सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः २-पादः ४/आह्निकम् १

विकिस्रोतः तः
शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

।। चतुर्थे पादे प्रथममान्हिकम् ।।
(पाoसूo2-4-1)
द्विगुरेकवचनम्(पाoसूo2-4-1)। वक्तीति वचनम्। बाहुलकात्कर्तरि ल्युट्। सामान्ये नपुंसकम्(काoवाo)। समाहारद्विगुरेकार्थप्रतिपादकः स्यात्। "तद्धितार्थ"(पाoसूo2-1-51)इति सूत्रे हि भावसाधन एव समाहार इति स्थितम्। तथा च न्यायसिद्धमेतत्। कर्मसाधनताभ्रमं वारयितुमारभ्यते "स नपुंसकम्"(पाoसूo2-4-17)इत्यस्य प्रवृत्यर्थ च। दृश्यते च भ्रमनिवृत्तयेऽपि सूत्रकृतो यत्नः। यथा-
(पाoसूo2-4-2)
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्(पाoसूo2-4-2)। प्राम्यङ्गानां द्वन्द्व एकार्थः स्यात्। एवं तूर्याङ्गानां सेनाङ्गानाञ्च। पाणिपादम्। मार्दङ्गिकपाणविकम्। रथिकाश्वारोहम्। इह प्राणिसेनयोरङ्गं नामावयवः। तूर्यस्य तु अङ्गं नामोपकारकं बोध्यम्। `मार्द्दाङ्गिक' इत्यादौ मृदङ्गवादनं शिल्पमित्यर्थे "शिल्पम्"(पाoसूo4-4-55)इति ठक्। `पाणिपादम्' इत्यादौ "जातिरप्रणिनाम्"(पाoसूo2-4-6)इत्येव सिद्धे व्यतिकरनिरासार्थं वचनम्। `हस्त्यश्वं' `हस्त्यश्वाय' इत्यत्र तु सेनाङ्गत्वेऽपि परत्वात्पशुलक्षणो विकल्प इति "विभाषा वृक्षे"(पाoसूo2-4-12)इत्यत्र भाष्यकैयटयोः स्थितम्। अथ कथं "रथवाजिपत्तिकरिणीसमाकुलम्" इति। नपुंसकह्रस्वत्वेन हि भाव्यम्।
उच्यते, रथादिसहिताः करिण्ये इति मध्यमपदलोपी समासो बोध्यः। यद्वा, रथश्च वाजी चेत्यादि विग्रहः। जातावेकवचनम्। "फलसेनादीनां बहुप्रकृतिः" इति वक्ष्यमाणत्वान्नैकवद्भावः। एतेन "पातितैरथनागाश्वैः" इति। "इत्थं रथाश्वेभनिषादिनां प्रेग"(माoकाo12-1)इति माघश्च व्याख्यातः। इहापि मध्यमपदलोपादेकवचनान्तेन विग्रहाद्वा।
यद्वा, कृतद्वन्द्वानामेकशेषः। तथा च "तिङस्त्रीणि त्रीणि"(पाoसूo1-4-101(इति सूत्रे "लुटःप्रथमस्य"(पाoसूo2-4-85)इति सूत्रे च भाष्यम्--"उभयं हीष्यते बहूनि शक्तिकिटकानि" इति। माघटिप्पणे--"रथतुरङ्गाश्वेभे निषीदन्ति" इति णिन्यन्तेनोपपदसमास इति समाधानान्तरं सारम्। यद्यपि "चार्थे द्वन्द्वः"(पाoसूo2-2-29)इत्येवेतरेतरयोगे समाहारे च द्वन्द्वो विहितः, समाहारस्यैकत्वाच्च सिद्धमेकवचनं, तथापि नियमार्थमिदं प्रकरणम्-प्राण्यङ्गादीनामेकवचने द्वन्द्व एव। समाहारद्वन्द्व एवेत्यर्थः। न च समाहारे एषामेवेति विपरीतं ग्राह्यम्, "तिष्यपुनर्वस्वोः"(पाoसूo1-2-63)इति सूत्रे बहुवचनग्रहणात्। तद्धि समाहारैकवचनव्यावृत्तये क्रियते तिष्यपुनर्वस्विदमिति।
(पाoसूo2-4-3)
अनुवादे चरणानाम्(पाoसूo2-4-3)चरणानां द्वन्द्व एकवत्स्यात्। चरणशब्दः कठकालापादिषु शाखाभेदेषु मुख्यः। तदध्यायिषु परुषेषु गौणः। उभयेषां चैषां "गोत्रञ्च चरणैः सह"(काoवाo)इति जातिसंज्ञा। तत्र शाखाभेदवाचिनां "जातिरप्राणिनाम्"(पाoसूo2-4-6)इत्येकवद्भावस्य सिद्धत्वाद्गौणोऽपि पुरुषवृत्तिरेवेह गृह्यते। उदगात्कठकालापम्। प्रत्यष्ठात्कठकौथुमम्। इह यदा कठकालापेषूदितेषु प्रतिष्ठितेषु चावाभ्यां तत्र गन्तव्यमिति संवादं कृत्वा तञ्च विस्मृत्य कश्चिदास्ते तत्र प्रतीदमुच्यते-ननूदगात्कठकालापन्तत्किमास्यते इति। अतो भवत्यनुवादः। कठेन प्रोक्तमधीयते कठाः। वैशम्पायनान्तेवासित्वाण्णिनिः। "कठचरकाल्लुक्"(पाoसूo4-3-107)"तदधीतेतद्वेद"(पाoसूo4-2-59)इत्यण्। "प्रोक्ताल्लुक्"(पाoसूo4-2-64)। कलापिशब्दात् "कलापिनोऽण्"(पाoसूo4-3-108)"नान्तस्य टिलोपे सब्रह्मचारि"(काoवाo)इत्यादिना टिलोप-। अध्येत्रणो लुक्। एतेन कौथुमो व्याख्यातः। यदा तु उदयप्रतिष्ठे नानूद्येते, किन्तु अज्ञाते ज्ञाप्येते तदा प्रत्युदाहरणम्-उदगुः कठकालापाः। स्थेणोर द्यतन्यामेवेति वाच्यम्। स्थेणोः किम्? अनन्दिषुः कठकालापाः। अद्यन्तायं किम्? उद्यन्ति कठकालापाः।
(पाoसूo2-4-4)
अध्वर्युक्रतुरनपुंसकम्(पाoसूo2-4-4)। अध्वर्युशब्दो यजुर्वेदलक्षकः। तत्रोत्पन्नो विनियुक्तो वा यः क्रतुः तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात्। अर्काश्वमेधम्। साहनातिरात्रम्। अध्वर्युक्रतुः किम्? इषुवज्रौ। उद्भिद्वलभिदौ। समावेद एषां विधानम्। अनपुंसकमिति किम्? राजसूयवाजपेये। इमौ हि शब्दावर्द्धर्चादिषु पठितौ। यदा नपुंसकलिङ्गौ तदा प्रत्युदाहरणम्।
(पाoसूo2-4-5)
अध्यनतोऽविप्रकृष्टाख्यानाम्(पाoसूo2-4-5)। अध्ययनेन निमित्तेन येषामविप्रकृष्टा प्रत्यासन्ना आख्या तेषां द्वन्द्व एकवत्स्यात्। पदकक्रमकम्। पदान्यधीते पदकः। क्रमादिभ्यो वुन्(पाoसूo4-2-61)। एवं क्रमकः। क्रमकवार्त्तिकम्। वृत्तिः संहिता, तामधौतेवार्त्तिकाः। उक्थादिपाठाट्ठक्। पदान्यधीत्य क्रमोऽध्येतव्य इति स्पष्टा प्रत्यासत्तिः। क्रमकवार्तिकमित्यत्र तु संहितामनधीत्य क्रमोऽध्येतुं न शक्यते इत्येव प्रत्यासत्तिर्बोध्या। अध्ययनत इति किम्? पितापुत्रौ। अविप्रकृष्टाख्यानां किम्?याज्ञिकवैयाकरणौ।
(पाoसूo2-4-6)
जातिरप्राणिनाम्(पाoसूo2-4-6)। प्राणिवर्जजातिवाच्यवयवको द्वन्द्व एकवत्स्यात्। आराशस्त्रि। आराप्रतोदः। जातिः किम्? नन्दकपाञ्चजन्यौ। संज्ञाशब्दावेतौ।
खड्‌गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः।
अप्राणिनां किम्? ब्राह्मणक्षत्रियविट्‌शूद्राः। नञिवयुक्तन्याययेन द्रव्यजातीनामेकवद्भावो न गुणक्रियाजातीनाम्। रूपरसौ। गमनाकुञ्चने। जातिप्राधान्य एवायमेकवद्भावः। यदा तु द्रव्यविशेषविवक्षा तदा बदरामलकानि। जातिविवक्षायान्तु बदरामलकम्। इहैकवद्भावो वैकल्पिक इति भाष्यस्वरसः। तथाच "विभाषा वृक्षमृग"(पाoसूo2-4-12)इति सूत्रे "बहुप्रकृतिः"(काoवाo)इत्यादि वार्तिकमुपक्रम्य बदरामलकं बदरामलकानित्युदाहृतं भाष्ये। बदरामलकानीति प्राप्ते इत्यर्थं व्याचक्षाणानां मते तु नित्यमेवेति तत्रैव कैयटः। अत एव "तस्य भावस्त्वतलौ"(पाoसूo5-1-110)इति सूत्रभाष्यस्थ ओषधिवनस्पतीनामिति प्रयोगः सङ्गच्छते। भाष्यप्रयोगान्नैकबद्भावइति वदन् कैयटस्तु जातिविवक्षायामपि एकवद्भावाभावं मेने। एवं "लटःशतृशानचौ"(पाoसूo3-2-124)इति सूत्रस्थभाष्यकैयटादिग्रन्थो बोध्यः। कथं तर्हि "रञ्जितानुविविधास्तरुशैलाः"इति भारविः। नह्यत्र व्यक्तिविशेषविवक्षा? सत्यं, तरुसहिताः शैला इति बोध्यम्।
विशिष्टलिङ्गो नदीदेशोऽग्रमाः(पाoसूo2-4-7)। अग्रामा इत्येकवचनस्य स्थाने सौत्रं बहुवचनम्। विशिष्टलिङ्गानां भिन्नलिङ्गानां नदीवाचिनान्देशवाचिनाञ्च ग्रामवर्जितानां द्वन्द्व एकवत् स्यात्। सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणावयविनि द्वन्द्वे बोध्याः। नदीदेश इत्यसमासनिर्द्देशः। उध्यश्च इरावती च उध्येरावति। कुरवश्च कुरूक्षेत्रं च कुरुकुरुक्षेत्रम्। भिन्नलिङ्गाः किम्? गङ्गायमुने। मद्रकेकयाः। नदीदेश इति किम्? कुक्कुटमयूर्यौ। अग्रामाः किम्? जाम्बवं नगरं, शालृकिनी ग्रामः, जाम्बवशालूकित्यौ। अत्र पूर्वपदार्थस्य अग्रामत्वेऽपि उत्तरपदार्थस्य ग्रामत्वात्तदाश्रयः प्रतिषेधः। तदुक्तम् "उभयतश्च ग्रामाणां त्रतिषेधो वक्तव्यः" इति। नदीग्रहणमदेशत्वात्। जनपदो हि देशः। अत एव पर्वतानां न-कैलासश्च गन्धमादनं च कैलासगन्धमादने।
(पाoसूo2-4-8)
क्षुद्रजन्तवः(पाoसूo2-4-8)। एषां द्वन्द्व एकवत्स्यात्। यूकालिक्षम्। आनकुलात् क्षुद्रजन्तवः।
(पाoसूo2-4-9)
येषाञ्च विरोधः शाश्वतिकः(पाoसूo2-4-9)। येषां नित्यं वैरं तेषां द्वन्द्व एकवत्स्यात्। गोव्याघ्रम्। गजसिंहमित्यादि। विरोधो वैरं न तु सहानवस्थानादिः, `छायातपौ' इत्यादावतिव्याप्तेः। शश्वदिति त्रैकाल्यमाह। तत्र भवः इत्यर्थे "कालाट्वञ्"(पाoसूo4-3-11)। तान्तात्परत्वेऽपि निपातनादिकादेशः। अव्ययानां भमात्रे"(काoवाo)इति प्राप्तस्य टिलोपस्याभावश्च सामान्यापेक्षमिकस्य केनाबाधे ज्ञापकमिदम्। तेन कान्दाविकादि सिद्धमिति कश्चित्। वस्तुतस्तु कन्दुः स्वेदनी, तत्र "संस्कृतं भक्षाः"(पाoसूo4-2-16)इत्यण्। कान्दवम्। "तदस्य पण्यम्"(पाoसूo4-4-51)इति ठक्। शाश्वतिकः किम्? चैत्रमैत्रौ कलहायेते। एतेन "देवासुरैरमृतमम्बुनिधिर्ममन्थं" इति भारविप्रयोगो व्याख्यातः। तेषां हि अमृतादिप्रयुक्तः। इह1-.1"विभाषा वृक्षमृग"(पाoसूo2-4-12) इति विहितद्वन्द्वस्यावकाश इत्यर्थः।-पशुशकुनिद्वन्द्वावकाशो-महाजोरभ्रं, महाजोरभ्राः। हंसचक्रवाकं, हंसचक्रवाकाः। "येषां च"(पाoसूo2-4-1)इत्यस्यावकाशः-श्रमणब्राह्मणम्, मार्जारमूबकम्, अश्वमहिषं, काकोलूकमित्यत्रोभयप्रसङ्गे परत्वात्पशुशकुनि विभाषा प्राप्ता चकारेण पुनर्विधानाद् "येषांच" इति नित्यमेव भवति।
(पाoसूo2-4-10)
शूद्राणामनिरवसितानाम्(पाoसूo2-4-10)। अयहिष्कृतानां शूद्राणां द्वन्द्व एकवत्स्यात्। तक्षायस्कारम्। रजकतन्तुवायम्। शूद्रशब्दोऽत्र त्रैवर्णिकेतरपरो न तु शूद्रत्वजातिपरः, अनिरवसितानामिति प्रतिषेधात्। निरवपूर्वात्स्यतेः कर्मणि क्तः। निरवसानं बहिष्करणम्, तच्चेह पात्राद्विवक्षितम्। यैर्भुक्ते पात्रं नशुध्यति "
भस्मना शुध्यते कांस्यम्" इत्यादिस्मृतिकारोक्तसंस्कारेणापि ते पात्राद्वहिष्कृताः। अनिरवसितानां किम्? चण्डालमृतपाः।
(पाoसूo2-4-11)
गवाश्वप्रभृतीनि च(पाoसूo2-4-11)। एतानि द्वन्द्वरूपाणि कृतैकवद्भावानि साधूनि स्युः। गवाश्वकम्। गवाविकम्। गवैडकम्। अजाविकम्। अजैडकम्। एषां पशुद्वन्द्वविभाषायां प्राप्तायां वचनम्। कुब्जवामनम्। कुब्जकैरातम्। पुत्रपौत्रम्। श्वचाण्डालम्। स्त्रीकुमारम्। दासीमाणवकम्। उष्ट्रखरम्। शाटीप्रच्छदम्। इहाप्राणिजातिवाचिनामबहुप्रकृत्यर्थः पाठः। उष्ट्रशशम्। मूत्रशकृत्। मूत्रपुरीषम्। यकृन्मेदः। मांसशोणितम्। दर्भपूतीकम्। अर्जुनपुरुषम्। तृणोलयम्। दासीदासम्। अत्र "पुमान् स्त्रिया"(पाoसूo1-2-67)इत्येकशेषो न। कुटीकुटम्। मांसशोणितम्। भागवतीभागवतम्। गवा श्वप्रभृतिषु "यथोच्चारितं द्वन्द्वत्तम्" इति वार्त्तिकम्। गणपाठे रूपमेषां विवक्षितं न तु पूर्वोत्तरपदनिर्द्देशमात्रे तात्पर्यमित्यर्थः। तेन अवङादेऽशोभावपक्षे न भवति। अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वाः।
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्(पाoसूo2-4-12)। वृक्षादीनां सप्तानां द्वन्द्वं अश्ववडवेत्यादि द्वन्द्वत्रयं च विभाषा एकवत्स्यात्। वृक्षादौ विशेषाणां ग्रहणम्। तथाहि, वृक्षादिशब्दैः प्रत्येकं द्वन्द्वो विशेष्यते। न चैको वृक्षशब्दो द्वन्द्वः। न च द्वयोः सहप्रयोगः, एकशेषात्। एवं पर्याययोरपि, विरूपाणामपि समानार्थनामेकशेषारम्भात्। नापि `वृक्षश्च धवश्च' इत्यादि, सामान्यविशेषयोर्वाचनिकद्वन्द्वनिषेधस्योक्तत्वात्। न च प्राच्यभरतेष्विति निर्द्देशादनित्यः स इति वाच्यम्, तथापि `वृक्षधवम्' इत्यादि, प्रयोगादर्शनेन निषेधस्यैव प्रकृते प्रवृत्तेः। तस्माद्विशेषाणामेवेह ग्रहमं स्थितम्। प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। रुरुपृषतम्, रुरुपृषताः। कुशकाशम्, कुशकाशाः। व्रीहियवम्, व्रीहियवाः। दधिघृतम्, दधिघृते। गोमहिषम्, गोमहिषाः। तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः। अश्वबडवम्, अश्ववडवौ। पूर्वापरम्, पूर्वापरे। अधरोत्तरम्, अधरोत्तरे।
