सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः २-पादः ३/आह्निकम् ३

विकिस्रोतः तः
← आह्निकम् २ शब्दकौस्तुभः
आह्निकम् ३
[[लेखकः :|]]

।। तृतीये पादे तृतीयमान्हिकम् ।।
(पाoसूo2-3-46)
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा(पाoसूo2-3-46)। प्रातिपदिकार्थमात्रे लिङ्गमात्रादिषु च प्रथमा स्यात्। द्वन्द्वान्ते श्रुतत्वात्प्रत्येकं मात्रशब्दः सम्बध्यते। स चावधारणे। "मात्रं कात्यऽवधारणे"(अoकोo3-3-186) इत्यमरः। प्रातिपदिकार्थादीन्येव तन्मात्रमित्यस्वपदविग्रहः। "मयूरव्यंसकादयश्च"(पाoसूo2-1-72)इति समासः। प्रातिपदिकार्थः सत्ता। उक्तं हि-"तस्यां सर्वे शब्दा व्यवस्थिताः" इति।
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते। इति च।
उच्चैः। नीचैः। अत्र हि परिमाणविशेषोपहितं सत्तामात्रं प्रतीयते इत्याहुः। अन्ये तु नियतोपस्थितिकः प्रातिपदिकार्थ इत्याहुः। अस्मिन्पक्षे `वृक्षः कुड्य भित्तिः' इत्यादीनां नियतलिङ्गानां प्रातिपदिकार्थमात्रे प्रथमेत्येव सिद्धम्। लिङ्गमात्रे इति तु तटस्तटीतटमित्याद्यर्थम्। न ह्यत्र पुंस्त्वादि नियतोपस्थितिकम्। अतः लिङ्गमात्राधिक्येऽपि विधीयते। परिमाणमात्रे द्रोणो व्रीहिः। इह हि द्रोणलक्षणं यत्परिमाणन्तत्परिच्छिन्नो व्रीहिरित्यर्थः। प्रकृत्यर्थस्य द्रोणस्य प्रत्ययार्थे परिमाणेऽभेदेन संसर्गेण विशेषणता, प्रत्ययार्थश्च। व्रीहिषु परिच्छेद्यपरिच्छेदकभावेन संसर्गेण विशेषणमिति बोध्यम्। वचनमात्रे-एकः द्वै बहवः। वचनं सङ्ख्या तथैव प्राचां व्यवहारात्। तत्र प्रकृत्या उक्तायामपि सङ्ख्यायां यथा स्यादित्येतदर्थमिदं वचनम्।
इह सूत्रे `अर्थलिङ्गयोः प्रथमा'इत्येतावदेवाश्यकम्, इतरत्तु व्यर्थम्। तथाहि प्रातिपदिकग्रहणं तावद्व्यर्थम्। ङ्याप् प्रातिपदिकाद्धि स्वादयो विधीयन्ते। तत्रार्थे इत्यपेक्षायां यस्मात्स्वादिविधिस्तदर्थ इति लभ्यत एव। परिमाणमप्यनर्थकम्, `गौर्वाहीकः' इत्यादाविव मुख्यार्थमात्रे प्रथमानां सत्यां पदान्तरसमभिव्याहारेण गौणार्थप्रतीत्युपपत्तेः, वाहीके गोत्वस्येव व्रीह्यादौ द्रोणत्वादेरारोपसम्भवात्। एवं वचनग्रहणमपि व्यर्थम्, "न केवला प्रकृतिः प्रयोक्तव्या" इति "प्रत्ययः"(पाoसूo3-1-1)"परश्च"(पाoसूo3-1-2)इति सूत्रे वभ्यमाणतयाप्रत्ययस्यावश्यकत्वात्। अनन्वितवचनप्रयोगापेक्षणा अनुवादकप्रयोगस्यैव न्याय्यत्वात्। मात्रग्रहणमपि व्यर्थम्, "सम्बोधन च"(पाoसूo2-3-47)इति ज्ञापकेन कर्माद्याधिक्ये प्रथमाया अप्रवृत्तेः। ननु `वीरः पुरुषः' इत्यादौ अबेदसंसर्गस्याधिकस्य भानात् प्रथमा न स्यादिति चेत्? न, संसर्गस्य वाक्यार्थत्वेन बहिरङ्गत्वात्प्रथमप्रवॉत्तसंस्कारबाधानुपपत्तेः।
वार्त्तिककारस्त्वाह--अभिहिते प्रथमेति। `वृक्षस्तिष्ठति' `कृतः कटः' `शत्यः' `प्राप्तोदको ग्रामः' इत्यादौ तिङादिभिरभिहिते कर्त्रादौ प्रथमा भवतीत्यर्थः। एवञ्च `वीरः पुरुषः' इत्यादौ सत्यप्याधिक्ये अभिहितत्वात् प्रथमा सिद्धेति। न च `वृक्षः' `प्लक्षः' इत्यादाव्याप्तिः, अस्तीत्यध्याहारात्।

