सामग्री पर जाएँ

शान्तिकमलाकरः/एकादशः भागः

विकिस्रोतः तः
← दशमः भागः शान्तिकमलाकरः
एकादशः भागः
[[लेखकः :|]]
द्वादशः भागः →

अथ कुमारी पूजा

ताश्च प्रत्यहं शतं नववा पूज्याः :--
ब्रह्मणी कर्वकार्येषु जयार्थे नृपवंशजा ।
लाभार्थे वैश्यवंलोत्धा सुतार्धे शूद्र वंशजा ।।
दारुणे वान्त्य जातानां पूजये द्विधिना नरः ।
इत्युक्वा सुरूपः शुभान्या भाव्याः - तधा :--
नवभिर्ल भते भूमि मैश्वर्यं द्विगुणेनतु ।
एक वृध्या लभेत् क्षत्रमेकैकेन शियं लभेत् ।।
एकवर्षातुया कन्या पूजार्थेतां विवर्जयेत् ।
ग्रंधिस्फुटित शीर्णांगीं रक्तपूय व्रणांकतां ।।
जात्यं धांके करां काणीं कुरूपांतनु रोमशां ।
वर्जये त्सर्वर्येषु दासी गर्भ समुद्भवामिति ।।
विशेषन्तु मत्कृते निर्णय सिंधौ त्रेयः :--
तत्र सुगंध तैले नाभ्यांगंकार यित्वा लंकृतां पीठे उप वेश्य देशकालौ स्मृत्वा अमुक फल सिध्यर्थं अमुक कर्मणि कुमारी पूजनं करिष्ये इति संकस्प्य मूलेन षड़ंगं कृत्वा मूल मंत्र मुच्चार्य ।। मंत्राक्ष मयीं लक्ष्मी मातृका रपूधारिणी । नवदुर्गात्मकां साक्षात्कन्या मावाह याम्याहं ।। यित्यावाह्यासनं पाद्यं चोष्णोदकेन पादौ प्रक्षाल्यार्घाच हरिद्रा कुंकुम सिंधूरा लक्तकांचन पुष्पमालाभि रभ्यर्च्य धूपदीपौ दत्वा पायसान्न भक्ष्यैर्भोजयेत् ।।
भोजनकाले मूलमंत्रं सप्तशतींवा पठेत् ।
ततो नानाफल तांबूल दक्षिणा नीराजनपुष्पंजलीन् दद्यात् ।। 1
एवमन्याः पूजयेत् - आवहनेतु मंत्रबेधाः :--
मन्त्राक्षर मयीति सर्वत्र प्रथम मावाह्य ।।
जगत्पूज्ये जगद्वंद्ये सर्वशक्ति स्वरूपिणि ।
पूजां गृहाण कौमारी जगन्मातर्नमोस्तुते ।। इति द्वितीयां ।।
त्रिपुरां भिगुणाधारां ज्ञानमार्ग स्वरपिणीं ।
त्रैलोक्य वंदितां देवीं त्रिपुरां पूजयाम्यहमिह मिति द्वितीयां ।। 2
कालीकांतु कलातीतां कारुण्यैक परां शिवां ।
कल्याण जननीं नित्यं कल्याणीं पूजयाम्यहं ।। इति तृतीया ।। 3

(अणिमादि गुणोधारां) इतच पाठः :--
कपिलांतु कलातीतां आकाराद्यक्ष रात्मिकं ।
अनंत शक्ति सहितां कामाक्षीं पूजयाम्यहामिति चतुर्थीं ।। 4
कामचारीं कालरात्रिं कालदंड स्वरूपिणीं ।
कामदां करुणोदारां कालीमावाहयाम्यहामिति पंचमी ।। 5
चंड वीर्यां चंडमयीं चंडमुंड प्रभंजनीं ।
ब्रह्मेश विष्णुनमितां चंडीकां पूजयाम्यहामिति षष्ठी ।। 6
सुखानंद करीं शांतां सर्वेदेव नमस्कृतां ।
सर्यभूतात्मिकाः देवीं शांभवीं पूज याम्यहामिति सप्तमीं ।। 7
सुंदरीं स्वर्ण वर्णांगीं सुख सौभाग्य दायिनीं ।
संतोष जननीं देवीं सुभद्रां पूजयाम्यहं इत्यष्टमीं ।। 8
दुर्गमे दुस्तरेकार्ये भयशोक विनाशिनी पूजयामि ।
सदाभक्त्या दुर्गां दुर्गार्ति हरिणीं ।। इति नवमी ।। 9

ततो ब्राह्मण सुवासिनी पूजा :--
एवं देवी कुमार्यादि पूजा नवरात्रेपि व्रत्यहं कार्यं ।। इयं शथ चंड्यादिन चतुष्टयं द्विगुणादि वृथ्या सहस्र चंड्या दशोत्तरा वृद्धिः । ततः पूजां देव्यै समर्स्या सर्वे विप्राः कृतांगन्यासाः ।। शतं नवार्णवं मंत्रं जप्त्वा कवचार्गला कीलकानि सकृज्जस्त्वा सप्त शतीं जप्त्वान्ते रहस्यं नवार्णवं सतं जपेयुः ।। कवचादीनां प्रत्यावृत्तौना वृत्तिः । प्रत्येकं प्रधमेह्येकं द्वितीयेद्वे तृतीयेत्रीणि चतुर्दे चत्वारि रूपाणीत्येवं जपं कुर्युः ।। ऋत्विजां कर्तुश्च प्रत्यहं क्षीरमात्राशनं अशक्तौ हविष्यान्नंवा प्रत्यहं सहस्रं शतंवा ब्राह्मणान् भोजयेत् । पंचमेह्नि होमः ।। नवरात्रोतु नवम्यां सर्वहोमः ।।

अथ होमः :--
तत्र स्वगृह्योक्तस्य आगमोक्त तंत्रस्य च समुच्छयः ।
गृह्योक्तं कृत्वा आगमोक्तं कुर्यात् ।। यधा ।।
देशकालौस्मृत्वा ब्राह्मणाद्वारा कृतस्य नवचंडी शतचंडी सहस्र चंडी नामस्यतम जपस्य संपूर्णता सिध्यर्थं दशांशेन तिल मिश्र पायस द्रव्येण होमं करिष्ये ।। तदंगं कुंडसंस्कारागनि स्थापनादि करिष्ये ।।

इति संकल्प्य :--
मूलेन कुंडं वीक्ष्यास्त्रेण संप्रोक्ष्यते नैवदर्भैः सन्ताड्य कवचेनाभ्युक्ष्याश्वत्थ समिधा मूलेनं पागग्रानु दगग्रंश्च तिस्रोरेखाः कृत्वा ।। प्रागग्रासु विष्णु ईश शक्रानुदग ग्रासु ब्रह्म यम चंद्रानभ्यर्च्य मध्येत्र्यस्र षट्कोणाष्टदलं चतुरस्रं कृत्वा मुले नाभिमन्त्य धेनु योनिमुद्रं पदर्श्य अस्त्रेण संरक्ष्या कवचेनावकण्ठ्या ।। गंधाद्यैः संपूज्य मूलेन हनहन पच 5 दहदह सरवज्ञज्ञापय स्वाहा इति ज्वालविनीमुद्रां प्रदर्ष्येंधनैः समिध्यास्त्रेणद्रव्यान् कंकणं बद्वाग्ने रग्र्बाधानादि संस्कारान् कुर्यात् प्रतसंस्कारं मूले नज्येन त्रिर्जुहुयात् नामकरण कर्मणि शत मंलनामा स्वत्वं हुताश नेति नाम कृत्वा जुहुयात् ।। अथ स्वेदेहेन्यासः । ॐ सरयां पद्मरागायै अग्नि जिह्वायैनमः - लिंगे - ॐ षरयां सुवर्णयै हृदये ॐ शरयां भद्रलोहितायै शिरसि - ॐवरयां लोहितायै मुखे - ॐ लरयूं श्वतायै कराश्यै नेत्रयोः - ॐ यरयां कराल्यै सर्वागंगे - सहस्रार्चिषे - हृदयाय - स्वस्तिपूर्णाय शिरसे - उतिष्ठ पुरुषाय शिखायै - धूम व्यापिने कवचाय हुं सप्तजिह्वाय नेत्रत्रयाय - धनुर्धराय अस्त्राय फट् - अग्नये जातवेदसे नमः - मूर्ध्नि अग्निये सप्तजिह्वाय - दक्षकरे - अग्नये जाचवेदसे नमः - मूर्ध्नि अग्नये सप्त जिह्वाय - दक्षकरे - अग्नये हव्यवाहनाय दक्षकट्यां - अग्नये विश्वोदराय लिंगे - अग्नये वैश्वानराय वामकट्यां - अग्नये कौमार तेजसे वामपार्श्वे - अग्नये विश्वमुखाय दक्षपार्श्वे अग्नये देवमुखाय शिखायां - ततोग्निंध्यात्वा परिसमूह्य परिस्तीर्य परिधीन्निक्षिप्नो परिमेखलाक्रमेण ब्रह्म विष्णु रुद्रान् योन्यां गौरीं च संपूज्य - वह्नौ यंत्रं विचंत्य षड्डशेषु अग्नेयादिकोणेषु पुरतः पश्चात् मध्ये चस्युं पद्मरागायै इत्यादि पूर्वोक्त सप्तजिह्वः संपूज्य - आग्नेयादि कोणेषु परतः पश्चाच्च सहस्रार्चिषे इत्यादि षडंगानि संपूज्य अष्टदलेषु पूर्वादि दिक्षु अग्नये जातवेदसे इत्याद्यष्टौमूर्तिः संपूज्य - चतरस्रे इंद्रादीन् सायुधान् संपूज्य कुंडं नवस्रूत्र्या संवेष्ट्य प्रात्रसादनादि स्वगृह्योक्त कृत्वा निर्वापादिना पुभूत पायसं श्रवयित्वाज्यं चरुं वं ह्रीं इत्यभिमंत्र्य धेनु मुद्रां प्रदर्श आज्यभागान्तं स्वगृह्योक्तं कृत्वा ततस्तिष्ठ्न् मौनी वह्नितिस्रः समिथोभ्याधाय वाम दक्षिणयो रिडापिंगलेमद्ये सुषुम्नांच ध्यात्वा - चक्षुषीहुत्वा अग्निषोमाभ्यां मध्येग्नये प्रधान देवताभ्यश्च उत्तर पूर्वार्थे स्विष्टकृतेच हुत्वा पूर्वोक्त सप्तजिह्वादि मूर्तिभ्य स्तत्तन्मंत्रैरेकै कामाज्याहुतिं हुत्वा मर्त्येभ्यः पितृभ्यो गंधर्वेभ्यो नागेभ्यो यक्षेभ्य इति हुत्वा जुह्वं चतुगृहीत्वा वैश्वानरजातवेदः इहवह लोहिताक्ष सर्वकर्माणि साधय साधय स्वाहा वौषडिति हुत्वा गणेश मंत्रेण जुहुयात् ततः पूर्वोक्त सरवन्यासान् कृत्वा वह्नौ पीठपूजां कृत्वा देवी मावाह्य - आवाहानादि मुद्रां प्रदर्श्य षडंगं कृत्वा षोडशोपचारैः संपूज्य मूलेन शत मेकादशाधिका आज्याहुतीर्हूत्वा नवग्रहेभ्यो लोकपालेभ्यश्च तत्तन्मंत्रैः समिधाज्य चरून् हुत्वा पायस तिलफलाश पुष्पसर्षप पूगीफल इक्षु दंड खर्जूर कदलीफल लाज दूर्वां कुरयव बिल्वफल दाडिम रक्तचंदन गुग्गुलु गुड बिल्व
दाडिमीपुष्प पद्म जाती वकुल पाटली पुष्पाणि द्रव्याणि तिल मिश्र पायस मेववा कवचार्गला कीलकरहन्यैः प्रति श्लोकं हुत्वा कृतस्य जपस्य तद्दशांशे सप्रति श्लोकं सप्तशती मंत्रेणोक्त द्रव्याणि तिलमिश्रपायसंवा जुहुयात् । प्रतिश्लोकंच जुहुया त्पायसं सर्पिषा सहेति वचनात् ।। आध्याय समाप्तौ उवाचस्थले पत्र पुष्प फलै होमः ।। यद्वा नमोदव्या इत्यन्तेन सवर्णवेनवा जप दशांश होमः । एवं प्रदानहोमंकृत्वा नामभिः सृवेणाज्यां पायसंच जुहुयात् ।।
यधा सर्वत्र कादबवैं स्वाहा - उल्कायै स्वाहा - कराश्यै स्वाहा - रक्ताक्ष्यै स्वाहा - श्वेतकौभर्यै - हरितायै - यक्षिण्यै - कंकाल्यै - यक्षिण्यै - कंकाल्यै - सुरश्रेष्टायै - सर्पराज्ञ्यै - ब्रह्मै -माहेश्वर्यै - कौमार्यै - वेष्णव्यै - वाराह्यै - ऐंद्र्यै हिरर्यै - वैष्णव्यै - वाराह्यै - ऐंद्र्यै - नारसिह्म्यै - यामुंडायै - धात्रे - विधात्रे - शंखनिधये - ऐद्र्यै - नारिसिह्म्यै - चूमुंडायै - धात्रे - विधात्रे - शंखनिधये - पद्मनिधये - द्वारश्रियै - वास्तुपुरुषाय ऐरानताय - पुंडरीकाय - वामनाय - कुमुदाय - अंजनाय - पुष्पदंताय - सार्वभौमाय - सुप्रतीकाय - दामनाय - गुग्गुलाय - कुरंटकाय - पुंडरीकाय - ऋगवेदाय - यजुर्वेदाय - सामवेदाय - अदर्वणवेदाय - नवग्रहणां - दिक्पालकानांच नामभिः - असितांग भैरवाय - रुरुभैरवाय - चंडभैरवाय - कोधभैरवाय - उन्मत्तभैरवाय - कपालभैरवाय - बीषणबैरवाय - संहार्भैरवाय- ततः पूर्वोक्तधार शक्तयादि पीठदेवताभ्यः आवरणदेव ताभ्यश्च हुत्वा स्विष्टकृतं हुत्वा - दीं ब्राह्मी महेश्वरी वैष्णवी वाहाहि नारसिंही ऐंद्री चामुंडायै विच्चेस्विष्ट कृते स्वाहेति -स्विष्टकृतं हुत्वाज्यां जुहुयात् । ॐह्रीं नंदजायै विच्चे - ॐह्रीं रक्तदंतिकायै विच्चे - ॐह्रीं शाकंबर्यै विच्चे - ॐह्रीं दुर्गायै विच्चे - ॐह्रीं भीमायै विच्चे - ॐह्रीं ब्रामर्यै विच्चे - ॐह्रीं प्रजापतये स्वाहेति हुत्वा - प्रायश्चित्त होमांते दिक्पाल नवग्रह विनायकादि क्षेत्रपालादिभ्योमाष भक्त बलीन् दत्वा द्वादश गृहीतेन समुद्रा दूर्मिरिति तृचेन मूर्धानंदिवः पुनस्त्वादित्याः - पूर्णादर्वी - सप्तते - दामन्ते - इत्यन्तेन मूलेनच पूर्णाहुतिं हुत्वा - इदमग्नये वैश्वानरायवसु रुद्रादित्योभ्यः शथ क्रतवे सप्तवते अग्नये अद्भ्यो महालक्ष्म्यै नममेतित्यजेत् - ततो वसोद्दारां हुत्वा संस्रवान् प्राश्य प्रणीता विमोकादि कर्म शेषं समाप्य मूल मंत्रेण होम दशांशेन दुग्देन जलेनवा तर्पयित्वा - तद्दशांशेन मार्जयेत् ।।
तत्रश्शेय स्संपाद्याचार्यादीन् वस्राद्यैः संपूज्याचार्याय शतं तदर्धति तदर्थं अष्टौवा गो मिधुनानि सुवर्ण चतुर्धं दत्वा - ब्रह्मणे विष्कद्वयं गो द्वयंच - ऋत्विग्भ्यः प्रत्येकं निष्कत्र यं गो मिधुनं च ।। इदं सहस्र चंड्या तदर्थं शत चंड्यां तदर्थं नवचंड्याक तदर्थं नवचंड्याक तदर्धं अशक्तौ सर्वेभ्यः सुवर्णं ।। ततो दाना न्याचार्यादिभ्यो न्येभ्योवा पाठकाय दद्यात् । यथा विप्रं संपूज्य कपिलांगां स्वर्ण शृंगीं रौप्य खुरांताम्र
पृष्ठा ।। कांस्यदोहानां नवत्सां संपुज्य । कपिले सर्वभूतानां पूजनीया शिरोमणि । तीर्द देवमयी यस्मादत श्शांतिं प्रयच्चमे । इति मस्तेण दद्यात् । यथारत्नेषु सर्वेषु सर्वदेवा व्यपस्थिताः । तथा शांतिं प्रयच्चंतु रत्नदानेनमे सुराः ।।
इति नीलमणिं :--
अथ श्वेताश्वदानं । विप्रं संपूज्य - अश्वं हेमपल्ययणं रौप्यकटकवगजदन्त वज्रनेत्र ताम्रमय खरक्षौमच्छत्र स्वर्ण ललाटपट्ट सुकक्षास्वायुध ग्रैवेय वस्त्रयुतं धान्यंरत्ने परिस्थंकृत्वा ।। मात्रंडायुत वेगाय काश्यसायति । जगद्दीपाय सूर्ययत्रि वेदाय नमो नमः इत्युक्तामुक शर्मणेयुक शाख्याध्यायिने सूर्यलोक निवास कामनयादेवी प्रीतिकामनयावा इमं श्वेताश्वं तुभ्य महं संप्रददेन ममेतयुक्त्वा कर्णं विप्रहस्ते दद्वा मंत्रं पठेत् ।।
महर्ण वेदसमुत्पन्न उच्छैश्श्रव सपुत्रक ।
मयात्वं विप्रमुख्याय तत्तोहय सुखीभव ।।
इमं विप्रमन्यस्तुभ्य मश्वंते प्रतिपादितं ।
प्रतिगृह्मीष्व विप्रेंद्र मयादत्तं सुशोभनमिति ।।
ततः सुवर्ण दक्षिणां दद्यात् ।
ततः इहामुत्रातपत्राणं कुरु केववमेप्रभो ।।
छत्रं त्वत्व्रीतयोदत्तं ब्राह्मणाय मयासहेति छत्रं ।
शशांक करसंकाश हिमडिंडीर पांडुर ।।
प्रोत्सारया शुदिरितं चामरामरवल्लभेति चामरं ।।
सर्वस्याश्रया भूमिर्वराहेण समुद्धृता ।।
अनत्त सस्यफलदा अतः शांतिं प्रयच्चतु ।।

इति भूमिं :--
यथाव कृष्णशयनं शून्यं सागरजातया ।
शय्याममाप्यशून्यास्तु तथा जन्मनि जन्मनि ।।

इति शय्यां :--
तृप्तिं करोति भूतानि नामइहलोके परत्रच ।
तस्मात्र्पदीयते धान्य मतश्शांतिं प्रयच्चमे ।।

इति सप्तधान्यानि :--
ततो द्वारजापकेभ्योन्येभ्यश्च दक्षिणां दद्यात् ।
ततः सर्वकलशोदेकेन सामात्यं यजमानं ।
समुद्रज्येष्ठा इत्याद्यैः सुरान्वैत्यादि पौराणैश्चाभिषिंचेयुः ।।
ततो यजमानो नवग्रहाणा मुत्तर पूजां कृत्वा ।
विसृज्याचार्य हस्ते दत्वा देवीं संपूज्य बलिं दद्यात् ।।
तत्र क्षत्रिया दिनाच मेषछाग महिषाणा मन्यतरं देयं ।
विप्रेण कूश्मांडं बिल्व मिक्षुश्च देयाः ।
यदा - देवीं द्रोण पुष्प बिल्वाम्रल जाति चंपकैः ।
संपूज्य उडङ्मुखः कर्ता पूर्व मुखं देवी मुंखवा ।