अत्र वार्त्तिकम्-बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानामिति(काoवाo)। एषां बहुप्रक-तिरेव द्वन्द्व एकवदित्यर्थः। नेह-बदरामलकौ, रथिकाश्वारोहौ, प्लक्षन्यग्रोधावित्यादि। इदं वार्त्तिकं विध्यन्तरशेषभूतं न तु स्वातन्त्र्योण विधायकम्। विधित्वे हि स नित्यश्चेत्तर्हि वनस्पत्यादीनामेतत्सूत्रोपात्तानामपि बहुप्रकृतित्वे विक्लपं बाधित्वा नित्यं स्यात्। अबहुप्रकृतिकत्वे च सौत्रो विकल्पः स्यात्। वैकल्पिकत्वे तु फलादिनामपि "नातिरप्राणिनाम्"(पाoसूo2-4-6)इत्यादिलक्षणान्तरप्राप्तं नित्यमेकवद्भावं बाधित्वा बहुप्रकृतिकत्वे विकल्पः स्यात्। न च "बदरामलकं, बदरामलकानि" इति भाष्यदर्शनादिष्टापत्तिरिति वाच्यम्, तत्र बदरामलकानीति क्वाचित्कः पाठः, सोऽपि बदरामलकानीत्येवं प्राप्ते जातिलक्षणो नित्य एकवद्भाव इति व्याख्येन इति कैयटेनोक्तत्वात्। यत्तु नित्ये एकवद्भावे प्राप्ते विकल्पोऽनेन क्रियते इति मतान्तरं कैयटेनोक्तम्। तदापाततः, "बदरामलके तिष्ठतः" इति तदुत्तरभाष्यविरोधात्। उक्तरीत्या प्रकृतवार्त्तिकस्य बहुप्रकृतिके विकल्पविधिपरत्वे हि अन्यत्र नित्य एकवद्भावो दुर्वारः स्यादिति दिक्।
(पाoसूo2-4-12)
तत्रापि यदि "विभाषा वृक्ष"(पाoसूo2-4-12)इत्यत्र पठितत्वादस्यैव शेषः स्यात्, तदा वनस्पत्यादिष्वबहुप्रकृतित्वे विकल्पाभावेऽपि "जातिरप्राणिनाम्"(पाoसूo2-4-6)इति नित्यो विधिः स्यात्। तस्मात्सर्वप्रकरणशेषोऽयम्। एषां फलादीनां द्वन्द्वोऽनेन लक्षणान्तरेण वा एकवद्भवन् बहुप्रकृतिरेवेति। तेन "प्लक्षन्यग्रोधौ" इत्यत्र अयं विकल्पो "जातिरप्राणिनाम्"(पाoसूo2-4-6)इति नित्यश्च न भवति। एवं व्रीहियवौ कुशकाशावित्यादि।
प्रकृतसूत्रोपात्तानान्तु इत्यं विषयविभागः-येऽवाप्राणिनस्तेषां "जातिरप्राणिनाम्"(पाoसूo2-4-6)इति नित्यं प्राप्ते विकल्पो विधीयते। स च तेषां तैरेव। तथाच वृक्षादीनामन्यैः सह द्वन्द्वे यथाप्राप्तं नित्यं विकल्पो वा। तद्यथा-`व्रीहिकुशप्लक्षम्' इत्यत्र "जातिरप्राणिनाम्"(पाoसूo2-4-6)इति नित्यः। `प्लक्षशब्दस्पर्शे, `प्लक्षशब्दस्पर्शाः' इत्यत्र तु "चार्थे द्वन्द्वः"(पाoसूo2-2-29)इत्युभयत्र। न चेह "जातिरप्राणिनाम्"(पाoसूo2-4-6)इत्यस्य प्रवृत्तिः, अद्रव्यजातित्वात्। अप्राणिनामिति हि पर्युदास इत्युक्तम्। पशुग्रहणन्तु हस्त्यश्वादिषु सेनाङ्गलक्षमस्य नित्यविधेर्बाधनार्थम्। मृगशकुनिग्रहणं त्ववशिष्यते। तत्रेत्थं वचनं व्यज्यते-यो विभाषाप्राप्त एकवचनो द्वन्द्वः स मृगविशेषाणां तैरेव नान्यैरिति। तेनैषामन्यैः सह इतरेतरयोग एवेति फलितम्। एवं `पूर्वापरम्' `अधरोत्तरम्' इत्यत्रापि। पशुद्वन्द्वत्वादेव सिद्धे अश्ववडवग्रहणं प्रतिपदविधानार्थम्। तेनैकवद्भावपक्षे "पूर्ववदश्ववडवौ"(पाoसूo2-4-27)इत्येतद्‌बाधित्वा "स नपुंसकम्"(पाoसूo2-4-17)इति प्रवर्तते। तच्छब्दो हि एकवद्भावभाजं परामृशति। तेन एकवद्भाववन्नपुंसकत्वमपि प्रतिपदविहितं सम्पद्यते। "पूर्ववदश्ववडवौ"(पाoसूo2-4-27)इति त्वेकवद्भावविरहपक्षे प्रवर्त्तते। अश्ववडवौ। अश्ववडवान्।।
(पाoसूo2-4-13)
विप्रतितिषिद्धं चानधिकरणवाचि(पाoसूo2-4-13)। विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात्। अत्रेदं नियमशरीरम्-यएकवचनो द्वन्द्वो विभाषा प्राप्तः, स यदि विप्रतिषिद्धवाचिनां भवति, तदा अद्रव्यवाचिनामेवेति। तेन द्रव्यवाचिनामितरेतरयोग एव। शीतोष्णो उदके स्तः। विप्रतिषिद्धं किम्? नन्दकपाञ्चजन्यम्। इह द्रव्यवाचित्वेऽपि पाक्षिकः समाहारद्वन्द्वो भवत्येव। यत्तु वृत्तौ `कामक्रोधौ' इति प्रत्युदाहृतं, तत्रापि `शीतोष्णं' `सुखदुःखम्' इत्यादाविव पाक्षिकस्यैकवद्भावस्य दुर्वारत्वात्। नियमार्थं हि प्रकृतसूत्रमिति स्थितम्। न च अद्रव्यवाचिनाञ्चेद्भवति तर्हि विप्रतिषिद्धानामेवेति तदाशयः कल्प्यः, "शीतोष्ण उदके" इत्यत्र पाक्षिकैकवद्भावापत्त्या "अनधिकरणवाचीति किम्? शीतोष्णे उदके" इत्येवंरूपस्वोक्तिविरोधापत्तेः, सौत्रानुपूर्वीस्वरसभङ्गप्रसङ्गाच्चेति दिक्।
(पाoसूo2-4-14)
न दधिपयआदीनि(पाoसूo2-4-14)। एतानि नैकवत्स्युः। दधिपयसी। मधुसर्पिई। सर्पिर्मधुनी। इह त्रिषु व्यञ्जनत्वाद्विकल्पः प्राप्तः। ब्रह्मप्रजापती। शिववैश्रवणौ। स्कन्दविशाखौ। न चेह विरूपाणामपीति एकशेषः शङ्कयः,
"स्कन्दश्चैव विशाखश्च द्वौ सुतौ संबभूवतुः।"
इति महाभारतस्वरसेनापर्यायत्वनिर्णयात्। परिव्राट्कौशिकौ। प्रवर्ग्योपसदौ। शुक्लकृष्णे। इध्माबर्हिषी, निपातनाद्दीर्घः। दीक्षात पसी। श्रद्धातपसी। मेधातपसी। अध्ययनतपसी। उलूखलमुसले। आद्यवसाने। श्रद्धामेधे। ऋक्सामे। वाङ्मनसे। इह ब्रह्मप्रजापत्यादिषु समाहारद्वन्द्वनिषेधमुखेनेतरेतरयोगद्वन्द्वो व्यवस्थाप्यते। तत्साहचर्यात्। `दधिपयसी' इत्यादावपि तथैव। तेन तत्र व्यञ्जनत्वप्रयुक्तविकल्पे निषिद्धेऽपि जातिलक्षणो नित्य एकवद्भावोऽस्त्विति न शङ्कनीयम्। निषिद्धेऽपि जातिलक्षणो नित्य एकवद्भावोऽस्त्विति न शङ्कनीयम्। किञ्च षट्स्वस्रादिभ्यः"(पाoसूo4-1-10)इत्यत्र स्त्रियां यदुक्तं तन्नेति। सामान्यतो निषिद्ध्यते। तथाच वक्ष्यति-दोषस्त्वित्वे तस्मान्नोभाविति। ननु भवेदेवं यदि "जातिप्राणिनाम्"(पाoसूo2-4-6)इति विधिः स्यात्, निषेधस्तु सः। तथाच तेनेतरेतरयोगे प्रकृतसूत्रेण समाहारे च निषेधाद्दधिपयआदीनां द्वन्द्व एव न लभ्येत।
अत्रोच्यते-नियमवाक्यानां विधिरूपेण निवेधरूपेण वा प्रवृत्तिरिति पक्षद्वयं तावत्प्रत्ययलक्षणसुत्रे उपपादितम् "द्‌युद्भयो लुङि"(पाoसूo1-3-91)इत्यादौ भाष्यारूढं च। तत्र "जातिरप्राणिनाम्"(पाoसूo2-4-6)इत्यादौ विधिमुखतापक्षस्यैव लभ्यानुरोधेनाश्रयणात्तस्य च "न दधि"(पाoसूo2-4-14)इत्यादिना निषेधात्सर्वं सुस्थम्।
(पाoसूo2-4-15)
अधिकरणैतावत्त्वे च(पाoसूo2-4-15)। द्रव्यसङ्ख्यावगमे नैकवत्स्यात्। दश दन्तोष्ठाः। ननु वर्त्तिपदार्थस्य सङ्ख्याविशेषे बोधनीये इतरेतरयोगद्वन्द्व एवेति न्यायसिद्धम्। अन्यथा हि "दशपञ्चपूल्यः" इति द्विगाविव प्रधानभूते समाहार एव दशत्वसङ्ख्या अन्वियात् न तु समुदायादिषु तत्किं निषेधेन? सत्यम्, नानेन समाहारद्वन्द्वो निषिध्यते, किन्तु प्राण्यङ्गादीनां समाहार एवेति योऽसौ नियमः स एव निषिध्यते। असति हि निषेधे
पञ्चस्विहास्याङ्‌घ्रिकरेष्वभिख्या भिक्षाऽधुना माधुकरीसदृक्षा।
इत्यादीनामसाधुत्वं स्यात्, समाहार एवेति नियमेनेतरेतरयोगे द्वन्द्वस्य दुर्लभत्वात्। तथाच सङ्ख्यावगतावेकवदेवेति नियमो न स्यादिति सूत्रार्थः फलितः। तस्मादितरेतरयोगद्वन्द्वस्य प्रतिप्रसवार्थमिदम्। एतेन "दश दन्तोष्ठाः" इत्यादौ समाहारद्वन्द्वस्येवेतरेतरयोगद्वन्द्वस्यापि दौर्लभ्याद्वाक्यमेव प्रयोज्यम्। अधिकरणैतावत्त्वेचेत्यनेन प्राण्यङ्गानां समाहार एवेत्यनेन चोभयोर्निषेधादिति प्रत्युक्तम्। "दश ब्राह्मण क्षत्रियाः" इत्यादौ प्रागुक्तन्यायबलेनैव समाहारद्वन्द्वो वारणीयः।
(पाoसूo2-4-16)
विभाषा समीपे(पाoसूo2-4-16)। अधिकरणैतावत्त्वस्य सामीप्येन परिच्छित्तौ समाहार एवेत्येवंरूपो नियमो वा स्यात्। उपदशं दन्तोष्ठम्। उपदशा दन्तोष्ठाः। "अव्ययं विभक्ति"(पाoसूo2-1-6)इत्यादिना सुबन्तसामान्येन विधीयमानोऽव्ययीभावः सङ्ख्ययापि भवति। बहुव्रीहिस्तु "सङ्ख्ययाव्ययासन्ना"(पाoसूo2-2-25)इत्यादिना विशिष्य विहितः। तत्रैकवद्भावपक्षे अव्ययीभावोऽनुप्रयुज्यते। एकार्थस्य त्वेकार्थ एवान्तरङ्ग। ऐकार्थ्येञ्च सामीप्यप्रधानत्वात्। यद्यप्यव्ययीभावो निःसङ्ख्यस्तथापि भेदाभावरूपमैकार्थ्यं बोध्यम्। सामानाधिकरण्यन्तु सामीप्यतद्वतोरभेदविवक्षया। अधिकरणैतावत्त्वं तु समाहारसमाहारिणोरभेदविवक्षया। पक्षान्तरे तु बव्हर्थस्य बव्हर्थो बहुव्रीहिरेवानुप्रयुज्यते। बव्हर्थत्वञ्च तस्य समीपिप्राधान्यात्। यदि तूभयत्राव्ययीभाव एवानुप्रयुज्यते, तदा तस्याव्ययत्वाद् बहुत्वाभावाद्‌बहुवचनं न स्यात्। सत्यपि वा तस्मिन्नमभावे कृते `उपदशा' इति न स्यात्, बहुव्रीहेरेवानुप्रयोगे तु उपदशस्य पाणिपादस्येति षष्ठी स्यात्। उपदशं पाणिपादस्येति चेष्यति। तस्माद्यथोक्तमेव मनोरमम्।
(पाoसूo2-4-17)
स नपुंसकम्(पाoसूo2-4-17)। समाहारे द्विगुर्द्वन्द्वश्चनपुंसकःस्यात्। परवल्लिङ्गापवादः। पञ्चगवम्। दन्तोष्ठम्। प्रकरणादेवानुवाद्यलाभे सग्रहणमेतत्प्रकरणानुपात्तस्यापि समाहारद्वन्द्वस्य सङ्ग्रहार्थम्। तथा च "युवोरनाकौ"(पाoसूo7-1-1)इत्यादावुच्यते-युवोरिति समाहारद्वन्द्वे "सनपुंसकम्"(पाoसूo2-4-17)इति क्लीबत्वं स्यादिति। अत एव प्रयुज्यते "कार्यकालं संज्ञापरिभाषम्" इति। अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः(काoवाo)। अत इत्यधिकारे "द्विगो"(पाoसूo4-1-21)इति ङीब्विधानमिह लिङ्गम्। पञ्चमूली। वाबन्तः(काoवाo)। पञ्चखट्‌वी, पञ्चखट्वी, पञ्चखट्वम्। स्त्रीत्वपक्षे उपसर्जनह्रस्वत्वम्। अनो नलोपश्च वा च द्विगुः स्त्रियाम्(काoवाo)। पञ्चतक्षं, पञ्चतक्षी। "उत्तरपदत्वे चापदादिविधौ"(काoवाo)इति प्रत्ययलक्षणप्रतिषेधात् पदत्वाभावान्नलोपवचनम्। पात्राद्यन्तस्य प्रतिषेधः। पञ्चपात्रम्। त्रिभुवनम्। चतुर्युगम्। द्विसमासम्। पात्रादिराकृतिगणः।
(पाoसूo2-4-18)
अव्ययीभावश्च(पाoसूo2-4-18)। अयं नपुंसकं स्यात्। अधिस्त्रि। उन्मत्तगङ्गम्। पूर्वपदार्थप्रधानस्य अलिङ्गत्वेऽन्यपदार्थप्रधानस्य तु विशेष्यलिङ्गत्वे प्राप्ते इदमुच्यते। अनुक्तसमुच्चयार्थश्चकारः। तत्फलन्तु "पुण्यसुदिनाभ्यामन्हः"(काoवाo)पुण्याहम्। सुदिनाहम्। कर्मधारये "राजाहस्सखिब्यष्टच्"(पाoसूo5-4-91)। "रात्रान्हाहाः पुंसि"(पाoसूo2-4-29)इत्यस्यापवादः। सुदिनशब्दः प्रशस्तवाची। तथा च प्रयुज्यते-
सिदिनासु सभासुकार्यमेतत् प्रवचिन्वीत विशेषतः स्वयञ्च। इति।
तेनेह दिनाहःशब्दयोः सहप्रयोगविरोधो न शङ्कनीयः। पथः सङ्ख्याव्ययादे(काoवाo)त्रयाणां पन्थाः त्रिपथम्। विरूपः पन्थाः विपथम्। प्रादिसमासः कथन्तर्हि-"अतिपन्थाः सुपन्थाश्च"(अoकोo2-1-16)इत्यमरः? उच्यते, पथ इति कृतसमासान्तात्प्रथमा; संख्याव्ययरूपादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः। पथः क्लीबतेति पाठेऽति सङ्ख्यादिपथशब्दस्याव्यभिचरितसमासान्ततया तत्साहचर्यादव्ययादेरपि तथाभूतस्यैव ग्रहणं बोध्यम्। तथाच क्लीबलिङ्गकारिका-पथः सङ्ख्याव्ययात्पर इति। न चेह समासान्तोस्ति, " न पूजनात्"(पाoसूo5-4-59)इति निषेधात्। कथन्तर्हि "सत्पथश्चार्चितेऽध्वनि" इति? स्वतिभ्यामेवेति परिगणनात्। अथ कथं-
इत्यमरः(अoकोo2-1-16)? अत्र क्षीरस्वामिदुर्घटादयो विपथं कापथमित्येव पाठः कर्तव्यो लिङ्गकारिकाद्यनुरोधादित्याहुः। एवन्तु "व्यध्यौ विपथकापथौ" इति रभसकोशेऽपि पंस्त्वं प्रामादिकमिति लभ्यते। वस्तुतस्तु पथे गतौ इत्यस्मात्पचाद्यचि पथते व्याप्नोतीति पथः, अकारान्तोऽयम्। तथाच त्रिकाण्डशेषः, "वाटः पथश्च मार्गः स्यात्" इति। तेन समासे पुंस्त्वन्न। न चैवं `विपथः' इति सिद्धावपि `कापथो' न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम्, ईषदर्थे चेति तत्सम्भवात्, कुत्सायमर्थतः पर्यवसानात्। यत्त्वकारान्तस्याभ्युपामे "पथो विभाषा"(पाoसूo5-4-72)इति सूत्रं व्यर्थं स्यादिति माधवेनोक्तम्। तत्रायं समाधिः-"अपथं नपुंसकम्"(पाoसूo2-4-30)इति सूत्रे कृतसमासान्तनिर्द्देशसामर्थ्यात् "नञस्तत्पुरुषात्"(पाoसूo5-4-71)इत्यस्य नित्यं बाधः प्राप्तः। न च सोऽप्यकारान्तस्य निर्देशः, "पथःसङ्ख्याव्ययादेः"(काoवाo)इत्यत्रापि तथात्वापत्तौ सत्यामपथो विपथः कापथ इत्याद्यसिद्ध्यापत्तेः। किञ्च "रात्रान्हाहाः"(पाoसूo2-4-29)इति सूत्रात्परम् "अपथं नपुंसकम्"(पाoसूo2-4-30)इति सूत्रे वार्त्तिकं पठ्यते। तथाच प्रक्रमानुरोधात्कृतसमासान्तनिर्द्देश एव न्याय्यः सम्प्रदायसिद्धश्च। अत ए "अपथं नपुंसकम्"(पाoसूo2-4-30)इति सूत्रस्य वार्त्तिकेन गतार्थतामाशङ्कय सूत्रस्य प्राच्यत्वाददोष इति कैयटः। एवं स्थिते `अपन्थाः' इत्येतत्सिद्धये "पथो विभाषा"(पाoसूo4-5-72)इति सूत्रम्, अमरस्य च न पूर्वापरविरोध इत्यवधेयम्।