अत्र भाष्यम्-अभिहितेनाभिहितेतिप्रसङ्ग इति। तथाहि, `प्रासाद आस्ते' इत्यत्र सदिक्रियायाश्चासिक्रियायाश्चैकमधिकरणं प्रासादाख्यं तच्च सदेरुत्पन्नेन घञाभिहितम्। आसेर्लटा त्वनभिहितम्। तत्र सप्तमीं बाधित्त्वा परत्वात्प्रथमा स्यात्। अतिङ्समानाधिकरणे प्रथमेत्युच्येत। तदपि न, `देवदत्तः पचति'इत्यादिषु तिङां दौर्लभ्यापत्तेः। तथाहि, देवदत्तः पच लट् इति स्थिते यावत्तिङो न कृतास्तावत्तिङसामानाधिकरण्याभावात् प्रथमैवेति नियमो न प्रवर्तेत। तथा च देवदत्तशब्दादविशेषोत्पन्नाः सर्वे स्वादयः सन्त्येवेति शतृशानचौ स्याताम्। तन्निमित्तभूतस्याप्रथमान्तेन सामानाधिकरण्यस्य सत्वात्। तिङ्‌विधेस्तु लिङ्गादिष्ववकाशः। स एव प्रथमैवेति नियमस्यापि "विदो लटोवा"(पाoसूo3-4-83)इत्यादेस्तु विदिमात्रप्रयोगे चरितार्थता। यथा "वेत्थ वेद" इत्यादि। स्थानिन्यपि मध्यमोत्तमयोर्विधानादर्थात्प्रकरणाद्वा निर्ज्ञातस्य प्रयोगानावश्यकत्वाच्च। पाक्षिकश्चायं दोषः। शत्रादिविधौ हि `अप्रथमा' इत्यादिः पर्युदासः प्रसज्यप्रतिषेधो वेति द्वैतम्, तत्र द्वितीये उक्तदोषस्यासङ्गतेः प्रथमाया अपि सत्वेन शत्रादिनिषेधसम्भवात्।
यत्तु भाष्ये पर्युदासपक्षे"विभक्तिनियमे दोषो न"इत्युक्तमातच्चिन्त्यम्, तत्र हि द्वितीया कर्मण्येवेत्यादि वचनव्यक्त्याश्रयणात्। देवदत्ते द्वितीया मा भूत्, षष्ठी तु स्यादेव। सा हि शेष एवेति नियम्यते। यत्र य विभक्त्यन्तरस्य नियमो न प्रवृत्तः स शेषः। ततश्च तिङः सामानाधिकरण्यात् प्राक् शेषलक्षणषष्ठ्यां सत्यां दुर्वारौ शतृशानचाविति।
(पाoसूo2-3-47)
सम्बोधने च(पाoसूo2-3-47)। इह प्रथमा स्यात्। हे राम।
(पाoसूo2-3-48)
सामन्त्रितम्(पाoसूo2-3-48)। सम्बोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसंज्ञं स्यात्। यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं दुर्लभं, तथापि महासंज्ञाकरणाल्लभ्यते आमन्त्रणमामन्त्रितम्। अभेदोपचारात्तत्साधने शब्दे वृत्तिः। विभक्त्यन्तेन चामन्त्र्यते न तु केवलया विभक्त्येति। संज्ञाप्रदेशाः, आमन्त्रितस्य चेत्यादयः। सोति किम्? प्रातिपदिकार्थसूत्रेणाऽपि या सम्बोधने प्रथमा तदन्तस्यापीयं संज्ञा यथा स्यात्। हे पचन्, हे पचमान। इह हि शतृशानचोः सम्बोधने विधानादभिहितः सोऽर्थोऽन्तर्भूत इति पूर्वेणैव प्रथमा। यदि तु विभक्तिरहितयोस्तयोः कर्त्राद्यभिधान एव सामर्थ्यम्। यथा द्विर्वचनरहितस्य लोटः, तेनेहापि "सम्बोधने च"(पाoसूo2-3-47)इति पक्षः। तदा सेति मास्तु, `अनन्तरस्य विधिर्वा" इति प्रवृत्तेऽपि रूपनिष्पत्तेः।
(पाoसूo2-3-49)
एकवचनं सम्बुद्धिः(पाoसूo2-3-49)। आमन्त्रितप्रथमाया यदेकवचनं तत्संबुद्धिसंज्ञं स्यात्। हेपटो। "सम्बुद्धौ च"(पाoसूo7-3-106)इति वर्तमाने "ह्रस्वस्य गुणः"(पाoसूo7-3-108)। सु सम्बुद्धिरिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते, येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्। अन्यथा प्रक्रमाभेदाय तदन्तस्य स्यात्।
(पाoसूo2-3-50)
षष्ठी शेषे(पाoसूo2-3-50)। कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः शेषस्तत्र षष्ठी स्यात्। राज्ञः पुरुषः। ननु प्रत्ययनियमपक्षे शेष एवेत्यवधारणार्थमस्तु नाम शेषग्रहणम्। अर्थनियमपक्षे तु षष्ठ्याश्चान्यस्य च प्राप्तौ षष्ठ्येवेति नियमसम्भवात्किन्तेनेति चेत्? न, उत्तरार्थमवश्यकर्तव्यस्य शेषग्रहणस्य स्पष्टार्थमिहैव ग्रहणम्। न चाप्रधानार्थ शेषग्रहणम्। तेन द्वयोः पर्यायेण वा न स्यादिति वाच्यम्, प्रत्ययार्थस्य प्राधान्येनाप्रधानादेव षष्ठ्या न्याय्यत्वात्। अप्रकृत्यर्थं पुरुषं तु `राज्ञः' इति षष्ठ्यर्थस्य विशेषणत्वमुचितमेवेति दिक्।
