सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः १-पादः ३/आह्निकम् २

विकिस्रोतः तः
← आह्निकम् १ शब्दकौस्तुभः
आह्निकम् २
[[लेखकः :|]]

प्रथमस्याध्यायस्य तृतीयपादे द्वितीयमान्हिकम्।।
(अष्टाoसूo1-3-12)
अनुदात्तङित आत्मनेपदम्(अष्टाoसूo1-3-12)। अनुदात्तेत्क उपदेशे यो ङित्तदन्ताद्धातोर्लस्थाने आत्मनेपदमेव स्यात्। एधते, स्पर्धते, बोभूयते, ऋतीयते, कथं तर्हि `शेते' इत्यादि, ङिदेव त्वयमिति चेत्, सत्यम्। व्यपदेशिवद्भावो बोध्यः। उपदेशे किम्? `चुकुटिषति-"गाङ्कुटादिभ्यः"(अष्टाoसूo1-2-1)इति सन आतिदेशिकं ङित्त्वम्। धातोरिति किम्? अत्युतत् अदुद्रुवत्, इति ङिदभ्यामङ्चङ्भ्यां मा भूत्। कथं पुनः "धातोः" इति लभ्यते इति चेत्, "भूवादि"(अष्टाoसूo1-3-1)सूत्रान्मण्डूकप्लुत्याऽनुवृत्त्स्य "धातवः" इत्यस्य विभक्तिविपरिणामात्। "सादृश्यमात्रेण परिणामव्यवहारो वस्तुगत्या तु योग्यशब्दान्तरमेव सन्निहिते भवति" इति कैयटः। यद्वा-आत्मनेपदेनैव लकारस्य धातोश्चाक्षेपः। "इको झल्"(अष्टाoसूo1-2-9)इत्यत्र सना धातोराक्षेपवत्। अत एव ङिता तस्य विशेषणात्तदन्तविधीर्व्याख्यातः। `चित्रीयते' इत्यादौ तु अवयवेऽचरितार्थेन ङकारेण क्यजन्तस्य विशेषणं ततो व्यपदेशिवद्भावान्ङिन्ततेति दिक्। एतेन `चिनुतः' `सुनुतः' इति व्याख्यातम्। यत्तु तत्र ङितीव ङिद्वदिति व्याख्यानामाश्रित्य समाधानं, तदापाततः। `पचेते' इत्यादौ "आतोङितः"(अष्टाoसूo7-2-81)इति इयादेशाभावप्रसङ्गात्। ननु "वृद्भ्यः त्यसनोः"(अष्टाoसूo1-3-92)इति सूत्रे स्यग्रहणेन `विकरणेभ्यो नियमो बलीयान्" इति ज्ञापितत्त्वाच्चङङोः `चिनुतः' इत्यादौ चानुपपत्तिरेव नास्तीति चेत्, उपजनिष्यमाणेनापि ङिता उपसञ्जातनिमित्तस्याऽपि परस्मैपदस्य बाधापत्तेः। "नियमो बलीयान्" इत्यस्यापि पाक्षिकात्त्वाच्च। "वृद्भ्यः स्यसनोः"(अष्टाoसूo1-3-92)इत्यस्य विकरणव्यवधानेऽपि नियमप्रवृत्तिरिति ज्ञापकताया अपि सुवचत्त्वात्। "शदेः शितः"(अष्टाoसूo1-3-60)इति सूत्रे भाष्यकैयटयोरिदं स्पष्टम्। तस्माद्यथाव्याख्यानमेव मनोरमम्। हरदत्तस्तु ङित इत्येव व्याख्यत्। "धातोः" इति नापेक्ष्यते। "नियमो बलीयान्" इत्याश्रयणाच्चङादौ न दोषः। न च भाविना ङिता बाधः। परत्वात्परस्मैपदस्यैवोचितत्वात्" इति तस्याशयः। उभयथापि यङीयङोर्ङित्वस्य गुणनिषेधे चरितार्थतामाशङ्क्यः यङः प्रागनुदात्तमकारं प्रश्लिष्य "जुचङ्क्रम्यदन्द्रम्य"(अष्टाoसूo3-2-150)इति ज्ञापकाद्युजभावं वदन्तः ईयङः प्रागिकारमीकारं वा प्रश्लिष्य आद्ये अन्तेदित्त्वाभावान्न नुम्, द्वितीये एकाच इत्यनुवृत्तेः "श्वीदितो निष्ठायाम्"(अष्टाoसूo7-2-14)इति नेण्निषेध इति कल्पयन्तः परास्ताः। स्यादेत्-यङ्लुक्यपि सर्वत्रातिव्याप्तिः, प्रत्ययलक्षणेन ङिदन्तत्वात्। सत्यम्, ङित्त्वस्य पत्ययाप्रत्ययसाधारणतया `सुदृषत्' इत्यत्र "सोर्मनसि"(अष्टाoसूo7-2-17)इतिस्वरस्येवं "अत्वसन्तस्य"(अष्टाoसूo6-4-14) इति दीर्घस्येव चेहात्मनेपदस्याप्रवृत्तेरिति निष्कर्षः। प्राञ्चस्तु `बोभूतु तेतिक्ते' इत्यत्र तिजेर्यङ्लुगन्तादात्मनेपदविधानं ज्ञापकं यङ्लुगन्तात्प्रत्ययलक्षणेनात्मनेपदं नेति। अत एव "चर्करीतं च" इत्यादादौ पठितस्य चकारात्परस्मैपदमिति व्याख्यानं ज्ञापकसिद्धार्थानुवाद इति सिद्धान्तः। नन्वेवमपि `पास्पर्धीति' इत्यादावात्मनेपदं दुर्वारम्, स्वर्द्धेरनुदात्तेत्त्वात्। न चेदं प्रकृत्यन्तरमिति वाच्यम्, द्विःप्रयोगो द्विर्वचनं षाष्ठमिति वक्ष्यमाणत्त्वात्। सत्यम्, "श्तिपा शपा"(काoवाo)इत्यादिना निषेधो बोध्यः। अनुबन्धेन निर्देशो हि द्विधा। क्व चित्साक्षात्-"शीहः सार्वधातुके गुणः"(अष्टाoसूo7-4-21)। "दीङो युट्"(अष्टाoसूo6-4-63)इति यथा। "अनुनादात्तेतः"(अष्टाoसूo3-2-149)इत्यादौ त्त्वनुबन्धत्वेनः। यत्र तु नोभयथापि निर्देशस्तद्भवत्येव। "आङो यमहनः"(अष्टाoसूo1-3-28)"भावकर्मणोः"(अष्टाoसूo1-3-13)इत्यादि यथा। ननु "आङः" इति कथं नानुबन्धनिर्द्देश इति चेत्, न। प्रकृतिग्रहणे यङ् लुगन्तस्य ग्रहणमित्यस्य ह्ययमपवादः। तेन प्रकृतेर्यत्रानुबन्धेन निर्देशः स एवास्य विषयः। अत ए `चेचितः' `मरीमृष्टे' इत्यादौ `क्ङिति च"(अष्टाoसूo1-1-5)इति प्रवर्तत एवेति दिक्। अथ कथं "स एवायं नागः सहति कलभेभ्यः परिभावम्" इति। अत्राहुः। "आधृषाद्वा"(गoसूo)इति विकल्पितणिचः सहेरिदं रूपम्। यद्वा-चक्षिङो ङित्त्करणमनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यतां ज्ञापयति। स हि अनुदात्तेत्। "विचक्षणः प्रथयन्" इत्यादौ "अनुदात्तेतश्च हलादेः"(अष्टाoसूo3-2-149)इतियुचो दर्शनात्। न चायं ल्युट्। लित्स्वरापत्तेः। अन्तोदात्तस्य च पाठ्यमानत्वादिति। एतेन "स्फायन्निर्मोकसन्धि" इति मुरारिप्रयोगो व्याख्यातः। स्यादेतत्-लस्य तिबादयः। लटः शतृशानचौ। लिटः कानज्वा। क्वसुश्च। "लृटः सद्वा"(अष्टाoसूo3-3-14)इत्यात्मनेपदपरस्मैपदयोर्विहितत्त्वादित आरभ्यापादपरिसमाप्तेः प्रकरणं किमर्थमिति चेत्, नियमार्थमित्यवेहि। अत एवानुदात्तङित आत्मनेपदमेवेति व्याख्यातम्। सोयं प्रकृतिनियमः। उत्तरसूत्रे च भावकर्मणोरात्मनेपदमेवेति अर्थनियमः। यत्रैवकारस्ततोन्यत्रावधारणमिति सिद्धान्तात्। तथाहि-
"तदसम्बन्धयसम्बन्धो व्याप्तिः सैवावधारणम्।
व्यापकत्तवद्योतकैव शब्दसम्बद्धभिन्नजम्।।
न चास्मिन्पक्षे अनुदात्तेत्प्रभृतिभ्यः परस्मैपदं मा भूत् आत्मनेपदं त्वनियतत्त्वात् `अत्ति' इत्यादावपि स्यादिति वाच्यम्। शेषात्परस्मैपदमेवेति नियमात्। ननु तत्र कर्त्तरात्युक्तेः कर्त्तरि परस्मैपदमेवास्तु। भावकर्मणोस्तु। `जागर्यते' `अद्यते' इत्यादौ परस्मैपदं दुर्वारमेवेति चेन्न। भावकर्मणोरात्मनेपदमेवेति नियतत्त्वात्। अस्तु वा प्रत्ययनियमः। आत्मनेपदमनुदात्तङित एवेति। भावकर्मणोरेवेति। न चैवमनुदात्तेत्प्रभृतिभ्यः परस्मैपदप्रसङ्गः। परस्मैपदस्यापि "शेषात्कर्त्तरि"(अष्टाoसूo1-6-781)इति नियतत्वात्। ननु कीदृशस्तत्र नियमः कर्त्तरि यदि परस्मैपदं भवति शेषादेवेति, शेषाद्यदि भवति कर्त्तर्येवेति वा, आद्ये अशेषात्कर्त्तरिमा भूत। भावकर्मणोस्तु शेषादशेषाच्च परस्मैपदं दुर्वारम्। अन्त्ये शेषाद्भावकर्मणोर्मा भूत् अशेषात्तु भावकर्मकर्तृषु त्रिष्वपि प्राप्नोति। सत्यम्, योगविभागेन नियमद्वयं बोध्यम्। शेषादे तत्रापि कर्त्तर्येवेति। तस्मादिह प्रकरणे प्रकृत्यर्थनियमः प्रत्ययनियमो वेति पक्षद्वयमपि स्थितम्। स्यादेतत्-विकरणव्यवधाने नियमो न प्राप्नोति। तथाहि-विकरणानामवकाशो लादेशभिन्नाः। "इक्‌श्तिपौ धातुनिर्देशे"(काoवाo)इति श्तिप्। "पाघ्राध्मादेट्‌दृशः शः(अष्टाoसूo3-1-137)। ताच्छील्यादिषु चानश्। नियमस्यावकाशः लिट्‌लिङो लुक्‌श्लुश्नमश्च। पस्पर्धे, स्पर्धिषीष्ट, आस्ते, शेते, अत्ति, जुहोति, भिनत्ति, भूयात्, इत्यादि। एधते, स्पर्धते, कुरुते, निविशते, इत्यादावुभयप्रसङ्गे परत्वान्नित्यत्वाच्च वनिकरणेषु तैर्व्यवधानान्नियमो न स्यात्। ततश्च प्रकृतिनियमपक्षे विकरणान्तादुभयप्रसङ्गः। प्रत्ययनियमेऽपि तुल्यजातीयस्यैव नियमेन व्यावृत्तिः धातोरनन्तरस्य लस्य यद्यात्मनेपदम् "अनुदात्तङित एव" यदि तु परस्मैपदं, "शेषादेव" इत्यादि। तथा च धात्वन्तरात्तद्व्यावृत्तावपि विकरणव्यवधाने नियमाप्रवृत्तेः पदद्वयमपि स्यादेव। सत्यम्, विकरणेभ्यो नियमो बलियान्" इति "वृद्भ्यः स्यसनोः"(अष्टाoसूo1-3-92)इतिस्यग्रहणेन ज्ञाप्यते। अतो नियमद्वयेप्यदोषः। तत्रापि प्रकृत्यर्थनियमपक्षो बलीयानित्यवधेयम्। तत्र हि शेषात्कर्त्तरीति न वाच्यम्, किन्तु परस्मैपदमित्येव यत्र तच्चान्यच्च प्राप्तं तत्र परस्मैपदमेव स्यात्। प्रत्ययनियमपक्षे तु शेषादिति कर्त्तरीति वाच्यम्, योगश्च विभजनीय इति दोषत्रयमधिकं स्यात्। तिबादिवाक्येन सह वाक्यभेदः परिसङ्ख्याप्रयुक्तत्रिदोषता चेति दोषचतुष्कन्तु पक्षद्वयेऽप्यस्त्येव। यदि तु तदपि किमर्थं सोढव्यमिति बुद्धिस्तर्हि लस्य तिबादय इत्यनेन सहेदं प्रकरणमेकवाक्यतया विधायकमिति व्याख्येयम्। अस्मिन्पक्षे शेषात्कर्त्तरीति कर्त्तव्यमेव। परस्मैपदमात्मनेपदमिति च सूत्रशाटकवद्भाविनी संज्ञाश्रयणीया। अन्यता विहितानां संज्ञा संज्ञया च विधानमित्यन्योन्याश्रयः स्यात्। अस्मिंश्च पक्षे विकरणेषु न कश्चिद्दोषः। लादेशेषु कृतेषु सार्वधातुकमाश्रित्य विकरणप्रवृत्तेः। न च स्यादिषु दोषस्तदवस्थ एवेति वाच्यम्, लभात्रापेक्षयान्तरङ्गेषु तिबादिषु कृतेषु लकारविशेषापेक्षतया बहिरङ्गाणां स्यादीनां प्रवृत्तेः।
(अष्टाoसूo1-3-13)
भावकर्मणोः(अष्टाoसूo1-3-13)। अनयोर्विहितस्य लस्यात्मनेपदं स्यात्। सुप्यते, क्रियते। प्राग्वेदकवाक्यतया विधिः भिन्नवाक्यतया नियमो वेति बोध्यम्। नियमोऽपि द्विधा, प्रत्ययनियमोऽर्थनियमश्चेति। न चान्त्यपक्षे कर्मणि घञ् न स्यात् `को भवता लाभो लब्धः' इति, "अकर्त्तरि च"(अष्टाoसूo3-3-19)इत्यस्य त्वपादानादिरवकाश इति वाच्यम्। तुल्यजातीयस्य परस्मैपदस्यैव नियमेन व्यावर्त्तनात्। स्यादेतत्-"लूयते केदारः स्वयमेव" इत्यत्र परस्मैपदं प्राप्नोति। "कर्मवत्कर्मणा"(अष्टाoसूo3-1-87)इत्यनेन हि शास्त्रं व्यपदेशो वाऽतिदिश्यते। तथा च तेन तेन शास्त्रेण तत्तत्कार्यं कर्त्तव्यम्। तत्र कर्मण्यात्मनेपदमित्यस्यावकाशः शुद्धं कर्म, कर्त्तरि परस्मैपदमित्यस्य शुद्धः कर्त्ता। कर्मकर्त्तर्युभयप्रसङ्गे परत्त्वात्परस्मैपदमिति। सत्यम्, प्राधान्यात्कार्यातिदेश एवेत्यात्मनेपदमेव परं बोध्यम्। पक्षान्तरे तु "शेषात्कर्त्तरि"(अष्टाoसूo1-6-78)इत्यत्र "कर्त्तरि कर्म"(अष्टाoसूo1-3-14)इत्यतः कर्त्तरीत्यनुवर्त्त्य कर्त्तैव यः कर्त्ता तत्र परस्मैपदं न तु कर्मकर्तरीति व्याख्यातम्।