प्रकृतमनुसरामः-इदं क्लीबत्वविधानं परवल्लिङ्गताया अपवादः। तेन "विपथा नगरी" इति बहुव्रीहौ न। पन्थानमतिक्रान्ताऽतिपथेत्यत्रापि न। इह हि "द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु न"(काoवाo)इति परवल्लिङ्गता प्रतिषिद्धा। यद्येवमुत्पथमिति प्रतीकमुपादाय "कुगति"(पाoसूo2-2-18)इति तत्पुरुष इति कैयटो विरुध्यते। मैवम्, न हि तत्र `पथ उद्गतः' इत्यादिविग्रहः, किन्तु उत्कृष्टः पन्था इति। तथा च परवल्लिङ्गमेव प्राप्तम्। तस्मादुत्तरपदार्थप्राधान्य एवेदं लिङ्गविधानमिति स्थितम्। स्पष्टञ्चेदं माधवग्रन्थे। यत्तु वृत्तिग्रन्थे `सुपथम्' इत्युदाहृतम्। तत्र सुखब्दस्य। वैपुल्यमर्थो न तु पूजेति समासान्तः कृत इति माधवः। क्रियाविशेषणानाञ्च क्रियाया असत्त्वरूपत्वात्तद्विशेषणानां तद्वदलिङ्गत्वे प्राप्ते वचनमिदं वार्त्तिकानारूढमपि वृत्तिकारेण कृतमित्याहुः। मृदु पचति। प्रथमं पचति। "सामान्ये नपुंसकम्"(काoवाo)इति वा सिद्धम्। अत ए नियतलिङ्गेषु नेदं प्रवर्त्तते। आदिं पचति। आदिभूता या विक्लित्तिस्तां करोतीत्यर्थः। धातूपात्तभावनाम्प्रति कर्मत्वात्तत्सामानाधिकरण्याद्वा द्वितीया। अत एव `सकृल्ल्वौ' इत्यादौ कारकपूर्वाद्यणित्याकरः। न च सकलकारकाणां क्रियाविशेषणत्वात् क्लीबतापत्तिः शङ्क्या, कारकाणां विभक्त्यर्थत्वरूपत्वाच्च। शक्त्याधारस्तु यद्यपि द्रव्यं नामार्थश्च; तथापि नासौ क्रियां प्रति विशेषणं, किन्तु क्रियाविशेषणीभूतकारकविशेषणमिति बोध्यम्। अत एव नामार्थस्य भेदेन धात्वर्थान्वयो नेति सिद्धान्तः। `स्तोकं पच्यते' इत्यादावपि धात्वर्थव्याप्यस्यैव तण्डुलादेर्नाभिधानं न तु धातुक्रोडीकृतस्यापि "भावे चाकर्मकेभ्यः"(पाoसूo3-4-69)इत्यत्र विशेषणसामर्थ्याद्बाह्यकर्मग्रहणे "लः कर्मणि"(पाoसूo3-4-69)इत्यत्रापि तथैव निर्णयात्। अतो धातुना क्रोडीकृतस्य विशेषणं द्वितीयान्तमेव, न तु अभिहितत्वप्रयुक्तप्रथमान्तम्। न वा "स्तोकमोदनस्य पक्ता" इत्यत्र स्तोकशब्दात्त्कृद्योगलक्षणा षष्ठी। यत्र तु भावनाम्प्रति करणतया धात्वर्थविशेषस्यान्वयस्तत्र विशेषणानां तृतीयान्ततैव "ज्योतिष्टोमेन यजेत" इति यथा। स्पष्टं चेदं "करणे यजः"(पाoसूo3-2-85)इति सूत्रे वृत्तिपदमञ्जर्योः। न चैवं "ज्योतिष्टोमेन समीचीनं यजेत्" इति न स्यादिति वाच्यम्, भावनाविशेषणत्वे तदुपपत्तेः। तत्र च प्रथमान्ततैव। सन्दर्शनप्रार्थनादिभिर्व्याप्यमानत्वात्क्रियाया अपि कृत्रिमकर्मत्वे तु तद्विशेषणत्वेऽपि द्वितीयैव। तदिह क्रियाविशेषणानां क्लीबतेत्युक्तत्वात्। एकवचनमप्युत्सर्गः। `हतशायिकाः शय्यन्ते' इत्यादौ बहुवचनस्यापि "सार्वधातुके यक्"(पाoसूo3-1-67)इति सूत्रे वक्ष्यमाणत्वादिति दिक्। `प्रातःकमनीयम्' इत्याद्यव्ययविशेषणे तु क्लीबत्वं यद्यपि तुल्यं तथापि प्रथमैकवचनमेव न तु द्वितीयैकवचनम्, कर्मताभावनात्। प्रातरादिरिति तु नियतलिङ्गमेवेति दिक्। यद्यप्येतानि वार्त्तिकानि भाष्ये "अपथं नपुंसकम्"(पाoसूo2-4-30)इत्यत्र पठितानि तथापि "अव्ययीभावश्च"(पाoसूo4-3-59)इति चकारसूचितार्थकथनपराणीत्याशयेन वृत्त्यनुरोधादिहैव व्याख्यातानि।
(पाoसूo2-4-19)
तत्पुरुषोऽनञ्कर्मधारयः(पाoसूo2-4-19)। अधिकारोऽयम्। कर्मधारयशब्दो भावप्रधानः। द्वन्द्वगर्भो नञा बहुव्रीहिः। न विद्येते नञ् च कर्मधारयत्वं चेत्युभे यत्र स तत्पुरुष इत्यर्थः। वक्ष्यति "विभाषा सेनासुरा"(पाoसूo2-4-25)इत्यादि। तत्पुरुषः किम्? दृढसेनो राजा। नञ्‌रहितः किम्? असेना। कर्मधारयत्वरहितः किम्? परमसेना। मध्यमसूत्रेष्वयमधिकारो नातीवोपयुज्यत इति तत्रैव वक्ष्यामः।
(पाoसूo2-4-20)
संज्ञायां कन्थोशीनरेषु(पाoसूo2-4-20)। कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा। सुसमस्यापत्यानि सौशमयः, तेषां कन्था सौशमिकन्थम्। संज्ञायां किम्? वीरणकन्था। ऊशीनरदेशेषु किम्? दाक्षिकन्था। इहानादिः संज्ञा गृह्यते। सा चोशीनरेषु तत्पुरुषभिन्ना नञ्समासरूपा कर्मधारयश्च नास्तेवेतीह मन्दमघिकारस्य फलम्।
(पाoसूo2-4-21)
उपज्ञोपक्रमन्तदाद्याचिख्यासायाम्(पाoसूo2-4-21)। उपज्ञायते इत्युपज्ञा। "आतश्चोपसर्गे"(पाoसूo3-1-136)इति कर्मण्यङ् प्रत्ययः। उपक्रम्यते इत्युपक्रमः। कर्मणि घञ्। "नोदात्तपदेशस्य"(पाoसूo7-3-34)इति वृद्धिप्रतिषेधः। उपज्ञान्त उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात्, तयोरुपज्ञोपक्रमयोरादिः प्राथम्यञ्चेदाख्यातुमिष्यते। पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः। त्वदुपक्रमं सौजन्यम्। इच्छासनेह विवक्षैव शब्दव्युत्पत्तौ नियामिका न तु वस्तुस्थितिरिति ज्ञाप्यते। तेन क्रियासम्बन्धमात्रविवक्षायां न `देवदत्तोपज्ञो रथः' इत्यादि। इह षष्ठीतत्पुरुषाद्विना तदादित्वासम्प्रत्ययादलभ्यमधिकारफलम्।
(पाoसूo2-4-22)
छाया बाहुल्ये(पाoसूo2-4-22)। छायान्तस्तत्पुरुषो नपुंसकं स्याद् बाहुल्ये सति चेच्छायाम्। यानि सम्भूयोपजीव्यां छायामारभमाणान्यावरकद्रव्याणि तत्समर्पकात्पूर्वपदात्परश्छायाशब्दश्चेदित्यर्थात्फलति। अत एवेह नाधिकारः फलवान्। इक्षूणां छाया इक्षुच्छायम्। "विभाषासेना"(पाoसूo2-4-25)इत्यादेर्विकल्पस्यापवादोऽयम्। कथन्तर्हि `इक्षुच्छायानिषादिन्यः'(रoवंo4-20)इति? उच्यते, आसमन्तान्निषादिन्य इत्याङ्प्रश्लोषो बोध्यः।
(पाoसूo2-4-23)
सभा राजाऽमनुष्यपूर्वा(पाoसूo2-4-23)। राजपूर्वा अमनुष्यपूर्वाच या सभा तदन्तस्तत्पुरुषो नपुंसकं स्यात्। इनसभम्। ईश्वरसभम्। पर्यायस्यैवेष्यते। तथाहि, अराजेतिच्छेदः। नञिवयुक्तन्यायाच्चाराजा राजसदृशस्तत्पर्यायो गृह्यते। नेह, राजसभा। चन्द्रगुप्तसभा। कथं "नृपतिसामगमन्न वेपमाना"(मoभाo)इति कीचकवधे? गजपतिवद्राजविशेषवाचित्वादिति रक्षितः। यद्वा, ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्कर्मधारयः। अनञ्‌कर्मधारय इत्यनुवृत्तेर्न क्लीबत्वम्। अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह। रक्षःसभम्। रूढ्यर्थाभावान्नेह-काष्ठसभा।
(पाoसूo2-4-24)
अशाला च(पाoसूo2-4-24)। शालावाची सङ्घातवाची च सभाशब्दः। तत्र राजामनुष्यपूर्वत्वे पूर्वसूत्रेण पूर्वस्य क्लीबत्वमुक्तम्। सङ्घातवाचिनस्तु अनेन विधीयते। स्त्रीसभम्, स्त्रीसङ्घात इत्यर्थः। अशाला किम्?अनाथसभा, अनाथकुटीत्यर्थः।
(पाoसूo2-4-25)
विभाषा सेनासुराच्छायाशालानिशानाम्(पाoसूo2-4-25)। एतदन्तस्य तत्पुरुषस्य क्लीबता वा स्यात् ब्राह्मणसेनम्, ब्राह्मणसेना। यवसुरम्, यवसुरा। कुड्यच्छायम्, कुड्यच्छाया। गोशालम्, गोशाला। श्वनिशम्, श्वनिशा कृष्ण चतुर्दशीत्याहुः। तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः। "शुनश्चतुर्दश्यामुवसतः पश्यामः" इति तिर्यगधिकरणे शाबरभाष्यम्।
(पाoसूo2-4-26)
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः(पाoसूo2-4-26)। एतयोः परपदस्यैव लिङ्गं स्यात्। कुक्कुटमयूर्याविमौ, मयूरीकुक्कुटाविमौ। अर्धं पिप्पल्या अर्धपिप्पली।
स्यादेतत् यदि समासार्थस्य परवल्लिङ्गत्वमनेनातिदिश्यते, तर्हि "पूर्ववदश्ववडवौ"(पाoसूo2-4-27)इति सूत्रेणापि न्यायसाम्यात्समासस्यैवातिदेष्टव्यम्। ततश्च टाप् श्रूयते समासार्थस्य पुंस्त्वेऽपि उत्तरपदार्थस्य स्त्रीत्वानपगमात्। यत्तु "गौस्त्रियोः"(पाoसूo1-2-48)इति ह्रस्व इति। तन्न, "चार्थे द्वन्द्वः"(पाoसूo2-2-29)इत्यत्रानेकमित्यधिकारात्सर्वेषां प्रथमानिर्दिष्टत्वेऽपिं प्राधान्यादुपसर्जनसञ्ज्ञाविरहात्। अन्वर्थसंज्ञा हि सा। अत एव राज्ञः कुमार्याः राजकुमार्या इत्यत्र न ह्रस्व इत्युक्तम्। अत एव च `कुक्कुटमयूर्यौ' इत्यत्र न ह्रस्वः। ननु मास्त्वन्वर्थता। तथाच `अश्ववडवौ' इति सिद्ध्यति। `राजकुमार्याः' `कुक्कुटमयूर्यौ' इत्यत्र तु हस्वे कृते पुनः स्त्रीप्रत्ययात्। सिद्धम्। तदुक्तम्-`परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तथाहि, लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्च गृह्यते, तन्त्राद्याश्रयणात्। एवञ्च द्वन्द्वार्थस्य तत्पुरुषार्थस्य च परस्येव लिङ्गं स्यात्। तदभिधायी प्रत्ययश्च परस्येवेति सूत्रार्थः। तथा च यत्र `द्रव्यगुणौ' `गुणकर्मणी' इत्यादौ लिङ्गाभिधायी प्रत्ययो न सम्भवति तत्रार्थ एवातिदिश्यते। उभयसम्भवे तूभयम्। यथा `कुक्कुटमयूर्यौ' इत्यादौ। ततश्च औपदेशिकस्य ह्रस्वत्वेऽप्यातिदेशिकस्य श्रवणं भविष्यति। न च पुनर्ह्रस्वः शङ्क्यः, अनुपसर्जनत्वात्तदन्यस्याप्रातिपदिकत्वाच्च। न चैवमपि `दत्तागार्ग्यायण्यौ' `दत्ताकारीषगन्ध्ये' इत्यत्र ह्रस्वत्वे कृते समासात्पुनः फक्‌ष्यङौ स्यातामिति वाच्यम्, "भ्सायठढे तद्धिते"(काoवाo)इति पूर्वोत्पन्नयेर्निवृत्तिसम्भवादिष्टापत्तेरिति। मैवम्, `द्त्ता च युवतिश्च दत्तायुवती' इत्यत्र तिप्रत्ययद्वयश्रवमापत्तेः। तत्राभत्वेन पुंवद्भावायोगात्। तस्मादुपसर्जनत्वं द्वन्द्वे नास्त्येव अन्वर्थत्वादिति स्थितम्। `अश्ववडवौ' इत्यत्र स्त्रीप्रत्ययनिवृत्तौ उपायान्तरं वक्तव्यमिति।
अत्रोच्यते, "विभाषावृक्षमृग"(पाoसूo2-4-12)इतिसूत्रेऽश्ववडवेत्यत्र टापो निवृत्तिर्निपात्यते। तदुक्तम्-"समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाबलुग्वचनं निपातनात् सिद्धम्" इति। "द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्य"(काoवाo)। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः। अलङ्कुमारिः। निष्कौशाम्बिः। भाष्ये त्वेतत्प्रत्याख्यातम्। तथाहि, तत्पुरुषग्रहणं न करिष्यते। परवल्लिङ्गं द्वन्द्वस्येत्येव। कथं `पूर्वकायः' `अर्द्धपिप्ली' इति? एकदेशिसमासोऽपि नारभ्यते। कर्मधारय एवायं-पूर्वश्चासौ कायश्च, अर्द्धञ्चासौ पिप्पली चेति। ततश्च प्राधान्यादेवोत्तरपदार्थस्य लिङ्गं भवति। न च षष्ठीसमासबाधनार्थमेकदेशिसमासोऽवश्यारब्धव्य इति वाच्यम्, इष्टत्वादनभिधानाच्च। तथाहि, "द्वितीयतृतीय"(पाoसूo2-2-3)इत्यत्रान्यतरस्याङ्ग्रहणात्सूत्रकारस्यापिन षष्ठीसमास इष्टः, अर्धशब्देनापि षष्ठीसमासो भाष्यकाराणामिष्ट इति प्रागेवोक्तम्। `पूर्वापरम्' इत्यत्र त्वनभिधानात्षष्ठीसमासो न भविष्यतीति। इदञ्च प्रत्याख्यानं दुर्बलम्, अनभिधानाश्रयणमगतिकगतिरिति सन्प्रत्ययविधौ भाष्य एवोक्तत्वात्।
(पाoसूo2-4-27)
पूर्ववदश्ववडवौ(पाoसूo2-4-27)। द्विवचनमतन्त्रम्। अर्थातिदेशश्चायम्। परवल्लिङ्गतापवादः। अश्ववडवौ, अश्ववडवान्, अश्ववडवैर्जवनैरित्यादि। "विभाषा वृक्ष"(पाoसूo2-4-12)इत्यादिसूत्रेण समाहारद्वन्द्वपक्षे तु "स नपुंसकम्"(पाoसूo2-4-17)इनत्येव भवति, तच्छब्देन विशिष्य परामर्शार्थमेवास्ववडवग्रहणात्। अन्यथा पशुग्रहणेनैव सिद्धौ। तद्वैयर्थ्यापत्तेरित्युक्तम्।
(पाoसूo2-4-28)
हेमन्तशिशिरावहोरात्रे च चछन्दसि(पाoसूo2-4-28)। पूर्ववदित्यनुवर्तते। हेम न्तश्च शिशिरे च हेमन्तशिशिरौ। अत्रेदमवधेयम्, शिशिरशब्दः पुन्नपुंसकयोः। तथाच चक्रवज्रान्धकारेति सूत्रे तिमिरशिशिराणि नपुंसके चेति भगवान्पाणिनिः। अमरोऽपि-"हेमन्तः शिशिरोऽस्त्रियामा"(अoकोo1-4-19)इत्याह। तथा चात्र सूत्रे "रात्रान्हाहाः"(पाoसूo2-4-29)इति पुंस्त्वं प्राप्तम्। द्वित्वमन्तत्रम्। अहोरात्राणि विदधत्। न चेदं समाहारद्वन्द्वे सत्येकशेषात्सिद्धमिति वाच्यम्, तत्रापि पुंस्त्वस्योत्तरसूत्रे वक्ष्यमाणत्वात्। छन्दसि लिङ्गव्यत्ययो वक्ष्यते तस्यैवायं प्रपञ्चः। लोके तु दुःखे हेमन्तशिशिरे। अहोरात्रौ पुण्यौ।
(पाoसूo2-4-29)