(पाoसूo2-3-51)
ज्ञोविदर्थस्य करणे(पाoसूo2-3-51)। जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात्। समासनिवृत्त्यर्थमिदं प्रकरणमिति "ननिर्धारणे"(पाoसूo2-2-14)इति सूत्रे "प्रतिपदविधाना च"(काoवाo)इति वार्तिकस्य प्रत्याख्यानावसरे एवोपपादितम्। सर्पिषो ज्ञानम्। वस्तुतः करणीभूतं यत्सर्पिस्तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः। ज्ञानपूर्विकायां प्रवृत्तौ जानातेर्लक्षणा।
(पाoसूo2-3-52)
अधीगर्थदयेशां कर्मणि(पाoसूo2-3-52)। एषां कर्मणि शेषे षष्ठी स्यात्। "इक्‌स्मरणे"(अoपo1-47)ककार इहैव विशेषणार्थ-। अधिशब्दोच्चारणन्तु सामान्यापेक्षज्ञापकं "इङिकावध्युपसर्गं न व्यभिचरते" इति। अत एव स्मृत्यर्थदयेषामिति नोक्तम्। सूत्रभङ्गपक्षेऽपि हि कित्वं कर्त्तव्यमेव "इण्वदिक"(काoवाo)इत्यत्र विशेषणार्थम्। "एः" इत्युक्तेः "कटीगतौ"(काoवाo)इत्यत्र प्रश्लिष्टस्यायतेर्ग्रहणापत्तेः। मातुः स्मरणम्। सर्पिषोदयनमीशनं वेत्यादिवृत्त्यादिग्रन्थेष्विहपकरणे मातुः स्मरणम्। सर्पिषोदयनमीशनं वेत्यादिवृत्त्यादिग्रन्थेष्विह पकरणे उदाहरणं प्रत्युदाहरणञ्च। यद्यपि तिङन्तं दृश्यते, तथापि तसर्पमुपलक्षमतयाऽभियुक्तैर्व्याख्यातमेव।
(पाoसूo2-3-53)
कृञः प्रतियत्ने(पाoसूद2-3-53)। करोतेः कर्मणि शेषे षष्ठी स्यात् गुणाधाने। एधो दकस्योपस्करणम्। एधाश्चोदकञ्चेति विग्रहे "जातिरप्राणिनाम्"(पाoसूo2-4-6)इत्येकवद्भावः। "उपात्प्रतियत्न"(पाoसूo6-1-139)इत्यादिना सुट्।
(पाoसूo2-3-54)
रुजार्थानां भाववचनानामज्वरेः(पाoसूo2-3-54)। भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात्। चौरस्य रोगस्य रुजा। रुजो भङ्गे(तुoपo1416)। भिदादिपाठात्प्रकृतसूत्रएव निपातनाद्वाङ्। रुजाशब्दो व्याधौ रूढः। सूत्रं भाववचनानामिति कर्तरि ल्युट्। प्रकृत्यर्थस्तु न विवक्षितः। तर्हि भावो वक्ता सम्भवति। तस्मात् प्रत्ययस्य साधुत्वनिर्वाहाय वचिर्बोध्यः। अज्वरिसन्ताप्योरिति वाच्यम्(काoवा्o)। रोगस्य चौरज्वरः, चौरसन्तापो वा। रोगकर्तृकञ्चौरसम्बन्धि ज्वरादिकमित्यर्थः। तपेर्हेतुमण्ण्यन्तादेरच्। इह समासो भवत्येव।
(पाoसूo2-3-55)
आशिषि नाथः(पाoसूo2-3-55)। आशीरर्थस्य नाथतः शेषे कर्मणि षष्ठी स्यात्। सर्पिषो नाथनम्। आशिषीति किम्? माणवकनाथनम्, तत्सम्बन्धिनी याञ्चेत्यर्थः। यद्यपि कर्मत्वविवक्षायां "कर्तृकर्मणोः"(पाoसूo2-3-65)इति यदा षष्ठी तदा समासो भवत्येव, तथापि तत्र कृदुत्तरपदप्रकृतिस्वरः। समासान्तोदात्तत्वं तु याञ्चादावेव न त्वाशिषीति निष्कर्षः।
(पाoसूo2-3-56)
जासिनिप्रहणनाटक्राथपिषां हिंसायाम्(पाoसूo2-3-56)। हिंसार्थानामेषां शेषे कर्मणि षष्ठी स्यात्। जसु ताडने(चुoपo1718)जसु हिंसायाम्(चुo उo1668)इति च चुरादिः, तस्येदं ग्रहणं न तु दैवादिकस्य जसुमोक्षणे(दिoपo1211)इत्यस्य। जासीति निर्द्देशात् हिंसायामिति वचनाच्च। चौरस्योज्जासनम्। निप्राभ्यामुपसृष्टो हनो निप्रहणः। "हन्तेरत्पूर्वस्य(पाoसूo8-422)इति णत्वम्। निप्रौ संहतौ विपर्यस्तौ व्यस्तौ च। चौरस्य निप्रहणनं प्रणिहननं निहननं प्रहणनं वा। प्रणीत्यत्र "नेर्गद"(पाoसूo8-4-17)इति