विश्वंभूतमिति गुल्भयोः -- ये पथामिति पादयोः -- अद्यवोचदिति कवचं --- नमो बिल्मिन इत्युप कवचं --- नमो अस्तु नीलग्रीवायेति तृतीय नेत्रं --- प्रमुंच धन्वन इत्यस्त्रं -- एतावंतीश्चेति दिग्बंधः --- इति प्रदयोन्यासः
-- ओं नमो भगवते रुद्रयेति समस्कारं न्यसेत् । ओंकारं मूर्ध्नि निन्यस्य नकारं नासिकाग्रतः -- मोकारंतु ललाटे वैभकारं मुख मध्यतः --- गकारं कंठदेशेतु --- वकारं हृदिन्यसेत् । तेकारं दक्षिणे हस्ते रुकारं वामतोन्यसेत् । इति द्वितीयः ।। 162

अत्र कात्यायना स्तृतीय न्यासांतर माहुः -- यथा :---
शीर्षेतु निन्यसेदुद्रं ललाटे चंद्र शेखरं ।
नेत्रे त्रिलोचनं देवं भैरवं शोत्रयोर्नसेत् ।। 163
घ्रेणेतु शंकरं देवं मुखे पशुपतिं न्यसेत् ।
नीलकंठं कंठदंशे हृतये व्यापकं न्यसेत् ।। 164
करे गंगाधरं देवं शिवं नाभौतु विन्यसेत् ।। 165
महदेवं तथा गुह्ये जंघयोस्त्र्यंबकं न्यसेत् ।
सर्वज्ञं विन्यसेत्पादे शिवं सर्वत्र विन्यसेत ।। 166

इती तन्नीर्मूलं -- बोधायनः :---
सद्यंच पादयोर्न्यन्य वामंस्यस्योरु मध्यतः ।
अघोरं हृदि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।। 167
ईशानां मूर्द्नि विन्यस्य हंसोनाम सदा शिवः ।
हंस हंसेति योब्रूयाद्धं सोनाम सदा शिवः ।। 168
एवंन्यास विधिं कृत्वा ततस्संपुट मारभेत् ।।

इत तृतीयऋ :---
त्रातार मिंद्रं त्वन्नो अग्ने सुगंसः पंथा मसुन्वंतं तत्वा याम्यानो नियुद्बिर्वयग्ं सोम तमीकानमस्मे रुद्रास्योना पृथिवीत्येत त्संपुट मिंद्रादीन् दिक्षु वन्यस्यैवमेवात्म निरौद्रीकरणं कृत्वा ।। 169
त्वगस्थिगतै स्सर्वपापैः प्रयुच्यते सर्वभूतेष्व पराजितो भवति ततो यक्ष गंधर्व भूत प्रेत पिशाच ब्रह्म राक्षस यमदूत शाकिनी ढाकिनी सर्पश्वापद तस्कराद्युप द्रवाद्युप घाताः सर्वे ज्वलंतं पश्यंतुमारं रक्षस्तु -- मनोज्योति रभोद्यग्नि रग्पिर्मूर्धा मूर्थानं मर्मणितेजा तलेदा इति गुह्येदर हृदय मुख शिरोनाभिष्वभि मंत्र्य ब्रह्मत्म स्वद सृजितेत्यात्म रक्षा कर्तव्या ।। 170

इति चतुर्धः :----
शिवसंकल्पं हृदयं पुरुषसूक्तं शिरः उत्तर नारायणं शिखा आशुश्शिशानेत्य प्रतिरधं कवचं शतरद्रीय मस्त्रं पंचांगं सकृज्जपेत् अष्टांगं प्रणम्य । हिरण्यगर्भोयः प्राणतो ब्रह्म जज्ञानं महीद्यौ रुपश्वास याग्नेनययाते अग्नइमं यम प्रस्तर मित्यृचोजपे दधात्मानं रुद्ररूपं ध्यायेत् -- अत्र क्वचिदर्ध उच्यते ----
सर्वत्रैत तैत्तिरीय पाठः :---
उपबाहुः प्रकोष्ठः सद्योजातादि पंचस्वं गुळीष्वं गुष्ठतर्जन्यादिषु --- नमोवः किरिकेभ्य इत्यादौ देवानाग्ं हृदयेभ्य इत्यस्योत्त रष्वेनुषंगः -- नमो हिरण्येत्यादौ नमोंतयज्ञः सशिराजात वेदा इत्य पानइति आस्वार्थं -- जातवेदसे सुनवामेद्यस्या ऋच अग्नेत्वन्नः --- तामग्निवर्णां अग्नेत्वं पारय विश्वानिनोदुर्गहा पृतनाजितग्ं सहमान मुग्रमितिऋक् चतुष्टयं शिरइत्युच्यते तेन जातवेदस इत्याद्याः पंचर्च अपानेन्यसेदिति त्वतीयान्यासे ओं नम इति समस्कृत्य ओं मुर्ध्ने नमः --- नं नासिकायै --- मों ललाटाय नम इत्यादिन्यसेत् -- तृतीयो सद्योजातं प्रपद्यामि इत्यादि पंचमंत्रान् पंचस्थानेषु विन्यसेत् । तत्र ईशानः सर्वविद्याना मित्यते सदाशिवों हं इति मूर्ध्निविन्यसेत् --- अत्रकात्यायन हेमद्र्युकैः -- सद्योजातादि पंचभिः पंचवक्त्रान्यसे --- प्रालेयाचल मिंदु कुंदधवळ मित्यादि पंचश्लोकैस्तध्यानं बुध्याद्यष्टत्रिंशत्कलान्या संचाहुस्तत्प्रतिष्ठायामुक्तं -- अत्रतु यजमान हेमाद्र्युकैः -- सद्योजातादि पंचभिः पंचवक्त्रान्यसे --- प्रालेयाचल मिंदु कुंदधवश मित्यादि पंचश्लोकै स्तध्यानं बुध्याद्यष्टत्रिंशत्कलान्या संचाहुस्तत्प्रतिष्ठायामुक्तं -- अत्रतु यजमान प्रतारणमात्रं निर्मूलिंचेत्युपेक्ष्यं । चतुर्थेत्रातार मिंद्र मित्यादिदि दशमंत्रैः इंद्राय नम इत्याद्यैश्च पूर्वादि दिष्विं द्रादिभ्योंजलिं कुर्यात् -- संपुटोंजलिः एतै स्संपुटंकृत्वा पुनरेतै रावृत्य नमस्कुर्यादिति महार्णवः -- मनोज्योतिर्गुह्यं अभोद्यग्निरिति नाभिः अग्निर्मूर्था उदरं मूर्थानं दिवः हृदयं मर्माणिते इति मुखं -- जातवेदायदिवा पावको --- दभ्याववृत्स्वेति शिरसि ।।

इदमेवात्मरक्षेत्युच्यते :---
पंचमन्या सेतु यज्ञाग्रत िति षडृचः पठित्वा शिरसे स्वाहेति शिरसि --- तत्र तधालोकाग् अकल्पयन्नित्यंते वेदहमेतं पुरुषं महंत धाता पुरस्ताद्यमुदाजहारेति ऋग्द्वयमुपांत्य मदिक अत्र -- अद्भ्यः संभूतः पृथिव्यै रसाच्चेत्यादि सर्वं मन्निषाणे मन्निषाणेत्यंत मुत्तर नारायणं पठित्वा शिखायैपषट् -- आशुश्शिशान इति पंचदशर्चं विश्वाहाशर्मयच्छ त्वित्यंतं --- कात्यायनास्तु सप्तदशर्चं सूक्त मुक्त्वा कवचाय हुं --
इति कवचं कात्येयनास्तु विभ्राडिति दप्तदशर्ग्बिर्नेत्र मत्राहुः -- ततःत्वमग्ने रुद्र इत्यनु वाकेन शतु रुद्रीयेणाति भूर्बुवस्सुवः स्वस्वाहेत्यंते नास्त्राय त्यादौ शत रुद्रीय शब्देन रुद्रस्यैवोक्तेः यत्तु सावित्रचयने श्रुतौ त्वमग्ने दॆद्र इति शत रुद्रीय यस्यरूप मित्युक्तं -- तद्रूप मित्युक्ते गौणं -- रचात्र गौण ग्रहणे मानमस्ति --- तेन रुद्राध्यायेनै वास्त्रं युक्तं महार्मवस्तु ब्रांत एव --- अत्रन्यासांग मात्राणा मृषदैवत छंदांसि पाठभेदश्च महार्णवे ज्ञेयः ।। 171
विस्तरान्नोच्यते --- कात्यायनास्तु :----
नमस्ते रुद्रति षोडशर्मः शतुकुद्रीय माहुः ।
ततो हिरण्यगर्भ इत्याद्ये रष्टांगं प्रणम्य ।
ध्यानं यधा --- शुद्ध स्फटिक संकाशं त्रिणेत्रं पंचवक्त्रतं ।। 172
गंगाधरं दश भूजं सर्वाभरण भूषितं ।
नीलग्रीवं शशांकांकं नागयज्ञोपवीतिनं ।। 173
व्याघ्र चर्मोत्तरीयंच वरेण्य मभय प्रदं ।
कमंडल्वक्ष सूत्राभ्या मन्वितं शूलपाणिनं ।
ज्वलंतं पिंगळ जटा शिखा मुद्योत कारिणं ।
अमृते नाप्लुतं हृष्ट मुमादेहार्द धारिणं ।
दिव्य सिंहासना सीसं दिव्यभोग समन्वितं ।
दिग्देवता समायुक्तं सुरा सुर समन्वितं ।
दिग्देवता समायुक्तं सुरासुर नमस्कृतं ।
नित्यंच शाश्वतं शुद्धं ध्रुव मक्षर मव्ययं ।
सर्व व्यापिन मीशानं रुद्रं वैविश्व रूपिणं ।
एवं धात्वास्यजः सम्यक् ततोयजनमारभेत् ।
इति पंचाग स्यासः ।। 174

शातात पमते षडंगन्यासाः तत्र पंचोक्ताः --- षष्ठस्तु :---
प्रजनने ब्रह्मा तिष्ठतु । तिष्टेतां तिष्टंतु यदार्थे सर्वत्र पठेत् --- पादयोः विष्णुः -- हस्तयोर्हरः - जठरे अग्निः -- हृदये शिवः --- कंठे वसवः वक्त्रे सरस्वती - नासिकयोर्वायुः । नयन योस्यूर्याचन्द्रमसौ --- कर्णयो रश्विनौ -- ललाटे रुद्रः -- मूर्द्न्यादित्याः -- शिरसि शिवः -- पृष्ठेपिनाकी -- पुरतः शूली -- पार्श्वयो श्शिवंशकरौ -- सर्वत्र वायुः -- बहि स्सर्वतोग्नि ज्वाला माला परिवृतस्तिष्ठतु -- सर्वेष्वंगेषु सर्वादेवता यथा स्थानं तिष्ठंतु -- मां रक्षंतु -- अग्निर्मेवाच श्रित इत्या द्यैर्यथा लिंग मंगानि संस्पृशेत् -- यथा अग्निर्मेवाचि श्रितः --- वाग्घृदये -- हृदयं
मयि अहममृते -- अमृतं ब्रह्मणि ।।
इति जिह्वं - वायुर्मे प्राणेश्रितः ।। प्राणो हृदये -- इति न्यासम् -- सूर्योमे चक्षुषि श्रितः -- मनो हृदये इति वक्षः -- दिशोमेश्रोत्रे श्रिताः -- शोत्रग् हृदये -- इति श्रोत्रे । अपोमे रेतसि श्रिताः -- रेतो हृदये -- इति गुह्यं -- पृथिवीमे शरिरे श्रीता -- शरीरगं हृदये इति शरीरं । ओषदि वनस्पतयो मेलोम सुश्रिताः । लोमानि हृदये । इति लोमानि -- इंद्रोमे बलेश्रितः -- बलग्ं हृदये इति बाह्वोः -- पर्जन्योमे मूर्ध्नि श्रितः मूर्धाहृदये -- इति मूर्ध्नि -- ईशानोमे मन्यौ श्रितः -- इति मनसि आत्माम अत्म निश्रितः आत्मा हृदये -- तदेव -- पुनर्म आत्मा पुनरायुरागात् -- पुनः प्राणः पुनराकूत यागात् वैश्वानरोरश्मि भिर्वा वृधानः -- अंतस्तिष्ठत्वमृतस्य गोपाः -- इति सर्वांगं इति षडंगः ।। 176
हेमाद्रौ कौशिकस्तु -- संकल्प जपहोमा वित्युक्त्वा न्यासद्वयमाह -- तद्यथा -- न्यासं भवादिभिः कुर्यान्न मोंतैः प्रणदान्वितैः ।। 177
भवंच पादयोर्न्यस्य शिवं स्यसोरु मध्यतः -- ईशानं गुह्य देशेतु नाभो पशुपतिं न्यसेत् -- रुद्रंच हृदये न्यस्यमुखे चोग्रंच विन्यसेत् -- तथैवा न्यानुवाकन्य मंत्रैर्द्वादशभिः शुचिः । न्यास कृत्वासु लोम्येस वर्जयित्वााभिचारकं -- आद्यंतु पादयोर्न्यस्य द्वितीयं जानुदेशतः ।। 178
ऊर्वोस्तृतीयं विन्यस्य चतुर्थं गुह्य देशतः । पंचमं नाभिदेशेतु षष्ठंच हृदयेन्यसेत् । सप्तमं कंठदेशेतु मुखे चाष्टम मुत्तमं । नवमं नासिकायांतु दशमः नेत्रोर्द्वयोः । एकादशं ललाटेच द्वादशं शीर्षि विन्यसेत् । त्रयोदशंतु कवचं कृत्वास्त्रेण फडित्य इति -- अथ सामान्यतो रुद्रस्य ऋष्यादि -- तत्र सर्वेषा मग्निर्भगवानृषिः -- रुद्र श्शंभुर्देवता -- महा विराट् च्छंदः --- चमकानुवाका नामग्निः कांडऋषिः ।। 179
आद्या गायत्र्याग्नि वैष्णवी शिष्टं यजु । वाजादयोन्नादि वेशेषा देवताः । जपे विनियोगः ।।
अथ विशेषतः :---
यथा आद्यायाः कश्यपस्तत आत्रेयस्ततः कश्यपः ततोद्वयोर्गौतमो धूम्रस्ततः कण्वस्ततोद्वयोः कश्यपोमरुत्वान् स्ततो भगवां स्ततस्तिस्रूणां भववान् । द्वितीयानुवाके मंडूक स्तृतीये भगवान् श्चतुर्थेः दुरवासाः पंचमषष्ठ्यो र्भगवान् सप्तमानुवाके हेमकोशोष्टमे नवमे च नमोवः किरिकांतं भगवास्वसिष्ठश्चाग्नि र्दशमानुवाकेद्रप इति भगवान्नारद इत्यत्रिस्तुहि प्रतमितिवै यौघ्रः परिणो रुद्रस्येति भगवान् ततो वैराजस्ततः पुलहस्ततो नारदः ततश्चतुर्णां दुर्वासाः -- त आसमानैर्देवल इत्यृषयः -- अथ देवताः
-- असौयस्ताम्र इतिद्वयोरादित्यात्मा ।। 180

