शर्करार्थं पिपीलिका–यात्रा (यात्रानिबन्धः)

विकिस्रोतः तः
Jump to navigation Jump to search

अहं धरानस्थिते पिण्डेश्वर संस्कृत विद्यापीठे शास्त्री कक्षायां अध्ययनमकरवम् । छात्रावास्य निवासमासीत् । निकटतमेषु मित्रेषु एक मित्र सङ्खुवासभा मण्डलस्य खराङ ग्रामनिवासी डुण्डिराज त्रिताल आसीत् । स गृहाद् इक्षुशर्करां आनयति स्म । डुण्डिराजस्य गृहादागमनसमये वयं तस्य झोलायां पिपीलिकाशदृशं आक्रमणं कृतवन्तः । तस्मिन् समये स क्रुध्यति स्म । एकस्मिन् दिने डुण्डिराज जयराम गौतमं, जीवनप्रसाद तिमसिनां एवं माम् च शर्करां भक्षितुं स्वगृहं गन्तुमागं्रहमकरोत् । वयमपि भ्रमणावलोकनलोभाच्च यात्रार्थमुद्यता अभवाम । त्रिचत्वारिंशोत्तर–द्विसहस्र–विक्रमाब्दे फाल्गुण मासस्य सप्तम दिवसे वृहस्पतिवासरे (२०४३/११/७) वयम् स्नातक द्वितीयवर्षस्य विद्यार्थिनो मिलित्वा डुण्डीराजस्य गृहम्प्रति यात्रायाः प्रारम्भं कृतवन्तः । प्रथमं धरानतो मोटरयानेन यात्रा कृता । येन मोटरयानेन यात्रा कृता तस्मिन् याने स्थातुं यानि आसनानि तेभ्य अधिका यात्रिण आसन् तत्राधिकांशाः पर्वतीया आसन् । केऽप्यासने स्थिताः केऽप्यासनाभावे उत्थाय स्थिता आसन् ।

धरानतो गतं यानं यदा भेडेटारं प्राप्तं तदैव विकृतं जातम् । अतो यानादवतीर्य वयं यत्रतत्र भ्रमणं दृश्यावलोकनञ्च कृतवन्तः । तत्रैकः प्राथमिक विद्यालयो दृष्टोऽस्माभिः इक्षुदण्डानि खादन्तिस्म जनाः । तत्रस्था युवतीयुवकाः बलिष्टा दृष्टाः । अन्येऽपि जना बलवन्ता एवाऽऽसन् । एका घटिका यावत् पर्यन्तं तत्र भ्रमित्वा पुनस्ततो गमनमभवत् । धरानतः कुटिलेन मार्गेण उपर्युपरि गतं यानं पुनर्भेडेटारात् कुटिलेनैव मार्गेण अधोऽधो गत्वा लेउती नदी तटंं प्राप्तम् । किञ्चित् समयं तस्यास्तटस्य निकटे स्थितेन मार्गेण गमनमभवत् । ततस्तम्बर नदी प्राप्ता । तां नदीं तीत्र्वा पर्वतीयोच्चावचेन मार्गेण क्षुद्रा नद्यः पारं कृत्वा सार्धत्रिवादनसमये धनकुटा नगरम् आयातम् । भेडेटारतः उत्तरं धनकुटातः पूर्वमपि मोटरयानेन विश्रामं कृतम् तत्राऽपि यानादवतीर्यास्माभिश्चतूरूप्यकैरिक्षुदण्डं क्रीत्वा भक्षितम् । धनकुटां प्राप्तेसत्यऽपि यानादवतीर्य भ्रमणं कृतवन्तः । धनकुटापर्यन्तस्य गमनस्य चतूर्णां जनानां द्विसप्तति रूप्यकाणि गृहीतानि यानेन ।