णत्वम्। नट अवस्यन्दने(चुoउo1545)चुरादिः। नट नृत्तौ(भ्वाoपo781)इत्यस्य तु घटादेरग्रहणम्, दीर्घनिर्द्देशात्। चौरस्योन्नाटनम्। क्रथ हिंसायाम्(भ्वाoपo81)इति घटादौ पठ्यते तस्येह निपातनाद्वृद्धिरिति वृत्तिकारः। अत एव "क्रथ हिंसायाम्" इति युजादौ स्वरितेतं वदन्, देवस्तत्रैवानुदात्तेतं पठन्, शाकटायनश्च मतान्तरपरतया नीतो माधवादिभिः। चौरस्य क्राथनम्। मित्वन्तु "चिण्णमुलोः"(पाoसूo6-4-93)इति दीर्घविकल्पार्थम्। अक्रथि अक्राथि। क्रथं क्रथम्। क्राथं क्राथम्। इह हि निपातनं बाधित्वा परत्वाद्दीर्घविकल्पः।
यत्तु न्यासकृतोक्तं क्राथीति विकृतनिर्द्देशात् मित्वेऽपि वृद्धिर्यत्र तत्रैव षष्ठी। चङन्ते तु वृद्ध्यभावात् चोरमचिक्रथदिति। तन्मन्दम्, समासनिवृत्तये प्रकरणमिदमिति सिद्धान्तात् तिङन्तानामनुदाहरणत्वात् चङन्तेऽपि शेषषष्ठ्या दुरपह्नवत्वादिति माधवः। न च क्राथेरेव शेषे षष्ठी न तु ह्रस्वस्येति व्याख्यानात्प्रकरणं भित्वा प्रकृते तिङन्तमप्युदाहरणमस्त्विति न्यासस्याशयो वाच्यः, एवमपि द्वितीयाया दुर्लभत्वात् प्रक्रमभेदे मानाभावाच्च। यद्यपि हरदत्तेनोक्तं घटादिपाठः "घटादयः षितः"(गoसूo)इति आतिदेशिकषित्वे अङ् यथा स्यादित्येतदर्थ इति। तदपि मन्दम्, "घटादयः षितः"(गoसूo)इति हि मध्ये सूत्रितम्। तेन पूर्वेषामेव षित्वं न तु परेषामपि, परश्चायमिति दिक्। वृषलस्य पेषणम्। हिंसायां किम्? धानपेषणम्। अन्तोदात्तः। शेष इत्यनुवृत्तेः कर्मत्वविवक्षायां द्वितीयैव। तथा च भट्टिः-"अद्मो द्विजान्देवयजीन्निहन्मः" इति। "निजौजसोज्जासयितुं जगद्‌द्रूहाम्।(माo काo1-37)इति माघस्तु शेषत्वे बोध्यः।
(पाoसूo2-3-57)
व्यवहृपणोः समर्थयोः(पाoसूo2-3-57)। शेषेकर्मणि षष्ठी स्यात्। द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता बोध्या। शतस्य व्यवहरणं पणनं वा। शतसम्बधी क्रयविक्रयरूपेण विनियोगो देवनं वेत्यर्थः। समर्थयोः किम्? शलाकाव्यवहारः, गणनेत्यर्थः। ब्राह्मणपणनम्, स्तुतिरित्यर्थः। "आयादयआर्धधातुके वा"(पाoसूo3-1-31)इति आयस्य विकल्पः।
(पाoसूo2-3-58)
दिवस्तदर्थस्य(पाoसूo2-3-58)। इह शेषे इति न सम्बध्यते, उत्तरसूत्रद्वयारम्भात्। पूर्वसूत्रएव दिवेः पाठे तदर्थस्येति न कर्तव्यमिति। यद्यपि लाघवं तथापि योगविभाग उत्तरार्थः। शेषासम्बन्धार्थश्च। व्यवहृपणिसमानार्थस्य दिवः कर्मणि षष्ठी स्यात्। इह त्रिसूत्र्यां तिङन्तमप्युदाहरणम्। शतस्य दीव्यति। तदर्थस्य किम्? ब्राह्मणं दीव्यति।
(पाoसूo2-3-59)
विभाषोपसर्गे।(पाoसूo2-3-59)। पूर्वयोगापवादः। शतस्य शतंवा प्रतिदिव्यति।
(पाoसूo2-3-60)
द्वितीया ब्राह्मणे(पाoसूo2-3-60)। ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया वा स्यात्। षष्ठ्यपवादः। गामस्य तदहः स भायां दीव्येयुः। सोपसर्गस्य छनदसि व्यवस्थितविभाषायापि सिद्धे निरुपसर्गार्थ आरम्भः।
(पाoसूo2-3-61)