(अष्टाoसूo1-3-14)
कर्त्तरि कर्मव्यतिहारे(अष्टाoसूo1-3-14)। विनिमयविषयीभूतायां क्रियायां वर्त्तमानाद्धातोः कर्तर्यात्मनेपदं स्यात्। व्यतिलुनीते। अन्यस्य योग्यं लवनं करोतीत्यर्थः। परस्परकरणमपि कर्मव्यतिहारः। सम्प्रहरन्ते राजानः। "व्यात्युक्षीमभिसरणग्लहामदीव्यन्" कर्त्तृग्रहणमुत्तरार्थम्।
(अष्टाoसूo1-3-15)
न गतिहिंसार्थेभ्यः(अष्टाoसूo1-3-15)। एभ्यः कर्मव्यतिहारे आत्मनेपदं न स्यात्। व्यतिगच्छन्ति, व्यतिसर्पन्ति, व्यतिघ्नन्ति। प्रतिषेधे हसादीनामुपसङ्ख्यानम्(काoवाo)। हसादयो हसप्रकाराः शब्दक्रियाः। व्यतिहसन्ति, व्यतिजल्पन्ति। हरतेरप्रतिषेधः(काoवाo)सम्प्रहरन्ते राजानः। अर्थग्रहणसामर्थ्याद्ये शब्दान्तरनिरपेक्षा गतिहिंसयोर्वर्तन्ते त इह गृह्यन्ते। हरतिस्तूपसर्गवशाद्धिंसायां वर्त्तत इति न तस्यायम्प्रतिषेध इत्याहुः।
"ततः सम्प्रहरिष्यन्तौ दृष्ट्वा कर्णधनञ्जयौ"
इत्यत्र तु `योत्स्यमानौ' इति विवक्षितं न तु कर्मव्यतिहारः। वहेस्तुनायं प्रतिपेदः। अगत्यर्थत्त्वात्। प्रापणं हि वहेरर्थः। गतिप्रतीतिस्त्वाक्षेपात्।
(अष्टाoसूo16)
इतरेतरान्योन्योपपदाच्च(अष्टाoसूo1-3-16)। आत्मनेपदं न स्यात्। परस्परोपपदाच्चेति वक्तव्यम्(काoवाo)। इतरेतरस्यान्योन्यस्य परस्परस्य वा `व्यतिलुनन्ति'। लौकिके शब्दव्यवहारे लाघवं प्रत्यनादरादितरेतरादिशब्दा व्यतीत्युपसर्गौ च कर्मव्यतिहारद्योतनाय समुच्चीयन्ते। तथात्मनेपदमपि समुच्चीयेतेति निषेधोऽयमारभ्यते। नन्वेवंयन्ते। तथात्मनेपदमपि समुच्चीयेतेति निषेधोऽयमारभ्यते। नन्वेवं-
"सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम्"।
इत्यत्र तङ् कथं नेति चेत्? करणविनिमये सत्यपि क्रियाविनिमयस्याविवक्षितत्वात्।
(अष्टाoसूo1-3-17)
नेर्विशः(अष्टाoसूo1-3-17)। निपूर्वाद्विश आत्मनेपदं स्यात्। निविशक्ते। नेः किम्? प्रविशति। कथं तर्हि `न्यविशते' न्यविक्षते' इति, अटा व्यवधानात्। न च स्वाङ्गमव्यवधायकमिति वाच्यम्। अङ्गभक्तस्याटो विकरणानां प्रत्यवयवत्वेपि धातुम्प्रत्यनवयवत्वेन व्यवधायकत्वादिति। अत्राहुःतिबादिविधेः प्राग्लावस्थायां धातोरेवाडागमः। "लुङ्लङ्"(अष्टाoसूo6-4-71)इत्यत्र द्विलकारकनिर्द्देशस्य भाष्यकृता "असिद्धवत्"(अष्टाoसूo6-4-22)सूत्रप्रत्याख्यानावसरे वक्ष्यमाणत्वात्। मतान्तरेऽपि लकारविशेषापेक्षत्वाद्बहिरङ्गमडागमं बाधित्वा लमात्रापेक्षत्वादन्तरङ्गेषु तिबादिषु कृतेषु नियमो भविष्यति। "विकरणेभ्यो नियमो बलीयान्" इति सिद्धान्तात्। अत्र च "वृद्भ्यः स्यसनोः"(अष्टाoसूo1-3-92)इति स्यग्रहणं ज्ञापकमिति बोध्यम्। अथेदं ज्ञापकं विकरणव्यवधानेपि नियमः प्रवर्त्तते इत्येवंपरतयानीयेत तथाप्यदोषः, अन्तरङ्गत्वात्तिबादिषु सत्सु शब्दान्तरप्राप्त्याऽनित्ययोरड्‌विकरणयोर्मध्ये परत्वादट्प्रवृत्तेः। ननु विकरणः शब्दान्तरात्प्राप्तो न तु शब्दान्तरस्येति चेत्, किन्ततः? न हि "शब्दान्तरस्य" इति वाचनिकम्, किन्तु न्यायोऽयम्। तथा च च शब्दान्तरस्य प्राप्नुवत इव तस्मात्प्राप्नुवतोष्यनित्यत्वम्। यद्व्यक्तिसम्बधितया पूर्वं प्राप्नोति तद्व्यक्तिसम्बन्धितया पुनरप्राप्तेस्तुल्यत्त्वात्। अत एवोपसर्गनियमे "अड्व्यवाय उपसङ्ख्यानम्"(काoवाo)इति वार्त्तिकं प्रत्याख्यातम् "शदेः शितः"(अष्टाoसूo1-3-60)इति सूत्रे भगवता भाष्यकारेणेति दिक्। अर्थवद्ग्रहणपरिभाषया नेरुपसार्गस्य ग्रहणं तेनेह न-मधूनि विशन्ति भ्रमराः। कथं तर्हि-
"इत्युक्त्वा मैथिलीं भर्त्तुरङ्के निविसतीं भयात्"। (रo12-38)इति कालिदास इति चेत्, अङ्गानि विशतीमिति पाठ इति अपवादविशयपरिहारेणोत्सर्गप्रवृत्तेः। अन्यथाऽतिप्रसङ्गात्। "वा लिप्सायाम्"(काoवाo)इत्यादेर्वैयर्थ्यापत्तेश्चेति दिक्।
(अष्टाoसूo1-3-18)
परिव्यवेभ्यः क्रियः(अष्टाoसूo1-3-18)। एभ्यः क्रीणातेरात्मनेपदं स्यात्। ञित्त्वादेव सिद्धे सत्यकर्त्रभिप्रायार्थोयमारम्भः। परिक्रीणीते, विक्रीणीते, अवक्रीणीते। पर्यादय उपसर्गा इह गृह्यन्ते। तन्त्रावृत्त्याद्याश्रयणेन क्रीणातेर्ये पर्यादयस्तेभ्यः क्रिय इति व्याख्यानात्। परस्परसाहचर्याद्वा। तेनेह न-`विक्रीणासि' इति। अत्र त्वेकदेशविकृतस्यान्नयत्वात्प्रप्नोति। न चायं विभक्तिविशिष्टस्य विरित्यस्य विकारो न तु विशब्दस्येत्युत्तरसूत्रस्थकैयटवाक्याद् भ्रमितव्यम्, विभक्तेर्लोपात्। प्रकृतिभागस्यैव विकारात्। कैयटस्याप्ययमपरितोषोस्त्येव। अत एव वक्ष्यति-"पक्षिवाचिनो विशब्दस्य सम्भवे तु साहचर्यादुपसर्गग्रहणं व्याख्येयम्"इति।
(अष्टाo1-3-19)
विपराभ्याञ्जेः(अष्टाoसूo1-3-19)। स्पष्टोर्थः। विजयते, पराजयते। प्राग्वदुपसर्गग्रहान्नेह-विजयति, पराजयति, सेना। परा उत्कृष्टा। ननु `जेः' इति कथं निर्देशः। "प्रकृतिवदनुकरणम्" इत्यतिदेशेन धातुतया इयङि `जियः' इति वक्तव्यत्वात्। न च `नियः' क्रियः' इति दीर्घे सा वकाशमियङं परत्वाद् "घेर्ङिति"(अष्टाoसूo7-3-111)इति गुणो बाधत इति युक्तम्। हस्वेष्वपि पूर्वविप्रतिषेधेनेयङ् इष्टत्वात्। अत एव `क्षियः' इति निर्दिश्यते। किञ्च "क्षियो दीर्घात्"(अष्टाoसूo8-2-46)इति सूत्रे दीर्घग्रहणमपीह ज्ञापकम्। अन्यथा "क्षियः" इति निर्देशादेव दीर्घस्य निर्णये किं तेन? उच्यत-अनित्योयमतिदेशः। अतो नेयङ्। अनित्यतायां प्रमाणन्तु "ऋलृक्"(माoसूo2)सूत्र एवोक्तम्। अविवक्षितार्थरूपमात्रानुकरणाद्वा। यत्तु "पराजेरसोढः"(अष्टाoसूo1-4-26) इति सूत्रे इयङ परत्त्वाद् "घेः"(अष्टाoसूo7-3-111)इति गुण इति हरदत्तनोक्तम्, तच्चिन्त्यम्। "क्षियो दीर्घात्"(अष्टाoसूo8-2-46)इत्येतत्सूत्रस्थभाष्यकैयटवृत्तिग्रन्थैस्तत्रत्येहत्यस्वग्रन्थाभ्याञ्च सह विरोधात्।
(अष्टाoसूo1-3-20)
आङो दोनास्यविहरणे(अष्टाoसूo1-3-20)। आङ्पूर्वाद्ददातेर्मुख विकसनादन्यत्रार्थे वर्त्तमानादात्मनेपदं स्यात्। विद्यामादत्ते। अनास्यविहरणे किम्? मुखं `व्याददाति'। आस्यग्रहणमविवक्षितम्। "उपेयिवाननाश्वान्"(अष्टाoसूo3-2-109)इत्यत्रोपशब्दवत्। तेनेहापन-`विपादिकां व्याददाति'। पादस्फोटो विपादिका। नदीकूलं व्याददाति। पराङ्गकर्मकादनास्यइति निषेधो नेष्यते। तथा च वार्त्तिकम्-स्वाङ्गकर्मकाच्चेति(काoवाo)स्वमङ्गमिह न तु "अद्रवं मूर्त्तिमत्" इति परिभाषितम्। व्याददते पिपीलिकाः पतङ्गस्य मुखम्। कथन्तर्हि-"व्यादत्ते विहगपतिर्मुखं स्वकीयम्"। कर्त्रभिप्राये भविष्यति। अकर्त्रभिप्रायार्थो ह्ययमारम्भः। एतेन `मुखं व्यादाय स्वपिति'इत्यत्र `सुप्त्वा व्यादत्ते' इति व्यत्यासेन प्रयोग इति प्रेत्य भावपरीक्षायां वाचस्पतिग्रन्थोपि व्याख्यातः। आङो ङिद्विशिष्टस्य ग्रहणान्नेह,-`भिक्षामाददाति'। अत्र स्मृतावाकार इति हरद्त्तः।
(अष्टाoसूo1-3-21)
क्रीडोऽनुसम्परिभ्यश्च(अष्टाoसूo1-3-21)। "क्रीडृ विहारे"(भ्वाoपo350)अस्मादात्मनेपदं स्यात् अनुसम्परिभ्यः। चकारादाडः। अनुक्रीडते, सङ्क्रीडते, परिक्रीडते, आक्रीडते। उपसर्गेण समा साहचर्यादनोः कर्मप्रवचनीयान्न। माणवकमनुक्रीडति। माणवकेन सहेत्यर्थः। "तृतीयार्थेः(अष्टाoसूo1-4-85)इत्यनोः कर्मप्रवचनीयसंज्ञा। समोऽकूजने(काoवाo)सङ्क्रीडति शकटम्। "मयास्य सङ्क्रीडति चक्रिचक्रः" इति श्रीहर्षः। कथं तर्हि-"क्रीडते नागराजः" इति। अपप्रयोग एवायमित्याहुः। आगमेः क्षमायाम्(काoवाo)ण्यन्तस्येदं ग्रहणम्। आगमयस्व तावत् सहस्व कञ्चित्कालम्, मा त्वरिष्ठा इत्यर्थः। एतेन "यावदागमयतेऽथ नरेन्द्रान्" इति श्रीहर्षप्रयोगो व्याख्यातः। यावत्प्रतीक्षते इत्यर्थात्। शिक्षेर्जिज्ञासायाम्(काoवाo)धनुषि शिक्षते। "शिक्ष विद्योपादाने"(भ्वाoआo506)इत्यस्य नेह ग्रहणण्। अनुदात्तेत्त्वादेव सिद्धत्वात् किन्तु शकेः सन्नन्तस्य। "सनिमीम"(अष्टाoसूo7-4-54)इतीस्। धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः। क्रियैव हिशकेर्थं प्रति विषयतयैवान्वेति। भोक्क्तुं शक्नोतीत्यादिदर्शनात्। भोजनविषयकशक्तिमानिति हि तदर्थः। "शकधृवज्ञाग्लाघटरभ"(अष्टाoसूo3-4-65)इति तुमुन्। इह तु ज्ञानं विषयः। ज्ञातुमिति तु न प्रयुज्यते आत्मनेपदेनैव ज्ञानविषयकताया गमितत्त्वात्। न चैवं `जिज्ञासायाम्' इत्यसङ्गतम्। ज्ञानेच्छा हि तदर्थः। लक्ष्ये तु ज्ञानं शक्तो विषयः। शक्तिस्तु सनर्थभूतायामिच्छायामिति व्याख्यानात्, सत्यम्, ज्ञानविशिष्टायाः शक्तेरिच्छाविषयतया ज्ञातस्यापि विषयतानपायात्। एतावानेव परम्भेदः। इच्छा सन्वाच्या शक्तिस्तु प्रकृत्यर्थः। तस्यास्तु ज्ञानविषयकत्वमात्मनेपदेन द्योत्यतइति। आशिषि नाथः(काoवाo)अनुदात्तेत्त्वादेव सिद्धे नियमार्थं वार्तिकम्-"अशिष्येव" इति। न चैवमनुदात्तेत्वं व्यर्थमिति वाच्यम्। तस्य `नाथने' इति युजर्थत्वात्। `सर्पिषो नाथते'। "आशिषि नाथः"(अष्टाoसूo2-3-55)इति कर्मणि षष्ठी। `सर्पिर्मे भूयादित्याशास्ते' इत्यर्थः। कथं तर्हि-"नाथसे किमु पतिं न भूभृताम्"(किo13-59)इति भारविः। उच्यते-नाधसे इति पाठः। तवर्गचतुर्थस्थाने लिपिप्रमादाद् द्वितीयः पठ्यते। अत एव काव्यप्रकाशे च्युतसंस्कृतेरुदाहरणम्--
