शाण्डिल्यभक्तिसूत्रम्

विकिस्रोतः तः
Jump to navigation Jump to search

== शाण्डिल्यभक्तिसूत्रम्==
अथातो भक्तिजिज्ञासा ॥ १ ॥

सा परानुरक्तिरीश्वरे ॥ २ ॥

तत्संस्थस्यामृतत्वोपदेशात् ॥ ३ ॥

ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थिते: ॥ ४ ॥

तयोपक्षयाच्च ॥ ५ ॥

द्वेषप्रतिपक्षभावाद्रसशब्दाच्च राग: ॥ ६ ॥

न क्रिया कृत्यनपेक्षणाज्ज्ञानवत् ॥ ७ ॥

अत एव फ़लानन्त्यम् ॥ ८ ॥

तद्वत: प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत् ॥ ९ ॥

सा मुख्येतरापेक्षितत्वात् ॥ १० ॥

प्रकरणाच्च ॥ ११ ॥

दर्शनफ़लमिति चेन्न तेन व्यवधानात् ॥ १२ ॥

दृष्टत्वाच्च ॥ १३ ॥

अत एव तदभावाद्बल्लवीनाम् ॥ १४ ॥

भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात् ॥ १५ ॥

प्रागुक्तं च ॥ १६ ॥

एतेन विकल्पोऽपि प्रयुक्त: ॥ १७ ॥

देवभक्तिरितरस्मिन् साहचर्यात् ॥ १८ ॥

योगस्तूभयार्थमपेक्षणात् प्रयाजवत् ॥ १९ ॥

गौण्या तु समाधिसिद्धि: ॥ २० ॥

हेया रागत्वादिति चेन्नोत्तमास्पदत्वात् सङ्गवत् ॥ २१ ॥

तदेव कर्मिज्ञानयोगिभ्य आधिक्यशब्दात् ॥ २२ ॥

प्रश्ननिरूपणाभ्यामाधिक्यसिद्धे: ॥ २३ ॥

नैव श्रद्धा तु साधारण्यात् ॥ २४ ॥

तस्यां तत्त्वे चानवस्थानात् ॥ २५ ॥

ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात् ॥ २६ ॥

बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत् ॥ २७ ॥

तदङ्गानां च ॥ २८ ॥

तामैश्वर्यपरां काश्यप: परत्वात् ॥ २९ ॥

आत्मैकपरां बादरायण: ॥ ३० ॥

उभयपरां शाण्डिल्य: शब्दोपपत्तिभ्याम् ॥ ३१ ॥

वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्ट्यात् ॥ ३२ ॥

न च क्लिष्ट: पर: स्यादनन्तरं विशेषात् ॥ ३३ ॥

ऐश्वर्यं तथेति चेन्न स्वाभाव्यात् ॥ ३४ ॥

अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम् ॥ ३५ ॥

सर्वानृते किमिति चेन्नैवं बुद्ध्यानन्त्यात् ॥ ३६ ॥

प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात् ॥ ३७ ॥

तत्प्रतिष्ठा गृहपीठवत् ॥ ३८ ॥

मिथोऽपेक्षणादुभयम् ॥ ३९ ॥

चेत्यचितोर्न तृतीयम् ॥ ४० ॥

युक्तौ च सम्परायात् ॥ ४१ ॥

शक्तित्वान्नानृतं वेद्यम् ॥ ४२ ॥

तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्य: ॥ ४३ ॥

सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थप्राणस्थानतदीयतासर्वतद् भावा प्रातिकूल्यादीनि च स्मरणेभ्यो बाहुल्यात् ॥ ४४ ॥