मया तु पूर्वमपि धनकुटा भ्रमिता आसीत्तथाऽपि विहङ्गमदृष्ट्यावलोकिता । तत्र धनकुटायाम् एकस्मिन् क्रीडास्थले हस्तकन्दुक–क्रीडन्नासीत् जनसमूहः । किञ्चित् समयं तदवलोक्य चतुर्वादनसमयात् तत अस्माभिः पदयात्रा कृता । षड्वादन समये हिले नामकं स्थानं पाप्तम् । येन मार्गेण वयं हिले प्राप्ताः, तस्मिन् मार्गेऽपि मोटरयानानि तु भ्रमन्तिस्म परन्तु व्ययस्य भयात् दृश्यावलोकनलोभाच्चास्माभिः पदयात्रा कृता । वयं हिले संप्राप्य किञ्चित् समयं भ्रमणमकरवामः । भ्रमणेन सह भोजनावासयोश्च मार्गणं कृतम् । तत्र साधारणगृहाणि, पर्वतीया बलिष्ठा मनुष्याश्चासन् । तत्र प्राकृतिकं कृत्रिमञ्च दृश्यं सामान्यमेव दृष्टम् । विशेषं दृश्यं तु किमपि नासीत् ।

शिशिरस्यान्त्यसमयमासीत्तदा पर्वतीयोच्चस्थाने शीतं तु स्वभावेनैवाधिकं भवतीति । शीतेन पीडिताः श्रमेण क्लान्ताश्च वयं बुभुक्षिता जाताः । अत अस्माभिः एकस्मिन् भोजनालये गत्वा चतुःरूप्यकेषु क्रीत्वा शाकेन सह किञ्चिच्चिपिटान्नं भक्षितम् । पुनर्भोजनवासार्थं भ्रमन्तोऽस्मान् एको बटुरेकं शयनागारं भोजनालयञ्चानयत् । तत्र सूपशाकावलेहैः सह ओदनमखादाम । त्रिषु पर्यङ्केषु चत्वारो वयं शयनं कृतवन्तः । तत्र भोजनार्थं द्वित्रिंशत् एवं शयनार्थं पञ्चदश रूप्यकाणि व्ययीकृतानि । ततः प्रातरुत्थाय वयं मोटरयानेन सिँधुवानामकं स्थानं प्राप्तवन्तः । अष्टाविंशति रूप्यकाणि गृहीतानि यानेन । सिँधुवायां पञ्चस्नानं कृत्वा एकस्मिन् भोजनालये तैलेन निर्मितं गोधूमपिष्टस्य पकौडी नामकं पिण्डं खादित्वाऽष्टवादनसमये पदयात्रा आरम्भा जाता ।

मार्गे यत्रतत्रस्था जना अत्यन्त दुःखिनो दृश्यन्ते स्म । वंशनिर्मिते ढाकरनामके पात्रे वस्तूति स्थापयित्वा पृष्ठे संस्थाप्य यत्रतत्र नयन्तिस्म । तत्र के वृद्धाः, के युवाः, के बालाः सर्वे भारवाहका दृश्यन्ते स्म । मार्गे यत्र बुभुक्षा भवति तत्रैव काष्ठानि सङ्ग्रहणं कृत्वा स्वोहिते पात्रे भोजनं निर्माय भक्षन्ति स्म । यत्र रात्रिर्जायते तत्रैव, भवने, सार्वजनिक भवने, गुहायां, वृक्षतले, मार्गे वा यत्रतत्र शयनं कुर्वन्ति स्म । प्रातः पुनरुत्थाय गच्छन्ति स्म । अधिकानां जनानां तु वस्त्राण्यपि जीर्णान्यासन् । पादत्राणान्यपि नासन् । अधोवस्त्रमपि केवलं गुप्ताङ्गाच्छादानमेव । शिरस्त्रमपि पताका सदृशं मध्यभागरहितमेवासीत् केषां तु । केऽपि जनास्तु अस्थिपञ्जरा एवापि भारं उहित्वा गच्छन्ति स्म । केऽपि पञ्चवर्षीया बालका अपि भारवाहकैवासन् ।