"तत्पल्ली पतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना-
दीनं त्वामनुनाथते कुच्युगं पत्रावृतं मा कृथाः'।
(काoप्रo7-5)इति।
"अनुनाथति स्तनयुगम्" इति तु पठनीयमिति तत्रैवोक्तम्। अत्रापि धकारो वा पाठ्यः। हरतेर्गतताच्छल्ये(काoवाo)गतं प्रकारः। पैतृकमश्वा अनुहरन्ते। मातृकं गावोऽनुहरन्ते। पितुर्मातुश्चागतं प्रकारं सततं परिशीलयनतीत्यर्थः। "ऋतष्ठञ्"(अष्टाoसूo4-3-78)"इसुसुक्तान्तात्कः"(अष्टाoसूo7-3-51)। गतताच्छील्ये किम्? मातुरनुहरति। सादृश्यमात्रमिह विवक्षितं न तु प्रकारताच्छील्यम्। किरतेर्हर्षजीविकाकुलायकरणेषु(काoवाo)विक्षेपार्थः किरतिः। हर्षादयस्तु विषयत्वेनोपात्ताः। तत्र हर्षो विक्षेपस्य कारणं जीविकाकुलायकरणे तु फलम्। एष्वेवार्थेषु "अपाच्चतुष्पात्"(अष्टाoसूo6-1-142)इति सुड्विधीयते। अपस्किरते वृषो वृष्टः, कुक्कुटो भक्षार्थी, श्वा आश्रयार्थी च। हर्षादिष्विति किम्?`अपाकिरति कुसुमम्'। इहात्मनेपदसुडागमौ न भवतः। हर्षादिमात्रसत्वे तु यद्यपि तङ् प्राप्नोति, तद्विधौ चतुष्पाच्छकुनिकर्तृकत्वस्य निमित्तत्वेनानुपादानात्, तथापि शब्दशक्तिस्वाभाव्यात्सुटा सह समानविषयोऽयं तङ्। तेन गजोऽपकिरति इत्येव भवतीत्याहुः। आङि नुप्रछ्‌व्योः(काoवाo)आनुते। उत्कण्ठापूर्वं शब्दं करोतीत्यर्थः। "णु स्तुतौ"(भ्वाoपo1035)अदादिः। आपृच्छते। "प्रच्छ ज्ञीप्सायाम्"(तुoपo1414)तुदादिः। "ग्रहिज्या"(अष्टाoसूo6-1-16)इति सम्प्रसारणम्। "शप उपालम्भने" "शप आक्रोशे"(भ्वाoउo1000)इति स्वरितेत्। तस्मादात्मनेपदमकर्तृगेऽपि फले वक्त्वयं शपथरूपेर्थे। `देवदत्ताय शपते' त्वत्पादौ स्पृशामि नैतन्मया कृतमित्येकं रूपं शपथं करोतीत्यर्थः। "श्लाघन्हूङ्स्थाशपाम्'(अष्टाoसूo1-4-34)इति सम्प्रदानसंज्ञा। ज्ञीप्स्यमाने-विवदन्ते। तद्यथा-"यस्मै आख्यायते स सम्प्रदानम्" इत्येके। "य आख्यायते सः" इत्यन्ये। कथं तर्हि-
"नीवीम्प्रति प्रणिहिते तु करे प्रियेण
सख्यः शापामि यदि किञ्चिदपि स्मरामि"। इति।।
अत्राद्दुः-`स्वाशयं प्रकाशयामि' इत्येतावदिह विवक्षितं न तु शपथ इति।
(अष्टाoसूo1-3-22)
समवप्रविभ्यः स्थः(अष्टाoसूo1-3-22)। एभ्यस्तिष्ठतेः प्रग्वत्। सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते। आङः प्रतिज्ञायामुपसंख्यानम्(काoवाo)`शब्दं नित्यमातिष्ठते' नित्यत्वेन प्रतिजातीते इत्यर्थः। वृत्तौ तु `अस्ति सकारमातिष्ठते' `गुणवृद्धी आगमा वा तिष्ठवे, इत्युदाहृतम्। अस्यार्थः-आपिशलिर्हि "अस भुव"
(अoपo1065)इति न पठति किं तु सकारमात्रम्। स्तः सन्तीत्युदाहरणम्। `अस्ति' `आसीत्' इत्यादिसिद्धये तु अडाटावागमौ प्रतिजानीते। तावेव गुणवृद्धीति।
(अष्टाoसूo1-3-23)
प्रकाशनस्थेख्ययोश्च(अष्टाoसूo1-3-23)। तिष्ठतेरेतयोरर्थयोरात्मनेपदं स्यात्। गोपी कृष्णाय तिष्ठते। स्वाभिप्रायं मकाशयतीत्यर्थः। "श्लाघह्‌नूङ"(अष्टाoसूo34)इति सम्प्रदानत्वम्। "संशच्य कर्णादिषु तिष्ठते यः"(किo3-14)कर्णादीन्निर्णेतृत्त्वेनाश्रयतीत्यर्थः। स्थेयो विवादपदनिर्णेता तिष्ठतेस्मिन्निति व्युत्पत्तेः। वृत्तौ तु `तिष्ठन्त्यस्मिन्' इति प्रयुक्तम्। तत्र प्रकरणाच्चिदिना विवादपदनीर्णेतुः प्रतीतिर्न तु शाब्दीत्यभिप्रायेण परस्मैपदं बोध्यम्। "कृत्यल्युटोबहुलम्"(अष्टाoसूo3-3-113)इति अधिकरणे "अचो यत्"(अष्टोoसूo3-1-17)।
(अष्टाoसूo1-3-24)
उदोनूर्ध्वकर्मणि(अष्टाoसूo1-3-24)। उत्पूर्वात्तिष्ठतेरनुर्ध्वत्त्वविशिष्टे परिस्पन्दे वर्त्तमानादात्मनेपदं स्यात्।
"उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता"।(शिo2-10)
अनूर्ध्वेति किम्? "जवेन पीठादुदतिष्ठदच्युत-"(शिo1-12)। इह क्रियाया अनूर्ध्वत्वं नाम उपरिदेशसंयोगफलकत्त्वाभावः। यद्यपि "उदोऽनूर्ध्व" इत्युक्तेरनूर्ध्वताविशिष्टक्रियावाचकत्वं लभ्यत एव धातोः क्रियावाचित्वाव्यभिचारात्तथापि लोकप्रसिद्धपरिस्पन्दात्मककर्मपरिग्रहार्थं कर्मपदम्। तेनेह न-`अस्माद् ग्रामाच्छतमुत्तिष्ठति'। उत्पद्यत इत्यर्थः। तथा च "उद ईहायाम्"(काoवाo)इति वार्त्तिकं सौत्रकर्मपदसिद्धार्थकथनपरम्।
(अष्टाoसूo1-3-25)
उपान्मन्ऊकरणे(अष्टाoसूo1-3-25)। मन्त्रकरणं कारकविशेयत्र तस्मिन्नर्थे वर्त्तमानादुपपूर्वकात्तिष्ठतेरात्मनेपदं स्यात्। आग्नेयऽग्नीध्रमुपतिष्ठते, ऐन्द्र्या गार्हपत्यमुपतिष्ठते। मन्त्रकरणे किम्? भर्तारमुपतिष्ठति यौवनेन। उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम्।(काoवा)देवपूजायां आदित्यमुपतिष्ठते। कथं तर्हि-
"स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती"(रo4-6)इति।
देवतात्त्वारोपाद्भविष्यति। महीपतेदेवतांशत्त्वाद्वा। सङ्गतकरणेरथिकानुपतिष्ठते। उपश्लिष्यतीत्यर्थः। एवं गङ्गा यमुनामुपतिष्ठते इति। मित्रकरणन्तूपश्लेषं विनाऽपि भवति। रथिकानुपतिष्ठते। अयं पन्थाः स्रुघ्नमुपतिष्ठते। प्राप्नोतीत्यर्थः। वा लिप्सायामिति वक्तव्यम्। (काoवाo)भिक्षुको ब्राह्मणमुपतिष्ठते, उपतिष्ठति वा, लिप्सया हेतुभूतया उपगच्छतीत्यर्थः।
(अष्टाoसूo1-3-26)
अकर्मकाच्च(अष्टाoसूo1-3-26)। उपपूर्वकात्तिष्ठतेरकर्मकादात्मनेपदं स्यात्। भोजनकाले उपतिष्ठते। सन्निधत्ते इत्यर्थः।
(अष्टाoसूo1-3-27)
उद्विभ्यां तपः(अष्टाoसूo1-3-26)। आभ्यां तपतेरकर्मकादात्मनेपदं स्यात्। उत्तपते, वितपते। दीप्यत इत्यर्थः। स्वाङ्गकर्मकाच्चेति वक्तव्यम्(काoवाo)। स्वमङ्गं स्वाङ्गम्। नतु "अद्रवम्" इति परिभाषितम्। उत्तपदे, वितपते पाणिम्। अकर्मकात्स्वाङ्गकर्मकादित्युक्तेः स्वमङ्गं स्वाङ्गमिति व्याख्यानाच्च नेह-`देवदत्तो यज्ञदत्तस्य पाणिमुत्तपति'। सन्तापयतीत्यर्थः। सुवर्ममुत्तपति। सन्तापयति विलापयति वेत्यर्थः। उद्धिभ्यां किम्? निष्टपति। "निसस्तपतावनासेवने"(अष्टाoसूo8-3-102)इति मूर्धन्यः।
(अष्टाoसूo1-3-28)
आङो यमहनः(अष्टाoसूo1-3-28)। आङ्पूर्वाब्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्याञ्च यमिहनिभ्यामात्मनेपदं स्यात्। आयच्छते, आहते। आयच्छते पाणिम्। आहते शिरः। नेह-परस्य शिर आहन्ति। कथं तर्हि "आजघ्ने विषमविलोचनस्य वक्षः"(किo170-63)इति भारविः। अत्र केचित्-`आज' इति पदं छित्वा `घ्ने' इति भावे क्विपि चतुर्थ्येकवचनान्तमुक्त्वा घ्ने हन्तुं आज जगामेति व्याचख्युः, तन्न। अर्जेर्लिटि विभावेन `विवाय' इति सिद्धान्तात्। अन्ये तु विषमविलोचनस्य समिपमेत्य स्वं वक्षमास्फालितवानित्यर्थः। मल्लो ह्युत्साहाविष्करणाय स्वं वक्षमास्फालयतीत्याहुः। भागवृत्तौ तु प्रमाद एवायमित्युक्तम्।
(अष्टाoसूo1-3-29)
समोगम्यृच्छिभ्याम्(अष्टाoसूo1-3-29)। सम्पूर्वाभ्यामकर्मकाभ्यां गम्यृच्छिभ्यामात्मनेपदं स्यात्। सङ्गच्छते, समृच्छिष्यते। अकर्मकाभ्यां किम्? ग्रामं सङ्गच्छति। कथन्तर्हि "तच्चैक्यं समगच्छत" इति आर्पत्वात्। यद्वा-चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्। एकं समपद्यतेत्यर्थः। विदिपृच्छिस्वरतीनामुपसङ्ख्यानम्(काoवाo) विदेर्ज्ञानार्थस्येह ग्रहणम्। परस्मैपदिभ्यां साहचर्यात् न लाभार्थस्य। स हि स्वरितेत्त्वादुभयपदी। सत्ताविचारणार्थयोस्त्वनुदात्तेत्वादात्मनेपदं सिद्धमेव। संवित्ते, संविदाते, संविदते। सम्पृच्छते, संस्वरते। अर्त्तिश्रुदृशिभ्यश्चेति वक्तव्यम्(काoवाo)। `अर्त्ति' इतिभ्वादिजुहोत्यादी द्वावपि गृह्येते। "सर्त्तिशास्ति"(अष्टाoसूo3-1-56) इत्यङ्‌विधौ तु शास्तिना लुप्तविकरणेन साहचर्याज्जुहोत्यादेरेव ग्रहणम्। परस्मैपदेषु इति तूत्तरार्थमनुवर्तमानमपि योगविभागसामर्थ्यादङ्‌विधौ न सम्बध्यते। तेन `मासमृत' `मासमृषातां' `मासमृषत' इति भाष्यं-भ्वाद्यभिप्रायेण। `समारत' `समारेतां'`समारन्त' इति वृत्तिस्तु जुहोत्याद्यभिप्रायेण योज्या। संशृणुते सम्पश्यते। "रक्षांसीति पुराऽपि संशृणुमहे" इति मुरारिप्रयोगस्तु चिन्त्यः। अकर्मकादित्यनुवृत्तेः। वृत्तिकारस्तु "समो गम्यृच्छिप्रच्छिस्वरत्यर्त्तिश्रुविदिभ्यः" इति पठित्वा "दृशेश्च" इति वक्तव्यरूपेण पपाठ। तत्र वार्त्तिकानुपूर्वीभङ्गे केषाञ्चिदेव सूत्रे प्रेक्षेपे दृशेश्च तद्वहिष्कारे बीजं न पश्यामः। अथास्मिन्नकर्मकाधिकारे ये सकर्मका हनिगमिप्रभृतयस्तेषां कथमकर्मकता। उच्यते-
"धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्।
प्रसिद्धेरविवक्षातः कर्मणोकर्मिका क्रिया"।।
`वहति भारम्' इति प्रापणे सकर्मको वहिः। स्पन्दने त्वकर्मकः। `वहन्ति नद्यः' इति। प्राणविंशिष्टं धारणं जीवतिराह। गात्रविशिष्टं विक्षेपञ्च नृत्यतिः। अतो द्वावप्यकर्मकौ। प्रसिद्धोर्यथा-`मेघो वर्षति' इति। कर्मणोऽविवक्षातो यथा-"हितान्न यः संशृणुते स किं प्रभुः"(किंo1-5)। "उपसर्गादस्यत्यूह्योर्वा" (काoवाo)इति वक्तव्यम्। इति आरभ्याकर्मकादिति न सम्बध्यते। निरस्यति, निरस्यते। समूहति, समूहते। उपसर्गात्किम्? अस्यति, ऊहते। अनुदात्तेत्त्वादात्मनेपदी। कथन्तर्हि "अनुक्तमप्यूहति पण्डितो जनः "इत्यादि। चक्षिङो ङित्करणेनानुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यताज्ञापनात्समाधेयम्।
(अष्टाoसूo1-3-30)
