शाङ्खायनगृह्यसूत्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथ शाङ्खायनगृह्यसूत्रम्

अथ शाङ्खायनगृह्यसूत्रम्


अथ प्रथमोऽध्याय
अथातः पाकयज्ञान्व्याख्यास्यामः १ अभिसमावर्त्स्यमानो यत्रान्त्यां समिधमभ्यादध्यात्तमग्निमिन्धीत २ वैवाह्यं वा ३ दायाद्यकाल एके ४ प्रेते वा गृहपतौ स्वयं ज्यायान् ५ वैशाख्याममावास्यायामन्यस्यां वा ६ कामतो नक्षत्र एके ७ पुरुपशुविट्कुलाम्बरीषबहुयाजिनामन्यतमस्मादग्निमिन्धीत ८ सायंप्रातरेके ९ सायमाहुतिसंस्कारोऽध्वर्युप्रत्यय इत्याचार्याः १० प्रातः पूर्णाहुतिं जुहुयाद्वैष्णव्यर्चा तूष्णीं वा ११ तस्य प्रादुष्करणहवनकालावग्निहोत्रेण व्याख्यातौ १२ यज्ञोपवीतीत्यादि च संभवत्सर्वं कल्पैकत्वात् १३ तदप्याहुः १४ पाकसंस्था हविःसंस्थाः सोमसंस्थास्तथापराः एकविँ शतिरित्येता यज्ञसंस्थाः प्रकीर्तिताः १५ १

कर्मापवर्गे ब्राह्मणभोजनं १ वाग्रूपवयःश्रुतशीलवृत्तानि गुणाः २ श्रुतं तु सर्वानत्येति ३ न श्रुतमतीयात् ४
अधिदैवमथाध्यात्ममधियज्ञमिति त्रयम्
मन्त्रेषु ब्राह्मणे चैव श्रुतमित्यभिधीयते ५
क्रियावन्तमधीयानं श्रुतवृद्धं तपस्विनम्
भोजयेत्तं सकृद्यस्तु न तं भूयः क्षुदश्नुते ६
यां तितर्पयिषेत्कांचिद्देवतां सर्वकर्मसु
तस्या उद्दिश्य मनसा दद्यादेवंविधाय वै ७
नैवंविधे हविर्न्यस्तं न गच्छेद्देवतां क्वचित्
निधिरेष मनुष्याणां देवानां पात्रमुच्यते ८ २

अथ दर्शपूर्णमासा उपोष्य १ प्रातर्यत्रैतन्महावृक्षाग्राणि सूर्य आतपति स होमकालः स्वस्त्ययनतमः सर्वासामावृतामन्यत्र निर्देशात् २ सुमनाः शुचिः शुचौ वरूथ्यदेशे पूर्णविघनं चरुं श्रपयित्वा दर्शपूर्णमासदेवताभ्यो यथाविभागं स्थालीपाकस्य जुहोति ३ स्थालीपाकेषु च ग्रहणासादनप्रोक्षणानि मन्त्रदेवताभ्योऽवदानधर्माश्च ५ पूर्वं तु दर्शपूर्णमासाभ्यामन्वारम्भणीयदेवताभ्यो जुहुयाद् ६ आ पौर्णमासाद्दर्शस्यानतीतः काल आ दर्शात्पौर्णमासस्य ७ प्रातराहुतिं चैके सायमाहुतिकालेऽत्ययान्मन्यन्ते ८ नियतस्त्वेव कालोऽग्निहोत्रे प्रायश्चित्तदर्शनाद्भिन्नकालस्य ९ नित्याहुत्योर्व्रीहियवतण्डुलानामन्यतमद्धविः कुर्वीताभावेऽन्यदप्रतिषिद्धं ११ तण्डुलाँ श्चेत्प्रक्षाल्यैक १२ इतरेषामसंस्कारः १३ सायमग्नये प्रातः सूर्याय १४ प्रजापतये चानूभयोस्तूष्णीं १५ प्राक् प्रागाहुतेः समिधमेके १६ यथोक्तं पर्युक्षणम् १७ ३

उत्थाय प्रातराचम्याहरहः स्वाध्यायमधीयीत अ द्या नो देव सवितरिति द्वे अपेहि मनसस्पत इति सूक्तम् ऋतं च सत्यं चेति सूक्तम आदित्या अव हि ख्यतेति सूक्तशेष इन्द्र श्रेष्ठानीत्येका हँ सः शुचिषदित्येका नमो महद्भ्य इत्येका यत इन्द्र भयामह इत्येकाध स्वप्नस्येत्येका यो मे राजन्नित्येका ममाग्ने वर्च इति सूक्तं स्वस्ति नो मिमीतामिति च पञ्च २ चत्वारः पाकयज्ञा हुतोऽहुतः प्रहुतः प्राशित इति १ पञ्चसु बहिःशालायां विवाहे चूडाकरण उपनयने केशान्ते सीमन्तोन्नयन इति २ उपलिप्त उद्धतावोक्षितेऽग्निं प्रणीय ३ निर्मथ्यैके विवाह ४ उदगयन आपूर्यमाणपक्षे पुण्याहे कुमार्यै पाणिं गृह्नीयाद् ५ या लक्षणसंपन्ना स्याद् ६ यस्या अभ्यात्ममङ्गानि स्युः ७ समाः केशान्ता ८ आवर्तावपि यस्यै स्यातां प्रदक्षिणौ ग्रीवायां ९ षड् वीराञ्जनयिष्यतीति विद्यात् १० ५

जायामुपग्रहीष्यमाणोऽनृक्षरा इति वरकान गच्छतोऽनुमन्त्रयते १ अभिगमने पुष्पफलयवानादायोदकुम्भञ्च २ अयमहं भो इति त्रिः प्रोच्य ३ उदिते प्राङ्मुखा गृह्याः प्रत्यङ्मुखा आवहमाना गोत्रनामान्यनुकीर्तयन्तः कन्यां वरयन्ति ४ उभयतो रुचिते पूर्णपात्रीमभिमृशन्ति पुष्पाक्षतफलयवहिरण्यमिश्राम् अना धृष्टमस्यानाधृष्ठ्यं देवानामोजोऽनभिशस्त्यभिशस्तिपा अनभिशस्तेन्यम् अञ्जसा सत्यमुपगेषं सुविते मा धा इत्या नः प्रजामिति कन्याया आचार्य उत्थाय मूर्धनि करोति प्रजां त्वयि दधामि पशूँ स्त्वयि दधामि तेजो ब्रह्मवर्चसं त्वयि दधामीति ६ प्रतिश्रुते जुहोति १ चतुरश्रं गोमयेन स्थण्डिलमुपलिप्य २ पूर्वयोर्विदिशोर्दक्षिणां प्राचीं पित्र्य ३ उत्तरां दैवे ४ प्राचीमेवैक ५ उदक्संस्थां मध्ये लेखां लिखित्वा ६ तस्यै दक्षिणत उपरिष्टादूर्ध्वामेकां मध्य एकामुत्तरत एकां ७ ता अभ्युक्ष्य ८ अग्निं प्रणयामि मनसा शिवेनायमस्तु संगमनो वसूनाम् । मा नो हिँ सी स्थविरं मा कुमारं शं नो भव द्विपदे शं चतुष्पद इत्यग्निं प्रणीय ९ तूष्णीं वा १० प्रदक्षिणमग्नेः समन्तात्पाणिना सोदकेन त्रिः प्रमार्ष्टि तत्समूहनमित्याचक्षते ११ सकृदपसव्यं पित्र्ये १२ ७

अथ परिस्तरणं १ प्रागग्रैः कुशैः परिस्तृणाति त्रिवृत्पञ्चवृद्वा २ पुरस्तात्प्रथममथ पश्चादथ पश्चान् ३ मूलान्यग्रैः प्रच्छादयति ४ सर्वाश्चावृतो दक्षिणतःप्रवृत्तय उदक्संस्था भवन्ति ५ दक्षिणतो ब्रह्माणं प्रतिष्ठाप्य भूर्भुवः स्वरिति ६ सुमनोभिरलंकृत्योत्तरतः प्रणीताः प्रणीय को वः प्रणयतीति ७ सव्येन कुशानादाय दक्षिणेनापनौति ९ दक्षिणं जान्वाच्य १० सव्यं पित्र्ये ११ नाज्याहुतिषु नित्यं परिस्तरणं १२ नित्याहुतिषु चेति माण्डूकेयः १३ कुशतरुणे अविषमे अविच्छिन्नाग्रे अनन्तर्गर्भे प्रादेशेन मापयित्वा कुशेन च्छिनत्ति पवित्रे स्थ इति १४ द्वे त्रीणि वा भवन्ति १५ प्रागग्रे धारयन्वैष्णव्यावित्यभ्युक्ष्य १६ कुशतरुणाभ्यां प्रदक्षिणमग्निं त्रिः पर्युक्ष्य १७ महीनां पयोऽसीत्याज्यस्थालीमादायेषे त्वेत्यधिश्रित्योर्जे त्वेत्युदगुद्वास्योदगग्रे पवित्रे धारयन्नङ्गुष्ठाभ्यां चोपकनिष्ठिकाभ्यां चोभयतः प्रतिगृह्योर्ध्वाग्रे प्रह्वे कृत्वाज्ये प्रत्यस्यति सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरित्याज्यसंस्कारः सर्वत्र २२ नासंस्कृतेन जुहुयात् २३ स्रुवे चापः सवितुर्व इति २४ ताः प्रणीताः प्रोक्षणीश्च २५ ८

स्रुवः पात्रम् १ अर्थलक्षणग्रहणं २ सव्येन कुशानादाय दक्षिणेन मूले स्रुवं विष्णोर्हस्तोऽसीति ३ स्रुवेणाज्याहुतीर्जुहोत्युत्तरपश्चार्धादग्नेरारभ्याविच्छिन्नं दक्षिणतो जुहोति त्वमग्ने प्रमतिरिति ५ दक्षिणपश्चार्धादग्नेरारभ्याविच्छिन्नमुत्तरतो जुहोति यस्येमे हिमवन्त इत्याग्नेयमुत्तरमाज्यभागं सौम्यं दक्षिणं ७ मध्येऽन्या आहुतयोऽग्निर्जनिता स मेऽमूं जायां ददातु स्वाहा सोमो जनिमान्त्स मामुया जनिमन्तं करोतु स्वाहा पूषा ज्ञातिमान्त्स मामुष्यै पित्रा मात्रा भ्रातृभिर्ज्ञातिमन्तं करोतु स्वाहेति ९ नाज्याहुतिषु नित्यावाज्यभागौ स्विष्टकृच्च १० नित्याहुतिषु चेति माण्डूकेयो महाव्याहृतिसर्वप्रायश्चित्तप्राजापत्यान्तरम् एतदावापस्थानम् १२ आज्ये हविषि सव्ये पाणौ ये कुशास्तान्दक्षिणेनाग्रे संगृह्य मूले सव्येन तेषामग्रं स्रुवे समनक्ति मध्यमाज्यस्थाल्यां मूलं चाथ चेत्स्थालीपाकेषु स्रुच्यग्रं मध्यं स्रुवे मूलमाज्यस्थाल्यां १४ ताननुप्रहृत्याग्नेर्वासोऽसीति १५ तिस्रः समिधोऽभ्याधाय १६ यथोक्तं पर्युक्षणम् १७ अनाम्नातमन्त्रास्वादिष्टदेवतास्वमुष्यै स्वाहामुष्यै स्वाहेति जुहुयात् स्वाहाकारेण शुद्धेन १८ व्याख्यातः प्रतिश्रुते होमकल्पः १९ ९

प्रकृतिर्भूतिकर्मणां १ सर्वासां चाज्याहुतीनां २ शाखापशूनां ३ चरुपाकयज्ञानां च ४ त एतेऽप्रयाजा अननुयाजा अनिळा अनिगदा असामिधेनीकाश्च च सर्वे पाकयज्ञा भवन्ति ५ तदपि श्लोकाः ६
हुतोऽग्निहोत्रहोमेनाहुतो बलिकर्मणा
प्रहुतः पितृकर्मणा प्राशितो ब्राह्मणे हुतः ७
अनूर्ध्वज्ञुर्व्यूळ्हजानुर्जुहुयात्सर्वदा हविः
न हि बाह्यहुतं देवाः प्रतिगृह्णन्ति कर्हिचित् ८
रौद्रं तु राक्षसं पित्र्यमासुरं चाभिचारिकम्
उक्त्वा मन्त्रं स्पृशेदप आलभ्यात्मानमेव च ९ १०

अथैतां रात्रीं श्वस्तृतीयां वा कन्यां वक्ष्यन्तीति १ तस्यां रात्र्यामतीते निशाकाले सर्वौषधिफलोत्तमैः सुरभिमिश्रैः सशिरस्कां कन्यामाप्लाव्य २ रक्तमहतं वा वासः परिधाय ३ पश्चादग्नेः कन्यामुपवेश्यान्वारब्धायां महाव्याहृतिभिर्हुत्वाज्याहुतीर्जुहोत्यग्नये सोमाय प्रजापतये मित्राय वरुणायेन्द्रा येन्द्रा ण्यै गन्धर्वाय भगाय पूष्णे त्वष्ट्रे बृहस्पतये राज्ञे प्रत्यानीकायेति ४ चतस्रोऽष्टौ वाविधवाः शाकपिण्डीभिः सुरयान्नेन च तर्पयित्वा चतुरानर्तनं कुर्युः ५ एता एव देवताः पुंसः ६ वैश्रवणमीशानं च ७ अतो ब्राह्मणभोजनम् ८ ११