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने)पाoसूo2-3-61)। इष्यतेर्दैवादिकस्य गत्यर्थस्य लोण्मध्यमपुरुषैकवचनं प्रेष्येति तत्साहचर्याद् ब्रुविरपि तथाभूतो गृह्यते। देवतासम्प्रदानं यस्यार्थस्य तत्र वर्तमानयोः प्रेष्यब्रूहीत्येतयोः कर्मणोर्हविर्विशेषस्य वाचकाच्छब्दात् षष्ठी स्यात्। अग्नये छागस्य हविषो वपाया मेदसः प्रेष्यानुब्रूहि वा। प्रेष्यब्रुवोः किम्? अग्नये छागं हविर्वपामेदो जुहुधि। हविषः किम्? अग्नये गोमयानि प्रेष्य। देवतासम्प्रदाने किम्? माणवकाय पुरोडाशान्प्रेष्य! हविषः प्रस्थितत्वेन विशेषणे प्रतिषेधा वक्तव्यः(काoवाo)। इन्द्राग्निभ्यां छागं हविर्वपाम्मेदः प्रस्थितं प्रेष्य इह सूत्रे शेषग्रहणं न सम्बध्यते, तिङन्तेन समासस्याप्रसक्तत्वात्। इदञ्च भाषायामपि प्रवर्तते, उत्तरत्र छन्दोग्रहणात्।
(पाoसूo2-3-62)
चतुर्थ्यर्थे बहुलं छन्दसि(पाoसूo2-3-62)। षष्ठी स्यात्। पुरुष मृगश्चन्द्रमसे गोधाकालकादार्वाघाटस्ते वनस्पतीनाम्, वनस्पतिभ्य इत्यर्थः।(काoवाo)। या खर्वेण पिबति तस्यै खर्वः। व्यत्ययवचनात्सिद्धम्।
(पाoसूo2-3-63)
यजेश्च करणे(पाoसूo2-3-63)। इह छन्दसि बहुलं षष्ठी स्यात्। घृतस्य घृतेन वा यजते।
(पाoसूo2-3-64)
कृत्त्वोर्थप्रयोगे कालेऽधिकरणे(पाoसूo2-3-64)। इह षट्‌सूत्र्या विच्छिन्नमपि शेषग्रहणमनुवर्त्तते, उत्तरसूत्रे कर्मग्रहणात्। "कर्त्तरि च"(पाoसूo2-2-16)इति हि नोक्तम्। शेषसम्बद्धं कर्मग्रहणं मानुवृतदिति प्राञ्चः। वस्तुतो व्याख्यानमेव शरणम्, सन्निहितस्याधिकरणस्य निवृत्तये वा कर्मग्रहणसम्भवात्। पञ्चकृत्वोह्नो भोजनम्। द्विरन्हो भोजनम्। शेषे किम्? अन्यथा विधिरेवायं स्यात्। तथाच द्विरहन्यधीत इति सप्तमी न स्यात्। षष्ठ्या बाधात्।
(पाoसूo2-3-65)
कर्तृकर्मणोः कृति(पाoसूo2-3-65)। शेषे इति निवृत्तम्। कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात्। भवतः शायिका। अपां स्रष्टा। कर्तृकर्मणोः किम्? शस्त्रेण भेत्ता।
स्यादेतत्, इह कर्तृकर्मभ्यां क्रिया आक्षिप्यते। तद्वाचीह धातुरेव। धातोश्च द्वये प्रत्ययाः-कृतस्तिङ्श्च। तत्र तिङः प्रयोगे "नलोक"(पाoसूo2-3-69)इति प्रतिषेधेन भाव्यम्। ततश्च परिशेषात् कृद्योगएव षष्ठी भविष्यति तत् किं कृद्ग्रहणेन? मैवम्, तद्धितान्तस्य वारणीयत्वात्, यथा कृतपूर्वीकटमिति। ननु कृतः कटः पूर्वमनेनेत्यस्मिन्विग्रहे क्तस्य कर्मणि विधानात्तेनैव कर्मणोऽभिहतत्वात् द्वितीयया न भाव्यम्। एवं तदपवादभूतया षष्ठ्यापि, इहाप्यनभिहिताधिकारात्। किञ्च कृतशब्दस्य कटसापेक्षतया समासो दुर्लभः। एवं तद्धतोऽपीति चेत्? अत्रोक्तं हरिणा--
विशेषकर्मसम्बन्धे निर्भुक्तेऽपि कृतादिभिः।
विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्त्तते।।
अकर्मकत्वे सत्येवं क्तान्ते भावाभिधायिनि।
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम्।।
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः।
क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता।। इति।
अस्यार्थः-कृतादिभिः शब्दैः कटादिसमभिव्याहारात् विशिष्टकर्मसम्बन्धे निष्कृष्य भुक्तेऽपि अनुभूतेऽपि कृतः पूर्वे कटोऽनेनेत्यवस्थायामिति भावः, तस्यामवस्थायां वृत्तिविरहात्। कर्मसामान्यवचनोन्य एव कृतशब्दः प्रवर्तते वृत्तिं लभते। अविवक्षितकर्मतायां नेह पच्यते इत्यादावपि कर्मसामान्ये प्रत्ययाभ्युपगमादिति भावः।
अविवक्षितकर्मणां भावे प्रत्यय इति मतान्तरमाह-अकर्मकत्व इति। ननुकर्मसामान्ये भावे वा क्तप्रत्यये कृते सापेक्षत्वाभावात् "सुप्सुपा" इति समासे कृते "पूर्वादिनिः"(पाoसूo5-2-86)"सपूर्वाच्च"(पाoसूo5-2-87)इति कर्त्तरि इनिप्रत्ययोऽस्तु नाम। कटस्य तु प्रथमपक्षे क्तेनाभिधानं दुर्वारम्। यथा शक्यञ्च "क्षुदुपहन्तुम्" इत्यत्र क्षुधः कृत्यप्रत्ययेन। मैवम्, तद्धितार्थेनैकार्थीभूतस्य कृतशब्दार्थस्य निष्कृष्य कटेन सम्बन्धाभावात्।