याते रुद्रेतिस्कंदात्मा - मानोमहंतमिति संदीस्वरात्मा :---
यात इषुरथ्यवो चन्नमो अस्तु नीलग्रीवायेत्यासां चतुर्थ पंचम षष्ठानुवाकानामारात्ते मीढुष्ठमेतिद्वयोश्च शंभुर्याते हेतिरिति तिस्रोरष्टमानुवाके नवमेच नमोवः किरिकांतं मानस्तोके परिणोरद्रस्येत्येषां च भगवान्वसिष्ठो नारदो रुद्र इति देवताः -- अथ छंदांस्यसौयस्ताम्र अवतत्ये तनयोरास्ता रपब्तरसौयोव सर्पती तिषट्पदा जगती -- इमा रुद्रायेति चतस्रो जगत्य आरात्त इति तिस्रस्त्रिष्टुभं मीढुष्टमेति पंचपदात्रिष्टुप् द्वितीयानुवाके महा गायत्री तृतीये बृहती चतुर्युष्णिक् -- पंचम षष्टयो र्महाविराट् सप्तमे महा पज्त्कि रष्टम नवमयो र्महात्रिष्टुप् शिष्टानि यजूंषि चंदांसि जपे विनियोगः । अथाभिषेके पंचांग रुद्राणां जपः --- होमार्चनविधि मिति बधायनोकैः -- प्रागुक्ताः पंचांगन्यासाभवंत्येव अथातो रुद्र स्नानार्चनविधिं व्याख्या स्याम इतिते नैवोक्ता प्रजनने ब्रह्मतिष्ठ त्वित्यादि षष्ठन्यासोकैः षष्ठेपिधपति ततश्चसमुच्चयः तेनाग्नि र्मेवाचि ित्याद्यैर्थथा लिंगमंगानि संस्पृश्वेत्यंतं प्रागुक्तन्यास षट्कंकृत्वा -- आराधितो मनुष्यैः स्त्वंसिद्दै र्देवासुरादिभिः -- आराधयामि भक्त्यातां मां ग्रहाणमहेश्वरेति मनसावाह्य गंधाद्यैः पंचोपचारै स्संपूज्य -- त्रिंबकं यजामहे इत्यथैन माराधयेत् -- आवाहनाबिन्नान् पंचषड्वा त्र्यंबकं यदामह इत्यावाह्याधैव माराधयेत् -- आवाहन हीना पंचषड्वा त्र्यंबकमित्यने नावाहनं कुर्या दित्यर्थः --- आत्वावहंतु हरयः सचेतनः श्वेतरश्वैसह केतुमद्भिः वाताजिवैर्बलवद्भि र्मनोजवै रायाहि श्रीघ्रं ममहव्याय शर्वोमिति दक्षिणनासायां पुष्पेणपीठस्थॆलिंगे संयोज्यावाह्य सद्योजातं प्रपद्यामी त्यावाहनं दद्यादिति -- त्रिंबकं सद्योजाचायपै नमो नम इत्यासनं । त्रिंबकं भवे भवेनाति भवे भवस्वमा मिति पाद्यं । त्रिंबकं भवोद्भवाय नम इत्यब्लिंगाभिश्च स्नानं ।। 181
आपोहिष्ठेत्यादिभिः । आथाद्भिस्तर्पयति ।। भवं देवंतर्पयामि । शर्वं देवंत । ईशानं देवं तर्प । वशुपतिं देवं तर्प । रुद्रं देवं तर्प । त्र्यिंबकं ज्येष्ठायनम इत्याचमनीयं । त्र्यंबकं श्रेष्ठाय नम इति मदुपर्कं । त्र्यंबकं रुद्रयनम इति गंधं । त्र्यंबकं कालयनम इति पुष्पं । कलवि करणाय नम इति धूपं । बलि निकरणाय नम इति दिपं । बलाय नम इति नै वेद्यं ।। 182
बल प्रमधनाय नम इति तांबूलं । सर्वभूत दमनायनम इति नीराजनं । मनोस्मनाय नम इति मस्त्र पुष्पं । अघोरेभ्य इत्यृचा नमस्कारः ।। 183
सर्वत्र त्र्यंबकस्यावृतिः । अथाषौ पुष्पाणि । भवाय देवाय नमः शर्वायदेवाय ।
ईशानाय देवाय । पशुपतये देवाय । रुद्राय देवाय ।। 184
उग्राय देवाय भमाय देवाय । महाते देवाय नम इति । अथास्या गोरेभ्य इति त्रिभिः सदाशिवो मित्येतैर घोरतनुरुपतिष्ठते -- अदैतस्य हिरण्येन मूर्द्नि कलशेन संतत धारां निषिंचेत् । मधुना सर्पिषापयसाचेक्षु रसेन नारकेळेणाम्रर सेनवा तद लाभे उदके नवा - नमस्ते रुद्र मन्यव इत्येकादशा नामनुवाकाना मग्ना निष्णूसजोषस इत्येकैक मनुवाकं जपेत्सर्वेषां वारे वारे पुनरा राधये दुत्तमाराधनं । पापक्षयार्धी व्यादि योचनार्धी श्रीकाम श्शान्ति कामः पुत्र कामः पुष्टि कामो योक्षार्धीच कुर्या देवं कुर्वन्सिद्धि मवाप्नोत्या चार्याय दक्षिणां ददाति दशगावः सवत्सा ।। सुवर्णभूषिता वृष एकादशस्तद लाभे एकांगां दद्यादत्याह भगवान् बोधायनः ।।
185

अथ महास्नान ः--
हेमाद्रौ लैंगे । सानं फलं शतं ज्ञेय मभ्मंगः पंचविंशति।फलानां द्वि सहस्रंतु महास्नानं प्रकीर्ततं ।। 186
स्माप्य लिंगंच मधुनागव्ये नै वघृ तेनच।
विशोथ्य सर्वद्रव्यै न्तु परभिषिच्यच ।
महास्पाने प्रस क्तेतु स्नान मष्टगुणं न्मृ तं ।
जलेन केवलेनै व गंधतोयेन शक्तितः ।
आलेपनंच तत्सर्वं पंच विंशत्पलेनवै ।
शमीपत्रंच विधिवा बिल्वपत्रंच पंकजं ।
दशद्रोणैस्तु नैवेद्य मष्टद्रोण मथापिवा ।
दशद्रोण समं पुण्य माढकेतु विधीयते ।
वित्तहानस्य भक्तस्य नात्रकार्या विचारणा :---
जाग रंकारयेत्तत्र पार्थयेत्तु यथा क्रमं ।
नृत्यैः प्रदक्षिणै स्सर्धं प्रार्थ्य लिंगं महेश्वरं ।
द्रव्यहीनैः र्मंत्रहीनै श्रद्दाहिनै स्सुरेश्वरि ।
कृतंचान्य कृतंचापिक्षंतु मर्हसि शंकर ।
अत्र विशेषोव्रत कमालाकरे ज्ञेयं ।। 187
इति महान्यास स्नानं.

अ थ रु द्र हो म ः

अथ रुद्रहोमः -- सद्वेधा :---
नमग्रहोमः प्रथानभूतो जपांग भूतश्चेति -- तत्राद्ये मूलं ।। जपहोमार्चन विधिं व्याख्यास्यामः । रुध्रहोमः । पराशांतिः पायसे घृतेन वेत्यादि बोधायन विष्णुधर्मादि वचनं प्रागुक्तं । अंगभूतस्तु दशांश होमश्शतांशश्च । सतिलाद्यैः कार्य इति महार्णवः । अत्र यद्यपितेन मूलं नोक्तं तधापि अस्य मंत्र जप सामान्यतोक्तर । आज्यं द्रव्यमनादेशे होमेतु प्रविधीयते जप सामान्यतोक्तं । आज्यं द्रव्यमनादेशे होमेतु प्रविधीयते इति सामान्यवचना दाज्यं नस्यात् । तत्तु तिलद्रव्यके मानमप्ति अतेएव हेमाद्रिणा रुद्र जपांग होमोवाचक एवोक्तोनतु दशांशादि यथाह ।। तत्रैव बोधायनः ।। ततोहोमं प्रकुर्वीत नमश्शंभव मंत्रतः । रुदैकादशिनी प्रोक्तं त्रय स्त्रिंशदथाहुतीः । लघुरुद्रेच चत्वारः चत्वारश्च महारुद्रौ सहस्रस्सप्तवर्जिताः । चत्वारिंश त्सहस्राश्च कर्तव्याश्च तधोत्तरा । ऊनाश्च सप्त सप्त त्याहुतु रुद्रे विनिश्चयः । सचहोमो नमश्शंभवेति मंत्रेण कार्यमिति हेमाद्रिः । सचपूर्वोक्त विष्णुधर्मोकैः ।। पायसेन घृतेनवा कार्यमितियुक्तं प्रतिभाति । तेन होमाद्रिमते मंत्र विभाग एवनास्ति । अयंच जपांगहोम एव ।। जप्ये इति सप्तम्या मिति मंद्रपायणीया मितिवदरीत्याव गतेः । प्रधान भूत समग्र होमेतु अस्यां संभवात् । महर्णवोक्तः प्रतिसूक्तं कल्पसूत्रादिषु चयनप्रकरणोक्त एव मंत्रविभागो ग्राह्यः ।। महार्णवेनतु प्रधाने समग्रहोमे मंत्रविभागस्या पश्यकत्वाज्जपांगे अयमेव ग्राह्यः ।। क्लुप्ततद्वादपेक्षि तत्वाच्चोक्तं । शिष्टैश्चामेवाधृतः स इदानी मुच्यते ।। तत्र मंत्र विभागः । पंचधात्रेधा षोडसधा अष्टशत्वारिंश त्पक्षः । एकोन सप्तत्युत्तर शतपक्षश्चेति ।। आद्यः प्रति मंत्रपक्ष इत्युच्यते । तत्राद्याश्चरमाया मिष्टकायां जुहोति त्रय इमेकोभागः । अपरं चतुष्कुं द्वितीयोभागः । अंत्यानुवाकत्रयं तृतीयोभाग इत्यय मेकपक्षः । यद्वा । समस्ते रुध्रेत्यारभ्य सभा पतिभ्यश्चवो नमस्तेन रुद्रमस्यव इत्येतानमवाकांस्त्रॆथा विभज्येति अत्र द्वौपक्षौ । आद्यानुवाक चतुष्कमोकोभागः । अपरं चतुष्कं द्वितीयोभागः । अंत्यानुवाकत्रयं तृतीयोभाग इत्यय मेकपक्षः । यद्वा । नमस्ते रुद्रेत्यारभय सभा पतिभ्यश्चवो नम इत्यंत एकोभागः । नमो अश्वेभ्य इत्यादि वार्याय चेत्यंतो द्वितीय । नमः प्रतरण येत्यादिरासमाप्ते स्तृतीयः । षोडविभागस्तुतिस्र उत्तरा आहुती र्जुहोति षट्संपद्यंते षड्वाऋतव इति श्रुत्योकै । सचाशीत्यां च स्वाहाकारेत्याना षोढा विभाग उक्तः । यधा आपिवा प्रधमादुपक्रम्य नमस्तक्षभ्य इति जानुदघ्ने जलेस्थित्वा जुहोतीति । रथकारेभ्यश्चव इत्युपक्रम्य नमः स्वायुधा येति नाधदघ्ने ।। शेषेण प्रागवतारिदाद्भ्यश्च अस्यदघ्नेहुत्वा । सहस्राणि सहस्रश इति दशानुषंगवतान् हुत्वा न्वारोहान् जुहोति । नमो रुद्रेभ्योये पृथिव्यां येषामन्न मिति जानुधघ्नं धारयमाणो नमो रुद्रेभ्यो योन्तरिक्षे
योषां वात इति नाभिदघ्ने नमो रुद्रेभ्योयॆ दिवियेषां वर्षमित्यास्यदघ्ने जुहोतीत्येते त्रयः पक्षाः प्रचरंति । अथ अष्टचत्वारिंश त्पक्षः । अत्राद्यानुवाके पंचदश मंत्राः । ततोष्टानुवाक अष्टायजूं क्षीतिकृत्सोरूक्तॆ नवमांतं त्रयोविंशतिः । दशमे द्वादशेति पंचत्रिंशत् । एकादशे दशमंःत्रीणि यजूंषीति त्रयोदसे त्यष्टा चत्वारि शत् । तदयं संग्रहः । संग्रहः । आद्ये पंचदशप्रोक्ता दशमे द्वादशस्मृताः । एकादशेग्नि भूम्यस्युरष्टशिष्ट यजूंषिच । प्रतिमंत्र पक्षेत्वेकोपसप्तत्युत्तर शतमंत्राः । तत्र प्रधमानुवाके पंचदश मंत्राः । द्वितीये त्रयोदश तृतीये चतुर्धयोः प्रत्येकं सप्तदश एते द्वितीयादि चतुर्थ्यंत मुभयतो नमस्कार मंत्राः । पंचमषष्टयोः प्रत्येकं पंचदश मंत्राः । सप्तमे षोडश्च । अष्टमे सप्तदश । नवम एकोनविंशतिः ।। एषु पंचमादि नवमांतेषु पुरस्तान्नमस्कारमंत्राः । तत्र देवानाग्ं हृदयेभ्य इत्यस्योत्तर मंत्र चतुष्टयोनुषंगः । अयंच होमादावेव एवं विभज्यप्रयोगः । जपाभिषेकादौतु विभागाभावा द्यथाध्ययनं पाठः । एव मन्यत्राप्यनुषंगो ज्ञेयः । दशमे द्वादशमंत्राः ।। एकादशे त्रयोदशेति । यत्तु शाकपूर्णिः द्वितीयादि नवमांतानुवाकेषु नमस्कारादि नमस्कारांतं यजुरित्याह । तत्रो भयतो नमस्कारेषु स्पप्टोपभागः । मंत्रैको नमश्शब्दः यथा -- नमोभवायच रुद्रायच नमः शर्वामोत्राद्रौ । तत्र द्वितीये नमः शब्दः पूरवस्यां तत्वेन द्वितीयस्यादित्येनचका काक्षिप दुभयत्र संबध्यते --- यद्वा द्वितीय तृतीय चतुर्थानुवाक परं । यच्चयास्कः नमस्काराद्येकं यजुरिति । तत्पंचमादि सवमांतपरमिति महार्णवः ।।