स्नातं कृतमङ्गलं वरमविधवाः सुभगा युवत्यः कुमार्यै वेश्म प्रपादयन्ति १ तासामप्रतिकूलः स्यादन्यत्राभक्ष्यपातकेभ्यस् २ ताभिरनुज्ञातोऽथास्यै वासः प्रयच्छति रैभ्यासीदिति ३ चित्तिरा उपबर्हणमित्याञ्जनकोशमादत्ते ४ समञ्जन्तु विश्वे देवा इति समञ्जनीया ५ यथेयं शचीं वावातां सुपुत्रां च यथादितिम् । अविधवां चापालामेवं त्वामिह रक्षतादिममिति दक्षिणे पाणौ शललीं त्रिवृतं ददाति ६ रूपंरूपमित्यादर्शं सव्ये ७ रक्तकृष्णमाविकं क्षौमं वा त्रिमणिं प्रतिसरं ज्ञातयोऽस्या बध्नन्ति नीललोहितमिति ८ मधुमतीरोषधीरिति मधूकानि बध्नाति ९ विवाहे गामर्हयित्वा गृहेषु गां ते माधुपर्किक्यौ १० पश्चादग्नेः कन्यामुपवेश्यान्वारब्धायां महाव्याहृतिभिस्तिस्रो जुहोति ११ समस्ताभिश्चतुर्थीं प्रतीयेतैतस्यां चोदनायाम् १२ एवमनादेशे सर्वेषु भूतिकर्मसु पुरस्ताच्चोपरिष्टाच्चैताभिरेव जुहुयात् १३ १२

सम्राज्ञी श्वशुरे भवेति पिता भ्राता वास्यग्रेण मूर्धनि जुहोति स्रुवेण वा तिष्ठन्नासीनायाः प्राङ्मुख्याः प्रत्यङ्मुखो १ गृभ्णामि ते सौभगत्वाय हस्तमिति दक्षिणेन पाणिना दक्षिणं पाणिं गृह्णाति साङ्गुष्ठमुत्तानेनोत्तानं तिष्ठन्नासीनायाः प्राङ्मुख्याः प्रत्यङ्मुखः २ पञ्च चोत्तरा जपित्वा ३ अमोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं द्यौरहं पृथिवी त्वम् ऋक्त्वमसि सामाहं सा मामनुव्रता भव । तावेह विवहावहै प्रजां प्र जनयावहै पुत्रान्विन्दावहै बहूँ स्ते सन्तु जरदष्टय इत्युदकुम्भं नवं भूर्भुवः स्वरिति पूरयित्वा ५ पुन्नाम्नो वृक्षस्य सक्षीरान्त्सपलाशान्त्सकुशानोप्य ६ हिरण्यमिति चैके ७ तं ब्रह्मचारिणे वाग्यताय प्रदाय ८ प्रागुदीच्यां दिशि ताः स्थेयाः प्रदक्षिणा भवन्त्यश्मानं चोत्तरत उपस्थाप्यैहि सूनरीत्युत्थाप्यैह्यश्मानमातिष्ठाश्मेव त्वं स्थिरा भव । अभितिष्ठ पृतन्यतः सहस्व पृतनायत इति दक्षिणेन प्रपदेनाश्मानमाक्रमय्य १२ प्रदक्षिणमग्निं पर्याणीय १३ तेनैव मन्त्रेण द्वितीयं वसनं प्रदाय १४ लाजाञ्छमीपलाशमिश्रान्पिता भ्राता वा स्यादञ्जलावावपत्युपस्तरणाभिघारणप्रत्यभिघारणं चाज्येन १६ ताञ्जुहोति १७ १३

इयं नार्युपब्रूते लाजानावपन्तिका । शिवा ज्ञातिभ्यो भूयासं चिरं जीवतु मे पतिः स्वाहेति तिष्ठन्ती जुहोति पतिर्मन्त्रं जपत्यश्मक्रमणाद्येवं द्वितीयम् २ एवं तृतीयं ३ तूष्णीं कामेन चतुर्थं ४ प्रागुदीच्यां दिशि सप्त पदानि प्रक्रमयतीष एकपद्यूर्जे द्विपदी रायस्पोषाय त्रिपद्यायोभव्याय चतुष्पदी पशुभ्यः पञ्चपद्यृतुभ्यः षट्पदी सखा सप्तपदी भवेति ६ तान्यद्भिः शमयत्यापोहिष्ठीयाभिस्तिसृभिः स्थेयाभिरद्भिर्मार्जयित्वा ८ मूर्धन्यभिषिच्य ९ गां ददानीत्याह १० ब्राह्मणेभ्यः किंचिद्दद्यात्सर्वत्र स्थालीपाकादिषु कर्मसु ११ सूर्यां विदुषे वाधूयं १२ गौर्ब्राह्मणस्य वरो १३ ग्रामो राजन्यस्याश्वो वैश्यस्याधिरथं शतं दुहितृमते १६ याज्ञिकेभ्योऽश्वं ददाति १७ १४

प्र त्वा मुञ्चामीति तृचं गृहात्प्रतिष्ठमानायां १ जीवं रुदन्तीति प्ररुदन्त्याम् २ अथ रथाक्षस्योपाञ्जनं पत्नी कुरुतेऽक्षन्नमीमदन्तेत्येतया सर्पिषा ३ शुची ते चक्रे द्वे ते चक्रे इति चैताभ्यां चक्रयोः पूर्वया पूर्वमुत्तरयोत्तरम् ४ उस्रौ च ५ खे रथस्येत्येतया फलवतो वृक्षस्य शम्यागर्तेष्वेकैकां वयां निखाय ६ नित्या वाभिमन्त्र्याथोस्रौ युञ्जन्ति युक्तस्ते अस्तु दक्षिण इति द्वाभ्यां शुक्रावनड्वाहावित्येतेनार्धर्चेन युक्तावभिमन्त्र्याथ यदि रथाङ्गं विशीर्येत छिद्येत वाहिताग्नेर्गृहान्कन्यां प्रपाद्याभि व्ययस्व खदिरस्येत्येतया प्रतिदध्यात् १० त्यं चिदश्वमिति ग्रन्थिं ११ स्वस्ति नो मिमीतामिति पञ्चर्चं जपति १२ सुकिँ शुकमिति रथमारोहन्त्यां १३ मा विदन्परिपन्थिन इति चतुष्पथे १४ ये वध्व इति श्मशाने १५ वनस्पते शतवल्श इति वनस्पतावर्धर्चं जपति १६ सुत्रामाणमिति नावमारोहन्त्याम् १७ अश्मन्वतीति नदीं तरन्त्याम् १८ अपि वा युक्तेनैवोद्व ऊर्मिरित्यगाधेऽप्रेक्षणं चेह प्रियमिति सप्त गृहान्प्राप्तायाः कृताः परिहाप्य २१ १५

आनडुहमित्युक्तं १ तस्मिन्नुपवेश्यान्वारब्धायां पतिश्चतस्रो जुहोत्यग्निना देवेन पृथिवीलोकेन लोकानामृग्वेदेन वेदानां तेन त्वा शमयाम्यसौ स्वाहा वायुना देवेनान्तरिक्षलोकेन लोकानां यजुर्वेदेन वेदानां तेन त्वा शमयाम्यसौ स्वाहा सूर्येण देवेन द्यौर्लोकेन लोकानां सामवेदेन वेदानां तेन त्वा शमयाम्यसौ स्वाहा चन्द्रे ण देवेन दिशां लोकेन लोकानां ब्रह्मवेदेन वेदानां तेन त्वा शमयाम्यसौ स्वाहा ३ भूर्या ते पतिघ्न्यलक्ष्मी देवरघ्नी जारघ्नी तां करोम्यसौ स्वाहेति वा प्रथमया महाव्याहृत्या प्रथमोपहिता द्वितीयया द्वितीया तृतीयया तृतीया समस्ताभिश्चतुर्थ्यघोरचक्षुरित्याज्यलेपेन चक्षुषी विमृजीत ५ कया नश्चित्र इति तिसृभिः केशान्तानभिमृश्योत त्या दैव्या भिषजेति चतस्रोऽनुद्रुत्यान्ते स्वाहाकारेण मूर्धनि संस्रावम् ७ अत्र हैके कुमारमुत्सङ्गमानयन्त्युभयतः सुजातमा ते योनिमित्येतयापि वा तूष्णीं ९ तस्याञ्जलौ फलानि दत्त्वा पुण्याहं वाचयति १० पुँ सवती ह भवतीहैव स्तमिति सूक्तशेषेण गृहान्प्रपादयन्ति १२ १६

दधिक्राव्णो अकारिषमिति दधि सम्पिबेयातां १ वाग्यतावासीयातामा ध्रुवदर्शनाद् २ अस्तमिते ध्रुवं दर्शयति ध्रुवैधि पोष्या मयीति ३ ध्रुवं पश्यामि प्रजां विन्देयेति ब्रूयात् ४ त्रिरात्रं ब्रह्मचर्यं चरेयाताम् ५ अधः शयीयातां ६ दध्योदनं संभुञ्जीयातां पिबतं च तृप्णुतं चेति तृचेन ७ सायम्प्रातर्वैवाह्यमग्निं परिचरेयातामग्नये स्वाहाग्नये स्विष्टकृते स्वाहेति ८ पुमाँ सौ मित्रावरुणौ पुमाँ सावश्विनावुभौ । पुमानिन्द्र श्चाग्निश्च पुमाँ सं वर्धतां मयि स्वाहेति पूर्वां गर्भकामा ९ दशरात्रमविप्रवासः १० १७

अथ चतुर्थीकर्म १ त्रिरात्रे निवृत्ते स्थालीपाकस्य जुहोति २
अग्ने प्रायश्चित्तिरसि त्वं देवानां प्रायश्चित्तिरसि
यास्याः पतिघ्नी तनूस्तामस्या अप जहि
वायो प्रायश्चित्तिरसि त्वं देवानां प्रायश्चित्तिरसि
यास्या अपुत्रिया तनूस्तामस्या अप जहि
सूर्य प्रायश्चित्तिरसि त्वं देवानां प्रायश्चित्तिरसि
यास्या अपशव्या तनूस्तामस्या अप जहि
अर्यमणं नु देवं कन्या अग्निमयक्षत
सेमां देवो अर्यमा प्रेतो मुञ्चातु मामुतः
वरुणं नु देवं कन्या अग्निमयक्षत
सेमां देवो वरुणः प्रेतो मुञ्चातु मामुतः
पूषणं नु देवं कन्या अग्निमयक्षत
सेमां देवः पूषा प्रेतो मुञ्चातु मामुतः ३
प्रजापत इति सप्तमी ४ सौविष्टकृत्यष्टमी ५ १८

अध्याण्डामूलं पेषयित्वर्तुवेलायामुदीर्ष्वातः पतिवतीति द्वाभ्यामन्तेस्वाहाकाराभ्यां नस्तो दक्षिणतो निषिञ्चेद् १ गन्धर्वस्य विश्वावसोर्मुखमसीत्युपस्थं प्रजनयिष्यमाणोऽभिमृशेत् २ समाप्ते अर्थे जपेत् ३ प्राणे ते रेतो दधाम्यसावित्यनुप्राण्याद् ४
यथा भूमिरग्निगर्भा यथा द्यौरिन्द्रे ण गर्भिणी ।
वायुर्यथा दिशां गर्भ एवं गर्भं दधामि तेऽसाविति वा ५
आ ते योनिं गर्भ एतु पुमान्बाण इवेषुधिम्
आ वीरो अत्र जायतां पुत्रस्ते दशमास्यः ६
पुमाँ सं पुत्रं जनय तं पुमाननु जायताम्
तेषां माता भविष्यसि जातानां जनयासि च ७
पुँ सि वै पुरुषे रेतस्तत्स्त्रियामनुषिञ्चतु
तथा तदब्रवीद्धाता तत्प्रजापतिरब्रवीत् ८
प्रजापतिर्व्यदधात्सविता व्यकल्पयत्
स्त्रीषूयमन्यात्स्वादधत्पुमाँ समादधादिह ९
यानि भद्रा णि बीजानि पुरुषा जनयन्ति नः
तेभिष्ट्वं पुत्रं जनय सुप्रसूर्धेनुका भव १०
अभिक्रन्द वीळयस्व गर्भमा धेहि साधय
वृषाणं वृषन्ना धेहि प्रजायै त्वा हवामहे ११
यस्य योनिं पतिरेतो गृभाय पुमान्पुत्रो धीयतां गर्भे अन्तः
तं पिपृहि दशमास्योऽन्तरुदरे स जायतां श्रैष्ठ्यतमः स्वानामिति वा १२ १९

तृतीये मासि पुँ सवनं १ पुष्येण श्रवणेन वा २ सोमाँ शुं पेषयित्वा कुशकण्टकं वा न्यग्रोधस्य वा स्कन्धस्यान्त्यां शुङ्गां यूपस्य वाग्निष्ठाम् ३ संस्थिते वा यज्ञे जुह्वः संस्रावम् ४ अग्निना रयिं तन्नस्तुरीपं समिद्धाग्निर्वनवत्पिशङ्गरूप
इति चतसृभिरन्तेस्वाहाकाराभिर्नस्तो दक्षिणतो निषिञ्चेत् ५ २०