तदेतदाह-ततः क्रियावतेति। नन्वेवं क्रिययापि थोगाभावे कथं द्वितीयेत्याशङ्क्याह-अविग्रहेति। विशिष्य ग्रहो ग्रहणं तद्रहिताप्राधान्येनागृह्यमाणापीत्यर्थः। अयं भावः-गुणभूतयापि क्रियया कारकाणां सम्बन्धो दृश्यते, यथा कटं कृतवानिति। कृतपूर्वीशब्दश्चायं पूर्वं कृतमनेनेत्यस्मिन्नर्थे व्युत्पादितः। पूर्वं कृतवानित्यनेन समानार्थः सम्पद्यते। तत्र करोतिक्रियापेक्षमस्ति कटस्य कर्मत्वम्। अनभिहितञ्च तत्। अतोऽसति कृद्ग्रहणे षष्ठी स्यादेवेति स्थितम्।
स्यादेतत्, ओदनः यच्यतेतमां, "गुरुर्धरित्री क्रियतेतरान्त्वया"(माoकांo)इत्यादावपि ओदने धरित्र्यादेः कर्मणः क्रिययैव योगाद् द्वितीयैव स्यात्। क्रियाविशेषणीभूतेन लकारार्थेन कर्मान्वयश्चेत् क्तार्थेनाप्यस्तु। क्रियायाः कारकेष्विव शक्तेरपि शक्तिमत्युत्थिताकाङ्क्षकत्वाविशेषात्। किञ्चास्तु नाम कथञ्चित् क्तार्थपरित्यागेन वृत्तिः, राजपुरुषादौ सङ्ख्याविशेषस्य मासजातादौ गुणप्रधानभावादेश्च बहुशस्त्यागदर्शनात्। तथापि कृद्ग्रहणं व्यर्थमेव, "नलोक"(पाoसूo2-3-69)इति निष्ठायोगे निषेधसिद्धेः। निष्ठान्तधातूपात्तिक्रियायोगे न भवतीति हि तदर्थः। `ग्रामं गतवान्' इत्यादावपि कारकाणां क्रिययैवान्वयात्। न च `पाचयति यज्ञदत्तो देवदत्तेन' इत्यत्र णिच्प्रकृत्यर्थं प्रति कर्तुः प्रयोज्यात्षष्ठीं वारयितुं कृद्ग्रहणम्। णिच् तु न कृदिति बाच्यम्, लयोगे नेत्येव निषेधसिद्धेः। लप्रकृत्या लान्तपदेन वा या क्रियोपात्ता तद्योगे नेत्यर्थात्। सा च क्रिया गुणभूता प्रधानभूता वेत्यत्र नाग्रहः। गौणमुख्यन्यायक्ष्तु नाश्रीयते, लक्ष्यानुरोधात् स्वरितेनाधिकः कार इति व्याख्यानाच्च। अत एव तत्र तृतीया लभ्यते। `भेदिका देवदत्तस्य' `यज्ञदत्तस्य काष्ठानाम्" इत्यत्रेभाभ्याङ्कर्तृभ्यां षष्ठ्यप्यत एव। तस्माद्व्यर्थं कृद्ग्रहणमिति।
अत्राहुः, कृत्येव यथा स्यात्तद्धिताधिक्ये मा भूदिति कृद्ग्रहणम्। व्याकरणं प्राज्ञः। "प्रज्ञादिभ्यश्च"(पाoसूo5-4-38)इति स्वार्थेऽण्। एवञ्च वदतां मते पाचकतमः' इत्यत्रापि षष्ठी नेति लभ्यते। कृतपूर्वीतिवत्कर्तव्यपूर्वीत्यादेरभ्युपगमे तु तव्यदाद्यन्तेन समासादिनौ कृते कृद्ग्रहणव्यावर्त्यतापि सम्भवति। भाष्यं त्विहोतादीनमेवेत्यभियुक्तप्रयोगा अन्वेषणीयाः। "थन्तर्हि धयै रामोदमुत्तमम्" इति भट्टिः। उच्यते, अनित्येयं षष्ठी, तदर्हमिति निर्द्देशात्। द्विकर्मकेभ्यस्तु कर्तरि कृति कृते प्रधाने नियताषष्ठी, गुणे तूभयथा भवेदित्यकथित सूत्रे एवोक्तम्।
(पाoसूo2-3-66)
उभयप्राप्तौ कर्मणि(पाoसूo2-3-66)। उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात्। आश्चर्यो गवां दोहोऽगोपेन। अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम्(काoवाo)। भेदिका बिभित्सा वा रुद्रस्य जगतः। कथन्तर्हि क्तिना बाधा न भवतोति, "स्थागापापचोभावे"(पाoसूo3-3-95)इति सूत्रे वृत्तिः। तथा सुटा सीयुटो बाधा न भवतीति, "सुट्तिथोः"(पाoसूo3-4-107)इत्यत्र वृत्तिः अत्र रक्षितः-अप्रत्ययादित्यकारप्रत्ययस्येह ग्रहणम्, प्राथम्यात्। बाधाशब्दे तु "गुरोश्च हलः"(पाoसूo3-3-103)इत्यकार इत्याह करणत्वविवक्षायां तृतीयेति वा बोध्यम्। शेषे विभाषा(काoवाo)। स्त्रीप्रत्ययविषयमेवेदमित्येके। विचित्रा सूत्रस्य कृतिः पाणिनेः पाणिनिना वा। केचिदविशेषेण विभाषामिच्छन्ति। शब्दानामनुशासनमाचार्येणाचार्यस्य वा।