तदयं संग्रहः :---
बाणेंदवो 15 वह्निभुवो 13 श्वभूम्मों 17 नगेंदवः 17 पंचदशे 15 षुभूमयः 17 ।। नृपाश्वभूम्यों 19 कभूवोथ भास्करा 12 विश्वे 14 समस्ता ग्रह भूमयः 169 स्मृताः । एते विभागाना मंकेष्वेव चमकेषुत्वाह बोधायनः ।। अग्ना पिष्णू सजोषन इति चतुर्गृहीतं हुत्वा वाजश्चमे प्रसवश्चम इति संततां वसोर्दारा जुहोत्या मंत्र समापनादिनि । मत्रः सर्मेचकाः आद्यासु वाकोवा । तेनाद्यर्चाहुत्वा सर्वैश्चमकै रेकाहुतिः प्रत्यनावाकांत मेकादहहुतयोवा । तेनद्वे आहुती द्वादशवा इदं वसोद्धारोक्त मप्यपेक्षि तत्वाद्दोमेपि ज्ञेयं । यद्वा एकादशा नमनुवाका नामेक मेकं जपेदिति बोधायनो क्तेर्यथा जपे एकैपिस्य चमकस्या वृत्तिः तधापि होमेपिते नाद्य चमकेन सर्वेण हुत्वान्यैः प्रत्येक मित्येका दशाहुतय इति पक्षत्रयं महार्णवे उक्तं । अत्र त्रेधा विभागादि नाशतांशे नगहोमस्यचारा भावाद्दशांश होमे समग्रहोमे चाष्टाचत्वारिंशत्पक्षे प्रति मंत्र होम पक्षेचाहुति संख्योच्यते तत्रैक रूपो दशांश होमो नाशंक्य एव विभागा भावा देकादशिन्यात्वेकेन रूपेणहोमः । शिष्टेकरूपे विभागायोगान्न दशांश होम एमहा न्रूद्रा दावपीति महर्णवः । अस्मद्दुर स्त्वष्टा चत्वारिंशत्पक्षे वंचाहुतयः ।। प्रोत मित्र पक्षंच
सप्तदशाहुतयः ।। आद्यैर्मंत्रैः कार्यः । अन्ताल्लोपो विवृद्धिर्मेताप स्तंभोक्तेरित्याहुः । यत्तु यत्र त्रिबिपालो सवकपाल इति संख्याश्रुतात त्रैव । अत्र तदभावान्न तद्युक्तं । अत एव सम विभागा भावा स्मूलाभावाच्च होमाद्र्युक्ता वाचनिक एव नमश्शंभवेति मूलमंत्रेण होमोनतु दशांशे नेत्यस्माभि र्महर्णव मंगीकृत्य तूच्यते । तत्र माकाः श्लोकाः ।। रुद्रे दशांशेष्टा चत्वारिंशत्पक्षेख वेदकाः । समग्र होमे तत्रैवख वेद शर संख्यया 549 - प्रनि मंत्रैर्दशांशेतुखाद्रि चंद्राहुती र्हुनेत् 170 -- प्रनि मंत्रे सर्व होमे शराद्रिवसु चंद्रमाः 1475 --- इति रुद्रैका दशिन्यां संख्या । लक्ष रुद्रे दशंशेतुखांक बाणाहुतीर्हुनेत् 590 --- नमग्रहौमेव दाम्यहं -- चंद्राद्रि शरखयूग्मा -- 20571 -- लघु रुद्रेत्विदं स्मृतं -- इति ।। लघरुद्रे महारुद्रे दशांशेत्वाहुतीर्हुनेत् । षट्सहस्र शरशतीश्चत्वारिंश द्दशांशके --- 6540 --- तत्रैव सर्वहोमेतु खलेदागनि शरर्तवः ---65340 -- प्रतिमंत्रे महा रुद्रे दशांशेत्वा हुतीर्हुनेत् । द्वाविंशति सहस्राणिषट् शतानि दशैवच ।। 22610 -- प्रति मंत्रं महा रुद्रे सर्वहोमे ददाम्यहं । लक्ष द्वयं सहस्राणि षड़्विंशति रथापिच ।। द्वेशते सप्ततिश्चैकाधिका संख्येय मीरिता --- 226271 --- इति महा रुद्रे होम संख्या । अथाति रुद्रेष्टा चत्वारिंश त्पक्षे दशांशके । एक सप्तति सहस्राण्य शीत्यं ताष्ट शत्यपि --- 71880 - प्रति मंत्रं दशांशेतु सार्थ चतुश्शती । प्रति मंत्रं सर्वहोमे पंचविंशति लक्षकाः । एकादश सहस्रोनास्त्वति रुद्रे समीरिताः ।। क्वचिदल्पातरं तत्र नगण्यं सूरिभिर्मम । इदं तैत्तीय शाखोक्तं । वाजसनेय काण्वादि शाखिनांतु प्रति मंत्र पक्षे षष्ट्युत्तर शत विभागाsन्न्यून संख्या नमश्शंभवेतिवा होमे ज्ञेयः । इयं वसोर्धारा सहिताहुति संख्या । घृत तुंभैर्व सोर्धारां पातये दनलोपरि । औदुंबरी मथा र्द्रांच ऋब्वींकोटर वर्जितां । बाहु मात्रां सृचं कृत्वा ततस्तंभद्वयोपरि । घृत धारांत याप्याज्यमग्नेरुपरिपातयेत् । श्रावये त्सूक्तमाग्नेयं वैष्णवं रौद्र मैंदवं । महा वैश्वानरं साम ज्येष्ठ सामंच पाठयेदिति मात्स्योक्ते ।। 1 ।। आग्नेय सूक्तादि प्रागुक्त बोधयनोक्ते स्सर्व चमकांते ज्ञेयं ।। 2 ।। वसोर्द्रारायद्यपि मात्स्ये लक्षहोम एवोक्ता । तथापिचयने दृष्टत्वा त्फलहेतुत्वाच्च रुद्रेकार्येति महार्णवः । सचपूर्णाहुत्यनंतरं कार्यः ।। 3 ।।

ळौनकोपि :----

आयाश्चेत्यादि भिर्वुत्वा समुद्रा दूर्मिसूक्ततः । संततमाज्य धारांतं पूर्णाहुति मथाचरेत् -- अत्रपूर्णाहुतेरु पर्याज्यधारा तूष्णीं देयेति केचित् । वसोर्धारा परमितितु युक्तं । अत एव हेमाद्रौ मदन रत्नेच शांतिकांडे देवीपूराणेच वसोर्धारोत्पत्ति मुक्त्वा सर्वत्र सोक्ता । अत्रहोम संख्याव शात्कुंडं कार्यं । तदुक्तं भविष्ये --- रत्नि मात्रं
शतार्धेतु शतेचारत्नि मात्रकं ।। 4 ।। सहस्रेत्वथ होतव्ये कुर्यात्कुंडं करात्मकं । द्विहस्तमयुते तद्वल्लक्षहोमे चतुष्करं । दश लक्षमिते होमे षट्करं संप्रचक्षते ।। यत्तुमात्स्ये --- द्विहस्तविस्तृतं तद्वच्चतुर्हुस्ताय तनं पुनः । लक्षहोमे भवेतुंडं योनिवक्त्रं त्रिमेखलं । तत्रि शीघ्रदाहिघृतदौ द्विहस्तं लक्षहोमे ज्ञेयं ।। 5 ।।
यवचर्वादौ चतुर्हस्तं --- सिद्धांतशेखरे :---
लक्षार्थे त्रितरंकुंडं चक्षहोमे चकुष्करं । कुंडं पंचकरं प्रोक्तं दशलक्षाहुतौ क्रमात् । षड्डस्तं लक्षविंशत्या कोट्यर्थेहस्त सप्तकमिति । अत्र । न्यूनसंख्यादि तेकुंडेsधिकोहोमो विधीयते ।।

इति कुंडरत्नाकरोकैः :-----
अंतराळिको होमो न्यूनसंख्योकै कुंडे कार्यः --- तच्च -- कुंडमैशान्यां मंटपमध्ये च वेदिः । तत्रैका वेदिकाकार्या यज्ञ मंटपमध्यतः । मध्य स्तंभांतरं यावत्तावन्माना करोच्च्रयेत् ।।

परशूरामो कैरितिकेचित् :----
प्रागुत्तरं समासाद्य प्रदेशं मंटपश्यतु । शोभनंकारयेत्कुंडं यधावल्लि क्षणान्वित । मित्ययुत होमेमात्प्योक्ते । हेमाद्यादि लेखनाच्चैव भाति । अस्मद्गुरवस्तु । परशूरामोकै निर्मूलत्वात् । मध्येतु मंटपस्यापि कुंडं कुर्यादिक्षणः ।।

इति वृद्धवसिष्टोकैः :---
मात्स्येचपाक्पूर्व मंटपस्योत्तर मुत्कृष्टं मध्यम प्रदेशं प्राप्येत्यर्थान्मध्ये कुंडं । अन्यथा - गर्तस्योत्तर पूर्वेण वितस्तु छ्रायोसंमिता । पूर्वेत्तरे हस्तमिताहि वेदिर्ग्रहादि देवेश्वर पूजनायेति मात्स्ये बाधापत्तेश्च लक्षिहोमे तन्मध्ये कुंडं तद्विकृतित्वादित्याहुः । मध्ये वेदीश्च दिक्षातुलादावेव । नात्रउप योगाभावात् । रुद्रवेदिश्चैशाने ग्रहवेदेर्भिन्नाचार प्राप्तातांत्रिकीवास्तु । रुद्रस्य काम्यत्वेपि ग्रहमख विकृतित्वे भवति ।।