वयं तस्य दिनस्य यात्राक्रमे सिँधुवा, चित्रे, वसन्तपुरम्, देउराली, देउरालीतः पश्चिमप्रदेशे कतिपयानि ग्रामाण्युल्लङ्घ्य सनसरे, ततो माम्लिङ, ततः पिलुवा नाम्नी नदीमुल्लङ्घ्य त्रिशूले, ततः खराङ, ततो लोहाकोटं प्राप्य डुण्डीराजस्य गृहं गत्वा विश्रममकरवाम । अस्यां यात्रायां चित्रेपर्यन्तं धनकुटा मण्डनान्तरगतं स्थानं वर्तते । तस्मादुत्तरभागस्य वसन्तपुरं तु तेह्रथुम मण्डलान्तरगतस्थानं वर्तते । तस्मादस्माभिः पश्चिमभागस्य भ्रमणं कृतम् । तद् भागं सङ्खुवासभा मण्डलान्तरगतं स्थानमस्ति । चित्रे–वसन्तपुरयोः समीपे चमरीमृगा यत्रतत्रासन् । वसन्तपुरे तु चमरीमृगाणां पृष्ठे तथा खच्चरनामकानां अश्वानां पृष्ठे भारं वा वस्तूनि संस्थाप्य मार्गे नयन्तिस्म जनाः । तत्रस्था यात्रिणोऽधिकांशा भोटे जातीया आसन् ।

सनसरेतः पूर्वे देउरालीतः पश्चिमे मार्गे पुष्पितलालीगुराँसानां वृक्षा आसन् । बुभुक्षिता वयं मार्गे एकस्मिन् स्थाने गुराँसपुष्पाणि चयनं कृत्वाऽभक्षाम । ततो गच्छन्तो वयं एकस्मिन् स्थाने गत्वा किमपि भोक्तुमिच्छया भोजनं वान्नं क्रेतुं चेष्टामकरवाम परन्तु किमपि नामिलत् । तस्मात् पुनर्गच्छन्ता वयं एकस्मिन् सनसरेनामके स्थाने गत्वा चिपिटान्नं, दुग्धं, शर्कराञ्च क्रीत्वाऽखादाम । डुण्डिना तु दधिर्चिपिटान्नं खादितम् । ततो माम्लिङनामकं स्थानमुल्लङ्घ्य त्रिशूले नामकस्य स्थानस्य मार्गे इक्षुदण्डं याचित्वाऽभक्षाम । ततः खराङनामकं स्थानं सम्प्राप्य चिपिटान्नं दालमोठं च क्रीत्वाऽखादाम । तत्र सायङ्कालस्य सप्तवादनसमयः सञ्जातः । तत्र मृत्तिकातैलं क्रीत्वा एकस्मिन् वंशे पुल्ठो इत्याख्यं दीपं प्रज्वाल्य प्रस्थानमकरवाम । अष्टवादनसमये डुण्डिराजस्य गृहं प्राप्तवन्तो वयं तत्र शष्कुल्यः शर्कराञ्चाखादाम ।

डुण्डिराजस्य ग्रामे अधिकं इक्षुक्षेत्रमासीत् । तस्य पिता इक्षो रसं निस्सार्य शर्करां रचयतिस्म । तत्र धान्यं मरकटान्नं गोधूमं शाकानि च फलन्ति । तत्र ग्रामेऽपि भ्रमणमभवत् । अधिकेक्षुशर्कराञ्चाखादाम । तत्रस्था जनाः श्रमशीला आसन् । तस्य ग्रामस्य मध्ये एको विद्यालय आसीत् । तस्मिन् विद्यालये एकतोऽष्टमकक्षापर्यन्तं अध्ययनाध्यापनेऽभवताम् । तत्रैव एकः परिचितो मित्र दण्डपाणि ध्यापनं करोति स्म । वयं तस्य गृहमपि अगच्छाम । तत्र जना नवीनं गृहं रचयितुं व्यस्ता आसन् । वयं दण्डपाणिना सह मिलिता परन्तु तेन व्यस्तत्वेन ‘अत्र स्थास्यताम्’ इतयपि न कथितम् । अन्यान्यपि गृहाणि गतवन्तो वयम् । अन्येषु गृहेषु तु गमनेसत्यपि ‘अत्र स्थास्यताम्’ इति कथयित्वाऽऽसनमपि अददुर्जनाः । डुण्डिराजस्य गृहे एकदिनं स्थित्वा द्वितीये दिने वयं खाँदबारीं गतवन्तः । मार्गे हिमखोला सभा च नाम्न्यौ नद्यौ आस्ताम् । ते नद्यौ पारं कृत्वा यत्र वायुयानस्य विश्रामस्थलं वर्तते तत् तुम्लिङटारं च दृष्ट्वा स्वभ्रमणं धन्यमकारयाम । तुम्लिङटारनामकं विमानस्थलं सामुद्रिक स्थानात् सप्तदशशत (१७००) फुटपरिमित उच्चस्थाने वर्तते । इदं स्थलं नेपालस्य द्वितीयं स्थूलविमानस्थलं विस्तृतमस्तीति कथयन्ति स्म जनाः । तत्स्थानात् काष्टमण्डप–विराटनगरपर्यन्तं वायुयानसेवा वर्तते । सङ्खुवासभा मण्डलान्तरगत खाँदबारीसमीपे एकमिदं विमानस्थलं तिष्ठति । तस्य स्थलस्यावलोकनं विधाय वयं खाँदबारींप्रति प्रस्थानमकरवाम । चतुर्वादनसमये वयं खाँदबारीं प्राप्तवन्तः । तत्रैकस्मिन् गृहे स्थित्वा डुण्डिराजस्यैका भगिनी, एकोऽनुजश्च दशमनवमकक्षयो तत्र स्थिते माध्यमिकविद्यालये पठतः स्म । तत्रैव वयमतिष्ठाम । द्वितीये दिने प्रातरुत्थाय खादबारी स्थानस्य भ्रमणमभवत् ।

