शब्दकौस्तुभः/अध्यायः २-पादः १/आह्निकम् २
← आह्निकम् १ | शब्दकौस्तुभः आह्निकम् २ [[लेखकः :|]] |
आह्निकम् ३ → |
(अष्टाoसूo2-1-2)
सुबामन्त्रिते पराङ्गवत्स्वरे(अष्टाoसूo2-1-2)।सुबन्तमामन्त्रिते परे पराङ्गवत्स्यात्स्वरे कर्त्तव्ये। तन्निमित्तग्रहणं कर्तव्यम्। तस्यामन्त्रितार्थस्य यन्निमित्तं तत्प्रतिपादकं यत्तदव पराङ्गवत्त्स्यान्नान्यदित्यर्थः। यत्ते दिवो दुहितर्मर्तभोजनम्। इत दिवःशब्दम्य पराङ्गवद्भावादाष्टमिको निघातः। तन्निमित्तग्रहणान्नेह-एतेनाग्ने ब्रह्मणा वावृधस्व। अयमग्ने जरिता। अनेन मित्रावरुणावृतावृधावृतस्पृशाक्रतुं बृहन्तमाशाथे इति।
स्यादेतत्, ऋतशब्दस्तावद् घृतादित्वादन्तोदात्तः। तस्य तन्निमित्तग्रहणात्पराङ्गवद्भावो मा भूत्। किन्तु मित्रावरुणावित्यस्यापि न स्यात्। ऋतस्य वर्द्धयितारावित्त्यर्थेऽन्तर्भावितव्यर्थाद्वृधेः क्वपि "अन्येषामपि दृश्यते"(अष्टाoसूo6-3-137)इति पूर्वपदस्य दीर्घे सति हि ऋतावृधाविति व्युत्पादितम्। न च तत्र मित्रावरुणौ निर्मित्तम्। न च मा भूत्पराङ्गबद्भाव इति वाच्यम्, ऋतावृधावित्यस्य निघातानापत्तेः। द्वितीयपादादि त्वेनापादादाविति निषेधात्। अत एव हि "इमं मे गङ्गे" इत्यत्र पूर्वपूर्वामन्त्रितस्याविद्यमानवद्भावात्सर्वेषां मेशब्दात्परतामुपजीव्य क्रियमाणोऽपि निगातो `गङ्गे' इत्यादित्रयस्यैव क्रियते न तु शुतुद्रीत्यस्यापि। अत्राहुर्वेदभाष्यकाराः तन्निमित्तग्रहणं मास्तु, सूत्रेणैव सकलेष्टसिद्धेरिति। युक्तं चैतत्। तथाहि, "व्यपेक्षां सामर्थ्यमेके" इति समर्थसूत्रस्यभाष्यरीत्येह सामर्थ्यमुपस्थितम्। एकार्थीभावपक्षे तु सामर्थस्येहानुवृत्तिः। शब्दाधिकारश्च बोध्यः। एतदर्थ एव चास्मिन्प्रदेशे एतत्सूत्रारम्भः। तथाच "ऋतेन मित्रावरुणौ" इत्येतयोः `आनशाथे'इत्यर्थकनाशाथे इत्याख्यातेनान्वयात्परस्परमसामर्थ्यन पराङ्गवद्भावाभावान्न षाष्ठ आद्युदात्तः, किन्त्वाष्टमिको निघातः। मित्रावरुणावित्यस्य तु पराङ्गवद्भावद्वृतावृधाविति न पादादिरतो निहन्यते एव। नच सर्पिःकालकादिसिद्धये "इसुसोःसामर्थ्ये"(अष्टाoसूo8-3-44)इत्यत्र पठिनं "समानाधिकरणमस्रमर्थवद्भवति" इत्येतदिहप्रवर्त्तते `सर्पिष्पीयते' इत्यादिसिद्धये अधात्वभिहितमिति विशेषितत्वात्। इह च धात्वभिहितत्वात्। नन्वेवं शुतुद्रिपदमपि निहन्येत पूर्वस्य सरस्वतिपदस्य पराङ्गवद्भावेनापादादित्वादिति चेत्? न, सचतेत्यनेन सर्वेषामन्ववेऽपि परस्परमसामर्थ्यात्। उक्तं हि-
सम्बोधनपदं यच्च तत्क्रियाया विशेषणम्। इति।
नच गेङ्गे इत्यादीनामेकवचनान्तानां सचतेति बहुवचनान्तेन सामानाधिकरण्याभावात्कथमेकवाक्यता? तथा च कथं निघातोऽपि? तत्र वार्तिककृता समानवाक्याधिकारस्य कृतत्वादिति वाच्यम् "युष्मद्युपपदे"(अष्टाoसूo1-4-105)इति त्रिसूत्र्यां भाष्यवार्त्तिकयोरेव वचनभेदेऽपि सामानाधिकरण्यस्य समर्थितत्वात् प्रत्येकपर्यवसन्नैकत्वप्रकारकबोधाविशेष्येष्वपि मिलितेषु संख्यान्तरान्वये बाधकानिरुक्तेश्च, अहं च त्वं च वृत्रहन्त्संयुज्यावसनिभ्य आ, समौ हि शिष्टौराम्नातौ वर्त्स्यन्तावामयः सचेति वेदलोकयोः प्रचुरप्रयोगाच्च। एतेन "चन्द्रे कलङ्कः सुजने दरिद्रता" इत्यत्र "यशो विधातुः कथयन्ति खण्डितम्' इत्यस्यान्वयाय एते इत्यध्याहरन्तः प्रत्युक्ताः। एवञ्च सत्यध्याहृतेन एतच्छब्देनापि समं कलङ्कादेरनन्वयापत्तेः, `गङ्गे' इत्यादौ निघातानापत्तेशअचेति दिक्। नन्वेवमपि मित्रावरुणावित्यस्य कथं पराङ्गवद्भावः "आमन्त्रितं पूर्वमविद्यमानवत्"(अष्टाoसूo8-1-72)इत्यविद्यमानवद्भावादिति चेत्? मैवम्, परस्य हि कार्ये कर्त्तव्येऽसावतिदेशो न तु स्वस्य कार्येऽपि पूर्वग्रहणवैयर्थ्यापत्तेः। न च पराङ्गवद्भावः परस्य कार्यं किन्तु स्वस्य। अत एव `वायो याहि' `अग्ने नय' `इन्द्र देह्यधिरथम्' इत्यादौ आमन्त्रिताद्युदात्तत्वं भवत्येव। "तिङ्ङऽतिङः"(अष्टाoसूo8-1-28)इति निघातः परे न भवति। अभ्युपेत्यापि ब्रूमः, प्रकृते मित्रावरुणावित्यामन्त्रितं सामान्यवचनं तद्बिशेषणतया विशेषवचनमृतावृधाविति। अतो "नामन्त्रिते समानाधिकरणे सामान्यवचनम्"(अष्टाoसूo8-1-73)इति अविद्यमानवद्भावो निषिध्यते इति। नन्वेवमपि मित्रावरुणपदस्य पराङ्गवद्भावात्पादादित्वेनापादादाविति पर्युदासः स्यादिति चेत्? न, ह्ययं कार्यस्यातिदेशः किन्तु तादात्म्यस्य तस्मिंश्चातिदिष्टे विशिष्टमामन्त्रितमिति बुद्ध्या यद्यत्कर्त्तु शक्यं तत्क्रियते। किञ्च कार्यातिदेशोऽप्यशास्त्रीयस्य दौर्लभ्यं किमुत तादात्म्यातिदेशे। सुबिति किम्? पीड्येपीड्यमाना। नन्विह एकार्थीभावविरहात् समर्थपरिभाषानुपस्थितावपि समर्थग्रहणानुवृत्त्या पराङ्गवद्भावोन भविष्यति। एवञ्चादुपदेशात्परत्वेनानुदात्तस्येटा उदात्तेनैकादेशे पीड्य इत्यन्तोदात्तं सिद्धम्। मैवम्, सामर्थ्यस्वेहपि सत्त्वात्। पीड्यमानसम्बोध्यका पीडेति हि वाक्यार्थः। आह च--
सम्बोधनपदं यच्च तत्क्रियाया विशेषणम्।
व्रजानि देवदत्तेति निघातोऽत्र तथआ सति।। इति ।
समानवाक्ये निघातयुष्मदस्मदादेशा-। "आख्यातं सविशेषणं वाक्यम्" इति वार्तिककारवचनादिति भावः। अङ्गग्रहणं किम्? उभयोः पृथगाद्युदात्तता मा भूत्। वद्ग्रहणं किम्? स्वाश्रयमपि यथा स्यात्। आमूकुण्डेनाटन्। "आम एकान्तरमामन्त्रितमनान्तिके"(अष्टाoसूo8-1-55)इत्येकान्तरता भवति। स्वर इति किम्? `कूपे सिञ्चन्' `वर्म नमन्' षत्वणत्वे प्रति पराङ्गवद्भावो न भवति। समानाधिकरणस्योपसंख्यानमननन्तरत्वात्। तीक्ष्णया सूच्या सीव्यन्। न च परस्य पराङ्गवद्भावे कृते पूर्वस्यापि सूत्रेणैव सिद्धमिति वाच्यम्, स्वरे इत्यवधारणात्। पराङ्गवद्भावे कर्तव्ये तस्य दुर्लभत्वात्। वस्तुतस्तु स्वरे इति न कर्तव्यम्। `कूपे सिञ्चन्' इत्यत्र स्वाश्रयपदादि सत्त्वात् "सात्पदाद्योः"(अष्टाoसूo8-3-22)इति निषेधसम्भवात्। णत्वं तु पूर्वपदात्संज्ञायामेवेति नियमान्न भविष्यति। समासाभावेऽपि पूर्वं पदमिति यौगिकार्थमात्रस्य लक्ष्यानुरोधेन ग्रहीतुं शक्यत्वादिति भाष्यम्। यद्वा, आमन्त्रिते इत्यस्योपस्थितत्वादामन्त्रितत्वयुक्तकार्यं प्रत्येव सन्निधानात् पराङ्गवद्भावः। तथचि पराङ्गवद्भावे सामानाधिकरण्यस्योपसंख्यानं, स्वरग्रहणं चेत्युभयमपि न कर्तव्यमिति स्थितम्।
परमपि छन्दसि पूर्वस्याङ्गवद्भवतीति वक्तव्यम्। आते पितर्मरुतां सुम्नमेतु। प्रतित्वा दुहितर्द्दिवः। वृणीष्व दुहितार्द्दिवः।
अव्ययप्रतिषेधश्च। उच्चैरधीयान। अव्ययीभावस्य तु नायं निषेध इत्युक्तम्।
(अष्टाoसूo2-1-3)
प्राक्कडारात्समासः(अष्टाoसूo2-1-3)। "कडाराः कर्मधारये"(अष्टाoसूo2-2-38)इत्यतः प्राक् समास इत्यधिक्रियते प्राग्ग्रहणं चावर्तते। तेन पूर्वं समाससंज्ञा ततः संज्ञान्तरमपीति लभ्यते। तेनाव्ययी भावादिसंज्ञाभिः समावेशः सिध्यति। अन्यथा पर्यायः स्यात्।
(अष्टाoसूo2-1-4)