रात्रान्हाहाः पुंसि(पाoसूo2-4-29)। एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। रात्रेः पूर्वो भागः पूर्वरात्रः। एकदेशिसमासः। "अहः सर्वैकदेश"(पाoसूo5-4-87)इत्यच् समासान्तः। पूर्वाह्णः। "राजाहः सखिभ्यः"(पाoसूo5-4-91)इति टच्। "अन्होऽन्ह एतेभ्यः"(पाoसूo5-4-88)इत्यन्हादेशः। "अन्होऽदन्तात्"(पाoसूo8-4-7)इति णत्वम्। द्व्यहः। "न संख्यादे) समाहारे"(पाoसूo5-4-89)इत्यन्हादेशाभावः। "अन्हष्टखोरेव"(पाoसूo6-4-185)इति टिलोपः। परवल्लिङ्गापवादोऽयं योगः। वृत्तौ तु एते पुंसीत्युक्तम्। तत्राप्येतदन्ता इत्यर्थो बोध्यः। यत्तु रात्रादीनामेवानेन पुंस्त्वे कृते तदन्तस्य "परवल्लिङ्गम्"(पाoसूo2-4-26)इत्येव सिद्धमिति। तन्न, समाहारे नपुंसकत्वापत्तेः। एरवल्लिङ्गत्वापवादो हि "स नपुंसकम्"(पाoसूo2-4-17)इति योगः। न च नपुंसकत्वे इष्टापत्तिः, `द्विरात्रः' `त्रिरात्रः' इति वृत्तिकारीयोदाहरणविरोधात्। तद्धि समाहारे द्विगुरिति सर्वै र्व्याख्यातम्। अमरोऽपि प्रायुङ्क्त-"तेन तु त्रिंशदहोरात्रः"(अoकोo1-4-12)
इति, "मासेन स्यादहोरात्रः"(अoकोo1-4-22)इति च। तस्मात्तदन्तस्यैवायं पुंस्त्वविधिः। यद्यपि सन्निधानात्परवल्लिङ्गताया एवायमपवादस्तथापि परत्वान्नपुंसकतां बाधते।
अत्रेदं चिन्त्यम्-उक्तरीत्या `अहोरात्रः' इत्यत्र पुंस्त्वमस्तु। द्विरात्रादौ तु वृत्तिकारहरदत्ताद्युक्तं पुंस्त्वमसङ्गतम्, तत्र विशिष्टक्लीबंताविधेः। तथाच लिङ्गानुशासनसूत्रम्। "आपथपुण्यादे नपुंसके"(लिoसूo132)। "संख्यापूर्वा रात्रिः"(लिoसूo132)इति। अमरोऽप्याह-"रात्रैः प्राक् संख्ययान्वितम्"(अoकोo3-5-25)इति "गणरात्रं निशाबव्ह्यः"(अoकोo1-4-6)इति च। अनुवाकादयः पुंसती वक्तव्यम्(काoवाo)। अनुवाकः। शंयुवाकः। सूक्तवाकः। वाक्यविशेषस्यैताः सञ्ज्ञाः। कर्मणि घञन्ता इति नपुंसकत्वे प्राप्ते वचनम्।
(पाoसूद2-4-30)
अपथं नपुंसकम्(पाoसूo2-4-30)। इदं नपुंसकं स्यात्तत्पुरुषे। समासान्तरे तु अपथो देशः। अपथा नगरी। कृतसमासान्तनिर्द्देशान्नेह-अपन्थाः।
(पाoसूo2-4-31)
अर्धर्चाः पुंसि च(पाoसूo2-4-31)। अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः। ते च गणरत्ने संगृहीताः। तद्यथा--
अर्धर्चध्वजकुञ्जशीधुमधवो वर्चस्ककूर्चाढकाः पङ्कानीकपिनाकनिष्ककपटाष्टङ्कः किरीटः कुटः।
कूटः कङ्गटकर्वटाण्डशकटा वल्मीकसानूनटाः खण्डोद्योगविडङ्गशृङ्गसरकाः पुंखव्रजौ मोदकः।
मधुर्मकरन्दे मद्ये माक्षिके च द्विलिङ्गः। "मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः।
अर्धर्चादिगणे पाठात्पुन्नपुंसकयोर्मधुः"।।
इति शाश्वत-। अमरस्तु-"मार्द्वीकं मधु न द्वयोः" इत्याह। चैत्रदेत्ययोस्तु पुंस्येव। वर्चस्कं शकृत्। कूर्चं दीर्घश्मश्रु। आढकं मानाविशेषः। पङ्कः कर्दमपापयोः अनीकं सैन्यम्। पिनाको रुद्रधनुस्त्रिशूलं च। निष्क आभरणम्। कपटं व्याजः। टङ्कः पाषाणभेदनः। किरीटो मुकुटम्। कुटो घटः। कूटे सङ्घातो माया च। कङ्कटं सन्नाहः। कर्वटं नद्यादिवेष्टितः खेटकग्रामः। अण्डे पक्ष्यादिप्रसवः नटो नर्त्तकविशेषः। खण्ड इक्षुविकारः शकलं च। उद्योगमुत्साहः। विडङ्ग औषधम्। सरकं मद्यम्। शेषं प्रसिद्धम्।
शोको मस्तककल्कशूकनिकराः शुल्कं निदाघो नखो बाणद्रोणसुवर्णभूषणरणाः कार्षापणस्तोरणः।
काण्डस्ताण्डवदण्डमण्डपिटकाः सक्तुस्तटाकव्रणौ पेटो मञ्चकवारबाणचरणा वस्त्राम्बरैरावताः।
कल्क औषधनिर्यासः दम्भः पातकं च। शूकं धान्यादेः सूची। शुल्कं घट्टादावायस्थानम्। द्रोणो मानविशेषः पक्षिविशेषश्च। भूषणोऽलङ्कारः। काण्डः शरनालवर्गवारिसमयकुत्सितेषु। मण्डो दध्यादेर्द्रवांशः। पिटको वंशनिर्मितः पात्रविशेषः। पेटः संहतिः। ऐरावतमिन्द्रगजः।
चरकमठविठङ्कक्ष्वेडिताभूतवृत्त-
प्रयुतघृतवसन्ता हस्तबुस्तापराङ्वाः।
पलितफलक कण्टा नाम कर्माभिदानाऽयुतशततृणनीडा यौवनोद्यानयाना-।
चरकं ग्रन्थविशेषः। मठं व्रतिनां स्थानम्। विटङ्कं कपोतपाली। क्ष्वेडितो सुखध्वनिविशेषः। भूतः पिशाचे द्विलिङ्गः। क्रियाशब्दस्तु विशेष्यलिङ्गः। वृत्तं शीलम्। प्रयुते दशलक्षाः। घृत आज्यम्। हस्तं पाणिः। बुस्तं मांसशष्कुली। पलितः पाण्डुरकेशः। फलकः खेटकम्। कण्टं पापम्। अयंनामा अयंकर्मा, कार्यमित्यर्थः।
कर्म व्याप्ये क्रियायाञ्च पुंनपुंसकयोर्मतम्।
इति रुद्रः। यौवनो द्वितीयं वयः। उद्यान आरामः यानो वाहनम्।
तीर्थप्रोथौ नलिनपुलिनस्तेययोधौषधानि स्थानः शूर्पो निधनशयनद्वीपपुच्छायुधातनि।
यूथं गूथं कुणपकुतपक्षेमवर्णासनानि च्छत्राकाशप्रतिसरमुधाष्टापदारण्यवर्षाः।।
प्रोथोऽश्वनासा। स्तेयश्चौर्यम्। योधो भटः। औषधो भेषजम्। स्थानम् आधारः। शूर्पो वेणुपात्रम्। निधनो मृत्युः। शयनः शय्या। यूथः पशुसमूहः। गूथो विष्ठा। कुणपं शवः। कुतपः कालिविशेषः। वर्णमक्षरम्। प3तिसरः कङ्कणम्। मुखो वदनम्। अष्टसु लोहेषु पदं प्रतिष्ठाऽस्येत्यष्टापदं सुवर्णम्। "अष्टनः संज्ञायाम्'(पाoसूo6-3-125)इति दीर्घः। अरण्योऽटवी। वर्षः संवत्सरः।
कमण्डलुर्मण्डपकुट्टिर्माबुदावतंसपाराः शतमानचन्दनौ।
समानपूषौ दृढमूषिकौदना दिनं च वितानलोहितौ।
अर्बुदो दशकोटिः। पर्वते तु पुल्लिंङ्गः। तथाच मेदिनी-
अर्बुदो मैंसपुरुषे दशकोटिषु न स्त्रियाम्।
महीधरविशेषे ना इति। अवतंसं सेशरम्। पारः परतीरम्। शतमानं रूप्यपलम्। समानः सदृशः। पूषो मुद्रादिनिर्यासः। मूषिक आखुः। ओदनं कूरः। दिनो दिवसः। लोहितः शोणितम्। गुणवाची तु वाच्यलिङ्गः।
अंसक्षीरकषायबिम्बविटपा नेत्राव्ययौ शेखरः केदाराश्रमशल्यशूलवलया बालस्तमालो मलः।
गुल्माङ्गारविहारतोमररसाः पात्रं पवित्रं पुरम् मध्यो बुध्नमृणालमण्डलनला नालप्रवालोत्पलाः।।
अंसः स्कन्धः। क्षीरो दुग्धम्। कषायं तुवरो रसः। बिम्बो मण्डलम्। विटपः स्तम्भः शाखा च। नेत्रो नयनम्। अव्ययमथेत्यादि। शेखरमापीडः। केदारं क्षेत्रम्। आश्रमो मुनिस्थानम्। शूलमायुधं रोगविशेषश्च। वलयो हस्ताभरणम्। बालः शिशुः केशश्च। तमालो वृक्षविशेषः। मलः पापं विट् च। गुल्मः प्रकाण्डम्। अङ्गारो दग्धकाष्ठम्। विहारः क्रीडास्थानम्। रसं मधुरादि। पात्रो भाजनम्। "त्रिषु पात्री पुटी वाटी"(अoकोo3-5-22)इत्यमरादिहायोगव्यवच्छेदे। तात्पर्यं न त्वन्ययोगव्यवच्छेदेऽपि। एवं पवित्रः पावनम्, पुरः पुरीत्याद्यपि। बुध्यनमधोभागः। नलः सुषिरतृणम्। नालः पुष्करादीनां दण्डः। अयं स्त्रियामपि, 'नाला मृणालाग्रभुजो भजामः" इति श्रीहर्षः। प्रवालं पल्लवो विद्रुमश्च।।
जृम्भो वज्रकबन्धकर्षककुदाश्चक्रान्धकाराङ्कुशा वक्त्रः संगमदेहदाडिमहिमाः पत्रं बलं वल्कलम्।
कार्पासामिषकाशकोशकुसुमप्रग्रीवमासेक्कसा निर्यासः कलशाम्बरीषकलला माषं करीषं कुशम्।
जृम्भो जृम्भणम्। वज्रः कुलिशं हीरकश्च। कबन्धं रुण्डः। कर्षः पलचतुर्भागः। ककुदं श्रेष्ठे वृषांसे राजचिन्हे च। चक्रो रथाङ्गः। अङ्कुशः सृणिः। वक्त्रो मुखम्। सङ्गमो नद्यादेर्मेलनम्। देहं शरीरम्। दाडिमं फलविशेषः। हिमस्तुहिनम्। पत्रः पर्णं वाहनं च। बलं सामर्थ्य सैन्यं च। कुसुमः पुष्पम्। प्रग्रीव वातायनम्। मासं त्रिंशदहोरात्रः। इक्कसश्चिक्कसं गोधूमादिचूर्णम्। अमरस्तु चिक्कसमर्धर्चादौ पपाठ। निर्यासं वृक्षादेर्निष्यन्दः। कलशं घटः। अम्बरीषं भ्राष्ट्रम्। कललं शुक्रशोणितयोः परिणामविशेषः। माषं परिमाणविशेषो धान्यविशेषश्च। करीषं शुष्कगोमयम्। कुशशब्दस्य विषयविवेकस्तु "दण्डमड" इत्यादिलिङ्गानुशासनसूत्रव्याख्यानावसरे वक्ष्यते।
मुसलमुकुलमूलाः पार्श्वपात्रीवपूर्वाः कमलहलचषालाः खण्डलं कुण्डलं च।
निगलफलपलाला मङ्गलं शालशीला विषचषकविशालाः पूलतेले कपालम्।।
मूलः शिफा। पात्रीवं यज्ञोपकरणम्। कमलः पद्मम्। हलः सीरम्। चषालं यज्ञापात्रविशेषः। खण्डलं खण्डम्। फलः प्रयोजनम्। शालो वृक्षविशेषः। शीलं चरितम्। विषो वत्सनागादिः। चषको मधुपान भाजनम्। पूलं बद्धतृणसंचयः।।
समरतिमिरवारा राजसूयोपवासौ चमसदिवसकंसा वाजपेयो हिरण्यम्।।
जठरदरशरीराऽऽरावकान्तारराष्ट्राः पटहगृहकवाटाः कुक्कुटार्द्रौ च धाम।।
वारः परिपाटी। "कंसोऽस्त्री पानभाजनम्'(अoकोo2-9-33)इत्यर्थः। दरस्त्रासे रोगे अल्पे च। शरीरः कायः। आरावः। शब्दः। गृहशब्दो नपुंसकेऽभिधेयवचनः। पुंसि तु बहुवचनान्त एव। "कवाटमररं तुल्ये"(अoकोo2-2-18)इत्यमरः। अत्रैव कपाटशब्दोऽपि साधुरिति "शक्तौ हस्तिकपाटयोः(पाoसूo3-2-98)इति सूत्रे वक्ष्यामः। आर्द्रः शृङ्गवेरम्। धाम गृहं तेजश्च।।
पद्माषाढकापित्थषष्टिककुलान्यम्भोजवाजामृताः स्थूलद्यूतखलीनलोहकवचाशोकक्षयानेकपाः।
शङ्खस्तण्डकधर्मचर्मरजतस्नेहासिहंसापराः सारः सैन्धवमध्यमाध्वरधनुर्मानस्तनस्थाणवः।।
पद्मो निधौ पुंसि, जलजे तु द्विलिङ्गः। आषाढं व्रतिदण्डो मासश्च। कपित्थो वृक्षविशेषः। वृत्तौ तु कवियेति पठ्यते, अश्वमुखबन्धनरज्जुस्तस्यार्थः। उक्तं च बोपालितेन "नार्यां करीखलीनं कवीयं वा ना "तुरङ्गमुखभाण्डम्" इति। षष्टिकं व्रीहिभेदः। कुलो वंशो गृहं च। अम्भोजः कमलम्। वाजं पिच्छम्। अमृतं सलिलम्। अशोकं तरुः। क्षयो गृहम्। अनेकपं हस्ती। शङ्खो निधौ पुमान्, जलजे द्विलिङ्गः। तण्डकश्छन्दोगानां ग्रन्थविशेषः। चर्माजिनम्। रजतं रूप्यम्। स्नेहं सौहार्दम्। असिः खङ्गः। अपरोऽन्यः। सारो बलम्। सैन्धवो लवणम्। मानो दर्पः। स्थाणुः शङ्कुः।।
महिमनेत्रकपञ्चकदण्डकाः क्रकचशम्बलकुण्डपकन्दराः।।
कटकमालवमर्मरदैवताः सिखरकेसरदारुभगन्दराः।।
महिमं महत्त्वम्। नेत्रकं शृङ्खलकण्टकम्। पञ्चकं विस्तारः। दण्डकं छन्दोविशेषः। क्रकचं काष्ठादिदारणसाधनम्। शम्बलं पाथेयम्। कुण्डपं क्रतुविशेषः। कन्दरा स्त्रियामपि। मालवो देशविशेषः। मर्मरं शुष्कपर्मध्वनिः। दैवतो देवः। दारुः काष्ठम्।।
दीपोद्यमब्रह्मपिधानभावा वास्तुव्रतार्धप्रवराभिधानाः।
अर्मो मुहूर्तो धनवप्रसौधा रेणुस्तलं लोमपटं विहायः।।
दीपं प्रकाशविशेषः। भावः स्वभावः। वास्तुर्वेश्म। अर्मः चक्षूगःरो। धनो वित्तम्। पटं वस्त्रम्।।
उटजचापनपुंसकपातका भुवनकोटरपल्लवगोमयाः।
अविखरं हरिचन्दनमूलकौ भवनसङ्क्रमगाणिडिवपत्तनाः।।
उटजः पर्णशाला। चापो धनुः। पातकः पापम्। गाण्डिवोऽर्जुनधनुः। दीर्घमध्योऽपि। एतच्च "गाण्ड्यजगात्सञ्ज्ञायाम्"(पाoसूo5-2-110)इति सूत्रे वृत्त्यादौ स्पष्टम्।।
कर्पूरकूर्पासकषष्ट्युशीरगाण्डीवनिष्ठेव सवर्णभस्त्राः।
पिण्याकपुस्तौ नखरेषुखण्डवैनीतिकद्वीपिनखारकूटाः।
कर्पूरो घनसारः। कूर्पासकः कञ्चुकः। षष्टिः सङ्ख्यावाची। उशीरो नलदम्। निष्ठेवो निष्ठीवनम्। भस्त्रश्चर्मकोशः भस्त्रा च। पुस्तः पुस्तकम्। नखरं नखः। इषुर्बाणः। अयं स्त्रीलिङ्गोऽपि। "पत्री रोप इषुर्द्धयोः"(अoकोo2-8-87)इत्यमरः। तथाच श्रीहर्षः "कुसुमानि यदि स्मरेषवः" इत्युपक्रम्य "हृदयं यदमूमहन्नमूः" इति प्रायुङ्क्त। खण्डः पद्मदीनां समुदायः। विनीतानामिदं वैनीतिकम्। मनुष्यवाह्यं यानम्। द्वीपी व्याघ्रः। आरकूटः पित्तलम्।। अमरस्त्वाह-
पुन्नपंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः।
मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽर्बुदः।।
पातकोद्योगचरकतमालामलकानडः।
कुष्टं शतमानार्मशम्बलाव्ययताण्डवम्।
कवियं कन्दकार्पासं पारावारं युगन्धरम्।।
यूपं प्रग्रीवपपत्रीवे पूषञ्चमसचिक्वसौ।
अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम्।।
तन्नोर्चादौ लोकेऽपि तच्चेदस्त्यस्तु शेषवत्। इति।।
अर्मं चक्षुरोगः। "अर्तिस्तुसुहुसृ"(उoसूo145)इत्यादिना औणादिको मन्‌प्रत्यय इति तद्व्याख्यातारः। शम्बलं तालव्यादि दन्त्यादि चेति ते एव। इह यद्यपि अर्धर्चादिन् चिक्कसान्तानत्र पठितान् कूटोऽस्त्रीत्यादींश्च तत्र तत्र प्राक्‌पठितान् विहायान्येषां प्रसिद्धविलक्षणं पुंस्त्वादिकमित्युक्तम्। तेन घृतक्षीरदारुलोमासनमुखशरीरादयो लोके नियतलिङ्गा एवेति प्रतीयते। तथापि मुनित्रयवचनविरहाद्वैदिकत्वं निर्मूलम्। अत एवापरितोषाल्लोकेऽपीत्याद्युक्तमित्याहुः।
युक्तं चैतत्, लिङ्गानुशासनसूत्राणां घृतादिविषयकाणां लोकवेदसाधारण्येनैव प्रवृत्तेः। एवमन्येऽपि ये शब्दाः कोशादिना पुन्नपुंसकलिङ्गतया निर्णीतास्ते सर्वे अर्धर्चादिषु बोध्याः।।
इदानीं परवल्लिङ्गमित्यतिदेसे उपयुक्ततया प्रसङ्गात् पाणिनियलिङ्गानुशासनसूत्राणि व्याख्यायन्ते।।
