सामग्री पर जाएँ

शाङ्खायनारण्यकम्

विकिस्रोतः तः
शाङ्खायनारण्यकम्
[[लेखकः :|]]

प्रथमोऽध्यायः

[सम्पाद्यताम्]

 ॐ तत्सद्ब्रह्मणे नमः।

 सांख्यायनमिति गृह्यसूत्रपाठः।

 हरिः ॐ
 -o-
 श्रीसरस्वत्यै नमः॥ॐ प्रजापतिर्वै संवत्सरस्तस्यैष आत्मा यन्महाव्रतं तस्मादेनत्परस्मै न शंसेन्नेत्सर्वेषां भूतानामात्मानं परस्मिन्दधानीत्यथो इन्द्रस्यैष आत्मा यन्महाव्रतं तस्मादेनत्परस्मै न शंसेन्नेदिन्द्रस्याऽऽत्मानं परस्मिन्दधानीत्यथो यमेवैतमृग्मयं यजुर्मयं साममयं पुरुषं संस्कुर्वन्ति तस्यैष आत्मा यन्महाव्रतं तस्मा(1) देनत्परस्मै न शंसेन्नेत्सर्वेषां छन्दसामात्मानं परस्मिन्दधानीति कामं तु सत्रिणां होता शंसेत्पित्रे वाऽऽचार्याय वाऽऽत्मने हैवास्य तच्छस्तं भवत्यात्मनैव तद्यज्ञं समर्धयति तस्य पञ्चविंशः स्तोमश्चतुर्विशतिर्वै संवत्सरस्यार्धमासाः संवत्सरस्यैवाऽऽप्त्या अथो प्रजापतिर्वै संवत्सरः पञ्चविंशोऽथो चतुर्विंशो वै पुरस्तात् कृतो भवति तस्यैषा गतिर्यत्पञ्चविंश ऐन्द्रश्च ऋषभः प्राजापत्यश्चाज उपालम्भ्यावैन्द्रं वा एतदहरिन्द्र उ वै प्रजापतिस्तत्प्राजापत्यं रूपमथो एतदेव पशुष्वैन्द्रं रूपं यदृषभः॥1॥

 तस्य%विशो विशो(1) वो अतिथिमिति%द्वादशर्चमाज्यं द्वादश वै मासाः संवत्सरः संवत्सरस्यैवाऽऽप्त्यै तस्मिन्वै द्वे छन्दसी भवतो (2) गायत्र्यश्चानुष्टु(3) भश्चाग्निं%नरो दीधिति भिररण्योरित्येतत्पञ्चविंशत्यृचमुपसंशंसति%पञ्चविंशो हि स्तोमस्तद्वै शस्त्रं समृद्धं यत्स्तोमेन संपद्यते तस्मिन्वै द्वे छन्दसी भवतो विराजश्च त्रिष्टुभश्च तानि चत्वारि संपद्यन्ते चतुष्टयं वा इदं सर्वमस्यैव सर्वस्याऽऽप्त्यै त्रैष्टुभः प्रउग इन्द्रस्यैवैतच्छन्दो यत्र्रिष्टुप्तदेनं स्वेन च्छन्दसा समर्थयति %(4) कविदङ्ग नमसा ये वृधास%इति वायव्यं महद्वद्वृद्धवन्महद्वन्महद्वद्ध्येतदहरत एवोत्तरं तृचमैन्द्रवायवं%(5) यावत्तरस्तन्वो यावदोज%इति%(6) यावन्नरश्चक्षसा दीध्याना%इत्येतेन रूपेणोद्वा.%(7) चक्षुर्वरुण सुप्र तीकमिति%मैत्रावरुणमावयोरेति%(8) सूर्यस्ततन्वानित्येतेन%रूपेण%(9) क उश्रवत्कतमो यज्ञियानामित्याश्विनं%यं%(10) सूर्यस्य दुहिता वृणीतेत्येतेन%रूपेण%(11) कथामहामवृधत्कस्य होतुरित्यैन्द्रं%महद्वद्वृद्धवन्महद्वन्महद्बद्ध्येतदहः%को(12) वस्त्राता वसवः को वरूतेति%वैश्वदेवं%(13) सहीयसो बरुण मित्र (14) मर्तादित्येतेन%%रुपेणीत(15) स्या नः सरस्वती जुषाणेति%सारस्वतं%(16) द्वारावृतस्य सुभगे व्यावरित्येतेन %रूपेणैष वा उ द्वांस्त्रैष्टुभस्तृचक्लृप्तो वामदेव्यः प्रउगः प्रजापतिर्वै वामदेवः प्रजापतावेव तत्सर्वान्कामानृध्नुवन्ति तदाहुर्न त्रैष्टुभं प्रातः सवनं स्यान्मोहयति क्लृप्तं छन्दसो यज्ञमुखमैकाहिकमेव स्याद्ब्रह्म वा एकाहो ब्रह्मैतदहर्ब्रह्मण्येव तद्ब्रह्म समर्धयति॥2॥
  FN:(1) प."देतत्प।"
      (2) ख."यत्रश्वा।"
      (3) (5।6।13)
      (4) (5।6।13)
      (5) (5।6।16)
      (6) (5।5।6)
      (7) (5।5।6)
      (8) (6।7।19)
      (9) (3।7।19)
      (10) (3।6।9)
      (11) (3।8।6)
      (12) (3।7।6)
      (13) (5।6।19)
      (14) (5।6।19)
 %(1) आ त्वी रथं यथोतय%इति मरुत्वीयस्य प्रतिपदिदं%(2) वसो सुतमन्ध%इत्यनुचर एष एव नित्य एकाहातानस्तस्योक्तं ब्राह्मणम%(3) सत्सु मे जरितः सामिवेग%इति वासुक्रं पूर्वं शस्त्वा%(4) महाँ इद्रो नृवदाचर्षणिप्रा%इत्येतस्मिंस्त्रेष्टुभे%निविदं दधाति तद्यद्वासुक्रं पूर्वं शंसतीन्द्र उ वै वसुक्रोऽथ%यन्महाँ(5) इन्द्रो नृवदाचर्षणिप्रा%इति महद्वन्महद्वद्ध्येतदहः॥3॥
  FN:(1) (6।5।1)
      (2) (5।7।17)
      (3) (7।7।15)
      (4) (4।6।7)
      (5) (4।6।7)
 अथैता आज्याहुतीर्जुहोति स्वस्त्ययनमेव तत्कुरुते यज्ञस्यैव शान्त्यै यजमानानां च भिषज्यायै ता वा अष्टौ भवन्त्येताभिर्वै देवाः सर्वा अष्टीराश्रुवत तथो एवैतद्यजमाना एताभिरेव सर्वा अष्टीरश्रुवतेऽथैतान्परिमादाञ्जपति परिमाद आपो वै परिमादोऽद्भिर्हीदं सर्वं परिमत्तमथ वै परिमादोऽन्नमेतदुक्थमापो वा अन्नस्याऽऽयतः पूर्वा आयन्त्यापः परिमादोऽथ वै परिमादो यन्नखानि दन्तास्तनूर्लोमानीति तस्मात्कृत्याः संपद्वत्यो हि भवन्ति पञ्चविंशतिर्निघनमाङ्गिरसं प्रतिष्ठायै क्रोशानुक्रोशे अरात्सुरप्येषां पयोऽरात्सुरर्के चार्कपुष्पं चायं वा अग्निर्कोऽसावादित्योऽर्कपुष्पं तेषु यदा पर्यायं सामगाः स्तुवतेऽथ होतारमाहुरनुञपेति ते यदि स्तुवीरन्यदि न स्तुवीXन्वेव जपेत्॥4॥
 तानि वा एतानि सप्त देवच्छन्दांसि भवन्ति तस्मादेनाननु जपेदथो ऐन्द्रं वा एतदहरैन्द्रा जपास्तस्मादेनाननुजपेदथात्रैव तिष्ठन्नग्निं यथाङ्गमुपतिष्ठते नमो नम इति नहि नमस्कारमतिदेवाः समिद्धस्यैवैतान्भागानुपतिष्ठेति यद्युत्तरवेदौ भवत्यथात्रैव तिष्ठन्नादित्यमुपतिष्ठत तिरोहितो ह वा एष एतस्मिन्परमपुच्छे परम आशिषो वदति सं महान्महत्यादधादित्यग्निर्वै महानियं पृथिवीं महत्येतौ हि समधत्तां सं देवो देव्यादधादिति वायुर्वै देवोऽन्तरिक्षं देव्येतौ हि समधत्तां हि समधत्तां तदिमाँल्लोकान्संदधात्वेतदुक्तं शंसिष्यते॥5॥
 विश्वामित्रो हवा इन्द्रस्य प्रियं धामोपजगाम शस्त्रेण च व्रतचर्यया तं हेन्द्र उवाच विश्वामित्र वरं वृणीष्वेति स होवाच विश्वामित्रस्त्वामेव विजानीयामिति द्वितीयमिति त्वामेवेति तृतीयमिति त्वामेवेति तं हेन्द्र उवाच महांश्च महती चास्मि देवश्च देवी चास्मि ब्रह्म च ब्राह्मणी चास्मीति तत उ ह विश्वामित्रो विजिज्ञासामेव चक्रे तं हेन्द्र उवाचैतद्वा अहमस्मि यदेतदवोचं यद्वा कृषेतो भूयोऽतपस्तदेव तत्स्याद्यदह्रमिति तद्वा इन्द्रो व्याहृतीरूचे ता उपाप्ता आसन्नित्यथोपनिधाय प्रेङ्खफलकं त्रिरभ्यं न्यत्रिरभ्यवानिति॥6॥
 तद्वा उदुम्बरं भवत्युर्ग्वाऽन्नाद्यमुदुम्बर ऊर्जोऽन्नाद्यस्योपाप्त्या अथैनदुरसा संस्पृश्य दक्षिणं भागमात्मनोऽतिहरञ्जपत्यर्कोसि वसवस्त्वा गायत्रेण च्छन्दसाऽऽरोहन्तु आरोह्लारइत्येव तदाह तानहमन्वारोहामि राज्यायेति राज्यं ह वा इदमु हैव चक्षतेऽथोत्तरं मागमात्मनोऽतिहरञ्जपति रुद्रास्त्वा त्रैष्टुभेन च्छन्दसाऽऽरोहन्तु तेऽत आरोह्लार इत्येव तदाह तानहमन्वारोहामि स्वाराज्यायेति स्वाराज्यं ह वै राज्यादधितरामिवाथ दक्षिणं भागमात्मनोऽतिहरञ्जपत्यादित्यास्त्वा जागतेन च्छन्दसाऽऽरोहन्तु तेऽत आरोह्लार इत्येव तदाह तानहमन्वारोहामि साम्राज्यायेति साम्राज्यं ह वै स्वाराज्यादधितरामिवाथोत्तरं भागमात्मनोऽतिहरञ्जजपति विश्वे त्वा देवा आनुष्टुभेन च्छन्दसाऽऽरोहन्तु तेऽत आरोह्लार इत्येव तदाह तानहमन्वारोहामि कामप्रायेति कामप्र ह वै सर्वेषां परार्ध्यमथ समधिसृप्य प्राञ्चौ पादा उपावहत्य भूमौ प्रतिष्ठापयत्युद्यततरो ह वा एषोऽस्माल्लोकाद्भवति तद्यत्प्रतिष्ठापयति तदस्मिल्लोके प्रतितिष्ठति प्रतिष्ठायामप्रच्युत्यामथ त्रिरभ्यं यत्र्रिरभ्यवानित्यथोपरि प्रेङ्खफलके दक्षिणोत्तरिणमुपस्थं कृत्वा दक्षिणेन प्रादेशेन पश्चात्प्राङ् प्रेङ्खफलकमुपस्पृशति प्रजापतिष्ट्वाऽऽरोहतु वायुः प्रेङ्खयतीति प्रजापतिर्वा एतदारोहतु वायुः प्रेङ्खयति यज्जीवमथ त्रिरभ्यं यत्र्रिरभ्यवानित्यथ प्राञ्चौ पाणी परिगृह्य जपति॥7॥
 सं वाक्प्राणेन समहं प्राणेन सं चक्षुर्मनसा समहं मनसा सं प्रजापतिः पशुभिः समहं पशुभिरित्याशिषमेव तद्वते सुपर्णोऽसि गरुत्मानिति प्राणो वै सुपर्णः प्रेमां वाचं वदिष्यामीति प्रवदिष्यन् ह्येष एतां वाचं वदति बहु करिष्यन्तीं बहु करिष्यन्निति बहुर्ह्येषा वाक्करिष्यन्ती भवति बह्वयं य एतस्याह्नः शस्त्रं प्राप्नोति बहोर्भूयः करिष्यन्तीं बहोर्भूयः करिष्यन्निति बहोर्भूयो ह्येषा वाक्करिष्यन्ती भवति बहोर्भूयोऽयं य एतस्याह्नः शस्त्रं प्राप्नोति स्वर्गमिष्यन्तीं स्वर्गमिष्यन्निति स्वर्ह्येषा वाग्गमिष्यन्ती भवति स्वरयं य एतस्याह्नः शस्त्रं प्राप्नोति स्वरिमान्यजमानान्वक्ष्यन्नित्येव ब्रूयाद्यं द्बिष्यात्तं ब्रूयान्नामुं नामुमिति स यावतो ह वा एष एतस्माद्देवरथात्प्रतिसंख्याय(1) निर्धूनुते तिष्ठद्धुनुते तौ ह न (2) भोग्यायैव भवतस्तमेवैतत्प्रधर्षयतितमेवैतत्प्रधर्ष्याऽऽत्मन्धत्ते वायुर्वा एष प्राणो भूत्वैतदुक्थं शंसति तमेवैतत्प्रधर्षयति तमेवैतत्प्रधर्ष्याऽऽत्मन्धत्ते गुरौ वा एष युक्तो भवति य एतस्याह्नः प्राप्नोति तस्य गुरौ युक्तस्येश्वरः प्राणो यदि नापः पराजेतोस्तमेवैतत्प्रधर्षयति तमेवैतत्प्रधर्ष्याऽऽत्मन्धत्ते न ह वा एतस्यै देवतायै दिग्धेन नासिना न परशुना न केनचनावतर्दोऽस्ति तद्य एवं विद्वांसमपवदति स एव पापीयान्भवति न स य एवं वेद नैवं विदुषोऽवतर्दो नैवं विदुषोऽवतर्दः॥8॥
  FN:(1) ख. यन् नि।
       ( 2) प.भोग्यायै।
 ॥इति (1) शाङ्खायनारण्यके प्रथमोऽध्यायः समाप्तः॥
  FN:(1) (8।7।1)
  
 --------------

द्वितीयोऽध्यायः

[सम्पाद्यताम्]