सह सुपा(अष्टाoसूo2-1-4)। इह सहति योगो विभज्यते। सुबन्तं समर्थेन सह समस्यते। कतिपयतिङन्तमात्रविषयोऽयं योगः, सुप्सुपेति पुनरारम्भात्। अतोऽतिप्रसङ्गो नोद्भावनीयः। यो जात एव पर्यभूषत्। यः शम्बरं अन्वविन्दत्। योगविभागसिद्धस्यासार्वत्रिकत्वान्नेह-सम्प्रयच्छवृष्ण्या इन्द्राय भागम्। अत एव "नित्यं क्रीडा"(अष्टाoसूo2-2-17)इत्यधिकारे "उदात्तवता गतिमता च तिढा गतेः समासः"(काoवाo)इति वार्तिककृता यदुक्तं तदिहैव योगं विभज्य साधितं भाष्ये। एवम् "इवेन समासः"(कoवाo)इत्यपि सुप्सुपेत्यनेन सिद्धमित्युक्तम्। युक्तं चैतत्। अन्यथा वार्तिकरीत्या नित्यसमासतापत्तौ `य आनयत्' `आयोनयत् सम्प्रयच्छ' इत्यादेरसङ्गतत्वापत्तेः `जीमूतस्येव' इत्यादौ तैत्तिरीयाणां पदद्वयत्वेन पाठासङ्गतिप्रसङ्गाच्च। अत एव `उद्वाहुरिव' इत्यादौ व्यस्तव्यवहितप्रयोगोऽपि सङ्गच्छते, यथोत्तरं मुनीनां प्रामाण्यात्। तिङसमासस्तु छन्दस्येन। अत एव "कर्मेणा यमभिप्रैति"(अष्टाoसूo1-4-32)इत्यत्रैकपद्यं नेति हरदत्तः। एतदपि असार्वत्रिकत्वादेव सिद्धम्। युक्तं चेदम्, छान्दसत्वेनैव तत्र सुब्लुको वक्तव्यत्वात्। अन्यथा "एकवचनमुत्सर्गतः करिष्यते" इति भाष्यात्सामासादुत्पन्नस्य सोः पर्यभूषदित्यादौ हल्ङ्यादिलोपसम्भवेऽपि यत्प्रकरोतीत्यादौ श्रवणापत्तेः। न च नपुंसकताभ्युपगमेन निर्वाहः `यत्प्रकृरुते' इत्यादौ ह्रस्वापत्तेः, `प्रकुर्वीरन्' इत्यत्र नलोपापत्तेश्च। तस्मात्काव्यादौ प्रभवतीत्यादिप्रयोगेषूपसर्गः पृथक् पदमेव। `वागर्थाविव' इत्यादाविवशब्दस्तु समस्तः पृथग्वा। `उद्वाहुरिव वामनः' `कचाचितौ विष्वगिवागजौ गजौ'(किoसo1श्लोo36)इत्यादौ पृथगेवति तत्त्वम्। यत्तु कश्चिदिवेन समासश्छन्दस इत्याह। तन्निर्मूलम्, तैत्तिरीयपृथक्पाठविरुद्धं च। इवसमासे समासागां श्रौतीमुपमामुदाहरतामलङ्कारिकाणां प्रतिकूलं च। किञ्च-
अद्वैतमष्यनुभवामि करस्य बिल्वतुल्यं शरीरमहिनिर्ल्वयनीव वीक्ष।
इत्यादयः समस्तप्रयोगाः `नह्यस्ति प्रथमान्तेनैव' इत्यन्यपदार्थसूत्रस्थभाष्यसम्मताः अत एव अग्निरिव राजो वायुरिव पाश इत्यादि परिशिष्टोदाहरणमपि सङ्गच्छते। इत्यास्तां तावत्।
इदं त्ववशिष्यते-तिङ्समासे कृते परमपि "तिङ्हतिङः"(अष्टाoसूo8-1-28)इति निघातं बाधित्व सतिशिष्टत्वात्समासान्तोदात्तता प्राप्नोति। न चेष्टापत्तिः, `पर्यभूषत्' `तदेवानुप्रविशत्' इत्यादौ क्वापि अन्तोदात्तपाठदर्शनात्।
अत्रेदं तत्त्वम्। "तिङिवोदात्तवति"(अष्टाoसूo8-1-71)इति गतेर्निघातविधानं ज्ञापकं तिङ्समासेऽन्तोदात्ताभावस्येति। भाष्यमते तु "गतिकारकोपपदात्कृत्"(अष्टाoसूo6-2-139)इति सूत्रे कृद्ग्रहणस्य प्रत्याख्यातत्वान्न कश्चिद्दोष इति।
इहेदमवधेयम्। सहेति तिङ्समासे सुष्सुपति विहिते च `वागर्थाविव' `पूर्वं भूतो भूतपूर्वः' इत्यादौ अव्ययीभावादिविशेषसंज्ञाः सन्त्येव न, तत्तदधिकारेष्वस्यापाठात्। एवं `विस्पष्टपटुः' `काकतालीयः' इत्यादावपि, तत्रापि सुप्सुपेत्यस्य प्रवृत्तेः। "विस्पष्टपटुः' `काकतालीयः' इत्यादावपि, तत्रापि सुप्सुपेत्यस्य प्रवृत्तेः। "विस्पष्टादीनि गुणवचनेषु"(अष्टाoसूo6-2-24)"समासाच्चतद्विषयात्"(अष्टासूo5-3-106)इत्यादयः स्वरछप्रत्ययार्थमारभ्यमाणा अपि वृद्धकुमारीवरन्यायेन समाससाधका इत्यस्मिन्नपि पक्षे विशेषसंज्ञाविरहस्तुल्य एव। समासश्चतुर्द्धेति तु प्रायोवादमात्रम्। अत एव पठन्ति-
कः समास इति प्रश्ने विस्पष्टपटुगोचरे।
समासमात्रं ये ब्रूयुर्विस्पष्टपटवो हि ते ।।
इह विस्पष्टमिति पाटवस्य विशेषणम्। एकदेशान्वयस्याप्यत्र स्वीकारः। एवं "पूर्वपदार्थप्रधानोऽव्ययीभावः" इत्यादि पूर्वाचार्यपरिभाषितम्। यद्यपीह तदीयमहासंज्ञाव्यवहारसामर्थ्यात्स्वीक्रियते, तथापि तत्सर्वमौत्सर्गिकमेव, अर्द्धपिप्ल्यादेस्तत्पुरुषस्य पूर्वपदार्थप्राधान्यात् `उन्मत्तगङ्गम्' इत्यव्ययीभावेऽन्यपदार्थप्रधान्याच्चेति दिक्।
यद्यपि जहत्स्वार्थायां वृत्तौ वर्तिपदयोरानर्थक्यम्। अजहत्स्वार्थायां तूभयोरपि विशिष्टार्थता, तथापि एकार्थीभावात्पूर्वस्यामवस्थायां यौ पृथक् पदार्थौ तयोर्वृत्तौ प्राधान्याप्राधान्याभ्यां प्रवेशमाश्रित्योक्तानामौत्सर्गिकव्यवहाराणां निर्वाहो बोध्यः। षोढा चायं समासः। तथाहि, मौत्सर्गिकव्यवहाराणां निर्वाहो बोध्यः। षोढा चायं समासः। तथाहि,
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा।
सुबन्तेनेति च प्रोक्तः समासः षड्विधो बुधैः।।
सुपां सुपा-राजपुरुषः। तिङा-पर्यभूषत्। नाम्ना-कुम्भकारः। धातुना-कटप्रूः। अजस्रम्। तिङान्तिङा-पिबतखादता। तिङां सुपाजहिजोहः। इह समासे पूर्वपदोत्तरपदपुरस्कारेणायं विभागः। तेन मध्यमानामव्यवस्थितत्वेऽप्यदोषः एहि रे याहि रे इत्यस्य सुबन्तपूर्वोत्तरपदत्वात्। सर्वेष्वमीषु पूर्वपदस्य पदत्वमव्यभिचारि। अत एव समासग्रहणं नियमार्थमित्ययं ग्रन्थो यत्र पूर्वो भागः पदं तद्विषयकः। तेन `बहुपटवः' इत्यत्र टकाराकारस्योदात्तता सिध्यतीत्यर्थवत्सूत्रे व्युत्पादितम्।
इवेन समासो विभक्त्यलोपः।। पूर्वपदप्रकृतिस्वरत्वं च।। इह उक्तयोगाभ्यां सिद्धं समासमनूद्य विभक्तिलोपाभावस्वरौ विधीयते। तिङन्तापेक्षया इवशब्दस्य परनिपातस्तु राजदन्तादेराकृतिगणत्वात्। वासयसीव वेधसः। जीमूतस्येव भवति। येषां विशिष्य लक्षणं नास्ति ते समासाः "सह"(अष्टाoसूo2-1-5)। अधिकारोऽयम्।
अव्ययं विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु(अष्टाoसूo2-1-6)। अव्ययमिति योगो विभज्यते इति "गम्भीराञ्ञ्यः"(अष्टाoसूo4-3-58)"अव्ययीभावाच्च"(अष्टाoसूo4-3-59)इति सूत्रे न्यासकारः। तेन `दिशोर्मध्यमपदिशम्'इति सिद्धम्। शरदादित्वाट्टच्। क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियम्।(अ.को.3.1.5)इत्यमरः।
वस्तुतस्तु योगविभागं विनापीष्टसिद्धिरिति सूत्रशेषे वक्ष्यामः। विभक्तिरिह कारकशक्तिः, विभज्यतेऽनया प्रातिपदिकार्थ इति व्युत्पत्तेः। वचनशब्दः कर्मसाधनः। स च प्रत्येकं विभक्त्यादिभिः सामानाधिकरण्येन सम्बध्यते। पूर्वनिपाताभावः सौत्रः। एष्वर्थेषु द्योतकतया वर्तमानं सुबन्तमव्ययं सुबन्तेन सह एकार्थभूतं सत् समाससंज्ञं प्राक्स्यात्ततोऽव्ययीभावसंज्ञमित्यर्थः। यद्यपि सुप्सुपेत्येव समासः सिद्धस्तथापि तस्यासार्वत्रिकता पुनः समासविधिभिर्ज्ञाप्यते। अत एव महाविभाषातः प्राक्पाठेऽपि अव्ययीभाववन्न तस्य नित्यसमासता। तथाच स्वपदविग्रह एव तत्र भवति। तथाच "भूतपूर्वे चरट्"(अष्टाoसूo5-3-53)इति सूत्रे वृत्तिः-"पूर्वं भूतो भूतपूर्वः। सुप्सुपेति समासः" इति। तथा शाकलसूत्रे-"सिन्नित्यसमासयोः शाकलप्रतिषेध इति नित्यग्रहणेन नार्थः। इदमपि सिद्धं भवति। वाप्यामश्वो वाप्यश्वः नद्यामातिर्नध्यातिः" इति भाष्यं कैयटो व्याख्यत्। सुप्सुपेति समासः। संज्ञायामिति हि समासस्य नित्यत्वात्सिद्धः प्रतिषेध इति। तथा "अनुदात्तं पदमेकवर्जम्"(अष्टाoसूo6-1-158)इति सूत्रे "असिद्धवदत्र"(अष्टाoसूo6-4-22)इति च सूत्रे कैयटेन स्वपदविग्रहो दर्शितः। ननूक्तरीत्या संज्ञायामितिवत्पङ्कजादिष्वपि अविग्रहत्वं स्यादिति चेत्? सत्यम्, यौगिकार्थमात्रेण साम्यमाश्रित्य विग्रहकथनेऽपि पद्मत्वस्य समासैकगम्यतया वस्तुतस्तस्येष्टत्वात्। एतेन कृष्णसर्पलोहितशाल्यादयो व्याख्याताः।
प्रकृतमनुसरामः, विभक्तौ-हरौ इत्यधिहरि। येन सुबन्तेन समासस्तद्घटकीभूतैव विभक्तिर्गृह्यते सन्निधानात्। तदर्थद्योतकश्चेह अधिशब्दः। न चैवमलौकिके सप्तम्येव दुर्लभा, निपातेनाधिकरणस्याभिहितत्वात्, तिङ्कृत्तद्धितसमासैरिति परिगणनस्य प्रत्याख्यास्यमानत्वादिति वाच्यम्, अर्थेन चतुर्थीसमासस्थले यथा वचनसामर्थ्यादुक्तार्थस्यापि प्रयोगः तथेह वचनसामर्थ्यादभिहितेऽपि सप्तमीत्यभ्युपगमात्, अब्भक्षन्यायेन वचनग्रहणसामर्थ्येन च विभक्त्यर्थमात्रवृत्तेरव्ययस्य ग्रहणान्नेह। `गृहस्योपरि' `ग्रामस्य पुरः'। उपर्यादयो हि दिग्देशकालेष्वपि वर्त्तन्ते, न तु विभक्त्यर्थमात्रे। अत एव "क्रमादमुं नारद इत्यबोधि सः" इत्यादौ नातिप्रसङ्गः, इतिशब्दस्य सर्वनामवत् प्रकृतपरामर्शकत्वेन कर्मत्वमात्रानभिधायकत्वात्। एवञ्च विभक्तिशब्दः सप्तम्यां पर्यवस्यति। अत एव परिशिष्टे "अधिकरणे' इत्येव सुत्रितम्। पाणिनिस्तु मात्रालाघवमभिप्रेत्य विभक्तिशब्दं प्रायुङ्क्त। निपातेनाभिहितत्वात् प्रथमान्तेनैवायं समासः षष्ठ्यन्तेन वेत्यपि मतद्वयं परिशिष्टे स्थितम्। तदपि विभक्तिग्रहणेऽधिकरणग्रहणे चाविशिष्टम्।