लिङ्गम्।। स्त्री।। अधिकाकसूत्रे एते।
ऋकारान्ता मातृहितृस्वसृयातृननान्दरः।। ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः, स्वस्रादिसप्तकस्यैव ङीब्निषेधेन कर्त्रीत्यादेर्ङीपा ईकारान्तत्वात्। तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोर्ऋदन्तत्वाभावात्।
अन्यूप्रत्ययान्तो धातुः। अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात्। अवनिः। चमूः। प्रत्ययग्रहणं किम्? देवयतेः क्विप् द्‌यूः। विशेष्यलिङ्गः।
अशनिभरण्यरणयः पुंसि च।। इयमयं वा अशनिः।
मिन्यन्तः।। मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात्। भूमिः। ग्लानिः।
वन्हिवृष्ण्यग्नयः पुंसि।। पूर्वस्यापवादः।
श्रोणियोन्यूर्मयः पुंसि च।। इयमयं वा श्रोणिः।
क्तिन्नन्तः।। स्पष्टम्। कृतिरित्यादि।
ईकारान्तश्च।। ईप्रत्ययान्तः स्त्री स्यात् लक्ष्मीः।
ऊङाबन्तश्च।। कुरूः।। विद्या।
य्वन्तमेकाक्षरम्।। श्रीः। भूः। एकाक्षरं किम्? पृथुश्रीः।
विंशत्यादिरानवतेः। इयं विंशतिः। त्रिंशत्। चत्वारिंशत्। पञ्चाशत्। षष्टिः। सप्ततिः। अशीतिः। नवतिः।
दुन्दुभिरक्षेषु।। इयं दुन्दुभिः। अक्षेषु किम्? अयं दुन्दुभिः, वाद्यविशेषोऽसुरो वेत्यर्थः।
नाभिरक्षत्रिये।। इयं नाभिः।
उभावप्यन्यत्र पुंसि।। दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः। नाभिः क्षत्रियः। कथं तर्हि-
समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिः।
(किoकाo 8-25)
इति भारविः। उच्यते, दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम्। वस्तुतस्तु "लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य" इतिभाष्यात्पुंसत्वमपीह साधु। अत एव-
न्भिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान्।
द्वयोः प्राणिप्रतीके स्यात्स्त्रियां कस्तूरिकामदे।।
इति मेदिनिः। रभसोप्याह--
मुख्यराट्‌क्षत्रिये नाभिः पुंसि प्राण्यङ्के द्वयोः।
चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे।। इति।
एवमेवंविधेऽन्यत्रापि बोध्यम्।
तलन्तः।। अयं स्त्रियां स्यात्। शुक्लस्य भावः शुक्लता। ब्राह्मणस्य कर्म ब्राह्मणता। ग्रामस्य समूहो ग्रामता। देव एव देवता।
भूमिविद्युत्सरिल्लतावनिताभिधानानि।। भूमिर्भूः। विद्युत्सौदामनी। सरिन्निमा्नगा। लता वल्ली। वनिता योषित्।
यादो नपुंसकम्।। यादःशब्दः सरिद्वाचकोऽपि क्लीवं स्यात्।।
भाःस्रुक्‌स्रग्‌दिगुष्णिगुपानहः।। एते स्त्रियां स्युः। इयं भा इत्यादि।
स्थूणोर्णे नपुंसके च।। एते स्त्रियां क्लीबे च स्तः। स्थूणम्, स्थूणा। ऊर्णम्, ऊर्णा। तत्र स्थूणा काष्ठमयी द्विकर्णिका। ऊर्णा तु मेषादिलोम।
गृहशाशाभ्यां क्लीबे।। निमार्थमिदम्। गृहशशपूर्वे स्थूणोर्मे यथासंख्यं नपुंसके स्तः। गृहस्थूणम्। शशोर्णम्। "शशोर्णं शशलोमनि"(अoकोo2-9-108)इत्यमरः।।
प्रावृट्‌विप्रुट्‌रुट्‌तृट्‌विट्‌त्विषः।। एते स्त्रियां स्युः।।
दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्यौषदिकट्यङ्गुलयः। एते स्त्रियां स्युः। पक्षे ङीष्। दर्वी, दर्विरित्यादि।
तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः। एते प्राग्वत्। इयं तिथिरित्यादि। अमरस्त्वाहः"तिथयो द्वयोः"(अoकोo1-4-1)इति। तथाच भारविः-"तस्य भुवि बहुतिथास्तिथयः" इति। स्त्रीत्वे हि बहुतिथ्य इति स्यात्। श्रीहर्षश्च-"निखिलान्निशि पौर्णिमातिथीन्" इति।
शष्कुलिराजिकुट्यशनिवर्तिभ्रकुटित्रुटिवलिपङ्क्तयः। एतेऽपि स्त्रियां स्युः। इयं शष्कुलिः।
प्रतिपदापद्विपत्संपत्‌शरत्संसत्परिषदुषःसंवित्‌क्षुतपुन् मुत्समिधः। इयं प्रतिपदित्यादि। उषा उच्छन्ती। उषाः। प्रातरधिष्ठत्री देवता।
आशीर्धूःपूर्गीर्द्वारः। इयमाशीरित्यादि।
अप्सुमनस्समासिकतावर्षाणां बहुत्वं च।। अबदीनां पञ्चानां स्त्रीत्वं स्याद्वहुत्वं च। आप इमाः। "स्त्रियः सुमनसः पुष्पम्"(अoकोo2-4-27)। "सुमना मालती जातिः"(अoकोo2-4-72)। देववाची तु पुंस्येव। "सुपर्वाणः सुमनसः"(अoकोo1-1-7)। बहुत्वं प्रायिकम्। "एका च सिकता तैलदाने असमर्था" इति अर्थवत्सूत्रे भाष्यप्रयोगात्
"समां समांविजायते" इत्यत्र समायां समायामिति भाष्याच्च। "विभाषाघ्राधेट्"(पाoसूo2-4-78)इति सूत्रे "अघ्रासातां सुमनसौ" इति वृत्तिव्याख्यायां हरदत्तोऽप्येवम्।।
स्रक्‌त्वक्‌ज्योग्वाग्यवागूनौस्फिजः।। इयं स्रक्। त्वक्। ज्योक्। वाक्। यवागूः। नौः। स्फिक्।।
त्रुटिसीमासंबध्याः।। इयं त्रुटिः। सीमा। सम्बध्या।।
चुल्लिवेणिखार्यश्च।। स्पष्टम्।।
ताराधाराज्योत्स्नादयश्च।।
शलाका स्त्रियां नित्यम्।। नित्यग्रहणमन्येषां क्वचिद्व्यभिचारं ज्ञापयति।।
।। इति स्त्र्यधिकारः।।
पुमान्।। अधिकारोऽयम्।।
घञबन्तः। पाकः। त्यागः। करः। गरः। भावार्थ एवेदम्, नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नादिभिर्बाधेन परिशेषात्। कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम्। तथाच भाष्यम्-"सम्बन्धमनुवर्तिष्यते" इति।
घाजन्तश्च।। विस्तरः। गोचरः। चयः। जयः इत्यादि।
भयलिङ्गभगपदानि नपुंसके।। एतानि नपुंसके स्युः। भयम्। लिङ्गम्। भगम्। पदम्।
नङन्तः।। नङ्‌प्रत्ययान्तः पुंसि स्यात्। यज्ञः। यत्नः।।
याच्ञा स्त्रियाम्।। पूर्वस्यापवादः।
क्यन्तो घुः।। किप्रत्ययान्तो घुः पुंसि स्यात्। आधिः। निधिः। उदधिः। क्यन्तः किम्? दानम्। घुः किम्? जज्ञिर्बीजम्।।
इषुधिः स्त्री च।। इषुधिशब्दः स्त्रियां पुंसि च। पूर्वस्यापवादः।
देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्‌गशरपङ्काभिधानानि।। एतानि पुंसि स्युः। देवाः सुराः। असुरा दैत्याः। आत्मा श्रेत्रज्ञः। स्वर्गो नाकः। गिरिः पर्वतः। समुद्रोऽब्धिः। नखः कररुहः। केशः शिरोरुहः। दन्तो दशनः। स्तनः कुचः। भुजो दोः। कण्ठो गलः। खड्गः करवालः। शरो मार्गणः। पङ्कः कर्दम इत्यादि।
त्रिविष्टपत्रिभुवने नपुंसके।। स्पष्टम्। तृतीयं विष्टपं त्रिविष्टपम्। स्वर्गाभिधानतया पुंस्त्वे प्राप्ते अयमारम्भः।
द्यौः स्त्रियाम्।। द्योदिवोस्तन्त्रेणोपादानामिदम्।
इषुबाहू स्त्रियां च।। चात्पुंसि।
बाणकाण्डौ नपुंसके च।। चात्पुंसि। त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः।
नान्तः।। अयं पुंसि। राजा। तक्षा। न च चर्मवर्मादिष्वतिव्याप्तिः, "मन्‌द्व्यच्‌कोकर्तरि"(लिंoसूद145)इति नपुंसकप्रकरणे वक्ष्यमाणत्वात्।
क्रतुपुरुषकपोलगुल्फमेधामिधानानि।। क्रतुरध्वरः। पुरुषो नरः। कपोलो गण्डः। गुल्फः प्रपदः। मेघो नीरदः।
अभ्रं नपुंसकम्।। पूर्वस्यापवादः।।
उकारान्तः।। अयं पुंसि स्यात्। प्रभुः। इक्षुः।
"हनुर्हट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम्।।
द्वयोः कपोलाऽवयवे" इति मेदिनी। "करेणुरिभ्यां स्त्री नेभे"(अoकोo3-3-59)इत्यमरः। एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः। उक्तं च-
लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः। इति।
एवमन्यत्रापि।
धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम्।। समासे रज्जुःपुंसि च। कर्कटरज्ज्वा, कर्कटरज्जुना।।
श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके।। वसु चार्थवाचि। अर्थवाचीति किम्? वसुर्मयूखाग्निधनाधिपेषुः।
मद्‌गुमधु1-1.`सीधु' इत्यधिकं कौमुद्याम्।-शीधुसानकमण्डलूनि नपुंसके च।। चात्पुंसिं। अयं मद्‌गुः। इदं मद्गु।
रुत्वन्तः।। मेरुः। सेतुः।
दारुकसेरुजतुवस्तुमस्तूनि नपुंसके।। रुत्वन्त इति पुंस्त्वस्यापवादः। इदं दारु।
सक्तुर्नपुंसके च।। चात्पुंसि। सक्तुः। सक्तुः।
प्राग्रश्मेरकारान्तः।। "रश्मि दिवसाभिधानम्ठ(लिंoसूo100)इति वक्ष्यति, प्रागेतस्मादकारान्त इत्यधिक्रियते।
कोपधः।। कोपधोऽकारान्तः पुंसि स्यात्। स्तबकः। कल्कः।
चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके।। पूर्वसूत्रापवादः।।
कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च।। चात्पुंसि। अयं कण्टकः। इदं कण्टकमित्यादि। टोपधः।। टोपधोऽकारान्तः पुंसि स्यात्। घटः। पटः।
किरीटमुकुटललाटवटवि1-1.`वीट' इति कौमुद्याम्।-टशृङ्गाटकराटलोष्टानि नपुंसके। किरीटमित्यादि।
कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च।। चात्पुंसि। कुटः कुटमित्यादि।
णोपधः।। णोपधोऽकारान्तः पुंसि स्यात्। गुणः। गणः। पाषणः।
ऋणलवणपर्णतोरणरणोष्णानि नपुंसके।। पूर्वसूत्रापवादः।।
कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च।।
चात्पुंसि।।
थोपधः।। रथः। प्रस्थः।।
काष्ठपृष्ठरि2-2.`सिक्थ' इति कौमुद्याम्।-क्थोक्थानि नपुंसके।। इदं काष्ठमित्यादि।
काष्ठा दिगर्था स्त्रियाम्।। इमाः काष्ठाः।
तीर्थप्रोथयूथगाथानि नपुंसके च।। चात्पुंसि। अयं तीर्थः इदं तीर्थम्।
नोपधः।। अदन्तः पुंसि। इनः। फेनः।
जघनाजिनतुहिनकाननवनवृजिनविपिनबेतनशासनसोपानामिथुनश्मशानरत्ननिम्नचिन्हानि नपुंसके।। पूर्वस्यापवादः।
मानयानाभिधान3-3.`नलिनपुलिनोद्यान'इति कौमुद्याम्-नलिनोद्यानशयनासनस्थानचन्दनालानसमानभवनवसनसम्भावनविभावनविमानानि नपुंसकके च।। चात्पुंसि। अयं मानः। इदं मानम्।
पोपधः।। अदन्तः पुंसि। यूपः। दीपः। सर्पः।।
पापरूपोडुपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके।। इदं पापमित्यादि।
शूर्पकूतपकुणपद्वीपविटपानि नपुंसके च।। अयं शूर्पः। इदं शूर्पमित्यादि।
भोपधः।। स्तम्भः। कुम्भः।
तलभं नपुंसकम्।। पूर्वस्यापवादः।
जृम्भं नपुंसके च।। जृम्भम्। जृम्भः।
मोपधः।। सोमः। भीमः।
रुक्मसिध्म4-4.`युध्म'इति कौमुद्याम्।-युग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके।। इदं रुक्ममित्यादि।
सङ्ग्रासदाडिमकुसुमाश्रमश्रेमक्षौमहोमोद्दामानि नपुंसके च। चात्पुंसि। अयं संग्रामः। इदं संग्रामम्।
योपघः।। समयः। हयः।
किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके।। स्पष्टम्।
गोमयकषायमलयान्वयाव्ययानि नपुंसके च।। गोमयः। गोमयम्। रोपधः।। क्षुरः। अङ्कुरः।
द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रच्छि1-1.`च्छिद्र' इति नास्ति कौमुद्याम्।-द्रनीरतीरदूरकृच्छ्ररन्ध्राश्रश्वभ्रभा2-2.`भीर' इति कौमुद्याम्।-रगभीरक्रूरविचित्रकेयूरकेदारोदाराजस्रशरीरकन्दरमन्दारपञ्जराजरजठराजिरवैरचामरपुष्करगङ्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्यत्रक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि नपुंसके।। इदं द्वारमित्यादि।
शुक्रमदेवतायाम्।। इदं शुक्रं रेतः।
चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च।। चात्पुंसि। चक्रः। चक्रमित्यादि। षोपधः।। वृषः वृक्षः।
शिरीषर्जीषाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके।
यूषकरीषमिषविषवर्षाणि नपुंसके च।। चात्पुंसि। अयं यूषः। इदं यूषमित्यादि।
सोपघः।। वत्सः। वायसः। महानसः।
पनसबिसबुससाहसानि नपुंसके।
चमसांसरसनिर्यासोपवासकार्पासवासभा3-3.`मास' इति कौमुद्याम्।-सकासकांसमांसानि नपुंसके च।। इदं चमसम्। अयं चमस इत्यादि।
कंसं चाप्राणिनि।। कंसोऽस्त्री पानभाजनम्। प्राणिनि तु कंसो नाम कश्चिद्राजा।
रश्मिदिवसाभिधानानि।। एतानि पुंसि स्युः। रश्मिर्मयूखः। दिवसो घस्रः।
दीधितिः स्त्रियाम्।। पूर्वस्यापवादः।
दिनाहनी नपुंसके।। अयमप्यपवादः।
मानाभिधानानि।। एतानि पुंसि स्युः। कुडवः। प्रस्थः।
द्रोमाढकौ नपुंसके च।। इदं द्रोणम्। अयं द्रोणः।
खारीमानिके स्त्रियाम्।। इयं खारी। इयं मानिका।
दाराक्षतलाजासूनां बहुत्वं च।। इमे दाराः।।
नाड्यपजनोपपदानि व्रणाङ्गपदानि।। यथासंख्यं नाड्याद्युपपदानि व्रणादीनि पुंसि स्युः। अयं नाडीव्रणः। अपाङ्गः। जनपदः। व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थं सूत्रम्।
मरुद्गरुत्तरदृत्विजः।। अयं मरुत।
ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः।। एते पुंसि स्युः। अयमृषिः।।
ध्वजगजमुञ्जपुञ्जाः।। एते पुंसि।
हस्तकुन्तान्तव्रातवातदूतधूर्तसूतचूतमुहूर्ताः।। एते पुंसि। अमरस्तु-"मुहूर्तोऽस्त्रियाम्" इत्याह।
षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डीशखण्डाः।। अयं षण्डः।
वंशांशपुरोडाशाः।। अयं वंशः। पुरो दाश्यते पुरोडाशः। कर्मणि घञ्। भवव्याख्यानयोः प्रकरणे "पौरोडाशपुरोडाशात्ष्ठन्"(पाoसूo4-3-70)इति विकारप्रकरणे "व्रीहेः पुरोडोशे"(पाoसूo4-3-147)इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम्। "पुरोडाशभुजामिष्टम्" इति माघः।
ह्रदकन्दकुन्दबुद्‌बुदशब्दाः।। अयं ह्रदः।
अर्घपथिमथ्य़भुक्षिस्त1-1.`स्तम्बनितम्ब' इति कौमुद्याम्-म्बपूगाः।। अयमर्घः।
पल्लपल्वलकफरेफकटाहनिर्व्यूहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः।। अयं पल्लव इत्यादि।
सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः।। एते पुंसि। अयं सारथिः।
।। इति पुल्लिङ्गाधिकारः ।।
नपुंसकम्।। अधिकारोऽयम्।।
भावे ल्युडम्तः।। हसनम्। भावे किम्? पचनोऽग्निः। इध्मव्रश्चनः कुठारः।
निष्ठा च।। भावे या निष्ठा तदन्तं क्लीबं स्यात्। हसितम्। गीतम्। त्वष्यञौ तद्धितौ।। शुक्लत्वम्। शौक्ल्यम्। ष्यञः षित्त्वसामर्थ्यात्पक्षे स्त्रीत्वम्। चातुर्यम्। चातुरी। सामग्य्रम्। सामग्री। औचित्यम्। औचिती।
कर्मण च ब्राह्मणादिगुणवचनेभ्यः।। ब्राह्मणस्य कर्म ब्राह्मण्यम्।
यद्यढग्यगञ्ण्वुञ्‌छाश्च भावकर्मणि।। एतदन्तानि क्लीबानि। "स्तेनाद्यन्नलोपश्च"(पोoसूo5-1-125)-स्तेयम्। "सख्युर्यः"(पाoसूo5-1-126)-सखयम्। "कपिज्ञात्योदंक्‌"(पाoसूo5-1-127)-कापेयम्। "पत्यन्तपुरोहितादिभ्यो यक्"(पाoसूo5-1-128)-आधिपत्यम्। "प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्"(पाoसूo5-1-129)-औष्ट्रम्। "हायनान्तयुवादिभ्योऽण्"(पाoसूo5-1-130।-द्वैहायनम्। 'द्वन्द्वमनोज्ञादिभ्यो वुञ्"(पाoसूo5-1-133)-पितापुत्रकम्। "होत्राभ्यश्छः"(पाoसूo5-1-135)-अच्छावाकीयम्।।
अव्ययीभावः।। अधिस्त्रि।
द्वन्द्वैकत्वम्।। पाणिपादम्।
अभाषायां हेमन्तशिशिरावहोरात्रे च।। स्पष्टम्।
अनञ्‌कर्मधारयस्तत्पुरुषः।। अधिकारोऽयम्।
अनल्पे छाया।। शरच्छायम्।
राजामनुष्यपूर्वा सभा।। इनसभमित्यादि।
सुरासेनाच्छायाशालानिशा स्त्रियां च।।
1-1.`शिष्टः परवत्' इति कौमुद्याम्।-परवत्। अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात्।
रात्रान्हाहाः पुंसि।।
अपथपुम्याहे नपुंसके।।
संख्यापूर्वा रात्रिः। त्रिरात्रम्। सङ्ख्यापूर्वेति किम्? सर्वरात्रः। द्विगुः स्त्रियां च।। व्यवस्थया।2-2.`पञ्चमूली' इति कौमुद्याम्।-पञ्चमूली। त्रिभुवनम्। इसुसन्तः।। हविः। धनुः।
अर्चिः स्त्रियाञ्च।। इसन्तत्वेऽपि अर्चिः स्त्रियां नपुंसके च स्यात्। इयमिदं वा अर्चिः।
छदिः स्त्रियामेव।। इयं छदिः। छद्यतेऽनेनेति छादेश्चुरादिण्यन्तात् "अर्चिशुचि" इत्यादिना इस्। इस्मन्नित्यादिना ह्रस्वः। "पटलं छदिः"(अoकोo2-2-15)इत्यमरः। तत्र पटलसाहचर्याच्छदिषः क्लीबतां वदन्तोऽमरव्याख्यातार उपेक्ष्याः।
मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि। एतेषामभिधायकानि क्लीबे स्युः।। मुखमाननम्। नयनं लोचनम्। लोहं कालम्। वनं गहनम्। मांसमामिषम्। रुधिरं रक्तम्। कार्मुकं शरासनम्। विवरं बिलम्। जलं वारि। हलं लाङ्गलम्। धनं द्रविणम्। अन्नमशनम्। अस्यापवादानाह त्रिसूत्र्या-
सीरार्थौदनाः पुंसि।
वक्त्रनेत्रारण्यागाण्डीवानि पुंसि च। वक्त्रो वक्त्रम्। नेत्रो नेत्रम्। अरण्योऽरण्यम्। गाण्डीवो गाण्डीवम्।
अटवी स्त्रियाम्।।
लोपधः।। कुलम्। कूलम्। स्थलम्।
तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि।। अयं तूलः।
शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालबालनिगलपलालबिडालखिलशूलाः पुंसि च। चात् क्लीबे। इदं शीलमित्यादि।
शतादिः संख्या।। शतम्। सहस्रम्। शतादिरिति किम्? एकोद्वौ बहवः। संख्येति किम्? शतशृङ्गो नाम पर्वतः।
शतायुतप्रयुताः पुंसि च।। अयं शतः। इदं शतमित्यादि।
लक्षा कोटिः स्त्रियाम्।। इयं लक्षा। इयं कोटिः। "वा लक्षा नियुतं च तत्" इत्यमरात् क्लीबेऽपि लक्षम्।
1-1.शङ्कुः पुंसि। सहस्रः क्वचित्। अयं सहस्रः। इदं सहस्रम्'। इति कौमुद्याम्।-सहस्रः पुंसि।। अयं सहस्रः।
मन् द्व्यच्कोऽकर्तरि।। मन्प्रत्ययान्तो द्व्यचकः क्लीबः स्यान्न तु कर्तरि। वर्म। चर्म। द्व्यच्कः किम्? अणिमा। भहिमा अकर्तरि किम्? ददाति इति दामा।
ब्रह्मन्‌पुंसि च।। अयं ब्रह्मा। इदं ब्रह्मा।
नामरोमणी नपुंसके। मन्‌द्व्यच्क इत्यस्यायं प्रपञ्चः।
असन्तो द्व्यच्कः।। यशः। मनः। तपः। द्व्यच्कः किम्? चन्द्रमाः।
अप्सराः स्त्रियाम्।। एता अप्सरसः। प्रायेणायं बहुवचनान्तः।
त्रान्तः।। पत्रम्। छत्रम्।
यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव।।
भृत्रामित्रछात्रपुत्रमन्त्रवृत्रमेढ्रोष्टाः पुंसि।। अयं भृत्रः। न मित्रममित्रः। "तस्य मित्राण्यमित्रास्ते"(माoकाo2-101)इति माघः। "स्याताममित्रौ मित्रे च" इति च। यत्तु "द्विषोऽमित्रे'(पाoसूo3-2-131)इति सूत्रे हरदत्तेनोक्तम्-"अमेर्द्विषति चित्"(उoसूo626)इत्यौणादिक इत्रच्। अमेरमित्रम्। 'मित्रस्य व्यथयेत्" इत्यादौमध्योदात्तस्तु चिन्त्यः। नञ्समासेऽप्येवम्। परवल्लिङ्गतापि स्यादिति तु तत्र दोषान्तरमिति, तत्प्रकृतसूत्रापर्यालोचनमूलकम्। स्वरदोषोद्भावनमपि "नञो जरमरमित्रमृताः"(पाoसूo6-2-116)इति षाष्ठसूत्रास्मरणमूलकमिति दिक्।
पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च।।
बलकुसुमशुल्बयु1-1.`युद्ध' इति नास्ति कौमुद्याम्।-द्धपत्तनरणाभिधानानि।। बलम्। वीर्यम्।
पद्मकमलोत्पलानि पुंसि च।। पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः। अमरोऽप्याह-"वा पुंसि पद्मं नलिनम्"(अकोo1-10-40)इति। एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरेण नेयः।
आहवसङ्ग्रामौ पुंसि।।
आजिः स्त्रियामेव।।
फलजातिः।। फलजातिवाची शब्दो नपुंसकं स्यात्। आमलकम्। आम्रम।
वृक्षजातिः।। स्त्रियामेव। क्वचिदेवेदम्। हरीतकी।
विपज्जगत्‌सकृत्‌शकन्‌पृषत्‌शकृद्यकृदुदश्वितः।। एते क्लीबाः स्युः। नवनीतावतानानृतामूतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि।
श्राद्धकुलिशदैवपीठकुण्डाङ्गदधिसक्थ्यक्ष्यास्यास्पदाकाशकण्वबीजानि।। एतानि क्लीबे स्युः।
दैवं पुंसि च।। दैवम्। दैवः।
धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्य2-2.`कुड्य मद्य' इति कौमुद्याम्।-कुड्यहर्म्यतूर्यसैन्यानि।। इदं धान्यमित्यादि।
द्वन्द्वबर्हदुःखवडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि।। अक्षमिन्द्रिये।। इन्द्रिये किम्? रथाङ्गादौ मा भूत्।
।। इति नपुंसकाधिकारः ।।
स्त्रीपुंसयोः।। अधिकारोऽयम्।
गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः।। इयमयं वा गौः।
मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः।। इयमयं वा मृत्युः।
गुणवचनमुकारान्तं नपुंसकं च।। त्रिलिङ्गमित्यर्थः। पटुः। पटुः। 3-3.पट्‌वी। अपत्यार्थस्तद्धिते। औपगवः। औपगवी।' इति कौमुद्याम्।पट्‌वी।
।। इति स्त्रीपुंसाधिकारः ।।
पुन्नपुंसकयोः।। अधिकारोऽयम्।
घृतंभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः।। अयं घृतः। इदं घृतम् ।।
शृङ्गार्घनिदाघोद्यमशल्यदृढाः। अयं शृङ्गः। इदं शृङ्गम्।
व्रजकुञ्जकुथकूर्चप्रस्थदर्पार्भार्धर्चदर्भपुच्छाः।। अयं व्रजः।। इदं व्रजम्। कबन्धौषधायुधान्ताः।। स्पष्टम्।
दण्डमण्डखण्डशवसैन्धवपार्श्वाकाशकुशकाशाङ्कुशकुलिशाः।। एते पुन्नपुंसकयोः स्युः।।
कुशो रामसुते दर्भे योक्त्रेऽधीपे कुशं जले।
इतिविश्वः। शलाकावाची तु स्त्रियाम्। तथाच "जानपद"(पाoसूo4-1-42)इत्यादिसूत्रेणायोविकारे ङीषि कुशी। दारुणि तु टापा कुशा। "वानस्पत्याः स्थ ता भा यात" इति श्रुतिः। "अतः "कृकमि"(पाoसूo8-3-43)इति सूत्रे कुशाकणिंष्विति प्रयोगश्च। व्याससूत्रे च "हानौ तूपायनशब्दे शेषत्वात्कुशाच्छन्दः" इति। तत्र शारीरकभाष्येऽप्येवम्। एवञ्च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याङ्प्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः।
गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च।
।। इति पुन्नपुंसकाधिकारः ।।
अविशिष्टलिङ्गम्।।
अव्ययं कतियुष्मदस्मदः।।
ष्णान्ता संख्या।।
शिष्टा परवत्। एकः पुरुषः। एका स्त्री। एकं कुलम्।
गुणवचनं च।। शुक्लः पटः। शुक्ला शाटी। शुक्लं वस्त्रम्।
कृत्याश्च।। करणा।
करणाधिकरणयोर्ल्युट् च।।
सर्वादीनि सर्वनामानि। स्पष्टार्थेयं त्रिसूत्री।
।। इति पाणिनीयलिङ्गानुशासनं समाप्तम् ।।
प्रसङ्गिकंसमाप्य प्रकृतमनुसरामः।
(पाoसूo2-4-32)
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ(पाoसूo2-4-32)। अन्वादेशविषयस्येदमोऽनुदात्तोऽश्‌आदेशः स्यात्तृतीयादौ। प्रते बभ्रूविचक्षणं शंसामि, माभ्याङ्गा अनु। इह बभ्रूशब्देनोक्तयोरिदमा परामर्शेप्यन्वादेशो भवत्येव "अन्वादेशश्च कथितानुकथनमात्रम्, न तु इदमा कथितस्येदमैवानुकथनम् इति भाष्योक्तेः। न चैवम् "ईषदर्थे" इति श्लोके यच्छब्देनोक्तस्य पुनः कथनात् `एतम् आतम्' इत्यत्रैनादेशः स्यादिति वाच्यम्, किञ्चिद्विधायान्यद्विधातुमनुकथनस्यैवान्वादेशत्वात्। ईषदर्थादिवृत्तेस्त्वनुवादेऽप्यविधानात्। अशादेशवचनं साकच्कार्थम्। अन्यथाऽन्वादेशेऽक्षातार्थविवक्षायाम् `इमकाभ्याम्' इत्यापि प्रसज्येत। ननु त्यदाद्यत्वेन सिद्धौ विधानसामर्थ्यात्सर्वादेशोऽस्तु किं शित्त्वेन? मैवम्, `आभ्याम्' `एभिः' इत्यादौ विकाराभावार्थतापत्तेः, मोराजीतिवत्। ननु `आभ्यामिन्द्रपक्वम्' इत्यादावन्वादेशत्वविवक्षाविरहे यथा "ऊडिदम्"(पाoसूo6-1-171)इति विभक्तेरुदात्तता, तथा "माभ्यां गाः" इत्यत्रापि कुतो नेति चेत्? न, तत्र प्रकृतेरनुदात्तविधानात् "ऊडिदम्" इति सूत्रे च "अन्तोदात्तादुत्तरपदात्"(पाoसूo6-1-169)इति सूत्रादन्तोदात्तादित्यस्यानुवर्त्तनात्। तथाचान्वादेशे `आभ्याम्' इत्यादेः सर्वानुदात्तता, इतरत्र त्वन्तोदात्ततेति विवेकः।
स्यादेतत्, "सावेकाचः"(पाoसूo6-1-168)इत्युदात्तेनेह भाव्यम्, "सुः सप्तमीबहुवचनम्" इति भाष्ये वृत्तौ चोक्तत्वात्। यत्तु "ऊडिदम्" इति सूत्रे हरदत्तेनोक्तम्--इह "अन्तोदात्तात्"(पाoसूo6-1-129)इत्यनुवृत्तिसामर्थ्यात् `सावेकाचः'(पाoसूo6-1-168)इत्यपि न प्रवर्त्तते। न च "यदीमेनाउशतः" इतिशसो व्यावृत्तौ सामर्थ्योपक्षयः, एकाज्ग्रहणेनैव तद्व्यावृत्तेः। एकाच इत्यस्य चावश्यानुवर्त्त्यत्वात्। अन्यथा "ग्रीवायां बद्धो अपि कक्ष आसनि" "मत्स्यं नदीन उदनि क्षिपन्तम्" इत्यत्रातिप्रसङ्गात्। `आसन्' इत्यादयो ह्यन्तोदात्ता एवादेशाः सूत्रे पठिता इति।
अत्रेदं वक्तव्यम्--`आभ्याम्' इत्यत्र "सावेकाचः"(पाoसूo6-1-168)इत्यस्य प्राप्तिरेव नास्ति सप्तमीबहुवचनेषु `एषु' इति रूपं न तादृगिहास्ति। तथाचात्रैवान्तोदात्तग्रहणस्य चरितार्थत्वात्सामर्थ्यविरहः। तथा च "माभ्याङ्गाः" "तदस्य प्रियम्" "तदस्मै नव्यम्" इत्यादेः सिद्धावपि भिसादौ दोषस्तदवस्थ एव। "एभिरग्रे" "सुन्वन्ति सोमान्वचसि त्वमेषाम्" "प्रेणा तदेषां निहितम्" "एषु धावीरवत्" इत्यादौ हि ए इत्येव रूपमस्त्येव। तथाच तत्र विभक्तेरुदात्तप्रसङ्गः। न च "सावेकाचः"(पाoसूo6-1-168)इत्येतत्सूत्रस्थकैयटपर्यालोचनयेष्टापत्तिरिति वाच्यम्, अन्येत्विति वदता कैयटेन तन्मतेऽस्वरसाविष्करणात्। तद्बीजन्तु बहुतरवैदिकप्रयोगविरोध एव।