 ॐ हिंकारेण प्रतिपद्यत एतदुक्थं प्राणो वै हिंकारः प्राणेनैवैतदुक्थं प्रतिपद्यतेऽथो उर्ग्वै रसो हिंकार ऊर्जमेवैतद्रसमेतस्मिन्नुक्थे तधात्यथो अमृतत्वं वै हिंकारोऽमृतत्वमेव तदात्मन्धत्ते राजनं पृष्ठं भवत्येतद्बै प्रत्यक्षं साम यद्राजनं तदेनं स्वेन साम्ना समर्धयति तदनिरुक्तासु भवत्यनिरुक्त उ वै प्रजापतिस्तत्प्राजापत्यं रूपं कवतीषु स्यादिति हैक आहुः को वै प्रजापतिस्तत्प्राजापत्यं रूपमथैतत्तूष्णींशंसमुपांशु शंसति वाग्वा एतदहर्मनस्तूष्णींशंसो मनसैव तद्वाचं समर्धयति %तदिदास(1) भुवनेषु ज्येष्ठमिति%स्तोत्रियस्तृचो %(2) वावृधानः शवसा भूर्योजा%इति वृद्धवन्महद्वन्महद्वद्ध्येतदहः।स एष आत्मा पञ्चविंशस्तन्नदेनोपसृष्टं शंसत्यात्मा वै पञ्चविंशः प्रजा पशव उपसर्गः प्रजयैव तत्पशुभिः प्रेष्येरन्नाद्येनेत्यात्मानमुपसृजते%नदं व ओदतीनामिति%त्रैष्टुभानि पूर्वाणि पदानि करोति नदस्योत्तराणि प्रथमेन त्रेष्टुभानि पूर्वाणि पदानि करोति नदस्योत्तराणि प्रथमेन त्रैष्टुभेन पदेन प्रथमं नदस्य पदमुपसंधायावस्यति द्वितीयेन त्रैष्टुभेन द्वितीयं संधाय प्रणौति तृतीयेन त्रैष्टुभेन तृतीयं संधायावस्यति चतुर्थेन त्रैष्टुभेन चतुर्थं संधाय प्रणौत्येवं विदूतां प्रथमां त्रिः शंसति पराचीरुत्तरा एवं विदूता एव या तृतीया सूक्तस्य तस्या उत्तरमर्धर्चमुत्सृजति नदस्य चोत्तरं सोऽयं मुखस्य विबरस्तेन वाचं वदति मुकेन वै वाचं वदति तौ पुरस्ताद्द्विपदानां सूददोहसं शंसति%(3) ता अस्य सूददोहस%इत्यन्नं वै सूददोहा अन्नेन वा इमानि पर्वाणि संहितानि भवन्त्यथो आपो वै सूददोहा अद्भिर्वा इमानि पर्वाणि संहितानि भवन्त्यथो अमृतत्वं वै सूददोहा अमृतत्वमेव तदात्मन् धत्तेऽथ वै सूददोहा आहावस्यैतद्रूपं तद्यथा ह वै दारुणः श्लेष्मश्लेषणं स्यात्परिचर्मण्यं वैवमेव सूददोहाः सर्वेषां वेदानां सं श्लेषिणी॥1॥
  FN:(1) &(2) शाङ्खायनब्राह्मणे महाव्रतं नामैकत्रिंशतमोऽध्यायः।
      (3) (6।5।5)
 अथैतानि शीर्षण्यानि शंसति तानि वै त्रीणि तृचानि भवन्ति त्रीणि वा अस्य शीर्ष्णः कपालानि भवन्ति तान्येवैतैः संदधाति तानि त्रीणि पुनरेकैकं त्रेधा तानव ऋचो भवन्ति नव वै शिरसि प्राणास्तान्तर्कवन्ति भवन्ति तदेतस्याह्नो रूपम्॥2॥
 अथैतं ग्रैवं शंसति ता वै तिस्र ऋचो भवन्ति त्रीणि वा आसां ग्रीवाणां पर्वाणि भवन्ति तान्येवैताभिः संदधात्युष्णिगुत्तमासोऽयं स्कन्धो विदलोऽध्यूलः(ह्लः) ॥3॥
 अथैतामक्षां शंसति सा वै त्रिष्टुब्भवति तस्मादयमक्षः स्थविष्ठ%ऋष्वात इन्द्रः स्थविरस्य बाहू%वाह्रोरभिरूपाऽथ रथंतरस्य स्तोत्रियानुरूपौ शंसति तयोरुक्तं ब्राह्मणमथ धाय्यां शंसतीयं वै धाय्येयं हि सर्वेषु भूतेषु हिता सा वै दक्षिणे भागे धीयते तस्माद्दक्षिणं भागं पुंसः स्त्र्यधिशेतेऽथ राथंतरं प्रगाथं शंसति तस्योक्तं ब्राह्मणं%य एक(1) इद्धव्यश्चर्षणीनामिति%सूक्तं तत्पच्छस्तस्य द्वितीयामुद्धृत्य%विश्वो (2) ह्यन्यो अरिराजगामेति%यैतस्य द्वितीया तामिह द्वितीयां करोति तदिमो पक्षो व्यतिषजत्यविवर्हाय तस्माद्द्वाभ्यां पक्षाभ्यां सर्वाणि कर्माणि समश्रुते॥3॥
  FN:(1) (4।6।13)
      (2) (7।7।20)
 अथ तं प्रहस्तकं शंसति ता वै तिस्र ऋचो भवन्ति त्रीणि वा अस्य पाणेः पर्वाणि भवन्ति तान्येवैताभिः संदधात्यतिच्छन्दाः प्रथमा सोऽयमङ्गुष्ठस्तस्मादयमङ्गुष्ठः सर्वा अङ्गुलीः प्रत्येति दक्षिणतः पक्षो राथंतरोऽथ वा उत्तरतः पक्षो बार्हत एतेन्नैवोक्तब्राह्मणस्तौ वा एतौ पक्षौ बार्हतराथतरौ चतुर्विंशौ चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरस्यैवाऽऽप्त्यै॥4॥
 अथैतानि चतुरुत्तराणि अस्यानूकस्य पर्वाणि भवन्ति तान्येवैताभिः संदधाति तानि वै सप्त तृचानि भवन्ति सप्त वै छन्दांसि सर्वेषामेव च्छन्दसामाप्त्यै तान्यर्कवन्ति भवन्ति तदेतस्याह्नो रूपम्%॥6॥
 अथैता अशीतीः शंसति स्तोत्रियानेवैताभिरनुशंसति गायत्र्या गायत्रमौष्णिह्या च वार्हत्या च बृहद्रथंतरे इयमेव दक्षिणं पार्श्वं गायत्री सव्यमौष्णिही मध्यं बार्हती मध्ये वा इदमात्मनोन्नं धीयते त्रिष्टुभावन्तरेण त्रिष्टुम्नैविदी वैश्वामित्र्यावर्कवत्यावभिरूपे विश्वामित्रो ह्येनदपश्यन्महद्वत्यो वृद्धवत्यः प्रतिपदो भवन्ति महद्वद्वृद्धवन्महद्वदध्येतदहः॥7॥
 %(1) महाँ इन्द्रो य ओजसेत्येतया%गायत्रीमशीतिं प्रतिपद्यते%(2) स्तोमैर्वत्सस्य वावृधो %इति महद्वत्या वृद्धवत्या महद्वद्वृद्धवन्महद्वन्मह्रद्वद्ध्येतदहः॥8॥
  FN:(1) (5।8।9)
      (2) (5।8।9)
 %(3) या इन्द्र भुज आभर%इत्येतया बार्हतीमशीतिं प्रतिपद्यते%(4) स्तोतारमिन्मघवन्नस्य वर्धयेति%महद्वत्या वृद्धंवत्या महद्वद्वृद्ववन्महद्वन्महद्वद्ध्येतदहरयं ते (5) अस्तु हर्यतः।%आ(6) भन्द्रैरिन्द्र हरिभिरिति%सूक्ते तद्यदेते अन्ततः शंसति संसिद्धाभिर्बृहतीभिरौष्णिहीमशीतिं समारोहाणीति॥9॥
  FN:(3) (6।6।36)
      (4) (6।6।36)
      (5) (3।3।8)
      (6) (3।3।9)
 %(7) इन्द्रः सुतेषु सोमेष्वित्ये%तयौष्णिहीमशीतिं प्रतिपद्यते विदे%(8) विदे वृधस्य दक्षसो महान्हि ष%इति वृद्धवत्या महद्वत्या वृद्धवन्महद्वन्महद्वद्ध्येतदहस्ता वा एता अशीतयः संशस्ताः सप्त विंशतिशतान्यृचां संपद्यन्ते सप्त वै विंशतिशतानि संवत्सरस्याहोरात्राणां तदशीतिभिः संवत्सरस्याहोरात्राण्याप्नोति सामनिधनैर्हैके गायत्रीरुष्णिहः संपादयन्ति चतुरक्षराण्यु हैके पुनराददते बार्हत्या अशीत्या अशीतिचतुरक्षराण्युद्धरति काकुबेभ्यः प्रगाथेभ्यश्चतुर्विंशितं चतुरक्षराणि तानि चतु शतं चतुरक्षराणि चतुःशते गायत्रीषूपदधाति तथा ता गायत्रीरुष्णिहः संपद्यन्ते नाऽऽद्रियेतात्रैव संपन्नमिन्द्राय%(9) साम गायतेति%तद्यदेतदन्ततः शंसति संसिद्धा %भिरुष्णिग्भिर्वशं सामारोहाणीति%॥10॥
  FN:(7) (6।1।7)
      (8) (6।1।7)
      (9) (6।4।42)
 अथ वशं शंसत्युदरं वै वशस्तेन संसिद्धेनाऽऽनन्तर्यं जिगमिषेद्यदतः किंच बहिर्द्वास्तत एव तच्छ्रपयति यदन्तरुदरे तस्माद् बह्वयो देवता बहूनि च्छन्दांसि वशे शस्यन्ते तस्मादिदं बहु विश्वरूपमुदरेऽन्नमवधीयतेऽथैतौ विदूतावर्धर्चावथ सूददोहसं सा तत एवोत्सृज्यतेऽत्र चतुर्विंशतिकृत्वः शस्ता भवति॥11॥
 अथैता द्विपदाः शंसति प्रतिष्ठानीयं वै छन्दो द्विपदाः प्रतिष्ठित्या एव॥12॥
 अथैतदेन्द्राग्नं सूक्तं गायत्रीशंसं शंसति प्रतिष्ठे वा इन्द्राग्नी प्रतिष्ठित्या एव॥13॥
 अथैतदावपनं शंसति प्रतिष्ठा वा आवपनं प्रतिष्ठित्या एवाथो एतान्येव पुनरर्वाचीनि भवन्ति॥14॥
 अथैतमानुष्टुभं सामाम्नायं शंसति वाग्वा एतदहर्वागनुष्टुब्वाच्येव तद्वाचं प्रतिष्ठापयति%दिवं यय दिवं ययेति %देवानेवैतेन सूक्तेनैति स%(1) प्रत्नथा कविवृध%इति तृचमर्कवत्तेन समृद्धं गायत्र्युत्तमा तया समृद्धं%शास इत्था महाँ असीति%महद्वन्महद्वद्ध्येतदहः॥14॥
  FN:(1) (6।4।42)
 अथैतं त्रिष्टुप्छतं शंसतीन्द्रस्यैवैतच्छन्दो यत्र्रिष्टुप्तदेनं स्वेन च्छन्दसा समर्धयति हैरण्यस्तूपीयं च यातऊतीयं च बार्हतराथंतरबृहद्रथंतरे हि पुरस्तात्कृते भवतः सजनीयं%(1) चाध्वर्यवो भरतेन्द्राय सोममिति%च ताः सप्तविंशतिर्ऋचो भवन्ति सप्तविंशतिर्वै नक्षत्राणि तन्नक्षत्रियां विराजमाप्नोति विश्वामित्रस्य शंसेद्विश्वामित्रो ह्येनदपश्यद्वामदेव्यस्य शंसेद्वामं ह्येतद्देवानां वसिष्ठस्य शंसेद्वासिष्ठं ह्येतद्देवानां तत्र पुरस्तादुदुब्रह्मीयस्य पदानुषङ्गाञ्छंसति सर्वे वै कामा एतस्मिन्नन्तरुक्थे तद्यथा व्रजे पशूनवसृज्यार्गलेषीके परिव्ययेदेवमेवैतैः पदानुषङ्गैः सर्वान्कामानुभयतः परिगृह्याऽऽत्मन्धत्तेऽथो उदुब्रह्मीयस्यार्कवत्युत्तमा तदेतस्याह्लो रूपं त्रिः शस्तया परिदधाति परिधायोक्थवीर्यं जपत्यैकाहिकं पूर्वं प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव माहाव्रतिकमुत्तरं महदसीति महद्वन्महद्वढ्ध्येतदहः॥16॥
  FN:(1) (2।6।13)
 तदेतत्सकृच्छस्तायां सूददोहसि यावच्छस्त्रमुपसर्जन्यां संख्यायमानायामृते तूष्णींशंसं बृहतीसहस्रं संपद्यते तस्या वा एतस्य बृहतीसहस्रस्य षट्त्रिंशदक्षराणां सहस्राणि भवन्ति तावन्ति शतं संवत्सरस्याहानि भवन्ति तच्छतसंवत्सरस्याहान्याप्नोत्यनुष्टुप्संपन्नमुहैके वाग्वा एतदहर्वागनुष्टुब्वाक्सर्वाणि भूतान्यथो वागिदं सर्वमिति बृहतीसंपन्नमिति त्बेव स्थितं बार्हतो वा एष य एष तपति तदेन स्वेन च्छन्दसा समर्धयति त्रिरेवाऽऽह्वयते त्रयो वा इमे लोका इमानेव तल्लोकानाप्नोत्यैकाहिकी याज्या प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवाननुवषट्कृत एव प्रेङ्खं ग्रथ्नन्ति सग्रहमेवायं तं प्राङुपावरोहति प्रत्यङ् प्रेङ्खफलकमपोहति परामृशन्ग्रहं जपति यमिमं प्रजयं प्राजैषंस्तमन्वसानीति नेदस्मात्प्रजयादात्मानमपादधानीति वैश्वकर्मणोऽतिग्राह्यः प्राजापत्यं वा एतदहः प्रजापतिर्विश्वकर्मा तदेनं स्वेन रूपेण समर्धयति तद्धैतदहरिन्द्रोऽङ्गिसे प्रोवाचाङ्गिरा दीर्घतमसे तत उ ह दीर्घतमा दश पुरुषायुषाणि जिजीव तदप्येतदृषिराह %दीर्घतमा(1) मामतेयो जूजुर्वान्दशमे युगा%इति तदेतदायुष्कामस्य शस्त्रमिति ह स्माऽऽह कौषीतकिस्तद्य एवं विद्वानेतदहः शंसति सर्वमायुरस्मिँल्लोक एत्याप्नोत्यमृतत्वमक्षतिं स्वर्गे लोके॥17॥
  FN:(1) (2।3।1)
 %(1) तत्सवितुर्वृणीमह%इति वैश्वदेवस्य प्रतिपद्वृणीमह इति महद्वती महद्वन्महद्वद्ध्येतदहरद्या%नो (2) देव सवितिरित्यनुचरो%%विश्वा(3) वामा निधीमहीति%महद्वन्महद्वद्ध्येतदहस्तद्देवस्य(4) सवितुर्वार्यं%महदिति सावित्रं महद्वन्महद्वद्ध्येतदहस्ते%हि %(5) द्यावापृथिवी विश्वशभुवेति%द्याबापृथिवीयमुरुव्यचसा(6) महिनी असश्चतेति%महद्वन्महद्वद्ध्येतदहः%किमु(7) श्रेष्ठः किं यविष्ठो न आजगन्नित्यार्भवं%ननन्दिम चमसं यो महाकुल इति महद्वन्महद्वद्ध्येतदहरस्य%(8) वामस्य पलितस्य होतुरिति%सलिलं ह्येतद्देवानामैकाहिके निविदं दधाति प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवैकाहिकं वैश्वानरीयं प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव%(9) प्रजत्यवो मरुतो भ्राजदृष्टय%इति मारुतं%(10) बृहन्महान्त उर्विया विराजथेति%बृहद्वन्महद्बद्ध्येतद%हर्वालित्था त(11) द्वपुषो(*) धायि दर्शतमिति%जातवेदसीयं तस्यास्ताव्यग्निः शिमीबद्भिरर्कैरित्यर्कवत्युत्तमा तदेतस्याह्नो रूपमित्याग्निमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदग्निष्टोमः संतिष्ठते ब्रह्म वा अग्निष्टोमो ब्रह्मैतदहर्ब्रह्मण्येव तद्ब्रह्म प्रतिष्ठापयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्ति य एतदहरुपयन्ति॥18॥
 इति शाङ्खायनारण्यके($) द्वितीयोऽध्यायः समाप्तः।
 ----------------
  FN:(1) (4।4।25)
      (2) (4।4।25)
      (3) (4।4।26)
      (4) (3।7।4)
      (5) (2।3।3)
      (6) (2।3।3)
      (7) (2।3।4)
      (8) &(9) (4।3।17)
      (10) (4।3।17)
      (11) (2।2।8)
      (*) अत्र शाकलसंहितायां वपुषे,इतिपाठः।
      ($) ख.प.ब.इति कौषीतकिब्राह्मणे महाव्रतं नाम द्वात्रिंशत्तमोऽध्यायः।महाव्रतं सनाप्तम्।
 -------------