बलिं गंधादिनाभ्यार्च्या :--
पशुसस्त्वं बलि रूपेण मम भाग्यादुप स्थिता ।
प्रणमानि तत स्पर्य रूपिणं बलि रूपिणं ।।
चंडिका प्रीति दानेन तातुरापद्वि नाशनं ।
चामुंडा बलि रूपायबलेतुभ्यं नमोस्तुते ।।
यज्ञार्धे बलयः सृष्ठास्स्वयमेव स्वयंभूवा ।
अतस्त्वां घातयाम्यध्य तस्माद्यज्ञो वदोऽवध इति अभिमंत्र्य ।।
ऐं ह्रीं श्रीमति तत्र पुष्पं क्षिप्त्वा ।
रसनात्वं चंडिकायाः सुरलोक प्रसाधकः ।।
ह्रां ह्रीं - खड्ग आं ह्रूं पडिति खड्ग मन्यद्वा शस्त्रं संपूज्य । ॐकालि कलियज्ञेश्वरि लोह दंडैयै नम इति छेदयित्वा ।।
ॐह्रीं आं ह्रीं कौशिकि रुधिरेणाप्यायतामिति देव्यै निवेद्यशेषं गृहीत्वा पूतनायै चरक्यै विदार्यै पापराक्षस्त्यै निवेद्य माष पिष्ट मयं शत्रुं कृत्वा खड्गेन चेदयित्वा स्कंदायविशाखायच दत्वा बलि शेषं रक्षोभ्यो हरेत् ।।

मस्त्रस्तु :--
ह्रीं स्फुर स्फर कंभ कुंभ सुनु सुनु गुलु गुलु धनु धनु मारय मारय विद्रसय विद्रवय- कंपय कंपय पातय पातय कृंतय कृंतय पूर्वय पूरय ॐह्रीं ॐह्रुं फट् फट् हुं मर्दय मर्दय हुं इति ।।

ततः शेषेण बहिर्दद्यात् :--
तत्र मन्तः बलिं गृह्णत्विमे देवा आदित्या वसवस्तधा मरुतो दाश्विनौ रुद्राः सुपर्ण्राः पन्नगा ग्रहः । असुरायातुधानाश्च पिशाचोरग राक्षसाः ।।
डाकिन्नो यक्ष भेताल योगिन्यः पूतनाः शिवाः ।
जृंभका स्सिद्ध गंधर्वाः माला विद्या धरानगाः ।
दिक्पाल लोक पालाश्चयेच विघ्न विनायकाः ।।
जगतां शान्ति कर्तारो ब्रह्मद्याश्च महार्षयः ।
मा विघ्नं माचमे पापं मानस्तु परिपन्थिनः ।
सौम्या भवन्तु तृप्ताश्च भूतप्रेत सुखावहा इति ।।
ततः स्नात्वा तिलकं धृत्वा ।
खड्गिनी शूलिनी त्यकेन शूलेन पाहिने देवीति चतुष्टयेन ।
नमो देव्या इति पंचकेन प्रार्थयेत् ।
रूपं देहि यशोदोहि भगं भगवति देहिमे ।
पुत्रान् देहि धनं देहि सर्वान्कामांश्च देहिमे ।।
महिषघ्नि महामाये चामुंडे मुंड मालिनी ।
आयुरारोग्य मैश्वर्यं देहि देवि नमोस्तुते ।।

ततः :--
गुह्योति गुह्य गोप्तृत्वं गृहाणास्मत्कृत जपं ।
सिद्धिर्भवतुमे देवि प्रसादात्तव सुंदरि ।।
इति देव्यै निवेद्य मूलेन पुष्पेण देवी मुद्वास्य नासयाहृदि ।
प्रतिष्ठा विभाष्य सुश्रीता वरधा भवेति षडंगं कृत्वा ।।

ववरात्रे विशेषः :--
दशम्यां देवी विसर्जयेत् ।
मंत्रस्तु :--
उत्तिष्ठ देवि चंडेशि शुभां पूजां प्रगृह्यच ।
कुरुष्व मम कल्याणमष्ट भिश्शुक्ति बिस्सहेति उत्थाप्य ।
गच्च गच्च परं स्थानं स्वस्थानं देवि चंडिके ।।
वज्रस्रोते जलं वृद्ध्यै स्थीयतांच जलेत्विहा ।
दुर्गेदेवि जगन्मातः स्वस्थआनं गच्च पूजिता ।।
संवत्सरे व्यतीतेतु पुनरागम नायवै ।
इमां पूजां मयादेवि यथा शक्त्योप पादितां ।।
रक्षार्थं त्वं समादाय वज्र स्वस्थान मुत्तम मितिजले प्रवाहायेत् ।
ततोग्निं संबूज्य :--
विभूतिं दृत्वा गच्च गच्चेति विसृज्य सहस्र चड्यां सहस्रमन्यत्र शथं यधाशक्तिवा विप्रान् संभोज्ययस्य स्मृत्येति समर्प्य । प्रमादात्कु कर्वतामिति जपित्वा पूर्णतांवाच यित्वा कर्मेश्वरार्पाणं कृत्वा सुहृद्युक्तो भुंजीत ।।

अख कदली गुष्टप्रशव शान्तिः

येनैव स्थापितोवृक्षः सत्यस फलमश्नुते ।
प्रमातापूर्वदिग्भागे रंभासौख्य निवर्धनी ।। 1
दक्षिणे चार्दनाशाय शोक संतापकारकं ।
पश्चिमेस्याद्दि संक्रामं कौबेर्यांतु शुभावहा ।
अग्नेयादि विदिक्ष्वात्र मध्यमं फलमुच्यते ।
तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्तिकमुत्तमं ।। 2
दुष्टप्रसूतारंभां च पीतवस्रेण वेष्टयेत् ।
कुंचुकं कंठ सूत्रं च विविधाभरणं तथा ।। 3
निवेद्य कदलीमूले ततस्तां परिपूजयेत् ।
तिलश्चाज्येन दूरवाभिर्हुने दष्टोत्तरं शतं ।। 4
अतो देवीति सूक्तेन सूतिकावृत्तिस्तधेष्यते ।
दशदानानि दद्याच्च आचार्याय कुटुंबिने ।। 5
अतो देवीति सूक्तेन सूतिकावृत्ति स्तधेष्यते ।
दशदानानि दद्याच्च अचार्याय कुंटुंबिने ।।
सर्वारिष्ट प्रशास्त्यर्धं वित्तशाठ्य विवर्जितः ।
ततस्सा कदलीदया विप्रवर्याय धीमते ।। 6

दानमंन्त्रस्तु :--
अनुराणां कुलोत्पन्नारंभा बाहु फलान्विता ।
अतस्तव प्रदानेन नन्ततिर्मेभिवर्थतां ।। 7
आज्य संपूरिकेकांस्ये तिलतैल प्रपूरिते ।
विलोक्य प्रतिबिंबंतु दद्याद्रजत संयुतं ।। 8
विप्रानन्यांश्च संन्तोष्य दक्षिणादिभिरादरात् ।
एवं कृतेविधानेन विघ्नशान्तिश्च जायते ।। 9
पुत्रान् पौत्रान् प्रियंचैव लभते नात्रसंशयः ।
इति विधान मालायां कदली दुष्टप्रसवशांति विधानं समाप्तं ।। 10
श्रीमन्नारायणाख्य स्समजनिविबुधो रामकृष्णाभिधानः ।
तत्सूनु स्सर्वविदांबुधि निज चुलकीकारितः कुंभजन्नां ।
दृष्ट्वा नानानिबंधान्व्य पचय दतुलं ग्रंथ मब्जाकराख्यः ।
पित्रोः पादाज्जभृंगो रघुपतिपदयोः स्वाश्रं प्रापयच्चः ।। 1
योभाट्ट तन्त्रगहनार्णव कर्णधारः ।
शान्त्रान्तरेषु निखिलेष्वपि मर्मभेत्ता ।।
योत्रश्रयोस्ति विहितः कमलाकरेण ।
प्रीतोमुनास्तु सुकृती बुध रामकृष्णः ।। 2
इति श्रीमत्पदवाक्य प्रणाण पारीण रामेश्वरभट्ट सूरि सूनु
नारायणभट्ट सुत मीमांसक रामकृष्ण भट्टात्मज
कमलाकरभट्ट कृतं शान्तिरत्नं समास्तं।।

श्री मृत्युंजयाय नमः

?0शांतिकमलाकर ग्रंथस्य उत्तरपीठिकायां

अथ शौनकोक्तोग्र रथ शांतिर्लिख्यते

अथ ग्रर्थ शांतिंच शौनकोहं द्विजन्मनाम् ।
प्रवक्ष्यामि समासेन सर्वारिष्ट निवृत्तये ।। 1
जन्मतष्षष्टमे वर्षे मृत्युंरुग्र रथोसृणाम् ।
दशभिस्त्विदिकेतस्मिन् मृत्युर्भिम रथोनृणाम् ।। 2
विजयाख्या रतोमृत्यु रष्चसप्ततिमे भवेत् ।
षाण्मासान्मृत्यु माप्नोति धनहानिश्च जायते ।। 3
पुत्रनाशो दारनाशो धननाशस्तथैवच ।
तद्दोषशमनार्दाय शांतिं कुर्याद्विचक्षणः ।। 4
जन्माब्दे जन्ममासे च स्वजन्म दिपने तथा ।
जन्मर्षेचैव कर्तव्या शांतिरुग्ररथाह्वया ।। 5
देवालये नदीतीरे स्वगृहेवा शुभस्थेले ।
गृहस्ये शानदिग्भागे मंटपं कारयेच्छुभं ।। 6
व्रीहिराशिं विनिक्षिप्य तदर्थं तंडुलं न्यसेत् ।
तदर्थंतु तिलान्न्यस्य पद्म मष्टदलं लिखेत् ।। 7
मध्ये लिखित्वा ह्रींकारं मंक्भुसंस्थापयेद्बुधः ।
उग्रं मृत्युंजयं देवं सुवर्णेन प्रकल्पयेत् ।। 8
प्रजापति यमौचैव ह्याधिप्रत्यधिदेवते ।
नवग्रहांश्च दिक्पालान् नदीश्च चिरजीविनः ।। 9
दुर्गा गणेश वरुणान् विष्णुंच परिपूजयेत् ।
आचार्यं वरयोत्पूर्व मृतिजश्च ततः परं ।। 10
आवाह्यपूयेद्देवं स्तुहिश्रुतमितित्रचा ।
तत्तन्मस्त्रै स्तधा देवा नन्यानाहगयेत्ततः ।। 11
स्वसूत्रोक्तेन मार्गेण शांति होमं समाचरेत् ।
चर्वाज्यैः पायसैरर्क समिद्भिश्च तिलैस्तधा ।। 12
अष्टोत्तर शतं हुत्वा ह्यन्येषां दश पंचवा ।
पश्चाद्ग्रहा मखं कृत्वा चाभिषेकं समाचरेत् ।। 13
ग्रहमन्त्रैर्लोकपालैर्त्वैदिकैश्च पूराणकैः ।
आयुस्पूक्तैर्मृत्यु सूक्तैः श्री सूक्तादिभिरेवच ।। 14
अक्षीभ्यामिति सूक्ताद्यैः पुं सूक्तैरभिषेचयेत्।
अभिषेकाप्लुतं वस्त्र माजार्याय निवेदयेत् ।। 15
आचार्यं पूजयेद्भक्त्या वस्त्रालंकार भूषणैः ।
प्रतिमां दक्षिणोहेतां वस्त्र कुम्भ समन्विताम् ।। 16
दद्याद्वित्तानु सारेण गांचदद्यात्पयस्विनीम् ।
ऋत्विग्भ्यो दक्षिणां दद्याद्दीनानाथांश्च तोषयेत् ।। 17
वस्त्र माज्या वेक्षणंच कंबलं गांतधैवच ।
कार्पास माय संचैव दशदानं स्वशक्तितः ।। 18
नवग्रहणां धान्यानि दद्याद्वित्तानु सारतः ।। 19
ब्राह्मणान्फोजयेद्भक्त्या दक्षिणाभिश्च तोषयेत् ।
हहिमेव स्मरेन्नित्यं कर्मपर्वे परत्रच ।। 20
एवं यः कुरुते शांतिं श्राद्धा भक्ति समन्वितः ।
स सर्वारिष्ट निर्मुक्तो जीवेद्वर्ष शतं सुखी ।। 21
पुत्र पौत्रादि संयुक्तप्सर्वान्कामान वाप्नुयात् ।। 22
इति श्री शौनकोक्ता ग्ररथ शांति कल्पः समाप्तः।

अथ बोधायनोक्तो ग्ररथ शांति कल्पः

आधात उग्ररथ शांति विधिं व्याख्यास्यामो ब्राह्मण राजन्यवैश्यानां जन्म दिनादारभ्य षष्टितम वत्सरे जन्ममाने जन्म नक्षत्रे गोमयेन गोचर्म मात्रं चतुरश्रं कृत्वा तस्याग्नेय दिग्भागे धान्याना मुपरि कलशं प्रतिष्ठाप्य निषअकद्वयेन मृत्यु प्रतिमां कृत्वा कलशोपरि संस्थाप्य षोडशोपचारैस्संपूज्य - अपैतु मृत्युर मृतं । परं मृत्यो । मनोमहांतं । मानस्तोके । त्र्यंबक मित्यष्टोत्तर शतवारं जपित्वाथ देव यजनोल्लेखन प्रभृत्याग्नि मुखात्कृत्वा पक्वा जुहोति द्विरवदानं मानोमहंतमिति पुरोनु वाक्या मनूच्य मानस्ताक इति याज्यया जुहोति घृत सूक्तेन प्रस्यृचं हुत्वा स्विष्टकृत्पृभृत्या धेनु परप्रदाना दथाग्रेणाग्निं दूर्वा स्तंभेषु हुतशेषं निदधात्य परेणाग्निं प्राङ्मख उपविश्यमृत्यु सूक्तायुष्य सूक्तपुराण मंत्रै रभिषेकं कुर्या दथस वस्त्र प्रतिम कुंभ माचार्याय दद्या धृत्विग्भो यथाशक्ति दक्षिणां दत्वा ब्राह्मणान् भोजये दित्याह भगवान् बोधायनः ।।
इति भोधायनोक्तो ग्ररथशान्ति समाप्ता।।

अथ शैवागमोक्ता उग्ररथ शांतिः

कैलास शिखरे रम्ये सर्वदेव मस्कृतम् ।
प्रणम्य शङ्करं देवं गुहः पप्रच्छसादरं ।। 1
स्वामिन्नुग्र रथोनाम सर्वप्राणि भयंकरः ।
पुत्र पौत्रक्षय करो धनधान्य विनाशनः ।। 2
राज्यभ्रंशकरो राक्षामित्येकं बहुशश्श्रुतं ।
कोयं नज्ञायेत सम्यगेषकः परिकीर्त्यतां ।। 3

ईश्वर उवाच:--
साधुते कथयिष्यामि तमुग्ररथ मादरात् ।। 4
महामृत्यु समःप्रोक्तः प्राणिनां सर्वनाशनः ।
महाकायो महादंष्टो घोरपूपी भयानकः ।
अविर्फे यस्य पुत्र धन धान्यादि नाशनम् ।। 5
भवेत्पीडच महती राज्ञां राज्यविनाशनम् ।
अनावृष्टिश्च महाती शथृपीडा तधैवच ।। 6
गजाश्व रथनाशश्च स्वराज्या द्ब्रंशनं तथा ।
प्रादर्भावे भवन्यैते दोषा उग्ररधस्यवै ।। 7
उत्पत्त्यब्दादुग्ररध ष्षष्टिमेब्दे प्रकीर्तितः ।
यस्याविर्भावमात्रेण संसारी भयमाप्नुयात् ।। 8

गुहः :--
कथंबवत्तन्निस्तारः प्राणिनांवद शंकर ।। 9
शंकरः :--
गुहोग्र रथशान्तिंते कथयिष्या म्यहं शृणु ।
यधा चरणमात्रेण संसारी मुच्यते भयात् ।। 10
पुत्रान्प्रौत्रास्प्रपौत्रांश्च धनधान्यादिकं तथा ।
राजा राज्यं गजानश्वान्कोश वृद्धिंरिपुक्षयम् ।। 11
लभते महतीं भक्तिं विष्णुपादेऽधि गच्छति ।
तस्माच्छांतिः प्रयत्नेन कर्तव्याननु षण्मुख ।। 12

गुहः :--
कीदृग्विधा शान्तिरैषा दैवताकार्त कीर्तिता।
कौविदिः कीदूशौ मंर्तः किं फलं परिकीत्रय।। 13
कस्मिन् दैशेथकलेवा कस्मिन्‌कैन विधीयते ।
एतत्सरं प्रभो ब्रूहितत्वतः प़ृच्छतो मम ।। 14