अथोच्चेत--"सावेकाचः"(पाoसूo6-1-168)इति सूत्रे हरदत्तोक्तरीत्या सुः प्रथमैकवचनमेव। न च `त्वया' इत्यत्रातिप्रसङ्गः, साववर्णेति निषेधात्। शेषेलोपष्टिलोप इति पक्षे तु सावेकाच्त्वाभावात्प्राप्तिरेव नास्ति। रूपविवक्षापि विफला। एवञ्च `एभिः' इत्यादौ प्राप्तिरेव नास्तीति। तदपि न, रूपविवक्षाभावे `दोषभ्याम्' इत्यत्राति प्रसङ्गात्। तैत्तिरीये हि "अंसाभ्यां स्वाहा दोषभ्यां स्वाहा" इति मध्योदात्तं पठ्यते। एवं स्थिते सुः सप्तमीबहुवचनमेव ग्राह्यम्। अन्यथा "इन्द्रो या तो वसितस्य राजा" इत्यत्र या इत्यन्तोदात्तं न स्यात्। नहि प्रथमैकवचनं यद्रूपं यानिति तदिहास्ति। अत एव गोशुनोः प्रतिषेधः सार्थकः। तदेवमन्तोदात्तानुवृत्तिसामर्थ्यं प्रथमैकवचनग्रहणं वा शरणमित्येवंरूपस्य षाष्ठहरदत्तग्रन्थबललब्धस्य समाधानद्वयस्यापि दुष्टावात् `एभिः' इत्यादि कथन्निर्वाह्यमिति फलितः पूर्वपक्षः।
अत्रोच्यते, "सावेकाचः"(पाoसूo6-1-168)इत्यत्रापि "अन्तोदात्तात्"(पाoसूo6-1-169)इत्यस्यापकर्षान्नोक्तदोषः। वृत्त्यादा वननुवर्त्तितस्याप्यनुवृत्तिस्तु बहुधा दृष्टैव। अत एव "तुरुस्तु"(पाoसूo7-3-5)सूत्रे `स्तुवीत' इत्यादिसिद्धये पितीत्यस्य निवृत्त्यै सार्वधातुकग्रहणमिति स्थिते `शाम्यति' इति श्यनमिटं वारयितुं तिङीत्यस्यानुवृत्तिर्वक्ष्यते।
(पाoसूo2-4-33)
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ(पाoसूo2-4-33)। अन्वादेशविषये एतदोऽश्‌ स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः। एतस्मिन् ग्रामे सुखं वसामः, अथोऽत्राधीमहे, अतो न गन्तास्मः। `अत्र अतः' इति पदे सर्वानुदात्ते। ननु पञ्चमे "एतदोऽन्"(पाoसूo5-3-5)इतिभाष्यसम्मतः पाठः। न्यासरीत्या वृत्तिपाठोऽप्येवमेव। पदमञ्जरीरीत्या तु "एतदोऽश्" इति वृत्तिपाठः। उभयथापि अकारे सिद्धे किमनेनेति चेत्? पाञ्चमिकस्योदात्ततयाऽनुदात्तार्थमिह पुनर्वचनमिति गृहाण। `त्रतसोः' इति वचनं निमित्तभावार्थम्। अन्यथा 'त्रतसौ चानुदात्तौ" इत्यन्वाचयो विज्ञायेत्।
स्यादेतत्, त्रतसोः कृतयोः प्रकृतेर्लित्स्वरः। ततः शेषनिघातेन त्रतसोरनुदात्तत्वं सिद्धम्। अश्मात्रस्य त्वनुदात्तत्वं विधीयताम्। मैवम्, त्रतसोर्हि कृतयोः "येननाप्राप्ति" न्यायेनापवादत्वान्नित्यत्वाच्चानुदात्तोऽशादेशः स्यात्। ततस्तद्विधानसामर्थ्याल्लित्स्वरस्याप्रवृत्तावुत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात्। यथा-`गोष्पदम्' इत्यत्र णमुल्लोपेन सहविधानाल्लित्स्वराप्रवृत्तौ प्रत्ययाद्युदात्तत्वे सति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदं भवति। तस्मात् "त्रतसो चानुदात्तौ" इति कर्तव्यमेव।
(पाoसूo2-4-34)
द्वितीयाटौस्स्वेनः(पाoसूo2-4-34)। द्वितीयायाण्टौसोश्च परत इदमेतदोरेनादेशः स्यात्स चानुदात्तः अन्वादेशे। इदमेऽत्र मण्डूकप्लुत्याऽनुवृत्तिः। अथैनमद्रेः। एनेन, एनयोः। कथन्तर्हि-"अइउण्"(माoसूo1-1-1)इत्यत्रोदाहृते " हे रोहिणि" इति श्लोके एनादेश इति चेत्? "अयं श्रोणीतटं स्पृशति, एनं निवारय" इति व्यत्यासेन योज्यम्।
आशीविषेणारदनच्छददंशदान-
मेतेन ते पुनरनर्थतया न शङ्क्यम्।
इत्यादौ त्वन्वादेशत्वस्याविवक्षा बोध्या। `अभून्नृप' इत्यादावनद्यतनत्वस्य यथा। अथ कथं "प्रक्षालयैतत्परिवर्तयैनत्" इति? नपुंसकैकवचने एनदिति वक्तव्यात्। वस्तुतस्तु सूत्र एवैनद्वक्तव्यः। एनम् एनौ इत्यादि तु त्यदाद्यत्वेन सिद्धम्। `एनं श्रित' इति द्वितीयासामासे तु `एतच्छ्रित' इत्येव भवति; नत्वेन एनद्वा, "सुपो धातु"(पाoसूo2-4-71)इति लुका बहिरङ्गेणाप्यन्तरङ्गाणां बाधनात्। न चैवं `प्रक्षालयैनत्' इत्यपि न रयादिति वाच्यम्, अमो लुका लुप्तत्वेऽपि तकारोच्चारमसामर्थ्यादेनदादेशप्रवृत्तेः। न चैवमेतच्छ्रितेऽपि एनदापत्तिः, एकपदाश्रयत्वेनान्तरङ्गे स्वमोर्लुकि चरितार्थत्वेन बहिरङ्गे समासलुकि अप्रवृत्तेः।
(पाoसूo2-4-35)
आर्धधातुके(पाoसूo2-4-35)।। अधिकारोऽयं "ण्यक्षत्रिय'(पाoसूo2-4-58)इति यावत्। विषयसप्तमी चेयम्। तेनार्धधातुकोत्पत्तेः प्रागेवादेशेषु प्रवृत्तेषु यथायथं प्रत्ययाः। तथाहि, अस्तेः-भव्यम्। परसप्तम्यान्तु ण्यति कृते भाव्यमिति स्यात्। अजेः-प्रवेयम्। ण्यति तु प्रवैयमिति स्यात्। चक्षिङ-आख्येयम्। ण्यति युकि आख्याय्यमिति स्यात्। ब्रुवस्तु अजन्तत्वाद्यति वच्यमिति स्यात्। वाच्यमिति चेष्यते।
स्यादेतत्, अङ्गाधिकारस्थे आर्धदातुकाधिकारे एव जग्ध्यादयो विधीयन्ताम्। मैवम्, `जक्षतुः' `अदिजगे' `अध्यगीष्ट' `बभूव' `विव्यतुः' इत्यत्र घस्लाद्यादेशानामसिद्धतया उपधालोपाऽऽल्लोपेत्ववुग्यणामभावापत्तेः। न चाऽतोलोपादयोऽप्यत्रैव विधीयन्तामिति वाच्यम्। `गतः' `गतवान्' इत्यत्रानुनासिकलोपस्यासिद्धत्वाभावादतोलोपापत्तेः। यदि त्वार्धधातुकोपदेशकाले यदकारान्तमिति व्याख्यायतेऽसिद्धवत्सूत्रञ्च प्रत्याख्यायते, तदाऽन्यतर आर्धधातुकाधिकारः शक्योऽकर्तुम्। नन्वेकश्चेदार्धधातुकाधिकारस्तर्हि विषयसप्तमीत्वपरसप्तमीत्वे कथं व्यवतिष्ठेयातामिति चेत्? न, सूत्रद्वयारम्भपक्षेऽप्याङ्गस्यैकस्यैव ज्ञापकबलोनोभयरूपताश्रयणात्। यथा चैतत्तथा " न पदान्त"(पाoसूo1-1-58)सूत्रे उपपादितम्।
(पाoसूo2-4-36)
अदोजग्धिर्ल्यप्ति किति(पाoसूo2-4-36)।। ल्यबिति लुप्तसप्तमीकं पृथक् पदम्। अत्तेर्जग्धिरादेशः स्याल्ल्यपि तादौ किति च। इकार उच्चारणार्थो न त्वनुबन्धः, नुम्‌प्रसङ्गात्। एवं 'ब्रुवो वचिः"(पाoसूo2-4-53)इत्यादौ। प्रजग्ध्य, जग्धम्।
जग्धौ सिद्धेऽन्तरङ्गत्वात्तिकितीति ल्यबुच्यते।
ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्।।
तथाहि, पदद्वयसापेक्षं समासं प्रतीक्षमाणो ल्यब्बहिरङ्गः, ततः प्राक्तिकितीति सिद्धौ जग्धेर्ल्यब्ग्रहणन्तु हित्वदत्वात्वेत्वदीर्घत्वशूडिठामन्तरङ्गाणामपि बाधं ज्ञापयति। "दधातेर्हिः"(पाoसूo7-4-42)"जहतेश्च क्त्वि"(पाoसूo7-4-43)हित्वा। नेह-विधाय। "दो दद्‌घोः"(पाoसूo7-4-46)दत्त्वा। नेह-प्रखन्य, प्रखाय। "जनसनखनां सञ्झलोः"(पाoसूo6-4-42)खात्वा। नेह-प्रखन्य, प्रखाय। इह हि 'ये विभाषा"(पाoसूo 6-4-43)इति वाकल्पः। "द्यातिस्यतिमास्थामित्ति किति"(पाoसूo7-4-40)स्थित्वा। नेह-प्रस्थाय। "अनुनासिकस्य क्विझलोः"(पाoसूo6-4-15)इति दीर्घः, क्रान्त्वा। नेह-प्रक्रम्य। "च्छ्वोः शूठ्'(पाoसूo6-4-19)पृष्ट्वा। द्यूत्वा। नेह-आपृच्छय। प्रदीव्य। इट्-देवित्वा। नेह-प्रदीव्य। वस्तुतस्तु ल्यब्‌ग्रहणं नान्तरङ्गबाधं ज्ञापयितुं, किन्तु विध्यर्थं व्यर्थमेव वा इति निरूपितम्। "अचः परस्मिन्"(पाoसूo1-1-57)इति सूत्रे।
(पाoसूo2-4-37)
लुङ्‌सनोर्घस्लृ(पाoसूo2-4-37)।। अदो घस्लृ स्याल्लुङि सनि च। लृदित्त्वादङ्। अघसत्। जिघत्सति। यद्यपि घसिः प्रकृत्यन्तरमस्ति, तथापि अदेः `आत्सीत्' `अदित्सति' इत्यनिष्टं रूपं वारयितुं सूत्रम्।
अच्युपसङ्ख्यानम्(काoवाo)।। प्रात्तीति प्रघसः। इदमपि अदेः पचाद्यचि `अदः' इति रूपं वारयितुम् `प्रघसः' इत्यस्य प्रकृत्यन्तरेणैव सिद्धेः।
(पाoसूo2-4-38)
उञपोश्च(पाoसूo2-4-38)।। घञि अपि चादेर्घस्लादेशः स्यात्। घासः। प्रघसः। 'उपसर्गेऽदः"(पाoसूo3-3-59)इत्यप्।
(पाoसूo2-4-39)
बहुलञ्छन्दसि(पाoसूo2-4-39)।। अदो बहुलं घस्लादेशः स्याच्छन्दसि। घस्तान्नूनम्। लुङि "मन्त्रे घस"(पाoसूo2-4-70)इत्यादिता च्लेर्लुक्। "बहुलञ्छन्दस्यमाङ्योगे"(पाoसूo6-4-75)इत्यडभावः। सग्धिश्च मे। क्तिनि "घसिभसोर्हलि च"(पाoसूo6-4-100) इत्युपधालोपः। "समानस्य छन्दसि"(पाoसूo6-4-84)इति सभावः। न च भवति-अत्ताम्। प्रकृत्यन्तरेण सिद्धे सूत्रस्य प्रयोजनं मृग्यम्।।
(पाoसूo2-4-40)
लिट्यन्यतरस्याम्(पाoसूo2-4-40)।। अदेर्घस्लृ वास्याल्लिटि। जघास, जक्षतुः, जक्षुः। आद, आदतुः, आदुः। प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थमिदं सूत्रम्। तेन यत्र लिङ्गं वचनञ्च नास्ति तत्र तस्य प्रयोगो न। तत्र लृदित्करणं लुङि प्रयोगस्य लिङ्गम्। घसिश्च सान्तेष्विति अनुदात्तपाठो वलादावार्द्धधातुके। "सृघस्यदः क्मरच्'(पाoसूo3-2-160)इति वचतं क्मरचि। भूवादौ परस्मैपदिषु पाठाच्छपि परस्मैपदेषु प्रयोगः। अत एवाशीर्लिङि कर्त्तरि नास्य प्रयोग इति माधवादयः।
(पाoसूo2-4-41)
वेञो वयिः(पाoसूo2-4-41)।। वेञो लिटि परे वयिर्वा स्यात्। उवाय, ऊयतुः, ऊयुः। "लिटि वयो यः"(पाoसूo6-1-38)इति निषेधाद्यकारस्य न सम्प्रसारणम्। "वश्चास्यान्यतरस्यां किति"(पाoसूo6-1-39)इति वकारादेशपक्षे ऊवतुः, ऊवुः। वयेरभावे-ववौ, ववतु, ववुः। "वेञः"(पाoसूo6-1-40)इति सम्प्रसारणनिषेधः।
(पाoसूo2-4-42)
हनो वध लिङि(पाoसूo2-4-42)।। हन्तेर्वध इत्यादेशः स्यादार्द्धधातुके लिङि। वध्यात्।
(पाoसूo2-4-43)
लुङि च(पाoसूo2-4-43)।। हनो वधः स्याल्‌लुङि। अवधीत्। वधादेशोऽदन्तः। अल्लोपस्य स्थानिवद्भावात्। 'अतो हलादेर्लघोः"(पाoसूo7-2-7)इति वृद्धिर्न।।
(पाoसूo2-4-44)
आत्मनेपदेष्वन्यतरस्याम्(पाoसूo2-4-44)।। हनो वधः स्याद्वा आत्मनेपदं यो लुङ् तत्परे आर्धधातुके। आवधिष्ट, आवधिषाताम्, आवधिषत। आहत, आहसाताम्, आहसत। "आढो यमहनः'(पाoसूo1-3-28)इत्यात्मनेपदम्। "हनः सिच्"(पाoसूo1-2-14)इति कित्त्वम्। "अनुदात्तोपदेश"(पाoसूo6-4-37)इति नलोपः।
(पाoसूo2-4-45)
इणो गा लुङि(पाoसूo2-3-45)।। इणो गा स्याल्लुङि। अगात्, अगाताम्, अगुः। अगायि भवता।
इण्वदिक इति वक्तव्यम्(काoवाo)।। अध्यगात्। न केवलङ्गदेशमात्रस्यातिदेशः, किन्तु सकलकार्यस्य। तेन इणो यण् स्यात्। अधियन्ति। अधीत्य। "एतिस्तुशास्वृ"(पाoसूo3-1-109)इति क्यबिति हरदत्तः। अन्ये तु गादेशस्यैवातिदेशमास्थाय "ससीतयोराघवयोरधीयन्"इति भट्टिप्रयोगं समर्थयन्त इति तृतीये स्फुटीकरिष्यामः।
(पाoसूo2-4-46)
णौ गमिरबोधने(पाoसूo2-4-46)।। अबोधनार्थस्य इणो गमिरादेशः स्याण्णौ।। गमयति। बोधने तु प्रत्याययति। "इण्वदिकः"(काoवाo)। अधिगमयति।
(पाoसूo2-4-47)
सनि च(पाoसूo2-4-47)।। अबोधनार्थस्य इणो गमिः स्यात्सनि। जिगमिषति। बोधने तु प्रतीषिषति। 'इण्वदिकः"(काoवाo)जिगमिषति।
(पाoसूo2-4-48)
इङश्च(पाoसूo2-4-48)।। इङो गमिः स्यात्सनि। अधिजिगांसते।
(पाoसूo2-4-49)
गाङ् लिटि(पाoसूo2-4-49)।। इङो गाङ् स्याल्लिटि। अधिजगे। वार्त्तिकमते लिटीति परसप्तमी। "द्विर्वचनेऽचि"(पाoसूo1-1-49)इति स्थानिवद्भावस्तु न भवति, ल्लिटीति द्विलकारकनिर्द्देशेन लावस्थायामेव गाङः प्रवृत्तेः। भाष्यमते तु आर्धधातुकीयाः सामान्येन भवन्तीत्यभ्युपगमात्परनिमित्तता नास्तीति प्रागेवोक्तम्। यद्यपि स्थानिवद्भावेन ङित्वात्तङ् सिद्धः, तथापि "गाङ्कुटादि"(पाoसूo1-2-1)सूत्रेऽस्यैव ग्रहणार्थं ङित्करणम्। न हि स्थानिवद्भावेन गाङिति रूपं लभ्यते। "गाकुटादिभ्यः" इति तूच्यमाने "कै गै रै शब्दे"(भ्वाoपo141-142-143)"इणो गा लुङि"(पाoसूo2-4-45)इत्येतयोरपि ग्रहणं स्यात्। ततश्च `अगासीन्नटः' `अगासातां ग्रामौ देवदत्तेन' इत्यत्र "घुमास्था"(पाoसूo6-4-66)इतीत्वं स्यात्। "गाङ् गतौ"(भ्याoआo175)इत्यनेन सह सामान्यग्रहणार्थोऽयं ङकार इति तु न भ्रमितव्यम्। `गाते' इत्यादौ तङं प्रवर्त्य तदीयङकारस्यनिवृत्ताकाङ्क्षतया उल्लिखितप्रज्ञाप्यशरीरात्तु, यत्र सानुबन्धकात्षष्ठी उच्चार्यते तत्राकृतायामेवेत्संज्ञायामादेश इति। सत्यामपि वा तस्यां तत्र स्थानिवद्भावेनानुबन्धकार्यं नेति। प्रयोजनन्तु `न्दना' `कारिका' इत्यत्रोगिल्लक्षणङीबभावः। तथाहि `युवोरनाकौ'(पाoसूo7-1-1)इति सूत्रेऽनुनासिकोकारौ युवू निर्द्दिष्टौ। अन्यता `भुज्यः शंयुः' इत्यत्रातिव्याप्तेः। तथाच स्थानिवद्भावेनोगित्वात् `नन्दना' `कारिका' इत्यत्रेगिल्लक्षणो ङीप् स्यात्। `नन्दः' `कारकः' इत्यत्र चोगिल्लक्षणो नुम् स्यात्।
ननु नुम् स्यादिति सत्यं, ङीप् तु कारिकायामापाद्यताम्। नन्दनायान्तु कथम्?