तृतीयोऽध्यायः

[सम्पाद्यताम्]


 ॐ चित्रो ह वै गाङ्ग्यायनिर्यक्ष्यमाण आरुणिं वव्रे। स ह पुत्रं श्वेतकेतुं प्रजिगाय याजयेति।तं हाभ्यागतं पप्रच्छ।गोतमस्य पुत्रोऽस्ति।संवृतं लोके यस्मिन्मा धास्यस्यन्यतमो वाऽध्वा।तस्य मा लोके धास्यसीति।स होवाच।नाहमेतद्वेद।हन्ताऽऽचार्य पृच्छानीति।स ह पितरमासाद्य पप्रच्छेतीति मा प्राक्षीत्कथं प्रतिव्रवाणीति। स होवाचाहमप्येतन्न वेद।सदस्येव वयं स्वाध्यायमधीत्य हरामहे यन्नः परे सदस्ये ह्युभौ गमिष्याव इति स ह समित्पाणिश्चित्रं गाङ्गयायनिं प्रतिचक्रम उपयानीति तं होवाच ब्रह्मार्होऽसि गोतम यो न मानमुपागा एहि व्येव त्वा ज्ञमयिष्यामीति॥1॥
 स होवाच ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति तेषां प्राणैः पूर्वपक्ष आप्यायते तानपरपक्षेण प्रजनयत्येतद्वै स्वर्गस्य लोकस्य द्वारं यच्चन्द्रमास्तं यः प्रत्याह तमतिसृजतेऽथ यो न प्रत्याह तमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा मत्स्यो वा शकुनिर्वा सिंहो वा वराहो वा परश्वा वा शार्दूलो वा पुरुषो वाऽन्यो वा तेषु तेषु स्थानेषु प्रत्याजायते यथाकर्म यथाविद्यं तमागतं पृच्छति कोऽसीति तं प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं पञ्चदशात्प्रसूतात्पित्र्यावतस्तं मा पुंसि कर्तर्येरयध्वं पुंसा कर्त्रा मातरि मा निषिञ्च स जायमानो द्वादशत्रयोदशो मासो द्वादशत्रयोदयेन पित्राऽऽसं तद्विदे प्रतितद्विदेऽहं तन्म ऋतवो मृत्यव आभरध्वम्।तेन सत्येन तेन तपस ऋतुरस्म्यार्तवोऽस्मि कोऽसि त्वमसीति तमतिसृजते॥2॥
 स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं(1) स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं तस्य वा एतस्य ब्रह्मलोकस्याऽऽरो ह्रदो मुहूर्ता यष्टिहा विजरा नदील्यो वृक्षः साल्लजुं संस्थानमपराजितमायतनमिन्द्रप्रजापती द्वारगौपौ (2) विभुप्रमितं विचक्षणाऽऽसन्द्यमितौजाः पर्यङ्कः प्रिया च मानसीप्रतिरूपा च चाक्षुषी पुष्पाण्यादायावयतो(न्ति) वैराजगान्यम्बाश्चाम्बायवीश्चाप्सरसोऽम्बया नद्यस्तमित्थंविदागच्छति सं ब्रह्मा हाभिधावत मम यशसा विजरां वा अयं नदीं प्रापन्न वा अयं जरयिष्यतीति॥3॥
  FN:(1) स.स आदित्यलोकमित्यबिकम्।
      (2) स.प.विभुः।
 तं पञ्च शनान्यप्सरसां प्रतियन्ति शफलहस्ताः शतमाञ्जनहस्ताः शतं माल्यहस्ताः शतं वासोहस्ताः शतं चूर्णहस्तास्तं ब्रह्मालंकारेणालं कुर्वन्ति स ब्रह्मालंकारेणालंकृतो ब्रह्म विद्वान्ब्रह्माभिप्रौति स आगच्छत्यारं ह्रदं तं मनसाऽप्येति तमित्वा संप्रतिविदो मज्जन्ति स आगच्छति मुहूर्तान्यष्टिहांस्तेऽस्मादपद्रवन्ति स आगच्छति विजरां नदीं तां मनसैवाप्येति तत्सुकुतदुष्कृते धुनुवाते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन धावयन्रथचक्रे पर्यवेक्षेतैवमहोरात्रे पर्यवेक्षेतैव सुकृतदुष्कृते सर्वाणि च द्वंद्वानि स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान्ब्रह्माभिप्रैति॥4॥
 स आगच्छतील्यं(1) वृक्षं तं ब्रह्मगन्धः प्रविशति स आगच्छति साल्लजुं संस्थानं तं ब्रह्मरसः प्रविशति स आगच्छत्यपराजितमायतनं तं ब्रह्मंयशः(2) प्रविशति स आगच्छतीन्द्रप्रजापतीद्वारगोपौ तावस्मादपद्रवतः स आगच्छति विभुप्रमितं तं ब्रह्मतेजः प्रविशति स आगच्छति विचक्षणामासन्तीं बृहद्रथन्तरे सामनी पूर्वै पादौ श्येतनौधसे चापरौ वैरूपवैराजे अनूच्ये शाक्वररैवते तिरश्ची सा प्रज्ञा प्रज्ञया हि विपश्यति स आगच्छत्यमितौजसं सं पर्यङ्कं सप्राणस्तस्य भूतं च भविष्यच्च पूर्वौ पादौ श्रीश्चेरा चापरौ भद्र यज्ञायज्ञिये शीर्षण्ये बृहद्ररथंतरे अनूच्ये ऋचश्च सामानि च (3) प्राचीनातानानि यजूंषि तिरश्चीनानि सोमांशव उपस्तरणमुद्गीथोऽपरश्च यः श्रीरुपबर्हणं तस्मिन्ब्रह्माऽऽस्ते तमित्थंवित्पादेनैवाग्र आरोहति तं ब्रह्मा पृच्छति काऽसीति तं प्रतिब्रूयात्॥5॥
FN:(1) ख.आगच्छतील्पं।
         (2) स,रसः।
         (3) ख.प्राचीमातानानि।
 ऋतुरस्म्यार्तवोऽस्म्याकाशाद्योनेः संभूतो भार्यायै रेतः संवत्सरस्य तेजोभूतस्य भूतस्याऽऽत्मा भूतस्य भूतस्य त्वमात्माऽसि यस्त्वमसि सोऽहमस्मि तमाह कोहमस्मीति सत्यमिति ब्रूयात्किं तद्यत्सत्यमिति यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सदथ यद्देवाश्च प्राणाश्च तप्तं तदेकया वाचाऽभिव्याह्रियते सत्यमित्येतावदिदं सर्वमिदं सर्वमस्मीत्येवैनं तदाह तदेतदृक्श्लोकेनाभ्युक्तम्॥6॥
 यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः।स ब्रह्मेति विज्ञेय ऋषिर्ब्रह्ममयो महानिति॥तमाह केन मे पौंस्नानि नामान्याप्नोषीति प्राणेनेति ब्रूयात्केन नपुंसकानीति मनसेति केन स्त्रीनामानीति वाचेति केन गन्धानिति घ्राणेनेति केन रूपाणीति चक्षुषेति केन शब्दानिति श्रोत्रेणेति केन सुखदुःखे इति शरीरेणेति केनाऽऽनन्दं रतिं प्रजामित्युपस्येनेति केनेत्या इति पादाभ्यामिति केन धियो विज्ञातव्यं कामानिति प्रज्ञयैवेति ब्रूयात्तमाह यो वै खलु मे लोकोऽयं तेऽसाविति सा या ब्रह्मणो जितिर्या व्यष्टिस्तां जितिं जयति तां व्यष्टिं व्यश्रुते य एवं वेद य एवं वेद॥7॥
 इति शाङ्खायनारण्यके (1) तृतीयोऽध्यायः समाप्तः।
  FN:(1) प.प्रथमोऽध्यायः।
 -----------------

चतुर्थोऽध्यायः

[सम्पाद्यताम्]

 ॐ प्राणो ब्रह्मेति ह स्माऽऽह कौषीतकिस्तस्यैतस्य प्राणस्य ब्रह्मणो मनो दूतं चक्षुर्गोप्तृ श्रोत्रं संश्रावयितृ वाक्परिवेष्ट्री स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद दूतवान्भवति यश्चक्षुर्गौप्तृ गोप्तृमान्भवति यः श्रोत्रं संश्रावयितृ संश्रावयितृमान्भवति यो वाचं परिवेष्टृ परिवेष्टृमान्भवति तस्मै वा एतस्मै प्राणाय ब्रह्मण एता देवता अयाचमानाय बलिं हरन्त्येवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति तद्यथाग्रामं बलिं हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वाऽऽलब्ध्वोपविशेन्नाहमतोऽदत्तमश्रीयामिति त एवैनमुपमन्त्रयन्ते ये पुरस्तात्प्रत्याचक्षीरन्नेष धर्मो याचितो भवत्यन्नदास्त्वेवैनमुपमन्त्रयन्ते ददाम त इति॥1॥
 प्राणो ब्रह्मेति ह स्माऽऽह पैङ्गयस्तस्य वा एतस्य प्राणस्य ब्रह्मणो वाक्परस्ताञ्चक्षुरारुन्धते चक्षुः परस्ताच्छ्रोत्रमारुन्धते श्रोत्रं परस्तान्मन आरुन्धते मनः परस्तात्प्राण आरुन्धते तस्मै वा एतस्मै प्राणाय ब्रह्मण एता देवता अयाचमानाय बलिं हरन्त्येवं हैवास्मै सर्वाणि भूतान्याचमानायैव बलिं हरन्ति य एवं वेद तस्योपनिपन्न याचेदिति तद्यथा ग्रामं भिक्षित्वाऽलब्वोपविशेन्नाहमतोऽदत्तमश्रीयामिति त एवैनमुपमन्त्रयन्ते ये पुरस्तात्प्रत्याचक्षीरन्नेष धर्मो याचितो भवत्यन्नदास्त्वेवैनमुपमन्त्रयन्ते ददाम त इति॥2॥
 अथात एकधनावरोधनं य एकधनमभिध्यायात्पौर्णमास्यां वाऽमावास्यायां वा शुद्धपक्षे वा पुण्ये नक्षत्र एतेषामेकस्मिन्पर्वण्यवेणाऽऽज्याहुतीर्जुहोति।वाङ् नाम देवतावरोधिनी सा भेऽमुष्मादिदमवरुन्ध्यात्तस्यै स्वाहा प्राणो नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्ध्यात्तस्यै स्वाहा चक्षुर्नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्ध्यात्तस्यै स्वाहा श्रोत्रं नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्ध्यात्तस्यै स्वाहा प्रज्ञा नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्ध्यात्तस्यै स्वाहेत्यथ धूमगन्धं प्रजिघायाऽऽज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रव्रज्यार्थं ब्रूयाद्दूतं वा प्रहिणुयाल्लभते हैव॥3॥
 अथातो दैवस्मरो यस्य प्रियो बुभूषेद्यस्यै वा येषां वा यासां वैतेषामेवैकस्मिन्पर्वण्येतयैवाऽऽवृतैता आज्याह्रुतीर्जुहोति वाचं ते मयि जुहोम्यसौ स्वाहा।प्राणं ते मयि जुहोम्यसौ स्वाहा।चक्षुस्ते मयि जुहोम्यतौ स्वाहा।श्रोत्रं ते मयि जुहोम्यसौ स्वाहा।मनस्ते मयि जुहोम्यसौ स्वाहा।प्रज्ञां ते मयि जुहोम्यसौ स्वाहेत्यथ धूमगन्धं प्रजिघायाऽऽज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रव्रज्यं संस्पर्शं जिगमिषेदभिवाताद्वा तिष्ठेत्संभाषमाणः प्रियो हैव भवति स्मरन्ते हैवास्य॥4॥
 अथातः संयमनं (1) प्रातर्दनमान्तरमग्निहोत्रमित्याचक्षते यावद्वै पुरुषो भाषते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि जुह्येति यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोत्येते अनन्ते अमृते आहुती जाग्रञ्च स्वपंश्च संततं जुहोत्यथ या अन्या आढुतयोऽन्तवत्यस्ताः कर्ममय्यो हि भवन्ति तद्ध स्मैतत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रुः॥5॥
  FN:(1) भ स.प्रातर्दशा.
 उक्थं ब्रह्मेति ह स्माऽऽहशुष्कभृङ्गारस्तदृगित्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठयायाभ्यर्च्यन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानि श्रेष्ठयाय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रेष्ठयाय संनमन्ते तच्छ्रीरित्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छ्रीमत्तमं यशस्वितमं तेजस्वितममिति शस्त्रेषु भवत्येवं हैव स सर्वेषु भूतेषु श्रीमत्तमो यशस्वितमस्तेजस्वितमो तस्मिन्यजुर्मयं प्रवयति यजुर्मय ऋङ्मयं होत ऋङ्मये साममयमुद्गाता[साममये]स एष त्रय्यै विद्याया आत्मैष उ एवैतदिन्द्रस्याऽऽत्मा भवति य एवं वेद॥6॥
 अथातः सर्वजितः कौषीतकेस्त्रीण्युपासनानि भवन्ति सर्वजिद्ध स्म कौषीतकिरुद्यन्तमादित्यमुपतिष्ठते यज्ञोपवीतं धृत्वोदकमानीय त्रिः प्रसिच्योदकपात्रं वर्गौऽसि पाप्मानं मे वृङ्धीत्येतयैवाऽऽवृता मध्ये सन्तमुद्वर्गाऽसि पाप्मानं म उद्वृङ्धीत्येत्रयैवाऽऽवृताऽस्तं यन्तं संवर्गोऽसि पाप्मानं मे संवृङ्धीति तद्यदहोरात्राभ्यां पापं करोति सं तद्वृङ्क्ते तथो एवैवं विद्वानेतयैवाऽऽवृताऽऽदित्यमुपतिष्ठते यदहोरात्राभ्यां पापं करोति सं तद्वृङ्के॥7॥
 अथ मासि मास्यमावास्यायां वृत्तायां पश्चाच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवाऽऽवृता हरिततृणे वा प्रत्यस्य यन्मे सुसमिद्धृदयं दिवि चन्द्रमसि श्रितं मन्येऽहं मां तद्विद्वांसं माऽहं पुत्र्यमघं रुदमिति न ह्यस्मात्पूर्वाः प्रजाः प्रैतीति जात%पुत्रस्याथाजातपुत्रस्याऽऽप्यायस्व समेतु(1) %ते%सं ते(2) पयांसि समुयन्तु वाजा यमादित्या अंशुमाप्याययन्तीत्येतास्तिस्र%ऋचो जपित्वा माऽस्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठा योस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिराप्यायस्वेत्यैन्द्रीमावृतमावर्त आदित्यस्याऽऽवृतमन्वावर्त इति दक्षिणं बाहुमन्वावर्तते॥8॥
  FN:(1) (1।6।22॥6।7।22)
      (2) (1।6।22)
 अथ पौर्णमास्यां पुरस्ताच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैबाऽऽवृता सोमो राजाऽसि विचक्षणः पञ्चमुखोऽसि प्रजापतिर्ब्राह्मणस्त एकं मुखं तेन मुखेन राज्ञोऽत्सि तेन मुखेन मामन्नादं कुरु राजा त एकं मुखं तेन मुखेन विशोऽत्सि तेन मुखेन मामन्नादं कुरु श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तेन मुखेन मामन्नादं कुर्वग्निष्ट एकं मुखं तेन मुखेनेमं लोकमत्सि तेन मुखेन मामन्नादं कुरु त्वै....पञ्चमुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन मामन्नादं कुरु माऽस्माकं प्राणेन प्रजया पशुभिरपक्षेष्ठा योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिरपक्षीयस्वेति दैवीमावृतमावर्त आदित्यस्याऽऽवृतमन्वावर्त इति दक्षिणं वाहुमन्वावर्तते॥9॥
 अथ संवेश्य जायायै हृदयमभिमृशेद्यत्ते सुशीमे हृदयं श्रितमन्तः प्रजापतौ तेनामृतत्वस्येशाने मा त्वं पुत्र्यमघं निगा इति न ह्यस्याः पूर्वाः प्रजाः प्रैतीति॥10॥ अथं प्रोष्याऽऽयन्पुत्रस्य मूर्धानमभिजिघ्रेत्।अङ्गादङ्गात्संभवसि हृदयादधिजायसे।आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति नामास्य दधात्यश्मा भव परशुर्भव हिरण्यमस्तृतं भव। वेदो वै पुत्रनामाऽसि स जीव शरदः शतमिति नामास्य गृह्णात्यथैनत्परिगृह्णाति येन प्रजापतिः प्रजाः पर्यगृह्णात्तदरिष्टयै तेन त्वा परिगृह्णाम्यसावित्यथास्य दक्षिणे कर्णे%जपत्यस्ने(1) प्रयन्धि मघवन्नृजीषिन्नितीन्द्र%श्रेष्ठानि (2) द्रविणानि धेहीति%सव्ये मा भेत्था मा व्यथिष्ठाः शतं शरद आयुषो जीवस्व पुत्र ते नाम्ना मूर्धानमभिजिघ्रामीति त्रिरस्य मूर्धानमभिजिघ्रेद्गवां त्वां हिंकारेणाभिहिं करोमीति त्रिरस्य मूर्धानमभिहिं कुर्यात्॥11॥%
  FN:(1) (6।2।20)
      (2) (2।6।27)
 यञ्चन्द्रमा दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य विद्युतमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यद्विद्युद्विद्योततेऽथैतन्म्रियते यन्न विद्योतते तस्या दिश एव तेजो गच्छति वायुं प्राणस्ता वा एताः सर्वा देवता वायुमेव प्रविश्य वायौ मृत्वाऽन्नमृच्छन्ते तस्मादेव पुनरुदीरत इत्यधिदैवतमथाध्यात्मम्॥12॥
 एतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्म्रियते यन्न वदति तस्य चक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यञ्चक्षुषा पश्यत्यथैतन्म्रियते यन्न पश्यति तस्य श्रोत्रमेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्छ्रोत्रेण शृणोत्यथैतन्म्रियते यन्न शृणोति तस्य मन एव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यन्मनसा ध्यायत्यथैतन्मियते यन्न ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्ता वा एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे मृत्वाऽन्नमृच्छन्ते तस्मादेव पुनरुदीरते तद्यदिह वा एवं विद्वांसमुभौ पर्वतावभिप्रवर्तेयातां दक्षिणश्चोत्तरश्च तुस्तूर्षमाणौ न हैनं सृण्वीयातामथ य एनं द्विषन्ति यांश्च स्वयं द्वेष्टि त एवैनं परिम्रियन्ते॥13॥
 अथातो निःश्रेयसादानमेता ह वै देवता अहंश्रेयसे विवदमाना अस्माच्छरीरादुञ्चक्रमुस्तद्वाक् पपात शुष्कं दारुभूतं शिश्येऽथैनद्वाक्प्रविवेश तद्वाचावदच्छिश्य एवाथैनच्चक्षुः प्रविवेश तद्वाचाऽवदच्चक्षुषाऽपश्यच्छिश्य एवाथैनच्छ्रोत्रं प्रविवेश तद्वाचावदञ्चक्षुषाऽपश्यच्छ्रोत्रेण शृण्वच्छिश्य एवाथैतन्मनः प्रविवेश तद्वाचावदञ्चक्षुषाऽपश्यच्छ्रोत्रेण शृण्वन्मनसाऽध्यायच्छिश्य एवाथैनत्प्राणः प्रविवेश तत्तत एव समुत्तस्थौ ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा प्राणमेव प्रज्ञात्मानमभिसंभूय सहैवैतैः सर्वैरस्माच्छरीरादुञ्चक्रमुस्ते वायुप्रतिष्ठा आकाशात्मानः स्वरीयुस्तथो एवैवं विद्वान्प्राणे निःश्रेयसं विदित्वा प्राणमेव प्रज्ञात्मानमभिसंभूय सहैवैतैः सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठ आकाशात्मा स्वरेति स तद्गच्छति यत्रैते देवास्तत्प्राप्य यदमृता देवास्तदमृतो भवति य एवं वेद॥14॥
 अथातः पितापुत्रीयं संप्रदानमिति चाऽऽचक्षते पिता पुत्रं प्रेष्यन्नाह्वयति नवैस्तृणैरगारं संस्तीर्याग्निमुप स्माऽऽधायोदकुम्भं सपा त्रमुपनिधायाहतेन वाससा संप्रच्छन्नः पिता शेत एत्य पुत्र उपरिष्टादभिनिपद्यत इन्द्रियैरिन्द्रियाणि संस्पृश्यापि वाऽस्मा आसीनायाभिमुखायैव संप्रदध्यादथास्मै संप्रयच्छति वाचं मे त्वयि दधानीति पिता वाचं ते मयि दध इति पुत्रः प्राणं मे त्वयि दधानीति पिता वाचं ते मयि दध इति पुत्रः प्राणं मे त्वयि दधानीति पिता प्राणं मयि दध इति पुत्रश्चक्षुर्मे त्वयि दधानीति पिता चक्षुस्ते मयि दध इति पुत्रः श्रोत्रं मे त्वयि दधानीति पितान्नरसांस्त मयि दध इति पुत्रः कर्माणि मे त्वयि दधानीति पिता कर्माणि ते मयि दध इति पुत्रः सुखदुःखे मे त्वयि दधानीति पिता सुखदुःखे ते मयि दध इति पुत्र आनन्दं रतिं प्रजातिं मे त्वयि दधानीति पिताऽऽनन्दं रतिं प्रजातिं ते मयि दध इति पुत्र इत्यां मे त्वयि दधानीति पितेत्यां मयि दध इति पुत्रो मनो मे त्वयि दधानीति पिता पितेत्यां मयि दध इति पुत्रः प्रज्ञां मे त्वयि दधानीति पिता प्रज्ञां ते मयि दध इति पुत्रो यद्यु वा उपाभिगदः स्यात्समासेनैव ब्रूयात्प्राणान्मे.त्वयि दधानीति पिता प्राणांस्ते मयि दध इति पुत्रोऽथ दक्षिणावृदुपनिष्क्रामति तं पिताऽनुमन्त्रयते यशो ब्रह्मवर्चसं कीर्तिस्त्वा जुषतामित्यथेतरः सव्यमन्वंसमभ्यवेक्षते(1) पाणिनाऽन्तर्धाय वसनान्तेन वा प्रच्छाद्य स्वर्गाल्लोकान्कामानाप्नुहीति स यद्यगदः स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परि वा व्रजेद्यद्यु वै प्रेयात्तथैवैनं समापयेयुर्यथा समापयितव्यो भवति यथा समापयितव्यो भवति॥14॥
 इति शाङ्खायनारण्यके(2) चतुर्थोऽध्यायः॥4॥
  FN:(1) स.प.वेक्षेत पा।
      (2) प.क द्वितीयोऽध्यायः।
 -------------