समीपे-कृष्णस्य समीपमुपकृष्णम्। श्रव्ययीभाव इत्यन्वर्थसञ्ज्ञाश्रयणादसत्त्वरूपाव्ययार्थप्राधान्यएवायं समासः। समीपवर्तिप्राधान्ये तु बहुव्रीहिं वक्ष्यति "सख्ययाऽव्ययासन्न"(अष्टाoसूo2-2-25)इति। उपदशा इति यथा। ननु `समया ग्रामं' `निकषा लङ्काम्' `आराद्वनात्' इत्यादावतिप्रसङ्ग इति चेत्? अत्राह रक्षितः-"अभितः परितः समयानिकषान्यारादिति द्वितीयापञ्चम्योर्विधानसामर्थ्यान्नाव्ययीभावः" इति। यत्तूक्तं दुर्घटवृत्तौ-`चित्रस्य ग्रामं समया' इत्यादौ सापेक्षत्वादसमासे चारितार्थ्याद्विभक्तिविधानस्य सामर्थ्य नास्ति इति। तन्न, समासस्य नित्यतया "वृत्तस्य विशेषणयोगो न" इत्यस्यैव प्रवृत्त्यापत्तेः। अन्यथा स्थूलस्य कुम्भस्य कार इत्याद्यपि स्यात्।
समृद्धौ तु-मद्राणां समृद्धिः सुमद्रम्। उत्तरपदार्थप्राधान्ये तु "कुगति"(अष्टाoसूo2-2-18)इति तत्पुरुषः समृद्धा मद्राः सुमद्रा इति यथा।
व्यृद्धौ-दुर्यवनम्। न चार्थाभावेनेह सिद्धिः। येन समस्यते तदीयार्थाभावे हि समासः। इह तु यवनानां नाभावः, किं तु तदीयाया वृद्धेः।
अर्थाभावे-निर्मक्षिकम्। अविघ्नम्। संसर्गाभावेऽयं समासः, न त्वन्योन्याभावेऽपि अर्थग्रहणसामर्थ्येन समस्यमानपदजन्यप्रतीतिविशेष्यविरोधिन एवाभावस्य ग्रहणात्। अन्योन्याभावस्य प्रतियोगितावच्छेदकेनैव सह विरोधात्। तस्य च प्रकारत्वेऽप्यविशेष्यत्वात्। ये तु वदन्ति-`घटः पटो न' इत्यत्रापि पटत्वात्यन्ताभाव एवार्थः आकृत्यधिकरणन्यायेन जातेः पदार्थत्वादिति, तेषामपि मतेऽर्थग्रहणसामर्थ्यादेवाक्षिप्तधर्म्यभावेऽयं समासो न तु धर्माभाव इति फलं तुल्यमेव। एष एवात्रत्यहरदत्तग्रन्थस्याप्याशयः। एतेन `भूतले घटो न' इत्यत्र घटाभावं व्याचक्षाणाः परास्ताः। नित्यसमासप्रसक्त्याऽसाधुतापत्तेः कारकविभक्तेरयोगाच्च। अत एव सिद्धान्ते क्रियाध्याहारेण कारकविशिष्टक्रियाप्रतीतौ तस्या एव निषेधः शाब्दः, भूतलाधारकघटाद्यभाव एवार्थः। गौरवं च प्रामाणिकं व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावश्चायम्। अत एव `शशशृङ्गं नास्ति' इत्यत्रापि शब्दसाधुताऽर्थसाधुता चेष्यते एव। शशशृङ्गास्तित्वञ्च शब्दबलात्प्रतीतं निषिध्यते।
अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि।
इत्यभ्युपगमात्। अयोग्यतानिश्चयस्तु न प्रतिबन्धकः। अन्यथा व्युत्थम्प्रति शब्दो मूक एव स्यात्प्रतिवादिनः शब्दाद्धाक्यार्थाप्रतातातत्खण्डनकथाप्युच्छिद्येत । आहार्यः शाब्दो बोध इति वास्तु। एतेन-
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैवं क्लेदयन्त्यापो न शोषयति मारुतः।।(भoगीoअoश्लोo23)
इत्यादि व्याख्यातम्। अन्यथा आत्मकर्मकच्छेददाहक्लेदशोषाप्रसिद्ध्यापार्थतापत्तेरिति दिक्।
अत्ययः-हिमस्यात्ययः अतिहिमम्। अत्ययो ध्वंसः। ध्वंसत्वं चाभावत्वव्याप्यमखण्डमेवेत्यर्थाभावात्पृथगुपादानम्।
`सम्प्रति'इत्यव्ययमधिकरणशक्तिप्रधानम्। तथाचोक्तममरेण-
एतर्हिसम्प्रतीदानीमधुना साम्प्रतं तथा।(अoकोo3-4-23)इति।
न जातु अधिकरणकारकाक्षिप्ता युज्यते, इत्येषा क्रिया निषिध्यते। निद्रा इदानीं न युज्यते इत्यतिनिद्रम्। वृत्तौ तु अतितैसृकमाच्छादनमित्युदाहृतम्। तिसृका नाम ग्रामः। तिसृभवि संज्ञायां कन्युपसंख्यानम्। तत्र भवं तैसृकामच्छादनम्। तच्च विशिष्टकाले उपभोग्यम्। उष्णे शीते वा। तथाच नैदनीमुपभोगार्थे तैसृकमाच्छादनमित्यर्थः। इह वूत्तावुपभोगक्रिया अन्तर्भूता `दध्युपसिक्त ओदनो दध्यो दनः' इत्यत्रोपसेको यथा। आच्छादनपेक्षस्यापि तैसृकशब्दस्य गमकत्वात्समास इति हरदत्तः।
शब्दप्रादुर्भावे-इतिहरि। इतिशब्दः स्वरूपपरः। तस्य प्रकाश इति षष्ठ्यन्तेन हरदत्तः।
शब्दप्रादुर्भावे-इतिहरि। इतिशब्दः स्वरूपपरः। तस्य प्रकाश इति षष्ठ्यन्तेन विग्रहः।
पश्चादर्थे-अनुरथ्यम्। रथानां पश्चादित्यर्थः। व्यृद्धिशब्दस्याल्पाच्तरस्यापूर्वनिपातेनास्यानित्यत्वज्ञापनादिह वाक्यस्य साधुतेत्याहुः। समीपादिवृत्तिभिरतद्धितान्तैः साहचर्यात्तथाविधस्यैवेह ग्रहमम् "ततः पश्चात्स्रंस्यते ध्वंस्यते च" इति भाष्याच्च। "अनेकमन्यपदार्थे"(अष्टाoसूo2-2-24)इति सूत्रे `सर्वपश्चात्' इति भाष्यप्रयोगाच्चेति तु तत्त्वम्।
योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। अनुरूपम्। रूस्य योग्यमित्यर्थः। वीप्सायां प्रत्यर्थम्। अर्थमर्थं प्रतीत्यर्थः। इह वाक्यमपि साधु। न ह्यत्राव्ययं वीप्सावृत्ति, किंतु कर्मप्रवचनीयत्वात्सम्बन्धमवच्छिनत्ति। वीप्सा तु द्विर्वचनेन प्रोक्ता। यद्वा, प्रतिशब्दस्य वीप्सार्थे कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भं वाक्यमपि भविष्यति। यथाशक्ति। शक्तिमनतिक्रम्येत्यर्थः। हरेः सादृश्यं सहरि।
अनुपूर्वस्याभाव आनुपूर्व्यम्। ब्राह्मणादित्वात् ष्यञ्। ष्यञः षित्करणात् स्त्रियामपि प्रयुज्यते। अनुज्येष्ठं ज्येष्ठानुपूर्व्येणेत्यर्थः।
यौगपद्ये-सचक्रम्। सहशब्दस्य समासः। "अव्ययीभावे चाकाले"(अष्टाoसूo6-3-81)इति सभावः। एवमग्रेऽपि।
सादृश्ये-सदृशः सख्या ससखि। वृत्तौ तु `सकखी'इत्युदाहृतम्। अपचितपरिमाणा शृदृशः शृगाली किखी। यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्। `सदृशः सख्या ससखी'इत्यत्र हि सादृश्यवतः प्राधान्यम्। तेनाव्ययार्थप्राधान्याभावात् `समृद्धा मद्राः सुमद्राः' इत्यत्रेवाव्ययीभावो न स्यात्।
सम्पत्तिरनुरूप आत्मभावः। सब्रह्मगर्गाणां तेषामनुरूपो ब्रह्मभाव इत्यर्थः।
साकल्ये-सतृणमभ्यवहरति। न किञ्चित्परित्यजतीत्यर्थः। न त्वत्र तृणभक्षणे तात्पर्यम्।
अन्तवचने-साग्न्यधीते। अग्न्यादयः शब्दास्तदर्थे ग्रन्थे वर्तन्ते तदानीं परिगृहीतस्य प्रदेशस्याग्न्यादिरन्तो न तु ततः परेणाध्ययनं नास्तीति। अतः साकल्यात्पृथगन्तग्रहणम्। अग्नेरन्तत्वमिति षष्ठ्यन्तेनास्वपदविग्रहः। इह वचनशब्दोऽतिरिच्यते। तेन द्वन्द्वसाकल्यात्पृथगन्तग्रहणमाश्रित्य योगविभागफलीभूतम् `अपदिशम्'इत्यादि सुसाधमिति तु निष्कर्षः।
(अष्टाoसूo2-1-7)
यथाऽसादृश्ये(अष्टाoसूo2-1-7)। पूर्वेम सिद्धे सादृश्यनिरासानाम्। यथेत्येतदसादृश्ये एव समस्यते न तु सादृश्ये इत्यर्थः। तेनेह न। यथा हरिस्तथा हरः। हरेरुपमानत्वं यथाशब्दो द्योतयति। तत्र सादृश्य इति वा यथार्थ इति वा पूर्वेण प्राप्तं निषिध्यते।
(अष्टाoसूo2-1-8)
यावदवधारणे(अष्टाoसूo2-1-8)। इयता परिच्छेदे वर्तमानं यावदित्येदव्ययं सुपा सह समस्यते सोऽव्ययीभावः। यावदमत्रं ब्राह्मणानामन्त्रयस्व। यावदित्यव्ययस्य नित्यसमासेऽपि तद्धितान्तेनानव्ययेन स्वपदविग्रहः। यावन्त्यमत्राणीति। अवधारणे किम्? यावद्दत्तं तादवद्भुक्तम्। कियद् भुक्तमिति नावधारयामीत्यर्थः।
(अष्टाoसूo2-1-9)
सुप्प्रतिना मात्रार्थे(अष्टाoसूo2-1-9)। मात्रा बिन्दुः स्तोकमित्यल्पपर्यायाः। मात्रार्थे वर्त्तमानेन प्रतिना सह सुबन्तं समस्यते सोऽव्ययीभाव-। शाकस्य लेशः शाकप्रति। सूपप्रति। मात्रार्थे किम्? वृक्षं प्रतिविद्योतते विद्युत्। सुप्ग्रहणमव्ययाधिकारनिवृत्त्यर्थम्। अन्यथा हि `दोषामन्यमहः' `दिवामन्या रात्रिः' इति वृत्तिविषये सत्त्वप्रधआनतादर्शनात्तादृशाव्ययान्येव मात्रार्थे प्रतिना समस्येरन्निति भावः।
(अष्टाoसूo2-1-10)