(पाoसूo2-3-67)
क्तस्य च वर्तमाने(पाoसूo2-3-67)। वर्तमानार्थक्तस्य योगे षष्ठी स्यात्। "नलोक"(पाoसूo2-3-69)इति निषेधस्यापवादः। राज्ञां मतो बुद्धः पूजितो वा। "मतिबुद्धिपूजार्थेभ्यश्च"(पाoसूo3-2-188)इति वर्तमाने क्तः। कथन्तर्हि नपुंसके भावे क्तस्य योगे षष्ठी, `छात्रस्य हसितम्' इति शेषविज्ञानात्सिद्धम्। कर्तृत्वविवक्षायां तृतीयैव, `छात्रेण हसितम्' इति।
(पाoसूo2-3-68)
अधिकरणवाचिनश्च(पाoसूo2-3-68)। क्तस्य योगे षष्ठी स्यात्। इदमेषां शयितम्। इह कर्तरि षष्ठी। सकर्मकेभ्यस्त्वधिकरणे क्ते कृते कर्तूकर्मणोर्द्वयोरपि षष्ठी, अनभिहितत्वाविशेषात्। इदमेषां भुक्तमोदनस्य। "उभयप्राप्तौ कर्मणि" इत्ययं तु नियमः "कर्तृकर्मणोः कृति" इत्यस्या एव प्राप्तेः। इह गत्यर्थेषु धातुष्वयं भवति। इदमेषां गतिमित्यधिकरणे। इदमेते गता इति कर्तरि। इदमेभिर्गतमिति कर्मणि। इहैभिर्गतमिति नपुंसके भावे। कर्तृविवक्षाया इदमेषां गतमिति तत्रैव शेषविवक्षायाम्।
(पाoसूo2-3-69)
नलोकाव्ययनिष्ठाखलर्थतृनाम्(पाoसूo2-3-69)। जिघृक्षितरूपविनाशप्रसङ्गात् तृनामिति णत्वं न कृतम्। एषां प्रयोगे षष्ठी न स्यात् "कर्तृकर्मणोः कृति"(पाoसूo2-3-65)इति प्राप्ता प्रतिषिध्यते। लादेशाः-ओदनं पचन् पचमानः पेचानः पेचिवान्। कथन्तर्हि-"बभ्रिर्वज्रं" "पपिः सोमं" "ददिर्गाः"इति। नहि किकिनौ लकारौ नापि तदादेशौ। नैषदोषः, "किकिनौ लिट्च"(पाoसूoएo3-2-171)इत्यनेन लिटकार्यातिदेशः क्रियते, न तु लिट्संज्ञा। "विशेषातिदेशे च सामान्यमप्यतिदिश्यते" इति। उ--कटं चिकीर्षुः। कन्यामलङ्करिष्णुः। उक--वाराणसीमागामुकः। कमेर्भाषायामनिषेधः(काoवाo)। पुरा सूर्यस्योदेतोराधेयः। पुरा क्रूप्स्य विसृपोविरप्‌शिन्। निष्ठा-ओदनं भुक्तवान्। देवदत्तेन कृतम्। खलर्थ-त्वया सुकरम्। ईषत्पानः सोमो भवता। तृन्निति प्रत्याहाःर, "शतृशानचौ" इत्यारभ्य तृनो नकारात्। तेन शान्प्रभृतीनामपि ग्रहणम्। सोमं पवमानः। "पूङ्‌यजोः शानन्"(पाoसूo3-2-128)। नटमाघ्नानः। "ताच्छील्यादिषु चानश" अधीयन् पारायणम्। "इङ्धार्योः"(पाoसूo3-2-130)इति शता। तृन्, पाता सुतमिन्द्रो अस्तु सोमम्। द्विषः शतुर्वा। मुरस्य मुरं वा द्विषन्। सर्वत्र कारकषष्ठ्याः प्रतिषेधः। शेषे षष्ठी तु स्यादेव। ब्राह्मणस्य कुर्वन्। सत्यानुरक्ता नरकस्य जिष्णवः। छात्रस्य हसितम्। जनिकर्तुरित्यादि।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः।
अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम्।(किoकाo2-2)इचि च।
यद्वा, "इक्ष्वाकूणां सिद्धयः" इत्यन्वयो न तु "इक्ष्वाकूणां दुरापे" इति। तथा "वागधिपस्य विस्मयम्" इत्यन्वयो न तु "वागधिपस्य दुर्वचम्" इति दिक्। इह उश्च उकश्च ऊकाविति व्युत्पाद्य लश्च ऊकौ चेति विग्रहीतव्यम्। ऊकारेण च कृतो विशेषणात्तदन्तविधिः। व्यपदेशिवद्भावात्केवलेनापि निषेधः।
(पाoसूo2-3-70)