पञ्चमोऽध्यायः

[सम्पाद्यताम्]

 ॐ प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च तं हेन्द्र उवाच प्रतर्दन वरं वृमीष्वेति स होवाच प्रतर्दनस्त्वमेव वृमीष्व यं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच न वै वरोऽवरस्मै वृणीते त्वमेव वृणीष्वेवत्यवरो वै किल मेति होवाच प्रतर्दनोऽथो खल्विन्द्रः सत्यादेव नेयाय सत्यं हीन्द्रस्तं हेन्द्र उवाच मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये यो मां विजानीयात्र्रिशीर्षाणं त्वाष्ट्रमहनदरुर्मुस्वान्यतीन्सालावृकेभ्यः प्रायच्छन्बह्वीः संधा अतिक्रम्य दिवि प्रह्लादीयामनृणमहमन्तरिक्षे(1) पौलामान्पृथिव्यां कालखञ्जांस्तस्य मे तत्र न लोमचनामीयत स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया न मातृवधेन न पितृवधेन नास्य पापंचन चक्रुषो मुखान्नीले वेतीति॥1॥
 स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्वाऽऽयुः प्राणः प्राणो वा आयुर्यावद्यस्मिञ्छरीरे प्राणो वसति तावदायुः प्राणेन ह्येबास्मिँल्लोक एत्याऽऽप्नोत्यमृतत्वमक्षितिं स्वर्ग लोके तद्धैक आहुरेकभूयं वै प्राणा गच्छन्तीति नहि कश्चन् शक्नुयात्तद्वाचा नाम प्रज्ञापयितुं चक्षषा रूप श्रोत्रेण शब्दं मनसा ध्यातमेकभूयं वै प्राणा भूत्वैकैकमेतानि सर्वाणि प्रज्ञापयन्तीति वाचं वदन्तीं सर्वे प्राणा अनुवदन्ति चक्षुः पश्यत्सर्वे प्राणा अनुपश्यन्ति श्रोत्रं शृण्वत्सर्वे प्राणा अनुशुण्वन्ति मनो ध्यायत्सर्वे प्राणा अनुध्यायन्ति प्राणं प्राणन्तं सर्वे प्राणा अनुप्राणन्त्येवमु हैतदिति हेन्द्र उवाचास्ति त्वेव प्राणानां निःश्रेयसा दानमिति॥2॥
 जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्न इत्येवं हि पश्याम इत्यथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति तस्मादेतदेवोक्थमुपासीतेति सैषा प्राणे सर्वाप्तिर्यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणस्तस्यैषैव दृष्टिरेतद्विज्ञानं यत्रैतत्पुरुषः सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भति तदेनं वाक् सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेर.न्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः स एष प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति तस्मादेतदेवोक्थमुपासीतेति सैषा प्राणे सर्वाप्तिर्यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणस्तस्यैषैव सिद्धिरेतद्विज्ञानं यत्रैतत्पुरुष आर्तो मरिष्यन्नाबल्यमेत्य संमोहमेति तमाहुरुदक्रमीच्चित्रं न शृणोति न पश्यति न वाचा वदति न ध्यायत्यथास्मिन्प्राण एवैकधा भवति तदेनं वाक् सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदाऽस्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति॥3॥
 वागेवास्मिन्सर्वाणि नामान्यभिविसृज्यन्ते वाचा सर्वाणि नामान्याप्नोति प्राण एवास्मिन्सर्वे गन्धा अभिविसृज्यन्ते प्राणेन सर्वान्गन्धानाप्नोति चक्षुरेवास्मिन्सर्वाणि रूपाण्यभिविसृज्यन्ते चक्षुषा सर्वाणि रूपाण्याप्रोति श्रोत्रमेवास्मिन्सर्वेशब्दा अभिविसृज्यन्ते श्रोत्रेण सर्वाञ्छब्दानाप्नोति मन एवास्मिन्सर्वाणि ध्यातान्यभिविसृज्यन्ते मनसा सर्वाणि ध्यातान्याप्नोति सह ह्येतावस्मिञ्छरीरे वसतः सहोत्क्रामतोऽथ यथाऽस्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्तीति तद्वयाख्यास्यामः॥4॥
 वामेवास्या एकमङ्गमुदूहूळं तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा घ्राण एवास्या एकमङ्गमुदूह्ळं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षुरेवास्या एकमङ्गमुदूहूळं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या एकमङ्गमुदूहूळं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा जिह्वैवास्या एकमङ्गमुदूह्ळं तस्या अन्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या एकमङ्गमुदूह्ळं तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एकमङ्गमुदूह्ळं तस्य सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रोपस्थ एवास्या एकमङ्गमुदूह्ळं तस्याऽऽनन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादा एवास्या एकमङ्गमुदूह्ळं तयोरित्या परस्तात्प्रतिविहिता भूतमात्रा मन एवास्या एकमङ्गमुदूह्ळं तस्य धीः कामाः परस्तात्प्रतिविहिता भूतमात्रा॥5॥
 प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया प्राणं समारुह्या प्राणेन सर्वान्गन्धानाप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वाञ्छब्दानाप्नोति प्रज्ञया जिह्वां समारुह्य जिह्वया सर्वानन्नरसानाप्नोति प्रज्ञया शरीरं समारुह्य शरीरेण सुखदुःखे आप्नोति प्रज्ञयोपस्थं समारुह्योपस्थेनाऽऽनन्दं रतिं प्रजातिमाप्नोति प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्या आप्नोति प्रज्ञया मनः समारुह्य मनसा सर्वाणि ध्यातान्याप्नोति॥6॥
 न हि प्रज्ञापेता वाङ्नाम किंचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतन्नाम प्राज्ञासिषमिति न हि प्रज्ञापेतः प्राणो गन्धं कंचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं गन्धं प्राज्ञासिषमिति नहि प्रज्ञापेतं चक्षू रूपं किंचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतद्रूपं प्राज्ञासिषमिति नहि प्रज्ञपयेदन्यत्र श्रोत्रं शब्दं कंचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं शब्दं प्राज्ञासिषमिति नहि प्रज्ञापेता जिह्वाऽन्नरसं कंचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमन्नरसं प्राज्ञासिषमिति न हि प्रज्ञापेतौ हस्तौ कर्म किंचन प्रज्ञापेतामन्यत्र नौ मनोऽभूदित्याहतुर्नाऽऽवामेतत्कर्म प्राज्ञासिष्वेति नहि प्रज्ञापेतं शरीरं न सुखं न दुःखं किंचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं न सुखं दुःखं प्राज्ञासिषमिति नहि प्रज्ञापेत उपस्थ आनन्दं न रतिं न प्रजातिं कांचन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमानन्दं न रतिं न प्रजातिं प्राज्ञासिषमिति नहि प्रज्ञापेतौ पादावित्यां कांचन प्रज्ञपयेतामन्यत्र नौ मनोऽभूदित्याहतुर्नाऽऽवामेतामित्यां प्राज्ञासिष्वेति नहि प्रज्ञापेता धीः काचन सिध्येन्न प्रज्ञातव्यं प्रज्ञायेत॥7॥
 न वाचं विजिज्ञासीत वक्तारं विद्यान्न गन्धं विजिज्ञासीत घ्रातारं विद्यान्न रूपं विजिज्ञासीत द्रष्टारं विद्यान्न शब्दं विजिज्ञासीत श्रोतारं विद्यान्नान्नरसं विजिज्ञासीतान्नरसस्य विज्ञातारं विद्यान्न कर्म विजिज्ञासीत कर्तारं विद्यान्न सुखदुःखे विजिज्ञासीत सुखदुःखयोर्विज्ञातारं विद्यान्नाऽऽनन्दं न रतिं न प्रजातिंविजिज्ञासीताऽऽनन्दस्य रतेः प्रजातेर्विज्ञातारं विद्यान्नेत्यां विजिज्ञासीतैतारं विद्यान्न मनो विजिज्ञासीत मन्तारं विद्यात्ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतं यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युर्यद्वा प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युर्न ह्यन्यतरतो रूपं किंचन सिध्येन्नो एतन्नाना तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्माऽनन्तोऽजरोऽमृतो न साधुना कर्मणा भूयान्भवति नो एवासाधुना कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषत एष लोकपाल एष लोकाधिपतिरेष लोकेशः स म आत्मेति विद्यात्स म आत्मेति विद्यात्॥8॥
 इति शाङ्खायनारण्यके पञ्चमोऽध्यायः॥5॥
 -------------

षष्ठोऽध्यायः

[सम्पाद्यताम्]