खाँदबारी सङ्खुवासभा मण्डलस्य प्रमुखस्थानमस्ति । तत्र मण्डलकार्यालयानि वर्तन्ते । तत् पर्वतीयस्थानं वर्तते परन्तु अधिकं शीतप्रकोपं नासीत् । अन्नमपि तत्र प्रचूरमात्रं भवति इति सन्दृश्यते स्म । यातायातं केवलं पदयात्रा एव भवति स्म । अतो नगरं विशालत्वेन न स्थितम् । तत्रोद्योगमपि किमपि नासीत् । तत्र शनिवासरे हट्टं भवति । किन्तु वयं हट्टस्य दृश्यावलोकनं नाकरवाम । तत्र हिमालय मा. वि. नामकैको माध्यमिक विद्यालयो वर्तते । तस्मिन्नेव विद्यालये एको महाविद्यालयश्च सञ्चालित आसीत् । तस्मिन् महाविद्यालये मानविकीविषयान्तरगतानां नेपाली–अर्थशास्त्र–राजनीतिशास्त्र–इतिहासविषयाणां अध्यापनं भवति स्म ।

वयं तत्स्थानाद् दिङलानामकं स्थानम्प्रति प्रस्थानं कृतवन्तः । प्रथमं खाँदबारीतो उत्तरभागे भन्ज्याङनामकस्थानं गत्वा तस्मात् पश्चिमभागं गतवन्तः। कीयद्दूरं चन्दनपुरं आगतम् । तत्र एको निम्नमाध्यमिक विद्यालय आसीत् । तत्रान्नोत्पादिका भूमिरस्ति । अस्माकं यात्रायाः समये जना मार्गं निर्मापयन्ति स्म । ते अस्मान् ‘ओभरसियरा आगताः’ इति अकथयन् । ततः गतवन्तो वयं अरुण नाम्न्या नद्याः कात्तिकेघाटनामकं स्थानं प्राप्तवन्तः । तत्र चावाबेंसीनामकं अत्यन्तोर्वराभूमिरस्ति । गोधूमा वायोर्वहनेनातिरम्य प्रकारेण सञ्चलन्त आसन् । वयं तस्य घाटस्य सेतुना नदीपारं गतवन्तः । तत्र सेतुसमीपे लालचिनीनामकं कदलीफलं क्रीत्वाऽखादाम । ततः क्रमशः बडरेबेंसी सालबेंसी नामके स्थाने उल्लङ्घ्य आँपटारीनामक–स्थानं सम्प्राप्य इक्षुदण्डं क्रीत्वाऽभक्षाम । ततः उपर्युपरि गत्वा मूलपानीनामकं धान्यक्षेत्रं प्राप्तवन्तः । तत्रैकस्मिन् स्थाने एकं जलाशयम् एकं पाटीनामकं यात्रीविश्रामस्थलं च आसीत् । तत्र जलं पीत्वा वयं किञ्चित् गत्वा दिङलां प्राप्तवन्तः ।