निसमुपविभ्यो ह्वः(अष्टाoसूo1-3-30)। स्पष्टोर्थः। निह्वयते। अकर्त्रभिप्रायार्थं सूत्रम्। स्यादेतत्--`निह्वास्यते' इतायाद्युदाहरणमस्तु न तु `निह्वयते' इति। आकारान्तस्य सूत्रे उपादानात्। एकारान्तस्य ग्रहणाभावात्। नहि विकृतिः प्रकृतिं गृह्णातीति चेत्? उच्यते-आकारान्तादपि कथमभ्युपैषि। नहि `ह्वः' इति सूत्रे आकारविशिष्टः पठितः। प्रयोगसमवायिनां वाचकतेति सिद्धान्तरीत्या `ह्वा' इति वान्तस्य आकारान्तमर्थः। `दध्ना' इत्यत्र नान्तस्य दधी वेति यदि तर्हि वान्तस्यैव एकारान्तनर्थ इत्यपि तुल्यम्। प्रकियादशायां हि एकारान्तानुकरणे लक्षमवशादात्वं न तु आकारान्त इहानुकार्यः। तस्मान्न किञ्चिदिहानुपपन्नम्। यत्तु न्यासकृतोक्तं "नव्यो लिटि"(अष्टाoसूo6-1-46)इत्यात्वनिषेधके सूत्रे कृतात्वस्य `व्य' इत्यस्य निर्देशाज्ज्ञापकाद्विकृतिरपि प्रकृतिं गृह्वातीति। सोयमस्थाने संरभ्भः। उक्तरीत्या पूर्वपक्षस्य शिथिलत्वात्। "एरनेकाचः"(अष्टाoसूo6-4-82) "ओः सुपि"(अष्टाoसूo6-4-83)इत्यादावपि विकृतिग्रहणे `शिशयिषत' इत्यादावपि यणापत्तेः। विकृतेः प्रकृतिग्राहकत्वे `विश्वराजौ' इत्यत्रापि "विश्वस्य वसुराटोः"(अष्टाoसूo6-3-128)इति दीर्घप्रसङ्गात्। `तुरासाहम्' इत्यादौ मूर्धन्यप्रसङ्गाच्चेति दिक्।
(अष्टाoसूo1-3-31)
क्ष्पर्धायामाङः(अष्टाoसूo1-3-31)। आङ्पूर्वात् ह्वयतेरात्मनेपदं स्यात्स्पर्धाया विषये। मल्लमाह्वयते। स्पर्धमानस्तस्याव्हानङ्करोतीत्यर्थः। स्पर्धायां किम्? पुत्रमाव्हयति। यद्यपि स्पर्धायामप्ययं धातुः पठ्यते तथापि आङ्पूर्वकस्तत्र न वर्त्तते किं तु शब्दने। अत एव स्वर्धायां विषये अयं विधिरिति व्याख्यातम्।
(अष्टाoसूo1-3-32)
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः(अष्टाoसूo1-3-32)। सप्तस्वर्थेषु कृञ आत्मनेपदं स्यादकर्तृगेपि फले। गन्धनमिह सूचनम्। तथाहि-"गन्ध अर्दने"(चुoआo1685) अर्दहिंसायाम्"(चुoउo1829)इति च चुरादौ पाठाद्गन्धनं हिंसा। सूचनमपि वधबन्धादिकरणत्वाद्धिंसेति स एवेह गन्धनशब्दार्थः। उत्कुरुते सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्वयेनो वर्तिकामुदाकुरुते भर्त्सयते इत्यर्थः। हरिमुपकुरुते सेवत इत्यर्थः। सहसा वर्त्तते साहसिकः। "ओजः सहोम्भसा वर्त्तते(अष्टाoसूo4-4-27)इति ठक्। तस्य कर्म साहसिक्यम्। ष्यञ्। परदारान्प्रकुरुते तेषु सहसा प्रवर्त्तत इत्यर्थः। प्रतियत्ने-एधो दकस्योपस्कुरुते। "अवोदैधौध्म"(अष्टाoसूo6-4-29)इति निपातः। समाहारद्वन्द्वः। कृञः प्रतियत्ने"(अष्टाoसूo2-3-53)इति षष्ठी। "उपात्प्रतियत्न"(अष्टाoसूo6-1-139)इत्यादिना सुट्। तस्य गुणान्तराधानं करोत्यर्थः। गाथाः प्रकुरुते। प्रकर्षेण कथयतीत्यर्थः। उपयोगः समीचीनो विनियोगः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्त इत्यर्थः। एषु किम्? कटं करोति।
(अष्टाoसूo1-3-33)
अधेः प्रसहने(अष्टाoसूo1-3-33)। अधिपूर्वात्कृञः प्राग्वदभिभवेक्षमायाञ्च। "षह मर्षणे"(भ्वाoआo852)अभिभवे चेति पाठात्। ये तु "अभिभवे छन्दसि" इति पठन्ति तेषामपि छन्दसीति प्रायोवाद इति हरदत्तः तमधिचक्रे। अभिभूतवान् सोढवान्वेत्यर्थः। एतेन "भ-1--1."भवादृशाश्चेदधिकुर्वते रतिं"(किo1-43)इति पाठः। स च मल्लिनाथेन रतिं सन्तोषं अधिकुर्वते स्वीकुर्वते चेत् इति व्याख्यातः। तेनैव च "अत्र प्रसहनस्यासङ्गतेरधिपूर्वात् करोतेः "अधेः प्रसहने"(अष्टाoसूo1-3-33)इत्यात्मनेपदं न भवति। प्रसहनं परिभवः इति काशिका। तथाऽप्यस्याः कर्त्रभिप्रायविवक्षायामव प्रयोजकत्वात्। कर्त्रभिप्राये "स्वरितञितः"(अष्टाoसूo1-3-72)इत्यात्मनेपदं प्रसिद्धम्" इत्युक्तम्।- वादृशाश्चेदधिकुर्वते परान्'(किo1-43)इति भारविप्रयोगोऽपि व्याख्यातः। क्षमन्ते इत्यर्थात्।
(अष्टाoसूo1-3-34)
वे) शब्दकर्मणः(अष्टाoसूo1-3-34)। विपूर्वात्कृञ आत्मनेपदं स्यात् शब्दश्चेत्कर्म कारकं भवति। स्वरान्विकुरुते। उच्चारयतीत्यर्थः। शब्दकर्मणः किम्? चित्तं विकरोति कामः।
(अष्टाoसूo1-3-35)
अकर्मकाच्च(अष्टाoसूo1-3-35)। वेः कृञोकर्मकात्प्राग्वत्।
"हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते"।
(अष्टाoसूo1-3-36)
सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः(अष्टाoसूo1-3-36)। एषु बोधनीयेषु नयतेरात्मनेपदं स्यात्। तत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः। इतरे प्रयोगोपाधयः। तथाहि आचार्यः शास्त्रे नयते। शास्त्रीयसिद्धान्तानुपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयतीत्यर्थः। ते च शिष्या युक्तिभिर्निश्चाय्यमानाः सम्मानिता भवन्ति तदीयाभिलाषितार्थसम्पादनात्। तथा चात्र नयतेः प्रापणमेवार्थः। शिष्यसम्माननन्तु तदीयं फलं सत्प्रयोगोपाधिः। उत्सञ्जनेदण्डमुन्नयते। उत्क्षिपतीत्यर्थः। आचार्यकरणे-माणवकमुपनयते। विधिना आत्मसमीपप्रापणमिह नयतेरर्थः। तत्फलं माणवकसंस्कारः। तस्य कर्तृगामित्वाभावादप्राप्तमात्मनेपदं आचार्यकरणे विधीयते उपनयनपूर्वकेणाध्यापनेन हि कश्चिदतिशयोध्यापके जन्यते। स एवाचार्यशब्दप्रवृत्तिनिमित्तम्।
"उपनीय ददद्वेदमाचार्यः स उदादृतः"(याoस्मृo1-34)
इत्यपि अतिशयविशेषपरिचायकपरम्। तथा चाचार्यकरणं फलीभूतं प्रयोगौपाधिः। न च तस्य कर्तृगामित्त्वादात्मनेपदं सिद्धमेवेति वाच्यम्। नहि तदुपनयनक्रियायाः साक्षात्फलं किन्तूपनयनपूर्विकाया अध्यापनक्रियायाः। प्रयोगोपाधित्त्वं तु परम्परया फलीभूतस्याप्यस्तीति दिक्। "विनिन्युरेनं गुरवो गुरुप्रियम्" इत्यत्र तु आचार्यकरणस्याविवक्षितत्वान्न तङ्। विवक्षा हि स्वायत्तेति "उपज्ञेपक्रमं तदाद्याचिख्यासायाम्"(अष्टाoसूo2-4-21)इतीच्छासना ज्ञापितम्। ज्ञानेतत्त्वं नयते। निश्चिनोतीत्यर्थः। भृतिर्वेतनम्। कर्मकरानुपनयते। भृतिदानेनात्मसमीपं प्रापयतीत्यर्थः। विगणनमृणादेर्निर्यातनम्। करं विनयते। राजदेयं भागं शोधयति। निर्यातयतीत्यर्थः। व्ययो धर्मादौ विनियोगः। शतं विनयते। धर्मार्थं विनियुङ्क्त इत्यर्थः। एषु किम्? घटं नयति।
कर्तृस्थे चाशरीरे कर्मणि(अष्टाoसूo1-3-23)। नियः कर्तृस्थेकर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात्। शरीरशद्बेन तदवयवो लक्ष्यते। शरीरतादात्म्यापन्नस्य कर्तृतया शरीरस्य तत्स्थत्त्वासम्भवात्। अवयवानान्तु सम्बन्धविशेषेण तत्स्थत्त्वस्यानुभवात्। अत एव हि "करादि पुरुषत्त्वव्याप्यम्" इत्युद्धोषः। क्रोधं विनयते। स्वकीयं क्रोधमपगमयतीत्यर्थः। क्रोधापनयनफलस्य चित्तप्रसादादेः कर्तृगतत्वात् "स्वरितञितः"(अष्टाoसूo1-3-72)इति सूत्रेण सिद्धे नियमार्थमिदम्। तेनेह न-गडुं विनयति। कथन्तर्हि "विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः"(किo2-35)इति भारविः। कर्त्रभिप्रायत्त्वाविवक्षायां भविष्यति। केचित्तु अपनयने वर्त्तमानादनेनात्मनेपदं विधीयते। इह तु करोत्यर्थे प्राप्त्यर्थे वा वर्त्तते। धातूनामनेकार्थत्त्वादित्याहुः।
(अष्टाoसूo1-3-38)
वृत्तिसर्गतायनेषुक्रमः(अष्टाoसूo1-3-38)। क्रम आत्मनेपदं स्यादप्रतिबन्धोत्साहस्फीततासु। वृत्तौ-ऋच्यस्य क्रमते बुद्धिः। न प्रतिहन्यत इत्यर्थः। सर्गे-व्याकरणाध्ययनाय क्रमते। उत्सहत इत्यर्थः। "सृजतेरुत्साहार्थता येनेन्द्रलोकावजयाय सृष्टः" इत्यादौ प्रसिद्धा। तायने क्रमन्तेस्मिन् शास्त्राणि। स्फीतीभवन्तीत्यर्थः। "तायृसन्तानपालनयोः"(भ्वाoआo489)इत्यस्माल्युटि `तायनम्'इति रूपम्।
(अष्टाoसूo1-3-39)
उपपराभ्याम्(अष्टाoसूo1-3-39)। वृत्त्यदिषूपपराभ्यामेव क्रमेरात्मनेपदं स्यान्न तृपसर्गान्तरपूर्वात्। उपक्रमते। आभ्यामेवेति नियमान्नेह-सङ्क्रामति। वृत्त्यादिष्वित्येव। नेह-उपक्रामति पराक्रामति।
(अष्टाoसूo1-3-40)
आङ उद्गमने(अष्टाoसूo1-3-40)। आङ्पूर्वत्क्रमेरुद्गमने वर्त्तमानादात्मनेपदं स्यात्। आक्रमते आदित्यः। उदयत इत्यर्थः। ज्योतिरुद्गमन इति वाच्यम्(काoवा)। नेह-आक्रामति धूमो हर्म्यतलात्। भाष्ये तु `हर्म्यतलम्' इति पठ्यते। तत्रोद्गमनपूर्विकायां व्याप्तौ क्रमिर्द्रष्टव्यः न तृद्गमनमात्रे अकर्मकतापत्तेः। कथन्तर्हि "नभः समाक्रामति चन्द्रमाः क्रमात्" इति। उच्यते-व्यप्तिविह क्रमिर्वर्त्तते न तूद्गमने।
(अष्टाoसूo1-3-41)
वेः पादविहरणे(अष्टाoसूo1-3-41)। विपूर्वात्क्रमेः पादविहरणे वर्त्तमानादात्मनेपदं स्यात्। साधु विक्रमते वाजी। पादविहरणं पदविक्षेपः। यद्यपि क्रमिस्तत्रैवार्थे पठ्यते तथापि धातुनामनेकार्यत्त्वात्सूत्रेर्थोपादानम्। तेनेह न-विक्रामत्यजिनसन्धिः द्विधाभावति स्फुटतीत्यर्थः।
(अष्टाoसूo1-3-42)
प्रोपाभ्यां समर्थाभ्याम्(अष्टाoसूo1-3-42)। तुल्यार्थाभ्यां प्रोपाभ्यां क्रमेरात्मनेपदं स्यात्। समस्तुल्योऽर्थो ययोरिति विग्रहे शकन्ध्वादित्त्वात्पररूपं सशब्द एव वा तुल्योर्थो बोध्यः। प्रारम्बेऽनयोस्तुल्यार्थता। प्रक्रमते, उपक्रमते। आरभते इत्यर्थः। समर्थाभ्यां किम्? प्रकामति गच्छतीत्यर्थः। उपक्रामति। आगच्छतीत्यर्थः। "उपपराभ्याम्"(अष्टाoसूo1-3-39)इति तु नेह प्रवर्त्तते। तत्र वृत्त्यादिग्रहणानुवृत्तेरुक्तत्वात्। इह च वृत्त्यादेरविवक्षणात्।
(अष्टाoसूo1-3-43)
अनुपसर्गाद्वा(अष्टाoसूo1-3-43)। अनुपसर्गात्क्रमेरात्मनेपदं वा स्यात्। क्रमते। "उपपराभ्याम्"(अष्टाoसूo1-3-39)इत्यस्य नियमार्थत्वाद्बृत्यादिसूत्रमनुपसर्गविषयकमेव। तेन वृत्त्यादौ नायं विकल्पः। तस्मादप्राप्तविभाषैवेयम्।
(अष्टाoसूo1-3-44)
अपन्हवे ज्ञः(अष्टाoसूo1-3-44)। अपलापे वर्त्तमानाज्जानातेरात्मनेपदं स्यात्। शतमपजानीते अपलपतीत्यर्थः।