ईश्वरः :---
शैवागमे प्रसिध्थेयं मुनिभिः पकीर्तिता।
गुहोग्र कथशांतिंतां सावधान मनाश्शृणु ।। 15
वर्षेषष्टितमेप्राप्ते भ्राह्मणस्स्वय माचरेत् ।
क्षत्रियोपिच वैश्योवा शूद्रोवान्योथवा पुनः ।। 16
ब्राह्मणैःकारये त्साधु शांतिमेतां प्रयत्नतः ।
जन्मर्क्षे शांतिं कुर्याद्विचक्षणः ।। 17
प्रधान देवता तत्र साक्षान्मृत्युः प्रकीर्तिता ।
उग्रोधिदेवता प्रोक्ताजयः प्रत्यधिदेवता ।। 18
विष्ट्वगारे शिवागारे नदीतीरेऽथवा पुनः ।
गोष्ठेवा वह्न्यगारेवा स्वोत्वत्ति ग्रामएववा ।। 19
शांतिमेतां प्रकुर्वीत विप्रैरनुगत श्शुचिः ।। 20
स्थडिलं परिकल्स्याध गोमयेनानुलिप्यच ।। 21
प्रसाध्य रंगवल्ल्याद्यैः पुण्याहं नांदिपूर्वकं ।
व्रीहिभारं विनिक्षिप्य तदर्थं तंडुलं तधा ।। 22
तदर्धं तिलमा स्तीर्य ह्यष्टपत्रांबुजं लिखेत् ।
विलिख्य तत्र ह्रींकारां निक्षिपेत्कलशां स्ततः ।। 23
तस्योपरिष्टा त्सौवर्णं राजतं ताम्रमेववा ।
अथवा मृन्मयं कुर्याद्यथा वित्तानुसारतः ।। 24
तंतुभिः परिवेष्ट्याथ वस्त्रेराच्छाद्य मंत्रतः ।
शतमूलानि पुण्यानि रत्नानि नवसंख्यया ।। 25
मृत्तिका दशसंख्याश्च तथा पल्लवपंचकं ।
पंचवृक्ष कषायाणि प़़ञ्चगव्यं तधैवच ।। 26
पंच सौगगधिकंचैव पुण्यं लोहत्रयं तथा ।
धान्यानिचैव सर्वाणि कुशदूर्वा स्तथैवच ।। 27
तीर्थोदकानि सर्वाणि सर्वकुम्भेषु विन्यनेत् ।
तापीकूपतटा केषु नदीप्रस्रवणेषुच ।। 28
सर्वतीर्धाणि सर्वाणि जलान्यादय यत्नतः ।
तैःपूरये न्मस्तृपूर्वं कुम्भां त्सर्वान्यधाक्रमम् ।। 29
सौवर्णीं प्रतिमां कृत्वापलाष्टक समन्वितां ।
तदर्धार्धेरैवा कुर्याद्यथा वित्तानुलारतः ।। 30
आधिप्रत्यधिदेवौच तदर्थ फलसम्मितौ ।
अन्यास्तदर्थ पलकाः प्रतिमाः परिकल्पयेत् ।। 31
तत्तत्थ्सानाधि रूढेषु कुम्भेष्वेताः प्रविन्यनेत् ।
आचार्यं वरयेत्पूर्वं शीलवंतं कुटुंबिनं ।। 32
सुरार्चकं सुशांतं च वेदशास्त्रार्थ पारगम् ।
शांतिकर्म विधानज्ञं मन्त्रतन्त्र विशारदं ।। 33
दुकीलाद्यै रलंकृत्य गंधपुष्पाक्षतादिभिः ।
ब्रह्मदी नृत्विजोवृत्त्वा यथाशक्ति स्वलंकृतान् ।। 34
प्रतिमाः पूजयेरंस्ते तन्मस्त्रजपपूर्वकं ।
तत्तद्देवास्प्रवक्ष्यामि सप्तधा चिरजीविनः ।। 35
ततो वत्सरदेवांश्च ततो द्व्ययन देवते।। 36
तत स्त्वृतून् ततो मासां स्ततः पक्षौ तत स्तथीन् 37
ततो वारं स्ततस्तारा स्ततो योगान्यधाविधीः
करणानी ततो राशीन् पंचब्रह्म ततः परम्।। 38
सप्तनिला नष्टवसू नवदिर्गा दिशोदश
रद्र नेकदशादित्यन् द्वदशैव यधाविधि।। 39
ब्रह्माणं विष्णु रुद्रौच विघ्नेश क्षेत्रपालकौ
पुजये त्प्रयतोदेवा नभयंकरं नास्तुनि 40
वरुणां श तुरः पश्चान्मृत्युंजय मधोग्रहन्
बृहत्कुभं ततःकुर्या च्चतच्चिद्र समन्वितं।। 41
प्रतेकं पूजयेदेतान् तत्तन्मन्रै र्विधानतः
अब्दाद्यनेकमेकंवा यधाशक्त्यर्ध वैभवात् 42
परं मृत्यो इति मंत्रेण प्रधान जपमचरेत् 43
स्तिहि शृतमिति मंत्रेण छादिंदेवं समर्चयेत् 44
त्रियंभक मितिमत्रण प्रत्यधिशां शमर्चयेत् 45
तत श्चतिर्विद जपं ततो द्वारजपं तथा
भानो स्ततो नमस्कारां न्प्रक्षराज प्रदक्षिणम्।। 46
मतिमान्य त्नतः किर्या त्ततो रुद्रभिशेचनम्
श्रीसूक्तं भुमिसूक्तंच नमकं चमकं तथा।। 47
आपोहिष्टा दिचाब्लिंगं मुंचामित्वेति सूक्तकम् ।। 48
येवा हित्र इति प्रोक्तं पावमान्यस्तधैवच ।।
शंवतीच स्वस्तिमतीचायुसूक्तं तधैवच ।। 49
इंद्रिदि दिगधीशानसूक्तान्येतानि कीर्तयेत् ।
मंटपात्पश्चिमेभागे गुंडं कुर्याद्याथा विधि ।। 50
स्यस्वसूत्र प्रकारेण प्रतिष्ठाप्य हुताशनम् ।
मुखान्तं विधिवत्कृत्वा ततः कर्म समाचरेत् ।। 51
अथ प्रधानं जुहुयात्समिच्चरु तिलाज्यकैः ।
दूर्वांकुरैश्च मधुना संसिक्तैः पृषदाज्यकैः ।। 52
प्रधान मन्तैः पुर्वोक्तैरष्टोत्तर सहस्रकं ।। 53
अष्टोत्तर शतं वापिह्यचार्यो जुहुयात्ततः ।
तिल होमायुतं कार्य मवश्यं भूतिमिच्छता ।। 54
अष्टोत्तर सहस्रंवा शत मष्टोत्तकरंतुवा ।
पश्चाद्गुशीचिका होमा यधा सम्भव माचरेत् ।। 55
इतरेषांतु देवानां समद्भिश्च रुणाघृतैः ।
तत्तन्नाम्नैव जुहुया दृक्षाणां सोपहेमकम् ।। 56
ग्रहयज्ञ विधानेन ग्रहहोमं समाचरेत् ।
जयस्विष्ट कृतौ हुत्वा होम शेषं समापयेत् ।। 57
शतच्छिद्र घटस्थेन मंत्र पूतेन वारिणा ।
स्नपयेद्यजमानंवा आचार्यो ब्राह्मणै प्सह ।
मार्जयित्वा पुण्यसूक्तैश्चतुर्थिक्षु बलिंन्यसेत् ।। 58
यजमानस्स्वलं कृत्य चाज्यावेक्षण माचरेत् ।
ब्राह्मणेभ्यस्ततो दद्यादयः पिंडादि पंचकं ।। 59
अधा लंकृत्य चाचार्यं वस्त्रा लङ्करभूषणैः ।
सवस्त्रां प्रतिमां दद्यादाचार्याय हिरण्मयूय् ।। 60
प्रतिमा सम संख्याना तदर्थवात्र दक्षिणा ।
प्रिमाया सृतीयांश स्सर्वेषां दक्षिणास्मृता ।। 61
दशदानं ततः कूर्या द्भूदानंतु विशेषतः ।
हस्त्या स्वरध दानानि धान्यं रत्नानि पद्मच ।। 62
वासः कन्यादि दानानि ब्रह्मस्थापन मध्वरं ।
एतानि दध्या द्विप्रेभ्यो यधा विभव सम्भवम् ।। 63
दिनेभ्योथ विसिष्टेभ्यो भूरिदानं प्रकल्पयेत् ।। 64
अयूतं भोजये द्विप्रन् सहस्रंवा शतंतुवा ।
सर्वान्कामानवाप्पोति य एतां सांति माचंत् ।। 65
पुत्रान्प्रौत्रा न्प्रपौत्रांश्च दीर्घमायुश्च वैभवं ।। 66
हास्त्यश्वरथ वृद्धिंच कोशवृद्धिंच पुष्कलाम् ।
विष्णुभक्ति मावाप्नोति शिव भक्तिं तथैवच ।। 67
य एता माचरे दुग्र रथशांतिं षडानन ।
शत्रवोस्य विनश्यंति स्रवादा सुखमेधते ।।
इति श्रीशैवागमे परमेश्वर षण्मुख संवादे
उग्र रथ शान्ति कल्पः सघाप्तः।।

अथ शावाग मौक्तोग्र रथ शांति प्रयोगः

श्लो।।शैवागमानुपारेण प्रयोगोत्र विधीयते ।
सर्वलेक हितार्धाय सुलभः कथ्यते क्रमः ।।
रचनाप्रकारः :--
जन्मादि षष्टितम वर्ष प्रवेशे जन्म नक्षत्रेऽनूकूल नक्षत्रेवा शुभ दिवसे कर्ता पत्न्यासहा मङ्गश स्नानं कृत्वा वस्त्राभरणादिभिर लंकृत्य देवालये नदीतीरे पुण्यदेशे
स्वगृहेवा ऐशानदिग्भागे रम्भास्तम्भादि शोभितं विचित्र वस्त्र वितानतं कुसुमांलकृतं मंटपं कृत्वा गो मयेनानुलिप्य रङ्गवल्यादिभिरलं कृत्य स्वस्तिवाचनैर्नाना विध दिव्यावादित्र घोष्यैश्च मंटपं पविश्य विप्रैः पुण्यहंवाच यित्वानांदीं कृत्वा महा संकल्पं कुरयात् ।।
अस्यश्री मदादि ?0.....?0 एवंगुण विशेषण विशिष्टायामस्यां शुभतिथौ मम जननादिषष्टीतम वर्ष प्रवेशेन योदोषस्सम जनितद्दोष परिहारार्थं यक्ष्यमाण तत्त देवता प्रसादेन सर्वारिष्ट परिहारद्वारा सर्वाभिष्ट सिद्ध्यार्थं जन्मराशि वशान्नाम नक्षत्र नामराशिवशा ज्जन्माम जन्म त्रिजन्म नक्षत्र वशादंग ग्रहा वशाद्गोचर ग्रहवशाद्वाम दक्षिणवेदवशात्षण्नक्षत्र ग्रहवाशाज्जन्मलग्नादि षड्वर्गवशान्महा दशांतर्दशांतरान्तर्दशा सूक्ष्मदशा प्राणदशा वशात् कालचक्र वशाच्च प्राप्त सकलारिष्ट परिहारार्थं आदित्यादि नवग्रहेषुयेये ग्रहा अरिष्ट स्थानेषु स्थितान्तैस्तैर्ग्रहैः क्रियामाम करिष्यमाम सूजितागमि दुष्टारिष्ट सरिहारद्वारा शुभस्थान फलावाप्य्रर्थं आध्यात्मिकाधि दैविकादि भौतिक भौमान्तरिक्ष दिव्य महौत्पात दुस्वप्नापशकुनाद्यद्भुतागामि दुष्टारिष्ट परिहार द्वाराऽयुरभि वृद्ध्यर्थं परमन्थ्रपरयस्त्र परतन्त्र विच्छे दनपूर्वक शतृ फलायनार्थं सम्मुखोन्मखलोत्तोप बलवशा न्मासबलाशा त्पक्षलवाश त्सङ्क्रंति ग्रहणोल्कापातवशान्नित्य गहबलवशात्तात्कालिक ग्रहबलवशान्ननाचक्रबलवशा न्नानाचक्रभावबलवशाच्च प्रप्त सकलदोष निवृत्यर्धं सकलजनवश्यता सम्पत्स मृद्ध्यर्थं आदित्यादि नवग्रहमुख परस्सरं शैवागमैक्त प्रकारेणो ग्ररथशांति कर्म करिष्य इति संकल्प्य ।।

आचार्यादि ऋत्विग्वरणं कुर्यात् :---
शान्तायमुग्र रधाख्यायं सर्वकर्म सुकोविदं ।
आचार्यं फलदातारं वृणेत्वां द्विजनत्म ।
अस्मिन्नग्र रथ शांति कर्मण्याचार्यंत्वां वृणे ।।
इत्याचार्य वरणं :---
सोपि वृतोस्मि करिष्यामीति प्रति वदेत् ।।
यदा चतुर्मिखो ब्रह्मा शक्रादीनां प्रजापतिः ।
सुप्रसन्नाः प्रकुर्वंतु प्रयोगं विधि पूर्वकं ।।
अस्मिन्नुग्र रधशांति कर्मणि मन्त्रजपे पूजा विधौ होमविधौच ऋत्विजो वोवृणे । तेपि वृतास्मः करिष्यामीति प्रतिवदेयुः । तत आचार्यः स्योनापृथिवीति मंत्रेण पृथिवी प्रार्थनं कृतवायोनतो कायेति मंत्रेम दभार परिमितं भार पंचक परिमितंवा यधाश्कतिवा धान्यराशिं विनिक्षिप्यचतुरश्रं कृत्वा तदुपरि तदर्थं तंडुल राशिंविनिक्षिप्य तदुपरि तदर्थं
तिलाराशिं विनिक्षिप्य तदु पर्यष्टदश पद्मं विलिख्य तन्मध्ये ह्रींकारं विन्यस्य तदुपरि आकलशेष्विति मंत्रेण कलशां स्तत्तस्थ्पेनेषु स्थापयित्वा तस्तुं तन्विन्निति मंत्रेण तंतुभिः परिवेष्ट्य शतौषधानि संसृज्य यधा कलश संख्यं विभज्यया ओषधीरिति तेष्वोषधीर्निक्षिप्य ओषदय स्संवदंत इति पंचत्वचः पंचपल्लवानिक निक्षिप्य धान्यमसीतियव गोधूम माष मुद्ग प्रियंगु चणकराज माष तिल कुसुत्ध श्यामकान्निक्षिप्य उद्दृतासीति गजाश्वरध वल्मीकह्रद गोकुल राजद्वार चतुष्पथाश्वत्थ तुलसी मृदो निक्षिप्य रुवती बीम इत्यौदुम्भर वटाश्वत्थ प्लक्षाम्रत्वचो विनिक्षिप्य - प्रवो यज्ञेष्विति तत्पल्ल वान्निक्षिप्य - सहि रत्नानीति नवरत्नानि हिरण्यरूप इति स्वर्ण रजत ताम्र शकलान्निधाय ।।
"उच्यते कलशन्यास क्रमश्शैवाग मेदितः ।
सर्वेप्राग पवर्गा वाप्युदग्दिग पवर्गकाः ।।
मध्ये प्रधान देवस्त दद्क्षिणेत्वधि तेवता ।
प्रधानोत्तर देशेथु स्मृता प्रत्यधि देवता ।।
विष्वगेषां चिरंजीवि देवता विनिवोशयेत् ।
तत्प्राच्यां पंचवीधीभिर्द्वादश द्वादशक्रमात् ।।
जन्मादि वत्सरा ष्टष्टिर्न्यस्याः प्रागपवर्गकाः ।
प्रधन दक्षिणेन्यस्या दक्षिणायन देवता ।
तद्दक्षिणेस्युर्वर्षादिऋतु त्रितयदेवताः ।
दद्दक्षिणेतु कटकमुख षण्मान देवताः ।।
प्रधानस्योत्तरेभागे तूत्तरायण देवताः ।
तदुत्तरेतु शशिर वसंत ग्रीष्मदेवताः ।।
तदुत्तरेतु मकरमुख षण्मास देवताः ।
प्रधानाग्नेय द्विग्भागे विन्यसेत्तिथि देवताः ।।
तिद्युत्तरेन्यसे त्पक्षौ वारां स्तत्पक्ष पश्चिमे ।
वसूव्वारा त्पश्चिमतो रुद्रांश्च वसुदणे ।।
रुद्र पश्चिमतस्तारा योगान् नक्षत्र पश्चिमे ।
योगेभ्यः पश्चिमे धीमान्न्यस्येत्करण देवताः ।।
प्रधान नैरृतिदिशि नवदुर्गाः प्रपूजयेत् ।
ब्रह्मणं विष्णुं रुद्रौच विघ्नेश क्षेत्रपालका ।।
प्रधान पश्चिमेन्यसे दभयंकर वास्तुनी ।
सप्तभ्यः प्राग्राशिदेवा नुदग्दिगपवर्गकान् ।।
प्रधान वायुमेन्यसे दभयंकर वास्तुनी ।
सप्तभ्यः प्राग्राशिदेवा नुदग्दिगपवर्गकान् ।।
प्रधानोत्तरदिग्भागे साधिदेवान्नवग्रहन् ।
प्रधनैशानदिग्भागे द्वदशादित्य देवताः ।।
मृत्युंजयस्यसे द्दीमान् द्वादशादित्य पूर्वतः ।
प्राच्यादयष्टदिशा स्वंद्रप्रमुखान् दिक्पतीन् क्रमात् ।।
इंद्रात्पूरस्तादाकाशं वरुणा त्पश्चिमे महीम् ।
चतुष्कोणेषुचैतेषां चतुरो वरुणान्यसेत् ।।
श्चतिच्छिद्रं बृहत्कुंभं सर्वेषां पुरतोन्यसेत् ।
मंटपत्पश्चिमेभागे कुंडत्रितमाचरेत् ।।
दक्षिणे ग्रहहोमार्धं कंडमेककरं भवेत् ।
मध्यमे शांतिहोमार्धं कुंडमेककरंस्मृतयम् ।।
द्विहस्त कुंडमयुत तिलहोमार्ध मुक्तरे ।
तंत्रेणैकत्र स्सर्वेषां हवनेत्वेक कंडकं ।।
यजमानोपवेशार्धं तत्पश्चाद्वेदिकां शुभाम् ।
कुर्यादुदिच्या मैशान्यां नाभिषेकार्थं मंटपम् ।।
एवंन्यासः क्रमः पत्रेसम्मुद्र्याप्यत्र दर्शितः ।
धराधिकारि श्री चक्रवर्त्य य्यज्ञ्गार्य दीमताः "।।
अप्यायस्वेत्यादितत्तन्नन्त्रैः पंचामृतानि निक्षिप्यगायत्र्यादि तत्तन्मन्त्रैः पंचगव्यानि निक्षिप्य देव स्वत्वेति कुशोदकं निक्षिप्य कांडात्कांडादिति दूर्वाङ्कराणि निक्षिप्य पुनंतुमां देव जना इति कुसग्रंधिं निधाय ।।
इमंमे गंगे । ऋतंच सत्यंच । आपोवा इदं । याः प्रवत इत्च । सछ्चकलशेष्वपः पूरयित्वा । याः फलिनीरिति फल पुष्पाणि विन्यस्य युवं वस्त्राणीति वस्त्रे राच्छाद्य कलशान् गंधाक्षतादि भिरलं वृत्य कलशस्य मुभे विष्णुरिति कलशानभिमस्त्र्या अग्नि स्सप्तिमितिसूक्तेन तापशुद्धिं कृत्वा पंचामृत पंचगव्य शुद्दोदकैस्तत्तन्मंन्त्रैः प्रतिमान्नप यित्वा बृहस्पते प्रतिमे इति मंत्रेणताः प्रदिमाः कलशस्थ वस्त्रोपरि निधाय अनुनीते इति प्राणप्रतिष्ठपनं कृत्वा आवाहनादिषोडशोपचार पूजां कुर्यात् ।।

पूजाक्रम माह :--
ह्रींकार मध्योप निवेशित प्रधान कलशो परिस्थापित मृत्यु प्रतिमां ध्यायेत् ।। श्री ।। यमं दंडोज्वल करं महिषोपरि सुस्थितम् । सर्वभीतिकरं ध्याये स्मृत्युं जगदधीश्वंरं ध्यायेन्मृत्यं जगदधीश्वरं ।। पाश खड्गां कुश गदा भासमास कराम्बुजम् । गीर्वाण
गण वंद्यां ग्रीं मृत्युं महिष वाहनं ।। ॐभूः मृत्यु मावाहयामि ।। ॐभुवः मृत्यु मावाहयामि । ॐसुवः मृत्यु मावाहयामि । ॐभूर्भुवस्सुवः मृत्यु मावायामि । परं मृत्यो इति मंत्रेण षोडशोपचार पूजां जपंच कुर्यात् ।। अष्टोत्तर सहस्र मष्टोत्तर शतंवा मूलमन्त्रं जपेत् ।। तद्दक्षिण पार्श्वे निवेशित कलशो परिस्थिता मधिदेवता मुग्रं ध्यायेत् ।। कराशास्यां विरूपाक्ष मुग्रंवयाघ्रवरेस्थितं । शूलं मृत्यो रधिदेवता मुग्र मावाहयामि । ॐभुवः इत्यादि -- ।। स्तुहिशृतमितिमन्त्रेण पूजां जपं च कुर्यात्‌ एवं इमं यमेति यमदेवतांवा पूजयत् ---- ।। तदुत्तरभागे मृत्युं जय प्रतिमांद्यायेत् ।। मृत्युंजय नमस्तेस्तु वृष वाहन शंकर । शमयोग्ररधोत्पन्नं जयंमे फाललोचन ।। ँ़भूः मृत्योः प्रत्यधि देवतां मृत्युंजय मावाहयामि ।। ॐभुवः इत्यादि ।। त्र्यम्बकमिति पूजा जपश्च ।। तत्परि तस्सप्तचिरजाविनोऽत्थामादीन् पूजयेत् ।।