चतुर्थे मासि गर्भरक्षणं १ ब्रह्मणाग्निः संविदान इति षट् स्थालीपाकस्य हुत्वाक्षीभ्यां ते नासिकाभ्यामिति प्रत्यृचमाज्यलेपेनाङ्गान्यनुविमृज्य ३ २१

सप्तमे मासि प्रथमगर्भे सीमन्तोन्नयनं १ स्नातामहतवाससं पश्चादग्नेरुपवेश्यान्वारब्धायां महाव्याहृतिभिर्हुत्वा ३ स्थालीपाकं श्रपयित्वा ४ मुद्गौदनमित्येके ५ पुंवदुपकरणानि स्युर्नक्षत्रं च ६
धाता ददातु दाशुषे प्राचीं जीवातुमक्षितिम्
वयं देवस्य धीमहि सुमतिं सत्यधर्मणः
धाता प्रजाया उत राय ईशे धातेदं विश्वं भुवनं जजान
धाता पुत्रं यजमानाय दाता तस्मा उ हव्यं घृतवज्जुहोतेति
नेजमेष परापतेति तिस्रः प्रजापत इति षष्ठी ७ त्रिःश्वेतया शलल्या दर्भसूच्या वोदुम्बरशलाटुभिः सह मध्यादूर्ध्वं सीमन्तमुन्नयति भूर्भुवः स्वरित्युत्सङ्गे निधाय ९ त्रिवृति प्रतिमुच्य कण्ठे बध्नात्ययमूर्जावतो वृक्ष ऊर्जीव फलिनी भवेत्यथाह वीणागाथिनो राजानं संगायतेति ११ यो वाप्यन्यो वीरतर इत्युदपात्रेऽक्षतानवनिनीय विष्णुर्योनिं कल्पयतु राकामहमिति इति षळृचेन पाययेद् १३ अथास्या उदरमभिमृशेत् १४ सुपर्णोऽसि गरुत्माँ स्त्रिवृत्ते शिरो गायत्रं चक्षुः छन्दाँ स्यङ्गानि यजूँ षि नाम साम ते तनूर्मोदमानीं गापयेन् १६
महाहेमवतीं वा १७ ऋषभो दक्षिणा १८ २२

काकातन्या मचकचातन्याः कोशातक्या बृहत्याः कालक्लीतकस्येति मूलानि पेषयित्वोपलेपयेद्देशं यस्मिन्प्रजायेत रक्षसामपहत्यै २३ अथ जातकर्म १ जातं कुमारं त्रिरभ्यवान्यानुप्राण्याद् ऋचा प्राणिहि यजुषा समनिहि साम्नोदनिहीति २ सर्पिर्मधुनी दध्युदके च संनिनीय व्रीहियवौ वा संनिघृष्य त्रिः प्राशयेज्जातरूपेण ३ प्र ते यच्छामि मधुमन्मखाय वेदं प्रसूतं सवित्रा मघोना । आयुष्मान्गुपितो देवताभिः शतं जीव शरदो लोके अस्मिन्नित्यसाविति नामास्य दधाति घोषवदाद्यन्तरन्तस्थं द्व्यक्षरं चतुरक्षरं वापि वा षळक्षरं कृतं कुर्यान्न तद्धितं ४ तदस्य पिता माता च विद्यातां ५ दशम्यां व्यावहारिकं ब्राह्मणजुष्टं ६ गोः कृष्णस्य शुक्लकृष्णानि लोहितानि च रोमाणि मषं कारयित्वैतस्मिन्नेव चतुष्टये संनिनीय चतुः प्राशयेदिति माण्डूकेयो भूरृग्वेदं त्वयि दधाम्यसौ स्वाहा भुवो यजुर्वेदं त्वयि दधाम्यसौ स्वाहा स्वः सामवेदं त्वयि दधाम्यसौ स्वाहा भूर्भुवः स्वर्वाकोवाक्यमितिहासपुराणमॐ सर्वान्वेदाँ स्त्वयि दधाम्यसौ स्वाहेति वा ८ मेधाजननं दक्षिणे कर्णे वागिति त्रिः ९ वाग्देवी मनसा संविदाना प्राणेन वत्सेन सहेन्द्र प्रोक्ता जुषतां त्वा सौमनसाय देवी मही मन्द्रा वाणी वाणीची सलिला स्वयंभूरिति चानुमन्त्रयेत १० शणसूत्रेण विग्रन्थ्य जातरूपं ११ दक्षिणे पाणावपिनह्योत्थानाद् १२ ऊर्ध्वं दशम्या ब्राह्मणेभ्यो दद्याद् १३ अमा वा कुर्वीत १४ २४

दशरात्रे चोत्थानं १ मातापितरौ शिरःस्नातावहतवाससौ २ कुमारश्चैतस्मिन्नेव सूतिकाग्नौ स्थालीपाकं श्रपयित्वा ४ जन्मतिथिं हुत्वा त्रीणि च भानि सदैवतानि ५ तन्मध्ये जुहुयाद्यस्मिञ्जातः स्यात् पूर्वं तु दैवतं सर्वत्र ६ आयुष्टे अद्य गीर्भिरयमग्निर्वरेण्यः । आयुर्नो देहि जीवसे । आयुर्दा अग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमिह रक्षतादिममिति त्वं सोम महे भगमिति दशमी स्थालीपाकस्य ७ नामधेयं प्रकाशं कृत्वा ८ ब्राह्मणान्स्वस्तिवाच्यैवमेव मासिमासि जन्मतिथिं हुत्वोर्ध्वं संवत्सराद्गृह्येऽग्नौ जुहोति १० २५

अग्नये कृतिकाभ्यः १ प्रजापतये रोहिण्यै २ सोमाय मृगशिरसे ३ रुद्रायाऽऽर्द्रा ४ अदितये पुनर्वसुभ्यां ५ बृहस्पतये पुष्याय ६ सर्पेभ्योऽश्लेषाभ्यः ७ पितृभ्यो मघाभ्यो ८ भगाय फल्गुनीभ्याम् ९ अर्यम्णे फल्गुनीभ्यां १० सवित्रे हस्ताय ११ त्वष्ट्रे चित्रायै १२ वायवे स्वातय १३ इन्द्रा ग्निभ्यां विशाखाभ्यां १४ मित्रायानुराधाया १५ इन्द्रा य ज्येष्ठाय १६ निरृत्यै मूलायाद्भ्योऽषाढाभ्यो विश्वेभ्यो देवेभ्योऽषाढाभ्यो ब्रह्मणेऽभिजिते २० विष्णवे श्रवणाय २१ वसुभ्यो धनिष्ठाभ्यो वरुणाय शतभिषजे २३ अजायैकपदे प्रोष्ठपदाभ्योऽहिर्बुÞयाय प्रोष्ठपदाभ्यः २५ पूष्णे रेवत्या २६ अश्विभ्यामश्विनीभ्यां २७ यमाय भरणीभ्यः २८ २६

षष्ठे मास्यन्नप्राशनम् १ आजमन्नाद्यकामस् २ तैत्तिरं ब्रह्मवर्चसकामो मात्स्यं जवनकामो घृतौदनं तेजस्कामो दधिमधुघृतमिश्रमन्नं प्राशयेत् ६ अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे । यच्चिद्धि महश्चिदिममग्न आयुषे वर्चसे तिग्ममोजो वरुण सोम राजन् । मातेवास्मा अदितिः शर्म यँ सद्विश्वे देवा जरदष्टिर्यथासदिति हुत्वाग्न आयूँ षीत्यभिमन्त्र्योदगग्रेषु कुशेषु स्योना पृथिवि भवेत्युपवेश्य ९ महाव्याहृतिभिः प्राशनं १० शेषं माता प्राश्नीयात् ११ २७

संवत्सरे चूडाकर्म १ तृतीये वा वर्षे २ पञ्चमे क्षत्रियस्य ३ सप्तमे वैश्यस्याग्निमुपसमाधाय ५ व्रीहियवानां तिलमाषाणामिति पात्राणि च पूरयित्वानडुहं च गोमयं कुशभित्तं च केशप्रतिग्रहणायादर्शं नवनीतं लोहक्षुरं चोत्तरत उपस्थाप्य ७ संपृच्यध्वमृतावरीरूर्मिणा मधुमत्तमाः । पृञ्चतीर्मधुना पयो मन्द्रा धनस्य सातय इत्युष्णास्वप्सु शीता आसिञ्चत्याप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे । त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषं । यद्देवानां त्र्यायुषं तत्ते करोमि त्र्यायुषमित्यसाविति शीतोष्णाभिरद्भिर्दक्षिणं केशपक्षं त्रिरभ्यनक्ति ९ शलल्यैके विजटान्कृत्वा १० नवनीतेनाभ्यज्यौषधे त्रायस्वैनमिति कुशतरुणमन्तर्दधाति ११ केशान्कुशतरुणं चादर्शेन संस्पृश्य १३ तेजोऽसि स्वधितिष्टे पिता मैनं हिँ सीरिति लोहक्षुरमादत्ते १४ येनावपत्सविता श्मश्वग्रे क्षुरेण राज्ञो वरुणस्य विद्वान् । येन धाता बृहस्पतिरिन्द्र स्य चावपच्छिरः । तेन ब्रह्माणो वपतेदमद्यायुष्मान्दीर्घायुरयमस्तु वीरोऽसाविति केशाग्राणि छिनत्ति कुशतरुणं चैवं द्वितीयमेवं तृतीयम् १६ एवं द्विरुत्तरतो निकक्षयोः षष्ठसप्तमे गोदानकर्मण्येतदेव गोदानकर्म यच्चूडाकर्म १९ षोळशे वर्षेऽष्टादशे वा २० तृतीये तु प्रवपने गां ददात्यहतं च वासस् २१ तूष्णीमावृतः कन्यानां २२ प्रागुदीच्यां दिशि बह्वौषधिके देशेऽपां वा समीपे केशान्निखनन्ति २३ नापिताय धान्यपात्राणि नापिताय धान्यपात्राणि २४ २८
इति प्रथमोऽध्यायः


अथ द्वितीयोऽध्यायः
गर्भाष्टमेषु ब्राह्मणमुपनयेतैणेयेनाजिनेन २ गर्भदशमेषु वा ३ गर्भैकादशेषु क्षत्रियं रौरवेण ४ गर्भद्वादशेषु वैश्यं गव्येनाषोळशाद्वर्षाद्ब्राह्मणस्यानतीतः काल ६ आ द्वाविँ शात्क्षत्रियस्याचतुर्विँशाद्वैश्यस्यात ऊर्ध्वं पतितसावित्रीका भवन्ति ९ नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्नैभिर्व्यवहरेयुरहतेन वा सर्वान्मेखलिनो मौञ्जी मेखला ब्राह्मणस्य १५ धनुर्ज्या क्षत्रियस्योर्णासूत्री वैश्यस्य १७ पालाशो बैल्वो वा दण्डो ब्राह्मणस्य १८ नैयग्रोधः क्षत्रियस्यौदुम्बरो वैश्यस्य २० प्राणसंमितो ब्राह्मणस्य २१ ललाटसंमितः क्षत्रियस्य २२ केशसंमितो वैश्यस्य २३ सर्वे वा सर्वेषां २४ येनाबद्धेनोपनयेताचार्याधीनं तत् २५ परिवाप्योपनेयः स्याद् २६ आप्लुत्यालंकृत्य २७ हुत्वा जघनेनाग्निं तिष्ठतः प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरस् २८ तिष्ठँ स्तिष्ठन्तमुपनयेद् २९ मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरं समृद्धम् अनाहनस्यं वसनं चरिष्णु परीदं वाज्यजिनं दधेऽहम् ३० १

इयं दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनती न आगात् प्राणापानाभ्यां बलमाविशन्ती सखा देवी सुभगा मेखलेयमिति त्रिर्मेखलां प्रदक्षिणं त्रिः परिवेष्ट्य १ ग्रन्थिरेकस्त्रयोऽपि वापि वा पञ्च २ यज्ञोपवीतं कृत्वा यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपनह्यामीति ३ अञ्जली पूरयित्वाथैनमाह को नामासीत्यसावहं भो३ इतीतरः ५ समानार्षेय इत्याचार्यः ६ समानार्षेयोऽहं भो३ इतीतरो ७ ब्रह्मचारी भवान्ब्रूहीति ८ ब्रह्मचार्यहं भो३ इतीतरो भूर्भुवः स्वरित्यस्याञ्जलावञ्जलीँ स्त्रीनासिच्य १० दक्षिणोत्तराभ्यां पाणिभ्यां पाणी संगृह्य जपति ११ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् उपनयाम्यसाविति १२ गणानां त्वेति गणकामान् १३ आगन्ता मा रिषण्यतेति योधान् १४ महाव्याहृतिभिर्व्याधितान् १५ २

भगस्ते हस्तमग्रभीत्सविता हस्तमग्रभीत्
पूषा ते हस्तमग्रभीदर्यमा हस्तमग्रभीत्
मित्रस्त्वमसि धर्मणाग्निराचार्यस्तव
असावहं चोभावग्न एतं ते ब्रह्मचारिणं परिददामीन्द्रै तं ते ब्रह्मचारिणं परिददाम्यादित्यैतं ते ब्रह्मचारिणं परिददामि विश्वे देवा एतं वो ब्रह्मचारिणं परिददामि दीर्घायुत्वाय सुप्रजास्त्वाय सुवीर्याय रायस्पोषाय सर्वेषां वेदानामाधिपत्याय सुश्लोक्याय स्वस्तये १ ऐन्द्री मावृतमावर्त आदित्यस्यावृतमन्वावर्त इति दक्षिणं बाहुमन्वावृत्य २ दक्षिणेन प्रादेशेन दक्षिणमँ समन्ववहृत्यारिष्यतस्ते हृदयस्य प्रियो भूयासमिति हृदयदेशमभिमृशति ३ तूष्णीं प्रसव्यं पर्यावृत्याथास्योर्ध्वाङ्गुलिं पाणिं हृदये निधाय जपति ४ ३