अक्षशलाकासेख्याः परिणा(अष्टाoसूo2-1-10)। एताः परिणा समस्यन्ते सोऽव्ययीभावः। द्यूतकारव्यवहारे चायं समास इष्यते। पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति। तत्र यदि सर्वे उत्तानाः पतन्त्यवाञ्चो वा तदा पातयिता जयत्यन्यथा तु जीयते। तत्र पराजय एवायं समासः। अक्षेण विपरीतं वृत्तं अक्षपरि। शलाका परि। एकपरि। द्विपरि। त्रिपरि। परमेण चतुः परि।
पञ्चसु त्वेकरूपेषु जय एव भविष्यति।
अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत्।।
किं तव व्यवहारे स्यादेकत्वेऽक्षशलाकयोः।।
परमेणेत्यादेर्वृत्तिग्रन्थस्यायमर्थः। परमेण अतिशयेनान्यतः परं पञ्चपरीति न भवतीति यावत्। अस्योपपादनाय श्लोकः-पञ्चस्विति। एकरूपेष्विति। "पुमान् स्त्रिया"(अष्टाoसूo1-2-67)इत्येकशेषः। तृतीयान्ता इति। कर्तृत्वादिति भावः। पूर्वं परिभाषितस्य यथा एकरूपं वर्त्तनं सम्प्रति यदि तन्नेत्यर्थः। विपरीतवर्तने परिणा द्योत्ये समास इति यावत्। एकत्वे इति। अन्यथा `राजपुरुषः' इत्यादाविवाभेदैकत्वमवगम्येत न तु शुद्धमेकत्वम्। प्रकरणादिना द्वित्वाद्यवगमे च प्रसज्येत्।
भवद्गिरामवसरप्रदानाय वचांसि नः।
इत्यादाविवेति भावः।
(अष्टाoसूo2-1-11)
विभाषा(अष्टाoसूo2-1-11)। अधिकारोऽयम्।
(अष्टाoसूo2-1-12)
अपपरिबहिरञ्चवः पञ्चम्या(अष्टाoसूo2-1-12)। एते पञ्चम्या वा समस्यन्ते सोऽव्ययीभावः। अपहरिं संसारः, अपहरेः। परिहरि, परिहरेः। बहिर्ग्रामम्, बहिर्ग्रामात्। प्राग्ग्रामम्। प्राग्ग्रामात्। इहापपरी परस्परसाहचर्याद्वर्जनार्थौ। तौ च कर्मप्रवचनीयौ "अपपरी वर्जने"(अष्टाoसूo1-4-88)इति। तद्योगे पञ्चम्यैव भाव्यम्-"पञ्चम्यपाङ्परिभिः"(अष्टाoसूo2-3-10)इति। अञ्चतिरप्यपपरिसाहचर्यादव्ययमेव गृह्यते तद्योगेऽप्यञ्चूत्तरपदलक्षणया पञ्चम्या भाव्यम्। इत्थंस्थिते पञ्चम्येति ज्ञापनार्थं बहिर्योगे षष्ठ्यर्थे पञ्चमी भवतीत्यस्य।
(अष्टाoसूo2-1-13)
आङ् मर्यादाभिविध्योः(अष्टाoसूo2-1-13)। एतयोराङ पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः। आमुक्ति आमुक्तेर्वा संसारः। आबालं हरिभक्ति, आबालेभ्यः। इह मर्यादाभिविध्योरिति शक्यमकर्तुम्। कर्मप्रवचनीयेनैव ह्याङा योगे पञ्चमी विहिता। कर्मप्रवचनीयता च एतयोरेवार्थयोः "आङ् मर्यादावचने"(अष्टाoसूo1-4-89)इति। तत्र हि वचनग्रहणं मर्यादोक्तिमात्रे यथा स्यादित्येवमर्थम्। अस्तु वा तत्रैवाभिविधिग्रहणम्।
(अष्टाoसूo2-1-14)
लक्षणेनाभिप्रती आभिमुख्ये(अष्टाoसूo2-1-14)। अभिमुख्यद्योतकावभिप्रती। चिन्हवाचिना सह वा प्राग्वत्। अभ्यग्नि शलभाः पतन्ति। प्रत्यग्नि। अग्निमभि। अग्निं प्रतीति विग्रहः। "अभिरभागे"(अष्टाoसूo1-4-91) "लक्षणेत्थंभूत"(अष्टाoसूo1-4-92)इति चाभिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया। इहाभिप्रती लक्ष्यलक्षणभावमाभिमुख्यं चेत्युभयं द्योतयतः। लक्षणेन किम्? स्रुघ्नं प्रतिगतः। स्रुघ्नादागतस्तभेव प्रतिनिवृत्त इत्यर्थः। अत्र स्रुघ्नः कमींभूतो न तु लक्षणम्। अभिप्रती किम्? येनाग्निस्तेन गतः। येन देशेनाग्निर्गतस्तेन गत इति प्रतीतेर्भवति गमनस्याग्निर्लक्षणम्। आभिमुख्यमप्यस्तीति येनतेनशब्दयोरग्निशब्देन सह समासः स्यात्। आभिमुख्यइति किम्? अभ्यङ्काः गावः प्रत्यङ्काः। अभिनवः प्रतिनवञ्चाङ्क आसामिति बहुव्रीहिः। अङ्कोऽत्र भवति गवां लक्षणम्। आभिमुख्यं तु नास्ति। नन्वव्ययार्थप्राधान्येऽव्ययीभाव इत्युत्सर्ग इत्युक्तम्। तत्कथमिह प्रसङ्ग? सत्यम्, इह प्रकरणे बहुव्रीहिविषयेऽप्यव्ययीभावो भवतीति ज्ञापनार्थमिदम्। तेन "सख्या वंश्येन"(अष्टाoसूo2-1-19)`द्विमुनिव्याकरणम्' इत्यादि सिद्धम्।
(अष्टाoसूo2-1-15)
अनुर्यत्समया(अष्टाoसूo2-1-15)। यं पदार्थं समया तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः। सूत्रे तु यदिति समान्ये नपुंसकम्। अनुवनमशनिर्गतः। वनस्यानु। वनस्य समीपं गत इत्यर्थः। अनुरिति किम? वनं समया। यत्समयेति किम्? वृक्षमनु विद्योतते विद्युत्। "अव्ययं विभक्ति"(अष्टाoसूo2-1-6)इत्येव सिद्धे बिभाषार्थं सूत्रम्।
(अष्टाoसूo2-1-16)
यस्य चायामः(अष्टाoसूo2-1-16)। यस्यायामोऽनुना द्योत्यस्तेनलक्षणभूतेनानुः। समस्यते सोऽव्ययीभावः। आयामो दैर्घ्यम्। अनुगङ्गं वाराणसी। गङ्गाया अनु। इहायामोलक्षणत्त्वंचानुना द्योत्यते। लक्ष्यं तु समासार्थः। अत एव वारामस्या सामानाधिकरण्यम्, गङ्गाया यद्दैर्घ्यं तदुपलक्षितेत्यर्थात्। गङ्गा च दैर्घ्यद्वारोपलक्षणम्। तेन गङ्गादैर्घ्यसदृशैदर्घ्योपलक्षिता काशी उदीर्यतीति फलितोऽर्थः।
(अष्टाoसूo2-1-17)
तिष्ठद्गुप्रभृतीनि च(अष्टाoसूo2-1-17)। एतानि निपात्यन्ते। तिष्ठन्ति गावो यमिन् कालविशेषे स तिष्ठद्गु दोहनकालः। चकारएवकारार्थे। तेनैषां वृत्यन्तरं न भवति। `परमतिष्ठद्गु' इत्यादि न भवतीत्यर्थः। कथं तर्हि-
आतिष्ठद्गु जपन् सन्ध्यां पश्चिमामायतीगवम्।
इति भट्टिरिति चेत्? अव्ययीभावविलक्षणं समासान्तरं व्यावर्त्यते। "आङ् मर्यादाभिविध्योः"(अष्टाoसूo2-1-13)इतीहाव्ययीभावस्तु भवत्येवेति जयमङ्गला। इदं च `आयतीगवम्' इत्येतदनुरोधेनावश्यं वाच्यम्। `अतिष्ठद्गु' इत्यत्र तु पृथक्पदत्वं पञ्चम्याश्च लुगित्यपि सुवचम्। `अतिष्ठद्गु' इत्यत्र तु पृथक्पदत्वं पञ्चम्याश्च लुगित्यपि सुवचम्। "नाव्ययीभावादतः"(अष्टाoसूo2-4-83)इति निषेधादम्त्वपञ्चम्या इत्युक्तेश्चायतीगवादिति केचित्पेठुः। खलेप्वादिनि प्रथमान्तानि। प्रातिपदिकार्थमात्रे एषां प्रयोगो नान्यत्रेत्यर्थः। तिष्ठद्गु। वहद्गु। शत्रादेशो निपातनात्। "गोस्त्रियोः"(अष्टाoसूo1-2-48)इति हस्वः। आयतीगवम्। इह शत्रादेशः पुंवद्भावाभावः समासान्तश्च निपात्यते। खलेयवम्। खलेबुसम्। सप्तम्या अलुक्। लूनं यवम्। लूनमानयवम्। लूयमानबुसम्। संह्रियमाणबुसम्। एते कालशब्दाः। समभूमि। समपदाति। समत्वं भूमेरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। समम्भूमि समम्पदातीति पाठान्तरम्। तत्र पूर्वपदस्य मुमागमः। सम्भूमि सम्पदातीत्यपरः। पाठः। तत्र समस्यान्तलोपः। संशब्देन वा समासः। सुषमम्। विषमम्। दुःषमम्। निःषमम्। अपसमम्। आयतीसमा। आयतीसमम्। शत्रादेशः पूर्ववत्। पुंवद्भावाभावश्च। समा संवत्सरः। एवं पापसमम्। पुण्यसमम्। प्राह्णम्। प्रमृगम्। प्रस्थम्। प्रदक्षिणम्। एषु चतुर्षु प्रगतत्वमन्ह इत्यादिविग्रहः। सङ्गतत्वं प्रति गतस्य सम्प्रति, विपरीतमसम्प्रति। "इच् कर्मव्यतिहारे"(अष्टाoसूo5-4-127)। दण्डादण्डि। अयमेव द्विदण्डाष्वपि विधीयते इति तत्राप्यव्ययीभावत्वं बोध्यम्।
(अष्टाoसूo2-1-18)
पारेमध्ये षष्ठ्या वा(अष्टाoसूo2-1-18)। पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते सोऽव्ययीभावः। एदन्तत्वं चानयोर्निपात्यते। पक्षे षष्ठीतत्पुरुषः। महाविभाषया ह्येकार्थीभावस्य पाक्षिकतामात्रं लभ्यते। सति त्वेकार्थीभावेऽव्ययीभावस्तत्पुरुषं बाधेत। अतः पाक्षिकं तत्पुरुषं लब्धुमिह पुनर्वाग्रहणम् `व्यपेक्षां सामर्थ्यमेके' इति पक्षे तु यत्रोत्सर्गापवादं महाविभाषया विकल्प्यते तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते इति ज्ञापनायेदम्। एवम् "उदश्वितोऽन्यतरस्याम्'(अष्टाoसूo4-2-19)इत्यपि। तेन पूर्वं कार्यस्येत्येकदेशिसमासेन युक्ते षष्ठीसमासो न भवति। दक्षस्यापत्यं दाक्षिरितीञा युक्तेऽण् न भवति किं तूभयत्र वाक्यमेव। एकारान्तत्वनिपातनं तु यत्र सप्तम्यर्थो न सम्भवति तदर्थम्। पारेगङ्गात् मध्येगङ्गादानयेति यथा। सप्तम्यर्थसम्भवे तु "तत्पुरुषे कृति बहुलम्"(अष्टाoसूo6-3-14)इति बहुलग्रहणादलुक्यपि सिद्धम्।
(अष्टाoसूo2-1-19)