सप्तचिरजीवि पूजा

तत्रादौ :---
ब्रह्मसूत्रोज्वल भूजो राजत्कृष्णाचजिनासनः । अश्वद्धामा चिरंजीवि दीर्घमायुर्ददातुमे ।। ॐभूः अश्वद्दामानमावाहयामीत्यादि ।। 1 ।।
बलीः पातालनिलयो धनुर्बाण धरोनृपः । विष्णुपादांकित शिराश्चिरंजीवी प्रसीदतु ।। ॐभूः बलिमित्यादि ।। 2 ।।
व्यास स्समस्तधर्माणां वक्तामुनिवरेडितः । चिरंजीवी दीर्घमायुर्ददातु जटिलोमम ।। ॐभूः व्यासमित्यादि ।। 3 ।।
हमुमान्रामपादाज्ज संगीवर्णि वरश्शिचिः । संचीवनोपहर्ताचरोगशांतिं ददातुमे ।। ॐभूः हनुमंतमित्यादि ।। 4 ।।
विभूषणो धर्मपरो रामर्चन परायणः । ददातु चिरजीवित्वं चिरजीवी जितेंद्रियः ।। ॐभूः विभूषणमित्यादि ।। 5 ।।
कृपः कृपापयोराशिस्तपस्वीचीर वस्त्रधृत् । वितनोतु प्रसन्नात्मा यावज्जीव मरोगताम् ।। ॐभूः कृपमित्यादि ।। 6 ।।
परशूज्ज्वल हस्ताब्जो जटामंडलमंडितः । ददातु चिरजीवित्वं प्रसन्नात्मा भृगूद्वाहः ।। ॐ भूः परशूरममित्यादि ।। 7 ।।
एतेषां ॐ नमोऽश्वत्थाम्ने इत्वादिना पूजा जपश्च ।। अत्र कल्पांतरे नव चिरजीविन इत्युक्तं ।। तद्रीत्य मार्कंडेय प्रह्लादौपूज्यौ ।।

षष्टिवत्सर पूजी

ततः प्राग्भागे द्वादश संख्यया प्रागपवर्गाः पंचवीद्यात्मिकाः जन्म संवत्सर मारभ्य षष्टिवत्सर देवता आवाहयेत् ।।

तत्तद्ध्यानानि :---
अक्षाद्यंकित पाणिपद्ममभयं चिन्मुद्रिकां हस्तयोर्भिभ्राणं चतुराननं प्रविकचत्पद्मासनां ततः स्तितम् ।। वक्षोभाग विराजमानविशद श्री ब्रह्मसूत्रोज्ज्वलं वंदेहं प्रभवाभिदं कमलजं श्रेयोभिवृद्धिप्रदं ।। ॐ भूः प्रबवाब्द देवतां कमलज मावाहयामि ।। 1 ।।
भास्वत्किरीटं वरचक्र शार्ज्ग गदाभीरामै स्सहितं चतुर्भिः । करैपनन्तासन सन्निविष्टं ध्यायेध्रमेशं विभवाभिदानम् ।। ॐ भूः विभुव देवतां रमेश मावाहयामि ।। 2 ।।
जटिल मुरगभूषा भूषितांगं त्रिनेत्रं शशिधर मकुचान्तं व्याघ्रचर्मोत्तरीयं । वृषवरकृतवाहं शुक्लसंज्ञं गिरीशं नमदमरमूनींद्रं सूलपाणिं नमामि ।। ॐ भूः शुक्लसंवत्सर देवतां शूलपाणि मावाहयामि ।। 3 ।।
करीन्द्रवक्त्रं कनदेकदंतोज्ज्वलं प्रमोददूत कृताभिधानं । प्रत्यूहशांति प्रदमाखु संस्थंध्यामेद्दृधज्जे सततं गणेशं ।। ॐभूः प्रमोदुत संवत्सर देवतां गणेश मावाहयामि ।। 4 ।।
दंतींद्र वक्त्रंक गतां सुशक्तिं चतरुर्भजां चंद्रकलावतंसां । भक्तेष्टपाधोनधि पूर्णचंद्रं वंदे प्रजोत्पत्ति कृताभि दानन् ।। ॐभूः पजोत्पत्ति संवत्सर देवतां शक्ति मावाहयामि ।। 5 ।।
शक्त्युलैक बाहुं शशधरमकुटं मयूरमारूढं अंगीसाभिदानं षण्मुमीडेऽमरेंन्द्र सेवान्यम् ।। ॐ भूः अंगीरसाब्ददेवतां षण्मुख मावाहयामित्यादि ।। 6 ।।
चंद्रमुखीं चारुदृशं कुक्कुटवाहं गुहादृता मनिशम् । श्रीमुखसंज्ञां वल्लीं श्रेयोवृद्धि प्रदामहं कलये ।। ॐ भूः श्रीमुख संवत्सर देवतां वल्लीमावाहयामि ।। 7 ।।
गौरीं गिरींद्रतनयां व्वषवरसंस्थां कलाधरां शशिनः । भावाख्यामहमीडे भवकुतुकाम्बोदि पूर्णचंद्रंतां ।। ॐ भूः भावसंवत्सर देवतां गौरीमावाहयामित्यादि ।। 8 ।।
युसंज्ञा महमीडे ब्रह्मिं ब्रह्मादिवंदितांघ्रींयुगाम् । हंसवरारूढां तां शम्भुमनोहरि रूपसौभाग्यम् ।। ॐ भूः यवसंवत्सर देवतां ब्रह्मी मावाहयामीत्यादि ।। 9 ।।
महेश्वरी हृदब्देविलसतु सततं च धातु संज्ञामे । चंद्रावतंस सहिता श्रेयोवृद्धि
प्रदा सदा शंभोः ।। ॐ भूः धातु संवत्सर देवतां माहेश्वरी मावाहयामि ।। 10 ।।
कौमारी महा मिडे संपड्दात्रीं सदा शुकारुढाम् । ता मीश्वराभि धानां शंकरतोष प्रदां स्वरूपेण ।। ॐ भूः ईश्वर संवत्सर देवतां कौमारी मावाहयामि ।। 11 ।।
बहुधान्यनाम देयां सततं हृदयेन वैष्णवीं कलये । शङ्कर वामांकस्थां नमता मिष्टार्ध दायिका मनिशं ।। ॐ भूः बहुधान्य संवत्सर देवतां वैष्णवी मावाहयामि ।। 12 ।।
वाराहीं प्रण मामो धूर्जटि हर्षाब्दि पूर्णचंद्रांताम् । यश्रयोभि वृद्दिधात्रीं कृत निज नाम्नीं प्रमाधीति ।। ॐ भूः भूः प्रमाधि संवत्सर देवतां वाराही मावाहयामि ।। 13 ।।
माहेंद्रीं रवयामो विर्कम संज्ञां वृषासनारूढां । विषनाम्मिं सरुवंद्यां दैत्यकुल ध्वंसकारिणी मनिशं ।। ॐ भूः विष्णुसंवत्सर चामुंडा मावाहयामि ।। 15 ।।
एरोगाह्वय मीडेहं चित्र भामं सदामुदे । तुरगं मवरारूढं मकुटौज्वलहस्तं ।। ॐ भूः चित्रभानु संवत्सर देवता मारोग मावाहयामि ।। 16 ।।
आरोग्य सिद्धिदं नृणां स्वभानुं भ्राज संज्ञितम् । गजारूढां लसत्खड्गखेट हस्तं समाम्यहम् ।। ओं भूः स्वभानु संवत्सर देवतां भ्राज मावाहयामि ।। 17 ।।
अंतर्हृदब्जेसततं कलये पटराह्वयम् । तारुणं सूर्यगमनं शूलोद्भासि करंभजे ।। ॐ भूः तारण संवत्सर देवतां पटरमावाहयामि ।। 18 ।।
पतंगं पतांगारुढं पार्थिवाह्वय माश्रये । शंख चक्रधरं दिव्यपीताम्बर महं भजे ।। ॐ भूः पूर्थिवसंवत्सर देवतां पतंगमावाहयामीत्यादि ।। 19 ।।
स्वर्णरं कोकिलारुढंव्यय संज्ञक्रमाश्रये । चंदावंतंसंजटिलं त्रिणएत्रं शूलभासुरं । ॐ भूः व्यय संवत्सर देवतां स्वर्णमावाहयामि ।। 20 ।।
सर्वजित्संज्ञकं वंदे ज्योतिषीमंतमिष्टदं । भ्रुशुंडी पाशहस्ताज्जं व्याघ्रारूढं त्रिलोचनं ।। ॐ भूः सर्वजित्संवत्सरदेवतां ज्योतिषीमंतमावाहयामि ।। 21 ।।
विबासनामकर भानुं सर्वधारिकृताह्वयम् । इष्टप्रास्त्यै सदावंदे सपाश्व रधमास्थितम् ।। ॐ भूः सर्वधारि संवत्सर देवतां विभासमावाहयामि ।। 22 ।।
मेरुशृंगासनस्थंतं विरोधि कृतनामकम् । कश्यपं पंचवदनं दशहस्तं समाम्यहम् ।। ॐ भूः विरोधि संवत्सर देवतां कश्यपमावाहयामि ।। 23 ।।
रविं विकृतिनामानं त्रिशीर्षं ष़ड्भुजं भजे पन्नगेश्वरमारूढं चारुपीतांबरावृतं ।। ॐ भूः विकृति संवत्सर देवतां रविमावाहयामि ।। 24 ।।
सूर्याभिधं खरं वंदे चतुवक्त्रष्टहस्तकम् ।। खगवर्यसमारूढं नीलांबर समावृतं । ॐ भूः खरसंवत्सर देवतां सूर्यमावाहयमामि ।। 25 ।।
भानुं नन्दननामानं भासाचारुपरिष्कृतं । मृगेन्द्रवाहनं पंचवक्त्रं दशभूजं भजे ।।
ॐ भूः नन्दन संवत्सर देवतां भूनु मावाहयामित्यादि ।। 26 ।।
षण्मुखं द्वादशभूजं व्याघ्राहन माश्रितम् । व्याघ्रचर्माम्बरं वंदे खगं विजयसंज्ञकं ।। ॐ भूः विजयदेवतां खृगमवाहयामि ।। 27 ।।
पूषणं जयनामानं जयदं भक्तसन्तते । शंख चक्रांकित करद्वन्द्वं हृदि समाश्रये ।। ॐ भूः जयाब्ददेवतां पूषणमवाहयामि ।। 28 ।।
हंसवर्याधिरूढतं वीणामंडित हस्तकम् । हिरम्यगर्भं वदेहं मन्नदाख्य मनिष्टह्‌ ।। ॐ भूः मन्मद संवत्सरदेवतां हिरण्यगर्भ मावाहयामि ।। 29 ।।
मरीचिः दुर्मुखाख्यानं मन्युं मर्कटमाश्रितम् । विवृतास्यं जगद्भीतिदायकं संश्रयेमुदे ।। ॐ भूः दुर्मुखार्दिदेवतां मरीचिमावाहयमामि ।। 30 ।।
आदित्यं तेजसां स्थानं हेविलम्बि कृताह्वयम् । सप्तसप्तिसमारूढं जगतां नेत्र माश्रये ।। ॐ भूः हेविशम्चि संवत्सरदेवता मादित्यमावाहयामि ।। 31 ।।
विलम्बि संज्ञं मनसा सवितारं स्मराम्यहं । चापबाण धरंदोर्ब्यांतु रज्गवर वाहनम् ।। ॐ भूः विलंबि संवत्सर देवतां सवितार मावाहायामि ।। 32 ।।
अर्क विकारिनामानं कर्कंति क्रकचायुधम् । क्रुर व्याघ्रसमारूढ मेकनेत्रं समाम्यहं ।। ॐ भूः विकारिनाम संवत्सर देवतामर्क मावाहयामि ।। 33।।
बास्करं शार्वरी संज्ञं भाषापूरित दिङ्मखम् । चक्रोज्वलकरंवंदे भास्वद्रथ समाश्रयं ।। ॐ भूः शार्वरि देवतां भास्कर मावाहयामि ।। 34 ।
अग्निं नमामि सततं ज्वाला मालतं मोपहम् । अजारुढं चरुर्हस्तं द्विशीर्षंप्लव संज्ञिकम् ।। ॐ भूः प्लवसंवत्सरदेवता मग्नि मावाहयामीत्यादि ।। 35 ।।
जातवेद समीजेहं शुभकृन्नामकं सदा । आंदोलिका समारुढं खड्गखेट धरं शुभं ।। ॐ भूः शुभकृत्सं वत्सर देवतां जातवेद समावाहयामि ।। 36 ।।
सहोजसं शोबकृतं नृणामिष्टद माश्रये । शिबिका वावानारुढं वामरद्व भूपाणिकम् ।। ॐ भूः शोभकृद्धेतवतां सहोजनमावाहयामि ।। 37 ।।
अजिरा प्रभूमीडेहं क्रोधीकृत नामकम् । गोरधा रूढमनिशं कुंतोज्वल कधांबूजं ।। ॐ भूः क्रोदि देवतां मजिरा प्रभु मावाहयामीत्यादि ।। 38 ।।
वैश्वानरं भजे नित्यं विश्वावसु कृताह्वयं । नरवाहनमारूडं खड्गखेट धरं विभूम् ।। ॐ भूः विश्वावसुवत्पर देवतां वैश्वनर मावाहयामि ।। 39 ।।
पराभवाह्वयं वंदे नरायपसमुदर्चिषं । उत्तुंग तुरगारूढं परशूज्ज्वलि पाणिकम् ।। ॐ भूः पराभव संवत्सर देवतां नर्यापस मावाहयामि ।। 40 ।।
वज्किराध समीडेग्निं प्लवंग इति विशृतं । श्वेताश्व वाहनारूढं शार्ङबाण धरं सदा ।। ॐ भूः प्लवंग देवतां पङ्किराध समावाहयामि ।। 41 ।।
विसर्पिणं हुतवहं कीलकाह्वय माश्रये । उत्तुंग गजमारूढं शूलोज्वलि करां
चलिं ।। ॐ भूः कीलक संवत्सर देवतां विसर्पिण मावाहयमामि ।। 42 ।।
मत्स्यमूर्ति हरिं वंदे शिरसा सौम्य संज्ञिकम् । शंख चक्रोज्वलकरं भक्त्याबीष्ट प्रदायकं ।। ॐ भूः सौम्यसंवत्सर देवतां मत्स्यमूर्ति मावाहयामीत्यादि ।। 43 ।।
कूर्माकृति महं वंदे मन्दराचलधारिणम् । कौमोदकी शार्ज्गहस्तं साधारण कृताह्वयम् ।। ॐ भूः साधारम देवतां कूर्म मावाहयामि ।। 44 ।।
दंष्ट्रारूढ महीभागं क्रोडरूपधरं रहिम् । वरदाभयदं वंदे विरोधिकृदि तिश्रूतं ।। ॐ भूः विरोधिकृद्टेवतां वराह मावाहयामि ।। 45 ।।
सृकेसरि तनुंवंदे हरिं स्तंभविदारणम् । प्रह्लादिहर्षदातारं हरिम् । बलिप्रतारमकरं प्रमादीच कृताह्वयम् ।। ॐ भूः प्रमादीच संवत्सर देवतां वामन मावाहमीत्यादि ।। 47 ।।
जगदानंद जनकं सीतावल्लभ माश्रये । राममानंद नामानं धृतकोदंड मार्गणं ।। ॐ भूः अनंद संवत्सर देवतां राम मावाहयामीत्यादि ।। 48 ।।
कूठारप्रोज्वलकरं जटामंडल मंडितं । भार्गवं राममाशाने राक्षसाभिधमंजसा ।। ॐ भूः राक्षस संवत्सर देवतां भार्गवराम मावाहयामि ।। 49 ।।
सीरोद्भासिकरां भोजं नीलांबर समावृतं । बलराम महंवंदे नीलाह्वयहर्निशम् ।। ॐ भूः नरदेवतां बलराममावाहयामि ।। 50 ।।
कृष्णं पंगलनामानं बर्हिबर्होज्वलाकृतिम् । नवनीतोज्वलकरं नृत्यंतं हृदि संश्रये ।। ॐ भूः पिंगल देवतां कृष्म मावाहयामि ।। 51 ।।
म्लेच्चावलि कृतद्वेषं कालयुक्ति कृताह्वयम् । आश्रये कर्कमारूढं दनुर्बाणधरं सदा ।। ॐ भूः कालयुक्ति देवतां कल्किन मावाहयामीत्यादि ।। 52 ।।
सिद्दार्धिकृतनामानं हुद्धाकृतिमहं भजे । नग्नं विपपवपुरुषं स्त्री प्रदर्शनकारणम् ।। ॐ भूः सिद्धार्धिदेवतां बुद्धमावाहयामित्यादि ।। 53 ।।
दुर्गां विपत्तिदुतये रौद्रीति कृतसंज्ञिकाम् । ध्यायामिदैत्यहंत्रीं तां रक्तस्वादन तत्पराम् ।। ॐ भूः रौद्रि संवत्सरदेवतां दुर्गा मावाहयामीत्यादि ।। 54 ।।
यातु दानं वक्रमुख मेकाक्षं दारुणाकृतिम् । ध्यायाम्यनिष्टशांत्यर्थं दुर्मतीति कृताह्वयम् ।। ॐ भूः दुर्मति देवतां यातुधानमावाहयामीत्यादि ।। 55 ।।
दुंदुभीति कृताभ्यासं समस्तरिपुभैरवम् । भारवं श्ववराधूढं दिगंबर मुपाश्रये ।। ॐ भूः दुंदुभि देवतां भैरवमावाहयामित्याति ।। 56 ।।
हनुमंतं वायुसुतं रुधिरोद्गादि संज्ञाकम् । समुद्रलंघनोद्युक्तं घनोद्युक्तं धीर्घलांगूल माश्रये ।। ॐ भूः रुधिरोद्गारि संवत्सरदेवतां हनुमंतमावाहायामित्यादि ।। 57 ।।
सरस्वतीं भासमान वीणोज्ज्वल करांबुजाम् । रक्ताक्षि संज्ञिकां देवीं प्रपद्ये वाग्वि
भूतिदाम् ।। ॐ भूः रक्ताक्षि संवत्सर देवतां सरस्वतीमावाहयामित्यादि ।। 58 ।।
धाक्षायणी क्रोधनाभ्यां दक्षत्रतु कूरप्रियाम् । शुका रूढाशूल धरां भजेऽभीष्ठस्य सिद्दये ।। ॐ भूः क्रोधन संवत्सर देवतां दाक्षायणीमावाहयामित्यादि ।। 59 ।।
प्रपध्येक्षय संख्यानां लक्ष्मीं क्षीराब्दि कन्यकां । हंसारूढामिंदुमुखीं पाणिद्वय कृतांबुजाम् ।। ॐ भूः क्षय संवत्सरदेवतां लक्ष्मी मावाहयामि ।। 60 ।।
एतेषां ॐ भूः प्रभवा येत्यादिना पूजा जपश्च ।।

आयन ऋतु मासध्यानादि

प्रथन दक्षिणदिग्भागे दक्षिणायन देवतां वर्षादि ऋतुत्रयदेवताः कर्कटकादि मास षट्क देवताश्च वाहयेत् ।। ददुत्तरदिग्भागे उदगयन देवतां शशिरादि ऋतुत्रय देवताः । मकराद मासषट्क देवताश्चा वाहयेत् ।।