(अष्टाoसूo1-3-45)
अकर्मकाच्च(अष्टाoसूo1-3-45)। अकर्मकाज्जानातेरात्मनेपदं स्यात्। सर्पिषो जानीते। सर्पिषा उपायेन प्रवर्त्तत इत्यर्थः। "ज्ञोविदर्थस्य"(अष्टाoसूo2-3-51)इति करणे षष्ठी। `अकर्मकात्' इत्यस्य स्थाने `सकरणात्' इत्येव तु नोक्तम्। 'स्वरेण पुत्रंजानाति" इत्यत्रातिव्याप्तेः।
(अष्टाoसूo1-3-46)
सम्प्रतिभ्यामनाध्याने(अष्टाoसूo1-3-46)। आभ्यां जानातेरात्मनेपदं स्यादनाध्याने। शतं सञ्जानीतो। अवेक्षत इत्यर्थः। शतम्प्रतिजानीते। अङ्गीकरोतीत्यर्थः। अनाध्याने किम्? मातुः सञ्जानाति। उत्कण्ठापूर्वं स्मरतीत्यर्थः। "अधीगर्थ"(अष्टाoसूo2-3-52)इति कर्मणि षष्ठी। ननु तत्र "शेषे" इत्यनुवर्त्तते तेनात्र कर्मणः शेषत्वेन विवक्षितत्त्वात् "अकर्मकाच्च"(अष्टाoसूo1-3-45)इति पूर्वेण प्राप्नोति, अत्राहुः-`अनाध्याने' इति विभज्यते। स चोभयोर्योगयोः शेषः तेनाध्याने पूर्वेणापि न भवतीति।
(अष्टाoसूo1-3-47)
भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः(अष्टाoसूo1-3-47)। एष्वर्थेषउ वदेरात्मनेपदं स्यात्। अत्रोपसम्भाषोपमन्त्रणे धातोर्वाच्ये। इतरे प्रयोगोपाधयः। भासनन्दीप्तिः। शास्त्रे वदते। भासमानो ब्रवीतीत्यर्थः। भासनं हेतुभूतं सद्धिशेषणं शिष्यैः स्तूयमानो हि भासते। तथा चोपर्युपरि शास्त्रार्थप्रतिभासात्सुष्ठूक्तिर्निर्वहति। तेजोभङ्गे तु न शक्नुयाद्वदितुमिति भावः। उपसम्भाषो उपसान्त्वनम्। कर्म्मकरानुपवदते। उपसान्त्वयतीत्यर्थः। ज्ञाने-सास्त्रे वदते। उक्तिविषयकज्ञानवानिति फलितोर्थः। यत्नः उत्साहः। क्षेत्रे वदते। तद्विषयकमुत्साहमाविष्करोतीत्यर्थः। अत्राविष्क्ररणरूपस्व वदत्त्यर्थस्य यत्नः कर्मेत्याहुः। विशिष्टोऽत्र वदतेर्थं इत्यपि सुवचम्। विमतौ-क्षेत्रे विवदन्ते। विमत्या हेतुभूतया नानाविधं भाषन्त इत्यर्थः। उपमन्त्रणम् उपच्छन्दनम्। कुलभार्यामुपवदते। स्वाभिलषिते प्रवर्त्तयितुं प्रार्थयत इत्यर्थः। एष्विति किम्? यत्किञ्चिद्वदति।
(अष्टाoसूo1-3-48)
व्यक्तवाचां समुच्चारणे(अष्टाoसूo1-3-48)। मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात्। सम्प्रवदन्ते ब्राह्मणाः देवा वा। यद्यपि वद धातुर्व्यक्तायामेव पठ्यते, तथापि "व्यक्तवाचाम्" इत्युपादानसामर्थ्याद्येषां प्रसिद्धतरं व्यक्तवाक्यन्तदेवेह गृह्यते। तेन शुकसारिकादीनां समुच्चारणे न भवति। "वरतनु सम्प्रवदन्ति कुक्कुटाः"। नन्विहतनुशब्दस्य ह्रस्वान्तत्वे सम्बुद्धौ चेति गुणेन भाव्यं दीर्घान्तत्वे नदीलक्षणः कप् प्राप्नोति? सत्यम्, तनुशब्दः स्त्रीजातौ कविभिः प्रयुज्यते। तस्मात् "ऊङुतः"(अष्टाoसूo4-1-66)इत्यूङि कृते कर्मधारयोऽयमिति हरदत्तः।
(अष्टाoसूo1-3-49)
अनोरकर्मकात्(अष्टासूo1-3-49)। अनुपूर्वाद्वदेरकर्म्मकाद्व्यक्तवाग्विषयकादात्मनेपदं स्यात्। अनुवदते कठः कलापस्य। अनुः सादृश्ये। तेन `कलापस्य' इति तुल्यार्थयोगे शेषलक्षण षष्ठी। अकर्मकादिति किम्? पूर्वोक्तमनुवदति। व्यक्तवाचामित्येव। अनुवदति वीणा।
(अष्टाoसूo1-3-50)
विभाषा विप्रलापे(अष्टाoसूo1-3-50)। विप्रलापात्मके व्यक्तवाचां समुच्चारणे वर्त्तमानाद्वदेरात्मनेपदं वा स्यात्। विप्रवदन्ते विप्रवदन्ति वा वैद्याः। गुगपत्परस्परविरोधेन वदन्तीत्यर्थः। विप्रलापे किम्? सम्प्रवदन्ते ब्राह्मणाः। व्यक्तवाचामित्येव। विप्रवदन्ति शकुनयः। समुच्चारण इत्येव। क्रमेण विप्रवदन्ति।
(अष्टाoसूo1-3-51)
अवाद्ग्रः(अष्टाoसूo1-3-51)। अवपूर्वाद्गिरतेरात्मनेपदं स्यात्। अवगिरते। अवात्किम्? गिरति। "गृणातेस्त्ववपूर्वस्य प्रयोगो नास्ति अनभिधानात्" इति भाष्यम्।
(अष्टाoसूo1-3-52)
समः प्रतिज्ञाने(अष्टाoसूo1-3-52)। सम्पूर्वाद्गिरतेः प्रतिज्ञाने वर्त्तमानादात्मनेपदं स्यात्। शब्दं नित्यं सङ्गिरते। प्रतिजानीत इत्यर्थः। प्रतिज्ञाने किम्? सङ्गिरति ग्रासम्।
(अष्टाoसूo1-3-53)
उदश्चरः सकर्मकात्(अष्टाoसूo1-3-53)। उत्पूर्वात्सकर्म्मकाच्चरतेरात्मनेपदं स्यात्। धर्म्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः। सकर्मकात्किम्? बाष्पमुच्चरति। ुपरिष्टाद्गच्छतीत्यर्थः।
(अष्टाoसूo1-3-54)
समस्तृतीयायुक्तात्(अष्टाoसूo1-3-54)। सम्पूर्वाच्चरतेस्तृतीयान्तेन युक्तादात्मनेपदं स्यात्। रथेन सञ्चरते। तृतीयायुक्तात्किम्?
"उभौ लोकौ सञ्चरसि इमं चामुञ्च देवल"।
(अष्टाoसूo1-3-55)
दाणश्च सा चेच्चतुर्थ्यर्थे(अष्टाoसूo1-3-55)। सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादात्मनेपदं स्यात्सा चेत्तृतीया चतुर्थ्यर्थे। दास्या संयच्छते। कामुकः संस्तयै ददातीत्यर्थः। अशिष्टव्यवहारे चतुर्थ्यर्थे तृतीया वक्तव्या(काoवाo)। एतच्चानेनैव ज्ञाप्यते। यद्वा-इह सूत्रे चेच्छब्दश्चशब्दार्थे। निपातानामनेकार्थत्वात्। सा च चतुर्थ्यर्थे भवतीत्यर्थः। "अशिष्टव्यवहार" इति तु वक्तव्यमेव। भाष्ये त्विदं सूत्रमपि प्रत्याख्यातम्। तथाहि-"यो दास्या सह भूञ्जानस्तया दत्तं स्वयं भुङ्क्ते स्वयञ्च तस्यै ददाति तद्विषयेऽयं प्रयोग इष्यते। तत्र "सहयुक्ते"(अष्टाoसूo2-3-19)इत्येव तृतीया। कर्मव्यतिहारे च तङ्। दानपूर्वके भोगे दाण्धातुर्बोध्यः" इति। नन्वारभ्यमाणे सूत्रे `सम्प्रयच्छत' इत्यत्र कथं तङ् `समः' इति पञ्चम्या आनन्तर्यलाभात्। अत्राहुः-`समः' इति विशेषणषष्ठी तेन पूर्वसूत्रमपि `अश्वेन समुदाचरते' इत्यादौ प्रवर्त्तत इति दास्या सम्प्रयच्छते इत्युदाहृत्य शिष्टव्यवहारे तु `ब्राह्मणीभ्यः सम्प्रयच्छति' इति प्रत्युदाहरन् भाष्यकारश्चेह व्याख्याने प्रमाणम्।
(अष्टाoसूo1-3-56)
उपाद्यमः स्वकरणे(अष्टाoसूo1-3-56)। उपपूर्वाद्यमेः प्राग्वत् स्वीकारेऽर्थे। भार्यामुपयच्छते। यत्स्वस्य सतो रूपान्तरेण करणं तदिह न गृह्यते कि न्त्वस्वस्य सतो यत्स्वत्वसम्पादनं तदेव। च्विप्रत्ययस्तु सूत्रे न कृतः "समर्थानां प्रथमाद्वा"(अष्टाoसूo4-1-82)इति विकल्पितत्वात्। तेनेह न-स्वं शाटकमुपयच्छतीति। अत्र वृत्तिकारः पाणिग्रहण एवेष्यते। तेनेह न-देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति। दासीत्वेन रूपेण स्वीकरोतीत्यर्थ इति। एतच्च भाष्यविरुद्धम्। तत्र स्वीकारमात्रे आत्मनेपदस्योक्तत्वात्। तथा च भट्टिः प्रायुङ्क्त--
"उपायंस्त महास्त्राणि शस्त्राण्यपायंसत जित्वराणि"।
"नोपायंस्त दशाननः"। "उपायंसत नासवम्" इत्यादि।
(अष्टाoसूo1-3-57)
ज्ञाश्रुस्मृदृशां सनः(अष्टाoसूo1-3-57)। सन्नन्तानामेषामात्मनेपदं स्यात्। "अपन्हवे ज्ञः"(अष्टाoसूo1-3-44)इत्यादिभिः सूत्रैर्जानातेरात्मनेपदं विहितं श्रुदृशोरपि "समोगम्यृच्छिभ्याम्"(अष्टाoसूo1-3-29)इत्यत्रोपसङ्ख्यानम्। तस्मिंश्च विषये "पूर्ववत्सनः"(अष्टाoसूo1-3-62)इत्येव सिद्धम्। विषयान्तरेऽनेन विधीयते स्मरतेस्तु अप्राप्त एव विधानम्। धर्मं जिज्ञासते, शुश्रूषते, सुस्मूर्षते, दिदृक्षते।
(अष्टाoसूo1-3-58)
नानोर्ज्ञः(अष्टाoसूo1-3-58)। अनुपूर्वाज्जानातेः सन्नन्तादात्मनेपदं न स्यात्। पुत्रमनुजिज्ञासति। अनोः किम्? धर्मं जिज्ञासते। पूर्वसूत्रेण प्राप्तस्यायं निषेधः। "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इति न्यायात्। तथा च सकर्मकस्यैव प्रतिषेध इति फलितम्। पूर्वसूत्रस्य सकर्मकविषयत्वादकर्मकात्तु "पूर्ववत्सनः"(अष्टाoसूo1-3-62)इत्यात्मनेपदे भवत्येव। "अकर्मकाच्च"(अष्टाoसूo1-3-45)इति सूत्रेण केवलाद्विधानात्। -1--1."ज्ञोविदर्थस्यकरणे'(अष्टाoसूo2-3-41)इत्यनेन षष्ठी।-औषधस्यानुजिज्ञासते औषधेन प्रवर्त्तितुमिच्छतीत्यर्थः।
(अष्टाoसूo1-3-59)
प्रत्याङ्भ्यां श्रुवः(अष्टाoसूo1-3-59)। आभ्यां श्रुवः सन्नन्तादात्मनेपदं न स्यात्। प्रतिशुश्रूषति, आशुश्रूषति। उपसर्गग्रहणं चेदम्, परस्परसाहचर्यात्। तेनेह न-देवदत्तं शुश्रूषते। "लक्षणेत्थम्भूत"(अष्टाoसूo1-4-94)इत्यादिना प्रतिः कर्मप्रवचनीयो नोपसर्गः।
(अष्टाoसूo1-3-60)
शदेः शितः(अष्टाoसूo1-3-60)। शितः प्रकृतिभूतो यः शदिस्तस्मादात्मनेपदं स्यात्। शीयते, शीयन्ते। शितः किम्? शत्स्यति, अशत्स्यत्। "शेषात्कर्त्तरि'(अष्टाoसूo1-3-78)इति परस्मैपदम्।
(अष्टाoसूo1-3-61)
म्रियतेर्लुङ्लिङोश्च(अष्टाoसूo1-3-61)। शितो लुङ्लिङोश्च प्रकृतिभूतो यो म्रियतिस्तत एवात्मनेपदं स्यान्नान्यस्मात्। तत्र शित्प्रकृतित्वं पूर्ववच्छिदुत्पत्तेः प्रागेव योग्यतया बोध्यम्। लुङ्लिङोस्तु सत्यामेवोंत्पत्तौ बोध्यम्। म्रियते, म्रियताम्, अम्रियत, अमृत, मृषीष्ट। नियमः किम्? ममार, मर्त्तासि, मरिष्यति, अमरिष्यत्। ङित्वं तु स्वरार्थम्। मा हि मृत। लुङि "तास्यनुदात्तेत्"(अष्टाoसूo6-1-186)इति ङिल्लक्षणः सार्वधातुकमिघातः। "हि च"(अष्टाoसूo8-1-34)इति तिङि निघातप्रतिषेधः।
(अष्टाoसूo1-3-62)