यत्तु परशुरामः :----
मंटपोष्ट गुणात्कुंडं होमानुसारत इति । सचतुर्हस्ते कुंडे द्वात्रिंशद्दस्तस्य मंटपस्य क्वापनुक्ते र्निर्मूलोमुर्खाचारश्चे । त्युपेक्षः अत्रकेचिद्वाधा रुद्रमाहुः ।।

यधोक्तं स्कांदे :---
प्रणम्य जगतामीश मुमादेहार्थधारिणं । यंत्रोद्धार महं वक्ष्ये रुद्रकल्पानुसारतः । मध्येवृत्तं समालिख्य तन्मध्येच दशाक्षरं । बहिरष्टदळं पद्मं ततः षोडशपत्रकं । चतुर्विंशति पत्रं तद्द्वात्रिंशत्पत्रकं तथा । चत्वारिंश त्वत्रकंतु वृत्तं सूर्यस्तम प्रभं । पंचद्मात्मकं वृत्तं चतुस्रंतु भागृहं । सत्वं रजस्तमश्चेति त्रिगुणैः परितोवृतं ।। चतुर्द्वारं द्वारदेशे बहिर्नाग समावृतं । चत्वारिंश च्छतंचैकं देवतानांतु विन्यसेत् । सोयं दशाक्षरोमंत्रः सर्वकामार्थसिद्धिदः । प्रणवादि नमोंतानि पंचास्यानि ततः परं । सद्योजातं वामदेव मघोरं तदनंतरं । ततस्तत्पुरुषंप्रोक्त मीशानं पंचमंक्रमात् । दळेष्वष्टसुनं द्यादीन् पूर्वादि क्रमतोन्यसेत् । पूज्य पूजकयोर्मध्ये प्राचीस्याद्यंत्रलेखने । आदौ संदीं महाकालं गणेशं वृषभं क्रमात् । अनंतरं भृंगिरिटं स्कंदो माचंडसंज्ञकान् । षोडशारे ततः पद्मे द्वितीयावरणं यजेत् । अनंतं च तथा सूक्ष्मं शिवंचैक तदं तथा । एकरुद्रं त्रिमूर्तिंच शीकंठं वामदेवकं । ज्येष्टं श्रोष्ठं तथा । तृतीयावरणेपद्मे चतुर्विंशद्दळे तथा । अणिमामहिमा चेति लघिमागरिमा तथा । प्राप्तिः प्राकाम्यमीशत्वं वशित्वं चाष्चसिद्धयः । ततः पंरक्रमेणैव न्यसेद्भ्राह्म्यदि देवतां । ब्राह्मी महीश्वरीचैव कौमारी वैष्णवीतथा । वाराहैंद्रीच चामुंडा चंडिका चेतिताः क्रमाते । असितांगो रुरुश्चंडः क्रोध उन्मत्तभैरवः । कालभीषण संहार भैरवाष्टा प्रकीर्तिताः । द्वात्रिंशत्पत्रिके पूर्वं भवाष्टक मुदाहृतं । भवश्शळवेळान पशुपति रुद्रोगभीमकाः । महां च्चैवेति विख्याता भवाद्यष्टा प्रकीर्तिताः । ततोनंतो वासुकिश्च तक्षकश्च कुळीरकः । कार्कोटक श्शंखपालः कंळोश्वतरस्तथा । ततोष्टमसुन्यसे द्वैन्यं पृधुर्हैहय मर्जुनं शाकुंतलेयं भरतं नळं राम मिति क्रमात् । ततः कुलाचला नष्टादळे ष्वष्टसुविन्यसेत् । हिमवान्निषधोविंध्यो माल्यावान् पारयात्रकः । मलयो हेमकूटश्ट गंधमादन संज्ञिकः । चतुर्थावरणेष्वेव पंचमावरणे ततः । चत्वा रिंशद्दळे पद्मेपंचमावरणेन्यसेत् । इंद्राद्यष्टौलोकपालौ नष्टसुक्र मळोलिभेत् -- इदमग्निं यमंचैव निऋतिं वरुणं तधा । वायुं कुबेरमीशानं दळे ष्वष्टसुविन्यसेत् ।। इंद्रादिलोकपाला नामष्टशक्त्या स्ततोन्यसेत् । शची स्वाहा च वाराही खड्गिनी वारुणी तधा । मृगारूढा च कौबेरी शूलिनीच तधाष्टमी । ततोष्टानामायुधानि वज्रादीन्य ष्टसुन्यसेत् ।। वज्रं शक्ति र्दंड खड्गौ पाशांकुश गधा अपि । त्रिशूलं लाकपालाना मायुधानि क्रमाल्लभेत् ।। ततोष्टौवाहनान्वेषा मष्टसुक्रमशो लभेत् । ऐरावतं तधा मेषं महिषं प्रेतनंज्ञिकं ।। मकरं च मृगंचैव नरंच वृषभं तथा । ऐरावतादयोव्यष्टौ दिग्गजा स्तदनंतरं ।। ऐरावतः पुंडरीको वामनः कमुदों जनः । पुष्पदंत स्सार्वभौमः स्सुप्रतीकश्च दिगगजाः ।। इंद्रादयोष्टौ दिक्पालाः पंचपद्मात्मकाद्बहिः ।। विरूपाक्षंतु विन्यस्येदाग्नेय्या मग्नियोगतः । नैऋत्यां नैऋतेयोगे विश्वरूपं च विन्यसेत् ।। वायव्यां वायुयोगे च लिभे त्पशुपतिं तथा उर्ध्वं लिंगं तथे शान्यां न्यसेदीशानयो गतः ।। प्रागादि क्रमतो
लेख्याः शेषाद्या भूगृहाद्बहिः । शेषं विन्यस्यपूर्वस्यां सहस्र फणि मंडितं ।। अग्नेयां तक्षकंचैव वारुण्यांयुतं सप्तशतैः फणैः ।। कंबळं चैव कौबेर्यां सप्तत्रिंश त्फणैर्युतं । कार्कोटकं तथे शान्यां श्वेतं त्रिंशत्फणान्वितं ।। रुद्रपीठ मिदंसर्वं रुद्रकृत्येषु च स्मृतं ।। शंभुनास्वयमाख्यातं भक्तानुग्रह काम्यया । कुंकु मागरु कर्पूप भर्जपत्रेथवा पठे ।। लिखितं पूजितं भक्त्या सर्व कामार्थसिद्धिदं । एता देवताश्चतुर्थ्यंत नमोतै स्तन्नाममंत्रै रावाह्यपूजयेत् ।।

अत्रमूलं चिंत्यं :---
तदैशान्यां रुद्र कलशं संस्थाप्य तत्र वरुणं संपूज्य रुद्रैकादशिनी जपार्धं विप्रं वृणुयादित्याहुर्वृद्थाः । ततो यज मानेनत्यागे कृते गृहेभयः सांगेभ्यो ग्रहयज्ञ वद्धुत्वा रुद्रहोमे हुते रुद्र पीठ देवतभ्य आज्यं हुत्वा स्विष्ट कृदादि प्राय श्चित्त होमांते दिक्पालेभ्यो नवग्रहदिभ्यश्च माष भक्तलीन् दत्वा समुद्रा दूर्मितितित्रिचेन मूर्धानं पुनस्त्वादित्या पूर्णादर्वी सप्ततेधामंते इति पूर्णाहुतिं हुत्वा पूर्वं चमकेन अग्नि मीळेति नवभिर्विष्णो र्नुकमिति षड्भिराते पितः पंचभिः स्वाधिष्टयेति दशभिः महावैश्वानर ज्येष्ठ सामभ्यांच वसोर्धारां कृत्वा पूर्णपात्र विमोकादि शेषं समाप्य ऋत्विग्भ्यो दक्षिणां दद्यात् --- अत्र पूर्णपात्र विमोकादि शेषं समाप्य ऋत्विग्भ्यो दक्षिणां दद्यात् --- अत्र रुद्र महन्यासे बोधायनोक्ता दक्षिणा सुवर्णो पथानंवा दद्यात् ऋषभो रुद्रस्य दक्षिणा । एकादशगां दद्यादिति शालिकः । उपधासं हैम तंतुकृत रूप्योपबर्हणं -- सौवर्णं शतं शतिच्चिद्रं रुद्रो लघु रुद्रः प्रकारास्तरेण दक्षिणा माह महार्णवः ।तत्र सौवर्ण निष्काणां दश साहस्रि कोत्तमा ।। तदर्थं मध्य माप्रोक्ता त्रितीया त्रिसहस्रिका । उत्तमात्रि शता वास्या द्विशती मध्यमामता ।। शत मात्राध माज्ञेया प्रकारः कीर्त्यते परः । उत्तमातु चतुष्षष्टी स्तदर्थं मध्यमामता ।। चतुर्विंशति रन्यस्या दथन्यो विधिस्थितिः ।। ततोग्रहादि कलशोदके नाभिषक्तो यजमानो गृहादीना मुत्तर पूजां कृत्वा विसृज्य ।। श्री रुद्र प्रतिमां स्वर्णमयीं वस्त्रयुगान्व ितां । श्री रुद्र प्रीतयेचापि प्राप्तानिष्ट स्वर्णमयीं वस्त्रयुगान्वितां । श्री रुद्र प्रीतयेचापि प्राप्तानिष्ट निवृत्तये । प्रार्थिताभीष्ट संसिद्ध्यै तुभ्यं श्री रुद्र रूपिणे । संप्रदद्यां विधानेन यथोक्त फलमस्तुमे ।। इति रुद्र प्रतिमा माचार्याय दत्वाग्निं संपूज्य विसृज्य विप्रान् रुद्रैकादशिन्यां त्रीनेकंचेति संभोज्य कर्मेश्वरार्पणं कुर्यादिति -- पुत्रार्थ महारुद्रे विशेषंत्वन पत्यत्व हर कर्मविपाके वक्ष्यामः । इतर मंत्र । प्रयोगा भाष्योक्ता भट्ट भास्करोक्ताश्च महार्ण वेज्ञेयाः । प्रचाराभावान्नोच्यंते ।।
इति श्री मन्नारायणभट्ट सूनु रामकृष्ण भट्टात्मज
कमलाकरभटटकृते शांतिरत्ने रुद्र विधानं समाप्तं.

वे द पा रा य ण म्

अथ वेदपारायणं :---
तत्रादौ कलशस्थापनाद्युक्तं महार्णे ।
तीर्धे देवालये गेहे प्रशस्ते सुपरिष्कृते ।। 1
कलशं सुदृडं तत्र सुविर्णिक्तं सुभूषितं ।
पुष्प पल्लव मालाभिश्चंदनैः कुंममादिभिः ।
मृत्तिका यवनं मिश्रं वेदि मध्येन्य सेत्ततः ।
पंचाशद्भिः कुळैकार्यो ब्रह्मा पश्चान्मुखः स्थितः ।
स्नापितः स्थापितं कुंभे चतुर्बाहु श्चतुर्मुखः ।
वत्सजान्वा कृतियेत्पशाय त्बूजा द्रव्य मधोच्यते ।। 2
ब्रह्मोपधानेदत्वाच ततः स्वस्त्ययनं पठेत् ।
प्रतिष्ठां कारयेत्पश्चा त्पूजा द्रव्य मधोच्यते ।। 3
यज्ञोपवीत नैवेद्य वस्त्र चंदन कुंकुमैः ।
स्रग्धूपदीप तांबुलै रक्षतैश्च पितामहं ।। 4
ब्रह्म जिज्ञानमिति वागाय त्र्यावा प्रपूजयेत् ।
उपाध्ययस्तु संपूज्य यथा पाठं पठेत्ततः ।। 5
ततो वक्ष्यमाणहोमादि कृत्वा पठेदित्यर्धः ।