तत्तद्ध्यानानि :---
श्रेयसे भूयसे नित्यं दक्षिणायन माश्रये । भास्वद्रथ गतं सूर्यचन्द्र नक्षत्र संनृतम् । ॐ भूः दक्षिणायन मावाहयामीत्यादि ।। 1 ।।
क्लेशापनुत्तये नित्यमुत्तरायण माश्रये । दिव्यं न्यन्दसमारूढं सूर्यादिग्रह संयुतं ।। ॐ भूः उत्तरायणमावाहयामि ।। 2 ।।
शिरसाप्रणमाम्यद्यवर्षाहर्ष प्रदायिकाः । ब्रसीनिविष्टा स्सततं दक्षिणामुख माक्षिताः ।। ॐ भूः वर्षऋतुमावाहयामि ।। 1 ।।
शारदो भविताह्यस्मत्प्रार्धितानां प्रदायकः ऋतुः प्रत्यङ्मखासीनः स्फाटिकं वलयंवहन् ।। ॐ भूः शरदृतुमावाहयामि ।। 2 ।।
हेमान्तऋतरस्माक मुदङ्मक मूपाश्रितः । शिखीयज्ञोपवीति च प्रसीदतु शुभप्रदः ।। ॐ भूः हेमंतऋतु मावाहयामि ।। 3 ।।
शिशिरं शिरसानौमि ऋतुमार्थमुखं स्थितं । सूर्यबिंबाहितदृशं पंचाक्षर जपोद्यतम् ।। ॐ भूः शिशिरऋतु मावाहयामि ।। 4 ।।
वसन्तमृतु मीडेहं वसन्तं व्याघ्रचर्मणी । अक्षमालोज्वलकरं ब्रह्मसूत्र विभूषितं ।। ॐ भूः वसन्तऋतु मावाहयामि ।। 5 ।।
ग्रीष्मं प्राङ्मुखमासीनं विष्टरेमुनिपूजिते । कमंडलूज्ज्वलकरं नमामि शिरसान्वहम् ।। ॐ भूः ग्रीष्मऋतु मावाहयामि ।। 6 ।।

अधमास देवताः :--
द्विशीर्ष कंचतुर्हस्तं पन्नगेश्वर वाहनम् । उपास्महेशुचिं मासं भक्ताभीष्टप्रदायकम् ।। ॐ भूः शुचिमासयामि ।। 1 ।।
चतुर्मुखं चाष्टभुजं वराह वरवाहनं । नभोमास नमाम्यद्यकैशा नामपनुत्तये ।। ॐ भूः नभोमास मावाहयामि ।। 2 ।।
पंचवक्त्रं दशभूजं सारङ्गप्रवरस्थितम् । नमाम्यहं नभस्याख्यं मासमिष्टस्यसिद्धये ।। ॐ भूः नभस्यमास मासमावाहयामि ।। 3 ।।
षण्मुखं द्वादशभूजं भल्लूक वरसंस्थितम् । भक्ताभीष्टप्रदं नित्यमिषंमास मुपास्महे ।। ॐ भूः इषमास मावाहयामि ।। 4 ।।
त्रिणेत्रं चारुजटिलं चारु चंद्रार्थशेखरम् । कैलासशुखरारूढ मूर्जं मास मुपास्महे ।। ॐ भूः ऊर्जमास मावाहयामीत्यादि ।। 5 ।।
वृषारूढं शूलपाणिं प्रमथावलि सेवितम् । नमामि शिरसा देवं सहाख्यं मास मन्वहम् ।। 6 ।।
शारिका वाहनारूढं खड्गखेट लसत्करम् । द्यायामि मनसानित्यं सहस्यं मासमादरात् ।। 7 ।।
चन्द्रहसोज्वलकरं शक प्रवर वाहनम् । द्यायामीष्टकृते नित्यं तपो मास मनन्यधीः ।। 8 ।।
तपस्यं मासमीडेहं कोकिल प्रवर स्थितम् । ब्रह्मसूत्रोज्वलां संच किरीटां चित मस्तकं ।। 9 ।।
शंख चक्रोज्ज्वल करं किरीटोद्भासि मस्तकम् । जगदानन्द जनकं मधुमास मुपास्महे ।। 10 ।।
कौमेदकी शार्जधरं मासं माधव संज्ञकं । गरुत्मद्वाहन गतं वन्देऽभीष्टस्य सिद्दये ।। 11 ।।
त्रिशीर्षं षड्भुजं भ्रह्मसूत्रोज्ज्वल भूजांतरम् । व्याग्रवाहन मारूढं शुक्रं मास मुपास्महे ।। 12 ।।
येतेषामोन्न मश्शुचि मासायोत्यादिना पूजा जपश्च ।।
प्रधानस्याग्नेयदिग्भागे पक्ष देपते आवाहयेत् ।। दिनेदिनेच गीर्वाणैर्वह्नीन्द्र यमपूर्वकैः । आपूर्यमाण पक्षौय नमश्श्वेतवपुष्मते ।। ॐ भूः शुक्ल पक्षद्देवतांमिन्धुमावाहयामि ।। इंदुर्देवानां -- महते सौभगायेति यद्दवा इतिवा पूजा जपश्च ।। 1 ।।
दिने दिने देवगणान् पुष्णतेऽमृतधारया । असिताय नमस्तेस्तुपितृ प्रीति करायवै । ओं भूः कृष्णपक्ष देवतां सूर्य मावाहयामि ।। कृष्णायद्गोषृरुणीषु -- आस्मृतद्रु इति -- इमं यमइतिवा पूजा जपश्च ।। 2 ।।

प्रथमादि तिथि देवता ध्यानादि

पक्षदेवता दक्षिण दिग्भेगे तिथि देवता आवाहयेत् ।। एहिसाक्षादिहाग्नेत्वं देवानां हव्यवाहक । शांतिकर्मणि पूजार्थमेता मूर्तिं समाविश ।। ॐ भूः प्रतिपत्तिथि देवता मग्निं आवाहयामि ।। आग्नेनयोति पूजा जपस्च ।। 1 ।।
त्वष्टर्जगत्त्रयी धातरिहेहि दयया महीम् । प्रतिमायाममुष्यांत्वं संनिथत्स्व चतुर्मुख ।। ॐ भूः द्वितीया तिथि देवतां ब्रह्मणं आवाहयामि ।। ब्रह्मदेवानामिति पूजा जपश्च ।। 2 ।।
प्रतिमायां हिरण्मय्यामेहि पर्वत कन्यके । नमस्यामि पदाब्जंते पुमर्ध प्रतिपत्तये ।। ॐ भूः तृतीया तिथि देवतां गौरी मावाहयामि ।। ऋचिगौरीर्मिमायेति ।। यजुषी गौरी मिमायेति पूजा जपश्च ।। 3 ।।
विघ्नंधकार बालार्क पार्वतिमलसंभव । गजाननार्चां गृह्मष्व प्रतिमायां निषीदभो ।। ओं भूः चतुर्थीतिधि देवतां गणेशं आवाहायामि ।। गणानांत्वेति पूजा जपश्च ।। 4 ।।
सर्पभ्योहि मयाहुतः प्रतिमायां कृतादरः । पूजयामि पदांभोजं सर्व संपद वाप्तेय ।। ॐ भूः पंचमीतिथि देवतां सर्पानावायामि ।। नमो आस्तु सर्पेभ्य इति पूजा जपश्च ।। 5 ।।
षडानन नमस्यांते करवाणि पदाब्जयोः । प्रतिमायां हिरण्मय्या मेहिवल्ली मनः प्रिय । षष्ठीतिथि देवतां षण्मुखं मवाहयामि ।। कुमारं माता युवतिरिति पूजा जपश्च ।। 6 ।।
सहस्र भानो चंडांशो प्रतिमामेहि सादरं । त्रयीतनोनमस्यांते भूयो भूयः करोम्यहम् ।। सप्तमी तिथि देवातं आदित्यं ।। आकृष्णेनेति आसत्येनेतिवा पूजा जपश्च ।। 7 ।।
सव्योजात नमस्तेस्तु गौरीनाथ जगत्पते। प्रसादं कुरुमे शंभो प्रतिमां प्रप्नुहिनभो। अष्टमी तिथि देवतां रुद्रं ।। सद्यो जातमिति पूजा जपश्च ।।8।।
दिर्गे त्रिनयने चंद्रकलांचित शिरोरुहे इहागत्य प्रसादंम्मेरचयाशु महेश्वरि।।
नवमी तिथि देवतां दुर्गा ---जातवेदस इति पूजा जपश्च ।।9।।
भुभार भुग्नग्रवाय विश्णु पादांक मौलये।नमो नमोस्तु नागाय प्रतिमा मोहि सत्वरं।।दशमी तिथि देवता मादि शेशं---या इषप इति पुजा जपश्च।।10।।
श्रुतिवेद्य स्वरूपाय यागादि कृतुमुर्तये ।भुरिश्रेय स्सधनाय धर्मय महते नमः।।एकादशी तिथि देवता धर्म --ॐ नमो धर्मयैति पूजा जपश्च ।।11।।
हारे जगज्ञत्रयाधीश लक्ष्मीवल्लभ माधवः ।प्रतिमामेत्य सबसाप्रसादं कुरुमे प्रभो।। द्वादशीतिथि देवतां विश्णुं--हरिगं हरते मित पुजा जपश्च ।।13।।
रति वल्लभ पुषास्त्र नारयण तनूद्भवः। एहिमां प्रतिमां तुर्णं प्रसीदमयि मन्मध।त्रयोदशी तिथि देवतां काम-ॐ नमः कामयैति पुजा जपश्च।।
सर्व धर्म प्रहर्तारं सर्व पाप प्रवर्तकं। पंचना चतुरं वंदे भूतयो कलिभूपतिं ।। चतुर्दशीतिथि कलिदेवतां कलि मावाहयामि।। ॐनमः कलयइति पूजा जपश्च।।14।।
सर्वगीर्वाण सेव्यय लक्ष्मी कामकचक्षुषे । क्षिराब्दि प्रियपुत्राय नमश्चन्दमनेस्तमे।।
पुर्णिमा तिथिदेवतां चन्द्रमावाहयामि।। अप्ययन्वेति पुज जपश्च।।15।।
पित्रुलोक निवासिभः पित्रुभोस्तु नमोनमः । प्रतिमां प्रप्य सौवर्णीं प्रसीदंतु सदामयि।। अमवास्य तिथीदेवतां पित्रुनावाहयामि।। पुनर्मः पितर इति पुजा जपश्च।।16।।
पक्ष देवता पश्चीमदिग्भागे वारदेवता अवाहयेत् ।आदित्य इंदु रंगारो बुधश्चैव बृहस्पतिः।शुक्रश्शनिः क्रमादेते कधिता वारदेवता।।1।।
अग्न्यपो भूमि विष्ण्वंद्रां इद्राणीच प्रजापतिः ।। भन्वादि वारादूशानां क्रमोक्त अधिदेवताः।।2।।
सिवो दुर्गा गृहोविश्णुर्ब्रह्मेद्रः इंद्राणिच प्रजापतिः ।। भान्वादि वाराधीशानां क्रमोक्ता अधिदेवताः।।3।।
भान्वादि वाराभिमानि देवता ध्यनक्रमः :---
वृषारूढं शूलापाणिं प्रमादा परिनेवितं। शिरसा प्रणामा म्यद्य रविवारदिपं देवातां
शिवमावाहयामित्यादि।।1।।
दुर्गां विपत्तिदुतये भुजाश्टक विभुशितां। ध्यायामि दैत्यहंत्रिं तां रक्तास्वादन तत्पराम्।। ॐ भूः इदुवराभिमानि देवता दुर्गा मावाहयामि।।2।।
शक्त्यु ज्ज्वालै कबाहुं शशिधरमकुटं मयारमारुढं . अंगारकाधिनाथं षण्मुख मावाहयामि।।3।।
भस्वात्किरीटं कबाहुं शशिधरमकुटं मयूरामारूढं ।अगार काधिनाथं षण्मुख मीडेमरेंद्रसे न्यानं ।। ॐ भूः भौमनाराभिमानि देवतां विष्णु मावाहयामि ।। 4 ।।
चतुर्मुख श्चतुर्बाहुः कमंडल्वक्षसूत्र भृत् । वराभय करश्शुद्धो गुरुवाराधिपो मतः । ॐ भूः गुरुवाराभिमानि देवतां ब्रह्मणमावाहयामि ।। 5 ।।
इंद्रं गजवरारुढं वज्रंकुश वराभयम् । करैश्चतुभिर्दधतं शुक्राधीश्वर माश्रये ।।
ॐ भूः शुक्रवाराभिमानि देवतां मिंद्रमावाहयामि ।। 6 ।।
पाश दंडोज्ज्वल बुजद्वयं माहिषवाहयनं । यमं नीलतनुं भीमं शनिवाराधिपं भजे ।। ॐ भूःशनिवाराभिमानि देवातंयम मावाहयामि ।। 7 ।।

अष्टवस्वेकादश रुद्र ध्यानादि

तत्पश्चिमभागे अष्टौ देवावसव इति मत्रेणाष्ट वसुदेवता आवाहयेत् ।।
तत्तध्यानक्रमः :--
अक्षमालाधरं भ्रह्मसूत्रोज्ज्वल भुजांतरं । ध्रूवाय यश द्रुमसेचिस्तयामि सदा मुदा ।। ॐ नमो धृवायेति पूजा जपश्च ।। 1 ।।
सृक्स्रुवांक कपद्वंदंवं व्याघ्रचर्मांबरं शुचिं । अग्निशुश्रूवणरत मध्वरं हृदि खावये ।। ॐ नमोऽध्वरायेति पूजा जपश्च ।। 2 ।।
जगदानन्दजनक ममृतस्राविचक्षुषं । रत्निसंहासन गतंसोमं हृदिभावये ।। ॐ नमोस्सोमायेति पूजा जपश्च ।। 3 ।।
सर्वपाप विनाशिप्यस्समुद्र प्रेमपूरिताः आपश्शुभप्रदास्संतु मत्स्यवाहन संगताः ॐ नमोद्भ्य इति पूजा जपश्च ।। 4 ।।
शुभायमे सदाभूयादनिलो लोकपावनः । समस्त देवनिवहसंद्यमान पदांबुजः । ॐ नमोनिलायेति पूजा जपश्च ।। 5 ।।
अधिरूढं शुभदं स्वाहादेवी समन्वितं । किरीटोज्ज्वमूर्धा नमनलं भावयाम्यहं ।। ॐ नमोऽनलायेति पूजा जपश्च ।। 6 ।।
श्वेतवस्त्रधरं श्वेत चन्दनालिप्तदेहकम् ।। प्रत्युषं चिन्तयोभूयुः प्रत्यूहोन्मूलकारणं ।। ॐ नमो प्रत्युषायेति पूजा जपश्च ।। 7 ।।
वसुदेवता दक्षिणभागे कुद्रुद्रायेति मंत्रेण एकादश रुद्रानावाहायेत् ।।
तत्तध्यानानि :--
दक्ष्वाधर ध्वंस करः कोपरूप मूखांबुजः । शूलपाणि स्सुखायास्तु वीरभद्रो ममानिशं ।। ॐ नमोवीरभद्रायेति पूजा जपश्च ।। 1 ।।
ब्रह्म विष्णु गिरीशान देवदानव राक्षसाः । यस्मात्र्पजज्ञिरे देवास्तं शंभुं प्रणमाम्यहं ।। ॐ नमोश्शंभव इति पूजा जपश्च ।। 2 ।।
कैलास शिखर प्रोद्यन्मणि मंदिरमध्यगः । गिरीशो गिरिजा प्राणवल्लबोस्तु मुदेमम ।। ॐ नमोगिरीशायेति पूजा जपश्च ।। 3 ।।
तिसृणांच पूरांहंता कृतान्तमदभंजसः । खड्गपाणिस्तीक्ष्णदंष्टोभैरवोस्तु मुदेमम ।। ॐ नमोभैरवायेति पूजा जपश्च ।। 4 ।।
क्षमारध समारूढं ब्रह्मसूत्र समन्वितं । चतुर्वेदाशअवसहितं पिनाकि नमहंभजे ।। ॐ नमोपिनाकिन इति पूजा जपश्च ।। 5 ।।
वामाज्गकृत संवेश गिरि कन्या सुभावहम् । स्थाणुं समानि सिरसा सर्वेदव नमस्कृतं ।। ॐ नमोस्थमप इति पूजा जपश्च ।। 6 ।।
चंद्रावतं सोजटिलं स्त्रीणेत्रोभन्मपांडरः । हृदयास्थस्सदा भूयाद्बर्गो भय विनाशनः ।। ॐ नमो भर्गायेति पूजा जपश्च ।। 7 ।।
ब्रह्माभूत्वा सृजन् लोकं विष्णुर्भूत्वाच पालयन् ।। रुद्रो भूत्वा हरन्नंते गतिर्मेस्तु सदाशिवः ।। ॐ नमोस्सदाशिवायेति पूजा जपश्च ।। 8 ।।
योदीर्न्दनुत पादाह्जंद्वंन्त्वातीत जनाश्रयं । वेदान्त कृत संचारं स्मरारिं शरणं भजे ।। ॐ नमोस्मृरारय इति पूजा जपश्च ।। 9 ।।
ग्रायश्री प्रति पाद्याय ओंकार कृत सद्मने । कल्याण गुणधाम्नेच शिवाय निहितानतिः ।। ॐ नमोश्शिवायेति पूजा जपश्च ।। 10 ।।
आशीविषैर्हर कृते देवौषु प्रणतांघ्रये । विनाकांकित हस्तायहरायास्तु नमस्क्रिया ।। ॐ नमो हरायेति पूजा जपश्च ।। 11 ।।
रुद्र देवता पश्चिमभागे नक्षत्र योगकरण देवता आवाहयेत् ।।