पूर्ववत्सनः(अष्टाoसूo1-3-62)। सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदे स्यात्। येन निमित्तेन सनः प्रकृतेरात्मनेपदं विधीयते तदेव निमित्तं सना व्यवहितं सदप्यात्मनेपदं प्रवर्त्तयतीत्यर्थः। इह सूत्रे "तेन तुल्यम्'(अष्टाoसूo5-1-115)इति तृतीयान्ताद्वतिर्न तु पञ्चम्यन्तात्, लक्षणाभावात्। यथा च `ब्राह्मणेन तुल्यं वैश्यादधीते' इत्यत्र ब्राह्मणादिवेति गम्यते तथेहापि पूर्वस्मादिवेति गम्यते। ब्राह्मणापादानकेध्ययने ब्राह्मणशब्दस्य लक्षणया ब्राह्मणापादानकाध्ययनसादृश्यं वैश्यापादानकाध्यापनमिति क्रियासाम्यं दृष्टान्ते निर्वाह्यम्। अन्यथा वतिप्रत्ययायोगात्। यदाह-"तेन तुल्यं क्रिया चेत्"(अष्टाoसूo5-1-115)इति। एवञ्च प्रकृतेऽपि आत्मनेपदबावनस्य तुल्यत्वं बोध्यम्। तदपि निमित्तस्य तुल्यत्वात्तद्द्वारकमिति फलितोर्थः। एतेन `शब्दोऽनित्यः, कृतकत्वात्। घटवत्' इत्यादि व्याख्यातम्। तत्रापि भवनक्रियायाः साम्यात्। अन्यथा वत्प्रत्ययासाधुतापत्तेः। अत एवानित्यो भवितुमर्हतीति प्राञ्चः प्रयुञ्जते। साध्यपदस्य ज्ञाने लक्षणया ज्ञानयोः साम्यं वाक्यार्थ इति वास्तु। सर्वथापि शब्दघटयोः साम्यार्थं न तु शाब्दमिति दिक्। आसिसिषते, शिशयिषते, निविविक्षते, बुभुक्षते, इत्यादि। इह तु न भवति-शिशत्सति, मुमूर्षति। न ह्योषा शदिम्रियतिव्यक्तिः शितः प्रकृतिः अतो नात्मनेपदनिमित्तम्। कृते हि सनि सन्नन्तमेव शितः प्रकृति। `शिशयिषते' इत्यादौ तु प्रकृतौ ङित्त्वानपायान्निमित्तातिदेशः सम्भवत्येवेति वैषम्यात्। नन्वेवं `अनुचिकीर्षति' इत्यत्रातिप्रसङ्गः। गन्धनादेरर्थस्य ञित्वस्य चात्मनेपदनिमित्तस्यातिदेशापत्तेरिति चेन्न। "अनुपराभ्यां कृञः"(अष्टाoसूo1-3-79)इति वचनपर्यालोचनया अनुपूर्वकत्वाभावविशिष्टस्यैवात्मनेपदनिमित्तताध्यवसायात्। अस्तु वा प्राधान्यात्कार्यस्यैवातिदेशः प्राक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योपि भवतीति। न चैवं `शिशत्सति' `मुमूर्षति' इत्यत्रातिप्रसङ्गः "शदेःशितः"(अष्टाoसूo1-3-60)"म्रियतेर्लुङ् लिङोश्च"(अष्टाoसूo1-3-61)इति सूत्रद्वयेऽपि सनो नेत्यनुवर्त्य वाक्यभेदेन सन्नन्तान्निषेधात्। `जुगुप्सते' इत्यादौ तु यद्यप्ययमतिदेशो न प्राप्नोति। नित्यसन्नन्तततया प्राक् सन आत्मनेपदादर्शनात्। तथापि "अनुदात्तङितः"(अष्टाoसूo1-3-12)इत्यनेनैवात्मनेपदम्। अवयवे ह्यचारितार्थं लिङ्गं समुदायं विशिनष्टि सामर्थ्यात्। न चैवं `जुगुप्सति' इत्यादावतिप्रसङ्गः। सनूपर्यन्तविशेषणेन चारितार्थ्ये सति ततोऽप्यदिकविशेषणे प्रमाणाभावात्। नन्वेवं `गोपयति' `तेजयति' इत्यादावतिप्रसङ्गः। सन्‌णिचोर्मध्ये कतरद्विशेषणीयं कतरन्नेत्यत्र विनियामकाभावादिति। अत्राहुः-यत्र निन्दादौ सन्निष्यते तदर्थका एवानुदात्तेतः नित्यसन्नन्ताश्चैते। अर्थान्तरे त्वननुबन्धका एव चुरादौ पाठ्याः। अन्यथा निन्दाक्षमादिभ्योन्यत्र यथा णिज् भवति तता लडादिरपि स्यात्।
(अष्टाoसूo1-3-63)
आम्‌प्रत्ययवत्कृञोनुप्रयोगस्य।(अष्टाoसूo1-3-63)। आम्‌प्रत्ययो यस्मादित्यतद्‌गुणसंविज्ञानो बहुव्रीहिः। आम्‌प्रकृतिभूतस्य धातोरिवानुप्रयुज्यमानात्करोतेरामनेपदं स्यात्। ञित्त्वादेव सिद्धेऽकर्त्रभिप्रायार्थं सूत्रम्। ईहाञ्चक्रे। नन्वस्य विध्यर्थत्त्वात् `इन्दाञ्चकार' इत्यादावपि कर्त्रभिप्राये तङ् प्राप्नोति, सत्यम्, पूर्ववदित्यनुवर्त्तते, तत्सामर्थ्याद्वाक्यभेदेन नियमोऽपि क्रियते पूर्ववदेवात्मनेपदं न तु पूर्वविपरीतमपीति। कृञः किम्? ईहामास, ईहाम्बभूव। इह कृञ्‌ग्रहणसामर्थ्यान्न प्रत्याहारग्रहणम्। अतएव च ज्ञापकादनुप्रयोगविधौ प्रत्याहारग्रहणम्।
(अष्टाoसूo1-3-64)
प्रोपाभ्यां युजेरयज्ञपात्रेषु(अष्टाoसूo1-3-64)। प्रोपाभ्यांयुजेरयोग इत्यस्मादात्मनेपदं स्यादयज्ञपात्रेषु। प्रयुङ्क्ते, उपयुङ्क्ते। युजिरः स्वरितेतो रुधादेरकर्त्रभिप्रायार्थोऽयं विधिः। "युज समाधौ(रुoउo1445)इति दिवादेस्तु नेह ग्रहणम्। अनुदात्तेत्त्वादेव सिद्धेः। सूत्रे युजरितीकारस्य विवक्षितत्वाच्च। यज्ञपात्रविषयतायास्तत्रासम्भवाच्च। स्वराद्यन्तो पसृष्टादिति वक्तव्यम्(काoवाo)स्वरोच्‌आदिरन्तो वायस्य तादृशेनोपसर्गेण सम्बद्धादित्यर्थः। सम् निस् निर् दुस् दुर् एतद्भिन्नाः सर्वेप्युपसर्गाः सङ्‌गृहीताः। उद्युङ्क्ते, नियुङ्क्ते। अयज्ञपात्रेषु किम्? द्वन्द्वं न्यञ्चिपात्राणि प्रयुनक्ति।
(अष्टाoसूo1-3-65)
समः क्ष्णुवः(अष्टाoसूo1-3-65)। सम्पूर्वात्क्ष्णुधातोः प्राग्वत्। "समोगम्यृच्छिभ्याम्'(अष्टाoसूo1-3-29)इत्यतो विच्छिद्य पाठः सकर्मकादपि विधानार्थः। संक्ष्णुते शस्त्रम्।
(अष्टाoसूo1-3-66)
भुजोऽनवने(अष्टाoसूo1-3-66)। रक्षणातिरिक्तेऽर्थे वर्त्तमानाद् भुजेः प्राग्वत्। "भुजोऽभक्षणे' इति वक्तव्येऽनवन इति वचनमर्थान्तरेष्वपि यथा स्यात्। भुजेर्हि पालनाभ्यवहारादिवोपभोग आत्मसात्‌करणं चार्थः। ओदनम्भुङ्क्ते अभ्यवहरतीत्यर्थः।
'बभुजे पृथिवीपालः पृथिवीमेव केवलाम्'।
"दि-1--1.`भुवम्' इति पाठः मल्लिनाथकृतसञ्जीविन्याम्।-वं मरुत्वानिव भोक्ष्यते महीम्"।(रo3-4)।
नेह पालनमर्थः किन्तूपभोग आत्मसात्करणं वा। एतेन "वृद्धो जनो दुःखशतानि भुङ्क्ते" इति व्याख्यातम्। अनवने किम्? महीं भूनक्ति। रुधादेरेवेह ग्रहणम्। अवनप्रतिषेधात्। पठन्ति हि-"सयोगो विप्रयोगश्च" इत्युपक्रम्य "विशेषस्मृतिहेतवः" इति। यथा दोग्ध्रीपर्यायो धेनुशब्दः संसर्गिभिर्विशेषेऽवस्थाप्यते। `सवत्सा धेनुरानीयतां' `सकिशोराः' `सवर्करा' इति, तथाऽवत्साऽकिशोराऽबर्करेति गौर्धेनुर्वडवा अजाच क्रमेणानीयते नान्या तथेहापि। तेन "भुज कौटिल्ये'(रुoआo1455)इत्यस्य तुदादेरग्रहणान्नेह-विभुजति पाणिमिति।
(अष्टाoसूo1-3-67)
णेरणौ यत्कर्म णौ चेत्स कर्त्तऽनाध्याने(अष्टाoसूo1-3-67)। ण्यन्तादात्मनेपदं स्यादनाध्याने। अणौ यत्कर्म णौ चेदिति द्वितीयं वाक्यम्। कर्मेह क्रिया णिच्प्रकृत्युपात्ता या सैव चेण्ण्यन्तेनोच्येतेत्यर्थः। सकर्तेति तृतीयं वाक्यम्। अणावित्याद्यनुवर्तते कर्मेह कारकं शब्दाधिकाराश्रयणात्। णिच्प्रकृतेरर्थं प्रति यत्कर्म कारकं स चेण्ण्यन्ते कर्त्तेत्यर्थः। "णिचश्च"(अष्टाoसूo1-3-74)इत्यात्मनेपदं सिद्धेऽपि अकर्त्रभिप्रायार्थमिदं सूत्रम्। कर्त्रभिप्रायेऽपि "विभाषोपपदेन प्रतीयमाने"(अष्टाoसूo1-3-77)इति विकल्पबाधनार्थञ्च। "अणावकर्मकात्"(अष्टाoसूo1-3-88)इति परस्मैपदबाधनार्थञ्च। न चाकर्त्रभिप्राये चरितार्थस्यास्य विकल्पपरस्मैपदाभ्यां पराभ्यां बाधः स्यादिति वाच्यम्। पूर्वविप्रतिषेधाश्रयणात्। अत्र च प्रमाणं `दर्शयते राजा' इति भाष्योदाहरणमिति दिक्। उदाहरणन्तु कर्तृस्थभावकाः कर्तृस्थक्रियाश्च। तत्र हि कर्मवद्भावो नास्तीति वक्ष्यते। प्रकृतसूत्रेणैव त्वात्मनेपदम्। तथा हि-विषयत्त्वापत्त्युपसर्जनविषयत्वापादानवचनो दृशिः सकर्मकाणामशब्दाभिधायितानियमात्। तत्र धातूपात्तव्यापाराश्रयः कर्त्ता धात्वर्थभूतव्यापारव्यधिकरणफलशालिकर्म तथ च `पश्यन्ति भवं भक्ताः' इति प्रयोगः चाक्षुषज्ञानेन विषयीकुर्वन्तीत्यर्थः। यदा तु सौकर्यातिशयविवक्षया प्रेरणांशस्त्यज्यते तदा `पश्यति भवः' इति प्रयोगः विषयीभवतीत्यर्थः। उक्तञ्च--
"निवृत्तप्रेषणं कर्म स्वक्रियावयवैः स्थितम्।
निवर्त्तमाने कर्मत्वे स्वेकर्तृत्वेवतिष्ठते" इति।।
ततः पश्यन्तं प्रेरयन्तीति णिचि `दर्शयन्ति भवं भक्ताः' इति प्रयोगः। पश्यन्तीत्यर्थः। उक्तञ्च--
"निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते" इति।
ततः पुनर्ण्यर्थस्य सौकर्यद्योतनार्थमविवक्षायां `दर्शयते भवः' विषयीभवतीत्यर्थः। तदिह पश्यतिदर्शयत्योः समानार्थतया कर्तृस्थभावकत्त्वाच्च कर्मवद्भावविरहे प्रकृतसूत्रेणात्मनेपदम्। इह हि णिच्प्रकृतिभूतेन दृशिना य एवार्थो द्वितीयकक्षायामुपात्तः स एवं चतुर्थ्यामिति सामानक्रियत्वमस्ति अणौ यत्कर्म प्रथमकक्षायां तदेव कर्तृ। एवं `आरोहयते हस्ती' इत्यप्युदाहरणम्। "आरोहन्ति हस्तिनं हस्तिपकाः'। न्यग्भावयन्तीत्यर्थः। `आरोहति हस्ती' न्यग्भवतत्यिर्थः। ततो निवृत्तप्रेषणाण्णिचि `आरोहयन्ति' आरोहन्तीत्यर्थः। ततः पुनर्ण्यर्थत्यागे `आरोहयते' न्यग्भवतीत्यर्थः। इहापि प्राग्वत्प्रथमतृतीययोर्द्वितीयचतुर्थ्योश्चार्थसाम्याच्चतुर्थी कक्षा उदाहरणम्। सोयं निवृत्तप्रेषणपक्षः। आह च--
"न्यग्भावनं न्यग्भवनं रुहौ शुद्धे प्रतीयते।
न्यग्भावनं न्यग्भवनं ण्यन्तेपि प्रतिप्दयते"।।
        अवस्थां पञ्चमीमाह ण्यन्ततत्कर्मकर्त्तरि।
निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते" इति।।
इह विशिष्टवाचकयोः श्रुद्धण्यन्तयोर्वाच्यावंशौ वाचकभेदात् द्वेधा गणयित्त्वा पूर्वोक्तप्रथमतृतीयकक्षायामवस्थाचतुष्टयञ्चतुर्थकक्षायान्तु पञ्चमी हस्तिनं हस्तिपकाः' इति प्राग्वदेव प्रथमकक्षा। ततः सौकर्यद्योतनार्थं कर्मणा एव प्रेषणमधअयारोप्य णिच् क्रियते। `दर्शयति भवः' `आरोहयति हस्ती' इति पश्यत आरोहतश्च प्रेरयतीत्यर्थः। ततो णिच्प्रकृतिभ्यां णिज्‌भ्याञ्चोपात्तयोर्द्वयोरपि प्रेषणयोर्युगपत्त्यागे `दर्शयते' `आरोहयते' इत्युदाहरणम्। विषयीभवति न्यग्भवतीति च पूर्ववदेवार्थः। सोयमध्यारोपितप्रेषणपक्ष इहाध्यारोपितप्रेषणपक्षे `दर्शयति भवः' `आरोहयति हस्ती' इति द्वितीयकक्षायामतिव्याप्तिं वारयितुं समानक्रियत्वपरं द्वितीयं वाक्यम्। तेन प्रेषणाधिक्यान्नातिव्याप्तिः। निवृत्तप्रषेणपक्षे `दर्शयन्ति भवम्' `आरोहयन्ति हस्तिनम्' इत्येवंरूपं तृतीयं वाक्यम्। इह तु अणौ कर्मणोर्भवहस्तिनोः कर्मत्वमेव न तु कर्तृतेति नातिव्याप्तिः अत्र प्राञ्चः-अणौ यत्कर्मेति वाक्यं कर्मान्तरनिवृत्तिपरम्। तथा हि-यत्तदोर्नित्यसम्बन्धादिह यच्छब्देन तच्छब्द आक्षिप्यते। धर्मान्तरस्य चानिर्द्देशादुद्देश्यतयापि श्रुतं कर्मत्वमेव विधीयते। तच्च विधीयमानं सामर्थ्याण्णेरित्यस्य सन्निहितत्त्वाच्च ण्यन्तावस्थायामेव विधीयते। न ह्यणौ तद्विधानं सम्भवति अणौ यत्कर्मेत्यनुवादसामर्थ्यादेव तत्सिद्धेः। तदेवमणौ यत्कर्मेत्येतावत एवाणौ यत्कर्म णौ चेत्तत्कर्मेत्यर्थः फलितः। अनेन च कर्मान्तरनिवृत्तिः क्रियते। न त्त्वणौ कर्मणो णौ कर्मत्वं प्रतिपाद्यते। स कर्मेत्युत्तरवाक्येन तस्य कर्तृत्त्वप्रतिपादनात्। एकस्य युगपदेकस्यां क्रियायां कर्मकर्तृत्त्वयोरसम्भवात्तस्मात्,