मम व्रते हृदयं ते दधामि मम चित्तमनु चित्तं ते अस्तु
मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति १
कामस्य ब्रह्मचर्यस्यासाविति २ तेनैव मन्त्रेण तथैव पर्यावृत्य ३ दक्षिणेन प्रादेशेन दक्षिणमँ समन्वारभ्य जपति ४ ब्रह्मचार्यसि समिधमाधेह्यपोऽशान कर्म कुरु मा दिवा सुषुप्था वाचं यच्छा समिदाधानात् ५ एषा ते अग्ने समिदित्यभ्यादधाति समिधं तूष्णीं वा ६ ४

संवत्सरे सावित्रीमन्वाह १ त्रिरात्रे २ अन्वक्षं वा ३ गायत्रीं ब्राह्मणायानुब्रूयात् ४ त्रिष्टुभं क्षत्रियाय ५ जगतीं वैश्याय ६ सावित्रीं त्वेवोत्तरेणाग्निमुपविशतः ७ प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरोऽधीहि भो ३ इत्युक्त्वाचार्य ॐकारं प्रयुज्याथेतरं वाचयति सावित्रीं भो३ अनुब्रूहीत्यथास्मै सावित्रीमन्वाह तत्सवितुर्वरेण्यमित्येतां पच्छोऽर्धर्चशोऽनवानम् १२ ५

आपो नाम स्थ शिवा नाम स्थोर्जा नाम स्थाजरा नाम स्थाभया नाम स्थामृता नाम स्थ तासां वोऽशीय सुमतौ मा धत्तेत्येवं त्रिरप आचमय्य १ स्वस्ति नो मिमीतामिति पञ्चर्चेन दण्डं प्रयच्छति २ वरो दक्षिणा ३ प्रदक्षिणमग्निं पर्याणीय भिक्षते ग्रामं ४ मातरं त्वेव प्रथमां ५ या वैनं न प्रत्याचक्षीताचार्याय भैक्षं निवेदयित्वानुज्ञातो गुरुणा भुञ्जीताहरहः समिदाधानं भिक्षाचरणमधःशय्या गुरुशुश्रूषेति ब्रह्मचारिणो नित्यानि ८ ६

अथानुवाचनस्य १ अग्नेरुत्तरत उपविशतः २ प्राङ्मुख आचार्यः प्रत्यङ्मुख इतरोऽभिवाद्य पादावाचार्यस्य पाणी प्रक्षाल्य ४ दक्षिणेन जानुनाक्रम्य मूले कुशतरुणान् ५ दक्षिणोत्तराभ्यां पाणिभ्यां मध्ये परिगृह्य ६ तान्त्सव्येनाचार्योऽग्रे संगृह्य दक्षिणेनाद्भिः परिषिञ्चन्नथेतरं वाचयति ७ सावित्रीं भो३ अनुब्रूहीतीतरः ८ सावित्रीं तेऽनुब्रवीमीत्याचार्यो गायत्रीं भो३ अनुब्रूहीतीतरो गायत्रीं तेऽनुब्रवीमीत्याचार्यो वैश्वामित्रीं भो३ अनुब्रूहीतीतरो वैश्वानरीं तेऽनुब्रवीमीत्याचार्य ११ ऋषीन्भो३ अनुब्रूहीतीतर ऋषीँ स्तेऽनुब्रवीमीत्याचार्यो देवता भो३ अनुब्रूहीतीतरो देवतास्तेऽनुब्रवीमीत्याचार्यश्छन्दाँ सि भो३ अनुब्रूहीतीतरश्छन्दाँ सि तेऽनुब्रवीमीत्याचार्यः १४ श्रुतिं भो३ अनुब्रूहीतीतरः श्रुतिं तेऽनुब्रवीमीत्याचार्यः १५ स्मृतिं भो३ अनुब्रूहीतीतरः स्मृतिं तेऽनुब्रवीमीत्याचार्यः १६ श्रद्धामेधे भो३ अनुब्रूहीतीतरः श्रद्धामेधे तेऽनुब्रवीमीत्याचार्य १७ एवमेवमृषेर्यस्ययस्य योयो मन्त्रो यद्देवत्यो यच्छन्दाश्च तथातथा तंतं मन्त्रमनुब्रूयाद् १८ अपि वाविदन्नृषिदैवतच्छन्दाँ सि तत्सवितुर्वरेण्यमित्येतां पच्छोऽर्धर्चशोऽनवानमित्येषेति समाप्त आहाचार्य १९ एवमेकैकमृषिमनुवाकं वानुब्रूयात् २० क्षुद्र सूक्तेष्वनुवाकं २१ यावद्वा गुरुर्मन्येताद्योत्तमे कामं सूक्ते वानुब्रूयादृषेरनुवाकस्य वैकैकं सूक्तादावित्येषा प्रभृतिरिति कामं सूक्तादावाचार्य इत्येतदृषिस्वाध्याये व्याख्यातं २७ समाप्ते कुशतरुणानादायानडुहेन मूले कुण्डं कृत्वा यथासूक्तं कुशेष्वपो निषिञ्चत्यहःशेषं स्थानमुपवासश्च २९ ७

अपराह्णेऽक्षतधाना भिक्षित्वाज्याहुतिधर्मेणाग्नौ पाणिना जुहुयात् सदसस्पतिमद्भुतमिति प्रत्यृचं सूक्तशेषेण १ भक्षैराचार्यं स्वस्तिवाच्य २ ८

अरण्ये समित्पाणिः संध्यामास्ते नित्यं वाग्यत उत्तरापराभिमुखोऽन्वष्टमदेशमा नक्षत्राणां दर्शनाद् १ अतिक्रान्तायां महाव्याहृतीः सावित्रीं स्वस्त्ययनानि च जपित्वैवं प्रातः प्राङ्मुखस्तिष्ठन्ना मण्डलदर्शनात् ३ ९

उदिते प्राध्ययनम् १ अहरहः सायंप्रातरग्निमुपसमाधाय परिसमुह्य पर्युक्ष्य दक्षिणं जान्वाच्याग्नये समिधमहार्षं बृहते जातवेदसे । स मे श्रद्धां च मेधां च जातवेदाः प्रयच्छतु स्वाहा । एधोऽस्येधिषीमहि समिदसि तेजोऽसि तेजो मयि धेहि स्वाहा । समिद्धो मां समर्धय प्रजया च धनेन च स्वाहा । एषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहेत्यथ पर्युक्ष्याग्निः श्रद्धां च मेधां चाविनिपातं स्मृतिं च मे । ईळितो जातवेदा अयं शुनं नः संप्रयच्छत्वित्यग्निमुपतिष्ठते ६ सौपर्णव्रतभाषितं दृष्टं वृद्धसंप्रदायानुष्ठितं त्र्यायुषं पञ्चभिर्मन्त्रैः प्रतिमन्त्रं ललाटे हृदये दक्षिणस्कन्धे वामे च ततः पृष्ठे च पञ्चसु भस्मना त्रिपुण्ड्रं करोति ७ स एतेषां वेदानामेकं द्वौ त्रीन्सर्वान्वाधीते य एवं हुत्वाग्निमुपतिष्ठते ८ १०

अथ व्रतादेशनं १ तस्योपनयनेन कल्पो व्याख्यातो न सावित्रीमन्वाह ३ दण्डप्रदानान्तमित्येक ४ उदगयने शुक्लपक्षे ५ अहोरात्रं ब्रह्मचर्यमुपेत्याचार्योऽमाँ साशी ब्रह्मचारी ६ चतुर्दशीं परिहाप्याष्टमीं चाद्योत्तमे चैके ७ यां वान्यां भप्रशस्तां मन्येत तस्यां शुक्रिये ब्रह्मचर्यमादिशेत् ९ त्रिरात्रं ब्रह्मचर्यं चरेद्द्वादशरात्रं संवत्सरं वा यावद्वा गुरुर्मन्येत १० शाक्वरं तु संवत्सरं ११ व्रातिकमौपनिषदं च १२ पूर्णे काले चरिते ब्रह्मचर्ये शंयोर्बार्हस्पत्यान्ते वेदेऽनूक्ते रहस्यं श्रावयिष्यन्कालनियमं चादेशेन प्रतीयेत १३ ११

कृतप्रातराशस्यापराह्णेऽपराजितायां दिशि १ हुत्वाचार्योऽथैनं यास्वेव देवतासु परीत्तो भवति तास्वेवैनं पृच्छत्यग्नाविन्द्र आदित्ये विश्वेषु च देवेषु चरितं ते ब्रह्मचर्यं २ चरितं भो३ इति प्रत्युक्ते ३ पश्चादग्नेः पुरस्तादाचार्यस्य प्राङ्मुखे स्थितेऽहतेन वाससाचार्यः प्रदक्षिणं मुखं त्रिः परिवेष्ट्योपरिष्टाद्दशाः कृत्वा यथा न संभ्रश्येत ५ त्रिरात्रं समिदाधानं भिक्षाचरणमधःशय्यां गुरुशुश्रूषां चाकुर्वन्वाग्यतोऽप्रमत्तोऽरण्ये देवकुलेऽग्निहोत्रे वोपवसस्वेत्यत्र हैके तानेव नियमाँ स्तिष्ठतो रात्र्यामेवोपदिशन्त्याचार्योऽमाँ साशी ब्रह्मचारी ८ त्रिरात्रे निर्वृत्ते रात्र्यां वा ग्रामान्निष्क्रामन्नैतानीक्षेतानध्यायान् ९ पिशितामं चण्डालं सूतिकां रजस्वलां तेदनीमपहस्तकान् श्मशानं सर्वाणि च शवरूपाणि यान्यास्ये न प्रविशेयुः स्वस्य वासान्निरसन् १० प्रागुदीचीं दिशमुपनिष्क्रम्य शुचौ देशे प्राङ्मुख आचार्य उपविशत्युदित आदित्येऽनुवाचनधर्मेण वाग्यतायोष्णीषिणेऽन्वाह १२ महानाम्नीष्वेवैष नियमोऽथोत्तरेषु प्रकरणेषु स्वाध्यायमेव कुर्वत आचार्यस्येतरः शृणोत्युष्णीषं भाजनं दक्षिणां गां ददाति १५ त्वं तमित्युच्चा दिवीति च प्रणवेन वा सर्वम् १६ अत्र हैके वैश्वदेवं चरुं कुर्वते सर्वेषु प्रकरणेषु १७ यथापरीत्तमिति माण्डूकेयः १८ १२

अथातो दण्डनियमा १ नान्तरा गमनं कुर्यादात्मनो दण्डस्याथ चेद्दण्डमेखलोपवीतानामन्यतमद्विशीर्येत छिद्येत वा तस्य तत्प्रायश्चित्तं यदुद्वाहे रथस्य ३ मेखला चेदसंधेया भवत्यन्यां कृत्वानुमन्त्रयते ४
मेध्यामेध्यविभागज्ञे देवि गोप्त्रि सरस्वति
मेखलेऽस्कन्नमच्छिन्नं संतनुष्व व्रतं मम
त्वमग्ने व्रतभृच्छुचिरग्ने देवानिहावह
उप यज्ञं हविश्च नः
व्रतानि बिभ्रद्व्रतपा अदाभ्यो भवा नो दूतो अजरः सुवीरः
दधद्र त्नानि सुमृळीको अग्ने गोपाय नो जीवसे जातवेद इत्युपवीतं च दण्डे बध्नाति ६ तदप्येतत् ७
यज्ञोपवीतं दण्डं च मेखलामजिनं तथा
जुहुयादप्सु व्रते पूर्णे वारुण्यर्चा रसेन वा ८ १३