 क्ष त्र दे व ता ध्या ना दि

कृत्तिकादि क्रमेण :--
श्लो ।। कृत्तिकाह्यग्नि दैवत्या मेषवाहन संस्थिताः । स्रुत्स्रुवाभीति वरधृच्चतुर्हस्तान माम्यहम् ।। कृत्तिकानक्षत्र देवतामग्नि मावाहयामि ।। अग्निर्नः पात्वीति पूजा जपश्च ।। 1 ।।
प्रजापति श्चतुर्बाहुः कमंडल्वक्ष सूत्र धृत् । वराभय करश्शुक्लो रोहिणेदेवतास्तुमे । रोहिणी नक्षत्रदेवतां प्रजापति मावाहयामि । प्रजापते रोहिणी वेत्विति पूजा जपश्च ।। 2 ।।
श्वेत वर्णाकृति स्सोमोद्विभूजो वरदंत भृत् । दशाश्वरधमारूढो मृगशीर्षोस्तुमेमुदे ।। सोमोराजेति पूजा जपश्च ।। 3 ।।
रुद्रश्श्वेत वृषारूढ श्श्वेतमाल्य श्चतुर्भुजः । शूलकढ्गा भयवरान् दधानोमे प्रसीदतु ।। आर्द्रा नक्षत्र देवतां रुद्र मावाहयामि ।। आर्द्रयो रुद्र इति पूजा जपश्च ।। 4 ।।
अदितिः पीडवर्णाच स्रुक्स्रवं दर्भ संयुतं । दधाना शुभदाभूया त्पुनर्वसु कृताह्वया ।। पुनर्नो देवीति पूजा जपश्च ।। 5 ।।
वंदे बृहस्पतिं पुष्य देवतां मानुषा कृतिं । सर्वाभरणसंपन्नं देवमन्तिण मादरात् ।। पुष्य नक्षत्र देवतां बृहस्पति मावाहयामि ।। बृहस्पतिः प्रधममिति पूजा जपश्च ।। 6 ।।
सर्पोरक्त त्रिणेत्रश्च फलरासि करद्वयः । आश्रेषा देवतापीतांबर धृद्वरदोन्तुमे ।। इदगं सर्वेभ्य इति पूजा जपश्च ।। 7 ।।
पितरः पिंडहस्ताश्च कृशाधूम्राः पवित्रिणः । कुशलं दद्युलस्माकं मघा नक्षत्र देवताः ।। उपहुताः पितर इति पूजा जपश्च ।। 8 ।।
संपूज याम्यर्य मणं फल्गुवीतार देवतान् ।। धूम्रवर्म रथारूढं सशक्तिकर संयुतम् ।। पूर्वाफल्गुनी देवतां सूर्यमावाहयामु ।। गवां वतिरिति पूजा जपश्च ।। 9 ।।
भगंवर रधारूढं द्विभुजं शंख चक्रिणं । फल्गुनी देवतांध्याये द्भक्ताभीष्ट वरप्रदं ।। उत्तराफल्गुनी नक्षत्रदेवतां भगमावाहयामि ।। श्रेष्ठो देवानामिति पूजा जपश्च ।। 10 ।।
सवितार महंवंदे सप्ताशअवरथ वाहनम् । पद्माननस्थं छायेशं हस्तानक्षत्र देवताम् ।। आयुतु देवस्सवितोपयात्विति पूजाजपश्च ।। 11 ।।
त्वष्टारं रधमारूढं चित्तानक्षत्र देवतां । शंख चक्रान्वितकरं किरीटिन महंभजे ।। त्वष्टा नक्षत्र मभ्येतीति पूजा ।। 12 ।।
वायुं मृगवरारूढं स्वाती नक्षत्र देवतां । खेट चर्मोज्ज्वल करिद्वितयं प्रणमाम्यहं ।। वायुर्नक्षत्र मिति पूजा ।। 13 ।।
इंद्रीग्नी शुभदौ स्यातांविशाखा देवते उभौ । नमोम्येक रथा रूढौ वराभीति करांबूजौ ।। विशाखा नक्षत्र देवते इंद्रागी मावाहयामि ।। दुर मस्म च्चत्रव इति पूजा ।। 14 ।।
मित्रं पद्मासनारूढ मनूराधेश्वरं भजे । शूलांगुश धरं बाह्वोः देवं शोणितवर्णकम् ।। ऋध्यास्महव्यैरिति पूजा ।। 15 ।।
इंद्रं गजवरा रूढं वज्रपाश वराभयम् । करैश्चतुर्भिर्धधतं ज्येष्ठंधीश्वर माश्रये ।। इंद्रो ज्येष्ठामिति पूजा ।। 16 ।।
कराल वदनं कृष्णं यातु धानं नृवाहनं । ऊर्ध्वकेशं विरूपाक्षं भजे मूलाधि देवताम् ।। मूलं प्रजामिति पूजा ।। 17 ।।
आषाढा देवता नित्यमाव स्संतु शुभ प्रदाः । समुद्र गास्तरंगिण्यः पाविन्य स्सर्वदेहिनाम् ।। पूर्वाषाडा नक्षत्र देवता अप आवाहयामि ।। या दिव्या इति पूजा ।। 18 ।।
विश्वान् देवानहं वंदेऽषाढा नक्षत्र देवताः । श्रीपुष्टि कीर्तिधीधात्रि स्सर्वपापाप नुत्तये ।। उत्तराषाढा नक्षत्र देवता विश्वान् देवानाहयामि ।। तन्नो विश्व इति पूजा ।।
19 ।।
निर्गुणं ब्रह्म भूयान्मेज्ञा नैश्वर्य प्रदं सदा । अभिजित्तरा केशानं वेदांत कृत संश्रयम् ।। अभिजिन्नक्षत्र देवतां ब्रह्ममावाहयामि ।। यस्मिन् ब्रह्मेति पूजा ।। 20 ।।
शान्ताकारं चतुर्हसन्तं श्रोणा नक्षत्र वल्लभम् ।। विष्णुं कमलपत्राक्षं ध्याये द्गरुड वाहनम् ।। श्रवणा नक्षत्र देवतां विष्णु मावाहयामि ।। शृण्वां तीति पूजा ।। 21 ।।
श्रनिष्ठा देवतां वंदे वसून् रथ वराश्रितान् । शंख चक्रांकित करान् किरीटांकित मस्तकान् ।। धनिष्टा नक्षत्र देवतावसूमावाहयामि ।। अष्टौ देवा वसव इति पूजा ।। 22 ।।
वरुणं नततं वंदे सूधा कलश धारिणं । पाशहस्तं शतभिषग्देवतां देव वंदितम् ।। शतबिषङ्न नक्षत्र देवता वरुणमावाहयामि ।। क्षत्रस्य राजेति पूजा ।। 23 ।।
शिरसाह नुजं वंदे एकपादं तमोपहं । मुदे प्रोष्थपदे शानं सर्वदेव नमस्कृतम् ।। पूर्वाभाद3पद नक्षत्र देवता मजमेकपादमावाहयामि ।। आज एकपादुदगादिति पूजा ।। 24 ।।
अहिर्मे बुध्नियो भूयान्मुदे प्रोष्ठपदेश्वरः । शंख चख्रां कित करः ररीटो ज्वलमौलिमान् ।। उत्तराभाद्र देवता महिर्बुध्नियमावाहयामि ।। अहिर्पुध्नय इति पाजा ।। 25 ।।
पूषणं द्विपदं वंदे रेवतीशं समुद्दये । वरा भयोज्ज्वल करं रत्न सिंहासने स्थितं । रेवती नक्षत्र देवतां पूषणमावाहयामि ।। पूषा रेवत्यन्वेति पूजा ।। 26 ।।
अश्विनौ देवते श्वेतवर्णौ तौद्वि भूजास्तुमः । सूधा संपूर्ण कलश कराब्बावश्व वाहनौ ।। अश्विनी नक्षत्र अश्विनावाहयामि ।। दतश्विनाविति पाजा जपश्च ।। 27 ।।
पाश दंडोज्ज्वल भूजद्वयं महिष वाहनम् । यमं नीलतनुं भीमं बरणी देवतां भझे ।। भरणी नक्षत्र देवतां यम मावाहयामि ।। तद्ययोराजेति पूजा जपः ।। 28 ।।

अ थ यो ग दे व ता द्या ना दि

विष्कंभं शिरसा वंदे विष्णुगोत्र समुद्बवम् ।। प्राङ्मुखं प्रांजलि करं त्रिकोणोपरि संस्थितम् ।। ओं नमो विष्कंभायेत्यावाहनादि पूजा ।। 1 ।।
प्रीति मीडेह मनिशं ब्रह्मगोत्र समुद्भवं । प्राङ् मुखं पुंडरीकस्थं जपमाला धरं शुभं ।। ॐ नमः प्रीतय इत्या वाहनादि पूजा ।। 2 ।।
आयुषंत महं वंदे योगं योगिभिरीडितम् । प्रङ् मुखं पंचकोण्स्थ मत्रि गोत्र समुद्भवं ।। ॐ नमः आयुष्मत इति पूजा ।। 3 ।।
सौभाग्यं नौमि शिरास चतुष्कोण मुपाश्रितं । कौंदिन्य ग्रोत्र जनितं प्राङ् मुखं जपतां परम् ।। ॐ नमः स्साभाग्यायोदि पूजा ।। 4 ।।
प्राङ् मुखं पंचकोणस्थं शांडिल्यान्वय संभवम् । शोभनं शोभनकरं समाता माश्रये सदा ।। ॐ नमः श्शोभनायेति पूजा ।। 5 ।।
वाधुलान्वय संभूतं पंचकोणो परिस्थितं । अति गंडाभिधं वंदे जपंतं प्राङ्मुखं सदा ।। ॐ नमेति गंडायोति पूजा ।। 6 ।।
सुकर्माणं योग महं दक्षणामुख माश्रये । कौशिकान्वय संभूतं जपंतं लोक पूजितं ।। ।। ॐ नमः स्सुकर्मण इति पूजा ।। 7 ।।
धृतिर्योग स्सदाभूया दात्रे यान्वय संभवः । दक्षिणामुख मासिनो वेदा म्रेडन तत्परः ।। ।। ॐ नमो धृतय इति पूजा ।। 8 ।।
?0 ?0शूलनामा महान्योगो भूया दिष्टोर्धदो मम । दक्षिणामुख मासीनः कुंडिनान्वय संभवः ।। ॐ नमश्शुलायेति पूजा ।। 9 ।।
योगोस्तु गंडनामामेमु देशांडिल्य वंशजः । दक्षिणामुख मासिनो ब्रह्मपारायणं पठन् ।। ॐ नमः गंडायेति पूजा ।। 10 ।।
वृद्दि र्वृद्दि प्रदोमेसु कौशिको दक्षिणामुखः । चिंतय न्ब्रह्मा परमं ब्रसी माश्रीत्यविष्टितः ।। ।। ॐ नमः नमो वृद्दय इति पूजा ।। 11 ।।
धृत्यै ध्रूवोस्तुमे नित्यं योगोयं दक्षिणामुखः । अक्षमालांकरेबिभ्रद्गायत्री मादराज्जपन् ।। ।। ॐ नमधृवायेति पूजा ।। 12 ।।
व्याघात शिरसानौमि व्यासान्वय समुद्भवम् । प्रत्यक् मुखोप विष्टंतं प्र्र्यग्ररवि सन्निभम् ।। ॐ नमः व्याघातायेति पूजा ।। 13 ।।
हर्षणं हर्षणं वंदे प्रत्यङ् मुख मुदर्बिषम् । पठंतं देदमनिशं काश्यपान्वय सम्भवम् ।। ॐ नमः हर्षणायेतिपूजा ।। 14 ।।
वज्रनाम भवेध्योगो भरद्वाजान्वयोद्भवः । प्रत्यङ् मुखमुपासीनः पठन् प्रणव मन्वहम् ।। ॐ नमः प्रजायोतिपूजा ।। 15 ।।
प्रत्यङ्माखो ब्रह्मवंश्य सिद्धि सिद्धि प्रदोस्तुमे ।। विष्टरो परिसंविष्टो सेदांत पठनोन्मुखः ।। ॐ नमः स्सद्धय इति पूजा ।। 16 ।।
स्मराम्यहं व्यतीपातं वीतहव्या न्वयोद्भनम् । प्रत्यङ्मखं पाठयंतं वेदांच्चिष्या सहर्निशम् ।। ॐ नमोव्यतीपातायेति पूजा ।। 17 ।।
वरीयान्माम योगोयं वरदोस्तु सदामम । प्रत्यङ्मखः प्रांजलिकः सामवेद कुलोदितः ।। ॐ नमः वरीयन इतिपूजा ।। 18 ।।
उदङ्मखो ब्रह्मगोत्रो योगः परिघनामकः । कैलास शिखरारूढ स्सामगाय्न् भवन्मुदे ।। ॐ नमः वरीयस इति पूजा ।। 19
शिव शिवाय मे भूयाच्छि वाराधन तत्परः । निष्णु वंशसमुद्भात ऋगध्यापन तत्परः ।। ॐ नमः वरघायेति पूजा ।। 20 ।।
सिद्धि सिद्धि प्रदोमेस्तु कंडिवान्वय संभवः । उदङ्मख स्स्वशिष्येभ्यो यजुंषि सततं पठन ।। ॐ नमः नमस्सिधायेति पूजा ।। 21 ।।
साध्यनामा भवेद्योग श्शोकानामपनुत्तये उदन्मखो महामंत्र माधर्वण मनुस्मरन् ।। ॐ नमस्साध्यायेति पाजा ।। 22 ।।
शुभ शुभयमे भूया द्वासिष्ठान्वय संभवः । उदङ्मखो जपन्मंत्रंशैवं पंचाक्षरं शुभम् ।। ॐ नमः शुभयेति पूजा ।। 23 ।।
शुक्लनामा महन् योगो योगी स्वयमुदङ्मखः । प्रत्यग्दृष्टिर्मुदे भूया त्कौशिकान्वय संभवः ।। ॐ नमः शुक्लायेतिपूजा ।। 24 ।।
ब्राह्मो ब्रह्मकुलोद्भूतो महा नूर्धृमुख स्थितः । ब्रह्मण्याहित तृष्टिस्सन् तपन्नस्तु सुखायमे ।। ॐ नमो ब्राह्मायेति पूजा ।। 25 ।।
ऐन दाय प्रमतिर्मेस्या दूर्ध्व प्रेरित दृष्टये । वाधूलान्वयजाताय वरदाय सदानृणाम् ।। ॐ नम ऐं द्रायेतिपूजा ।। 26 ।।
वैधृतिर्नामयो गोसापूर्ध्व दृष्टि शुभोस्तुमे । कौडिस्य गोत्रजो ब्रह्म संस्मरन्मनसान्वहम् ।। ॐ नमोवैधृतय इति पूजा जपश्च ।। 27 ।।


अथ करण देवताध्यानादि

सद्योजातं बवाख्यानं चंद्रार्धकृत शेखरम् । तपस्वि संघसंसेव्य करणं प्रणमाम्यहम् ।। ॐ नमो बवायोत्यावाहनादि पूजा ।। 1 ।।
करणं बाल वाख्यानं वामदेव नमाम्यहं । नेत्रत्रयोज्ज्वल मुखं नमामि जल वृद्धिदम् ।। ॐ नमः बालवायोति पूजा जपश्च ।। 2 ।।
अघोरं कौलवाक्यानं चर्मांबरधरं शुचिम् । नमामि मोक्षदातारं वेदांत प्रतिपादितं ।। ॐ नमः कौलवायोति पूजा जपश्च ।। 3 ।।
तैतुलाख्यंतत्पुरुषं गंगोद्भासित मस्तकम् । समस्तगीर्वाण नुतं नौमि पुत्रादि वृद्धिदम् ।। ॐ नमस्तैतुलायेति पूजा जपश्च ।। 4 ।।
नमामि शिरास नित्य मीशानंगरजाह्वयम् । वामांग नित्यसंविष्टं हेमाद्रि तनयोज्ज्वलम् ।। ॐ नमः गरजायेति पूजाजपश्च ।। 5 ।।
शिवं वणिक्स्वरूपंतं शिरसा प्रममाम्यहं । प्रमथावृतपर्यंतं शूलोज्ज्वल करांचलम्।। ॐ नमो वणिज इति पूजादि ।। 6 ।।
विरूपाक्ष महंवन्दे शकुनीति कृताह्वयम् । आरोग्यदं प्रणमतां जटा मंडल मडितं ।। ॐ नमः शकुनये इति पूजा ।। 7 ।।
भद्राय महते भूया द्बद्रख्यः पार्वती पतिः । रुद्राक्ष मालिकोद्भासि कंधर शुभवर्दनं ।। ॐ नमो भध्रायेति पूजा जपश्च ।। 8।।
चतुष्पत्कृत संज्ञाय नीलकंठाय शंभवे । अमरसन्तुत्य पादाब्ज युगलाय नमो नमः ।। ॐ नमः श्चतुष्पदे इति पूजा ।। 9 ।।
नाग चर्मांबर धरं नागवाख्य मुमापतिम् । ध्याये त्समस्तसिद्ध्यर्थ मुत्तुंग वृषभाश्रयम् ।। ॐ नमः नागवायेति पूजा ।। 10 ।।
नमस्यां करवै नित्यं किंस्तूघ्नाख्याय शूलिने । भस्मोद्धूलित देहय वेदांत कृत सद्मने ।। ॐ नमः किंस्तुघ्नयोति पूजा ।। 11 ।।

प्रधानस्य निरृति दिद्भागे नवदुर्गाः पूजयेतत्

वंदे वांछित लाभाय चंद्रार्दकृत शेखरम् । वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ।। ॐ नमश्शैव पुत्र्या इत्यावाहयनादि ।। 1 ।।
दधाना करपद्माख्या मक्षमालांक मंडलम् देवी प्रसीदतु मम ब्रह्मचारिण्यनुत्तमा ।। ॐ नमो ब्रह्मचारिण्या इति पूजा ।। 2 ।।
अंडज प्रवरारूढ चंडरोपार्भटीयूता । प्रसादं तनुतां मह्यं चंड खंडेति विशृता ।। ॐ नमश्चंड खंडाया इति पूजा ।। 3 ।।
संहासन गता नित्यं पद्मांचित करद्वया । शुभदास्तु सदादेवीस्कंद माता यशस्विनी ।। ॐ नमस्कंदमात्र इति पूजा ।। 4 ।।
सूरापूर्णंच कलशं रुधिराप्लुतमेवच । दधाना हस्त पद्माभ्यां कूष्मांडा शुभदास्तुमे ।। ॐ नमः कूष्मांडाया इति पूजा जपश्च ।। 5 ।।
चंद्र हंसोज्जलकरा शार्दूल वरवाहना कात्यायनी शुभंदद्याद्देत्यादा नवघातिनी ।। ँ़ नमः कात्यायन्या इति पूजा ।। 6 ।।
कराल रूपा कालाब्द समानाकृति विग्रह । कालरात्रि श्शुभं दद्याद्देवी चंडाट्ट हसनी ।। ॐ नमः कालरात्र्या इतिपूजा ।। 7 ।।
श्वेत हस्ति वरारूढा श्वेतांबर धराशुचिः । महा गौरी शुभं दद्यास्महादेव प्रमोददा ।। ॐ नमो महागौर्या इति पूजा ।। 8 ।।
सिद्ध गंधर्व यक्षाद्यैर मरैर सुरैरपि। सेव्यमाना सदा भूया त्सद्धिदा सिद्धिदायिनी
।। ॐ नमस्सिद्दिदायिन्यै इति पूजा ।। जातवेदस इति मंत्रेण षोडशोपचार पूजां कुर्यात् ।। 9 ।।

अथ ब्रह्म विष्णुरुद्र गणपत्यादिध्यानादि

प्रथानस्य पश्चिम दिग्भागे ब्रह्मविष्णु रुद्र गणपति क्षेत्रपाला भयंकर वास्तु पुरुष राशिदेवता आवाहयेत् ।।
पद्मासनं चतुर्वक्त्रं द्विचतुर्हस्तमेवच । ब्रह्मसूत्रोज्वलं ध्येये द्वेदाम्रेडन तत्परम् ।। ब्रह्मा देवाना मित्यादवाहनादि ।। 1 ।।
गरुत्मद्वाहनारूढं शंख चक्र धरं हरिम् । पीतांबरं हृदिध्याये त्सर्वाभीष्टस्य सिद्धये ।। विष्णोर्नुकमितिपूजा ।। 2 ।।
त्रिनेत्रं जटिलं हस्ते चर्मांबर धरं शिवं । शूलहस्तं वृषारूढं द्यायामि गिरिजापतिम् ।। कद्रुद्रायेति पूजा जपश्च ।। 3 ।।
एकदंतं गजमुखं शुंडालं मोदकप्रियम् । शूर्पकर्णं नमस्यामि शिरसाखु वरस्थितम्।। गणानांत्वेति पूजा ।। 4 ।।
उत्तुंग वृषभारूढं पद्म पत्राय तेक्षणं । क्षेत्रपाल महं वंदेसर्वारिष्टस्य शांतये ।। क्षेत्रस्य पतिनेति पूजा ।। 5 ।।
अनम्रजन संदोहा भीतिव्रात विनाशनं । अभयंकरमीडेहं सततं सौख्यदायिनम् ।। यत इंद्रेति पूजा ।। 6 ।।
मानदंडकराब्जेन वहंतं भूमि शोदकम् ।
वंदेहं वास्तु पुरुषं शयानं शयने शूभे ।।
वास्तोष्पति इति पूजा.