द्वेषादयस्तु नैवम् ॥ ४५ ॥

यद्वाक्यशेषात् प्रादुर्भावेष्वपि सा ॥ ४६ ॥

जन्मकर्मविदश्चाजन्मशब्दात् ॥ ४७ ॥

तच्च दिव्यं स्वशक्तिमात्रोद्भवात् ॥ ४८ ॥

मुख्यं तस्य हि कारुण्यम् ॥ ४९ ॥

प्राणित्वान्न विभूतिषु ॥ ५० ॥

द्यूतराजसेवयो: प्रतिषेधाच्च ॥ ५१ ॥

वासुदेवेऽपीति चेन्नाकरमात्रत्वात् ॥ ५२ ॥

प्रत्यभिज्ञानाच्च ॥ ५३ ॥

वृष्णिषु श्रैष्ठ्येन तत् ॥ ५४ ॥

एवं प्रसिद्धेषु च ॥ ५५ ॥

भक्त्या भजनोपसंहाराद्गौण्या परायैतद्धेतुत्वात् ॥ ५६ ॥

रागार्थप्रकीर्त्तिसाहचर्याच्चेतरेषाम् ॥ ५७ ॥

अन्तराले तु शेषा: स्युरुपास्यादौ च काण्डत्वात् ॥ ५८ ॥

ताभ्य: पावित्र्यमुपक्रमात् ॥ ५९ ॥

तासु प्रधानयोगात् फ़लाधिक्यमेके ॥ ६० ॥

नाम्नेति जैमिनि: सम्भवात् ॥ ६१ ॥

अत्राङ्गप्रयोगाणां यथाकालसम्भवो गृहादिवत् ॥ ६२ ॥

ईश्वरतुष्टेरेकोऽपि बली ॥ ६३ ॥

अबन्धोऽर्पणस्य मुखम् ॥ ६४ ॥

ध्याननियमस्तु दृष्टसौकर्यात् ॥ ६५ ॥

तद्यजि: पूजयामितरेषां नैवम् ॥ ६६ ॥

पादोदकं तु पाद्यमव्याप्ते: ॥ ६७ ॥

स्वयमर्पितं ग्राह्यमविशेषात् ॥ ६८ ॥

निमित्तगुणाव्यपेक्षणादपरधेषु व्यवस्था ॥ ६९ ॥

पत्रादेर्दानमत्यथा हि वैशिष्ट्यम् ॥ ७० ॥

सुकृतजत्वात् परहेतुभावाच्च क्रियासु श्रेयस्य: ॥ ७१ ॥

गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात् साहचर्यम् ॥ ७२ ॥

बहिरन्तरस्थमुभयमवेष्टिसववत् ॥ ७३ ॥

स्मृतिकीर्त्यो: कथादेश्चार्तौ प्रायश्चित्तभावात् ॥ ७४ ॥

भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि ॥ ७५ ॥

लब्ध्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात् ॥ ७६ ॥

तत्स्थानत्वादनन्यधर्म: खले बालीवत् ॥ ७७ ॥

आनिन्द्ययोन्यधिक्रियते पारम्पर्यात् सामान्यवत् ॥ ७८ ॥

अतो ह्यविपक्वभावानामपि तल्लोके ॥ ७९ ॥

क्रमैकगत्युपपत्तेस्तु ॥ ८० ॥

उत्क्रान्तिस्मृतिवाक्यशेषाच्च ॥ ८१ ॥

महापातकिनां त्वार्तौ ॥ ८२ ॥

सैकान्तभावो गीतार्थप्रत्यभिज्ञानात् ॥ ८३ ॥

परां कृत्वैव सर्वेषां तथा ह्याह ॥ ८४ ॥

भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात् ॥ ८५ ॥

तच्छक्तिर्माया जडसामान्यात् ॥ ८६ ॥

व्यापकत्वाद्व्याप्यानाम् ॥ ८७ ॥

न प्राणिबुद्धिभ्योऽसम्भवात् ॥ ८८ ॥

निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत् ॥ ८९ ॥

मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात् ॥ ९० ॥

फ़लमस्माद्बादरायणो दृष्टत्वात् ॥ ९१ ॥

व्युत्क्रमादप्ययस्तथा दृष्टम् ॥ ९२ ॥

तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत् ॥ ९३ ॥

पृथगिति चेन्न परेणासम्बन्धात् प्रकाशानाम् ॥ ९४ ॥

न विकारिणस्तु करणविकारात् ॥ ९५ ॥

अनन्यभक्त्या तद्बुद्धिर्बुद्धिलयादत्यन्तम् ॥ ९६ ॥

आयुश्चिरमितरेषां तु हानिरनास्पदत्वात् ॥ ९७ ॥

संसृतिरेषामभक्ति: स्यान्नाज्ञानात् कारणासिद्धे: ॥ ९८ ॥

त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत् ॥ ९९ ॥

आविस्तिरोभावा विकारा: स्यु: क्रियाफ़लसंयोगात् ॥ १०० ॥