"उद्देशप्रतिनिर्देशाल्लब्धे यत्सङ्ग्रहे पुनः।
दद्ब्रहो वाक्यभेदेन कर्मान्तरनिवृत्तये"।
ततो णौ चेदिति वाक्यान्तरम्। अणौ यदित्येव अणौ यत्प्रातेपाद्यं वस्तु तदेव णौ प्रतिपाद्यञ्चेदित्यर्थः इति व्याचख्युः। अत्रेदं चिन्त्यम्-कर्मान्तरनिवृत्तिपरं व्याख्यानं यद्यपि कर्त्तुं शक्यं तथापि तस्य फलं दुर्ल्लभम्। `आरोहयमाणो हस्ती' `स्थलमारोहयति मनुष्यन्' इत्यस्य व्यावृत्तिः फलमिति चेन्न, तत्र समानक्रियत्वाभावात्। "णौ चेत्" इति वाक्यं हि प्रतिपाद्यसाम्यार्थमिति वृत्तिपदमञ्जर्योः स्थितम्। न चेह तदस्ति। न चास्तु वृत्यादिमते दोषोऽयं भाष्यकैयटयोस्तु समानक्रियत्वस्यानुक्तत्वात्कर्मान्तरव्यावृत्तिफलकं वाक्यं सार्थकमेवेति चेत्, न, भाष्यमतेपि समानक्रियत्वस्य व्याख्येयत्वात्। तस्यानुक्तत्वेप्यप्रत्याख्याततया सम्मतत्वात्। अन्यथा अध्यारोपितप्रेषणे द्वितीयकक्षायामतिप्रसङ्गात्। भाष्यवार्त्तिकयोः कर्मशब्दस्य क्रियापरतयैव व्याख्यातुं शक्यत्वाच्च। अभ्युपेत्यापि ब्रूमः-मास्तु भाष्यमते समानक्रियत्वं तथापि `दर्शयते भृत्यान् राजा' इत्युदाहरणं व्याचक्षाणेन कैयटेन अणौ ये कर्तृकर्मणी तद्भिन्नं कर्म व्यावर्त्यते इति तावत्स्पष्टीकृतम्। तथा च `मनुष्यान्' इत्यस्याणौ कर्तृतया गत्यर्थाद् द्रूहेर्णौ कर्मत्वेऽपि दुर्वारमात्मनेपदम्। मनुष्यस्थलयोरणौ कर्तृकर्मणोरेवेह कर्मतया तदितरकर्माभावात्। अपि च, सकर्त्तेत्यंशोऽपीह नास्ति। हस्तिन एव कर्तृत्त्वात्। स्यादतेत्-`आरोहयमाणः' इत्यत्राणौ कर्मणो हस्तिन एव कर्तृत्त्वं स एव च `स्थलमारोहयति' इत्यत्रापि कर्त्तेति, तदपि न। प्रत्यासत्तिबलेनैवातिप्रसङ्गभङ्गात्। तथा हि-ण्यन्तादात्मनेपदं स्यादणौ यत्कर्म स चेत्कर्त्तेत्युक्ते प्रत्यासत्तेरेतद्गम्यते। "येन णिचाण्यन्तादात्मनेपदं विधित्सितं तत्प्रकृतौ यत्कर्म स चेत्कर्त्ता" इति। इह तु यत्रायमुपाधिः कृतमेव तत्रात्मनेपदम्। `आरोहयमाणः' इति यत्र तु न कृतं `स्थलमारोहयति' इति न तत्रायमुपाधिरस्ति, येनातिव्याप्तिः स्यात्। यत्तु हरदत्तेनोक्तम्-"हस्तिपकानारोहयति हस्ती इत्यत्र मा भूत्" इति। तत्रेदं वक्तव्यम्-किमिदमध्यारोपितप्रेषणपक्षे द्वितीयकक्षायामुदाहरणं किं वा निवृत्तप्रेषणपक्ष इति? नाद्यः, णिज्वाच्यव्यापारभेदेन समानक्रियत्त्वाभावात्। न द्वितीयः, तत्राद्ययोः कक्षयोरण्यन्तत्त्वात्। तृतीयस्यान्तु हस्तिनः कर्तृत्वायोगात्। हस्तिपकानां कर्मत्त्वासम्भवाच्च। तस्माच्चतुर्थी परिशिष्यते। तत्रापि न्यग्भवतीत्यर्थापर्यवसानेन कर्मणो नान्वयः स्पष्ट एव। स्वादेतत्-`दर्शयते भृत्यान् राजा' इति तावद्भाष्ये स्वीकृतं तत्समर्थनाय अणौ ये कर्तृकर्मणी तदितरकर्मव्यवच्छेदोऽभिप्रेत इत्याह कैयटः। तस्याप्ययमाशयः-अणौ यत्कर्मेत्यत्र "कर्त्तरि कर्म"(अष्टाoसूo1-3-14) इत्यतोनुवृत्तं `कर्त्तरि' इत्येतत्प्रथमया विपरिणम्यते। यश्च यच्च यदिति "नपुंसकमनपुंसकेन"(अष्टाoसूo1-2-69)इत्येकशेषः। तेन कर्मकर्त्रोर्णौ कर्मत्त्वेप्यदोषः। एवञ्च "करेणुरारोहयते निषादिनम्" इति माघप्रयोगौप्युपपद्यत इति। एवं स्थिते निवृत्तप्रेषणाध्यारोपितप्रेषणपक्षयोर्द्वयोरपि चरमकक्षायामकर्मकतया भाष्यकैयटादिग्रन्थाः सर्वएवानन्विताः स्युस्तत्किं हरदत्तं प्रत्येव पर्यनुयोगेन। एतावानेव हि भेदः भाष्यमतेऽणौ ये कर्तृकर्मणोरिति व्याख्यानादुदाहरणमिदं वृत्तिकारहरदत्तादिमते तु प्रत्युदाहरणम्। अणौ यत्कर्मेत्येव व्याख्यानादिति। अत्रोच्यते-अननन्वयस्तावदुरुद्धरः। बाधे दृढेऽन्यसाम्यात्किं दृढेन्यदपि बाध्यतामिति न्यायात्। `गम्भीरायां नद्यां घोषः' इत्यत्र गम्भीरनदीपदार्थयोरेभेदबोदानन्तरं तीरलक्षणायामपि प्राथमिकबोधमादाय गम्भीरपदसार्थक्यवदिहाप्यध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मष्यन्विते ततो णिजर्यस्येव कर्मणोऽपि त्यागे णिचः कर्मपदस्य च प्राथमिकबोधमादाय कथं चित्सार्थक्यम्। स्वज्ञाप्यसम्बन्धो लक्षणेत्यभ्युपगमात्। एषैव "अर्थवादैः प्राशस्त्यलक्षणायां गतिः" इति कैयटस्योक्तिसम्भवो बोध्यः। निष्कर्षस्तु कर्मव्यवच्छेदवाक्यार्थो भाष्यवार्त्तिकयोरनभिमत एव, उक्तरीत्या प्रयोजनाभावात्। ग्रन्थस्तु कर्मपदस्य क्रियापरतायां सुस्थ एव। उदाहरणेषु तु भृत्यानित्यादेरविवक्षायां कर्मव्यापारमात्रे विवक्षिते सिद्धं भवतीत्येवाशयो बोध्यः। "स्मरयत्येनं वनगुल्मः स्वयमेव" इति भाष्यवृत्त्योर्व्याख्यावसरे एनमिति कर्मणो विवक्षायाः केयटहरदत्ताभ्यामुभाभ्यामपि शरणीकृतत्त्वाच्च। यत्तु सूत्रशेषे कैयटेनैनमित्यस्य विवक्षेति पुगः प्रतिपादितं तदेव त्वापातत इति दिक्। तस्मात्--
"भृत्यादीनां परित्यागाच्छब्दभेदात्परिग्रहात्।
कर्मवाक्ये च तादर्थ्यवर्मनात्सर्वमुज्ज्वलम्"।।
स्यादेतत्-सकर्मकाणां सर्वेषामंशद्वयाभिधायितया कर्मकर्त्तरि कर्मवद्भावातिदेशादेव सिद्धानीह मूलोदाहरणानि। नचाध्यारोपितप्रेषणपक्षे `आरोहयतौ हस्तिनः' कर्मत्वाभावात्समानधातौ च कर्मत्वाभावेन `पचत्योदनं देवदत्तः' `राध्यत्योदनः स्वयमेव' इतिवात्कर्मवद्भावो न प्राप्नोतीति वाच्यम्। निवृत्तप्रेषणप्रक्रिययैव सकललक्ष्यसङ्ग्रहात्। अध्यारोपितप्रेषणपक्षपरित्यागेऽपि क्षत्यभावात्। न च दृशेः कर्तुस्थभावकतया रुहेश्च कर्तृस्थक्रियतया कर्मवद्भावो न प्राप्नोतीति वाच्यम्। पचिभिद्यादिभ्यो वैलक्षण्यस्य दुरुपपादत्वात्। विक्लेदनाद्विधाभावनयोरपि कर्तृस्थतापत्तौ कर्मवद्भावातिदेशस्य निर्विषयतापत्तेः। तत्र व्यापारांशस्य कर्तृस्थत्वेऽपि विक्लित्तिद्विधाभवनरूपं फले कर्मस्थे इति। यदि तर्हि दृशिरुह्योरपि विषयत्वन्यग्भावौ कर्मस्थाविति तुल्यम्। तस्मादिह वैषम्ये बीजं वक्तव्यमिति चेत्, अत्राहुर्भर्तृहरिः-
"विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता।
क्रियाव्यवस्थात्वन्येषां शब्दैरेव प्रकल्पिता" इति।।
अस्यार्थः-यत्र क्रियाप्रयुक्तो विशेषो दृश्यते यथा-पक्वेषु तण्डुलेषु यथा वा। छिन्नेषु काष्ठेषु तत्र क्रिया स्थिता। तेन `पच्यते ओदनः "छिद्यते काष्ठम्' इति कर्म्मवद्भावः सिद्धः। अन्येषां मते-अन्योषां धातूनां वाशब्दैरेव क्रियाव्यवस्था। शब्देन कर्तृव्यापारस्यैव प्राधान्येनावगमात्कर्तृस्थतेत्यर्थः। उद्देशतापि क्वचित्कर्मस्थांशस्य क्वचित्तु व्यापारांशस्येति औत्सर्गिकं नियामकं बोध्यं तदिह दर्शनरोहणाभ्यां विषये न्यग्भूते च विशेषानुपलम्भात्कर्तृस्थ एवेह भावः क्रिया च। उद्देशानुरोधाच्च। `अहं पश्येयम्' इति ह्युद्देशः न तु अयं विषयो भवत्वित्येवम् `अहमुपरिगच्छेयम्' इत्युद्देशो न तु `हस्तिनो न्यग्भावो भवतु' इति। उपरिगमनरूप एव च व्यापारविशेषो रुहेरर्थो न तु न्यग्बावनमात्रम्। भूमिष्ठे वृक्षस्य शाखां हस्ताभ्यामवनमयत्यपि आरोहतीत्यप्रयोगात्। अत एव "यद्धितुपरं छन्दसि"(अष्टाoसूo8-1-56)इत्यत्र भाष्यं-"रुहिर्गत्यर्थः" इति। "अत एव चाणौ कर्त्तुर्णौ कर्मत्वम्। पचिच्छिद्योस्तु विक्लित्तिद्विधाभवनरूपो विशेषः कर्मणि दृष्टः तदुद्देशेनैव च कारकव्यापार इति महद्वैषम्यम्। एवञ्च `आरुह्यते हस्ती' इति कर्मवद्भावं प्रदर्शयन्तो भाष्यन्यायविरोधादुपेक्ष्याः" इति कैयटः। एतेन--
"अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च।
यत्कृपावशतस्तस्मै नमोस्तु गुरवे सदा"।।
इति प्रयोगो व्याख्यातः। न चैवं क्रियत इति न स्यादिति वाच्यम्। यत्नार्थतावादिनामेतद्दोषप्रसङ्गेऽपि भूवादिसूत्रस्थबाष्यानुसारेण करोतेरभूतप्रादुर्भावार्थतामभ्युपगच्छतामस्माकं सर्वसामञ्जस्यात। एवञ्च कर्तृस्थभावक्रियेषु कर्मवद्भावाप्राप्तेर्विध्यर्थमिदं सूत्रमिति स्थितं भाष्ये। `लावयते स्वेयमेव' इत्यादौ तु कार्यातिदेशपक्षे परत्वात् "कर्मवत्कर्मणा"(अष्टाoसूo3-1-87)इत्येवात्मनेपदम्। शास्त्रातिदेशेतु "भावकर्मणोः"(अष्टाoसूo1-3-13)इत्येतदपेक्षया परत्वात् णेरणादिसुत्रेणेत्यवधेयम्। यदि त्वणौ ये कर्तृकर्मणी तद्भिन्नकर्मनिवृत्तिर्भाष्यकृतोभिप्रेता स्यात्तर्हि सकर्मकाणां मध्ये तत्सूत्रोदाहरणतापत्तौ कर्मस्थक्रिया अप्युदाहरणं स्युः। न हि तत्रातिदेशः सुलभः। "कर्मवदकर्मकाणाम्" इति वक्ष्यमाणत्वात्। तथा नियमार्थत्वपराणां यक्चिणोः प्रतिषेधार्थं त्वित्यादि भाष्यवार्त्तिकग्रन्थानामप्यसामञ्जस्यं स्यादिति दिक्। तस्मादिहास्मदुक्तमेव वाक्यार्थत्रयं मुनित्रयसम्मतम्। जयादित्यन्यासकारहरहत्तकैयटादिसकलग्रन्थकाराणामिह महानेव पूर्वापरविरोधो विपश्चिद्भिरुद्धर्त्तव्यः। अस्मदुक्तिस्तु मात्सर्यमुत्सार्य परिभावनीयेत्यलं बहुना। यत्तु "करेणुरारोहयते निषादिनम्" इति माघे प्रयुक्तं तण्णिचश्चेति सिद्धम्। एतेन--
"स सन्ततं दर्शयते गतस्मयः।
कृताधिपत्यामिव साधु बन्धुताम्"।।(किo1-10)