 
 ॐ अथ ह वै गार्ग्यो बालाकिरनूचानः संस्पृष्ट आस सोऽवसदुशीनरेषु स वसन्मत्स्येषु कुरुपञ्चालेषु काशिविदेहेष्विति स हाजातशत्रुं काश्यमाव्रज्योवाच ब्रह्म ते ब्रवाणीति तं होवाचाजातशुत्रुः सहस्रं दझि त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति॥1॥
 आदित्ये बृहच्चन्द्रमस्यन्नं विद्युति सत्यं स्तनयित्नौ शब्दो वायाविन्द्रो वैकुण्ठ आकाशे पूर्णमग्नौ विषासहिरित्यप्सु तेज इत्यधिदैवतमथाध्यात्ममादर्शे प्रतिरूपश्छायायां द्वितीयः प्रतिश्रुत्कायामसुरिति शब्दे मृत्युः स्वप्ने यमः शरीरे प्रजापतिर्दक्षिणेऽक्षिणि वाचः सव्येऽक्षिणि सत्यस्य॥2॥
 स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेति वा अहमेतमुपास इति स यो हैतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा भवति॥3॥
 स होवाच बालाकिर्य एवैष चन्द्रमसि पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा अन्नस्याऽऽत्मेतिवा अहमेतमुपास इति स यो हैतमेवमुपास्तेऽन्नस्याऽऽत्मा भवति॥4॥
 स होवाच बालाकिर्य एवैष विद्युति पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संबादयिष्ठाः सत्यस्याऽऽत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते सत्यस्याऽऽत्मा भवति॥5॥
 स होवाच बालाकिर्य एवैष स्तनयित्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संबादयिष्ठाः शब्दस्याऽऽत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते शब्दस्याऽऽत्मा भवति॥6॥
 स होवाच बालाकिर्य एष वायौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते जिष्णुर्ह अपराजिष्णरन्यतस्त्यजाथी भवति॥7॥
 स होवाच बालाकिर्य एवैष आकाशे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः पूर्णमप्रवर्तिः ब्रह्मेति वा अहमेतमुपास इति स यो हैतमेवम ुपास्ते पूर्यते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥8॥
 स होवाच बालाकिर्य एवैषोऽग्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा विषासहिरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विषासहिर्ह वा अन्येषु भवति॥9॥
 स होवाच बालाकिर्य एवैषोऽप्सु पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्म मैतस्मिन्संवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते तेजस आत्मा भवतीत्यधिदैवतमथाध्यात्मम्॥10॥
 स होवाच बालाकिर्य एवैष आदर्शे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्य प्रजायामाजायते नाप्रतिरूपः॥11॥
 स होवाच बालाकिर्य एवैष च्छायायां पुरुषस्तमेवाहुमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विन्दते द्वितीयान् द्वितायवान्हि भवति॥12॥
 स होवाच बालाकिर्य एवैष प्रतिश्रुत्कायां पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा असुरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते न पुरा कालात्संमोहमेति॥13॥
 स होवाच बालाकिर्य एवैष शब्दे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा मृत्युरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते न पुरा कालात्प्रैतीति॥14॥
 स होवाच बालाकिर्येनैतत्पुरुषः सुप्तः स्वप्न्यया चरति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा यमो राजेति वां अहमेतमुपास इति स यो हैतमेवमुपास्ते सर्वं हास्मा इदं श्रैष्ठयाय यम्यते॥15॥
 स होवाच बालाकिर्य एवैष शरीरे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रजापतिरिति वा अहमेतमुपास इति स यो हेतमेवमुपास्ते प्रजायते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥16॥
 स होवाच बालाकिर्य एवैष दक्षिणेऽक्षिणि पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा वाच आत्माऽग्रेरात्मा ज्योतिष आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवति॥17॥
 स होवाच बालाकिर्य एवैष सव्येऽक्षिणि पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्सवादयिष्ठाः सत्यस्याऽऽत्मा विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवति॥18॥
 तत उ ह बालाकिस्तूष्णीमास तं होवाचाजातशत्रुरेतावन्नु बालाका 3 इत्येतावदिति होवाच बालाकिस्तं होवाचाजातशत्रुर्मषा वै खलु मा संवादयिष्ठा ब्रह्म ते ब्रवाणीति यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वोदितव्यस्तत उ ह बालाकिः समित्पाणिः प्रतिचक्रम उपायानीति तं होवाचाजातशत्रुः प्रतिलोमरूपमेतन्मन्ये यत्क्षत्रियो ब्राह्मणमुपनयते हि व्येव त्वा ज्ञपयिष्यामीति तं ह पामावमिपद्य प्रवव्राज तौ ह सुप्तं पुरुषमाजग्मतुस्तं हाजातशत्रुरामन्त्रयांचक्रे बृहत्पाण्डरवासः सोमराजन्निति स उ ह शिश्र्य एव तत उ हैनं यष्टया विचिक्षेप स तत एव सुमुत्तस्थौ तं होवाचाजातशत्रुः क्वैष एतद्बालाके पुरुपोऽशयिष्ट क्व चैतदभूत्कुत एतदागादिति तत उ ह बालाकिर्न विजज्ञे तं होवाचाजातशत्रुर्यत्रैष एतद्बालाक पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदाऽगादिति हिता नाम पुरुषस्य नाड्यो हृदयात्पुरीततमभिप्रतन्वन्ति तद्यथा सहस्रधा केशो विपाटितस्तावदण्व्यः पिङ्गलस्याणिम्न्यस्तिष्ठन्ति शुक्लस्य कृष्णस्य पीतस्य लोहितस्य च तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यति॥19॥
 अथास्मिन्प्राण एवैकधा भवति तदेनं वाक् सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा प्रतिबुध्यते यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः स एष प्राण एव प्रज्ञात्मेदं शरीरमात्मानमनुप्रविष्ट आ लोमभ्य आ नखेभ्यस्तद्यथा क्षुरः क्षुरधाने वोपहितो विश्वंभरो वा विश्वंभरकुलाय एवमेवैष प्रज्ञात्मेदं शरीरमात्मानमनुप्रयिष्ट आ लोमभ्य आ नखेभ्यस्तमेतात्मानमेत आत्मानोऽन्ववस्यन्ते यथा श्रेष्ठिनं स्वास्तद्यथा श्रेष्ठी स्वैर्भुङ्के यथा वा (1) स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतेरात्मभिर्भुङ्क एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति स यावद्ध क्व इन्द्र एतमात्मानं न विजज्ञे तावदेनमसुरा अभिबभूवुः स यदा विजज्ञेऽथ हत्वाऽसुरान्विजित्य सर्वेषां च देवानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पर्यैत्तथो एवैवं विद्वान्सर्वान्पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद य एवं वेद॥20॥
  FN:(1) ख.स्वा.स्वै.श्रे।
 इति शाङ्खायनारण्यके षष्ठोऽध्यायः॥6॥
 -------------------

सप्तमोऽध्यायः

[सम्पाद्यताम्]

 ॐ ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारं मयि भर्गो मयि महो वाङ्भे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविराविर्मर्याभूर्वेद(1) सामत्साणीर्ऋतं(2) मा मा हिंसीरनेनाधीतेनाहोरात्रांत्संवसाम्यग्न इळा नम इला नम ऋषिभ्यो मन्त्रकृद्भयो (3) मन्त्रपतिभ्यो नमोऽस्तु देवेभ्यः शिवा नः शंतमा भव सुमृळीका सरस्वती मा ते व्योम संदृश्यदृब्धं मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः॥1॥
  FN:(1) ख.र्मय्यामू।
       (2) क.सारिणिः।
      (3) ब.मन्त्रपतिः।
 अथातः संहिताया उपनिषत्पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहितेति शौरवीरो माण्डूकेय आकाशः संहितेत्यस्य माक्षव्यो वेदयां चक्रे (1) सहापरिवृतो मेने न मेऽस्य पुत्रेण समगादिति परिवृतो मेन इत्यागस्त्यः समानं ह्यत्र पितुश्च पुत्रस्य च वायुः श्चाऽऽकाशश्चेत्यधिदैवतमथाध्यात्मं वाक् पूर्वरूपं मन उत्तररूपं प्राणः संहितेति शौरवीरो माण्डूकेयोऽथ ह स्मास्य पुत्र आह दीर्घो मनसा वा अग्रे कीर्तयति तद्वाचा वदति तस्मान्मन एव पूर्वरूपं वागुत्तररूपं मनो वाक् प्राणस्त्वेव संहित इति स एषोऽश्वरथः प्रष्टिवाहनो मनो वाक् प्राणः संहितः स्वर्गं लोकं गमयति स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मबर्चसेन स्वर्गेण लोकेन सर्वमायुरेतीति नु माण्डूकेयानाम्॥2॥
  FN:(1) ब.सहापि परिवृतो
 शाकल्यस्य(1) पृथिव्यग्निः पृथिवी वागनुव्याहारः स यदि निर्भुजः खलु वैव यं मध्यमां वाक् प्राणेन माता जाया प्रज्ञा वाग्बृहद्गबिर्वाचि(2) सर्वमुत्तमम्॥3॥
  FN:(1) क.अथ शाकल्यस्य।अत्रैकः कीथपुस्तके नास्ति।पाठभेदत्वेनाधोभागे स्वीकृतः।
      (2) प. बृहद्गदिति।
 अथ शाकल्यस्य पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहिता वृष्टिः संधिः पर्जन्यः संधाता तदुतापि यत्रैतद्बलवदनुगृह्णन्महामेघा(1) वृष्टिं वर्षन्ति द्यावापृथिव्यौ समधातामित्यधिदैवतमथाध्यात्मं पुरुषोऽयं सर्वमाण्‍डं द्वे विदले भवतस्तत्रेदमेव पूर्वरूपमिदमुत्तररूपं (2) तत्रायमन्तरेणाऽऽकाशो यथाव्सौ द्यावापृथिव्योरन्तरेणाऽऽकाशस्तस्मिन्नेतस्मिन्नाकाशो प्राण आयत्तो भवति यथाऽमुष्मिन्नाकाशे वायुरायत्तो भवति यथाऽमूनि त्रीणि ज्योतींष्येवमिमानि पुरुषे त्रीणि ज्योतींषि यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुर्यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयं यथाऽयमग्निः पृथिव्यामेवमिदमुपस्थे रेत एवमिव ह स्म सर्वत आत्मानमनुविधायाऽऽहेदमेव पूर्वरूपमिदमुत्तररूपं मनो वाक् प्राणस्त्वेव संहित इति स एषोऽश्वरथः प्रष्टिवाहनो मनो वाक् प्राणः संहितः स्वगं लोकं गमयति स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥4॥
  FN:(1) क.मेघो वृष्टिं वर्षति।
       (2) ब.यथात्रायं।
 पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहिता दिशः संधिंरादित्यः संधातेति वैश्वामित्र इत्यधिदैवतमथाध्यात्मं वाषपूर्वरूपं मन उत्तररूपं प्राणः संहिता श्रोत्र संधिश्चक्षुः संधाता स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरोति॥5॥
 अग्निः पूर्वरूपं चन्द्रमा उत्तररूपं विद्युत्संहितेति सूर्यदैवत इत्यविदैवतमथाध्यात्मं वाक् पूर्वरूपं मन उत्तररूपं सत्यं संहिता स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥6॥
 पृथिवी पूर्वरूपं द्यौरुत्तररूपं कालः संहितेति राथेय इत्यधिदैवतमथाध्यात्मं वाक् पूर्वरूपं मन उत्तररूपमात्मा संहिता स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥7॥
 वाक् पूर्वरूपं मन उत्तररूपं विद्या संहितेति पौष्करसादिः स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरोति॥8॥
 अथातोऽनुव्याहाराः प्राणो वंश इति विद्यात्स य एनं प्राणं वंशं ब्रुवन्परमुपवदेच्छक्नुवन्कश्चिच्चेन्मन्येत प्राणं वंशं समधाः प्राणं वंशं समधित्सितुं(1) न शक्नोषीत्यात्थ(2) प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयादथ चेदशक्नुवन्मन्येत प्राणं वंशं समधित्सीस्तन्नाशकः संधातुं प्राणस्त्वा वंशो हास्यतीत्येवैनं ब्रूयाद्यथानुकथाच(3) ब्रुवन्वाऽब्रुवन्वा ब्रूयादभ्याशमेव यत्तथा स्यान्न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयादतिद्युम्न एव ब्राह्मणं ब्रूयान्नातिद्युम्नेन च ब्राह्मणं ब्रूयान्नमोऽस्तु ब्राह्मणेभ्य इति शौरवीरो माण्डूकेयः॥9॥
  FN:(1) त्सितं न।
      (2) त्याह प्रा।
      (3) क. थातुक।
 स यदि प्राणं वंशं ब्रुवन्तं परमुपवदेच्छक्नुवन्तं चेन्मन्येतं प्राणं वंशं समधित्सिषं प्राणं वंशं समधित्सितुं न शक्नोषीत्यात्थ प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयादथ चेदशक्नुवन्तं मन्येत प्राणं वंशं समधित्सीस्तन्नाशकः संधातुं प्राणस्त्वा वंशो हास्यतीत्येवैनं ब्रूयाद्यथानुकथाच ब्रुवन्तं वाऽब्रुवन्तं वा व्रूयादभ्याशमेव यत्तथा स्यान्न त्वेवान्यत्कुशलाह्बाह्मणं व्रूयादतिद्यम्न एव ब्राह्मणं ब्रूयान्नातिद्युम्नेन च ब्राह्मणं ब्रूयान्नमोऽस्तु ब्राह्मणेभ्य इति शौरवीरो मांण्डूकेयः॥10॥
 अथातो निर्भुजप्रवादाः(1) पृथिव्यायतनं निर्भुजं दिवायतनं प्रतॄण्णमन्तरिक्षायतनमुभयमन्तरेण स य एनं निर्भुजं ब्रुवन्परमुपवदेत्पृयिवीं देवतामारः पृथिवी त्वा देवता रिष्यतीत्येनं ब्रूया दथ यदि प्रतॄण्णं ब्रुवन्परमुपवदेद्दिवं देवतामारो द्यौस्त्वा देवता रिष्यतीत्येनं ब्रूयादथ यद्युभयमन्तरेण ब्रुवन्परमुपवदेदन्तरीक्षं देवतामारोऽन्तरिक्षं त्वादेवता रिष्यतीत्येनं(2) ब्रूयाद्यद्धि संधिं विवर्तयति(3) तन्निर्भुजस्य रूपमथ यच्छुद्धे अक्षरे अभिव्याहरति तत्प्रतृण्णस्याग्र उ एवोभयमन्तरेणोमयं व्याप्तं भवत्यन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः प्रतॄण्णमुभयकाम उभयमन्तरेण स य एनं निर्भुजं ब्रुवन्परमुपवदेदच्योष्ठा अवराभ्यां स्थानाभ्यामित्येनं ब्रूयादथ यदि प्रतृण्णं ब्रुवन्परमुपवदेदच्योष्ठा उत्तराभ्यां स्थानाभ्यामित्येवैनं ब्रूयाद्यस्त्वेवोभयमन्तरेणाह तस्य नास्त्यपवादो यथानकथाच ब्रुवन्वाऽब्रुवन्वा ब्रूयादभ्याशमेव यत्तथा स्यान्न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयादतिद्युम्न एव ब्राह्मणं ब्रूयान्नातिद्युम्नेन च ब्राह्मणं ब्रूयान्नमोऽस्तु ब्राह्मणेभ्य इति शौरवीरा माण्डूकेयः॥11॥
 अथ खल्वाहुर्निर्भुजवक्त्राः,पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तररूपं यकारवकारावन्तरेण सा संहितेति स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥12॥
 अथ वै वयं ब्रूमो निर्भुजवक्त्राः स्म इति ह स्माऽऽह ह्रस्वो माण्डूकेयः पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तररूपं तद्याऽसौ मात्रा पूर्वरूपोत्तररूपे अन्तरेण येन संधिं विवर्तयति येन मात्रामात्रं विभजति येन स्वरात्स्वरं विज्ञापयति सा संहितेति स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥13॥
 अथ ह स्मास्य पुत्र आह मध्यमः प्रातियोधी पुत्रो मगधवासी पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तररूपं तद्याऽसौ मात्रा संधिविज्ञापनी साम तद्भवति सामैवाहं संहितां मन्य इति तदेतदृचाऽभ्युदितं मा %नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः।आदेवानामोह ते विव्रयो हृदि बृहस्पते न परः साम्नो विदुरिति% स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥14॥
  FN:(1) (2।6।32)
 वाक् प्राणेन संधीयत इति कौण्ठरव्यः प्राणः पवमानेन पवमानो विश्वैर्देर्विश्वे देवाः स्वर्गेण लोकेन स्वर्गौ लोको ब्रह्मणा सैषाऽवरपरा संहिता स य एवमेतामवरपरां सहितां वेदैवं हैव स प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन संधीयते यथैषाऽवरपरा संहिता स यदि परेण वोपसृष्टः स्वेन वाऽर्थेनाभिव्याहरेदभिव्याहरन्नेव विद्याद्दिवं संहिताऽगमद्विदुषो देवानभिव्याहरार्थमेवं भविष्यतीत्येतेनावरपरेण तथा हैव तद्भवति॥15॥
 माचा पूर्वरूपं पितोत्तररूपं प्रजा संहितेति भार्गवस्तदेतदेकमेव सर्वमभ्यनूक्तं माता च ह्येवेदं पिता च प्रजा च सर्वं सैषाऽदितिः संहिताऽदितिर्ह्येवेदं सर्वं यदिदं किंचिद्विश्वभूतं तदेतदृचाऽभ्युदित%(1) मदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः।विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वमिति%स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥16॥
  FN:(1) (1।6।16)
 जाया पूर्वरूपं पतिरुत्तररूपं पुत्रः संहिता रेतः संधिः प्रजननं संधानमिति स्थविरः शाकल्यः सैषा प्रजापतिः संहिता स य एवमेतां संहितां वेद संधीयते(1) प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥17॥
 प्रज्ञा पूर्वरूपं श्रद्धोत्तररूपं कर्म संहिता सत्यं संधानमिति काश्यपः सैषा सत्यसंहिता तदाहुर्यत्सत्यसंधा देवा(1) इति स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥18॥
  FN:(1) स.क.ख.प.प्रजायते।
 वाक् संहितेति (3) पञ्चालचण्डो वाचा वै वेदाः संधीयन्ते वाचा छन्दांसि वाचा मित्राणि संदधति तद्यत्रैतदधीते वाचा भाषते वा वाचि तदा प्राणो भवति वाक् तदा प्राणं रेह्ळ्यथ यत्सवपिति वा तूष्णीं वा भवति प्राणे तदा वाग्भवति प्राणस्तदा वाचं रेहूळि तावन्योन्यं रेह्ळस्तदेतदृचाऽभ्युदितमेकः(2) %सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे।तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेह्ळि स उ रेह्ळिमातरमिति%वाग्वै माता प्राणो वत्सः स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥19॥
  FN:(2) ख.प.देवा 3 इति।
      (3) स.ति चण्डाल।
 बृहद्रथंतरेण रूपेण संहिता संधीयत इति तार्क्ष्यो वाग्वै रथंतरस्य रूपं प्राणो बृहत उभाभ्यामु खलु संहिता संधीयते वाचा च प्राणेन चैतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षत इति तार्क्ष्य एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षत इति तार्क्ष्यः स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥20॥
 गतिः पूर्वरूपं निवृत्तिरुत्तग्रूपं स्थितिः संहितेति जारत्कारव आर्तभागस्तस्यामेतस्यां संहितायां ध्वं सयो निमेषाः काष्ठाः कलाः क्षणा मुहूर्ता अहोरात्रा अर्धमासा मासा ऋतवः संवत्सराश्च संधीयन्ते सैषा संहि तैतान्कालान्संदधाति कालो गतिनिवृत्तिस्थितीः(1) संदधाति गतिनिवृत्तिस्थितिभिरिदं(2) सर्वं संधीयत इत्यधिदैवतमथाध्यात्मं भूतं पूर्वरूपं भविष्यदुत्तररूपं भवत्सहितेति(3) कालसंधिस्त देतदृचाऽभ्युदितं %(1) महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम्।प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्चेति%स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥21॥
  FN:(1) ब. स्थितिः स।
      (2) स.ख.भिर्वा।
      (3) ख.प.स.संहिता च।
      (1) (8।1।16)
 अथातो वालिशिखायनेर्वचः पञ्चेमानि महाभूतानि भवन्तीति ह स्माऽऽह वालिशिखायनिः पृथिवी वायुराकाशमापो ज्योतींषि तानि मिथः संहितानि भवन्त्यथ यान्यन्यानि क्षुद्राणि महाभूतैः(4) संधीयन्ते सैषा सर्वभूतसंहिता स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति॥22॥
  FN:(4) क.भूतानी सं।
 सर्वा वाग्ब्रह्मेति ह स्माऽऽह लौहिक्यो ये तु केचन शब्दा वाचमेव तां विद्यात्तदप्येतदृषिराहाहं(5) %रुद्रेभिर्वसुभिश्चरामीति% सैषा वाक् सर्वशब्दा भवति स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति यथा चैतद्ब्रह्म कामरूपि कामचारि भवत्येवं हैव स सर्वेषु भूतेषु कामरूपी कामचारी भवति य एवं वेद य एवं वेद॥23॥
  FN:(5) क. दथैत।
 इति शाङ्खायनारण्यके सप्तमोऽध्यायः॥7॥
 -------------