अकेनोर्भविषअयदाधमर्ण्ययोः(पाoसूo2-3-70)। भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थे नश्च योगे षष्ठी न स्यात्। एधानाहारको व्रजति। व्रजङ्गामी। द्वितीयासमासप्रसङ्गे व्युत्पादितमेतत्। आधमर्ण्ये-शतं दायी। भविष्यदिति स्वर्यते। तेन भविष्यदधिकारविहितस्य ग्रहणान्नेह-वर्षशतस्य पूरकः। पुत्रपौत्राणां दर्शकः। अयं हि, "ण्वुल्तृचौ"(पाoसूo3-1-133)इत्यविशेषेण विहितो न तु "तुमुण्वुलौ"(पाoसूo3-3-10)इतिवद्भविनष्यदधिकारस्थः। इह यथासंख्यं वारयितुं भाष्येयोगो विभक्तः। अकस्य भविष्यति, इति आधमर्ण्ये चेति।
(पाoसूo2-3-71)
कृत्यानां कर्तरि वा(पाoसूo2-3-71)। षष्ठी वा स्यात्। "कर्तृकर्मणोःकृति"(पाoसूo2-3-65)इति नित्यं प्राप्ते विभाषेयम्। कर्तव्यमिदं कृष्णेन कृष्णस्य वा। कर्त्तरीति किम्? गेयो माणवकः साम्नाम्। "भव्यगेय"(पाoसूo3-4-68)इति कर्तरि यद्विधानादनभिहितं कर्म। इहापि भाष्ये योगविभागः कृतः। तद्यथा-कृत्यानाम्। उभयप्राप्तौ नेत्यनुवर्तते। नेतव्या व्रजं गावः कृष्णेन। इह प्रधाने कर्मणि गवाख्ये कृत्यः, अप्रधानकर्मणः कर्तुश्च। कृत्येनानभिधानात्षष्ठी प्राप्ता निषिध्यते। ततः कर्तरि वा।। षष्ठी स्यात्। अन्यत्सर्वं निवृत्तम्।
(पाoसूo2-3-72)
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्(पाoसूo2-3-72)। तुल्यार्थैर्योगे तृतीया वा स्याच्छेषे, पक्षे षष्ठी। तुल्यः सदृशः समो वा कृष्णेन कृष्णस्य वा। अतुलोपमाभ्यां किम्? तुला उपमा वा कृष्मस्य नास्ति। कथन्तर्हि "तुलां यदा रोहति दन्तवाससा" इति कालिदासः। "स्फुटोपमं भूतिसितेन शम्भुना"(माoकाo1-4)इति माघश्च।
अत्राहुः, तोलनं तुला। अस्मिन्नेव सूत्रे "णिलुगङोः" निपातनात्साधुरिति माधवः। उपमितिरुपमा। तत्र धात्वर्थं प्रति करणीभूतयोः दन्तवासःशम्भुशब्दयोस्तृतीया युक्तैव। यथा-उपमीयतेऽनेनेत्यादौ। प्रकृतसूत्रं तु शेषे षष्ठ्यपवादभूततृतीयाविधायकम्। नेह प्रवर्त्तते इत्यन्यदेतत्।
यद्वा, "सहयुक्ते प्रधाने"(पाoसूo2-3-19)इति तृतीयाऽस्तु।
"स्ववालभारस्य तदुत्तमाङ्गजैः समञ्चमर्येव तुलाभिलाषिणः।
इत्यत्र यथा। उक्तं हि, विनापि तद्योगं तृतीया। "वृद्धो यूना"(पाoसूo1-2-65)इति निदर्शनादिति। तुल्यार्थैरित्यर्थग्रहणात् द्योतकानामिवादिशब्दानां योगे न, गौरिव गवयः। यथा-गौस्तथा गवय इति। वेति वर्तमाने अन्यतरस्यां ग्रहणमुत्तरसूत्रे चकारेण स्वस्यानुकर्षणार्थम्। अन्यथा हि तृतीयैवानुकृष्येन, सन्निहितत्वात्।
(पाoसूo2-3-73)
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः(पाoसूo2-3-73)। सुखपर्यन्तानां द्वन्द्वाः। ततोऽथशब्देन बहुव्रीहिः। तथा च द्वन्द्वान्ते श्रूयमाणात्प्रत्येकमर्थशब्दः सम्बध्यते। मद्रभद्रशब्दयोः पर्यायतया सूत्रेऽन्यतरो न पठनीयः। केचित्तु अर्थशब्दोऽपि पृथगेव निमित्तम्। व्याख्यानाच्च सर्वत्रार्थग्रहणमित्याहुः। आशिषिगम्यमानायामेतैर्योगे शेषे चतुर्थी वा स्यात्, पक्षं षष्ठी। आयुष्यं चिरञ्जीवितं देवदत्ताय देवदत्तस्य वा भूयात्। एवं मद्रं भद्र कुशलं निरामयं सुखं शं अर्थः प्रयोजनं हितं पथ्यं भूयादित्यादि। हितयोगे चतुर्थी वक्तव्या(काoवाo)। इत्यस्य अनाशिषि च रितार्थत्वादाशिष्यनेन विकल्प एव। आशीषीति किम्? देवदत्तस्यायुष्यमस्ति।
।। इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यस्य तृतीये पादे तृतीयमान्हिकम् ।। ।। समाप्तश्चायं पादः ।।