संख्या वंश्यन(अष्टाoसूo2-1-19)। वंशो द्विधा-विद्यया-जन्मना च तत्र भवो वंश्यः। तद्वाचिना सह संख्या वा समस्यते सोऽव्ययीभावः। द्वौ मुनी पाणिनिकात्यायनौ वंश्यौ द्बिमुनि। व्याकरणस्य त्रिमिनि। जन्मना यथा-एकविंशति भारद्वाजम्। कथं तर्हिं त्रिमुनि व्यकरणमिति सामानाधिकरण्यमिति चेत्? विद्यया सह तद्वतामभेदोपचारादिति वृत्तिकाराः। "लक्षणेनाभिप्रवी'(अष्टाoसूo2-1-14)इति सूत्रे आभिमुख्यग्रहणादेव तत्सिद्धमिति तु प्रागेवोक्तम्।
(अष्टाoसूo2-1-20)
नदीभिश्च(अष्टाoसूo2-1-20)। नदीभिः संख्या प्राग्वत्। समाहारे चायमिष्यते। सप्तगङ्गम्। द्वियमुनम्। स्वरूपस्य साञ्ज्ञा। नद्याश्च नेह ग्रहणम्, बहुवचननिर्द्देशात्।
(अष्टाoसूo2-1-21)
अन्यपदार्थे च सञ्ज्ञायाम्(अष्टाoसूo2-1-21)। अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते सञ्ज्ञायां सोऽव्ययीभावः। विभाषाधिकारेऽपि वाक्येन सञ्ज्ञानवगमादिह नित्यसमासतेति वृत्तिः। शाकलसूत्रे कैयटस्वरसोऽप्येवम्। न चैवं न्यायसाम्याद्बहुव्रीहेरपि नित्यतापत्तिः, `चित्रा यष्टीः प्रवेश'इत्यत्र वाक्येऽपि यष्टिधरप्रतीतेरिति दिक्। उन्मत्तगङ्गं नाम देशः। लोहितगङ्गम्। तूष्णींगङ्गम्। शनैर्गङ्गम्। अन्यपदार्थे किम्? कृष्णवेणी। सञ्ज्ञायां किम्? शीघ्रगङ्गे देशः।
(अष्टाoसूo2-1-22)
तत्पुरुषः(अष्टाoसूo2-1-22)। अधिकारोऽयं प्राग्बहुव्रीहेः।
(अष्टाoसूo2-1-23)
द्विगुश्च।(अष्टाoसूo2-1-23)। द्विगुरपि तत्पुरुषसञ्ज्ञः स्यात्। संख्यापूर्वो द्विगुश्चेति चकारपाठमात्रेण सञ्ज्ञासमावेशसिद्धेरिदं सुत्रं व्यर्थम्। द्विगोस्तत्पुरुषत्वे टजचौ प्रयोजनम्। पञ्चराजम्। "राजाहःसखिभ्यः"(अष्टाoसूo5-4-91)इति टच्। उत्तरपदस्यानकारान्तत्वात् स्त्रीत्वाभावः। समासार्थोत्तरपदान्ताः समासान्ता इति पक्षे तु पात्रादित्वं बोध्यम्। वृत्तौ तु `पञ्चराजी' इति क्वाचित्कोऽपपाठः। द्व्यहः। "अह्नष्टखोरेव"(अष्टाoसूo6-4-145)इति टिलोप-। "रात्राह्नाहाः पुंसि"(अष्टाoसूo2-4-29)पञ्चगवम्। "गोरतद्धितलुकि"(अष्टाoसूo5-4-12)इति टच्। प्राग्वत् स्त्रीत्वाबावः। "तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः"(अष्टाoसूo5-4-56)इत्यच्।
(अष्टाoसूo2-1-24)
द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः(अष्टाoसूo2-1-24)। द्वीतीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह समस्यते स तत्पुरुषः। कृष्णं श्रितः कृष्णश्रितः। दुःखमतीतो दुःखातीतः। कूपपतितः। अत एव निपानादिट्। अन्यथा "तनिपति"(काoवाo)इति विकल्पतेट् कत्वाद् "यस्य विभाषा"(अष्टाoसूo7-2-15)इति निषेधः स्यात्। यद्वा, कृतीप्रभृतीनां "सेसिचि"(अष्टाoसूo7-2-57)इत्यादिनेड्विकल्पान्निष्ठायामनिट्कत्वे सिद्धे इदित्करणं "यस्य विभाषा"(अष्टाoसूo7-2-15)इत्यस्यानित्यतां ज्ञापयति। अत एव `धावितमिभराजधिया' इत्यादि सिध्यति। ग्रामगतः। तुहिनात्यस्तः। सुखप्राप्तः। सुखापन्नः। इह श्रितादिषु गत्यर्थत्वात्कर्त्तरि क्तः। अत्यासो व्यतिक्रमो गतिविशेष एव। प्राप्तिरपीह गतिरेव न तु फलम्। एवमापत्तिरपि। यद्वा, श्रित इत्यादावादिकर्मणि क्तः।
स्यादेतत्। कर्मणि क्तान्तेन सह तृतीयार्थे बहुव्रीहिणाऽपि कृष्णश्रितादिरूपसिद्धौ किमनेन सूत्रेण? कृष्णकर्मकश्रयणकर्तेति बोधस्योभयत्राविशेषात्। ननु "कर्मणि क्तः" इति पक्षे प्रत्ययार्थः कर्म श्रयणं प्रतिविशेष्यं स्यादिति चेत्? न, विशेषणविशेष्यभावव्यत्यासेनैव बहुव्रीहिस्थले एकार्थीभावोऽवश्याभ्युपेय इत्यकथितसूत्रएवोक्तत्वात्, एतत्सूत्रे भाष्ये तथैवोक्तत्वाच्च। न च स्वरे भेदः। तत्पुरुषेऽपि हि श्रितपतितगतेभ्यः पूर्वपदं प्रकृतिस्वरं भवति। "अहीने द्वितीया"(अष्टाoसूo6-2-47)इति वचनात्। अतीतादिभिस्तु स्वरसिद्धये विधीयतां तत्पुरुषः। तथाहि, तैस्तत्पुरुषे थाथादिस्वरेम भाव्यम्, न त्वहीनस्वरेण; अतीतात्यस्तयोरहीन इति निषेधात्। प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात्। बहुब्रीहौ तु पूर्वपदप्रकृतिस्वरेम भाव्यमिति। तस्माच्छ्रितपतितगतैः समासो न विधेयः। एवञ्च "अहीने द्वितीया"(अष्टाoसूo7-2-47)इति सूत्रमपि मास्त्विति महदेव लाघवम्। नन्वेवं जात्यादिभ्यः परेषु श्रितादिषु स्वरे दोषः स्यादेव "जातिकालसुखादिभ्योनाच्छादनात् क्तोकृतमितप्रतिपन्नाः"(अष्टाoसूo6-2-17)इत्यन्तोदात्तप्रसङ्गात्। तत्पुरुषारम्भपक्षे हि बहुव्रीहेरन्तोदात्तता तत्पुरुषस्य पूर्वपदप्रकृतिस्वरश्चेति द्वैस्वर्यं सिद्ध्यति। प्रत्याख्यानपक्षे त्वन्तोदात्त एवेति वैषम्यादिति चेत्? न, बहुव्रीहावेव द्वैस्वर्यस्य सुसाधत्वात्। तथाहि, "वा जाते"(अष्टाoसूo6-2-171)इत्यत्र वाजातश्रितपतितगतेष्विति वक्तव्यम्। न चैवं लाघवे विशेषो नेति वाच्यम् "अहिने द्वितीया"(अष्टाoसूo7-2-47)इत्यस्यानारम्भेण लाघवस्य स्पष्टत्वात्।
एतावांस्तु विशेषः-तव समासद्वये द्वैस्वर्यं मम तु बहुव्रीहिणैव द्वैस्वर्यमिति। अत्राहुः। बहुव्रीहिणा `कृष्णश्रितः' इत्यादि न सिध्यति 'निष्ठा"(अष्टाoसूo2-2-36)इति पूर्वनिपातप्रसङ्गात्। जातिकालसुखादिभ्यो हि निष्ठायाः परनिपात उपसंख्यातो न तु जात्यादिभ्योऽन्यत्रापि। किञ्च जात्यादावपि रूपं भिद्येत्, पूर्वपदप्रकृतिस्वरपक्षेऽपि पाक्षिकशैषिककप्प्रसङ्गात्। त्वया बहुव्रीहावेव द्वैस्वर्यस्य सूत्रितत्वात्। सिद्धान्ते तु तत्पुरुषे "अहीने द्वितीया"(अष्टाoसूo7-2-47)इति स्वरोऽस्ति न तु कप्। बहुव्रीहौ तु कबस्ति न तु पूर्वपदस्वरः। तथा चोक्तस्वरकपौ न क्वापि समाविशतः। तस्माद्यथान्यासमेवास्तु। गौरवं च प्रामाणिकमिति स्थितम्।
गमिगाम्यादीनामुपसंख्यानम्। ग्रामं गमी ग्रामगमी। "गमेरिनिः"(उoसूo4-54)इत्यौणादिक इनिः। स च भविष्यत्काले "भविष्यति गम्यादयः"(अष्टाoसूo3-3-3)इत्युक्तेः। यस्तु "आङि च णित्"(उoसूo4-55)इतीनिः, सोऽपि गम्यादिपाठाद्भविष्यति। णित्त्वाद्वृद्धिः। आगामी। बाहुलकात्केवलादपि। तेन गामीति माधवः। ग्रामं गामी ग्रामगामी। "अकेनोर्भविष्यदाधमर्ण्ययोः"(अष्टाoसूo2-3-70)इति कृद्योगलक्षणषष्ठीनिषेधात् कर्मणि द्वितीया। केचित्तु आवश्यके णिनिः। अभविष्यदर्थत्वेऽपि "गत्यर्थकर्मणि"(अष्टाoसूo2-3-12)इत्यत्र द्वितीयाग्रहणमपवादविषयेऽपि विधानार्थमिति कृत्प्रयोगेऽपि द्वितीयैवेत्याहुः। तत्तु भाष्यविरुद्धम्, भाष्ये गत्यर्थसूत्रस्य प्रत्याख्याततया कृद्योगे षष्ठ्या एव स्वीकारात्। एतेन-
तथाविदूराद्रिरदूरताङ्मी यथा स गामी तव कोलिशैलताम्।
इति श्रीहर्षप्रयोगो व्याख्यातः। अन्नं बुभुक्षुरन्नबुभुक्षुरित्यादि।
(अष्टाoसूo2-1-25)
स्वयं क्तेन(अष्टाoसूo2-1-25)। स्वयमित्येतत्सुबन्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते स तत्पुरुषः। ऐकपद्यं समासप्रयोजनम्। तेन- "आमएकान्तरम्"(अष्टाoसूo8-1-55)इति निघातनिषेधः स्वायंकृतिरिति तद्धितश्च सिध्यति। द्वितीयाग्रहणं तूत्तरार्थतयाऽनुवृत्तमपि नेह सम्बध्यते, स्वयमित्यस्यात्मनेत्यर्थकस्य कर्त्रर्थकतया द्वितीयान्तत्वानुपपत्तेः।
(अष्टाoसूo2-1-26)
खट्वा क्षेपे(अष्टाoसूo2-1-26)। खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम्। खट्वारूढो जाल्मः। "जल्मोऽसमीक्ष्यकारी स्यात्"(अoकोo3-1-17)इत्यमरः। वेदं व्रतानि च समाप्य समावृतेनाहि खट्वाऽऽरोञव्या। ब्रह्मचर्यएव भूमिशयनार्होऽपि यः खट्वामारोहति स जाल्मः। रुढश्चायम्। तेन खट्वामारोहतु मा वा निषिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ उच्यते। अत एव विभाषांधिकारेऽपि नित्यसमासोऽयम्। न हि वाक्येन निन्दा गम्यते इति वृत्तिकृतः।