अथ राशि देवता ध्यानादि

तीक्ष्णशृंग युतं दीर्घ सटाकूट विराजितम् । रक्ताक्षं कुंचितपदंमेषं मेषं हृदि विभावये ।। ॐ नमो मेषायोत्या वाहनादिपूजा ।। 1 ।।
संचार्य चल संकाशं तीक्ष्ण शृंग द्वयान्वितं । ककुद्विराज मानांसं वृषभं हृदिभावये ।। ॐ नमो वृषभायेति पूजा जपश्च ।। 2 ।।
परस्परानु रागाढ्य मन्योन्य सदृशाकृति । अन्योन्या श्लिष्टहस्ताब्जं हृदिभावये ।। ॐ नमो मिदुनायेति पूजा जप ।। 3 ।।
वारि पूरांत रचरं षडंघ्रीं लोहितेक्षणम् । कुक्षि विन्यस्तवदनंद्यायामि हृदि
कर्कटम् ।। ॐ नमः कर्कटायेतिपूजा ।। 4 ।।
चंडाट्टहान भयदं दन्तिमस्तक भेदनम् । दीर्घ लांगूलसंयुक्तं सिंहं हृदि विभावये ।। ॐ नम सिंहायोति पूजा ।। 5 ।।
पति मुद्दिश्य सदृशं तपस्यंतीं मिकाशनम् । पूर्ण चंद्रमुखीं कान्तां कन्यां हृदि विभावये ।। ॐ नमः कन्याया इति पूजा ।। 6 ।।
वदार्दमान सिद्ध्यर्थं ब्रह्मणा कल्पितां पुरा । तलावामेति कथितां संख्यारूपामुपास्महे ।। ॐ नमोस्तुलाय इति पूजा ।। 7 ।।
हालहल समायुक्तं नीलतोयद सन्निभम् । आतोल्यमानपुच्छग्रं वृश्चिकं हृदि भावये ।। ॐ नमो वृश्चिकायेति पूजा ।। 8 ।।
ईषन्नमित कोट्यग्र दृढज्यांबंध नान्वितम् । आरोपितोग्रबाणाग्रंधनूर्हृदि विभावये ।। ॐ नमोधनुष इति पूजा ।। 9 ।।
अंभोधि घोरजठरकृत भूयिष्टखेलनं । जलजंतु प्रतिभयं कमलं हृदिभावये ।। ॐ नमो मकरायेति पूजा ।। 10 ।।
सौवर्णं रत्न खचितं सुधा पूराभि पूरितम् । वैनतेत जवानीतं कुंभं हृदि विभवये ।। ॐ नमः कुंभाय इति पोजा ।। 11 ।।
निमेष हीन नयनं स्पुरंतं वारिदेह्जले । ममाभिष्टस्य सिद्ध्यर्थं मीनं हृदि विभावये ।। ॐ नमो मीनाय इति पूजा ।। 12 ।।

सप्त मरुत्पंच ब्रह्मवाहनादि

तीक्ष्णशृंग युतं दीर्घ सटाकूट विराजितम् । रक्ताक्षं कुंचितपदं मेषं हृदि विभावये ।। ॐ नमो मेषायोत्या वाहनादि पूजा ।। 1 ।।
संचार्य चल संकाशं तीक्ष्ण शृंग द्वयान्वितं । ककुद्वि राजमानांसं वृषभं हृदि भावये ।। ॐ नमो वृषभायेति पूजाजपश्च ।। 2 ।।
परस्परानुरागाढ्य मन्योन्य सदृशाकृति । अन्येन्या श्लिष्ट हस्ताब्जं मिधुनं हृदि भावये ।। ॐ नमो मुदुनायेति पूजा जप ।। 3 ।।
वारि पूरांत रचरं षडंग्रीं लोहितेक्षणम् । कुक्षि विस्यस्तवदनं द्यायामि हृदिकर्कटम् ।। ॐ नमः कर्कटायेतिपूजा ।। 4 ।।
चंडाट्टहास भयदंदन्तिमस्तक भेदनम् । दीर्घ लांगूलसंयुक्तं सिंहं हृदि विभावये ।। ॐ नमो कर्कटायेतिपूजा ।। 5 ।।
पति मुद्दिश्य सदृशं तपस्यंतीं मिताशनम् । पूर्ण चंद्र मुखीं कान्तां कन्यां हृदि विभावये ।। ॐ नमो कन्याया इति पूजा ।। 6 ।।
पदार्दमान सिद्ध्यर्थं ब्रह्मणा कल्पितां पुरा । तुलावामेति कथितां संख्यारूपा मुपास्महे ।। ॐ नमोस्तुलाय इति पूजा ।। 7 ।।
हालाहल समायुक्तं नीलतोयद सन्निभम् । आतोल्यमानपुच्छाग्रं वृश्चिकं हृदि भावये ।। ॐ नमो वृश्चिकायेति पूजा ।। 8 ।।
ईषन्नमित कोट्यग्र दृढज्याबंध नान्वितम् । आरोपितोग्र बाणाग्रंधनूर्हृदि विभावये ।। ॐ नमोधनुष इति पूजा ।। 9 ।।
अंभोदि घोरजठरकृत भूयिष्टखेलनं । जलंजंतु प्रतिभयं कमलं हृदि विभावये ।। ॐ नमो मकरायेतिपूजा ।। 10 ।।
सौवर्णं रत्न खचितं सुधा पूराभि पूरितम् । वैनतेय जवानीतं कुंभं हृदि विभावये ।। ॐ नमो कुंभाय इति पोजा ।। 11 ।।
निमेष हीन नयनंस्पुरंतं वारिधेर्जले । ममाभीष्टस्यसिद्ध्यर्थं मीनं हृदि विभागे ।। ॐ नमो मीनाय इति पूजा ।। 12 ।।

सप्त मरुत्पंच ब्रह्मावाहनादि

प्रधानस्य वायव्य दिग्भागे सप्त मरुद्देवताः पंच ब्रह्मादेवताश्चा वाहयेति -- आसमंतात्संचरिष्णु स्सुतीव्र गरुडस्थितः । अवहो मरुतां श्रेष्ठ स्सुखायास्तु सदा मम ।। ॐ नम आवाहायेति पूजा जपश्च ।। 1 ।।
जगतां भंजनं कुर्वन् विपरीत प्रधाववैः । नभो मध्यगतौवायुर्विवहो भूतिदोस्तुमे ।। ॐ नमो विवहायेत पूजा जपश्च ।। 2 ।।
प्रचंडगति निर्दूत प्रपलायित पर्वतम् । प्रवहंप वनश्रेष्ठ शिरपाप्रणमाम्यहं ।। ॐ नमः प्रवहायेति पूजा जपश्च ।। 3 ।।
उद्वेलयन् पयोराशीन् गिरीनुन्मूलयं स्तरून् । जगंतिक्षोभय न्नित्य मुद्व हस्सेव्यते मया ।। ॐ नमो उद्वहाय इति पूजा ।। 4 ।।
जगदानंद जनको गंधहारीश्श नैश्शनैः । शीतांबूकण संवाहास्संवहा स्सुख दोस्तुमे ।। ॐ नमोस्सवहाय इति पूजा ।। 5 ।।
प्राणा पानादि रूपेण जगति व्याप्य जिवयन् । सेव्यतां प्राणि निवहैः मरुत्परि वहाभिदः ।। ॐ नमो परिवाहाय इति पजा ।। 6 ।।
प्राति कूल्येन धावंतं भ्रामयंतं जगत्रयं । मरुतां प्रवरं नित्यमाश्रये प्रवहभिधम् ।। ॐ नमो प्रवहाय इति पूजा ।। 7 ।।
मारुतमसीति मत्रेण सर्वेषां मरुतां सर्वोपचार पूजाजपश्च -- सद्योजातादिभिः पंचबिर्मंत्रैः पंच ब्रह्मपूजा ।। तधाहि अक्षमालावराभीति हस्तं त्र्यंक्षं चतुर्मुखं । कुंदेंदु
शंख धवलं सद्योजातं समाम्यहं । सद्योजातं प्रपद्यामीत्या वाहनादि ।। 1 ।।
अक्षमालाभय वरटंक हस्तं त्रिलोचनम् । किंडल्काभं चतुर्वक्त्रं वामदेव महंभजे । वामदेवाय नमो ज्येष्ठा योत्या वाहनादि ।। 2 ।।
कुठारांकु पाशाक्ष सूत्र ढक्का कपालवान् । त्र्यक्ष श्चतुर्मुखोऽघोरः पातुमां नील विग्रहः ।। अघोरेभ्योऽथ घोरेभ्यइतित्यावाह्य ।। 3 ।।
प्रजीप्त विद्युत्कनकवर्णंत्र्यक्षं चतुर्मुखं । विदयावरकुतारादिहस्तं तत्पुरुषंभजे ।। तत्पुरुषाय विद्महे इत्यावाहनादि ।। 4 ।।
टंक पाशांकुशाभीति वेद ढक्काक्ष शूलवान् । सितद्युतिः पंचमुख ईशानोऽस्मान् सदावतु ।। ईशान स्सर्वविद्यानामित्यावाहनादि ।। 5 ।।
प्राणा पानादि रूपेण जगति व्याप्य जीवयन। नेव्यतां प्राणिनिवहैः मरुत्परि वहाभिदः।। ॐ नमः परिवाहाय इति पूजा।।6।।
प्राति कूल्येन धावंतं भ्रामयंतं जगत्त्रयं। मरुतां प्रवरं नित्यमाश्रये प्रवहभिदम ।।
 ॐ नमः प्रवहाय इति पूजा।।7।।
मारुत मसीति मंत्रेण सर्वेषां मरुतां सर्वोपचार पूजाजपश्चसद्योजातादिभिः पंचबि र्मंत्तौःपंच ब्रह्म पूजा।। तधाहि अक्षमालावराभीति हस्तं त्र्यिक्षं चतुर्मुखं। कुंदेंदु शंख धवलं सद्योजातं प्रपद्यामीत्या वाहनादि ।।1।।
अक्षमालाभय वरटंक हस्तं त्रिलोचनम । किंजल्काभं चतुर्वक्त्रं वामदेव महंभजे।वामदेवायनमौ ज्येष्ठा येत्यावाहनादि ।।2।।
कुठांरांकुश पाशाक्ष सूत्र ढक्का कपालवान । त्य्रक्ष श्चतुर्मुखोऽ घोरः पातुमां नील विग्रहः ।। अघेरेभ्योऽथ घोरेभ्यइतित्यावाह्य ।।3।।
प्रदी प्त विद्युत्कनक वर्णंत्य्रक्षं चतुर्मुखं । विद्यावर कुठारादि ह स्तं तत्पुरुषायविद्महेइत्यावाहनादि ।।4।।
टंक पाशांकुशाभीति वेद ढक्काक्ष शूलवान । सितद्युतिः पंचमुख ईशानोऽस्मान सदावतु ।। ईशान स्सर्वविद्यानामित्यवाहनादि ।।5।।
आदित्यादि नवग्रह पूजा
प्रधानस्योत्तर दिग्भागे नवग्रह देवताः ग्रह यज्‍ञोक्त प्रकारेण पूजयेत । तत्प्रकारः प्रदर्श्यते ।। गोधूमा स्तंडुलाशौ वएतानि नवधान्यानि :---
मध्ये गोधूम धान्यो परिवर्तुलाकार मंडले सांगं सायुधं सवानं सशक्ति पुत्र मित्र पत्नू परिवार मदि देवता प्रत्यधि देवता सहिकं भगवंतं सूर्य ग्रह मावाहायामि ।। एवमाद्ग्नेय्यां तंडुलो परिचतुरशाकार मंडले अंगारकग्रहम । दक्षिणस्यां अढकधाल्योपरित्रि कोणाकार मंडले अंगारकग्रहम् । ऐशान्यां मुद्गध्योपरि बाणाकार मंडले बुधग्रह । उत्तरस्यांचणक धान्योपरि धीर्घ चतुरश्र मंडले बृहस्पति ग्रहम् ।
प्राच्यां निष्पावधान्योपरि पंचकोणाकार मंडले शुक्र ग्रहम् । प्रातीच्यां तिलधान्योपरिधनुराकार मंडले शनैश्चर ग्रहम् । नैरृत्यां माषदान्योपरि शूर्पाकार मंडलं रूहुग्रहाम् । वायुव्यांकुसुत्थ धान्योपरिथ्वजाकार मंडले केतु ग्रहम् ।।

इत्यादि :---
सर्वत्र सांगं सायुध मित्यादि पठनीयं इति ग्रहयज्ञे अत्र तद्ध्यानादिकं ग्राह्यम् । । दधाहि -- पद्यासनः पद्मकरोद्विबाहुः पद्मद्युति स्सप्त तुरंगवाहः । दिवाकरो लोक गुरुः किरीटी प्रसीदतान्नो भगवान् दिनेशः ।। आकृष्णेनेति असत्येनेतिवा ॐ मः आदित्याय इति सूर्या वाहनादि ।। --- सूर्याधि देवताग्नि ध्यानं । पिंगभ्रूश्मश्रुकेशाक्षि त्रितयं सूक्ष्म सूत्रकं । ध्यायामग्निं शक्तिधरं छागस्थं रक्त विग्रहं । अग्निं दूतमिति । ॐ नम अदित्यादि देवतायै अग्नय इति पूजा । सूर्य प्रत्यधि देवता रुद्रध्यानम् । पिनाक खट्वांगकपाल शूलधरं त्रिणेत्रं सितदेह कांतिं । वृषादि रूढं वरदं प्रसन्नं द्यायामि रुद्रं मृगलांछनांकम् । कद्रुद्रायेति । ॐ नम आदित्य प्रत्यधि देवतायै रुद्राय इति पूजादि ।। 1 ।।
श्वेतांबर श्वेत विभूषणाढ्यो गदाधर श्श्वेत रुचिर्द्वि बाहुः । चंद्र स्सुधात्मा वरदः किरीटि श्रेयां सिमह्यं प्रददातु देवः ।। अप्याय स्वेति मंत्रेण ॐ नमस्चंद्रमस इति चन्द्रा वाहनादि । चंद्राधि देवताऽब्रेवता ध्यानम् । स्त्रीरूप दारिणी श्वेता आपमकर वाहनाः । ददानाः पाश कलशौमुक्ताभूषा भजाम्यहम् । अप्सुमे सोमो । ॐ नमस्सोमाधि देवताभ्योऽद्भ्य इति पूजादि । चंद्र प्रत्यधि देवता गौरी ध्यानं । ध्यायामि गौरी मादर्श यक्ष सूत्रं कमंडलुं । बिभ्राणां पंकजं हस्तैर्हेमा भाम मरार्चितां । गौरीर्मिमाय गौरी मिमायोतिवा । ॐ नमश्चंद्र प्रत्यधि देवतायै गौर्यै इति पूजाधि ।। 2 ।।
रक्तांबरो रक्तवपुः किरीटि चतुर्बुजो मेष गमोगदा भृत् दरासुतश्शक्तधरस्त्रिशूली सदाममस्या द्वरदः प्रशांतः । अग्निर्मूर्धा । ॐ नमोंगारकाय इति कुडावहनादि । अंगारकाधि देवताभूमि ध्यानं । अब्जंकरै रोषधि पात्र सस्यपात्रेव हंतीं वररत्नपात्रं । ध्यायामि चंढांशु निभांबराढ्यां शुक्लां महीं दिग्गजपृष्ठ संस्थां ।।

स्योनापृथिवीभव :---
ॐ नमोंगारकाद देवतायै पृधिव्यै इति पूजा । अंगारक प्रत्यदि देवतास्कंद ध्यानम् ।। पताकिका शक्ति घंटा कुक्कुटाढ्यं मयूरगंरक्तांबरधरं पिंछ भूवं ध्यायामि षण्मुखंकुमारं माता । ॐ नमोंगारक प्रत्यदि दैवतायै कुमाराय इति पूजा ।। 3 ।।
पीतांबरः पीतवपुः किरीटि चतुर्भुज श्शुद्दमतिर्गदाभृत् । चर्मासिधृत्सोम स्सुत
स्सदामे सिंवाधिरूढो वरदो बुथस्स्यात् । उद्बुध्यध्वं -- उद्बुध्यस्वाग्ने इतिवा । ॐ नमो बुधायोति सौम्य वाहनादि । बुधादि देवता विष्णुं ध्यानं । प्रदक्षिणं दक्षिणाधः करादारभ्य भिभ्रतं । गदाब्ज शंख चक्राणि क्रमाद्विष्णुं सितं भजे । इदं विष्णुर्विचक्रमे ॐ नमो बुधग्रहधि देवतायै विष्णवे इति पूजाधि । बुध प्रत्यधि देवता पुरुष ध्यानं । शंख चत्र गदा पद्म राजमान करांबुजं सुवर्ण वर्णं पुरुष मूर्तिं हृदिवि भावये । सहस्र शीर्षा । ॐ नमो बुधग्रहाधि देवतायै पुरुषाय इति पूजा ।। 4 ।।
पीतांबरःपीत वपुः किरीटि चतुर्भुजो देव गुरुः प्रशांतः । दधच्च दंडंच कमंडलुंच तधाक्ष सूत्रं वरदोस्तु मह्यं ।।

बृहस्पते अति :--
ॐ नमो बृहस्पतयइति बृहस्पत्या वाहनादि ।। बृहस्पत्यधिदेव तेंद्र ध्यानम् । चतुर्दंत गजारूढं वज्रांकुशलसत्करम् । प्राची पतिं स्वर्णवर्णं ध्याया मींद्र सुराधिपं । इंद्रश्रेष्ठानि । इद्रंवो विश्वत इतिवा । ॐ नमो बृहस्पत्यधि देवतायै इंद्राय इति पूजादि । बृहस्पति प्रत्यधि देवता ब्रह्म ध्यानम् ।। कमंडलुं पुस्तक मक्षमालां सृपं दधानं जटिलं चतुर्मुखं । पद्मासनस्थं मृग चर्मवस्त्रं सार्श्वस्थ हंसं प्रणमामि पाटलं ।। ब्रह्मणाते ब्रह्मजिज्ञान मितिवा ।। ॐ नमो बृहस्पति प्रत्यधि देवतायै भ्रह्मणे इति पूजा ।। 5 ।।
श्वेतांबर श्श्वेत वपुः किरीटि चतुर्भुजोदंड धरश्च शुक्रः । तथाक्ष सूत्रंच कमंडलुंचजटाश्च बिभ्र द्वरदोस्तु मह्यं । शुक्रंते अन्यते -- ॐ नमश्शुक्राय इति भार्गवा वाहनादि । श्शुक्राधि देवतेंद्राणी ध्यानं । इंद्राणीं बिभ्रंतीं वामे हस्ते संतान मंजरीः । अभयं दक्षिणे स्वर्ण वर्णां ध्यायाम्यहं शचीं । इंद्राणी मासुनारीषु । ॐ नम श्शुक्राधि देवतायै इंद्राण्यै इति पूजादि । शुक्र प्रत्यधि देवतेंद्र ध्यानं । श्वेतहस्ति समारूढं वज्रांकुशल सत्करं । सहस्र नेत्रं स्वर्णाभ मिंद्रं हृदि विभानये ।। इद्रंवोविश्वत -- ।। ॐ नमश्शुक्र प्रत्यदि देवतायै इंद्राय इति पूजादि ।। 6 ।।
सूर्यात्मज श्श्यामवपुः किरीटि वरेषु बाणासन खड्गपाणिः । गृद्गृद्ग्रासनः क्रूरतनः क्रूरतनुः कृपावान् प्रसीदतान्नो भगवान् सरौरिः । शमग्निरग्निभिः ॐ नमश्शनय इति । श्शनैश्छराधि देवता प्रजापितध्यानं । हस्ताब्जै स्स्रुव पुस्तकेच विपूलामक्षस्रजं कुंडिकांब भ्राणं सितयज्ञ नीत्र विलसद्विस्तीर्ण वक्षस्थलं । नैकास्यं वरह मनिशं पद्मप्रभा भासुरं सावित्री सहितं प्रजापति महं ध्यायामि लोकेश्वरं । प्रजापते नत्वेदे --- ।। ॐ नमश्शनैश्चराधि देवतायै दृष्टं पाशहस्तं यमं महिष वाहनं । कालं कराल वदनं नीलांगं भीषणं भजे ।। यमाय सोमं --- ।। ॐ नमश्शनैश्चर प्रत्यधि देवतायै यमायेति पूजादि ।। 7 ।।
कृष्णांबरः कृष्ण वपुः किरीटि कराल वक्त्रं करवालमाली । चतुर्भुजश्छर्मधरश्च नील सिंहधि रूढो वरदोस्तु राहुः । कयानश्चित्र --- ।। ॐ नमो राहुग्रहयेति आवाहनादि । राह्वाधि देवता सर्पध्यानं । रक्तवर्णं कराब्जाभ्यामक्षमालां कमंडलुं । बिब्राणं भवाये सर्सं त्रिबोगं सर्पभूषणम् । अयंगौः पृश्चि ।। ॐ नमोराह्वधि देवतायै सर्पायेति पूजादि ।। राहु प्रत्यधि देवता मृत्यु ध्नानं । कालं कराल वदनं भजे नीलांग भीषणं । पाश दंडधरं मृत्युं सर्पवृश्चिकरो मकं ।। परं वृत्यो --- ।। राहु प्रत्यधि देवतायै मृत्यव इति पाजा ।। 8 ।।
ध्रूमो द्विबाहुर्वरदो गदा भृत्कपौत संस्थो विकृताननश्च किरीट केयूर विभूषितांगस्सचास्तुमे केतु रयं प्रशांतः ।। केतुं कृण्वान् --- ।। ॐ नमः केतु ग्रहयेत्यावाहनादि ।। केत्वधि देवताब्रह्म ध्यानं ।। विरिंचिं वाक्पतिं श्वेतपद्मस्थं पद्म सन्निभं । अक्षस्रक्कुंडिका भीति दानहस्तं विभावये ।। ब्रह्म जिज्ञानं । ॐ नमः केत्वधि देवतायै ब्रह्मणे इति पूजादि । केतु प्रत्यधि देवता चित्रगुप्तध्यानं । पिंगलश्मश्रुके शाक्षं स्वर्णाभं चित्र गुप्तकं । वामे पत्रं करेदक्षे लेखिनीं दधतं भजे ।। सचित्र चित्रं ।। ॐ नमः केतु प्रत्यधि देवतायै चित्र गुप्तायेति पूजा जपश्च ।। 9 ।।

