सामग्री पर जाएँ

शाक्तविज्ञानम्

विकिस्रोतः तः

स्थानं प्रवेशो रूपं च लक्षं लक्षणमेव च । (१.१)
उत्थापनं बोधनं च चक्रविश्राममेव च ॥ (१.२)

भूमिकागमनं चैव अन्तावस्था तथैव च । (२.१)
विश्रामः परिणामश्च तथागमनमेव च ॥ (२.२)

इति त्रयोदशविधं शाक्तं विज्ञानमुत्तमम् । (३.१)
सर्वेषु त्रिकशास्त्रेषु सूचितं शम्भुना स्वयम् ॥ (३.२)

नाभ्यधोऽङ्गुलाः पञ्च मेढ्रस्योर्ध्वाङ्गुलद्वयम् । (४.१)
तन्मध्ये कन्दनामा च चक्रस्थानमिति स्मृतम् ॥ (४.२)

प्राणापाननिरोधेन मनस्तत्रैव निःक्षिपेत् । (५.१)
सम्यग् वायुगतिं जित्वा यावन् मध्यगतां नयेत् ॥ (५.२)

एष प्रवेश इत्य् आहू रूपं वक्ष्यामि चाधुना । (६.१)
शृङ्गाटकनिभं चक्रं षडरं चापरं ध्रुवम् ॥ (६.२)

दाडिमीकुसुमप्रख्यं कन्दं वै जातिलोहितम् । (७.१)
एतद्रूपं समाख्यातं तृतीयं चिन्तनात्मकम् ॥ (७.२)

तन्मध्ये निक्षिपेच् चित्तं यावत् तत्र स्थिरीकृतम् । (८.१)
त्यक्तरुद्धो यदा वायुस्तदा लक्षं विनिर्दिशेत् ॥ (८.२)

कन्दचक्रस्य मध्यस्था त्वनाहतमयी कला । (९.१)
अधऊर्ध्वे रेखासंयुक्ता भुजंगकुटिलाकृतिः ॥ (९.२)

ऊर्ध्वाधोऽवस्थितावस्था सूर्याचन्द्रमसाव् उभौ । (१०.१)
सत्यं विराजमाना सा सहस्रार्कसमप्रभा ॥ (१०.२)

तामेवालोकयेच् छक्तिं मनाक् कुम्भकवृत्तिना । (११.१)
एतल् लक्षणम् उद्दिष्टम् उत्थापनम् अतः परम् ॥ (११.२)

जुषद्रेचकवृत्त्या तु मन्त्रं चैव समुच्चरेत् । (१२.१)
प्रबुद्धां चिन्तयेच्छक्तिं दण्डवत् परमेश्वरीम् ॥ (१२.२)

आधारमध्यादायाता सुषुम्नामार्गम् आश्रिता । (१३.१)
उत्थापनं समाख्यातं बोधनं परतस्तथा ॥ (१३.२)

कन्दस्थो वेधयेन् नाभिं ततो हृत्स्थं पितामहम् । (१४.१)
कण्ठस्थमच्युतं साक्षाद्रुद्रं तालुतले स्थितम् ॥ (१४.२)

भ्रुवोर्मध्यगतं त्व् ईशं ब्रह्मद्वारे सदाशिवम् । (१५.१)
बोधयित्वा व्रजेद् आशु पदं चानाश्रितं शिवम् ॥ (१५.२)

एतद्बोधनम् उद्दिष्टं चक्रविश्रामणं ततः । (१६.१)
स्वाभाविकं दलं दीप्तं द्रवं स्थिरनभोपमम् ॥ (१६.२)

अमृतं शेखरं चैव शक्तिर्ब्रह्मा तथैव च । (१७.१)
बिन्दुनादं तथा प्रोक्तं चक्रद्वादशकं किल ॥ (१७.२)

वेधयन्ती क्रमाच् छक्तिश्चक्रे चक्रे प्रतिक्षणम् । (१८.१)
विश्रमेत् सा महादेवी चक्रविश्राम उत्तमः ॥ (१८.२)

हृदयं कम्पते पूर्वं तालुकद्वारमेव च । (१९.१)
शिरश्च भ्रमते तस्य दृष्टिसंक्रान्तिलक्षणम् ॥ (१९.२)

एकैकं भ्रमयत्यङ्गम् अङ्गप्रत्यङ्गसंधिषु । (२०.१)
घूर्णते हृदयं चास्य सम्यग्विद्याप्रभावतः ॥ (२०.२)

यानि यानि विकाराणि अवस्था कुरुते सतः । (२१.१)
तेषु तेषु न भेतव्यं क्रीडति परमेश्वरी ॥ (२१.२)

अमृते सेयम् उन्मत्ता विकारान् कुरुते बहून् । (२२.१)
मलत्रयविकारौ बहुजन्मसु यत्कृतम् ॥ (२२.२)

धुनोति समलान् पाशात् परशक्तिसमुत्थितान् । (२३.१)
भूमिकागमनं प्रोक्तम् अन्तावस्था तथोच्यते ॥ (२३.२)

यत् संक्रान्तौ रोमहर्षोऽस्रुपातो जृम्भारम्भो गद्गदा गीर् गिरोऽन्तः । (२४.१)
ग्रन्थिस्प्होटः स्पर्शदिव्यप्रहर्षो बिन्दुस्पन्दा नाभिकन्दात् स्प्हुरन्ति ॥ (२४.२)

अन्तावस्था समाख्याता विश्रामस् त्वधुनोच्यते । (२५.१)
नाभिचक्रविनिर्याता यदा शक्तिः प्रबुध्यते ॥ (२५.२)

तदा त्वस्तमितं सर्वमक्षग्रामं बहिः स्थितम् । (२६.१)
यदा सा परमा शक्तिः सुलीना परमे पदे ॥ (२६.२)

तदा न विन्दते किंचिद् विषयी विषयान्तरम् । (२७.१)
शिवे विश्राम्यते शक्तिस्तदा विश्राम उच्यते ॥ (२७.२)

यत्र विश्रमणं शक्तेर्मनस्तत्र लयं व्रजेत् । (२८.१)
तदात्मा परमात्मत्वे ज्ञातव्यो निश्चितात्मभिः ॥ (२८.२)

शिवीभूतो भवत्यात्मा परिणामः स एव हि । (२९.१)
सदा स वर्षते दिव्यम् अमृतं जन्तुजीवनम् ॥ (२९.२)

चित्तं तत्र तु संधार्य पुनर्दैवी विशेत्तु सा । (३०.१)
तदा त्व् आगमनं प्रोक्तमेवं सम्यक् त्रयोदश ॥ (३०.२)

वाह्यसूत्रम्

[सम्पाद्यताम्]
"https://sa.wikisource.org/w/index.php?title=शाक्तविज्ञानम्&oldid=332714" इत्यस्माद् प्रतिप्राप्तम्