(अष्टाoसूo2-1-27)
सामि(अष्टाoसूo2-1-27)। सामीत्येतदव्ययमर्द्धशब्दपर्यायः। तस्यासत्ववाचित्वाद् द्वितीयया नास्ति सम्बन्धः। तत्सुबन्तं क्तान्तेन वा समस्यते स तत्पुरुषः। सामिकृतम्।
(अष्टाoसूo2-1-28)
कालाः(अष्टाoसूo2-1-28)। कालवाचिनो द्वितीयान्ताः क्तेन सह प्राग्वत्। अनत्यन्तसंयोगार्थं वचनम्। मासप्रमितः प्रतिपच्चन्द्रः। "माङ्माने"(दिoआo1142)आदिकर्मणि। कर्तरि क्तः। मासं परिच्छेतुमारब्धवानित्यर्थः। इह प्रतिपच्चन्द्रेण नास्त्यत्यन्तसंयोगः।
(अष्टाoसूo2-1-29)
अत्यन्तसंयोगे च(अष्टाoसूo2-1-29)। अक्तान्तार्थं वचनम्। कालवाचिनः शब्दाः द्वितीयान्ताः अत्यन्तसंयोगे सुपा सह प्राग्वत्। मुहूर्तं सुखं मुहूर्तसुखम्। मुहूर्तव्यापीत्यर्थः। "कालाध्वनोरत्यन्तसंयोगे"(अष्टाoसूo2-3-5)इति द्वितीया।
(अष्टाoसूo2-1-30)
तृतीया तत्कृतार्थेन गुणवचनेन(अष्टाoसूo2-1-30)। तत्कृतेति पृथक् लुप्ततृतीयाकम्। तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेन अर्थशब्देन च सह समस्यते स तत्पुरुषः। तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते। तदर्थकृत्वं च गुमवचनस्यार्थद्वारकं विशेषणम्। तथाच तृतीयान्तार्थकृतो यो गुमस्तद्ववचनेति फलितोऽर्थः। शङ्कुलया खण्डः। शङ्कुलाखण्डः। किरिणा काणः किरिकाणः। "खडि भेदने"(चुoउo1581)"कण निमीलने"(चुoउo1715)आभ्यां घञि व्युत्पादितावेतौ क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मतुब्लोपादबेदोपचाराद्वा तद्वति द्रव्ये वर्त्तेते इति गुणवचनौ भवतः। धान्येनार्थो धान्यार्थ-। अर्थ्यते इत्यर्थः, प्रयोजनम्। अर्थनं वा अर्थः, प्रार्थना। अभिलाषः। सर्वत्र करणेतृतीयायाः समासः। तत् कृतेनेति किम्? अक्ष्णा काणः। किञ्च यत्र शङ्कुलाखण्डादौ पूर्वोत्तरपदार्थयोः क्रियाकारकभावः सम्बन्धस्तत्र चरितार्थं वचनम्। यथा `दध्ना भुङ्क्ते पटुः' इत्यादौ न भवति, असामर्थ्यात्। तथेहापि न स्यात्-`दध्नापटुः' `कुङ्कुमेन लोहितं मुखम्' इति। इह हि गम्यमानया करोतिक्रियया करणस्य सम्बन्धः। तस्माद्यत्रोत्तरपदे क्रिया न गम्यते तत्रापि तत्कृतत्वे सति यथा स्यात् भोजनादिद्वारके सामर्थ्ये मा भूदिति तत्कृतग्रहणम्। गुणवचनेनेति किम्? गोभिर्वपावान्। गोसम्बन्धिदध्यादिभोजनाद्देवदत्तस्य वपावत्त्वं पविरत्वमित्यस्ति तत्कृतत्वं न त्वसो गुमवचनः। वचनग्रहणं किम्? यावता अर्थेन समासासम्भवात्तद्वाची ग्रहीष्यते। अत्राहुः, गुणमुक्तवान् गुणवचनः। "कृत्यल्युटो बहुलम्"(अष्टाoसूo3-3-113)इति भूते कर्तरि ल्युट्। गुणमुक्तवता सम्प्रति गुणोपसर्जनद्रव्यवाचिनेत्यर्थः। तेन `घृतेन पाटवम्' इति गुणमात्रनिष्ठेन न भवतीति। गुणश्चात्र "सत्त्वे निविशतेऽपौति" इति वक्ष्यमाणो गृह्यते।
(अष्टाoसूo2-1-31)
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः(अष्टाoसूo2-1-31)। एतैः सह तृतीयान्तं प्राग्वत्। अस्मादेव वचनात्पूर्वादियोगे तृतीया हेतौ वा द्रष्टव्या। मासेन पूर्वः मासपूर्वः। मात्रा सदृशः मातृसदृशः। मातृसमः। इह समसदृशाभ्यां योगे "लुल्यार्थैः"(अष्टाoसूo2-3-62)इति तृतीया।
स्यादेतत्। तुल्यार्थयोगे पक्षे षष्ठ्यप्यस्ति। ततः षष्ठीसमासेनैव सिद्धे किमिह सदृशग्रहणेन। न च "तत्पुरुषे तुल्यार्थतृतीया"(अष्टाoसूo6-2-2)इति पूर्वपदप्रकृतिस्वरार्थं तत् "सदृशप्रतिरूपयोः सादृश्ये'(अष्टाoसूo6-2-11)इति, तत् सिद्धेः। न च तत्र सदृशग्रहणमेव मास्त्विति वाच्यम्, षष्ठीसमासपक्षे अन्तोदात्तत्वं वारयितुं तत्स्वीकारावश्यम्भावात्। न चानभिधानात्षष्ठीसमास एव मास्त्विति वाच्यम्, दास्याः सदृश इति रूपासिद्धिप्रसङ्गात्। इह हि 'षष्ठ्या आक्रोसे"(अष्टाoसूo6-3-21)इत्यलुक्समासः स्वीकृतो भाष्ये। नन्वेवमपि हेतुतृतीयान्तेन समासार्थं प्रकृते सदृशग्रहणमस्तु-विद्यया हेतुना सदृशो विद्यासदृश इति। नह्यत्र "तुल्यार्थैः"(अष्टाoसूo2-3-62)इति षष्ठी लभ्यते, प्रतियोगिन्येव तद्विधानादिति चेत्? न, तत्कृतत्वात्पूर्वेणैव सिद्धेः। यो हि विद्यया सदृशः तस्य विद्याकृतं सादृश्यमस्तीति। सत्यम्, प्रत्याख्यातमेवेदं षष्ठे वार्तिककृता। ऊनार्थे-माषोनं कार्षापणम्। माषविकलम्। पूर्वसूत्रे अर्थशब्देन समासस्य साधितत्वादिह अर्थग्रहणमभिधेयनिर्द्देशार्थम्। तच्च ऊनशब्देनैव सम्बध्यते न तु पूर्वादिभिः। अत एव समसदृशौ पृथगुपात्तौ। वाक्कलहः। आचारनिपुणः। गुडमिश्रिः। आचारश्लक्ष्णः।
मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्। गुडसंमि श्रा धानाः। "मिश्रं चानुपसर्गमसन्धौ"(अष्टाoसूo6-2-154)इत्यत्र अनुपसर्गग्रहणाज्ज्ञापकादेतत् सिद्धम्।
अवरस्योपसंख्यानम्। मासेनावरो मासावरः।
(अष्टाoसूo2-1-32)
कर्तृकरणे कृता बहुलम्(अष्टाoसूo2-1-32)। कर्तरि करणे च तृतीया कृदन्तेन सह बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नो नखभिन्नः। कृद्ग्रहणे गतिपूर्वस्यापि ग्रहणान्नखनिर्मिन्नः। कर्तृकरणे किम्? भिक्षाभिरुषितः। हेतावियं तृतीया। बहुलग्रहणाच्छतृशानच्क्तवतुप्रभृतिभिर्न। हस्तेन-कुर्वन्, भुञ्जानः, कृतवान्वा। क्वचिद्विभक्त्यन्तरमपि समस्यते बहुलग्रहणादेव। पादहारकः। ह्रियते इति हारकः। बाहुलकात्कर्मणि ण्वुल्। पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः। गलेचोपकः "चुप मन्दायां गतौ"(भ्वाoपo4-3)हेतुमण्णिजन्तात्कर्तरि ण्वुल्। गलेचोपकः। "अमूर्धमस्तककात्"(अष्टाoसूo6-3-18)इत्यलुक्। कृतेति किम्? काष्ठैः पचतितराम्।
(अष्टाoसूo2-1-33)
कृत्यैरधिकार्थवचने(अष्टाoसूo2-1-33)। स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनम्। तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत्। पूर्वसुत्रस्यैव प्रपञ्चोऽयम्। काकपेया नदी। शक्यार्थे कृत्यः। पूर्णतोयत्वात्तटस्थैरपि पातुं शक्येति स्तुतिः। काकैरप्येषा पातुं शक्या। अल्पतोयत्वादिति निन्दा वा।
(अष्टाoसूo2-1-2-34)
अन्नेन व्यञ्जनम्(अष्टाoसूo2-1-34)। संस्कारद्रव्यं संस्कार्येण सह प्राग्वत्। दध्ना उपसिक्त ओदनो दध्योदनः। इह वृत्तावृपसेकक्रियाऽन्तर्भवति स्वभावात्। अतो नासामर्थ्यम्। न च कारकाणां परस्परमसम्बन्धेऽपि वचनसामर्थ्यादसमर्थसमास एवात्रास्तु इति वाच्यम् `किन्दध्ना? ओदनो भुज्यताम्' इत्यादावतिप्रसङ्गात्।
(अष्टाoसूo2-1-35)
भक्ष्येण मिश्रीकरणम्(अष्टाoसूo2-1-35)। खरविशदमभ्यवहार्थं भक्ष्यम्। खरं कठिनम्। विशदं विभक्तावयवम्। यत्प्रत्ययान्तस्य परजन्तस्य च भक्षयतेस्तत्रैव प्रयोगात्। `अब्भक्षः' इत्यादौ तु नोक्तप्रत्ययान्तः किन्तु कर्मण्यणन्तः। तत्र गौण एवेत्यन्ये। भक्ष्येण सह मिश्रीकरणं प्राग्वत्। गुडेन मिश्रा धाना गुडधानाः। इह वृत्तौ मिश्रणक्रियान्तर्भावो बोध्यः।
(अष्टाoसूo2-1-36)
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः(अष्टाoसूo2-1-36)। चतुर्थ्यन्तार्थाय यत्तद्वाचिना अर्थशब्दादिभिश्च चतुर्त्यन्तं समस्यते स तत्पुरुषः। तदर्थेन प्रकृतिविकृतिभाव एव समास इष्यते बलिरक्षितग्रहणाज्ज्ञापकात्। हितसुखग्रहणं तु न ज्ञापकम्। हितयोगे चतुर्थी वक्तव्या। "चतुर्थी चाशिषि"(अष्टाoसूo2-3-73)इति अदादर्थ्येऽपि चतुर्थीसम्भवात्। यूपाय दारु युपदारु। कुण्डलहिरण्यम्। नेह-रन्धनाय स्थाली। कथं तर्हि अश्वघासः, हस्तिविधेजिबिधा? अत्र विशेषः अत्र भाष्यम्-अश्वघासादयः षष्ठीसमासा इति।