तत्रैव बोधायनः :---
स्थंडिलं कल्पयित्वाग्नि मुप समाधाय परिस्तीर्याज्ये नैताभ्यो जुहोत्यग्नये सोमाय विश्वेभ्यो देवेभ्यो ब्रह्मणे ऋषिभ्य ऋग्भ्यो यजुर्भ्य स्सामभ्यः श्रद्दायै मेदायै धारणायै श्रियै ह्रियै सावित्र्यै सवित्रे प्रजापतये कांड ऋषये सोमाय कांडऋषये अग्नये कांडऋषये विश्वेभ्यो देवेभ्यः काण्ड ऋषिभ्य श्रानुमत्यै स्विष्टकृतेच पृथक् स्वाहा कारेण हुत्वा व्याहृती भिश्चहुत्वा पुनः परिषंचति । समासे चैतान् यजुषा तर्पयति । एवमृग्वेदस्यकांड ऋष्यादि वर्जमास्विष्ट कृतस्तेषां स्थाने शांतार्चिभ्यो माध्यमेभ्यो गृत्समदाय विश्वामित्राय वामदेवायात्रये भरद्वाजाय जामदग्न्याय गौतमाय वसिष्ठाय प्रगादेभ्यः पावमानेभ्यः क्षुद्र सूक्तेभ्यो महानाम्नीभ्य इति ततो वेदादि मारभ्य संतत मधीयीते त्याह भगवान् बोधायनः -- अथानश्नन्पारायण विधिं व्याख्यास्याम आसमाप्तेर्नाश्नी याद्यथाशक्तिर्वापयः फलान्योदनंवाहविष्य मात्र मन्नं भक्त्वा तद्रात्रौ शेष मधीयीत ग्रामात्प्राची मदी चींवादिश मुप निष्क्रम्य अग्नि मुपसमाधाय
परिस्तीर्येध्म प्रदानाद्यग्नि मुखान्तेज्येनै ताभ्यो देवताभ्यो जुहोत्यग्नये सोमायेंद्रय प्रजा पतये बृहस्पतये विश्वेभ्यो देवेभ्यो ब्रह्मणे ऋषिभ्यो ऋग्भ्योयजुर्भ्यः श्रद्धायै प्रज्ञायै धारणायै मेधयै सदस्पतयेसु मतये श्रियै ह्रियै सावित्त्र्यॆ सवित्रे प्रजापतये सोमायाग्नयेकांड ऋषये विश्वेभ्यो देवेभ्यः कांड ऋषिभ्यः सांहितीभ्यो देवताभ्य उपनिद्भ्यो याज्ञिवेभ्यो देवताभ्य उपनिषध्भ्यो वारुणिभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्यो उपनिषध्भ्यो वारुणीभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्यो देवेभ्यो उपनिषध्भ्यो वारुणिभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्यो देवेभ्यो नुमत्यैस्विष्टकृतेच पृथक्स्वाहा कारेण हुत्वा व्याहृतीबिश्चपुनः परिषिंचति समास्ते चैता यजुषा तर्पयति अन्ते एवाग्नीषो माद्या यजुषा यजुर्वेदेन सहतर्पयेत् ।। 6
यद्वा भूदेवान् तर्पमामीत्यादि यजुषा तर्पयित्वाग्न्यादीं स्तर्पयेदित्याह महार्णवे ।। 7
एव मृग्वेदिनांकांड ऋष्यादि वर्जमास्विष्ट कृतस्तेषां स्थाने शतिर्चिभ्य इत्यादि महानाम्मीभ्य इत्यंतं प्राग्वत् । ततो वेदादि मारब्य संतत मधीयीता नास्यांत रानध्यायो नास्यांतरा जनन मरणे अशुचिः आशौच हेत्वार्थः -- नांतरव्य वहरेद्यत्र विरमेद्याव दस्तमधीयीत । यावत्पर्यंतं पठेत्ता वन्मध्येन निरमेन्नान्यच्चव देदित्यर्थः । यदन्तरा विरमेत्त्रिन् प्राणानायम्य प्रणवंवा वदन्विप्रेणवदेत यावत्काल मधीयूत । ततः सर्व निशां निशांतरं संग्रामारण्य सलिलंलोप्य परिधध्यात् । निशान्तरं संध्यानिशादीन् लोप्य विहाय समापयेदित्यर्थः । आदावन्तेच ब्राह्मण भोजनं दक्षिणांच दद्यात् । यएतेन विधिनावेद मधीयत सततः पूतो वेदो भवति मनश्शुद्धिश्च भवति । वेदरूपो भवतीत्यर्थः । द्वाभ्यां पारायणाभ्या मृग्भिश्च भोजन इहानृतेभ्यः प्रमुच्यते --- त्रिभिः पतनीयेभ्यः शूद्यां रेतस्सिक्तौ गंगाप्सुनि मज्य पूतो भवति चतुर्भिः पारा यणैः । शूद्रान्नभोजनात्तत्त्सी सेवनाच्च पंचभिर याज्य याजना दग्राह्य ग्रहणात् । षड़्भिः ब्राह्मण स्वहरणात् स्त्रिलोहित करणात् पशुहननात्सुवर्णस्ते यात्पतित संयोगाच्च सस्तभिः प्राजापत्यसय् हीनाचरणागद्यज्ञोप बंधनाच्चाष्टभिश्चांद्रायणस्य गुरुतल्प गमनाद्र जस्वलागमनाच्च नवभिः सुरापानाद्दशभिर सोमपाना देकादशभि ब्रह्म हननाद्द्वादशभिः पूर्व जन्मेह जन्मनिच कृतै स्सर्त्वॆः पापैः प्रमुच्यते स्वर्गलोकं गच्छत्यग्निष्टोमादि क्रतु भिरिष्टं भवति । वेदाध्यायी सदै वस्यादपाप्मा सत्यवाक् शुचिः । यं यं कामयते कामं तं तंवेदेन साधयेत् । असाद्यं नास्ति यत्किंचि द्ब्रह्मणोहि फलं महदिति ।। 8

ऋग्विधाने :---
आदावेवतु सावित्र्या कर्म कुर्वीतशांतये । तुष्टये पशुलभाय धनलाभाय भूपते एषाहि संहिता देवैः सर्व ब्रह्म मयीत्रि वृत् । उग्रेण तपसादृष्टा विश्वामित्रेण धीमता । होमांश्च जपयज्ञांश्च नित्यं कुर्वीतवै तधा । सर्वकाम समृधर्धं परं ब्रह्मेच मुच्यते । एषैव प्रतिलोमोक्तः पच्चः शत्रु विनाशिनी । अक्षर प्रतिलोमेच त्विभिचारेषुशस्यते । सर्व संहितया प्रत्यृचं होमः ।

आज्यैन तिलैवान् :----
आज्यं द्रव्यमनादेशे होमेषु तुविधीयते ।। 9

इति ब्रह्मोकैः :---
सर्वपापहरो होम स्तलैस्सर्वत्र शस्यत इति विष्णु धर्मोक्तरेच । शाता तपः । कृत्न्सो रुद्र त्रयं चैव वेदपारायणं तथा । तिलहोम सहस्रंच नममेतच्च तुष्टयं ।। 10
इति कमलाकरभट्टकृते वेद पारायणं.

जा त वे द स वि धा न ं

शौनकः :----
जातवेदस इत्येतत्सूक्तं सर्वार्थसाधनं ।
आयुरारोग्य सुखदं भूतिदं शतृनाशनं ।। 1
यद्यद्वांछतिवामर्त्य स्तत्तदाप्नोत्य संशयं ।
सूक्तेनानेन जुहुया च्छुक्लांबरदरः शुचिः ।। 2
जपेद्वा नियतोमंत्रं हविष्याशी जितेंद्रियः ।
पशु पुत्र धनार्धीच प्रत्येकं लक्षमभ्यसेत् ।। 3
कुंडेवा स्थंडिलेवापि होमं कुर्याद तंद्रितः ।
चतुरश्रं भवेत्कुंडं मेखलाद्वय संयुतं ।। 4
स्थंडिलाद्याज्यभागांतं यज्ञतंत्रं प्रकल्पयेत् ।
दुर्गामावाहयेत्कुंभे सायुदाष्टमहाभूजां ।। 5
नीलोत्पलदशश्यामां किरीटाद्यैर्विभूषितां ।
ततश्चाराध्यतां देवीं तस्मिन् तीर्थोदकान्विते ।। 6
आवाह्यानेन हविषा समिद्बिश्च पृथक् पृथक् ।
मंत्रेणानेन जुहुया दष्टोत्तर शताहुतीः ।। 7
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ।
उत्थायाथ जपेन्मंत्रमेतं श्रद्धा समन्वितः ।। 8

ऋग्विधाने :---
जातवेदस इत्यादि सदास्वस्त्ययनं पठेत् ।
दुर्गेपथि प्रयातस्य नास्यारिभ्यो भयं भवेत् ।। 9
राजकार्येद्विषद्युधे अभिशस्तोप्यनेकधा ।
अशक्तो ब्राह्मणैः कार्योभये प्राणांतिकेपिवा ।। 10
जातवेदस इत्येतां जपं स्तेभ्यः प्रमुच्यते ।
सिसाधयिषुरित्थंच प्रस्थितो मनसा जपेत् ।। 11
सिध्यर्थं स्वस्तिमानेत च्चोरैर्बाध्येतनाद्वनि ।
कृतार्थः स्वगृहे तिष्ठन्नेतामेव सदाभ्यसेत् ।। 12
उदिते सवितर्येंताः जपेदस्तंगते तथा ।। 13
अह्निस्वस्त्ययनं शस्तं रात्रौ दुस्वप्नदर्शने ।
व्युप्टायां च जपन्नित्य मेतां दुस्वप्ननाशनी ।। 14
इति जातवेदस कल्पः.

त्व रि त रु द्र क ल्पः

अथ त्वरित रुद्रः :---
शिवपूजां विधाय संकल्पमूलेन प्राणानायम्य -- अस्य श्री त्वरित रुद्रमंत्रस्य अधर्वणऋषिः -- अनुष्टुप् छंदः --- त्वरित रुद्रोदेवता नम इति बीजं । अस्त्विति शक्तिः त्वरित रुद्रप्रीत्यर्थे जपे विनियोगः ।। अध मूलेनकरशुद्धिं कृत्वा प्रणवं करतलयोर्विन्यस्य षडंगं कुर्यात् ।।

तद्याथा :---
ओं यो रुद्रः अंगुष्ठाभ्यां नमः । ओं अग्नौ तर्जनीभ्यां नमः । ओं यो अप्सुमध्यमाभ्यां नमः । ओं यो ओषधीषु अनामिकाभ्यां नमः । ओं यो रुद्रो विश्वाभूवनाविवेश कनिष्टिकाभ्यां नमः । ओं तस्मै रुद्राय अस्तु करतलकरपृष्ठाभ्यां नमः ।

एवं हृदयादिन्यासः :---
ओं यो रुद्रो हृदयाय नमः । ओं यो अग्नौ शिरसे स्वाहा । ओं यो अप्सु शिखायैवषट् । ओं यो ओषथीषु कवचाय हुं -- ओं यो रुद्रो विश्वाभूवनाविवेश नेत्रत्रयाय वौषट् --- ओं तस्मै रुद्राय नमो अस्तु अस्त्राय फट् । इत्यस्त्रॆण दिर्बंधः ।।

अथ पादन्यासः :---
ओं यः पादाभ्यां नमः -- ओं रुद्रः जंघाभ्यां नमः --- ओं अग्नौ जानुभ्यां नमः । ओं यः ऊरुभ्यां नमः -- ओं अप्सु गुल्भाभ्यां नमः -- ओं यः मेड्राय नमः । ओं ओषथीषु नाभ्यै नमः -- ओं यः उदराय नमः -- ओं भुवनामुखाय नमः -- ओं विवेश नासिकायै नमः -- ओं तस्मै नेत्रत्रयाय नमः --- ओं रुद्राय भ्रूमध्याय नमः --- ओं नमः ललाटाय नमः -- ओं अस्तु शिरसे नमः ।।

अथ ध्यानं :---
रुद्रं चतुर्भुजं देवं त्रिनेत्रं वरदाभयं । दधान मूर्थ्व हस्ताभ्यां शूलं डमरुमेवच ।। अंकसंस्थामुमां पद्मे दधानांच करद्वये अधः करद्वये कुंभं मातुलिंगं च बिभ्रतीं ।।

एवं ध्यात्वा :---

एवं मूलमंत्रेणा वाहनादि षोडशोपचारै रभ्यरच नित्य मष्टोत्तरशतं जपेत् । एषते रुद्रभाग इति मुद्रा ।।

अथ होमविधिः :---
लिंगाभिमुख उपविश्य घृताहुती र्जुहुयात् -- एवं कृते पुरश्चरणं भवति घृताक्षतै र्मुक्तिकामः -- दूर्वाभिरयुष्कामः --कन्याकामोलोजैः -- अपामार्गै रर्धकामाः -- मधुपुष्पै र्वश्यकामः --- श्रीफलैः श्रीकामः -- सिद्धार्थै पुष्टिकामः -- गुडूचीखंडैर्ज्वरनिवृत्ति र्भवति -- उत्पलै र्दधिमधुघृतै रष्टसहस्रं जुहुयात् । यथेष्टा श्रीर्भवति -- बिल्वपत्रै र्दधिमधुघृताक्तै स्सहस्रहोमो ज्ज्वरं नाशयति -- शाल्मखी समिद्भिश्शशरुधिराक्तैः सहस्रं जुहुयात् शतृणां सद्योमरणं भवति -- अक्लि न्नवासा अर्काभि मुखः सहस्रं मासै कमात्रं जप्त्वा यक्ष राक्षस गंधर्वार्दीवशं नयति -- मासद्वाये नेंद्रादीन् वशं नयति -- मासेन ब्रह्मदिदेवाः समागच्छंति सनरो विरूपाक्षो भूतगणैः परिवृतो महादेवो
भवतीत्याहा भगवान् बोधायनमः ।।