द्वा द शा दि त्य पू जा

प्रधानन्यैशान दिग्भागे द्वादशादित्य देवताः मृत्युं जयदेवतां चावाहयेत् ।।
तद्ध्यानं :---
धाता शुभस्यमेदाता भूया द्भूयोपि भूयसः । रश्मिजालसमावीतस्तमस्तोम विनाशकृत् ।। ॐ नमो धात्र इति पूजा जपश्च ।। 1 ।।
मेरु शृंगांतर चरः कमलाकर बांधवः । अर्यमास्तु सदा भूत्यै भूयस्यै प्रणतस्यमे ।। ॐ नमोऽर्यम्ण इति पूजा ।। 2 ।।
निशा निवारण पटु रुद्रयाद्रि कृताश्रयः । मित्रोस्तु मममोदाय तमस्तोम निनाशनः ।। ॐ नमो मित्रायोति पूजा ।। 3 ।।
सूर्यस्स्यन्दनमारूढो ह्यर्चिर्माली प्रतापवान् । कालभूतः कामरूपोह्यरुणस्सेव्यतेमया ।। ॐ नमोऽरुणायेति पूजा ।। 4 ।।
निशाविद्रा वणरतो जगन्मंटपदीकः । मुनींद्र निवहस्तुत्योभूतिदोंशुर्भवेन्मम ।। ॐ नमोऽशवे इति पूजा ।। 5 ।।
तिधिमास ऋतूनांच वत्सराय नयोरपि । घटिकानांचयः कर्ताभगो भाग्य
प्रदोऽस्तुमे ।। ॐ नमो भगायेति पूज ।। 6 ।।
सहश्र रश्मि संवीतमिंद्रं वरद मर्चतां । शिरसा प्रणमाम्यद्य श्रेयो वृद्धि प्रदायकं ।। ॐ नम इंद्रादयोति पूजा ।। 7 ।।
जगन्निर्माम कर्तारं सर्वदिग्व्याप्ततेजसं । नभोगृह महादीपं विवस्वंतं समाम्यहं ।। ॐ नमो विवस्वत इति पूजा ।। 8 ।।
पूषोतोषायमे भूया त्सर्व पापापनुत्तये । सहस्र करसंवीतः समस्ता शांतरांतरः ।। ॐ नमः पूष्ण इति पूजा ।। 9 ।।
प्रपंचं प्रतपन् भूयो वृष्टिभिर्ह्लदयन् पुनः । जगदानंद जनकः पर्जन्यः पूज्यरेमया ।। ॐ नमः पर्जन्यायोति पूजा ।। 10 ।।
तृष्टा शुभायमे भूयाच्चिष्टावलि निषेवितः ।। नानाशिल्पकरोनानादातु रूपः प्रभाकरः ।। ॐ नमस्त्वष्ट इति पूजा ।। 11 ।।
खानु मंडल मध्यस्थं वेदत्रय निषेवितम् । गायत्री प्रतिपाद्यंतं विष्णुं भूत्यैन माम्यहं ।। ॐ नमो विष्णव इति पूजा ।। 12 ।।
द्वादशादित्यानामुद्यन्नद्येति पूजा जपश्च ।।


अथ मृत्युंजय ध्यानं :---
वदसंताडित यमं भक्त रक्षण तत्परं ।
मृत्युं जयं सदाध्याये त्सर्वापद्वि निवृत्तये ।।
त्रियंबकं :--
ॐ नमो मृत्यं जयायेति पूजा ।।
एतेषां परितोष्णदिक्षु तत्तत्थ्सानेषु दिक्पालका नावाहयेत् ।।
तत्तध्यानं :---
श्वेतहस्ति समारूढं वज्रहस्तं पुरंधरं ष
सहश्र नेत्रं पीताभ मिंद्रं हृदि भावये ।।
इंद्रंवो विश्वतः :--
ॐ नम इंद्रायेति पूजा जपश्च ।। 1 ।।
सप्तार्चिर्वितव पुषं स्वाहादेवी निषेवितं ।
आज वाहसमारूढ मग्निं स्वर्णतनुं श्रये ।।
अग्निं दूतं :--
ॐ नमो अग्नय इति पूजा जपश्च ।। 2 ।।
कराल महिषारूढं कालदंडधरं पुनः ।
श्यामवर्णं पाशहस्तं कृतांतं प्रणमाम्यहं ।।
यामाय सोमं :--
ॐ नमो यमाय इति पूजा जपश्च ।। 3 ।।
स्तुमो निरऋतिंगंतुं तुरंगमकृताश्रयं ।
श्यामरूपं शूलहस्तं वृत्त नेत्रं भयंकरं ।।
यत्तेदेवेति :--
ॐ नमो विरृतय इति पूजा जपश्च ।। 4 ।।
नक्रवाहनमारूढं सूधा कलश धारिणं ।
पाशहस्तं धूसराभं वरुणं शिरसा ममः ।।
इमंमे वरुण :--
ॐ नमो वरुणाय इतिपूजा जपस्च ।। 5 ।।
मारुतं मरुतां सेव्यं सारंगवरवाहनं ।
सर्व प्राण्यं तरगतं धूम्रवर्ण महं भजे ।।
तववायो :--
ॐ नमो वायव इति पूजा जपश्च ।। 6 ।।
कुबेरं पुष्पक गतं निधिभिर्न वभिर्वृतं ।
सुवर्णं वर्णं पिगाक्षं मनसा भाव याम्यहं।।
सोमे धेनुं :--
ॐ नमः कुबेराय इति पूजा ।। 7 ।।
चंद्रमौलिं त्रिनयनं तुंगपु पुंगव वाहनं ।
चर्मांबर धरं शंभुं रक्तरूपं समाम्यहम् ।।
तमीशानम् :--
ॐ नमो ईशायेति पूजा जपस्च।। 8 ।।
क्वचिद्दिक्पाल पूर्वभागे अधोलोकपालोर्ध्व लोक पालावाहनं दृश्यते ।।
तथाहि :--
पद्मासनं चतुर्वक्त्रं भारतीशं चतुर्भुजं ।
ब्रह्मसूत्रोज्ज्वलं ध्याये द्वेदाम्रेडन तत्परम् ।।
अदः पश्व ।।
ॐ नमोधो लोकपालाय भ्रह्मणे इति पूजा ।।
एतेषां पूर्वभागे आकाश देवता मावाहयेत् ।।
सर्वव्यापक माकाशं शब्दमात्र समाक्षयम् ।
नमामि शिरसा नित्य मारोग्या व्याप्तये सदा ।।
अस्मैरुध्रा मोहना :--
ॐ नम आकाशायेति पूजा जपश्च ।।
एतेषां पश्चिमभागे मही देवता मावाहयत् ।।
समस्त जगदा धारां गंथमात्र कृता श्रयां ।
अद्यां पद्मभूव स्पृष्ठेर्महीमीडे मुहुर्मुहुः ।।
महीं देवीं :--
ओं नमो मह्यै इति पूजा जपश्च ।।
ओतेषां चतुष्कोणेषु :--
नक्र वाहन मूराढान् सुधाकलश धारिणः ।
पाश हस्तान् धूसराभान् वरुणां श्चतुरो भजे इतिध्यात्वा ।।
इमंमे वरुण तत्वायामि त्वंन्नो अग्नेसत्वन्नो अग्ने इतिचतस्रो वरुण देवता आवाहयेत् ।।
तैरैव मंत्रै रुपचारो जपश्च।।
सर्वेषां पुरस्ताच्छ तच्चिद्र समन्वितं बृहत्कलशं पूजायेत् । अत्र ब्रह्म जिज्ञान मित्यादि मंत्रेण ब्राह्मणं आवते हेशोवरुम इत्यादि मन्त्रेण वरुणंवा पूजयेदिति केचित् ।।
तत्तत्कलश निवेशितानां ध्यान्या वाहनादिकं कृत्वा धूप दीपनैवेद्य भक्ष्य भोज्यलेह्य चूष्यपेयखाद्य चर्वणादिकं नानाविधफल सहितं ताम्बूलंच निवेद्य नीराजनादिकं कृत्वा मंत्रपुष्पप्रदक्षिण नमस्कारादिक कुर्यात् ।।
त्रैर्र्बह्मणैस्तत्तन्मंत्र जप मष्टोत्तर सहस्र संख्ययाष्टोत्तर शत संख्ययावा कारयेत् ।।
ततः वेदपारायण द्वारा जप सूर्य नमस्काराश्वत्थ प्रदक्षिण रुद्राभिषेक नमक चमर पुरुषसूक्त श्रीसूक्त भूसूक्तायुष्यसूक्त महाशांति घोषशांति महा सौरापोहिष्ठा मुंचामित्या एवापित्रे पावमानीशंवती स्वस्तिमती इंद्रादीशानांतसूक् नवग्रहसूक्तविष्णुकवच शिवकवच नामत्रयादि जपार्थं भ्राह्मणान्वृणुयात् ।।
मंटपात्सश्चिमेभागे शांति होमार्थं नवग्रह होमार्दं आयुततिलहोमार्धंच कुंडत्रयं कुर्यात् । समान तत्रेण त्रयाणामेकंवा कुंडं कुर्यात् । अयुत तिल होम पक्षे पृथगेवकुंडं कुर्यात् ।।

कुंड प्रमाणम् :--
मुष्टिमानं शतार्धेतु शतेचा रत्निमातकम् । सहस्रेत्वथहोतव्येकुर्या त्कुंडं करात्मकम् । द्विहस्तमयुते होमे लक्षहोमे चतुष्करं । अष्ट हस्तात्मकं कुंडल केटि होमे
ततोधिकमिति वचनात् होम तारताम्यानु सारेण चतुरशं कुंडं यथोक्तं कृत्वा स्वगृह्योक्त मार्गेणोल्लोख नाद्याज्य भागांतं कृत्वा नवग्रहहोमं शान्ति होमं तिलहोमंच कुर्यात् । एकस्मिन् कुंडे स्थंडिले वाग्रह यज्ञोक्त प्रकारेण ग्रह यज्ञं कृत्वा प्रधान देवता मंत्रेण समिच्चर्वाज्यै रष्टोत्तर सहस्र मष्टोत्तर शतंवा जुहुयात् ।।
अदिदेवता प्रत्यधि देवताभ्यामे तद्द्रव्यैः तन्मंत्राभ्यां तदर्थं जुहुयात् । माचृदोमृत्यो इति यधा शक्ति तिलहोमं कुर्यात् । तड्गायत्र्या यधाशक्ति मधुसिक्त दूर्वा होमं पृषदाज्य होमं कुर्यात् ।।
एते सहश्रमिति मंत्रेण यधाशक्ति गुलूची होमं कुर्यात् । स्यास पूर्वकं त्र्यिंबक मंत्रेण पृथक्कुंड पक्षे आयुत तिलहोमं एक कुंड पक्षे यधाशक्ति तिलहों कुर्यात् ।।
जन्म संत्सरायनर्तु मासपक्ष तिधिवार नक्षत्रयोग करणराशि देवतानां समिच्चर्वाज्यै रष्टा विंशति संख्ययाष्ट संख्ययावाहोमः । इतरेषा मेकैकाहतुः ।।

उल्लेखनाद्यग्नि प्रतिष्ठापनानंतर मन्वाधानवता मन्याधान क्रमः

अस्मिन्नन्वाहितेग्ना वित्यादिचक्षुषी अज्येनेत्यंत मुक्त्वासर्वोतो भद्रमंडल देवता एकैक संख्यया समिच्चर्वाज्य द्रव्यैः । आदित्यादि नवग्रह प्रधानदेवताः यधा संभवं विवक्षित संख्ययातस्तत्समिच्चर्वाज्यैः । आग्न्यैदिन नाधि देवताः रुद्रादि नवप्रत्यधि देवताश्च विवक्षित संख्यया समिच्चर्वाज्यैः । उग्ररध प्रधान देवतां मृत्युं । वरं मृत्यो इतिमंत्रेणाष्टोत्तर सहस्रादि विवक्षित संख्यया शमीसम्चिचर्वाज्यैः । उग्ररधाधि देवता मुग्रंस्तु हिश्रुतमिति मंत्रेणाष्टोत्तर शतादि विवक्षितसंख्यया शमी समिच्चर्वाज्वैः । उग्ररथ प्रत्यधि देवतां मृत्युंजयम् ।। त्र्यिम्बकमित मंत्रेणाष्टोत्तर शतादिविवक्षित संख्यया शमी समिश्चर्वाज्यैः । पुनः प्रधान देवतां मृत्युं संख्यया शमी समिश्चर्वाज्यैः । पुनः प्रधान देवतां मृत्युं माच्छिदो मृत्यो इति मत्रेण विवक्षित संख्यया तिल द्रव्येण ।। पुनः प्रधान देवतां मृत्युं तद्गायत्र्या विवक्षित संख्यया मदुसिक्तदूर्वाच रुपृष दाज्यैः । पुनः प्रधान देवतां मृत्युमेते सहस्रमिति मंत्रेण विवक्षित संख्याक गुडूची समिच्चर्वाज्यैः पुनः प्रधान देवतां त्र्यिम्बकमिति मंत्रेण विवक्षित संख्याक तिलद्रव्येण । अश्वत्थामादि चिरजीविनस्तत्तन्माम मन्तैः प्रत्येक मष्ट संख्यया समिच्चर्वाज्यैः । जन्मादि षष्टि वत्सर द्व्ययन षडृतु द्वादश मास द्विपक्षषोडश तिधिसप्तवार देवताः तत्तन्माम मत्रैः प्रत्येक मष्ट संख्यया समिच्च र्वाज्यैः । अष्टवस्वेकादश रुद्र देवतास्तत्तन्नाममंत्रैः प्रत्येक मष्टसंख्यया समिच्चर्वाज्यैः । जन्मर्क्षिदि नक्षत्र देवतातैत्तरीयक मंत्रैः प्रत्येक मष्ट संख्यया समिच्चर्वाज्यैः । जन्मादियोगकरण देवतास्तत्तन्नाम मत्रेण प्रत्येक मष्ट संख्यया समिच्चर्वाज्यैः । नवदुर्गा देवता
स्तत्तन्नाममंत्रैः प्रत्येक मष्टसंख्यया मिच्चर्वाज्यैः ब्रह्मणं ब्रह्म जिज्ञानमिति मंत्रेण । विष्णुं । इदं विष्णुरिति मंत्रेण । रुध्रंकद्रुद्रायेति मंत्रेण । गणपतिं गणानांत्वेति मंत्रेण । क्षेत्रपाले क्षेत्रस्येति मंत्रेण वास्तु पुरुषं वास्तोष्पत इति मंत्रेण । अभयंकरंयत इंद्रेदि मंत्रेण । प्रति देवतामष्ट संख्या समिच्चर्वाज्यैः । द्वादशराशि देवताः सप्तमरुद्देवताश्चतत्तन्नाम मंत्रैः प्रत्येक मष्ट संख्यया समिच्चर्वाज्यैः । सद्यो जात वामदेववा घौर तत्पुरुषे शावाख्य पंचब्रह्मणः तत्तन्मंत्रैः प्रत्येक प्रत्येक मष्ट सख्यया स्समिच्चर्वाज्यैः । आदित्यादि नवग्रहान्यादि प्रत्यधि देवांस्तत्तन्मंत्रैः प्रत्येक मष्ट संख्यया समिच्चर्वाज्यैः । द्वादशादित्यांस्तत्तन्नाम मंत्रैः प्रत्येक वष्ट संख्यया समिच्चर्वाज्यैः । मृत्युंजयं त्र्विम्बकमिति मंत्रेणाष्ट संख्यया समिच्चर्वाज्यैः । इंद्रादि लोकपालानाकाश देवतां महीदेवतां चतुरोवरुणांश्चतत्तन्मंत्रैः प्रत्येक मष्ट संख्यया स्पमिच्चर्वाज्यैः । शतच्छिद्राभिमानि देवते ब्रह्मवरुणौ तत्तन्मंत्राभ्यां प्रत्येक मष्ट संख्यया समिच्चर्वाज्यैः । दिक्पाल साद्गुण्यदेवताः श्रियंच विवक्षितैक संख्यया केवलाज्य द्रव्येण शेषेण स्वष्टकृतमित्यादि सद्योयक्ष्य इत्येक कुंडपक्षे । पृथ क्कुंड पक्षेतु ग्रह होम कुंडेचक्षुषू आज्यनेत्यंते आदित्यादि नवग्रह प्रधान देवताः विवक्षित संख्यया । अधि प्रत्यधिदेवताः प्रदानार्थ दशम विंशांशाद्यन्यतम संख्यया । अधिप्रत्यधिदेवताः प्रदानार्थ धशम विंशांशाद्यन्यतम संख्यया तत्तत्समिच्चर्वाज्यैः ।। दिक्पाल साद्गुण्य देवताः केवलाज्य द्रव्येण शेषेणेत्यादि सद्योयक्ष्ये इति । शांति होम कुंडे । सर्वतोभध्र देवताधि शतच्छिद्र देवतांतं संकल्पयेत् । तिल होम कुडे । अयुत सहस्र शताच्छिद्र देवतांतं संकल्पयेत् । तिल होम कुंडे । अयुतसहस्र शतान्यतम संख्याक तिलहोमान्संकल्पयेत् । कुंडत्रयोपीद्मा धानादि चक्षुष्यंत संख्याक तिल होमान्संकल्पयेत् । कुंड त्रयेपीद्म धानादि चक्षुष्यंत पूर्वांग होमः स्विष्ट कृदाद्युत्तरांग होमः पात्रा सादनादि ब्रह्म विनर्जनांतं तंत्रादि कंचसमानं ।।

चिरंचीवि सप्तनाम होमः
1. ॐ नमश्चिरंजीविनेश्वत्थाम्ने स्वाहा
2. ॐ नमश्चिरंजीविने बलये स्वाह
 3. ॐ नमश्चिरंजीविने व्यासाय स्वाहा
4. ॐ नमश्चिरंजीविने हनुमते स्वाहा
   5. ॐ नमश्चिरंजीविने विभीषणाय स्वाहा
6. ॐ नमश्चिरंजीविने कृपाय स्वाहा
  7. ॐ नमश्चिरंजीविने परशुरमाय स्वाहा