दिङलानामकमेकं पुरातनं रम्यं स्थानं वर्तते । तत्र यातायातस्य दृष्ट्या तु दुर्गममस्ति परन्तु मनुष्याः सुशिक्षिता आसन् । वस्तूनि क्रेतुंविक्रेतुं आपणमस्ति । ग्राममपि रम्यं दृश्यते । वयं तत्र किञ्चित् क्षणं भ्रमणं कृत्वा एकस्मिन् स्थाने चियापानं कृतवन्तः । तत्रैकः चियाविक्रेता सोमेन्द्र गौतमनामको व्यक्तिरासीत् । स आचार्य परीक्षोत्तीर्णो वार्तायां पटुरासीत् । दिङलायां द्वौ माध्यमिकविद्यालयौ स्तः । तयोः षडानन्द संस्कृत माध्यमिक विद्यालयोऽत्यन्त प्राचीनो वर्तते । तस्य स्थापना विक्रमाब्दे १९३२ वर्षे जाता । तस्य स्थापनां ऐतिहासिक पुरुष योगी ब्रह्मचारी बालागुरुः षडान्द अधिकारी अकरोत् । तेन कार्येण प्रकृत्या रमणीया दिङला विद्याधर्मसंस्कृत्या च सम्पन्नाऽभूत् । अपरोऽरुण माध्यमिक विद्यालयो विद्यते । तत्रैको श्री षडान्द ब्रह्मचर्य संस्कृत वाङ्मय वेदाश्रमः नामक वेदाश्रमोऽपि आसीत् । कैलाशाश्रम नाम्नापि परिचितोयमाश्रमः । तत्र बटवो वेदाध्ययनं कृतवन्तः । एकोऽष्टवर्षीयो बटु ममाग्रहेण एकं वेदमन्त्रं सस्वरं कण्ठस्थमश्रावयत् । तस्मै धन्यवादं दत्तम् । अनेन प्रकारेण दिङलां भ्रमित्वा रात्रौ डुण्डिराजस्य मातुर्भगिन्या गृहं गत्वाऽतिष्ठाम । अरुणनद्याः पश्चिमभागे स्थिता सा दिङला भोजपुर मण्डलान्तरगत वर्तते ।

अपरदिने प्रातरेवोत्थाय प्रस्थानं कृत्वा डेगराजनामकैकः परिचित मित्रस्य गृहं गत्वा भोजनं कृतवन्तः । सोऽपि धरानं गन्तुमुद्यत आसीत् । तेन सह यात्रां कृत्य एकं वनमुल्लङ्घ्य तुर्केघाटनामकं स्थानं प्राप्तम् । तत्राऽरुण नद्याः तुर्केपुल सेतुना नदीपारं कृत्वा तुम्लिङटारं प्राप्तवन्तः ।ततो डेगराजः स्वगन्तव्यं गतवान् । वयं तत्रैकं फेनिलं क्रीत्वा सभाखोला पारं कृत्वा हिमखोलायां वस्त्राणि प्रक्षाल्य स्नानं च कृतवन्तः । ततरुच्चैरुच्चैर्गत्वा डुण्डिराजस्य गृहं प्राप्तवन्तः । तस्यां रात्रौ तत्रैव स्थित्वा द्वितीये दिने चैनपुर नामकं नगरं भ्रमणार्थं डुण्डिराजेतरा वयं त्रयोऽगच्छाम ।