अथ वैश्वदेवो व्याख्यातो होमकल्पो वैश्वदेवस्य सिद्धस्य सायंप्रातर्गृह्येऽग्नौ जुहुयाद् ३ अग्नये स्वाहा सोमाय स्वाहेन्द्रा ग्निभ्यां स्वाहा विष्णवे स्वाहा भरद्वाजधन्वन्तरये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा प्रजापतये स्वाहादितये स्वाहानुमतये स्वाहाग्नये स्विष्टकृते स्वाहेति हुत्वैतासां देवतानाम् ४ अथ वास्तुमध्ये बलिं हरेदेताभ्यश्चैव देवताभ्यो नमो ब्रह्मणे ब्राह्मणेभ्यश्च वास्तोष्पते प्रतिजानीह्यस्मानिति वास्तुमध्ये वास्तोष्पतये चाथ दिशां प्रदक्षिणं यथारूपं बलिं हरति ६ नम इन्द्रा यैन्द्रे भ्यश्च नमो यमाय याम्येभ्यश्च नमो वरुणाय वारुणेभ्यश्च नमः सोमाय सौम्येभ्यश्च नमो बृहस्पतये बार्हस्पत्येभ्यश्चाथादित्यमण्डले नमोऽदितय आदित्येभ्यश्च नमो नक्षत्रेभ्य ऋतुभ्यो मासेभ्योऽर्धमासेभ्योऽहोरात्रेभ्यः संवत्सरेभ्यः ८ पूष्णे पथिकृते धात्रे विधात्रे मरुद्भ्यश्चेति देहलीषु ९ विष्णवे दृषदि १० वनस्पतय इत्युलूखल ११ ओषधीभ्य इत्योषधीनां स्थाने १२ पर्जन्यायाद्भ्य इति मणिके १३ नमः श्रियै शय्यायां शिरसि पादतो भद्र काल्या १४ अनुगुप्ते देशे नमः सर्वानुभूतये १५ अथान्तरिक्षे नक्तंचरेभ्य इति सायमहश्चरेभ्य इति प्रातर्ये देवास इति चाविज्ञाताभ्यो देवताभ्य उत्तरतो धनपतये च १७ प्राचीनावीती दक्षिणतः शेषं निनयति ये अग्निदग्धा इति १८ देवपितृनरेभ्यो दत्त्वा श्रोत्रियं भोजयेद् १९ ब्रह्मचारिणे वा भिक्षां दद्याद् २० अनन्तरं सौवासिनीं गर्भिणीं कुमारान्स्थविराँ श्च भोजयेच्छ्वभ्यः श्वपचेभ्यश्च वयोभ्यश्चावपेद्भूमाविति नानवत्तमश्नीयान्नैको न पूर्वं २५ तदप्येतदृचोक्तं मोघमन्नं विन्दते अप्रचेता इति २६ १४

षण्णां चेदर्घ्याणामन्यतम आगच्छेद्गोपशुमजमन्नं वा यत्सामान्यतमं मन्येत तत्कुर्यान् १ नामाँ सोऽर्घः स्याद् २ अधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयाद् ३ आचार्यायाग्नेय ४ ऋत्विजे बार्हस्पत्यो वैवाह्याय प्राजापत्यो राज्ञ ऐन्द्रः ७ प्रियाय मैत्रः ८ स्नातकायैन्द्रा ग्नो यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृतार्घ्या एवैनं याजयेयुर्नाकृतार्घ्यास् १० तदपि भवति १२ १५

मधुपर्के च सोमे च पितृदैवतकर्मणि
अत्रैव पशवो हिँ स्या नान्यत्रेत्यब्रवीन्मनुः १
आचार्यश्च पिता चोभौ सखा चानतिथिर्गृहे
ते यद्विदध्युस्तत्कुर्यादिति धर्मो विधीयते २
नैकग्रामीणमतिथिं विप्रोष्यागतमेव च
उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा ३
अग्निहोत्रं बलिवर्दाः काले चातिथिरागतः
बालाश्च कुलवृद्धाश्च निर्दहन्त्यपमानिताः ४
अनड्वानग्निहोत्रं च ब्रह्मचारी च ते त्रयः
अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम् ५
देवताः पुरुषं गृह्या अहरहर्गृहमेधिनम्
भागार्थमुपसर्पन्ति ताभ्यो निर्वप्तुमर्हति ६ १६
तृणान्यप्युञ्छतो नित्यमग्निहोत्रं च जुह्वतः
सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् १
ओदपात्रात्तु दातव्यमा काष्ठाज्जुहुयादपि
आ सूक्तादानुवाकाद्वा ब्रह्मयज्ञो विधीयते २
नोपवासः प्रवासे स्यात्पत्नी धारयते व्रतम्
पुत्रो भ्राताथवा पत्नी शिष्यो वास्य बलिं हरेत् ३
वैश्वदेवमिमं ये तु सायंप्रातः प्रकुर्वते
ते अर्थैरायुषा कीर्त्या प्रजाभिश्च समृध्नुयुरिति ४ १७
ब्रह्मचारी प्रवत्स्यन्नाचार्यमामन्त्रयते १ प्राणापानयोरित्युपाँ श्वोमहं वत्स्यामि भो३ इत्युच्चैः २ प्राणापाना उरुव्यचास्त्वया प्रपद्ये देवाय त्वा गोप्त्रे परिददामि देव सवितरेष ते ब्रह्मचारी तं ते परिददामि तं गोपायस्व तं मा मृध इत्युपाँ श्वॐ स्वस्तीत्युच्चैराचार्यः स्वस्तीत्युच्चैराचार्यः ४ १८
इति द्वितीयोऽध्यायः


अथ तृतीयोऽध्यायः
स्नानं समावर्त्स्यमानस्यानडुहमित्युक्तं तस्मिन्नुपवेश्य केशश्मश्रूणि वापयति लोमनखानि च २ व्रीहियवैस्तिलसर्षपैरपामार्गैः सदापुष्पीभिरित्युद्वाप्यापोहिष्ठीयेनाभिषिच्यालंकृत्य ५ युवं वस्त्राणीति वाससी परिधायाथास्मै निष्कं बध्नात्यायुष्यं वर्चस्यं ७ ममाग्ने वर्च इति वेष्टनं ८ गृहंगृहमहनेति छत्त्रम् ९ आरोहतेत्युपानहौ १० दीर्घस्ते अस्त्वङ्कुश इति वैणवं दण्डमादत्ते ११ प्रतिलीनस्तदहरासीत १२ वनस्पते वीड्वङ्गः शास इत्थेति रथमारोहेद् १३ यत्रैनं गवा वा पशुना वा अर्हयेयुस्तत्पूर्वमुपतिष्ठेत १४ गोभ्यो वा समावर्तेत फलवतो वा वृक्षाद् १५ इन्द्र श्रेष्ठानि द्र विणानि धेहि स्योना पृथिवि भवेत्यवरोहतीप्सितमन्नं तदहर्भुञ्जीताचार्याय वस्त्रयुगं दद्यादुष्णीषं मणिकुण्डलं दण्डोपानहं छत्त्रं च १८ १

अगारं कारयिष्यन्निहान्नाद्याय विशः परिगृह्णामीत्युदुम्बरशाखया त्रिः परिलिख्य मध्ये स्थण्डिले जुहोति १ कोऽसि कस्यासि काय ते ग्रामकामो जुहोमि स्वाहा अस्यां देवानामसि भागधेयमितः प्रजाताः पितरः परेताः विराळजुह्वद्ग्रामकामो न देवानां किंचनान्तरेण स्वाहेति २ स्थूणागर्तान्खानयित्वोदमन्थानासिच्य ४ इमां विमिन्वे अमृतस्य शाखां मधोर्धारां प्रतरणीं वसूनाम् । एनां शिशुः क्रन्दत्या कुमार एनां धेनुः क्रन्दतु नित्यवत्सेत्युदुम्बरशाखां घृतेनाक्तां दक्षिणे द्वार्ये गर्ते निदधाति ५ इमामुच्छ्रयामि भुवनस्य शाखां मधोर्धारां प्रतरणीं वसूनाम् । एनां शिशुः क्रन्दत्या कुमार एनां धेनुः क्रन्दतु पाकवत्सेत्युत्तरत ६ एवं द्वयोर्द्वयोर्दक्षिणतः पश्चादुत्तरतश्च ७ इमामहमस्य वृक्षस्य शाखां घृतमुक्षन्तीममृते मिनोमि एनां शिशुः क्रन्दत्या कुमार आ स्यन्दन्तां धेनवो नित्यवत्सा इति । स्थूणाराजमुच्छ्रयतिएनं कुमारस्तरुण आ वत्सो भुवनस्परि एनं परिस्रुतः कुम्भ्या आ दध्नः कलशैर्गमन् ९ २

इहैव स्थूणे प्रतितिष्ठ ध्रुवाश्वावती गोमती सीलमावती
क्षेमे तिष्ठ घृतमुक्षमाणेहैव तिष्ठ निमिता तिल्विला स्थाजिरावती
मध्ये पोषस्य तृम्पतां मा त्वा प्रापन्नघायवः
उपहूता इह गाव उपहूता अजावयः
अथो अन्नस्य कीलाल उपहूतो गृहेषु नः
रथन्तरे प्रतितिष्ठ वामदेव्ये श्रयस्व बृहति स्तभायेति
स्थूणाराजमभिमृशति १ संमितस्य स्थूणाः संमृशति २ सत्यं च श्रद्धा चेति पूर्वे ३ यज्ञश्च दक्षिणा चेति दक्षिणे ४ बलं चौजश्चेत्यपरे ५ ब्रह्म च क्षत्रं चेत्युत्तरे ६ श्री स्तूपो धर्म स्थूणाराजो ७ अहोरात्रे द्वारफलके ८ संवत्सरोऽपिधानम् ९ उक्षा समुद्र इत्यभ्यक्तमश्मानं स्तूपस्याधस्तान्निखनेत् १० ३

वास्तोष्पतीये कर्मणि १ अग्निं दधामि मनसा शिवेनायमस्तु संगमनो वसूनाम् । मा नो हिँ सी स्थविरं मा कुमारं शं नो भव द्विपदे शं चतुष्पद इति गृह्यमग्निं बाह्यत उपसमाधाय २ प्रागग्रेषु नवेषु कुशेषूदकुम्भं नवं प्रतिष्ठाप्यारिष्टा अस्माकं वीरा मा परासेचि नो धनमित्यभिमन्त्र्य ४ रथन्तरस्य स्तोत्रियेण पुनरादायं ककुप्कारं तिस्रः पूर्वाह्णे जुहोति ५ वामदेव्यस्य मध्यंदिने ६ बृहतोऽपराह्णे ७ महाव्याहृतयश्चतस्रो वास्तोष्पत इति तिस्रोऽमीवहा वास्तोष्पते वास्तोष्पते ध्रुवा स्थूणा सौविष्टकृती दशमी स्थालीपाकस्य रात्रौ ८ ज्येष्ठं पुत्रमादाय जायां च सहधान्यः प्रपद्येत ९ इन्द्र स्य गृहाः शिवा वसुमन्तो वरूथिनस्तानहं प्रपद्ये सह जायया सह प्रजया सह पशुभिः सह रायस्पोषेण सह यन्मे किंचास्ति तेन १० ४


शग्मंशग्मं शिवंशिवं क्षेमाय वः शान्त्यै प्रपद्येऽभयं नो अस्तु ग्रामो मारण्याय परिददातु विश्व महाय मा परिदेहीति ग्रामान्निष्क्रामन् १ अरण्यं मा ग्रामाय परिददातु मह विश्वाय मा परिदेहीति ग्रामं प्रविशन्नरिक्तः २ गृहान्भद्रा न्सुमनसः प्रपद्येऽवीरघ्नो वीरतरः सुवीरान् । इरां वहन्तो घृतमुक्षमाणा अन्येष्वहं सुमनाः संविशेयमिति सदा प्रवचनीयः ३ ५

अनाहिताग्निः प्रवत्स्यन्गृहान्समीक्षते १
इमान्मे मित्रावरुणौ गृहान्गोपायतं युवम्
अविनष्टानविह्रुतान्पूषैनानभिरक्षत्वास्माकं पुनरागमात् २
अपि पन्थामगन्महीति च जपति ३ ६

अथ प्रोष्यायन्गृहान्समीक्षते १
गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत एमसि
ऊर्जं बिभ्रद्वः सुमनाः सुमेधा गृहानैमि मनसा मोदमानः
येषामध्येति प्रवसन्येषु सौमनसो बहुः
गृहानुप ह्वयामहे ते नो जानन्तु जानतः
उपहूता इह गाव उपहूता अजावयः
अथोऽन्नस्य कीलाल उपहूतो गृहेषु नः २
अयं नो अग्निर्भगवानयं नो भगवत्तरः
अस्योपसद्ये मा रिषामायं श्रैष्ठ्ये दधातु न इति
गृह्यमग्निमुपस्थाय ३ कल्याणीं वाचं प्रब्रूयाद् ४ विराजो दोहोऽसि
विराजो दोहमशीय मयि पद्यायै विराजो दोह इति पाद्यप्रतिग्रहणः ५ ७

अनाहिताग्निर्नवं प्राशिष्यन्नाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यः स्वाहाकारेण गृह्येऽग्नौ जुहुयात् १ प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्यायेति प्राशनार्थीयमभिमन्त्र्य २ भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितवाविशस्व शं नो भव द्विपदे शं चतुष्पद इत्यद्भिरभ्युत्सिञ्चँ स्त्रिः प्राश्नाति ३ अमोऽसि प्राण तदृतं ब्रवीम्यमोऽसि सर्वाङसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादमा म एधि मा मृधा न इन्द्रे ति हृदयदेशमभिमृशति ४ नाभिरसि मा बिभीथाः प्राणानां ग्रन्थिरसि मा विस्रस इति नाभिं ५ भद्रं कर्णेभिरिति यथालिङ्गम् ६ तच्चक्षुरित्यादित्यमुपस्थाय ७ ८

परि वः सैन्याद्वधाद्व्यावृञ्जन्तु घोषिण्यः समानस्तस्य गोपतेर्गावो अँ शो न वो रिषत् पूषा गा अन्वेतु न इति गाः प्रतिष्ठमाना अनुमन्त्रयेत १ परि पूषेति परिक्रान्तासु २ यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नः सन्तु पयस्वतीर्बह्वीर्गोष्ठे घृताच्य इत्या गावो अग्मन्निति च प्रत्यागतासूत्तमाममा कुर्वन् ४ मयोभूर्वात इति सूक्तेन गोष्ठे गताः ५ ९