हेमाद्रौ शांतिकांडे भीष्म उवाच :---
अथ त्वरित रुद्रस्य न्यासमुद्राः क्रमेणतं ।
जपहोमादिकं सर्वं कध्यते सर्वसिद्धये ।। 1
यस्य कुक्षौ जगत्सर्वं स्थापरं जंगमंचयत् ।
दुःखच्चिदे नमस्तस्त्मैब्रह्म विष्णु शिवात्मने ।। 2
छंदोनुष्टुबथर्वाच ऋषिस्त्वरित संज्ञके ।
देवतात्वरितोरुद्रो बीजं शक्तिर्नमोस्त्विति ।। 3
देवागारे नदीतीरे शुचौदेशे पिवाग्यतः ।
उपविश्य नियम्यास्त्रं संकल्प्य विधिमद्बुधः ।। 4
करयोरुभमैश्चैव मूलमंत्रेण विन्यसेत् ।
क्रमेणतु षडंगानां न्यासस्स्या र्दृदयादिभिः ।। 5
न्यासं मंत्रपदैः कुर्या त्पंचभिर्हुदयादिकं ।
योरुद्रो अग्नौ हृदिन्यस्य शीर्षियोsप्स्विति विन्यसेत् ।
विश्वा भूवनाविवेशेति नेत्रं वैसमुदाहृतं ।। 6
शेषेण कवचंसस्य व्याहृत्या बंधयेद्दिशः ।
अंगळ्यग्राणि मूलेन कृत्वांगुष्ठेनपीडयेत् ।। 7
सामुद्रा सुभगाप्रोक्ता ततोध्यानं समाचरत् ।
एषते रुद्रभागेति अंगमुद्रा प्रदर्शनं ।। 8
श्रीकामः शीर्ष्णिकुर्वीत तेजस्कामस्तु नेत्रयोः ।
मुखे त्वन्ना द्यकामस्तु ग्रीवायां रोगनाशनं ।। 9
हदये सुखकामस्तु नाभौ ज्ञानप्रदं भवेत् ।
प्रजाकामस्तु गुह्येवै पशुकामस्तु जंघयोः ।। 10
जान्वोस्तु ग्रामकामस्तु सर्वकामस्तु गुह्यके ।
वशीकरण कामस्तु वामबाहौ प्रदर्शयेत् ।। 11
पापक्षयेभिचारेवा व्याधेरपगमे तथा ।
बहिः शरीरात्कुर्वीत शिवस्याग्रेतु संस्मरेत् ।। 12
चतुर्भुजं त्रिनेत्रंच शुद्धस्फटिकसन्निभं ।
अमृतेनचपूर्णौद्वौ कलशौ हस्तयोर्ध्वयोः ।। 13
हस्तद्वयेन योगस्य कृतमुद्रं स्थिरासनं ।
सर्वकामप्रदं शांतं शंकरं करुणाकरं ।. 14
उग्रकर्मणिचै वोग्र मूर्तिं ध्याये दुमापतिं ।
द्विभुजं नागपाशं च शूलपाणिं जटाधरं ।। 15
एवं ध्यात्वा महादेवं नमस्तुभ्यर्च्यसु भक्तितः ।
अधश्शायीजितक्रोधा ब्रह्मचारी हविष्यभुक् ।। 16
अयुतेद्वे जपेत्पूर्वं प्रत्यहं पूजयेच्छिवं ।
जुहुयात्तु दशां शेन तदर्थांशेन तर्पणं ।। 17
मार्जनं तद्दशांशेन ततो ब्राह्मण भोजनं ।
पुरश्चरण मेवंच कृत्वा संपूज्य शंकरं ।
जपेत्त्वरित रुद्रंतु सर्नकाम फल प्रदं ।। 18
श्रीकामः शांति कामोवा जपेल्लक्ष मतंद्रितः ।
बैल्वै स्समिद्भिः श्रीकामः शांति कामः शमीमयैः ।। 19
जुहुया दाज्य संम्मिश्रै स्तर्पणं मार्जनं तधा ।
एवं सर्वेषु कामेषु होमांते जुहुयाद्यवैः ।। 20
जप्त्वा लक्षंतु पुत्रार्धी पायसं जुहुयात्ततः ।। 21
वित्तर्थं श्रीफलैर्मोम आयुर्वृधैच मार्नया ।
तिलै रप्याज्य संमिश्रै स्तेजस्कामो घृतेनवै ।। 22
व्रीहिभिः पशुकामस्तु राष्ट्रवेमस्तुवै यवैः ।
पायसै स्सर्वकामेषु होतव्यं शर्करान्वितं ।। 23
मध्वक्तान्याम्र पर्णानि तीव्र ज्वर विनाशने ।
महाभूताभाचारेवै गुडूची भिर्हुनेद्घृतं ।। 24
सर्वरोग विनाशाय सूर्यस्याभि मुखो जपेत् ।
आयुतेद्वे जपेद्धोमः कार्योर्कश कलै श्शुभैः ।। 25
औदुंबरैरन्न कामस्ते जस्कामस्तु खाधिरैः ।
अपामार्ग समिद्धोमा द्भूतभाधा विनश्यति ।। 26
गृहबाधा विनाशाय जपेदश्वद्ध सन्निधौ ।
लवणः शीत तीक्ष्णोग्र समिधोश्वत्थ संभवाः ।। 27
दध्यक्ताः समिध शुष्काः स्वाहांतं मंत्र मुच्चरेत् ।
दश पंचाहुतीर्हूत्वा गच्च गच्छेत्यु दीरयेत् ।। 28
यावद्दोमंबलिर्देयः पुरुषाहार संमितः ।
एवं कृते विमुच्येत पुमान् स्त्रीवा महाग्रहात् ।। 29
यंजेतु मिच्छेत्पुरुष स्तत्थानाभि मुखो जपेत् ।
जुहुयाच्छ तपत्राणि सदुष्टः क्षयमाप्नुयात् ।। 30
लाज होमेन कन्यार्थी कन्यां प्राप्नोति रूपिणीं ।
लाजाश्च मधु संयुक्ताः श्वेत पुष्पाणिवा पुनः ।
हूयंते हिरतैरन्नै स्तस्य विश्वं वशं भवेत् ।
वामांग मुन्नतं कृत्वा स्त्री वशीतु विचक्षणः ।
हस्त्यश्वमांद्य शांत्यर्थं तिलैश्चाज्येन संयुतैः ।
होमस्थानेतु संस्थाप्य कुंभमेकं जलान्वितं ।
मंत्रयित्वाष्ट साहस्रं चूत शाखांतु निक्षिपेत् ।
अभिषेकश्च त्तेनैषां शाखा प्रोक्तेः प्रदक्षिणं ।। 31
ग्रह ग्रामादि शांतिश्च सर्त्वैः कार्यातु पूर्ववत् ।
वास्तुपूजाच कर्तव्या एकाशीनि पदै श्शुभैः ।। 32
ईशानाय बलिं कार्यो भूतानां पतये तथा ।
एवं कृते पशूनांच प्रजानां शान्तिमाप्नुयात् ।। 33
अद्भुतेषुच सर्वेषु निशायां ग्राम बाह्यतः ।
उपविश्य जपे दुद्रं त्वरितं बलिखिस्सह ।। 34
होमः पालाश काष्ठैश्च कर्तव्योघृत संयुतैः ।
ईशानाय बलिं कार्यो यस्यां दिशित दद्भुतं ।। 35
तदाशा पतयेचैप पशूनां पतये तथा ।। 36
वृद्दिकामो जपेल्लक्षं तिलै र्होमं घृतान्वितैः ।
बलि पूजा प्रकर्तव्या शिवस्य वरुणस्यच ।
सर्वकामेषु चैवाथ त्वरितस्य जपोभवेत् ।। 37
अयुतद्वय मल्पेतु यावल्लक्षंतु नोधिके ।।
एवं कृतेतु सिद्धिस्यान्निष्कामः प्राप्नुयाच्चिवं ।
ऐहिकामुष्मिकान् भोगान् भुक्त्वा सायुज्य माप्नुयात् ।। 38
इति हेमाद्रौ शांति कांडे गांगेय प्रोक्तस्त्वरित रुद्र विधिः.

स्व प्न फ ला नि

अथ स्वप्नाः :----
तत्र दैवज्ञादीन् देवंच संपूज्येत्युक्ता अद्भुतसागरे परा शरः --- अभ्यर्च्य मंत्रैस्त्रु पुरोहितष्तु संयम्यत स्यांभुवि संयुता यां --- ब्रह्मेश पूर्वापरभाग पुष्पं कृत्वोपथानं शिरसि क्षितीशः --- तधैकभुग्धक्षिण पार्श्वशायी स्वप्नं परीक्षेत यधोपदेशं । नमः शंभो
त्रिनेत्राय वरदाभाय पाणये ।। वामनाय विरूपायस्वप्नाधि पतये नमः । भगवान् देवदेवेश शूल भृद्वृष वाहन -- इष्टा निष्टं ममाचक्ष्व स्वप्नेसुप्तस्य शाश्वतं -- एक वस्त्रः कुशास्तीर्णे सुप्तः प्रयत मानसः । निशांतेपश्यते स्वप्नं शुभं वाय दिवा शुभं ।। 1
शुभस्वप्नानाह बृहद्यात्रायां वराहः ।
शैल प्रासाद भागाश्च वृषभारोहणं हितं ।। 2
चंद्र तारा ग्रहाणांच परिमार्गण मेवच ।। 3
भूम्यं बुथीनां ग्रससं शत्रूणांच वध क्रिया ।
जयो विवाधो द्यूतेषु संग्रामेच तथा जयः ।। 4
भक्षणं चैव मांसानां मत्स्यानां पयसां तधा ।
दर्शनं रुधिरं स्यापि स्नानंवा रुधिरेणच ।। 5
सुरा रुधिर मांसानां पानं क्षिरस्य चैवहि ।
आंत्रेण वेष्टितं भूमौ निर्मलं गगनं तधा ।। 6
सुखेन दोहनं शस्तं महिषीणां तधा गवां ।
सिंहानां हस्तिनां चैव बडबानां तथैवच ।
प्रसादो देव विप्रेभ्यो गुरुभ्यश्च तथा शुभं ।
अंभसां त्वभि षेकश्च ज्ञेयं राज्यप्रदं हितत् ।। 7
राज्याभि षेकश्च तथा छेदनं शिरसोपिच ।
मरणं वह्निलाभश्च वह्निदाहो ग्रहदिषु ।। 8
तथोदकानां तरणं तधा विषम फलं घनं ।
हस्तिनी बडबानांच गवांच प्रसवो गृहे ।। 9
अरोहणं गजेंद्राणां रोदनंच तथा शुभं ।
परस्त्रीणां तथा लाभस्तथा लिगनमेवच ।
निगळैर्बंधनं धान्यं तधा विष्टनु लेपनं ।
बीजानां भूमिपालानां सुहृदामपि दर्शनं ।। 10
शुधान्येतानि प्रोक्तानि राज्यलाभ कराणिच

अद्भुतसागरे पराशरः :---
भद्धोवा निगळैर्ग्र सेच्च दहनं चासीस्थितो बाहुना छत्रं वा ।
द्विरदाद्रि रोहणं विधिर्दिव्योपिवा ब्राह्मणः ।। 11
दिनकर शशितारा भक्षणं स्पर्शनंवा विशरणमपि मूर्ध्नः सप्तपंच त्रिधावा -- वृषभ ग्रह नरेंद्र श्वेत सिह्मधिरोह ग्रसन मुदधि भूम्योर्बूमि राज्य प्रदानि । विपुल रण विमर्द
द्यूतवा दैर्जयश्च पशुमृग मनुजानां लब्धिरथ्यास नंच । विडशन परिलेपोsगम्य नारी गमोवा स्वमरण शिखिलाभस्सस्य संदर्शनंच ।। 12
सित सुरभि मनोज्ञालेप माल्यांबराणां द्विज सुरगुरु राज्ञां दर्शनान्याशिषश्च । मणि रजत सुवर्णं भोज्य पात्रेषु भुङ्कै घृत दधि परमान्नं सर्वमे तच्छुभंच ।।13

बृहस्पति संहितायां :----
यस्तुश्वेतेन सर्वेणदं शितो दक्षिणे भुजे ।
सहस्र लाभस्तस्यस्यात्पूर्णेतु दशमेदिने ।
उरगो वृश्चिकोवापि जंबुको दंशते यदि ।। 14
विजयंचार्थ सिद्धिंच पुत्रं तस्य विनिर्दिशेत् ।
बाला कांकु क्कुटीं क्रौंचीं लब्द्वायः प्रति बुध्यते ।। 15
क्रोशांतां लभते भूमिं भार्यांवा प्रियवादिनीं ।
रुधिरं पिबते स्वप्ने सुरांवा पिबति क्वचित् ।
ब्राह्मणो लभते विद्यामितरस्तु धनं लभेत् ।। 16
क्षीरं पिबतियः स्वप्नेन फेनं दोहनेकृते ।
सोम पानं भवेत्तस्य धनंवा बहुचादिशेत् ।। 17
दधिलाभे धनं तस्य घृतलाभे द्रुवं यशः ।। 18
घृत प्राशे महक्लेशो यशस्तु दधि भक्षणे।
गोधूमै र्वायवैर्वापि लाभं सिद्धार्दमेवच ।। 19
पुष्पेप्राप्ते धनं विद्या त्फलेवृद्धिरनुत्तमा ।। 20
आसने शयनेयाने शरीरेवाहने गृहे ।। 21
ज्वलमाने विबुध्येत तस्यश्रीः सर्वतोमुखीः ।। 22