अथाष्टमोऽध्यायः

[सम्पाद्यताम्]

 ॐ प्राणो वंश इति ह स्माऽऽह स्थविरः शाकल्यस्तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमेवैतस्मिन्प्राणे सर्व आत्मा समाहितस्तस्यैतस्याऽऽत्मनः प्राण ऊष्मरूपमस्थीनि स्पर्शरूपं मज्जानः स्वररूपं मांसं लोहितमित्येतञ्चतुर्थमक्षररूपमिति त्रयं त्वेव न एतत्प्रोक्तमिति ह स्माऽऽह ह्रस्वो माण्डूकेयस्तस्यैतस्य त्रयस्य त्रीणीतः षष्टिः शतानि भवन्ति संधीनां त्रीणीतस्तानि सप्त विंशतिः शतानि भवन्ति सप्त वै विंशतिः शतानि संवत्सरस्याहोरात्राणां तत्संवत्सरस्याहोरात्राण्याप्नोति स य एष संवत्सरसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्भय आत्मा स य एवमेतं संवत्सरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्भयमात्मानं वेद संवत्सरस्य सायुज्यं सलोकतां सरूपतां सभक्षतामश्रुते पुत्री पशुमान्भवति सर्वमायुरेतीत्यस्याऽऽरुणिकेयो वेदयांचक्रे॥1॥
 अथ कौण्ठरव्यस्त्रीणि षष्टिः शतान्यक्षराणां त्रीणि षष्टिः शतान्यूष्मणां त्रीणि षष्टिः शतानि संधीनां यान्यक्षराण्यवोचामाहानि तानि यान्यूष्मणो रात्रयस्ता यान्संधीनवोचामाहोरात्राणां ते संधय इत्यधिदैवतमथाध्यात्मं यान्यक्षराण्यधिदैवतमवोचामास्थीनि तान्यध्यात्मं यानूष्मणोऽधिदैवतमवोचाम मज्जानस्तेऽध्यात्ममेष उ ह वै संप्रति प्राणो यन्मज्जैतद्रेतो न वा ऋते प्राणाद्रेतसः सिद्धिरस्ति यद्वा ऋते प्राणाद्रेतः सिच्येत्तत्पूयेन्न संभवेद्यान्संधीनधिदैवतमवोचाम पर्वाणि तान्यध्यात्मं तस्यैतस्यास्थां मज्ज्ञां पर्वणामिति पञ्चेतश्चत्वारिंशच्छतानि भवन्ति संधीनां पञ्चेतस्तदशीतिः सहस्रं भवत्यशीतिः सहस्रं वार्कलिन्यो(1) बृहतीरहरहनि संपादयन्ति स एषोऽहः संमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्भय आत्मा स य एवमेतदहः संमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्भयमात्मानं वेदाह्नां सायुज्यं सलोकतां सरूपतां सभक्षतामश्रुते पुत्री पशुमान्भवति सर्वमायुरेति॥2॥
  FN:(1) ब.बाष्कलिनो।
 चत्वारः पुरुषा इति (2) बाध्वः शरीरपुरुषश्र्छन्दः पुरुषो वेद पुरुषो महापुरुष इति शरीरपुरुष इति यमवोचाम य एवायं दैहिक आत्मा तस्यैतस्य योऽयमशरीरः प्रज्ञात्मा स रसश्छन्दः पुरुष इति यमवोचामाक्षरसमाम्नाय एव तस्यैतस्याकारो रसो वेदपुरुष इति यमवोचाम येन वेदान्वेद ऋग्वेदं यजुर्वेदं सामवेदमिति तस्यैतस्य ब्रह्म रसस्तस्माद्बह्मिष्ठं ब्रह्माणमृत्विजं कुर्वीत यो यज्ञस्योल्वणं विद्यान्महापुरुष इति यमवोचाम संवत्सर एव तस्यैतस्यासावादित्यो रसः स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात्तदेतदृचाऽभ्युदितम्॥3॥
  FN:(2) क.ख.भ-वात्स्यः।
 चित्रं देवानामुदगादनीकं(1) चक्षुर्मित्रस्य वरुणस्याग्नेः।आ प्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुपश्चेत्येतामेवानुविधां संहिता संधीयमानां (1) मन्यत इति ह स्माऽऽह (2) बाध्व एतमु हैव बहवृचा महदुक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगा एतस्यामेतमन्तरिक्ष एतं दिव्येतमग्नावेतं वायावेतं चन्द्रमस्येतं नक्षत्रेष्वेतमप्स्वेतमोषधीष्वेतं सर्वेषु भूतेष्वेतमक्षरेष्वेतमेव ब्रह्मेत्युपासते तदेतदृचाऽभ्युदितम्॥4॥
  FN:(1) (1।8।7)
      (2) (1।4।8)
      (1) क मन्य इ
 %चित्रं देवानामुदगादनीकं(1) चक्षुर्मित्रस्य वरुणस्याग्नेः ।आ प्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्चेत्येतामेवानुविधां संहितां संधीयमानां (1) मन्यत इति ह स्माऽऽह बाध्व(2) एतमु हैव बह्वृचा महदुक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगा एतस्यामेतमन्तरिक्ष एतं दिव्येतमग्नावेतं वायावेतं चन्द्रमस्येतं नक्षत्रेष्वेतमप्स्वेतमोषधीष्वेतं सर्वेषु भूतेष्वेतमक्षरेष्वेतमेव ब्रह्मेत्युपासते तदेतदृचाऽभ्युदितम्॥4॥%
  FN:(1) (1।8।7)
       (1) क मन्य इ
      (2) (1।4।8)
 %उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम्।देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति% स एषोऽक्षरसंमानश्चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मा स य एवमेतमक्षरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं परस्मै शंसति दुग्धदोहा अस्य वेदा भवन्त्यभागो वाचि भवत्यभागो नाके तदेतदृचाऽभ्युदितम्॥5॥
 %यस्तित्याज(3) सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति।यदीं शणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य% पन्थामिति नास्यानूक्ते वाचो भागो अस्तीत्येव तदाह तन्न परस्मा एतदहः शंसेन्नाग्निं चिनुयान्न महाव्रतेन(4) स्तुयान्नैतदात्मनोऽपिहीया इति स यश्चायमशरीरः प्रज्ञात्माः यश्चासावादित्य एकमेतदित्यवोचाम तौ यत्र विप्रदृश्येते॥6॥
  FN:(3) क नुने।
      (4) स प.ते छन्दोगा इत्येतदा।
 चन्द्रमा इवाऽऽदित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्चिष्ठा व्यस्तः पायुर्भवति संपरेतोऽस्याऽऽत्मानं चिरमिव जीविष्यतीति विद्यात्स यत्करणीयं मन्येत तत्कुर्यातथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वाऽऽत्मानं पश्येन्न वा पश्येत्तदप्येवमेव विद्यादथापि च्छिद्रा छाया भवति न वा भवति तदप्येवमेव विद्यादथापि च्छिद्र इवाऽऽदित्यो रथनाभिरिवाऽऽख्यायेत्तदप्येवमेव विद्यादथापि नील इवाऽऽदित्यो रथनाभिरिवाऽऽख्यायेत्तदप्येवमेव विद्यादथापि नील इवाग्निर्दृश्यते यथा मयूरग्रीवा महामेघे वा मरीचीरिव पश्येदनभ्रे वा विद्युतः पश्येदभ्र एनां न पश्येत्तदप्येवमेव विद्यादथाप्यपिधायाक्षिणी उपेक्षेत यत्रैतद्वराटकानीव न पश्येत्तदप्येवमेव विद्यादथाप्यपिधाय कर्णा उपासीत य एषोऽग्नेरिव ज्वलतः शब्दो रथस्येवोपब्दिस्तं न यदा शुणुयात्तदप्येवमेव विद्यादथापि विपर्यस्ते कनीनिके दृश्येते द्विजिह्वे वा न वा दृश्येते तदप्येवमेव विद्यात्स योऽतोऽश्रुतोऽमतोऽविज्ञातोऽदृष्टोऽनादिष्टोऽघुष्टः श्रोता मन्ता विज्ञाता द्रष्टाऽऽदेष्टा घोष्टा सर्वेषां भूतानामान्तरः पुरुषः स म आत्मेति विद्यात्स उत्र्रामन्नवैतमशरीरं प्रज्ञात्मानभिसंपद्यते विजहातीतरं दैहिकं सैषा सर्वस्यै वाच उपनिषत्सर्वा हैवेमाः सर्वस्यै वाच उपनिषद त्वेवमाचक्षते॥7॥
 पृथिव्या रूपं स्पर्शा अन्तरिक्षस्योष्माणो दिवः स्वरा अग्ने रूपं स्पर्शा वायोरूष्माण आदित्यस्य स्वरा ऋग्वेदस्य रूपं स्पर्शा यजुर्वेदस्योष्माणः सामवेदस्य स्वरा रथंतरस्य रूपं स्पर्शा वामदेव्यस्योष्माणो बृहतः स्वराः प्राणस्य रूपं स्पर्शा अपानस्योष्माणो व्यानस्य स्वराः प्राणस्य रूपं स्पर्शा अपानस्योष्माणो मनसः स्वराः प्राणस्य रूपं स्पर्शा अपानस्योष्माण उदानस्य स्वरा इति पुनर्दत्त एष उ हैव सर्वां वाचं वेद य एवं वेद॥8॥
 अथ खल्वियं दैवी वीणा भवति तदनुकृतिरसौ मानुषी वीणा भवति तद्यथेयं शस्त्रवती तर्द्मवती भवत्यवमेवासौ शस्त्रवती तर्द्मवती भवति तद्यथाऽस्याः शिर एवममुष्याः शिरस्तद्यथाऽस्यै वंश एवममुष्या दण्डस्तद्यथाऽस्या उदरमेवममुष्या अम्भणं तद्य थाऽस्यै मुखनासिके अक्षिणी इत्येवममुष्याश्छिद्राणि तद्यथाऽस्या अङ्गुलिनिग्रहा उपस्तरणानीत्येवममुष्याः पर्वाणि तद्यथाऽस्या अङ्गुस एलममुष्यास्तन्त्र्यस्तद्यथाऽप्यै जिह्वैवममुष्या वादनं तद्यथाऽस्याः स्वरा एवममुष्याः स्वरास्तद्यथा हैवेयं रोमशेन चर्मणा पिहिता भवत्येवमेवासौ रोमशेन चर्मणा पिहिता भवति रोमशेन ह स्म चर्मणा पुरा वीणा अपिदधति सैषा दैवी वीणा भवति स य एवमेतां दैवीं वीणां वेद श्रुतवदनतमो भवति भूमौ प्रास्य कीर्तिर्भवति शुश्रूषन्ते हास्य पर्षत्सु भाष्यमाणस्येदमस्तु यदयमीहते यत्राऽऽर्या वाचं वदन्ति विदुरेनं तत्र॥9॥
 अथातस्ताण्ड(1) बिन्दस्य वचस्तद्यथेयमकुशलेन वादयित्रा वीणाऽऽरब्धा न तत्कृत्स्नं वीणार्थं साधयत्येवमेवाकुशलेन वक्त्रा वागारब्धा न तत्कृत्स्नं वीणार्थं साधयत्येवमेवा कुशलेन वक्त्रा वागारब्धा कृत्स्नं वागर्थं साधयति तस्यै वा एतस्यै वीणायै या त्विषिः सा संहितेति कात्यायनीपुत्रो जातूकर्ण्योऽथ ह स्मैतं कृत्सनं हारीतो ब्राह्मणमेवोदाहरति॥10॥
  FN:(1) ब.विन्दवस्य।
 प्रजापतिः प्रजाः सृष्ट्वा व्यतंसयच्छन्दोभिरात्मानं समदधत्तद्यद्यच्छन्दोभिरात्मानं समदधत्तस्मात्संहिता तस्यै वा एतस्यै संहितायै णकारो बलं षकारः प्राण आत्मा संहिताऽथैषा क्षुद्रमिश्राऽविकृतिस्तानि नखानि रोमाणि व्यञ्जनानीति स योऽत्र विचिकित्सेत्सणकारमेव ब्रूयादृते पकारमिति सणकारमेव ब्रूयादेवमेव योऽत्र विचिकित्सेत्सषकारमेव ब्रूयादृते णकारमिति सकारमेव ब्रूयात्तौ वा एतौ णकारषकारौ विद्वाननुसंहितमृचोऽधीयीताऽऽयुष्यमिति विद्यादेवमेव विद्यादथ वागितिहासपुराणं यञ्चान्यत्किं चिद्ब्ह्मीकृत्येवाधीयीत तदप्येवमेव विद्यात्ते यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयो यमध्यायं प्रबूमस्तेन नो णकारषकारा उपाप्ताविति ह स्माऽऽह हस्वो माण्डूकेयोऽथ यद्वयमनुसंहितमृचोऽधीमहे यच्च स्वाध्यायमधीमहे तेन नो णकारषकारा उपाप्ताविति ह स्माऽऽह स्थविरः शाकल्य एतद्ध स्म वै तद्विद्वांस आहुः कावषेयाः(1) किमर्था वयं यक्ष्यामहे किमर्था वयमध्येष्यामहे वाचि हि प्राणं जुहमः प्राणे वाचं यो ह्येव प्रभवः स एवाप्यय इति ता एताः संxता नानन्तेवासिने ब्रूयान्नासंवत्सरवासिने नाब्रह्मचारिणे नावेदविदे (2) नाप्रवक्त्र इत्याचार्या इत्याचार्याः॥11॥
  FN:(1) (4।4।25)
      (2) (3।4।10)
 इति शाङ्खायनारण्यकेऽष्टमोऽध्यायः॥8॥
 ----------------