स्यादेतत्। चतुर्थीसमास एव तर्ह्यस्तु। न चैवं 'चतुर्थी तदर्थ"(अष्टाoसूo2-1-36)इति पूर्वपदप्रकृतिस्वरप्रसङ्गः। प्रकृतिविकारभावे एतत्प्रवृत्तेः। अन्यथा `गोरक्षितम्' इत्यत्र "चतुर्थीतदर्थः"(अष्टाoसूo2-1-36)इत्येव सिद्धे "क्ते च"(अष्टाoसूीo6-2-45)इति व्यर्थं स्यात्। न च हीनार्थं तत् `गोहितम्' इत्यत्र तादर्थ्याभावादिति वाच्यम् हिते चेति वक्तव्ये "क्तेच" इति सामान्यवचनस्य ज्ञापकत्वात्। अत एव `कुबेरबलि' इत्यादौ प्रकृतिविकृतिभावाभावात् न पूर्वपदप्रकृतिस्वरः किन्तु समासान्तोदात्तत्वमेवेति सिद्धान्तः। `रन्धनाय स्थाली' इत्यादौ तु यदि षष्ठीसमास इष्टः तर्हि चतुर्थीसमास एवेष्यतां यथा गोग्रास-, लीलाम्बुजं, क्रीडासरः, वासभवनं, नाट्यशालेति।
यदि तु रन्धनस्थाल्यादौ षष्ठीसमासस्यानभिधानं तर्हि चतुर्थीसमासस्यापि तदस्तु। एवञ्च बलिरक्षितग्रहणमपि व्यर्थं, ज्ञाप्याभावात्। किञ्च यूपदार्वादावपि षष्ठीसमाससम्भवात्सूत्रमेवेदं मास्तु। "चतुर्थी तदर्थ"(अष्टाoसूo2-1-36)इत्येतत्तु "षष्ठी तदर्थ" इति क्रियतां ज्ञापकाच्च स्वरस्य व्यवस्था भविष्यति।
अत्राहुः। हितशब्देन तावत् षष्ठीसमासो न सम्भवति, तद्योगे चतुर्थ्या नित्यत्वादिति चतुर्थीसमास एव वक्तव्यः। ततश्च क्तेचेत्यत्रापि चतुर्थीग्रहणं कर्तव्यं `गोहितम्' इत्याद्यर्थम्। एवञ्च `गोरक्षितम्' इत्यत्र न स्यात्, चतुर्थ्या असम्भवात्। षष्ठीतदर्थ इत्यस्य चाप्रसङ्गः, प्रकृतिविकृतिभावात्। अतो रक्षितेनापि चतुर्थीसमास एव विधेयः। अर्थशब्देनापि योगे तादर्थ्यसम्बन्धस्य नियमेन प्रतीयमानत्वाच्चतुर्थ्या भवितव्यमिति तेनापि चतुर्थीसमास एव वक्तव्यः। तथा बलिसुखग्रहणमपि कर्त्तव्यम्। तादर्थ्यस्य समासान्नियतप्रतीतिर्यथा स्यादित्येवमर्थम्। तस्मादारब्धव्यमेवेदं सूत्रम्। प्रकृतिविकारभाव एवेत्यस्य प्रयोजनं तु चिन्त्यमिति।
अत्रेदं वक्तव्यम् तादर्थ्यस्य भानं द्विधा-सम्बन्धत्वन तद्व्याप्यतादर्थ्यत्वाख्यविशेषरूपेण चेति। तच्चाश्वानां घासोऽश्वेभ्यो घास इति वाक्ये तावद्वयवस्थितम्। तत्राद्ये समासः, द्वितीये तु नेष्यतइति भाष्यवार्तिकादिप्रामाण्येन निर्णीयते। यथा "न माषाणामश्नीयात्" इत्यादौ सम्बन्धसामान्ये षष्ठी। कर्मत्वरूपविशेषे तु द्वितीया यथा क `प्रदीयतान्दाशारथाय मैथिली' इत्यत्र सम्बन्धिसामान्येऽण। अपत्यरूपतद्विशेषे तु इञेव। यथा वा "अभून्नृपो विबुधसखः" इत्यादौ भूतसामान्यविवक्षायां लुङ्। अनद्यतनत्वविवक्षायां तु लङेवेति। अत एव "आतोऽनुपसर्गे कः"(अष्टाoसूo3-2-3)इति सूत्रे जीवद्वंश्यत्वरूपविशेषाविवक्षायां "प्रोवाच भगवान्कात्यः" इति प्रयुक्तं भाष्ये। अत एत "कृतलब्धक्रीतकुशलाः"(अष्टाoसूo4-3-38)इत्यत्र जातलब्धाभ्यां कृतक्रीतयोर्न गतार्थता प्रकारभेदादिति चतुर्थे वृत्तिकारः। त्वयापि तत्र तथैवोपपादयिष्यते। तत्र भव इत्येव सिद्धे "प्रायभवः"(अष्टाoसूo4-3-39)"सोऽस्य निवासः"(अष्टाoसूo4-3-89)इति सूत्रयोरप्येषैव गतिः। तथाच प्रयोजने स्पष्टे कथञ्चिन्त्यतां ब्रूषे। ननु `अश्वघासः' इत्यादावपि प्रकारणाद्विशेषाध्यवसायो भवत्येवेति चेत्? सत्यम्, न तु तत्र विशेषप्रकारको बोधः, लुप्तं स्मृतं बोधकमिति मते स्मृतपष्ठ्या सम्बन्धत्वप्रकारको बोधः, लुप्तं स्मृतं बोधकमिति मते स्मृतषष्ठ्या सम्बन्धत्वप्रकारकबोधस्यैव जननात्। यः शिष्यते स लुप्यमानार्थाभिधायीति सिद्धान्तरीत्यापि चतुर्थीलोपाभावेन विशेषप्रकारकबोधे असामर्थ्यात्। अतएवार्थप्रकरणाद्यभिज्ञस्यापि दाशरथशब्दान्नापत्यत्वप्रकारिका धीः किन्तु सम्बन्धित्वप्रकारिकैवेत्यादिशाब्दान्यायविदां स्पष्टम्। अत एवाहुः-"भेद्यभेदकसम्बन्धोपाधिभेदनियन्त्रितम्। साधुत्वम्" इति। तस्मादश्वाश्वशब्दयोरिव स्वविशयादन्यत्रासाधुता क्वचित्साधुतया न विरुध्यते इत्यवधेयम्। एवं स्थिते बलिरक्षितादिग्रहणं ज्ञापकमित्यादि प्रागुक्तमेव सम्यक्। यत्तु तादर्थ्यस्य समासान्नियमेन प्रतीत्यर्थं बलिसुखग्रहणमित्युक्तम्। तदपिन, तत्रापि पाक्षिकषष्ठीसमासस्य दुर्वारतया नियतप्रतीततादर्थ्येन चतुर्थीविभक्तिराक्षिप्यते "तस्मै हितम्"(अष्टाoसूo2-1-5)इत्यतो वाऽनुवृत्त्य सिद्धेः, पूर्वपक्षावसरे त्वयैव तथोक्तत्वाच्चेति दिक्।
अथेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्। द्विजायायं द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। तत्र नित्यत्वं न्यासकिद्धम्। चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्रहो न भविष्यति परवल्लिङ्गतां बाधितुं विशेष्यलिङ्गतामात्रं वाच्यम्।
स्यादेतत्। "तदर्थं विकृतेः प्रकृतौ"(अष्टाoसूo5-1-12)इत्यत्र तदर्थसमर्थमिति सूत्रं क्रियताम्। तादर्थ्येन चतुर्थीविभक्तिराक्षिप्यते। "तस्मै हितम्'(अष्टाoसूo2-1-5)इत्यतो वानुवर्तते। चतुर्थीसमर्थात्तदर्थेऽभिधेये सर्थप्स्यात्। "आदिर्ञिटुडवः"(अष्टाoसूo1-3-5)"षः प्रत्ययस्य"(अष्टाoसूo1-3-6)इति द्विषकारकनिर्द्देशात्सकारस्येत्संज्ञा। "सिति च"(अष्टाoसूo1-4-16)इति पदत्वम्। पित्त्वादनुदात्तः। राजार्थः। गवार्थः। एवं चार्थे इति पूर्वपदप्रकृतिस्वरो न विधेयः। प्रत्ययत्वाच्च न तेन विग्रहः। तद्धितत्वादभिधेयलिङ्गता च सिद्धेति। मैवम्, "षः प्रत्ययस्य"(अष्टाoसूo1-3-6)इत्यत्र सकारप्रश्लेषे मानाभावात्। वुञ्छणादिसूत्रेण तृणादिभ्यः सप्रत्यये `तृणसः' इत्यादावतिव्याप्तेश्च। किञ्च सर्थपः प्रत्ययत्वे शच्व्यर्थं भ्वर्थमित्यत्रेयङुवङोः प्रसङ्गः। स्यादेतत्। ब्राह्मणोऽर्थः सूपस्तस्य ब्राह्मणोऽर्थः प्रयोजक इति यावत्। एवञ्च चतुर्थ्यन्तेन विग्रहाभावः। पूर्वपदप्रकृतिस्वरत्वं विशेष्यलिङ्गता चेति सर्वं सिध्यति। नैतत्। `महदर्थम्' इत्यत्रात्वकपोः प्रसङ्गात्। स्यादेतत्। "चतुर्थीतदर्थ" इति योगो विभज्यते। ततः "अर्थः" इत्यनेनांशेन तदर्थवाचिन उत्तरपदस्यार्थादेशो विधीयते स च वैकल्पिकः, महाविभाषाधिकारात्। तेन यूपार्थं दारु, यूपदारुइत्युभयं भवति। न चार्थादेशेनोक्तार्थत्वाद्दारुशब्दप्रयोगानुपपत्तिः, अर्थादेशस्य सकलशब्दसाधरणतया विशेषस्फुटीकरणार्थन्तत्सम्भवात्। ततो बलिरक्षितयोरपि विभाषार्थशब्द आदेशो भवति। कुवेरार्थो बलिः कुबेरबलिरित्यादि पूर्वेण सिद्धे ज्ञापनायेदं प्रकृतिविकृतिभावादन्यत्र नित्योऽर्थादेश इति। तेन `रन्धनार्था स्थाली' इत्यादि भवाति। न तु `रन्धनस्थाली' इत्यादि। अश्वघासादयस्तु पूर्ववत्। तथाचार्थशब्दस्यादेशत्वात्तेन विग्रहो न भविष्यति। स्थानिलिङ्गं च भविष्यति, स्थान्यर्थाभिधानसमर्थस्यैवैदेशत्वात्, स्थानिवद्भावाच्च। अर्थ इति पूर्वपदप्रकृतिस्वरस्तु विधेय एवेति। नैतदपि। `उदकार्थो वीवधः' इत्यत्र वीवधशब्दस्यार्थादेश कृते स्थानिवद्भावेन मन्थौदनादिसूत्रेणोदादेशप्रसङ्गात्।
इयुवौ सर्थपि स्यातां बहुव्रीहौ कवाच्च हि।
अर्थादेशे तूदभावो यथान्यासं वरं ततः।।
(अष्टाoसूo2-1-37)
पञ्चमी भयेन(अष्टाoसूo2-1-37)। पञ्चम्यन्तं भयप्रकृतिकेन सुबन्तेन सह प्राग्वत्। चौरभयम्। भयभीतभीतिभीभिरिति वाच्यम्। वृकभीतः। नेह-वृकेभ्यस्त्रासः। पूर्वस्यैव बहुलग्रहणस्यायम्प्रपञ्च। तेन ग्राभनिर्गतो धर्मजुगुप्सुरित्यादि सिद्धम्।
(अष्टाoसूo2-1-38)
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः(अष्टाoसूo2-1-38)। एतैः सह अल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः। अल्पश इत्यत्र बव्हल्पार्थादिति कर्मणि शस्। यद्यपि "बह्वल्पार्थान्मङ्गलामङ्गलवचनम्'(काoवाo)इति वक्ष्यति, तथाप्यत एव निपातनाच्छसित्याहुः। सुखापेतः। कल्पनापोढः। चक्रमुक्तः। स्वर्गपतितः। तरङ्गापत्रस्तः। अल्पशब्द इत्युक्तेर्नेह-प्रासादात्पतितः। बहुलग्रहणस्यैवायं प्रपञ्चः।