वराहः :---
वृश्चिकादि दशनं मणि रत्न कांचनं कलशदीपकिशोराः ।
वत्सहंस शशकादयोर्भकलाभदः पशु गजाद लाभदः ।। 23

विष्णुधर्मे :---
एकस्यां यदिवारात्रौ शुभं वायदिवा शुभं ।
पश्चाद्दृश्ये त्तदा तत्र तस्यपाक विनिर्दिशेत् ।। 24

अथ दुस्वप्नाः -- अद्भुतसागरे देवलः :---
रक्तगंधांबरस्रग्वी गच्छेद्वा दक्षिणामुखः ।
खरोष्ट्र महिषारोहे त्रिमासान्नाधिजीवति ।। 25
श्वभ्रे योनिपतेत्स्वप्ने द्वारंवास्यापि धायते ।। 26
नचो तिप्तति यस्तस्मा त्तदंतं तस्य जीवितं ।। 27

मार्कंडेयः :---
वांत्यां मूत्रं पुरीषंतु सुवर्णं रजतं तधा ।। 28
प्रत्यत्र मद्यवास्वप्ने जिवेत दशमासिकं ।
केशांगारं तथा भस्म उरगं निर्जलां नदीं ।। 29
दृष्ट्वास्वप्ने दशाहंतु मृत्यु रेकादशेदिने ।
काराळै र्विकटैः कृष्णैः पुरुषै रुद्यतायथैः ।
पाषाणैस्ताडित स्स्वप्ने सद्योमृत्यु र्भवेद्द्रुवं ।। 30
रक्तकृष्णांबरधरा गायंती च तथा हसेत् ।
दक्षिणानां नयेन्नारी स्वप्नेसोपिन जीवति ।। 31

वराहः :---
हरिणोरोहे भ्रमणं मृत्य र्नरेण सूकरारोहे ।
उष्ट्रोरोहेवा वृद्धिस्या त्कुंजरारोहे ।। 32

वत्स्यो विष्णुधर्मेच :---
मलिनांबर धारित्वं अभ्यंगः पंकदिग्गता ।
उच्चात्प्रपतनंचैव डोलारोहणमेवच ।। 33
शक्रध्वजस्य पतनं पतनं शशि सूर्ययोः ।
देवद्विजादि भूपानां प्रजानां क्रोधएवच ।। 34
आलिंगनं कुमारीणां विधवानांच मैधुनं ।
हानिश्चैव स्वगोत्राणां वीरः कंठे मनःप्रिया ।
दक्षिणा शाभिगमनं व्यादिनाभि भवस्तथा ।। 35
फलोपहारश्च तथा शाड्वलानां विशोधनं ।
ग्रहणांचैव भंगश्च गृहसम्मार्जनं तथा ।। 36
क्रीडापिशाच क्रव्याद वानरा श्वतरैपरि ।
काषायवस्त्रचारित्वं तद्वित्क्रीडनकं तथा ।। 37
तैलपानश्चागरोह श्चवमाल्यानुलेपनं ।
एवमादीनिचान्यानि दुस्वप्नानिविनिर्दिशेत् ।। 38

पराशरः :---
कायस्या लेपनंवा कलुषजलनिपीतस्नेह ।
पक्वानिजग्धिजिह्वदंत प्रजाहुप्रवतन मधवानर्धशोकप्रदायि ।। 39

लैंगे :---
मुक्तकेशोहनंश्चैव गायंतं नृत्येते नरः ।। 40
याम्यां दिशमितोगच्छे त्तदंतं तस्य जिवितं ।। 41
अन्येव्युद्योग भीष्म द्रोण कर्णपर्व युद्धकांडादौ ।
भारत रामायणादौ ज्ञेयाः ।। 42

मात्स्येविष्णुधर्मो त्तरेच :---
स्वर्नेतु प्रधमेयामे वत्सरान्ते फलं भवेत् ।। 43
षड्भिर्मासै र्द्वितीयेच त्रिभिर्मानै स्त्रियामकेः ।
चतुर्थे मासमात्रेण फलं भावति नान्यथा ।। 44

पराशरः :---
पादद्विपादो त्तर पादवृध्या वर्षार्धमासत्रय मासकालाः ।
निशाविभागेन चतुर्षुदृष्टाः स्वाप्ना अनिष्टेष्ट फल प्रदाः स्युः ।। 45

वराहः :---
आद्येवर्षे वत्सरार्धे द्वितीयेपाको वर्षेर्धार्धभागे तृतीये ।
मासात्पाकश्शर्विरी पश्चिमांते स्वप्ने पाकन्सूरिभिस्संप्रदिष्टं ।। 46

दु स्व प्न शा न्तिः

पुरुषं कराळ दंतं पश्यतिस एनं हंति वराह एनं हंति मर्कट एन मास्कद यत्याशु वायुरेनं प्रवहति -- सुवर्णं खादयित्वा पगिरति भक्षयत्येकं पुंडरीकं कराळैः खरैर्वराहैर्युक्तैर्यानैर्याति कृष्णां धेनुं कृष्ण वत्सां वापश्यति नळदमाली दक्षिणामुखो व्रजति योयद्येतेषां किंचत्पश्येदु पोष्यसपाय नंस्थाली पाकं श्रपयित्वा रात्रि सूक्तेन प्रत्यृचं हुत्वान्ने नामेनवा विप्रान् भोजयित्वा चरुं स्वयं प्राश्नीयादिति अत्र लक्षहोमः
कार्यः गौस्वप्नाद्भुत दर्शन इति पूर्व मुक्तेः ।।

तथा चंडी पाठोपि :---
शांति कर्मणि सर्वत्र तधा दुःस्वप्न दर्शने ।
ग्रहपीडा सुचोग्रसु माहात्म्यं श्रुणु यान्मम ।। 1
दुस्वप्नंच नृभिर्धष्टं सुस्वप्न मुपजायते ।
इत्यादि मार्कंडेय पुराणात् ।। 2

पराशरः :---
देव द्विजादि प्रति पूजनानि मंत्रोपवासादिच विप्रसेवा ।
तिलान्न गो भूमि हिरण्य दावं दुस्वप्न हंतृणि पयश्चगांगः ।
तिलनाम युतं तत्रजुहुयात्तु समाहितः ।। 3
तिलोसीतिच मंत्रेण धेनुं दद्याच्च दक्षिणां ।
ब्राह्मणान् तर्पयेत्तत्र दक्षिणा भोजनादिना ।। 4
दानंच विविधंदेय मशुभानां निवृत्तये ।
षड्भिर्मासैस्तु संपूर्णैरन्यधा मरणं भवेत् ।। 5

मात्स्ये :---
स्तुतिंच वासुदेवस्य तधा तस्यच पूजनं ।
गजेंद्र योक्ष श्रवणं ज्ञेयं दुस्वप्न नाशनं ।। 6
विष्णु सहस्रनाम जपः पुण्यो दुस्वप्न नाशन इत्युक्तेः ।।

प्रयोग पारिजाते शौनकः :---
स्वप्नोत्पातेषु चैतेषु कालिकात्राधि देवता ।
पूजा विधानं पूर्वोक्तं कुर्या दत्रापि यत्नतः ।। 7
स्वप्नादि नाश मंत्रेण हुने दष्टोत्तरं शतं ।
होमं कुर्यात्प्रयत्नेन रात्रावेव द्विजोत्तमः ।। 8
प्रत्यृ चंपायसं हुत्वा रात्री व्यख्यादिति क्रमात् ।। 9
अष्टोत्तर शतं हुत्वा मंत्रेणानेन यत्नतः ।

कालरात्रि मंत्रेणे त्यर्थः :---
गुरवे दक्षिणां दद्या द्वस्त्रं हेम पशूनपि ।
यद्युक्त दक्षिणा दानेप्य शक्तो होमकर्मणि ।। 10
हिरण्यं दक्षिणां दद्यात्त दानीमेववा बुधः ।
वस्त्र कुंभादि सकलं तद्धोत्रे व्रतिपादयेत् ।। 11

सएव :---
यद्य निष्टफलं स्वप्ने पश्येत्तस्योच्यते विधिः ।
आद्यानोदेव सवितरित्यृचा पूर्वमेकया ।। 12
ततः परं परं यच्च दुन्वप्न स्वप्न पंचभिः ।
ऋग्भिः परं ततो होमे राजन्युज्ज्य इतित्यृचा ।। 13
ऋग्भि स्सर्वाभिरेताभिरु पतिष्ठेत भास्करं ।।
एवं कृते तुदुः स्वप्न दर्शनं निष्पलं भवेत् ।
अथ स्वप्नस्येति जपन् प्रातः प्रातर्दिने दिने ।। 14
दुस्वप्नंतु वदेत्कृत्स्नंन तस्माद्विंदते भयं ।

अत्रश्राद्दमपि कार्यं :---
श्राद्दार्ह द्रव्य संपत्तौ तथा दुस्वप्न दर्शने ।। 15
जन्मर्क्षे ग्रहपीडासु श्राद्धं कुर्वी तवेच्चयेति ।
पृथ्वी चंद्रोदये मार्कंडेय पुराण वचनात् ।
एत दस्माभि र्निर्णय सिधापुक्तं ।।
इति कमलाकर भट्टकृते शांतिरत्ने दुस्स्वप्न शांतिः.

वा स्तु शां तिः

अथ वास्तु शांतिः --- तत्कालोस्माभिर्नर्णयसिंधावुक्तः कश्चिदुच्यते ।।

नारदः :---
सौम्य फाल्गुण वैशाख माघ श्रावण कार्तिकाः ।
मानाःस्युर्ग्रहनिर्माणे पुत्रारोग्य धनप्रदाः ।। 1
बादरायणः :---
वैशाखे पाल्गुणे पौषे श्रावणे मार्गशीर्षके ।
गृहारंभ श्शिलान्नायसः स्तंभारंभः प्रशस्यते ।। 2

दै व ज्ञ व ल्ल भ ः :---
शोकं धान्यं पंचतानि ष्पशुत्वं स्वाप्तिंनिस्वं संगरं भृत्यनाशनं ।
स्वश्रीप्राप्तिं वह्निभीतिंच लक्ष्मीं कुर्याश्चैत्राद्या गृहारंभकाले ।। 3

मात्स्येतु :---
आषाढे भृत्यरत्नादि पशुवर्ग विनाशनं ।
मार्गशीर्षे तथा थान्यं पौषे तस्करतो भय ।
मित्याषाडो शुभः पौषश्चा शुभद उक्तः ।। 4

रत्नमालायां :---
कर्किनक्रहरि कुंभगतेर्के पूर्व पश्चिम मुखानि गृहाणि ।
तौलिमेष वृष वृश्चिकयाते दक्षिणो त्तर मुखानि वदंति ---

गर्गः :--
त्र्युत्तरामृग रोहिण्यां पुष्पे मैत्रेकरत्रये ।
धनिष्टा द्वितीये पौष्टे गृहारंभः प्रशस्यते ।। 5

मात्स्वे :---

आदित्य भौममर्जंतु सर्वेवाराः शुभावहाः ।
चंद्रादित्य बलं लभ्ध्वा लग्ने शुभनिरीक्षिते ।। 6
स्तंभोच्च्रायादि कर्तव्य मन्यत्तु परिवर्जयत् ।। 7
प्रासादेष्वेव मेवस्यात्कूप वापीषु चैवहि ।। 8
भूपरीक्षोक्तातत्रैव :---
अरत्निमात्र गरैवैस्वनु लिप्तेतु सर्वतः ।
घतमान शरस्थं कृत्वावर्ति चतुष्टयं ।
ज्वालये द्भूपरीक्षार्थं पूर्णं तत्पर्वतोदिशं ।। 9
दीप्तौ पूर्वादि गृह्णीयाद्वर्णानामानुपूरवशः ।
अरत्नि मात्रं गर्तंतु कृत्वा तत्खातपूरणे ।। 11
त्रिपंच सप्तरात्रेण यत्र रोहंतितान्यसि ।
ज्येष्ठोत्तरा कनिष्ठा भूर्वार्जनीयेतरामता ।। 12

व रा ह :---
दक्षिण पूर्वकोणे पूजांकृत्वा शिलांन्यसे त्प्रथमां ।
शेषाः प्रदक्षिणेन स्तंभाश्चैव समुद्धाप्याः ।। 13

लल्लः :---
स्थानं पाकशयनं च भोज्यं गजालयं वाजिगृहं धनस्य ।
देवस्य पूर्वादिदिशां क्रमेण मध्येसमा भूपनिवेशनाय ।। 14