नवमोऽध्यायः

[सम्पाद्यताम्]

 
 ॐ %(1) तत्सवितुर्वृणीमहे वयं देवस्य भोजनम्।श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि।(2) तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि।धियो यो नः प्रचोदयात्।%अदब्धं मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिंसीः॥1॥
  FN:(1) वर्षेयाः।
      (2) क.नस्थव।
 यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्च यो ह वै वसिष्ठां वेद वसिष्ठो ह स्वानां भवति वाग्वै वसिष्ठा यो ह वै प्रतिष्ठां वेद प्रतिह्र तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च चक्षुर्ह प्रतिष्ठा यो ह वा आयतनं वेदाऽऽयतनो ह स्वानां भवति मनो वा आयतनमथ हेमा देवताः प्रजापतिं पितरमेत्याब्रुवन्को वै नः श्रेष्ठ इति स होवाच प्रजापतिर्यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठमिव मन्येत स वै श्रेष्ठ इति॥।2।
 सा ह वागुच्चक्राम यथा मूका अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति॥3॥
 चक्षुर्होच्चक्राम यथाऽन्वा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति॥4॥
 श्रोत्रं होञ्चक्राम यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति॥5॥
 मनो होच्चक्राम यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेवमिति॥6॥
 प्राणो होञ्चक्राम ततस्तद्यथेह सैन्धवः सुहयः पड्वीशशङ्कून्स.मखिदेदेवमसौ प्राणान्समखिदत्ते ह समेत्योचुर्भगवन्पोत्क्रमीरिति स होवाच प्राणः किं मे अन्नं भविष्यति यत्किंचाऽऽश्वभ्य इवाऽऽशकुनिभ्य इति किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्बा अयमशिष्यन्पुरस्ताञ्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको हास्य वासो भवत्यनग्नो ह भवति तद्ध स्मैतत्सत्यकामो जावालो गोश्रुते वैयाघ्रपद्यायोक्त्वोवाचाप्येवं शुष्कस्य स्थाणोः प्रबूयाज्जायेरन्नस्य शाखाः प्ररोहेयुः पलाशानीति वनस्पते शतवल्शो विरोहेति द्यां मा लेखीरन्तरिक्षं मा मा तीरिति याज्ञवल्क्यः॥7॥
 अथ यदि महज्जिगमिषेत्र्रिरात्रं दीक्षित्वाऽमावास्यायां सर्वौषधस्य मन्थं दधिमधुभ्यामुपमन्थ्याग्निमुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्वाच्योत्तरतोऽग्नेः कंसे मन्थं कृत्वा हुत्वा होमान्मन्ये संपातमानयेज्ज्यैष्ठयाय श्रैष्ठयाय स्वाहेत्यग्नौ द्रुत्वा मन्थे संपातमानयेद्वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संपातमानयेत्प्रतिष्ठायै स्वाहेत्यग्ननौ हुत्वा मन्थे संपातमानयेत्संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संपातमानयेदायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संपातमानयेत्तत्सवितुर्वुणीमह इति पच्छः प्राश्य तत्सवितुर्वरेण्यमिति पच्छ आचामति महाव्याहृतिभिश्चतुर्थं निर्णिज्य कास्यं चर्मणि वा स्थण्डिले वा संविशति स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात्समृद्धं कर्मोति विद्यात्॥8॥
 इति शाङ्खायनारण्यके नवमोऽध्यायः॥9॥
 ---------------

दशमोऽध्यायः

[सम्पाद्यताम्]

 
 ॐ अथात आध्यात्मिकमान्तरमग्निहोत्रमित्याचक्षते।एता ह वै देवताः पुरुष एव प्रतिष्ठिता अग्निर्वाचि वायु प्राण आदित्यश्चक्षुषि चन्द्रमा मनसि दिशः श्रोत्र आपो रेतस्येतासु ह वै सर्वासु हुतं भवति य एवं विद्वानश्राति च पिबति स तृप्यति स तर्पयति॥1॥
 स तृप्तो वाचं तर्पयति वाक्तृप्ताऽग्निं तर्पयत्यग्निस्तृप्तः पृथिवीं तर्पयति पृथिवी तृप्ता यत्किंच पृथिव्याऽपिहितं भवद्भविष्यद्भूतं तत्सर्वं तर्पयति य एवं विद्वानश्राति च पिबति चाऽऽशयति च पाययति च सोऽश्राति स पिबति स तृप्यति स तर्पयति॥2॥
 स तृप्तः प्राणं तर्पयति प्राणस्तृप्तो वायुं तर्पयति वायुस्तृप्त आकाशं तर्पयत्याकाशस्तृप्तो यत्किंचाऽऽकाशेनापिहितं भवद्भविष्यद्भूतं तत्सर्वं तर्पयति य एवं विद्वानश्राति च पिबति चाऽऽशयति च पाययति च सोऽश्राति स पिबति स तृप्यति स तर्पयति॥3॥
 स तृप्तश्चक्षुस्तर्पयति चक्षुस्तृप्तप्रादित्यं तर्पयत्यादित्यस्तृप्तो दिवं तर्पयति द्यौरतृप्ता यत्किंच दिवाऽपिहितं भवद्भविष्यद्भूतं तत्सर्वं तर्पयति य एवं विद्वानश्राति च पिबलि चाऽऽशयति च पाययति च सोऽश्राति स पिबति स तर्पयति॥4॥
 स तृप्तो मनस्तर्पयति मनस्तृप्तं चन्द्रमसं तर्पयति चन्द्रमास्तृप्तो नक्षत्राणि तर्पयति नक्षत्राणि तृप्तानि मासांस्तर्पयन्ति मासास्तृप्ता अर्धमासांस्तर्पयन्त्यर्धमासास्तृप्ता अहोरात्रे तर्पयन्त्यहोरात्रे तृप्ते ऋतूंस्तर्पयतऋतवस्तृप्ताः संवत्सरं तर्पयन्ति संवत्सरस्तृप्तो यत्किंच संवत्सरेणापिहितं भवद्भविष्यद्भूतं तत्सर्वं तर्पयति य एवं विद्वानक्षाति च पिबति चाऽऽशयति च पाययति च सोऽश्राति स पिबति स तृप्यति स तर्पयति॥5॥
 %स तृप्तः श्रोत्रं तर्पयति श्रोत्रं तृप्तं%दिशस्तर्पयति दिशस्तृप्ता %अवान्तरदिशस्तर्पयन्त्यवान्तरदिशस्तप्ता%यत्किंचावान्तरदिग्भिरपिहितं भवद्भविष्यद्भूतं तत्सर्वं तर्पयति य एवं विद्वानश्राति च पिबति चाऽऽशयति च सोऽश्राति स पिबति स तृप्यति स तर्पयति॥6॥
 स तृप्तो रेतस्तर्पयति रेतस्त्प्तमपस्तर्पयत्यापस्तृप्ता नदीस्तर्पयन्ति नद्यरतृप्ताः समुद्रं तर्पयन्ति समुद्ररतृप्तो यत्किंच समुद्रेणापिहितं भवद्भविष्यद्भूतं तत्सर्वं तर्पयति य एवं विद्वानश्राति च पिबति चाऽऽशयति च पाययति चाथ य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि हुतं तादृक्तत्स्यात्तादृक्तत्स्यात्॥8॥
 इति शाङ्खायनारण्यके दशमोऽध्यायः॥10॥
 --------------------

एकादशोऽध्यायः

[सम्पाद्यताम्]

 
 ॐ प्रजापतिर्वा इमं पुरुषमुदञ्च त तस्मिन्नेता देवता आवैशयद्वाच्यग्निं प्राणे वायुमपाने वैद्युतमुदाने पर्जन्यं चक्षुष्यादित्यं मनसि चन्द्रमसं श्रोत्रे दिशः शरीरे पृथिवीं रेतस्यपो बल इन्द्रं मन्यावीशानं मूर्धन्याकाशमात्मनि ब्रह्म स यथा महानमृतकुम्भः पिन्बमानस्तिष्ठेदेवं हैव समुत्तस्थावथ हेमा देवता ईक्षांचक्रिरे किमयमस्माभिः पुरुषः करिष्यति किं वा वयमनेन ह्रन्तास्माच्छरीरादुत्क्रमामेति ता ह्रोच्चक्रमुरथ हेदं शरीरं रिक्तमिव परिसुषिरं स हेक्षांचक्रे प्रजापतिरन्ध्रायनमक्षं हन्ताहमिमा अशनायापिपासाभ्यामुपसृजा3 इति ता होपबसृजे ता होपसृष्टाः सुखमलभमाना इममेव पुरुषं पुनः प्रत्याविविशुः॥1॥
 वाङ्भमेत्यग्निराविवेश प्राणो ममेति वायुराविवेशापानो ममेति वैद्युत आविवेशोदानो ममेति पर्जन्य आविवेश चक्षुर्ममेत्यादित्य आविवेश मनो ममेति चन्द्रमा आविवेश श्रोत्रमस्माकमिति दिश आविविशुः शरीरं ममेति पृथिव्याविवेश रेतोऽस्माकमित्याप आविविशुर्बलं ममेतीन्द्र आविवेश मन्युर्ममेतीशान आविवेश मूर्वा ममेत्याकाश आविवेशाऽऽत्मा ममेति ब्रह्माऽऽविवेश स यथा महान् वृक्ष आर्द्र उपसिक्तमूलस्तिष्ठेदेवं हैव समुत्तस्थौ॥2॥
 अथायं पुरुषः प्रेष्यन्पुरा संवत्सरात्संवत्सरस्य दृष्टीः पश्यति च्छिद्रा छाया भवति न बा भवति मह्रामेघे बा मरीचीरिव पश्येदनभ्रे वा (1) विद्युतः पश्येदभ्र एनां न पश्येदक्षिणी वाऽपिधाय बराटकानीव न पश्यति कर्णौ वाऽपिधायोपब्दिमिव न शृणोति नास्मिल्लोँके रमते नैनं मनश्छन्दयतीति प्रत्यक्षदर्शनानि॥3॥
  FN:(1) क.प.स.द्युतं प।
 अथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनं हन्ति बिसानि खादयति सुवर्णं भक्षयित्वाऽवगिरत्येकः पौण्डरीकं धारयति गां सवत्सां दक्षिणामुखो नलदमाली व्राजयति स य एतेषां किंचित्पश्येत्पाण्डुरदर्शनां कालीं स्त्रीं मुक्तकेशां मुण्डांस्तैलाभ्यङ्गः कौसुम्भपरिधानं गीतान्युष्ट्रारोहणं दक्षिणाशागमनादीनि वीक्ष्योपोष्य पायसं स्थालीपाकं श्रपयित्वा सरूपवत्साया गोः पयसि न त्वेत तु कृष्णाया अग्निमुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्वाच्य स्रुवेणाऽऽज्याहुतीर्जुहोति॥4॥
 वाचि मेऽग्निः प्रतिष्ठितः स्वाहा प्राणे मे वायुः प्रतिष्ठितः स्वाहाऽपाने मे वैद्युतः प्रतिष्ठितः स्वाहोदाने मे पर्जन्यः प्रतिष्ठितः स्वाहा चक्षुषि म आदित्यः प्रतिष्ठितः स्वाहा मनसि मे चन्द्रमाः प्रतिष्ठितः स्वाहा श्रोत्रे मे दिशः प्रतिष्ठिताः स्वाह शरीरे मे पृथिवी प्रतिष्ठिता स्वाहा रेतसि म आपः प्रतिष्ठिताः स्वाहा बले म इन्द्रः प्रतिष्ठितः स्वाहा मन्यौ म ईशानः प्रतिष्ठितः स्वाहा मूर्धनि म आकाशः प्रतिष्ठितः स्वाहाऽऽत्मनि मे ब्रह्म प्रतिष्ठितं स्वाहेत्यथैत्तदाज्यावशेषं स्थालीपाके समवनिनीय स्थालीपाकस्योपघातं जुहोति॥5॥
 वाचि मेऽग्निः प्रतिष्ठितो वाग्हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।प्राणे मे वायुः प्रतिष्ठितः प्राणो हृदये हृदयमात्मनि तत्सत्यं देवानां माऽह्रमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।अपाने मे वैद्युतः प्रतिष्ठितोऽपानो हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।उदानो मे पर्जन्यः प्रतिष्ठित उदानो हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवान्नादो भूयासं स्वाहा।चक्षुषि म आदित्यः प्रतिष्ठितश्चक्षुर्हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवान्नादो भूयासं स्वाहा।मनसि मे चन्द्रमाः प्रतिष्ठितो मनो हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।श्रोत्रे मे दिशः प्रतिष्ठिताः श्रोत्रं हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।शरीरे मे पृथिवी प्रतिष्ठिता शरीरं हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्ननानन्नादो भूयासं स्वाहा।रेतसि म आपः प्रतिष्ठिता रेतो हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।बले म इन्द्रः प्रतिष्ठितो बलं हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नबानन्नादो भूयासं स्वाहा।मन्यौ म ईशानः प्रतिष्ठितो मन्युर्हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।मूर्धनि म आकाशः प्रतिष्ठितो मूर्धा हृदये हृदयमात्मनि तत्सत्यं देवानां माऽह्रमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।आत्मनि मे ब्रह्म प्रतिष्ठितमात्मा हृदये हृदयमात्मनि तत्सत्यं देवानां माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहेत्यथैतत्स्थालीपाकशेषमात्मनि समवनिनीय जुहोति॥6॥
 अश्मा जागत्रमयस्त्रैष्टुभं लोहमौष्णिहं सीसं काकुभं रजतं स्वाराज्यं सुवर्णं गायत्रमन्नं वैराजं तृप्तिरानुष्टुभं नाकं साम्राज्यं बृहस्पतिर्बार्हतं ब्रह्म पाङ्क्तं प्रजापतिरातिच्छन्दसं सावित्री सर्ववेदच्छन्दसेन च्छन्दसेति॥7॥
 अश्मेव स्थिरो वसानि जागतेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्रग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवान्नादो भूयासं स्वाहा।अय इव स्थिरो वसानि त्रैष्टुभेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।लोहमिव स्थिरो वसान्यौष्णिहेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।सीसमिव स्थिरो वसानि काकुभेन च्छन्दसां पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।रजतमिव स्थिरो वसानि स्वाराज्येन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा। सुवर्णमिव स्थिरो वसानि गायत्रेण च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।अन्नमिव स्थिरो वसानि वैराजेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।तृप्तिरिव स्थिरो वसान्यानष्टुभेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।नाकमिव स्यिरो वसानि साम्राज्येन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।बृहस्पतिरिव स्थिरो वसानि बार्हतेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।ब्रह्मेव स्थिरो वसानि पाङ्क्तेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽवुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।प्रजापतिरिव स्थिरो वसान्यातिच्छन्दसेन च्छन्दसा पुरुषो मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवानन्नादो भूयासं स्वाहा।सावित्रीव स्थिरो वसामि सर्ववेदच्छन्दसेन च्छन्दसा पुरुषा मणिः प्राणः सूत्रमन्नं ग्रन्थिस्तद्ग्रन्थिमुद्ग्रथ्नाम्यन्नकामो मृत्यवे ब्राह्मणमपि सर्वमायुरशीयाऽऽयुष्मान्माऽहमकामो मरिष्याम्यन्नवान्नादो भूयासं स्वाहेति प्रियायै वा जायायै प्रियायै वाऽन्तेवासिनेऽन्यस्मै वाऽपि यस्मै कामयेत तस्मा उच्छिष्टं दद्यात्सहापि शतं वर्षाणि जीवति पुनः पुनः प्रयुञ्जानो जवीत्येव जीवत्येव॥8॥
 इति शाङ्खानायरण्यक एकादशोऽध्यायः॥11॥
 -------------