या फाल्गुन्या उत्तरामावास्या सा रेवत्या संपद्यते तस्यामङ्कलक्षणानि कारयेद् १ भुवनमसि सहस्रपोषमिन्द्रा य त्वा श्रमो ददत् । अक्षतमस्यरिष्टमिळान्नं गोपायनं यावतीनामिदं करिष्यामि भूयसीनामुत्तमां समां क्रियासमिति २ या प्रथमा प्रजायेत तस्याः पीयूषं जुहुयात्संवत्सरीणं पय उस्रियाया इत्येताभ्यामृग्भ्यां ३ यदि यमौ प्रजायेत महाव्याहृतिभिर्हुत्वा यमसूं दद्यात् ४ १०

अथ वृषोत्सर्गः १ कार्त्तिक्यां पौर्णमास्यां रेवत्यां वाश्वयुज्यस्य २ गवां मध्ये सुसमिद्धमग्निं कृत्वाज्याहुतीर्जुहोति ३ इह रतिरिह रमध्वं स्वाहा इह धृतिरिह स्वधृतिः स्वाहा उपसृजं धरुणं मात्रे धरुणो मातरं धयन्रायस्पोषमस्मासु दीधरत्स्वाहा ४ पूषा गा अन्वेतु न इति पौष्णस्य जुहोति ५ रुद्रा ञ्जपित्वैकवर्णं द्विवर्णं त्रिवर्णं वा ७ यो वा यूथं छादयति ८ यो वा यूथेन छाद्यते ९ रोहितो वैव स्यात् १० सर्वाङ्गैरुपेतो यूथे वर्चस्वितमः स्यात् ११ तमलंकृत्य १२ यूथे मुख्याश्चतस्रो वत्सतर्यस्ताश्चालंकृत्यैतं युवानं पतिं वो ददामि तेन क्रीळन्तीश्चरथ प्रियेण । मावश्वात्र जनुषा संविदाना रायस्पोषेण समिषा मदेम स्वाहेति १४ नभ्यस्थेऽनुमन्त्रयते मयोभूरित्यनुवाकशेषेण १५ सर्वासां पयसि पायसं श्रपयित्वा ब्राह्मणान्भोजयेत् १६ ११

ऊर्ध्वमाग्रहायण्यास्तिस्रोऽष्टका अपरपक्षेषु १ तासां प्रथमायां शाकं जुहोति २ इयमेव सा या प्रथमा व्युच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवकृज्जनित्री त्रय एनां महिमानः सचन्तां स्वाहेति ४ अथ स्विष्टकृतो यस्यां वैवस्वतो यमः सर्वे देवाः समाहिताः अष्टका सर्वतोमुखी सा मे कामानतीतृपत् आहुस्ते ग्रावाणो दन्तानूधः पवमाणः मासाश्चार्धमासाश्च नमस्ते सुमनामुखि स्वाहेति ५ १२

मध्यमायां मध्यावर्षे च १ महाव्याहृतयश्चतस्रो ये तातृषुरिति चतस्रोऽनुद्रुत्य वपां जुहुयाद् २ वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ सुकृतस्य लोके । मेदसः कुल्या उप तान्स्रवन्तु सत्याः सन्तु यजमानस्य कामाः स्वाहेति वा ३ महाव्याहृतयश्चतस्रो ये तातृषुरिति चतस्रो ऽष्टाहुति स्थालीपाकोऽवदानमिश्रोऽन्तर्हिता गिरयोऽन्तर्हिता पृथिवी मही मे । दिवा दिग्भिश्च सर्वाभिरन्यमन्तः पितुर्दधेऽमुष्यै स्वाहा अन्तर्हिता म ऋतवोऽहोरात्राश्च संधिजाः । मासाश्चार्धमासाश्चान्यमन्तः पितुर्दधेऽमुष्यै स्वाहेति यास्तिष्ठन्ति याः स्रवन्ति या दभ्राः परिसस्रुषीः । अद्भिः सर्वस्य भर्तृभिरन्यमन्तः पितुर्दधेऽमुष्यै स्वाहा यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता । रेतस्तन्मे पिता वृङ्क्तां मातुरन्योऽवपद्यताममुष्यै स्वाहेति वा महाव्याहृतीनां स्थाने चतस्रोऽन्यत्रकरणस्य ५ पायसो वा चरुः ६ श्वोऽन्वष्टक्यं पिण्डपितृयज्ञावृता ७ १३

उत्तमायामपूपाञ्जुहोत्युक्थ्यश्चातिरात्रश्च सद्यःक्रीश्छन्दसा सह । अपूपकृदष्टके नमस्ते सुमनामुखि स्वाहेति २ गोपशुरजपशु स्थालीपाको वापि वा गोग्रासमाहरेद् ४ अपि वारण्ये कक्षमपादहेदेषा मेऽष्टकेति ५ न त्वेव न कुर्वीत न त्वेव न कुर्वीत ६ १४
इति तृतीयोऽध्यायः

अथ चतुर्थोऽध्याय
मासिमासि पितृभ्यो दद्याद् १ ब्राह्मणान्वेदविदोऽयुग्माँ स्त्र्यवरार्धान्पितृवदुपवेश्यायुग्मान्युदपात्राणि तिलैरवकीर्यासावेतत्त इत्यनुदिश्य ब्राह्मणानां पाणिषु निनयेद् ४ अत ऊर्ध्वमलंकृतान् ५ आमन्त्र्याग्नौ कृत्वान्नं चासावेतत्त इत्यनुदिश्य भोजयेद् ७ भुञ्जानेषु महाव्याहृतीः सावित्रीं मधुवातीयाः पितृदेवत्याः पावमानीश्च जपेद् ८ भुक्तवत्सु पिण्डान्दद्यात् ९ पुरस्तादेके १० पिण्डान्पश्चिमेन तत्पत्नीनां किंचिदन्तर्धाय ११ ब्राह्मणेभ्यः शेषं निवेदयेद् १२ अग्नौकरणादि पिण्डपितृयज्ञेन कल्पो व्याख्यातः १३ १

अथात एकोद्दिष्टम् १ एकपवित्रं २ एकार्घ्यम् ३ एकपिण्डम् ४ नावाहनं नाग्नौकरणं नात्र विश्वे देवाः स्वदितमिति तृप्तिप्रश्न उपतिष्ठतामित्यक्षय्यस्थाने ५ अभिरम्यतामिति विसर्गः ६ संवत्सरमेवं प्रेते ७ चतुर्थविसर्गश्च ८ २

अथ सपिण्डीकरणं १ संवत्सरे पूर्णे त्रिपक्षे वा २ यदहर्वा वृद्धिरापद्येत ३ चत्वार्युदपात्राणि सतिलगन्धोदकानि कृत्वा ४ त्रीणि पितॄणामेकं प्रेतस्य ५ प्रेतपात्रं पितृपात्रेष्वासिञ्चति ये समाना इति द्वाभ्याम् ६ एवं पिण्डमप्येतत्सपिण्डीकरणम् ८ ३

अथात आभ्युदयिकम् १ आपूर्यमाणपक्षे पुण्याहे २ मातृयागं कृत्वा ३ युग्मान्वेदविद उपवेश्य ४ पूर्वाह्णे ५ प्रदक्षिणमुपचारः ६ पितृमन्त्रवर्जं जप ७ ऋजवो दर्भा ८ यवैस्तिलार्थो ९ दधिबदराक्षतमिश्राः पिण्डा १० नान्दीमुखान्पितॄनावाहयिष्य इत्यावाहने ११ नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने १२ नान्दीमुखान्पितॄन्वाचयिष्य इति वाचने १३ संपन्नमिति तृप्तिप्रश्नः १४ समानमन्यदविरुद्धमिति १५ ४

अथोपाकरणम् १ ओषधीनां प्रादुर्भावे हस्तेन श्रवणेन वाक्षतसक्तूनां धानानां च दधिघृतमिश्राणां प्रत्यृचं वेदेन जुहुयादिति हैक आहुः ३ सूक्तानुवाकाद्याभिरिति वाध्यायार्षेयाद्याभिरिति माण्डूकेयोऽथ ह स्माह कौषीतकिरग्निमीळे पुरोहितमित्येका ७ कुषुम्भकस्तदब्रवीदावदँ स्त्वं शकुने भद्र मावद गृणाना जमदग्निना धामन्ते विश्वं भुवनमधि श्रितं गन्ता नो यज्ञं यज्ञियाः सुशमि यो नः स्वो अरणः प्रतिचक्ष्व विचक्ष्वाग्ने याहि मरुत्सखा यत्ते राजञ्छृतं हविरिति द्वृचास् ८ तच्छं योरावृणीमह इत्येका ९ हुतशेषाद्धविः प्राश्नन्ति दधिक्राव्णो अकारिषमित्येतयाचम्योपविश्य ११ महाव्याहृतीः सावित्रीं वेदादिप्रभृतीनि स्वस्त्ययनानि च जपित्वाचार्यं स्वस्तिवाच्य १३ तदपि भवति १४
अयातयामतां पूजां सारत्वं छन्दसां तथा
इच्छन्त ऋषयोऽपश्यन्नुपाकर्म तपोबलात् १५
तस्मात्षट्कर्मनित्येनात्मनो मन्त्रसिद्धये
उपाकर्तव्यमित्याहुः कर्मणां सिद्धिमिच्छता १६
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं भवेत्
अष्टकासु त्वहोरात्रमृत्वन्त्यासु च रात्रिषु १७ ५

माघशुक्लप्रतिपद्यपराजितायां दिशि २ बह्वौषधिके देश ३ उदु त्यं जातवेदसं चित्रं देवानां नमो मित्रस्य सूर्यो नो दिवस्पात्विति सौर्याणि जपित्वा ४ शास इत्था महानसीति प्रदक्षिणं प्रत्यृचं प्रतिदिशं प्रत्यस्य लोष्टान् ५ ऋषीँ श्छन्दाँ सि देवताः श्रद्धामेधे च तर्पयित्वा प्रतिपुरुषं च पितॄँ श्छन्दाँसि विश्रामयन्त्यर्धसप्तमान्मासान् ७ अर्धषष्ठान्वाधीयीरँ श्चेदहोरात्रमुपरम्य प्राध्ययनम् ९ ६

अथोपरमम् १ उत्पातेष्वाकालम् २ अन्येष्वद्भुतेषु च ३ विद्युत्स्तनयित्नुवर्षासु त्रिसंध्यम् ४ एकाहं श्राद्धभोजने ५ दशाहमघसूतकेषु च ६ चतुर्दश्यमावास्ययोरष्टकासु च ७ वासरेषु नभ्येषु चाचार्ये चोपरते दशाहं ९ श्रुत्वा त्रिरात्रं १० तत्पूर्वाणां च ११ प्रतिग्रहे श्राद्धवत् १२ सब्रह्मचारिणि १३ प्रेतमनुगत्वा १४ पितृभ्यश्च निधाय पिण्डान् १५ निशां १६ संध्यां १७ पर्वस्वस्तमिते १९ शूद्र संनिकर्षे २० सामशब्दे २१ श्मशाने २२ ग्रामारण्ये २३ अन्तःशवे ग्रामे २४ अदर्शनीयाद् २५ अश्रवणीयाद् २६ अनिष्टघ्राणे २७ अतिवाते २८ अभ्रे प्रावर्षिणि २९ रथ्यायां ३० वीणाशब्दे च ३१ रथस्थः ३२ शूद्र वच्छुनि ३३ वृक्षारोहणे ३४ अवटारोहणे ३५ अप्सु ३६ क्रन्दत्यार्त्यां ३८ नग्न ३९ उच्छिष्टः ४० संक्रमे ४१ केशश्मश्रूणि वापन आ स्नानाद् ४२ उत्सादने ४३ स्नाने ४४ संवेशने ४५ अभ्यञ्जने ४६ प्रेतस्पर्शिनि सूतिकोदक्ययोश्च शूद्र वद् ४७ अपिहितपाणिः ४८ सेनायाम् ४९ अभुञ्जाने ब्राह्मणे गोषु चातिक्रान्तेष्वधीयीरन् ५१ एतेषां यदि किंचिदकामोत्पातो भवेत्प्राणानायम्यादित्यमीक्षित्वाधीयीत ५२ विद्युत्स्तनयित्नुवर्षवर्जं कल्पे वर्षवदर्धषष्ठेषु ५३ तदप्येतत् ५४ अन्नमापो मूलफलं यच्चान्यच्छ्राद्धिकं भवेत् । प्रतिगृह्याप्यनध्यायः पाण्यास्यो ब्राह्मणः स्मृत इति ५५ ७

न्यायोपेतेभ्यश्च वर्तयेत् १ प्राङवोदङ्वासीन आचार्यो दक्षिणत उदङ्मुख इतरो द्वौ वा ३ भूयाँ सस्तु यथावकाशं ४ नोच्छ्रितासनोपविष्टो गुरुसमीपे ५ नैकासनस्थो न प्रसारितपादो न बाहुभ्यां जानूपसंगृह्य ८ नोपाश्रितशरीरो ९ नोपस्थकृतपादो १० न पादकुठारिकां कृत्वाधीहि भो३ इत्युक्त्वाचार्य ॐकारं प्रचोदयेद् १२ ओमितीतरः प्रतिपद्यते १३ तत्संततमधीयीताधीत्योपसंगृह्य १५ विरताः स्म भो३ इत्युक्त्वा यथार्थं १६ विसृष्टं विरामस्तावदित्येके १७ नाधीयतामन्तरा गच्छेन् १८ नात्मानं विपरिहरेदधीयानो १९ यदि चेद्दोषः स्यात्त्रिरात्रमुपोष्याहोरात्रं वा सावित्रीमभ्यावर्तयेद्यावच्छक्नुयाद् ब्राह्मणेभ्यः किंचिद्दद्यादहोरात्रमुपरम्य प्राध्ययनम् २० ८