ल्युः कर्त्तरीमनिज् भावे को, घोः किः प्रादितोऽन्यतः
(अoकोo3-5-25)
इत्यमरेण पुंस्त्वस्योक्तत्वादिति चेत्? न, एतत्सूत्रे "युवोः"(पाoसूo7-1-1)इति सूत्रे च `नन्दना' इति भाष्योदाहरणवलेन 'ल्युः कर्त्तरि" इत्यमरस्य प्रायिकत्वात्। तथाच श्रीहर्षः प्रायुङ्क्त "विशिष्य सा बीमनरेन्द्रनन्दना" इति। तस्मान् ङीप्नुमोरभावो ज्ञापनफलमिति।
अत्रोच्यते, "युवोः"(पाoसूo7-1-1)। इत्यत्रानुनासिकयणावेव युवू, न त्वनुनासिकोकारौ। अतो ङीब्‌नुमौ न। तथा `यजमाना' इत्यत्र टेरेत्वाभावोऽपि न ज्ञापनफलम्। "टित आत्मनेपदानाम्"(पाoसूo3-4-79)इत्यत्र प्रकृतानामेवात्मनेपदानां ग्रहणात्। तङामित्येव वाऽस्तु अन्यान्यपि सम्भावितानि ज्ञापकफलानि प्रत्याख्यातानि भाष्ये। प्रत्युत ज्ञापनाभ्युपगमे बाधकान्यपि सन्ति। तथाहि, `अचिनवम्' इत्यत्र अमादेशस्य पित्त्वसिद्ध्यर्थं "तस्थस्थमीनाम्" इति वक्तव्यम्। "अणिञोरनार्षयोः"(पाoसूo4-1-78)"त्क्वोल्यप्"(पाoसूoएo7-1-37)इत्यादौ स्थानिनि अनुबन्धस्त्यक्तव्यः। `वाराह्या' `प्रकृत्य' इत्यादौ वृद्धिर्गुमप्रतिषेधश्च यथा स्यात्। तदेवं बहुसूत्रभङ्गापत्तेर्नेदं ज्ञापकं सूत्रकृतोऽभिप्रेतं, किन्तु पूर्वोक्तमेव ङित्त्वस्य फलं बोध्यम्।
(पाoसूo2-4-50)
विभाषा लुङ्लृङोः(पाoसूo2-4-50)। इङो गाङ् वा स्यात् लुङि लृङि च। "गाङ्कुट"(पाoसूo1-2-1)इति ङित्वम्। "घृमास्था"(पाoसूo6-4-66)इतीत्वम्। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। अध्यैष्ट, अध्यैषाताम्, अध्यैषत। अध्यगीष्यत। अध्यैष्यत।।
(पाoसूo2-4-51)
णौ च संश्चङो(पाoसूo2-4-51)।। गाङ् वा स्यात् सन्परे चङ्परे च णौ। अधिजिगापयिषति। अध्यापिपयिषति। "क्रीङ्जीनां णौ"(पाoसूo6-1-48)इत्यात्वम्। अध्यजीगपत्। अध्यापिपत्।
(पाoसूo2-4-52)
अस्तेर्भूः(पाoसूo2-4-53)।। अस्तेर्भूरादेशः स्यादार्धधातुके। भविता। भवितुम्। भवतिनैवाभिमते रूपे सिद्धेऽस्तेः `असिता' इत्यादिनिवृत्तये योगारम्भः। कथन्तर्हि `ईहामास' इत्यादि? अत्राहुः, अनुप्रयोगसामर्थ्यादस्तेर्भूभावो नेति। अन्यथा "क्रस् चानुप्रयुज्यते" इति "कृभ्वनुप्र" इति वा ब्रूयादिति तदाशयः। अथ कथं "तेनाऽऽस लोकः पितृमान्विनेत्रा" "प्रादुरास बहुलक्षयाच्छविः" इत्यादि? उच्यते, तिङन्तप्रतिरूपकमव्ययमिदमासेति। यद्वा, "अस गतिदीप्त्यादानेषु"(भ्याoउo886)इति भ्वादेः स्वरितेतो रूपमिदम्। भूभावास्तु नास्य शङ्क्यः, अस्तेरिति लुका निर्द्देशात्।।
(पाoसूo2-4-53)
ब्रुवो वचिः(पाoसूद2-4-53)।। ब्रुवो वचिरादेशः स्यादार्धधातुके। 'वच परिभाषणे"(अoसूo1063)इत्यनेन सिद्धे ब्रुवोऽनिष्टप्रयोगवारणार्थं सूत्रम्, क्रियाफलस्य कर्तृगामितायां स्थानिवद्भावेनात्मनेपदार्थञ्च। `शास्त्रार्थं वक्ष्यते मुनिः'।
(पाoसूo2-4-54)
चक्षिङः ख्याञ्(पाoसूo2-4-54)।। आर्धधातुके विवक्षिते। तृजादौ `चक्षिता' इत्यादिनिवृत्तये सूत्रम्, कर्त्रभिप्राये फले आत्नेपदार्थञ्च। मुनिर्वेदं व्याख्यास्यते। `आख्याता' इत्यादि तु "ख्या प्रकथने"(अoपाo1060)इत्यनेनापि सिद्धम्। अत्र वार्तिकानि-
चक्षिङः ख्याञ्‌क्‌शाञौ(काoवाo)। आक्शाता।
खशादिर्वा(काoवाo)।
असिद्धे शस्य यवचनं विभाषा(काoवाo)। अस्यार्थः। खकारशकारादिरादेशोऽनेन विधेयः असिद्धकाण्डे तु णत्वप्रकरणानन्तरं "ख्‌शाञः शस्य यो वा" इति वचनं कर्तव्यम्। तथाच चर्त्वे यत्वं सिद्धमिति खर्परत्वाभावेन "खरि च"(पाoसूo8-4-55)इत्यस्याप्रवृत्तेर्यत्वपक्षे `आख्याता' इति सिद्धम्। यत्वाभावपक्षे तु चर्त्वेन `आक्‌शाता' इति रूपम्।
प्रयोजनं सौप्रख्ये वुञ्‌विधिः(काoवाo)।। सुप्रचष्टे सुप्रख्यः। "आतश्चोपसर्गे"(पाoसूo3-1-136)इति कः। तस्य भावः सौप्रख्यम्। ष्यञ्। 'योपधाद्‌गुरूपोत्तमात्"(पाoसूo5-1-132)इति वुञ्‌ तु न भवति, यत्वस्यासिद्धत्वादित्यर्थः। तथा सुप्रख्येन निर्वृत्तो देशः सौप्रख्यः। तत्र भवः सौप्रख्यीयः "वृद्धाच्छः"(पाoसूo4-2-114)न तु "धन्वयोपधात्"(पाoसूo4-2-121)इति वुञ्।
प्रयोजनान्तरमाह-निष्ठानत्वमाख्याते।। (काoवाo) `आख्याते' इत्यत्र "संयोगादेरातो धातो र्यण्वतः"(पाoसूo8-2-43)इति न भवति, यत्वस्यासिद्ध्या यण्वत्ताविरहात्। एवञ्च "न ध्याख्या'(पाoसूo8-2-57)इति सूत्रे ख्याग्रहणं न कर्त्तव्यं भवति।
रिविधिः पुङ्ख्यानम्(काoवाo)।। यत्वस्यासिद्धतयाऽम्‌परत्वाभावात् "पुमः खयि"(पाoसूo8-3-6) इति रुत्वं नेत्यर्थः।
मत्वं पर्याख्यानम्(काoवाo)।। यत्वस्यासिद्धतया शकारेणाऽनटाव्यवायात् "कृत्यचः"(पाoसूo8-4-29)इति णत्वं नेत्यर्थः।
सस्थानत्वं नमःख्यात्रे(काoवाo)।। "शर्परे विसर्जनीयः"(पाoसूo8-3-35)इति यिसर्गः सिध्यतीत्यर्थः। `सस्थान' इति जिह्वामूलीयस्य प्राचां संज्ञा। सस्थानत्वं त्विह नेति योज्यम्, मत्वादीनामप्यभावस्यैव प्रक्रान्तत्वात्। तस्माद् वुञ्नत्वरुत्वणत्वानि सस्थानश्चेति पञ्चकं प्राप्तं वारयितुं शस्य यत्वं कृतमिति स्थितम्।
स्यादेतत्, "ख्या प्रकथने"(अoपo1060)इति धातुमादाय वुञादिपञ्चकं दुर्वारम्। सत्यम्, सोऽपि खशादिः। यत्तु `अविधिरप्युभयसाधारणे बोध्य' इति हरदत्तमाधवादयः, कैयटस्तु नैतन्मेने। भाष्ये ख्याधातोः खशादित्वानुक्तेः, चक्षिडः, ख्याञादेशमेवोपक्रम्य यत्वविधानात्। "न ध्याख्या"(पाoसूo8-2-57)इति सूत्रे ख्याग्रहणन्तु कर्तव्यमेव `व्याख्यातः' इत्यत्र नत्वाभावाय। क्याञदेशस्तु लाक्षणिकत्वात्तत्र न गृह्यत इति, यत्वस्यासिद्धत्वात्प्रप्तिरेव नास्तीति च बोधयितुं प्राङ् नत्वग्रहणम्। णत्वं तु "लुब्योगाप्रख्यानात्"(पाoसूo1-2-54)इति निपातनान्न भवति। वुञ्रुत्वसस्थानत्वानि तु ख्यातौ स्युरेव। ख्याञादेशे तु नेति तत्र रूपद्वयं बोध्यम्। अस्मिन्मते आदेशे प्रख्यानादिति प्रयोगोपपत्तेः कथं निपातनमुपन्यस्तमिति चिन्त्यम्। वुञादाविव णत्वांशेऽपि रूपद्वये इष्टापत्तिः, अनिष्टत्वे वाऽनभिदानात्कृत्यल्युटोबहुलग्रहणाच्च तत्र ल्युडेव नेति न्याय्यः पन्थाः।
परमार्थस्तु ख्याधातुः सार्वधातुकमात्रविषयः। "सस्थानत्वं नमः ख्यात्रे"(काoवाo)इति वार्त्तिकं तद्भाष्यं चेह प्रमाणम्, आर्धधातुकेऽपि तत्प्रयोगे उक्तप्रयोजनासङ्गतेः। एवं "णत्वं पर्याख्यानम्"(काoवाo)इत्यपि। तथा च "न ध्याख्या"(पाoसूo8-5-7)इति सूत्रे ख्याग्रहणं न कर्तव्यमेव। माधवहरदत्ताद्युत्प्रेक्षा तु गौरवग्रस्ता उपक्रमादिविरुद्धा। सार्वधातुकेऽपि क्शाप्रयोगे प्राप्तेऽनभिधानमात्रालम्बना चेत्यवधेयम्।
वर्जने प्रतिषेधः(काoवाo)।। दुर्जनाः सञ्चक्ष्याः, वर्जनीया इत्यर्थः।
असनयोश्च(काoवाo)।। नृचक्षा रक्षः। छान्दसो वर्मविकारः। भाषायान्तु `नृचक्षो रक्षः' इति भवतीति कैयटहरदत्तौ। माधवस्तु "हे अग्ने नृचक्षाः मनुष्याणां द्रष्टा त्वं रक्षः परिपश्य" इति वेदभाष्ये व्याख्यत्। विचक्षणः। "अनुदात्तेतश्च हलादेः"(पाoसूo3-2-149)इति युच्। अत एवान्तोदात्तः पठ्यते-`विचक्षणः प्रथयन्' इति। `यत्रामृतस्य चक्षणम्' इत्यादौ तु ल्युट्। अत एव लित्स्वरेणाद्युदात्तता। कथं तर्हि-`पुंख्यानं' `पर्यांख्यानम्' इति प्रागुदाहृतमिति चत्? वक्ष्यमाणबाहुलकादित्यवेहि।
बहुलन्तण्यन्नवधकगात्रविचक्षणाजिराद्यर्थम्(काoवाo)। सर्वप्रकरणापेक्षमेतत्। तणिति संज्ञाछन्दसोर्ग्रहणम्। तत्र अन्नशब्दे जग्ध्यभावः। "अन्नाण्णः"(पाoसूo4-4-85)इति निपातनाद्वा सिद्धम्। `वधकः' इति। ण्वुलि वधादेशः। अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यभावः। "क्वुन् शिल्पिसंज्ञयोः")(उoसूo200)इत्यधिकारे "हनो वध च"(उoसूo2-4)इत्युणादिसूत्रेण गतार्थतत्। गात्रमिति। इणः औणादिके ष्ट्रनि गादेशः। गाङ्धातुना वा सिद्धम्। अजिरमिति। वीभावो न। "लजिरशिशिर"(उoसूo56)इति निपातनात् सिद्धम्।
(पाoसूo2-4-56)
अजेर्व्यघञपोः(पाoसूo2-4-56)।। अजेर्घातोर्वी इत्यादेशः स्यादार्द्धधातुके घञमपञ्च वर्जयित्वा। प्रवपणीयः। प्रवापकः। अघञपोः किम्? समाजः। उदाजः। समजः। उदजः। "समुदोरजः पशुषु"(पाoसूo3-3-69)इत्यप्। दीर्घव्याख्यानं किमर्थम्? संवीतिः।
घञपोः प्रतिषेधे क्यप उपसङ्ख्यानम्। (काoवाo)।। प्राजिता, प्रवेता। प्राजनं, प्रवयणम्। एवञ्च नार्थो घञपोः प्रतिषेधेन, नापि क्यप उपसङ्ख्यानेन, नापि "वा यौ"(पाoसूo2-4-57)इति सूत्रेण। तस्मात्-अर्जेर्वी वेति घञपोः क्यपि चायं न सम्मतः।
वलादौ यौ च वाऽन्यत्र नित्यमित्येष निर्णयः(काoवाo)।।
आर्धधातुके इत्यस्य विषयसप्तमित्वात् प्रागेव प्रत्ययोत्पत्तेर्वीभावे हलादित्वाद्यङ्। चेवीयते। नात्र यङ्‌लुगस्ति यतो लुका यङ आर्धधातुकस्य विषयत्वापहारान्नार्द्धधातुक्रव्यक्त्यभिव्यक्तिरिति वीभावस्य नैव प्रसङ्गः। उक्तञ्च "न लुमताऽङ्गस्य"(पाoसूo1-1-63)इति सूत्रे कैयटेन-लुको यङो विषयत्वापहाराद्विषयसप्तम्याश्रयणेऽप्यसिद्धिरिति।
(पाoसूo2-4-57)
वा यौ(पाoसूo2-4-57)।। अजेर्वी वा स्यात् यौ। प्रवयणम्। प्राजनम्। इदञ्च पूर्वसूत्रे एव प्रत्याख्यातम्।
।। आर्द्धधातुकाधिकारः समाप्तः ।।
(पाoसूo2-4-58)
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः(पाoसूo2-4-58)।। क्षत्रियशब्दः क्षत्रियगोत्रपरः। ऋषेरपत्यमार्षम्। "इतश्चानिञः"(पाoसूo4-1-122)इति ढकि प्राप्ते शिवादिपाठादण्। ढगपीत्यते, `आर्षेयं वृणीते' इति दर्शनात्। तस्माच्छुभ्रादिष्वपि पठनीयः। ण्यप्रत्ययान्तात् क्षत्रियगोत्रापत्य प्रत्ययान्तादृष्यभिधायिनो। गोत्रप्रत्ययान्तात् ञितश्च परयोः युवाभिधायिनोरणिञोर्लुक् स्यात्। "कुर्वादिभ्यो ण्यः"(पाoसूo4-1-151)। तस्माद्यूनि इञ्। तस्य लुक्। कौरव्यः पिता, कौरव्यः पुत्रः। न नु कौरव्यशब्दस्तिकादिषु पठ्यते। ततः `कौरव्यायणिः' इति हि फिञा भाव्यमिति चेत्? न, तत्र हि "कुरुनादिब्यो ण्यः"(पाoसूo4-1-172)इत्यनेन विहितस्य क्षत्रियगोत्रस्य ग्रहणम्। इदन्तु ब्राह्मणगोत्रम्। "ऋष्यन्धकवृष्णिकुरुभ्यश्च"(पाoसूo4-1-114)इत्यण्। तस्माद्यूनि इञ्। तस्य लुक्। श्वाफल्कः पिता, श्वाफल्कः वुत्रः। क्षत्रियवसिष्ठादृष्यण् तत इञ्। तस्य लुक्। वासिष्ठः पिता, वासिष्ठः पुत्रः। आर्षः बिदाद्यञ् तस्माद्यूनीञ्। तस्य लुक्। बैदः पिता, बैदः पुत्रः। तैकायनिः पिता, तैकायनिः पुत्रः। कुत्सातः सौवीरगोत्राद्वाऽन्यत्रेदम्। अन्यथा "फेश्छच"(पाoसूo4-1-149)इति छप्रसङ्गात्। यमुन्दश्चेत्यादिपरिगणनस्य। भाष्यविरुद्धत्वात्। एभ्यः किम्? "शिवादिभ्योऽण्"(पाoसूo4-1-112)। ततो यूनि इञ्। कौहडः पिता, कौहढिः पुत्रः। यूनि किम्? वामरथ्यस्य छात्राः वामरथाः। 'कुर्वादिभ्यो ण्यः"(पाoसूo4-2-111)इति शौषिकोऽण्। वामरथस्य कण्वादिवत्स्वरवर्जमिति कुर्वादिषु पाठात्। अत्र शैषिकस्याणो न लुक्। अणिञोः किम्? दाक्षेरपत्यं युवा दाक्षायणः।
अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसङ्ख्यानम्(काoवाo)।। मात्रशब्दः कार्त्स्न्ये। क्षत्रियादिजातिं विनापि अब्राह्मणत्वमात्रेण ततः परस्य अणिञ्भ्यां भिन्नस्यापि लुगित्यर्थः। मण्डिजङ्‌घकर्णखरकौ वैश्यौ, ताभ्यामतदञ् तदन्तात्फको लुक्। माण्जिजङ्घिः पिता पुत्रश्च। एवं कार्णखरकिः।।
(पाoसूo2-4-59)
ऐलादिभ्यश्च(पाoसूo2-4-59)।। एभ्यो युबप्रत्ययस्य लुक् स्यात्। "पीलाया वा"(पाoसूo4-1-118)इत्यण्। तस्मात् "अणो द्वयचः"(पाoसूo4-1-156)इति फिञ् तस्य लुक्। पैलः पिता पुत्रश्च। आकृतिगणोऽयम्।
तद्राजाच्चाणः(गoसूo)।। इत्यन्तर्गणसूत्रम्। तद्राजसंज्ञकादणः परस्य युवप्रत्ययस्य लुक् स्यात्। "द्व्यञ्मगध"(पाoसूo4-1-170)इत्यण्णन्तादाह्गशब्दात्। "अणो द्व्यचः"(पाoसूo4-1-156)इति फिञो लुक्। आङ्गः पिता पुत्रश्च।
(पाoसूo2-4-60)
इञः प्राचाम्(पाoसूo2-4-60)।। गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक् स्यात्तच्चेद्गोत्रं प्राचां भवति। इह "प्राचामवृद्धात्"(पाoसूo4-1-160)इत्यादिवत्प्राग्ग्रहणं विकल्पार्थं नेत्यत्र व्याख्यानं शरणम् पन्नं प्राप्तम् अगारं येन स पन्नागारः। तत इञ् "यञिञोश्च"(पाoसूo4-1-101) इति फक्। पान्नागारिः पिता पुत्रश्च। मन्थरा मन्दीभूता एषणा यस्य स मन्थरैषणः। मन्थरैषणिः पिता पुत्रश्च। प्राचां किम्? दाक्षिः पिता, दाक्षायणः पुत्रः।
(पाoसूo2-4-61)
न तौल्वलिभ्यः(पाoसूo2-4-61)।। तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात्। पूर्वेण प्राप्तो निषिध्यते। तुल उपमाने(चुoपo66)। औणादिको वलच्। तुल्वलः। तत इञि फक्-तौल्वलिः। पिता, तौल्वलायनः पुत्रः। तौल्वलि। तैल्वलि। धारयतिपारयतिभ्यो नन्द्यादित्वाल्ल्युः, तत इञ्-धारणि। पारणि। दैवलिपि। दैवमित्रि। दैवयज्ञि। देवा मित्रमस्य, देवेभ्यो यज्ञोऽस्येति विग्रहः। प्राणेहति। चापट्‌कि। आनराहनि। श्वाफल्कि। आनुमति। आहिसि। आसुरि आयुधि। नैमिषि। आसिबन्धकि। वैकि। पौष्कि। पुष्करे सीदतीति पुष्करसत्, अनुहरतीत्यनुहरत् बाह्वादी अनुशतिकादी च-पौष्करसादि। आनुहरति। पुष पुष्टौ(भ्वाoपo700)यत्। पुष्यः पौष्यि। वैरकि। वैहति। विलक्षणौ कर्णावस्य विकर्णः-वैकर्णि। कामलि। करेणुं पालयतीति करेणुपाल-कारेणुपालि।।
।। इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य चतुर्थे पादे प्रथमान्हिकम् ।।