(अष्टाoसूo2-1-39)
स्तोकान्तिकदूरार्थकृच्छाणि क्तेन(अष्टाoसूo2-1-39)। एतानि क्तेन सह प्राग्वत्। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रान्मुक्तः। "पञ्चम्याः स्तोकादिभ्यः"(अष्टाoसूo6-3-2)इत्यलुक्। परःशतशब्दस्तु "नाज्झलौ"(अष्टाoसूo1-1-50)इत्यत्र व्युत्पादितः। एवं परःसहस्रोऽपि।
(अष्टाoसूo2-1-40)
सप्तमी शौण्डैः(अष्टाoसूo2-1-40)। सप्तम्यन्तं शौण्डादिभिस्सह प्राग्वत्। अक्षशौण्डः। बहुवचननिर्द्देशादाद्यर्थावगतिः। ननु अर्थनिर्देशार्थं बहुवचनम्। तेन समासार्थं वा बहुवचनं किन्न स्यादिति चेत्? न, गणपाठवैयर्थ्यापत्तेः। स्यादेतत्। कारकाणां क्रिययैव सम्बन्ध इति तावत्स्थितम्। तदिह `अक्षशौण्डः' इत्यादौ सप्तम्यर्थः क्वान्वेतु, क्रियाया अश्रवणात्? सत्यम्, प्रसक्तिरूपा क्रिया वृत्ताविहान्तर्भवति तद्द्वारकमेव च सामर्थ्य यथा दध्योदनागुडधानादिषु। अन्तःशब्दोऽत्र पठ्यते। तद्योगे अवयविन आधारत्वविवक्षायां सप्तमी। यथा वृक्षेशाखेति। वनेऽन्तर्वनान्तः। अस्य वैकल्पिकत्वात्पक्षेव्ययीभावः। अन्तर्वणम्। "प्रनिरन्तः"(काoवाo)इति णत्वांमति हरदत्तः। अत्रेदं वक्तव्यं, नायं विभक्त्यर्थेऽव्ययीभावस्य विषयः, विभक्त्यर्थमात्रवृत्तेरव्ययस्य स इत्युक्तत्वात्। अत्र मध्यस्यापि प्रतीतेः। कथमन्यथाऽवयवावयविभावमवोचः। किञ्चाऽव्ययीभावस्य नित्यत्वात्तदुपदर्शितो वने अन्तरिति विग्रहोऽपि न सङ्गच्छेत। तस्मादधिकरणत्वमात्रवृत्तिना अन्तःशब्दान्तरेणाव्ययीभावो न तु मध्यवाचिनेत्यवधेयम्। अधिशब्दोऽत्रे पठ्यते। तस्याधिकरणप्राधान्येऽव्ययीभावः। `अधिस्री' इति। आधेयप्राधान्ये त्वनेन तत्पुरुषः "ब्राह्मणाधीनः" इति "अध्युत्तरपदात्खः"। ब्राह्मणेष्वधीति विग्रहः। शौण्ड, धूर्त्ते, कितव, व्याड, प्रवीम, संवीत, अन्तर, अधिकरमप्रधान एवायमिह पठ्यते। अधि, पटु, पण्डित, कुशल, चपल, निपुण। वृत्।
(अष्टाoसूo2-1-41)
सिद्धशुष्कपक्वबन्धैश्च(अष्टाoसूo2-1-41)। एतैःसप्तमी प्राग्वत्। साङ्काश्यसिद्धः। काम्पिल्यसिद्धः। सङ्काशेन निर्वृत्तं वनं साङ्काश्यम्। कम्पिलेन काम्पिल्यम्। चातुरथिकः। सङ्काशादिभ्यो ण्यः। तत्र तपसा सिद्ध इत्यर्थः। आतपशुष्कः। स्थालीपक्वः। चक्रबन्धः। "बन्धे च विभाषा"(अष्टाoसूo6-3-13)इत्युलुक्।
(अष्टाoसूo2-1-42)
ध्वाङ्क्षेण क्षेपे(अष्टाoसूo2-1-42)। ध्वाङ्क्षवाचिना सह सप्तम्यन्तं प्राग्वन्निन्दायाम्। तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः। तीर्थकाकः। यथा ध्वाङ्घास्तीर्थे चिरं नावतिष्ठन्ते तथान्योऽपि कार्येष्वनवस्थित एव मुच्यते। इवार्थस्य वृत्तान्तर्भावान्न पृथक् प्रयोगः। क्षेपे किम्? तीर्थं ध्वाङ्क्षस्तिष्ठति।
(अष्टाoसूo2-1-43)
कृत्यैर्ऋणे(अष्टाoसूo2-1-43)। सप्तम्यन्त कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके। ऋणग्रहणमावश्यकोपलक्षणार्थम्। यत्प्रत्ययान्तेनैवेष्यते, अल्पश इत्यनुवृत्तेः। कृत्यैरिति बहुवचनं तु प्रकृतिभेदाभिप्रायम्। मासे देयमृणम्। पूर्वाह्णे गेयं साम। "तत्पुरुषे कृति"(अष्टाoसूo6-3-14)इत्यलुक्।
(अष्टाoसूo2-1-44)
संज्ञायाम्(अष्टाoसूo2-1-44)। सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम्। नित्यसमासोऽयम्, वाक्येन संज्ञानवगमात्। अरण्येतिलकाः। अरण्येमाषाः। वनेकसेरुकाः। "हलदन्तात्सप्तम्याः"(अष्टाoसूo6-3-9)इत्यलुक्।
(अष्टाoसूo2-1-45)
क्तेनाहोरात्रावयवाः।(अष्टाoसूo2-1-45)। अन्हो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत्। पूर्वाह्णकृतम्। अपराह्णकृतम्। पूर्वरात्रकृतम्। अपररात्रकृतम्। अवयवग्रहणं किम्? अन्हि दृष्टम्। कथं तर्हि "रात्रिवृत्तमनुयोक्तुमुद्यता" इति? "कर्तृकरणे कृता बहुलम्"(अष्टाoसूo2-1-38)इति भविष्यति।
(अष्टाoसूo2-1-46)
तत्र(अष्टाoसूo2-1-46)तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत्। तत्रभुक्तम्। तत्रकृतम्। यद्यपि अभिहितः सोऽर्थोऽन्तर्भूत इति तत्रशब्ददात्प्रथमैव युक्ता, तथापि `तत्रभावन्' इत्यादौ विभक्त्यन्तरेऽपि दर्शनादधिकरणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति वृत्तिकृतो मन्यन्ते। वस्तुतस्तु "स्वयं क्तेन"(अष्टाoसूo2-1-25)इत्यत्र द्वितीयाधिकारइवेहापि सप्तम्यधिकारो बाध्यते, पूर्वपदप्रकृतिस्वरस्याव्ययत्वेनापि सिद्धेः, सप्तम्या अपि लुका विभक्त्यन्तरसाधारण्यानुद्धाराच्चेति दिक्।
(अष्टाoसूo2-1-47)
क्षेपे(अष्टाoसूo2-1-47)। सप्तम्यन्तं क्तान्तेन प्राग्वत् निन्दायाम्। अवतप्तेनकुलस्थितं त एतत्। यथा तप्ते प्रदेशे नकुला चिरमवतिष्ठन्ते एवं कार्याण्यारभ्य यश्चापलेन न चिरं तिष्टति स एवमुच्यते। "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्"(पoभाo28)इति नकुलस्थितशब्दन समासः। उदकेविशीर्णम्। प्रवाहेसूत्रितम्। भस्मनिहुतम्। निष्फलमित्यर्थः। तत्पुरुषे कृति बहुलम्"(अष्टाoसूo6-3-14)इत्यलुक्।
(अष्टाoसूo2-1-48)
पात्रेसमितादयश्च(अष्टाoसूo2-1-48)। एते निपात्यन्ते क्षेपे। येचात्र क्तान्तास्तेषां पूर्वेण सिद्धे पुनः पाठो युक्तारोह्यादित्वसिद्ध्यर्थः। युक्तारोह्यादिषु हि पात्रेसमितादयश्चेति पठ्यते। पात्रेसमिताः। भोजनसमय एव सङ्गता इत्यर्थः। पात्रेबहुलाः। भोजने एव सङ्घीभवन्ति न कार्ये इत्यर्थः। उदुम्बरमशकः। योऽल्पे तृप्तः नास्मात्परमस्तीति मन्यते अदृष्टविस्तारत्वात् स एवमुच्यते। उदुम्बरकृमिः। कूपकच्छपः कूपमण्डूकः। कुम्भमण्डूकः। उदपानमण्डूकः। नगरकाकः। मातरिपुरुषः। पिण्डीशूरः। पिण्डीशूरः। पिण्डीओदनपिण्डः। तत्रैव शूरो नान्यत्रेत्यर्थः। गेहशूरः। गेहेनर्दी। गेहेछेडी। गेहेविजिती। गेहेव्याडः। गेहेधृष्टः। गर्भेतृप्तः। आखनिकबकः। आखनिको जलस्रोतः खातं तस्मिन् बक इव यत्किञ्चिदात्मीये आखनिके लभते तद्भक्षयति तथाऽन्येपीत्यर्थः। गोष्ठेशूरः। गोष्ठेविजिति। कर्णेचुरुचुरा। आकृतिगणोऽयम्। चकारोऽवधारणार्थः। तेन `परमाः पात्रे समिताः' इति वाक्यमेव भवति न तु "सन्महत्"(अष्टाoसूo2-1-61)इत्यादिना समासान्तरम्।
(अष्टाoसूo2-1-49)
पूर्वकालैकसर्वजरत्पुराणनवकेवलास्समानाधिकरणेन(अष्टाoसूo2-1-49)। एते सप्त सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते स तत्पुरुषः। पूर्वकालइत्यर्थनिर्द्देशः। अन्येषां षण्णां स्वरूपग्रहणम्। पूर्वकालोऽपरकालेन समस्यते, पूर्वत्वस्य ससम्बन्धित्वात्। "विशेषणं विशेष्येण"(अष्टाoसूo2-1-57)इति सिद्धे पूर्वकालादीनां पूर्वनिपातनियमार्थं वचनम्। एकशब्दस्य तु "दिक्संख्ये संज्ञायाम्"(अष्टाoसूo2-1-50)इति नियमात्प्राप्त्यर्थमेव। पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः। अत्र क्रियाशब्दत्वात्पाचकपाठकवत्पर्यायः प्राप्तः। एकशाटी। शाटशब्दाज्जातिलक्षणो ङीष्। सर्वयाज्ञिकाः। जरत्तार्किकाः। पुराणमीमांसकाः। नवपाठकाः। केवलवैयाकरणाः। समानाधिकरणे किम्? एकस्याः शौक्ल्यम्। षष्ठीसमासस्त्विह न भवति "गुणेन न" इति निषेधात्।
(अष्टाoसूo2-1-50)
दिक्संख्ये संज्ञायाम्(अष्टाoसूo2-1-50)। समानाधिकरणेनेत्यापादपरिसमाप्तेरनुवर्त्तते। "विशेषणं विशेष्येण"(अष्टाoसूo2-1-57)इति सिद्धे नियमार्थमिदम्। दिक्संख्येसंज्ञायामेव समानाधिकरणेन समस्येते नान्यत्र। पूर्वेषुकामशमी। पञ्चाम्रः। सप्तर्षयः। नेह-उत्तरा वृक्षाः, पञ्च ब्राह्मणाः। पूर्वसूत्रमित्यादौ त्वदिग्वाचित्वात्समासः।
।। इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य प्रथमे पादे द्वितीयमान्हिकम् ।।