स्नात १ उपस्पर्शनकालेऽवगाह्य देवतास्तर्पयत्यग्निस्तृप्यतु वायुस्तृप्यतु सूर्यस्तृप्यतु विष्णुस्तृप्यतु प्रजापतिस्तृप्यतु विरूपाक्षस्तृप्यतु सहस्राक्षस्तृप्यतु सोमः ब्रह्मा वेदाः देवाः ऋषयः सर्वाणि च छन्दाँ सि ॐकारः वषट्कारः महाव्याहृतयः सावित्री यज्ञाः द्यावापृथिवी नक्षत्राणि अन्तरिक्षमहोरात्राणि संख्याः संध्याः समुद्राः नद्यः गिरयः क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसः नागाः वयाँ सि सिद्धाः साध्याः विप्राः यक्षाः रक्षाँ सि भूतान्येवमन्तानि तृप्यन्तु श्रुतिं तर्पयामि स्मृतिं तर्पयामि धृतिं तर्पयामि रतिं तर्पयामि गतिं तर्पयामि मतिं तर्पयामि श्रद्धामेधे धारणां च गोब्राह्मणं स्थावरजङ्गमानि सर्वभूतानि तृप्यन्त्विति यज्ञोपवीती ९

अथ प्राचीनावीती १ पित्र्यां दिशमीक्षमाणः २ शतर्चिनः माध्यमाः गृत्समदः विश्वामित्रः जमदग्निः वामदेवः अत्रिः भरद्वाजः वसिष्ठः प्रगाथाः पावमानाः क्षुद्र सूक्तमहासूक्ताः सुमन्तुः जैमिनिवैशम्पायनपैलसूत्रभाष्यागार्ग्यबभ्रुबाभ्रव्यमण्डुमाण्डव्याः गार्गी वाचक्नवी वडवा प्रातिथेयी सुलभा मैत्रेयी कहोलं कौषीतकिं महाकौषीतकिं सुयज्ञं शाङ्खायनमाश्वलायनमैतरेयं महैतरेयं भारद्वाजं जातूकर्ण्यं पैङ्ग्यं महापैङ्ग्यं बाष्कलं गार्ग्यं शाकल्यं माण्डूकेयं महादमत्रम् औदवाहिं महौदवाहिं सौयामिं शौनकिं शाकपूणिं गौतमिं ये चान्य आचार्यास्ते सर्वे तृप्यन्त्विति ३ प्रतिपुरुषं पितरः ४ पितृवँ शस्तृप्यतु ५ मातृवँ शस्तृप्यतु ६ १०

न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनान् १ नादित्यं संधिवेलयोरनाप्तम् ३ अकार्यकारिणं ४ प्रेतस्पर्शिनं ५ सूतिकोदक्याभ्यां न संवदेद् ६ एतैश्चोद्धृततेजाँ सि न भुञ्जीत ८ न यातयामैः कार्यं कुर्यान् ९ न सह भुञ्जीत १० न शेषं ११ पितृदेवतातिथिभृत्यानां शेषं भुञ्जीतोञ्छशिलमयाचितप्रतिग्रहः साधुभ्यो याचितो वा याजनं वृत्तिः १३ पूर्वंपूर्वं गरीयोऽसंसिध्यमानायां वैश्यवृत्तिर्वाप्रमत्तः पितृदैवतकार्येष्वृतौ स्वदारगामी १७ न दिवा शयीत १८ न पूर्वापररात्रौ १९ न भूमावनन्तर्हितायामासीत २० नित्योदकी २१ यज्ञोपवीती २२ न विरहयेदाचार्यम् २३ अन्यत्र नियोगाद् २४ अनुज्ञातो वा २५ ११

अहरहराचार्यायाभिवादयेत १ गुरुभ्यश्च २ समेत्य श्रोत्रियस्य ३ प्रोष्य प्रत्येत्याश्रोत्रियस्यासावहं भो३ इत्यात्मनो नामादिश्य व्यत्यस्य पाणी ५ असावित्यस्य पाणी संगृह्याशिषमाशास्ते ६ नावृतो यज्ञं गच्छेद् ७ अधर्माच्च जुगुप्सेत ८ न जनसमवायं गच्छेन् ९ नोपर्युद्दिशेत्समेत्यानाक्रोशकोऽपिशुनः कुलंकुलो नेतिहेतिः स्यान् ११ नैकश्चरेन् १२ न नग्नो १३ नापिहितपाणिर् १४ देवायतनानि प्रदक्षिणं १५ न धावेन् १६ न निष्ठीवेन् १७ न कण्डूयेन् १८ मूत्रपुरीषे नावेक्षेतावगुण्ठ्यासीत २० नानन्तर्हितायां २१ यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा २२ नादित्यमभिमुखो न जघनेनाहरुदङ्मुखो नक्तं दक्षिणामुखो न चाप्सु श्लेष्म न च समीपे २६ न वृक्षमारोहेन् २७ न कूपमवेक्षेत २८ न धुवनं गच्छेन् २९ न त्वेव तु श्मशानं ३० सवस्त्रोऽहरहराप्लवेद् ३१ आप्लुत्याव्युदकोऽन्यद्वस्त्रमाच्छादयेत् ३२ १२


रोहिण्यां कृषिकर्माणि कारयेत् १ पुरस्तात्कर्मणां प्राच्यां क्षेत्रमर्यादायां द्यावापृथिवीबलिं हरेद् २ द्यावापृथिवीययर्चा नमो द्यावापृथिवीभ्यामिति चोपस्थानं ३ प्रथमप्रयोगे सीरस्य ब्राह्मणः सीरं स्पृशेच्छुनं नः फाला इत्येतामनुब्रुवन् ४ क्षेत्रस्य पतिनेति प्रदक्षिणं प्रत्यृचं प्रतिदिशमुपस्थानम् ५ १३

उदकं तरिष्यन्स्वस्त्ययनं करोत्युदकाञ्जलीँ स्त्रीनप्सु जुहोति । समुद्रा य वैणवे नमो वरुणाय धर्मपतये नमो नमः सर्वाभ्यो नदीभ्यः २ सर्वासां पित्रे विश्वकर्मणे दत्तं हविर्जुषतामिति जपित्वा ३ प्रतीपं स्रवन्तीभ्य उन्नीयं स्थावराभ्यस् ४ तरँ श्चेद्भयं शङ्केद्वासिष्ठं सूक्तं जपेत्समुद्र ज्येष्ठा इत्येतत्प्लवम् ५ १४


श्रवणं श्रविष्ठीयायां पौर्णमास्यामक्षतसक्तूनां स्थालीपाकस्य वा जुहोति १ विष्णवे स्वाहा श्रवणाय स्वाहा श्रावण्यै पौर्णमास्यै स्वाहा वर्षाभ्यः स्वाहेति २ गृह्यमग्निं बाह्यत उपसमाधाय लाजानक्षतसक्तूँ श्च सर्पिषा संनिनीय जुहोति ३ दिव्यानां सर्पाणामधिपतये स्वाहा दिव्येभ्यः सर्पेभ्यः स्वाहेत्युत्तरेणाग्निं प्रागग्रेषु नवेषु कुशेषूदकुम्भं नवं प्रतिष्ठाप्य ५ दिव्यानां सर्पाणामधिपतिरवनेनिक्तां दिव्याः सर्पा अवनेनिजतामित्यपो निनयति ६ दिव्यानां सर्पाणामधिपतिः प्रलिखतां दिव्याः सर्पाः प्रलिखन्तामिति फणेन चेष्टयति ७ दिव्यानां सर्पाणामधिपतिः प्रलिम्पतां दिव्याः सर्पाः प्रलिम्पन्तामिति वर्णकस्य मात्रा निनयति ८ दिव्यानां सर्पाणामधिपतिराबध्नीतां दिव्याः सर्पा आबध्नतामिति सुमनस उपहरति ९ दिव्यानां सर्पाणामधिपतिराच्छादयतां दिव्याः सर्पा आच्छादयन्तामिति सूत्रतन्तुमुपहरति १० दिव्यानां सर्पाणामधिपतिराङ्क्तां दिव्याः सर्पा आञ्जतामिति कुशतरुणेनोपघातमाञ्जनस्य करोति ११ दिव्यानां सर्पाणामधिपतिरीक्षतां दिव्याः सर्पा ईक्षन्तामित्यादर्शेनेक्षयति १२ दिव्यानां सर्पाणामधिपत एष ते बलिर्दिव्याः सर्पा एष वो बलिरिति बलिमुपहरत्येवमान्तरिक्षाणां १४ दिश्यानां १५ पार्थिवानामिति १६ त्रिस्त्रिरुच्चैस्तरामुच्चैस्तरां पूर्वं १७ नीचैस्तरांनीचैस्तरामुत्तरम् १८ एवमहरहरक्षतसक्तूनां दर्वेणोपघातमा प्रत्यवरोहणाद्रा त्रौ वाग्यतः सोदकं बलिं हरेद् १९ वाग्यता चैनमुपसादयेद् २० य उपक्रमः स उत्सर्गः २१ सुत्रामाणमिति शय्यामारोहेत् २२ १५

आश्वयुज्यां पौर्णमास्यामैन्द्रः पायसोऽश्विभ्यां स्वाहाश्वयुग्भ्यां स्वाहाश्वयुज्यै पौर्णमास्यै स्वाहा शरदे स्वाह पशुपतये स्वाहा पिङ्गलाय स्वाहेत्याज्यस्य हुत्वाथ पृषातकस्या गावो अग्मन्नित्येतेन सूक्तेन प्रत्यृचं जुहुयान् ३ मातृभिर्वत्सान्त्संसृजन्ति तां रात्रीम् ४ अथ ब्राह्मणभोजनम् ५ १६

आग्रहायण्यां प्रत्यवरोहेद् १ रोहिण्यां प्रोष्ठपदासु वा २ प्रातः शमीपलाशमधूकेषीकापामार्गाणां शिरीषोदुम्बरकुशतरुणबदरीणां च पूर्णमुष्टिमादाय सीतालोष्टं चोदपात्रेऽवधाय ४ महाव्याहृतीः सावित्रीं चोद्द्रुत्याप नः शोशुचदघमित्येतेन सूक्तेन तस्मिन्निमज्ज्यनिमज्ज्य प्रदक्षिणं शरण्येभ्यः पाप्मानमपहत्योत्तरतो निनयेन् ५ मधुपर्को दक्षिणा ६ १७

ग्रीष्मो हेमन्त उत वा वसन्तः शरद्वर्षाः सुकृतं नो अस्तु
तेषामृतूनां शतशारदानां निवात एषामभये स्याम स्वाहा
अप श्वेत पदा जहि पूर्वेण चापरेण च
सप्त च वारुणीरिमाः सर्वाश्च राजबान्धवीः स्वाहा
श्वेताय वैदार्वाय स्वाहा विदार्वाय स्वाहा तक्षकाय वैशालेयाय स्वाहा
विशालाय स्वाहेत्याज्यस्य हुत्वा १ सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयताम् । सुवर्षाः सन्तु नो वर्षाः शरदः शं भवन्तु न इति २ शं नो मित्र इति पलाशशाखया विमृज्य ३ समुद्रा दूर्मिरित्यभ्युक्ष्य ४ स्योना पृथिवि भवेति स्रस्तरमास्तीर्य ५ ज्येष्ठदक्षिणाः पार्श्वैः संविशन्ति ६ प्रति ब्रह्मन्प्रतितिष्ठामि क्षत्र इति दक्षिणैः ७ प्रत्यश्वेषु प्रतितिष्ठामि गोष्विति सव्यैः ८ प्रति पशुषु प्रतितिष्ठामि पुष्टाविति दक्षिणैः ९ प्रति प्रजायां प्रतितिष्ठाम्यन्न इति सव्यैः १० उदीर्ध्वं जीव इत्युत्थानं ११ स्रस्तरे तां रात्रीं शेरते १२ यथासुखमत ऊर्ध्वम् १३ १८

चैत्र्यां पौर्णमास्यां १ कर्कन्धुपर्णानि मिथुनानां च यथोपपादं पिष्टस्य कृत्वैन्द्रा ग्नस्तुण्डिलो रौद्रा गोलका ४ लोकतो नक्षत्राण्यन्वाकृतयश्च लोकतो नक्षत्राण्यन्वाकृतयश्च ५ १९
इति चतुर्थोऽध्यायः


अथ पञ्चमोऽध्यायः
परिशिष्टम्
अथ प्रवत्स्यन्नात्मन्नरण्योः समिधि वाग्निं समारोहयत्येहि मे प्राणानारोहेति सकृत्सकृन्मन्त्रेण द्विर्द्विस्तूष्णीम् २ अयं ते योनिरिति वारणी प्रतितपति ३ समिधं वानस्तमिते च मन्थनं ५ वैश्वदेवकाले चोपलिप्त उद्धतावोक्षिते लौकिकमग्निमाहृत्योपावरोहेत्युपावरोहणम् ७ अनुगतेऽग्नौ सर्वप्रायश्चित्ताहुती हुत्वा पाहि नो अग्न एधसे स्वाहा पाहि नो विश्ववेदसे स्वाहा यज्ञं पाहि विभावसो स्वाहा सर्वं पाहि शतक्रतो स्वाहेति ८ व्रतहाना उपोष्याज्यस्य हुत्वा त्वमग्ने व्रतपा इति ९ १