चैनपुर नगरं पर्वतीयेषु नगरेषु अत्यन्तरम्यं प्रमुखं च वर्तते । तत्र प्रमुखत्वेन धातूनामुद्योगं वर्तते । तत्र करुवा, गाग्रा, खडकुँडा, स्थाली, पानसनामकानि अन्यान्यपि धातुनिर्मितानि विविधपात्राणि निर्मीयन्ते । तत्र वृहद् भवनानि रम्याणि आसन् । अट्टालिकासु सौन्दर्येण युक्ता युवत्य यत्रतत्र दृश्यन्ते स्म । तत्रापि एको महाविद्यालयः एको माध्यमिक विद्यालयः अन्ये निम्नमाध्यमिक–प्राथमिक विद्यालयाश्चासन् । तस्य नगरस्योत्तरदिशि एकं सिद्धकाली नाम्न्या देव्या मन्दिरम् एकस्तडागश्चास्ति इति अकथयन् जनाः परन्तु वयं तत्र समयाभावेन नागच्छाम । वयं ततः पुनरावत्र्य डुण्डिराजस्य गृहेऽतिष्ठाम । अपरे दिने वयं धारानमागन्तुं यात्रां आरम्भं कृतवन्तः । प्रत्येकेनैकैकं इक्षुदण्डं तथा धार्नीपरिमितगुडशर्कराञ्च गृहीत्वा डुण्डिराजस्य गृहात् सार्धदशवादनसमये यात्रामारभ्य कञ्चित् समयमुच्चावच मार्गं गत्वा अरुणनदीं प्राप्य तस्यास्तट एव स्थितेन मार्गेण तद्दिनस्य यात्रा अभवत् । तस्मिन् मार्गेऽपि पदयात्रिणो भारवाहकाश्च निरन्तर यात्रां कुर्वन्ति स्म । वयमपि दियाले, लेगुवा इत्यादि नामकानि स्थानान्युल्लङ्घ्य सायंकाले माङमाया नामकं स्थानमागताः । मार्गे यत्रतत्र विश्रामस्थलानि भोजनालयाश्चासन् । लेगुवाघाटे एकोऽति लम्बायमानः सेतु वर्तते । येन सेतुनाऽरुण नदीपारं कृत्वा जना भोजपुरं गमनागमनं कुर्वन्ति । वयं माङमायामागत्य विश्राममकरवाम । तत्र रात्रौ भोजनं कृत्वा तासनाम्नी क्रीडां चाक्रीडाम ।

अपरे दिने प्रातरुत्थाय जनैः सह वार्तां कुर्वन्तो हसन्तश्च वयमरुणनदीतटं त्यक्त्वोच्चोच्चमार्गेण यात्रामकरवाम । तस्मिन् मार्गे एको हास्यास्पदः टङ्कबहादुर खत्री नामकातिसरलो मनुष्योऽमिलत् । तेन सह वार्तां कुर्वन्तो हसन्तश्च वयं एकादशवादन समये पाख्रिबास नामकं स्थानमागत्य, भोजनं कृत्वा ततो हिले नामकं स्थानमागताः । तत्र कञ्चित् समयं विश्रामं कृत्वा पुनः पदयात्रया धनकुटा नगरमागत्य वयं मोटरयानेन धरानमागताः ।

मन्ये पिपीलिका–यात्रा एव जीवनमस्ति । मधुरलोभात् शर्कराया मार्गणे यात्रा प्रारभ्यते तथा कस्मिञ्चित् प्राप्ते वा अप्राप्तेसत्यपि यात्रा समाप्यते । जीवनयात्रा तादुशी यात्रा एव भवितुमर्हति । वयं शर्करायाः कारणेन यात्रायां निर्गताः तथा एका परिक्रमा जाता । परिक्रमाया आकृति वा परिधि अनिश्चिताअसीमिता च भवति । दीर्घा वा लघु च भवितुं शक्नोति । अस्माकं यात्रायां बहवः सहभागिनः प्राप्तवन्तः । तेभिः कति शर्करा वा मधुरा प्राप्ता किंवा अप्राप्ता । प्राप्ति तु अनिश्चिता भवति । अस्माभिः तस्यां यात्रायाम् एका धार्नी परिमिता इक्षुशर्करा प्राप्ता परन्तु अनुभूतेः प्राप्ति तु मुरीमुरी परिमिता वा अपरिमिता जाता । किंवा एतदेव जीवनम् । जीवनयात्रा पिपीलिकायाः शदृशा एव इक्षुशर्करा वा शैकतशर्करा प्राप्यते । किन्तु इक्षुशर्करा एव प्राप्तुमुद्योगं कर्तव्यम् । अस्तु ।

स्राेतः - सहप्राध्यापक जीवनाथ सुवेदी
कनकार्इ बहुमुखी क्याम्पस
सुरुङ्गा, झापा,नेपाल