अश्वलायन सूत्रे :---
यात्रापः सर्वतोमध्ये समेत्य प्रदक्षिणं शयनीयं ।
परित्यज्य प्राच्यः स्यंदेरन्न प्रवहत्यत्र सर्वंसमृद्धं ।। 15

वसिष्ठः :---
स्वगृहात्पश्चिमेभागे पितृव्या गजमंदिरं ।। 16

गर्गः :--
परकोणे परद्वारैः परस्तंभैः परद्रुमैः ।
कूपवृक्षादिभिच्चैव कृतंगेहं निरर्थकं ।। 17

नारदः :---
प्रवेशो मध्यमोज्ञेयः सौम्यकार्तिकमासयोः ।
माघ फाल्गुण वैशाख ज्येष्ठमासेषु शोभनः ।। 19

वसिष्ठः :---
कृत्वा सुक्रं पृषतो वामतोर्कं विप्रान् पूज्यप्यग्रतः पूर्णकुंभं ।
रम्यं हर्म्यं तोरणस्र ग्वितानैः स्त्रीभिस्सद्भिर्गीतवाद्यै र्विशेच्च ।। 20
लग्नात्प्रागादिकादिक्षु द्वौद्वौराशिं निवेशयेत् ।
एकमेकंन्यसेतोर्णेवामे शक्रं विचिंतयेत् ।। 21

नारद :---
अकवाटनाच्चन्न मदत्तबलि भोजनं ।
गृहंसप्रविशेद्दीमा नापदामाकरोहितत् ।। 22
मृत्पेटिका स्वर्णरत्न धान्य शैवालसंयुतां ।
ग्रहमद्ये हस्तमात्रगर्तेवास्तुं च विन्यसेत् ।। 23

हेमाद्रौ मात्स्ये :---
एकाशीति पदं कृत्वा रुजुभिः कनकेनतु ।
पश्चात्पीठेनानुलिप्ते सूत्रेणालोज्य सर्वतः ।। 24
दशपूर्वायता रेखा दशचैवोत्तरायताः ।
सर्ववास्तु विभागे च विज्ञेयानवकानव ।। 25
पदस्थान् पूजयेद्देवान् चत्वारिंशच्च पंचच ।
द्वात्रिंश द्बाह्यदेशेषु पूज्याश्चांते त्रयोदश ।। 26
मध्ये नवपदे ब्रह्म चत्वारस्त्रिपदाः स्मृताः ।
विंशतित्वेकपदकास्तावंतो द्विपद स्मृताः ।। 27
नामतस्त्रावक्ष्यामि स्थानानि च निबोधत ।
ऊशानकोणादि सुरन् पूजये त्क्रमशो नन ।। 28
शिभीचैवतु पर्जन्यो जयंतः कुलिशायुधः ।
सूर्यनत्यौ भृशश्चैव आकाशो वायुरेवच ।
पूषाचवितथाचैव गृहतक्ष यमावुभौ ।। 29
गंधर्वो भृंगराजश्च मृगः पितृगणस्तथा ।
दौवारिगोध सुग्रीवः पुष्पदंतो जलाधिपः ।। 30
असुरः शोषपापश्च रोगोहि र्बुध्न्य एवच ।
भल्लाटः सोषसर्वौच अदितिश दितिस्तथा ।। 31
बहिर्द्वा त्रिंशदेतेतु तदंतश्च तुरऋश्रुणु ।
ईशानादि चतुष्कोण संस्थितान्पूजेद्बुथः ।। 32
आपश्चैवाथ सावित्रो जयोरुद्र स्तधैवच ।
मध्ये नपपदे ब्रह्म तस्याष्टौच समीपगाः ।। 33
अर्यमास्सविताचैव विवस्वान् विबुधाधिपः ।
मित्रोधराजयक्ष्माच तथा पृथ्वीदरः स्मृतः ।। 34
अष्टमश्चापवतश्च परितो ब्रह्मणः स्मृताः ।
अपश्चैवापसत्सश्च पर्जन्योह्यदितिस्तधा ।। 35
(यदिकानांतु वरगोयमोवंकोणेष्व शेषतः )
तन्मध्येतु बहिर्विंश द्विपदास्तेतु सर्वतः ।
अर्यमाच विवस्वांश्च मित्रः पृथ्वीधर स्तधा ।। 36
ब्रह्मणः परितोदिक्षु त्रिपदास्तेतु सर्वतः ।
मूर्धन्यग्निः समाविष्णो मुखे आपः नमाक्षिताः ।। 37
पृथ्वीधरोर्यमाचैव तनुस्थानमधिष्टितौ ।
वक्षस्थले चापवत्सः पूजनीयः सदा बुधैः ।। 39
सत्यसोमादय स्तद्वाद्बहोः पंचच पंचच ।
रुद्रश्च राजयक्ष्माच हस्तयो र्मणिकबंधने ।
सावित्रः सवितातद्वद्धस्तं दक्षिण माक्षितौ ।
विवस्वानथमित्रश्चजठरे संव्यसंस्थितौ ।। 40
पूषाच पापयक्ष्माच हस्तयो र्मणिबंधने ।
तधैवा सुरशोषौच वामपार्श्वो समास्थितौ ।। 41
पार्श्वेतु दक्षिणे तद्वद्वितथ स्संग्रहः क्षतः ।
ऊर्वोर्यमांबुपौज्ञेयौ जान्वोर्गंधर्वपुष्पकौ ।। 42
जंघयो र्भृंगसुग्रीवौ स्फिक्थ्सोदौवारिको मृगः ।
जयशक्रौ तथामेढ्रे पादयोःपितर स्तथा ।
मध्ये नवपदेब्रह्मा हृदयोसतु पूज्यते ।
चतुषष्टिपदोवास्तुः प्रासादे ब्रह्मणास्मृतः ।। 43
ब्रह्म चतुष्पदे तत्र कोणेष्वेकपदस्तथा ।
बहिः कोष्ठेषुचाष्टोतु सार्थश्चो भयसंस्थिताः ।। 44
विंशतिर्दविपदाश्चैव चतुष्ष्टिपदे स्मृताः ।। 45

पूजामहानारदः :---
वास्तुमंत्रेण वास्तुज्ञो दूर्वा दध्यक्षतादिभिः ।

वसिष्ठः :---
प्रणवेनार्चयोद्वापि अथवा स्वस्वामभिः ।। 46
होमस्त्रिमोखलेकार्यः कुंडे हस्तव्रमाणके ।
यवैरपि तिलैश्चैव समिद्भिः क्षीरवृक्षजैः ।। 47
पालाशैः खादिरैश्चा सामार्गो दुंबर संभवैः ।। 48
कुशदूर्वा भवैर्वापि मधु सर्पि समन्वितैः ।
कार्यास्तु पंचभिर्बिल्वै र्बिल्वबीजै स्तधापिवा ।। 49
होमंते भक्ष्यभोज्यैस्तु वास्तुदेशे बलिं हरेत् ।
ईशकोणे घृताक्तन्नां शिखिनेवि निवेदयेत् ।। 50
ओदनं सोत्पलं दद्या त्पर्जन्याय घृतान्वितं ।
जयंता यध्वजंपीतं पैष्टं कूर्माय सन्यजेत् ।। 51
इंद्राय पंचरत्नानि पैष्टंच कुलिशं तधा ।
वितानकंच सूर्याया पूपं सक्तुं तदैवच ।। 52
सत्याय घृत गोधूमं मत्स्यान् दद्याद्भृशायच ।
शष्कुलिश्चंत रिक्षाय दद्यात्सक्तुंच वायवे ।। 53
लाजाः पूष्णेच दातव्याः वितथेचण कोदनं ।। 54
गृहक्षताय मध्वन्नं यमाय पिशितोदनं ।
गंधोदनंच गंधर्वे भृंगे मेषस्य जिह्विकां ।। 55
मृगाय यावकंदद्या त्पितृभिः कृसरं तथा ।। 56
दौवारिके दंतकाष्टं गृहक्षत बलिं तथा ।। 57
सुग्रीवे पूपकान् दद्यात्पुष दंताय पायसं ।। 58
कुशस्तंभेन संयुक्तं तथा पद्मंच वारुणे ।। 59
पैष्टं हिरण्ययं दद्याद सुराय सुरामता ।
घृतोदनं सोषपाय गोधां पैपाप यत्र्मणे ।। 60
घृत लड्डुस्तु रोगाया हिर्बुध्न्याय सुमफलं ।
त्रक्ष्यं मुख्याय दातव्यं मुद्गोदन मतः परं ।। 61
भल्लाट स्थानके दद्यात्सोमाय मधुपायसं ।।
नागाय शालिजं पिष्टमदित्यै पोशिका स्तथा ।। 62
दितेस्तु मरिकां दद्यादि त्येवं बाह्यतो बलिः ।। 63
क्षीर मापाय दातव्या मापवत्साय वैदधि ।
सावित्रे लड्डुकं दद्या त्समरीचं कुशोदनं ।। 64
सावित्रे गुडपूपांश्च जयाय घृत चंदं ।
विवस्वते पुनर्दद्या द्रक्त चंदन पायसं ।। 65
हरितालो दनं दद्या दिंद्राय घृत संयुतं ।
गुडोदनंतु मित्राय रुद्राय घृत पायसं ।
अमं पक्वं तधा मांसं देयं स्याद्राज यक्ष्मणे ।। 66
पृथ्वी धराय मांसावि कुष्मांडानिच दापयेत् ।
शर्करा पायसं दद्यादर्यम्णे पानमेवच ।। 67
पंचगव्यं यवान् ब्राह्मे तिलाक्षत हविश्चरुं ।
भक्ष्यं भोज्यंच विविदं ब्रह्मणेवि निवेदयेत् ।। 68
एवं संपूजिता देवाः शांतिं कुर्वंतुमे सदा ।
सर्वेषां कांचनं दद्या द्भ्रह्मणेगां पयस्विने ।। 69
राक्षसानां बलिर्देयो मांसोदन ससुन्वितः ।
मांसो दनं घृतं पद्मं केसरं हविषान्वितं ।। 70
ईशानभाग माश्रित्य चरक्त्येवि निवेदयेत् ।
मांसो दनं सरुदिरं हरिद्रो दनमेवच ।। 71
अग्नेयीं दिशमाश्रित्य विदार्यैवि निवेदयेत् ।
दद्योदनंच रुधिरं मत्स्य खंडैश्च संयुतं ।। 72
पीत रक्तं बलिं दद्या त्यूतनायैतु मानवः ।
वायव्यै पाप राक्षस्यै मत्स्य मांसं सुरासवं ।। 73
पायसंवापि दातव्यं स्वनाम्ना सर्वतः क्रमात् ।
नमस्कारानु युक्तेन प्रणवाद्येन सर्वतः ।। 74
ततः सर्वौषध स्नानं यजमानस्य कारयेत् ।।
द्विजांस्तु पूजयोदभक्त्या योचान्ये ग्रह मागताः ।
एतद्वास्तूप शमनं कृत्वा कर्म नमाचरेत् ।। 76
प्रासाद भवनोद्यान प्रारंभे परिवर्तने ।
जीर्णोद्धारे तधोद्याने तधा गृह निवेशने ।। 77
द्वारादि स्थापने तद्वत्प्रासाद पंवर्तने ।
पुरवेश्म प्रवेशेन सर्वदोषोप शांतये ।
वास्सूप शमनं कृत्वा ततः सूत्रेण वेष्टयेत् ।
राक्षसोघ्न्या पावमानेन सूक्तेन भवनादिकं ।। 78
नृत्यं मंगलवाद्यंच कुर्या द्ब्राह्मण वाचनं ।
अनेन विधिनायस्तु प्रति संवत्सरं बुधः ।
गृहे वायतने कुर्यान्नस दुःख मवाप्नुयात्।। 79
गृह्योक्त होम विधिना बलिक्रमं कुर्यात् ।। 80
प्रासाद वास्तु शमने विधिर्य उक्तः ।
अत्र पौरामवास्तु शांतेः स्वगृह्योक्त।
वास्तुशांत्या समुच्चयो विधीयते ।। 81
संतर्पये द्द्विजवरानध भक्ष्यभोज्यै श्शुक्तांबरश्च भवनं प्रविशेत्सु रूपं । कृत्वा पुहोद्विज वराननुपूर्ण कंभ दध्यक्षतैर्मृदुल पुष्प फलोप शोभनं । दत्वा हिरण्य वसनानि तथा द्विजेभ्यो मांगल्य शांति निलयं स्वगृहं विशेच्च ।। 82

अश्वलायनः बीजवतो ग्रहन् प्रपद्येत् :---
वसिष्ट संहिताया मप्येवं शांतिरुक्ता - किंचिद्विशेष उक्तातत्रैव :---
वास्तुपूजाम कृत्वायः प्रविशेन्नव मंदिरं ।
रोगान्नाना विधान् क्लेशा नश्नुते सर्व संकरान् ।।
इति वास्तु शांतिः।