अथ पुष्करिणीकूपतडागानां १ शुद्धपक्षे पुण्ये वा तिथौ २ पयसा यवमयं चरुं श्रपयित्वा ३ त्वं नो अग्न इति द्वाभ्यामव ते हेळ इमं मे वरुणोदुत्तमं वरुणेमां धियं शिक्षमाणस्य ४ गृह्योऽपगृह्यो मयोभूराखरो निखरो निःसरो निकामः सपत्नदूषण इति वारुण्या दिक्प्रभृति प्रदक्षिणं जुहुयान् ५ मध्ये पयसा जुहोति विश्वतश्चक्षुरिदं विष्णुरिति ६ यत्किं चेदमिति मज्जयित्वा ७ धेनुर्दक्षिणा वस्त्रयुग्मं चातो ब्राह्मणभोजनम् ९ २

अथारामेऽग्निमुपसमाधाय १ स्थालीपाकं श्रपयित्वा २ विष्णवे स्वाहेन्द्रा ग्निभ्यां स्वाहा विश्वकर्मणे स्वाहेति यान्वो नर इति प्रत्यृचं जुहुयाद् ३ वनस्पते शतवल्श इत्यभिमन्त्र्य ४ हिरण्यं दक्षिणा ५ ३

यदि पार्वणस्त्वकृतोऽन्यतरस्ततश्चरुरग्नये वैश्वानराय स्वाहाग्नये तन्तुमते स्वाहेति २ होमातिक्रमे ३ सायं दोषावस्तर्नमः स्वाहा ४ प्रातः प्रातर्वस्तर्नमः स्वाहेति ५ यावन्तो होमास्तावतीर्हुत्वा पूर्ववद्धोमः ६ ४

कपोतोलूकाभ्यामुपवेशने १ देवाः कपोत इति प्रत्यृचं जुहुयाद् २ दुःस्वप्नदर्शने चारिष्टदर्शने च ३ निशायां काकशब्दक्रान्ते चान्येषु चाद्भुतेषु च ५ पयसा चरुं श्रपयित्वा ६ सरूपवत्साया गोः पयसि ७ न त्वेव तु कृष्णाया ७ रात्रीसूक्तेन प्रत्यृचं जुहुयाद् ९ हुतशेषं महाव्याहृतिभिः प्राश्य १० भद्रं कर्णेभिरिति कर्णौ ११ शतमिन्नु शरदो अन्ति देवा इत्यात्मानमभिमन्त्र्य १२ ब्राह्मणेभ्यः किंचिद्दद्यात् १३ ५

व्याधौ समुत्थित १ इमा रुद्रा य तवसे कपर्दिन इति प्रत्यृचं गावेधुकं चरुं जुहुयात् २ ६

अकृतसीमन्तोन्नयने चेत्प्रजायेताकृतजातकर्मासीत् २ ततोऽतीते दशाह उत्सङ्गे मातुः कुमारकं स्थापयित्वा ३ महाव्याहृतिभिर्हुत्वा पूर्ववद्धोमः ४ ७

स्थूणाविरोहणे १ स्थालीपाकं श्रपयित्वाया विष्ठा जनयन्कर्वराणि पिशङ्गरूपः सुभरो वयोधा इति द्वाभ्यां चरुं जुहुयाद् २ यदि प्रणीताचरुराज्यस्थाल्यन्यदपि मृन्मयं भिन्नं स्रवेत् ३ सर्वप्रायश्चित्ताहुतीर्हुत्वा य ऋते चिदिति तृचेन भिन्नमनुमन्त्रयते ४ यद्यसमाप्ते होमे पवित्रे नश्येते ५ सर्वप्रायश्चित्तं हुत्वाप्स्वग्न इति पुनरुत्पादयेत् ६ ८

अथ सपिण्डीकरणं १ चत्वार्युदपात्राणि पूरयित्वा पितुः प्रभृति २
तद्वत्पिण्डान्कल्पयित्वा ३
ये समानाः समनसः पितरो यमराज्ये
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पतां
ये समानाः समनसो जीवा जीवेषु मामकाः
तेषां श्रीर्मयि कल्पतामस्मिँ लोके शतं समाः
समानो मन्त्र इति द्वाभ्यामाद्यं पिण्डं त्रिषु विभजेत् ४ तथैवार्घपात्राणि ५ एवं मातुर्भ्रातुर्भार्यायाः पूर्वमारिण्या एभिः पिण्डैः प्रक्षिप्य ६ ९

यदि गृहे मधूका मधु कुर्वन्त्युपोष्यौदुम्बरीः समिधोऽष्टशतं दधिमधुघृताक्ता मा नस्तोक इति द्वाभ्यां जुहुयाच्छं न इन्द्रा ग्नी इति च सूक्तं जपेत्सर्वेषु च कर्मसु प्रतिश्रुतादिषु ३ प्रादेशमात्रीः पालाशीः समिधः सप्तदश हुत्वा पश्चात्स्रुवग्रहणं ४ दर्शपूर्णमासयोः पञ्चदश ५ मध्यावर्षेऽष्टके तिस्रो वा भवन्ति पितृयज्ञवद्धोमः ६ १०

यदि गृहे वल्मीकसंभूतिर्गृहोत्सर्गोऽथ त्रिरात्रमुपोष्य महाशान्तिं कुर्यान्महाशान्तिं कुर्यात् ११
इति पञ्चमोऽध्यायः

अथ षष्ठोऽध्याय
अथातो ब्रह्माणं ब्रह्मऋषिं ब्रह्मयोनिमिन्द्रं प्रजापतिं वसिष्ठं वामदेवं कहोलं कौषीतकिं महाकौषीतकिं सुयज्ञं शाङ्खायनमाश्वलायनमैतरेयं महैतरेयं कात्यायनं शाट्यायनं शाकल्यं बभ्रुं बाभ्रव्यं मण्डुं माण्डव्यं सर्वानेव पूर्वाचार्यान्नमस्य स्वाध्यायारण्यकस्य नियमानुदाहरिष्यामोऽहोरात्रं ब्रह्मचर्यमुपेत्याचार्योऽमाँ साश्यामपिशितं चण्डालं सूतिकां रजस्वलां तेदन्यपहस्तकदर्शनान्यनध्यायकानि ३ शवरूपाणां च ४ यान्यास्ये न प्रविशेयुर्वान्तकृतश्मश्रुकर्म ६ माँ साशनश्राद्धसूतकभोजनेषु ७ ग्रामाध्ययनानन्तर्हितान्यहानि ८ त्रिरात्रोऽनवकॢप्तः ९ पराभिमृष्ट १० उपपर्वणामह्न उत्तरार्धानि चाग्निविद्युत्स्तनयित्नुवर्षामहाभ्रप्रादुर्भावाच्च १२ वाते च शर्कराकर्षिणि यावत्कालम् १३ १

ऊर्ध्वमाषाढ्याश्चतुरो मासान्नाधीयीतात्यन्तं शक्वर्य इति नियमाः २ प्राग्ज्योतिषमपराजितायां दिशि पुण्यमुपगम्य देशम् ३ अनुदित उदकग्रहणं ४ मण्डलप्रवेशश्चाञ्जनगन्धिमित्येतयर्चा ५ मण्डलं तु प्राग्द्वारमुदग्द्वारं वाजनाग्रीयमसंप्रमाणमसंबाधम् ६ आवामदेव्यमुत्तरशान्तिः ७ पुनःप्राध्येषणं च ८ बहिर्मण्डलस्थाभिराचम्य ९ प्राधीयीरन्कृतशान्तयः १० शान्तिपात्रोपघाते प्रोक्षणं प्रायश्चित्तिः ११ प्रोक्षणं तु हिरण्यवता पाणिना दर्भपिञ्जूलवता वेति भाषिकम् १२ २

अथ प्रविश्य मण्डलं १ प्राङ्मुख आचार्य उपविशत्युदङ्मुखा दक्षिणत इतरे यथाप्रधानम् २ असंभवे सर्वतोमुखाः ३ प्रतीक्षेरन्नुदयमादित्यस्य ४ विज्ञाय चैनं दीधितिमन्तम् ५ अधीहि भो३ इति दक्षिणैर्दक्षिणं सव्यैः सव्यं दक्षिणोत्तरैः पाणिभिरुपसंगृह्य पादावाचार्यस्य निर्णिक्तावथाधाय शान्तिपात्रे दूर्वाकाण्डवतीष्वप्स्वपिन्वमानैः पाणिभिः प्राधीयीरन् ७ एष विधिर्यदि तु ग्लायेरन्नेक एषामशून्यं शान्तिभाजनं कुर्याद् ८ अध्यायाद्यन्तयोश्च सर्वे ९ तत्सन्ततमव्यवच्छिन्नं भवति १० अथ शान्तिः ११ ॐकारो महाव्याहृतयः सावित्री रथन्तरं बृहद्वामदेव्यं पुनरादायं ककुप्कारमिति बृहद्र थन्तरे १२ दशैताः संपादिता भवन्ति १३ दशदशिनी विराळित्येतद्ब्राह्मणम् १४ ३

अदब्धं मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हिँ सीरिति सवितारमीक्षन्ते १ युवं सुराममित्येका स्वस्ति नः पथ्यास्विति च तिस्र इति महाव्रतस्य २ शक्वरीणां तु पूर्वं ३ प्रत्यस्मै पिपीषते यो रयिवो रयिन्तमस्त्यमु वो अप्रहणमिति त्रयस्तृचा अस्माअस्मा इदन्धस इत्येवा ह्यसि वीरयुरित्यभितः शक्वरीणाम् ४ अथोपनिषदां ५ यैवं महाव्रतस्य ६ संहितानां तु पूर्वमृतं वदिष्यामि सत्यं वदिष्यामीति विशेषोऽथ मन्थस्य तत्सवितुर्वृणीमहे तत्सवितुर्वरेण्यमिति पूर्वे चादब्धं मन इत्याधिकारिकाः शान्तयस्तत ९ इत्याह्निकम् १० अथोत्थानकालेऽपकृष्य पापं ११ नित्यां शान्तिं कृत्वोदितः शुक्रियं दध इत्यादित्यमीक्षन्ते १३ ४

तमहमात्मनीत्यात्मानमभिनिहितं त्रिर्हितम् १ उप मा श्रीर्जुषतामुप यशोऽनु मा श्रीर्जुषतामनु यशः २ सेन्द्रः सगणः सबलः सयशः सवीर्य उत्तिष्ठानीत्युत्तिष्ठति ३ श्रीर्मा उत्तिष्ठतु यशो मा उत्तिष्ठत्वित्युत्थायेदमहं द्विषन्तं भ्रातृव्यं पाप्मानमलक्ष्मीं चापधुनोमीति वस्त्रान्तमवधूयाप प्राच इति सूक्तमिन्द्र श्च मृळयाति न इति द्वे यत इन्द्र भयामह इत्येका शास इत्था महानसीति प्राचीं स्वस्तिदा इति दक्षिणां दक्षिणावृतो वि रक्ष इति प्रतीचीं वि न इन्द्रे त्युदीचीं सव्यावृतोऽपेन्द्रे ति दक्षिणावृतो दिवमुदीक्षन्ते ६ ५

सविता पश्चातात्तच्चक्षुरित्यादित्यमुपस्थाय १ व्यावर्तमानाश्च प्रत्यायन्त्युपविशन्ति २ यथापः शान्ता इति शान्तिपात्रादप आदाय ३ पृथिव्यामवनिनीय ४ यथा पृथिवीत्यस्याभिकर्षन्त्येवं मयि शाम्यत्विति दक्षिणेँ से निलिम्पत्येवं द्वितीयम् ७ एवं तृतीयम् ८ काण्डात्काण्डात्संभवसि काण्डात्काण्डात्प्ररोहसि शिवा नः शाले भवेति दूर्वाकाण्डमादाय मूर्धनि कृत्वाग्निस्तृप्यतु वायुस्तृप्यतु सूर्यस्तृप्यतु विष्णुस्तृप्यतु प्रजापतिस्तृप्यतु विरूपाक्षस्तृप्यतु सहस्राक्षस्तृप्यतु सर्वभूतानि तृप्यन्त्विति १० सुमन्तुजैमिनिवैशम्पायनपैलाद्याचार्याः ११ पितॄन्प्रत्यात्मिकान् १२ समुद्रं व इत्यपो निनीय १३ वामदेव्यं जपित्वा १४ यथाकामं विप्रतिष्ठन्ते १५ यथागमप्रज्ञाश्रुतिस्मृतिविभवादनुक्रान्तमानादविवादप्रतिष्ठादभयं शंभवे नो अस्तु नमोऽस्तु देवऋषिपितृमनुष्येभ्यः शिवमायुर्वपुरनामयं शान्तिमरिष्टिमक्षितिमोजस्तेजो यशो बलं ब्रह्मवर्चसं कीर्तिमायुः प्रजां पशून्नमो नमस्कृता वर्धयन्तु दुष्टुताद्दुरुपयुक्तान्न्यूनाधिकाच्च सर्वस्मात्स्वस्ति देवऋषिभ्यश्च ब्रह्म सत्यं च पातु मामिति ब्रह्म सत्यं च पातु मामिति १६ ६
इति शाङ्खायनगृह्ये षष्ठोऽध्यायः

समाप्तं चेदं शाङ्खायनगृह्यसूत्रम्