द्वादशोऽध्यायः

[सम्पाद्यताम्]

 
 ॐ हस्तिवर्चसं प्रथतां बृहद्वयो यददित्यै तन्व 1:संवभूव।तन्मह्यं समदुः सर्व एत आदित्यासो आदित्याः संविदानाः॥यत्ते वर्चो जातवेदो बृहद्भवत्याहितम्।तेन मा वर्चसा त्वमग्ने वर्चस्विनं कुरु॥यच्च वाचा वाक्कुरुषे यच्च हस्तिष्वाहितम्।सुवर्णे गोषु यद्वर्चो मयि तद्धस्तिवर्चसा॥यदक्षेषु हिरण्येषु गोष्वश्वेषु यद्यशः।सुरायां पूयमानायां मयि तद्धस्तिवर्चसम्॥मयि भर्गो मयि महो मयि यज्ञस्य यद्यशः।तन्मयि प्रजापतिर्दिवि दिवमिव दृंहतु॥1॥
 अश्विना सारघेण मासं महान्मधुना पयः।यथा मधुमतीं वाचमावदानि जनेषु।घृतादुर्लुप्तो मधुमान् पयस्वान्धनंजयो धरुणो धारयिष्णुः रुजन्सपत्नानधरांश्च कृम्वन्नारोह मां महते सौबगाय। %(1) प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि त्राबभूव।यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम्।%अयं स यो नुदता मे सपत्नानिन्द्र इव वृत्रं पृतनासु साह्ळा।अग्निरिव कक्षं बिभृतः पुरुत्रा वातेषु नस्तिग्मजम्भो नु मार्ष्टि।अयं स नो यो नुदवादी कील इव वृत्रं वि पुरो रुरोज।अनेनेन्द्रो विमृधो विहत्या शत्रूयतामाभरा भोजनानि॥2॥
  FN:(1) (8।7।4)
 जयेन्द्र शत्रूञ्जहि शूर दस्यून्वृत्रं ह्रत्वेव कुलिशेनाऽऽविवृश्च।ओघ इव शापात्प्रणुदात्सपत्नाञ्जह्यं सपत्ना स्वधितिर्वनेव।अनुवृश्च मध्यात्प्रतिवृश्चोपरिष्टाद्विवृश्च पश्चात्प्रति शूर वृश्च।त्वया प्रणुत्तान्मघवन्नमित्राञ्छूरे रोषन्तं मरुतोऽनुयान्तु।त्वां रुद्रैर्हेतिभिः पिन्वमाना इन्द्रं मन्वाना मरुतो जुषन्तम्।सुपर्णाः कङ्काः प्रशमन्त्वेनान्‌मह्रीयतां दंष्ट्री वर्धनेषु।ब्रह्मणुत्तस्य मघवन्पृतन्यतो विष्वगिन्द्र भङ्गाः(1) पतन्तु।मा ज्ञाताराणि सतमाः प्रतिष्ठामिहो विघ्ननामुपयाति मृत्युम्।अग्ने यशस्विन्यशसे समर्पयेन्द्रवतीमपचितिमिहाऽऽवह।अयं मूर्धा परमेष्ठी सुवर्चाः स जातानामुत्तमश्लोको अस्तु॥3॥
  FN:(1) स. भगाः।
 भद्रं पश्येम उपसेदुरागात्ततो दीक्षामृषयः स्वर्विदः।ततः क्षेत्रं बलमोजश्च जातं तदस्मै देवा अभिसंनमन्ताम्।धाता विधाता परमोत संदृक् प्रजापतिः परमेष्ठी सुवर्चाः।स्तोमाश्छन्दांसि निविदो म आहुरेतस्मै राष्ट्रमभिसंनमन्ताम्।अभ्यावर्तध्वमुपसेवताग्निरयं शास्ताऽधिपतिर्नो अस्तु।अस्य विज्ञानमनुसंरभध्वमिमं पश्चादनुजीवाथ सर्वे।अलर्दो नाम जातोऽसि पुरा सूर्यात्पुरोषसः तं त्वा सपत्नः क्षपणं वेदाथो विष्टम्भजम्भनम्।नार्धे प्रमीयेतेतरे द्विषन्तं कल्येत वाक्यं पृतनाः सहेत।प्रमायुकं तस्य द्विषन्तमाहुरिरामणिं बैल्वं यो बिभर्ति॥4॥
 न स सुप्तमश्राति न किल्बिषं कृतं नैनं दिव्यो वरुणो हन्ति भीतम्।नैनं क्रुद्धं मन्यवोऽभिमन्तीरामणिं बैल्वं यो बिभर्ति॥नास्य त्वचं हिंसति जातवेदा न मासंमश्राति न हन्ति तानि।शतायुरस्मि जरदष्टिः प्रैतीरामणिं बैल्वं यो बिभर्ति॥नास्य प्रजा दुष्यति जायमाना न शैलगो भवति न पापकृत्या।नान्यन्मिथस्तस्य कुलेषु जायत इरामणिं बैल्वं यो बिभर्ति।नास्य प्रवादा न प्रवातका गृहे न संपतत्र्यो न विशेत तस्मै।नास्मिन्नलक्ष्मीं कृणुते निवेशनमिरामणिं बैल्वं यो बिभर्ति॥नैनं रक्षो न पिशाचो हिनस्ति न अम्भको नाप्यसुरो न यक्षः।न सूचिका तस्य कुलेऽस्य जायत इरामणिं बैल्वं यो बिभर्ति॥5॥
 नैनं व्याघ्रो न वृको न द्वीपी न श्वापदं हिंसति किंचनैनम्।हस्ती नैनं क्रुद्धमुपैति भीत इरामणिं बैल्वं यो बिभर्ति॥नैनं सर्पो न पृदाकुर्हिनस्ति न वृश्चिको न तिरश्ची न राजा।नैनं कृष्णोऽभिसंहत इरामणिं बैल्वं यो बिभर्ति॥नैनं प्रमत्तं वरुणो हिनस्ति न मकरो न ग्रहः शिंशुमारः।पारावारः शिवमस्मै कृणोतीरामणिं वैल्वं यो बिभर्ति॥प्रमायुकं तस्य द्विषन्तमाहुः पुष्पमिव च्छिन्नं सह बिभर्ति॥अयं मणिः प्रतिसरो जीवो जीवाय बध्यते।अनेनेन्द्रो वृत्रमहन्नृपिणा च मनीषिणा॥6॥
 सहेन्द्र द्विषतः सहस्वारातीः सहस्व पृतनायतः।नाग इव पूर्वपादाभ्यामभितिष्ठ पृतन्यतः॥आगादयं बैल्वो मणिः सपत्नं क्षपणो वृषा।तं पश्यन्ति कवयः सुवीरा यथा सपत्नान्समरे सहेयुः॥अमृतं मे मणेः सूत्रमश्विनावपि नह्यताम्।बैल्वः सहस्रवीर्योऽसि मा ते भर्ता रिषं महम्॥घृतादुर्लुप्तो मधुमान्पयस्वान्धनंजयो धरुणो धारयिष्णुः।रुजन्सपत्नानधरांश्च कृण्वन्नारोह मां महते सौभगाय॥%(1) प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव।यत्कामास्ते जुह्रुमस्तन्ने अस्तु वयं स्याम पतयो रयीणाम्॥(2) शास इत्था महाँ असीति पञ्च॥7॥%
  FN:(1) (8।7।4)
      (2) (8।8।10)
 अथातो मणिकल्पो भूतिकामः पुष्येण त्रिरात्रोपोषितो जीवतो हस्तिनो दन्तान्मात्रमुद्धृत्याग्निमुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्वाच्योत्तरतोऽग्नेः कंसे मणिं कृत्वां हुत्वा होमान् (1) मणिं संपातमानयेद्धस्तिवर्चसमित्येताभिः प्रत्यृचमष्टाभिः सप्तरात्रं मधुसर्पिषोर्वासयित्वा त्रिरात्रमेकां वा बध्नीयाद्घृतादुर्लुप्त इत्येतयर्चा अत एवोत्तरं षड्भिर्हृदयशूलाग्रमणिं प्रतोदाग्रमणिं वा मुशलाग्रमणिं वा खदिरसारमणिं वा मांसौदने वासयित्वा त्रिरात्रमेकां वा बध्नीयादत एवोत्तरं चतसृभिर्वृषभशृङ्गाग्रमणिं घृतौदने वासयित्वा त्रिरात्रमेकां वा बध्नीयादत एवोत्तरमेकयैरण्डमणिं तिलौदने वासयित्वा त्रिरात्रमेकां वा बद्नीयादत एवोत्तरं षोडशभिर्बैल्वं सप्तरात्रं मधुसर्पिषि वासयित्वा त्रिरात्रमेकां वा बध्नीयाद्घृतादुर्लुप्त इत्येतयर्चा अत एवोत्तरं पञ्चभिर्महावराहस्योदोहं मुद्गौदने वासयित्वा त्रिरात्रमेकां वा बध्नीयाच्छक्तौ सति प्रथमं हस्तिच्छायायां वैयाघ्रे वाऽपि चर्मण्यासीनो वाऽपि जुहुयादासीनो वाऽपि जुहुयात्॥8॥
 इति शाङ्खायनारण्यके द्वादशोऽध्यायः॥12॥
 ---------------

त्रयोदशोऽध्यायः

[सम्पाद्यताम्]

 ॐ अथातो वैराग्यसंस्कृते शरीरे ब्रह्मयज्ञनिष्ठो भवेदप पुनर्मृत्युं जयति तदु ह वा आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चेति माण्डूकेयस्तस्मादेबंविच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येदिति माण्डव्यो योऽयं विज्ञानमयः पुरुषः प्राणेषु स एष नेति नेत्यात्मा न गृह्य इदं ब्रह्मेदं क्षत्रमिमे देवा इमे वेदा इमे लोका इमानि सर्वाणि भूतानीदं सर्वं यदयमात्मा स एष तत्त्वमसीत्यात्माऽवगम्योऽहं ब्रह्मास्मीति तदेतद्ब्रह्मापूर्वमपरमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनमिति याज्ञवल्क्यस्तदेतन्नापुत्राय नानन्तेवासिन ब्रूयादिति य इमामद्भिः परिगृहीतां वसुमतीं धनस्य पूर्णां दद्यादिदमेव ततो भूय इदमेव ततो भूय इत्यनुशासनम्।तामेतामुपनिषदं वेदशिरो न यथा कथंचन वदेत्तदेतदृचाऽभ्युदितम्॥1॥
 इति शाङ्खायनारण्यके त्रयोदशोऽध्यायः॥13॥
 ------------------

चतुर्दशोऽध्यायः

[सम्पाद्यताम्]

 ॐ ऋचां मूर्धानं यजुषामुत्तमाङ्गं साम्नां शिरोऽथर्वणां मुण्डमुण्डं नाधीतेऽधीते वेदमाहुस्तमज्ञं शिरश्छित्त्वाऽसौ कुरुते कबन्धम्॥1॥
 स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्।योऽर्थज्ञ इत्सकलं भद्रमश्रुते नाकमेति ज्ञानविधूतपाप्मेति विधूतपाप्मेति॥2॥
 इति शाङ्खायनारण्यके चतुर्दशोऽध्यायः॥14॥
 ----------------

पञ्चदशोऽध्यायः

[सम्पाद्यताम्]

 
 अथं वंशः॥ नमो ब्रह्मणे नम आचार्येभ्यो गुणाख्याच्छाङ्खायनादस्माभिरधीतं गुणाख्यः शाङ्खायनः कहोलात्कौषीतकेः कहोलः कौषीतकिरुद्दालकादारुणेरुद्दालक आरुणिः प्रियव्रतात्सोमापेः प्रियव्रतः सोमापिः सोमपात्सोमपः सोमात्प्रातिवेश्यात्सोमः प्रातिवेश्यः प्रातिवेश्यः प्रतिवेश्यात्प्रतिवेश्यो बृहद्दिवाद्बृहद्दिवः सुम्नयोः सुम्नयुरुद्दालकादुद्दालको विश्वमनसो विश्वमना व्यश्वाद्वयश्वः साकमश्वात्साकमश्वो देवराताद्देवरातो विश्वामित्राद्विश्वामित्र इन्द्रादिन्द्रः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्मा स्वयंभूर्नमो ब्रह्मणे नमो ब्रह्मणे॥1॥
 इति शाङ्खायनारण्यके पञ्चदशोऽध्यायः॥15॥
 --------------
 समाप्तोऽयं ग्रन्थः॥
 --------------

"https://sa.wikisource.org/w/index.php?title=शाङ्खायनारण्यकम्&oldid=403858" इत्यस्माद् प्रतिप्राप्तम्