इति व्याख्यातम्। बन्धुता तं पश्यति, तां दर्शयते। यद्वा-बन्धुतां कृताधिपत्यामिवलोकेः पश्वयति तां दर्शयते इत्यर्थः। आद्ये बन्धुता अणौ कर्त्री। द्वितीये त्वणौ सा कर्म। उभयथापि णौ कर्मत्वं निर्ववादमेवेति दिक्। णेरिति किम्? आरोहतीति निवृत्तप्रेषणान्मा भूत्। न च "णौचेत्" इति वाक्यशेषे श्रुतत्वाण्णेरेव भविष्यतीति वाच्यम्। अणावित्यस्यापि श्रुतत्त्वात्। किं चोत्तरार्थमवश्यं णेरिति वाच्यमेव। तदिहैव स्पष्टार्थमुक्तम्। हेतुमण्णिज्ग्रहणार्थंच। भीस्म्योस्तस्यैव सम्भवात्। तेन गणयते गणः स्वयमेवेति सिद्धम्। गणयतिर्हि विभज्य भागशोऽवस्थापने वर्त्तते। तथा च कर्मस्थभावकादस्मान्निवृत्तप्रेषणाद्धेतुमण्णौ पुनः प्रेषणांशत्यागे सत्यात्मनेपदमिष्टम्। णेरिति हेतुमण्णिचा सन्निधाना दणावित्यत्रापि तस्यैव ग्रहणाच्चुरादि णौ यत्कर्म तत्कर्तृकाद्धेतुमण्ण्यन्तादपि सिध्यतीति। यत्तु वृत्तिकृता गणयतीत्येव रूपमवस्थाचतुष्टयेऽप्युदाह्रियते। तत्र सङ्ख्यानिमित्तस्य परिच्छेदस्य ज्ञानविशेषात्मकतया कर्तृस्थस्य दातुवाच्यतामाश्रित्य कर्मवद्भावाप्रवृत्त्या द्वितीयावस्थायां परस्मैपदमुपपादनीयम्। चतुर्थावस्थायां तु परस्मैपदमशुद्धमेव। णेरणावित्यत्रापि "अणावकर्मकात्"(अषअटाoसूo1-3-88)इत्यत्रेष हेतुमण्णिच एव ग्रहणस्य न्याय्यत्वात्। तथैव भाष्ये स्थितत्वाच्च। भागशोऽवस्थापनपरत्वे तु द्वितीयावस्थायामप्यात्मनेपदमिति विशेषः। कर्मवद्भावावस्य दुर्वारत्वात्। यक्चिणौ तु "णिश्रन्थि"(काoवाo)इत्यादिनिषेधान्न स्त इति दिक्। णौ चेदिति किम्? निवृत्तप्रेषणाण्णौ `आरोहयन्ति हस्तिपकाः' इति तृतीयपक्षायां मा भूत्। असति हि णौ चेद्ग्रहणे श्रुतत्वादणावेव कर्मत्वं कर्तृत्वञ्च लभ्येत। न चैकस्योभयरूपता बधितेति वाच्यम्। प्रथमावस्थायां कर्मणो द्वितीयावस्थायां कर्तृत्वस्य निर्विवादत्त्वात्। अनाध्याने किम्? स्मरति वनगुल्मङ्कोकिलः। ततश्चतुर्थावस्थायां स्मरयति वनगुल्मः। उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः। "स्मृ आध्याने,"(भ्वाoपo809)घटादिः।
(अष्टाoसूo1-3-68)
भीस्म्योर्हेतुभये(अष्टाoसूo1-3-68)। आभ्यां ण्यन्ताभ्यामात्मनेपदं स्यात्प्रयोजकादेव चेद्भयविस्मयौ स्त। सूत्र भयग्रहणं विस्मयस्याप्युपलक्षणम्। मुण्डो भीषयते। "भियो हेतुभये षुक्"(अष्टाoसूo7-3-40)इति षुक्। "विभेतेर्हेतुभये"(अष्टाoसूo6-1-56)इति वैकल्पिकात्वपक्षेतु `भापयते' अत्र षुङ्न। तद्विधावीकारप्रश्लेषात्। जटिलो विस्मापयते। "नित्यं स्मयतेः"(अष्टाoसूo6-1-57)इत्यात्वम्। "अर्त्तिह्री"(अष्टाoसूo7-3-36)इति पुक्। हेतुभये किम्? कुञ्चिकया बाययति। रूपेण विस्माययति। इह करणाद्भयविस्मयौ न तु हेतोः। यद्यपि हेतोर्व्यापारे णिज्विधानात्प्रयोजकञ्चेदितीत्यर्थः। विशेषणोपादानसामर्थ्यात्। अत एव `मौंड्येन बापयति' इत्यत्र न मौंड्याख्यधर्मस्य भेदेन विवक्षणात्। उदाहरणे तु तादात्म्यस्य विवक्षणाद्धेतोरेव भयम्। एतेन--
"मनुष्यवाचा मनुवंशकेतुं-विस्माययन्"।(रo2-33)
इति व्याख्यातम्। इह हि न सिंहाद्विस्मयः किन्तु मनुष्यवाचेति करणात्। अत एवात्र "नित्यं स्मयतेः"(अष्टाoसूo6-1-57)इत्यात्वं न। तद्विधाने "बिभेतेर्हेतुभये"(अष्टाoसूo6-1-56)इत्यतो हेतुभयानुवृत्त्या भयग्रहणस्य च स्मयोपलक्षणतया व्याख्यानात्। क्वचित्तु `विस्मापयन्' इति पुगागमपाठः प्रामादिकः। यद्वा-वाक् विस्मापयते सिंहस्तु विस्मापयमानां वाचं प्रयुङ्क्ते विस्मापयति। व्यन्ताण्णिचू। वाचेति तु प्रयोज्ये कर्त्तरि तृतीया न तु करणे इति समाधेयम्।
(अष्टाoसूo1-3-69)
गृधिवञ्च्योः प्रलम्भने(अष्टाoसूo1-3-69)। प्रतारणार्थाभ्यामाभ्यां ण्यन्ताभ्यामात्मनेपदं स्यात्। माणवकं गर्धयते वञ्चयते वा। प्रलम्भने किम्? श्वानङ्गर्धयति। अभिकांक्षामस्योत्पादयतीत्यर्थः। अहिं वञ्चयति। वर्जयतीत्यर्थः।
(अष्टाoसूo1-3-70)
लियः सम्मानशलिनीकरणयोश्च(अष्टाoसूo1-3-70)। सम्माननशलिनीकरणयोश्चकारात्प्रलम्भने च वर्त्तमानाण्ण्यन्ताल्लीधातोरात्मनेपदं स्यात्। "लीङ् श्लेषणे"(दिoआo1139)दिवादिः, "ली श्लेषणे"(क्र्याo1502)क्र्यदिः, उभयोरपि ग्रहणम्। निग्नुबन्धकपरिभाषा तु प्रत्ययविषयिणी। "वामदेवाड्ढ्यड्यौ"(अष्टाoसूo4-2-9)इति डित्करणेन ज्ञापिता हि सा। ज्ञापकञ्च सजातीयविषयकमेवेत्युत्सर्ग-। सम्मानने--जटामिरालापयते। पूजां समधिगच्छतीत्यर्थ। अकर्मकश्चायम्। धात्वर्थेन क्रोडीकृतकर्मत्वात् `पुत्रीयति' इत्यादिवत्। शालिनीकरणे-श्येनो वर्त्तिकामुल्लापयते। न्यक्करोतीत्यर्थः। प्रलम्भन--बालमुल्लापयते। "विभाषा लीयतेः"(अष्टाoसूo6-1-51)इति णावात्वं विधीयते। तदस्मिन्विषये नित्यम्। अन्यत्र तु विकल्पः। व्यवस्थितविभाषा हि सा। न च "लीयतेः"(अष्टाoसूo6-1-51)इति विहितमात्वं कथं लीनातेः स्यादिति वाच्यम्। लीनातिलीयत्योर्यका निर्देशोयमिति सिद्धान्तात्। सम्माननादिष्विति किम्? बालकमुल्लापयति। आश्लेषयतीत्यर्थः।
(अष्टाoसूo1-3-71)
मिथ्योपपदात्कृञोऽभ्यासे(अष्टाoसूo1-3-71)। ण्यन्तात्कृञो मिथ्योपपदादात्मनेपदं स्यात्पौनःपुन्ये। पदं मिथ्या कारयते। सापचारं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः। "नित्यविप्सियोः"(अष्टाoसूo8-1-4)इति द्वित्वं तु न भवति। आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात्। करोतिश्चेहोच्चारणवृत्तिरकर्मकः। ण्यन्तस्तूच्चारणवृत्तिः सकर्मकश्च। मिथ्योपपदात्किम्? पदं सुष्ठु कारयति। कृञः किम्? पदं मिथ्या वाचयति। अभ्यासे किम्? सकृत्पदं मिथ्या कारयति।
(अष्टाoसूo1-3-72)
स्वरितञितः कर्त्रभिप्राये क्रियाफले(अष्टाoसूo1-3-72)। स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्क्रियाफले कर्तृगामिनि सति। यजते, सुनुते। कर्त्रभिप्राये किम्? यजन्ति याजकाः, सुन्वन्ति दक्षिणादि तु न फलम्। उक्तं हि हरिणा--
"यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः।
तत्प्रधानफलं तेषां न लाभादि प्रयोजनम्"।। इति ।
पचा पाकः। षित्त्वादङ्। केचित्तु प्रयोजकव्यापारवृत्तिभ्यो धातुभ्यस्तद्‌द्योतकमात्मनेपदमनेन विधीयते। कुरुते। कारयतीत्यर्थः। `कारयते' इत्यत्र तु प्रयोजकव्यापारद्वयमर्थ-। णिजन्ताण्णिचि यथा "कर्त्रभिप्राये" इति सूत्रांशोपि कर्तृपदस्याहेतुकर्तृपरत्वादुक्तार्थतात्पर्यक एवेत्याहुः। उक्तञ्च हरिणा--
क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता।
असती वा सती वापि विवक्षितनिबन्धना।।
येषाञ्चित्कर्त्रभिप्राये णिचा सह विकल्प्यते।
आत्मनेपदमन्येषां तदर्था प्रकृतिर्यथा।।
क्रीणीष्व, पचते, धत्ते, चिनोति, चिनुतेऽपि च।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते"।। इति।
असती चेत्यनेन "कमलवनोद्धाटनं कुर्वते ये" इत्यादयः प्रयोगाः समर्थिताः। तत्रापि स्वार्थताविवक्षायाः सम्भवात्। ण्यर्थस्य वाचकं द्योतकं वा आत्मनेपदमिति मतद्वयं सङ्गृहीतं केषां चिदित्यादिना श्लोकेन। चिनोति चिनुत इति, चिनोति चापयति चेति क्रमेणार्थः।
(अष्टाoसूo1-3-73)
अपाद्वदः(अष्टाoसूo1-3-73)। अपपूर्वाद्वदतेरात्मनेपदं स्यात्कर्तृगामिनि फले संविधाने च। न्यायमपवदते। कर्त्रभिप्राये किम्? अपवदति।
(अष्टाoसूo1-3-74)
णिचश्च(अष्टाoसूo1-3-74)णिजन्तादात्मनेपदं कर्तृगे फले संविधाने च। कटं कारयते। कथं "कृतश्मश्रुरपि श्मश्रूणि कारयति" इति भाष्यम्। संविधाने इति व्याख्याने भविष्यति। आद्यपक्षे तु कर्तृगामित्त्वाविवक्षायां भविष्यति। अत्र कश्चित् लक्षयतेः स्वरितेत्करणाञ्ज्ञापकाच्चुरादिणिजन्तादिदमात्मनेपदं न भवतीति। आह च-
स्वरितेत्स्याद्ग्रहिः क्र्यादौ लक्षिश्चैकश्चुरादिषु। इति।
चन्द्रस्तु-"णिजभावपक्षे स्वरितेत्त्वस्य सार्थकत्त्वान्नोक्तार्थज्ञापकता अतश्चुरादेरप्ययं विधिर्भवत्येव" इत्याह। मैत्रेयस्तु स्वरितेत्त्वमस्यानाकरमित्याहः तदेतद्धरदत्तोऽपि सञ्जग्राह-
एष-1--1.दोधकं नाम वृत्तिमिदम्-"दोधकवृत्तमिदं भभभाद्गो"(वृoरo3-34)इति तल्लक्षणात्।- विधिर्नचुरादिणिजन्तात्स्यादिति कश्चन निश्चिनुते स्म।
(अष्टाoसूo1-3-75)
समुदाङ्भ्यो यमोऽग्रन्थे(अष्टाoसूo1-3-75)। एभ्यो यमः प्राग्वत्कर्तृगे फले संविधाने च न तु ग्रन्थे विषये। आङ्पूर्वकस्य वचनं सकर्मकार्थम्। अकर्मके तु "आङो यमहनः"(अष्टाoसूo1-3-28)इत्येव सिद्धम्। व्रीहीन्सयच्छते भारमुद्यच्छते वस्त्रमायच्छते। अग्रन्थे किम्? उद्यच्छति चिकित्सां वैद्यः। इहाधिगमपूर्वकमुद्यमं यमेरर्थः। चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः। कर्त्रमिप्राय इत्येव। संयच्छति, उद्यच्छति, आयच्छति।
(अष्टाoसूo1-3-76)
अनुपसर्गाज्ज्ञः(अष्टाoसूo1-3-76)। अस्मात्प्राग्वत्कर्तृगे फले संविधाने च। "अकर्मकाच्च"(अष्टाoसूo1-3-45)इत्येव सिद्धे वचनमिदं सकर्मकार्थम्। गाञ्जानीते। अनुपसर्गात्किम्? स्वर्गं लोकं न प्रजानाति। कथं तर्हि भट्टिः-
इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य। इति।
कर्मण्ययं लिट्। `नृपेण'इति तृतीयान्तस्य विपरिणामादिति जयमङ्गला।
(अष्टाoसूo1-3-77)
विभाषेपपदेन प्रतीयमाने(अष्टाoसूo1-3-77)। स्वरितेत्प्रभृतिभ्य आत्मनेपदं वा स्यात् समीपोच्चारितपदेन क्रियाफलस्य कर्तृगत्वे प्रतीते। "स्वरितञितः"(अष्टाoसूo1-3-72)इत्यादि पञ्चसूत्र्या यदात्मनेपदं विहितन्तत् क्रियाफलस्य कर्तृगत्त्वे उपपदे न द्योतिते न प्राप्नोति। उक्तार्थानामप्रयोगात्। तत्राप्राप्तविभाषेयम्। उपपदं चेह समीपे श्रूयमाणं पदं न तु पारिभाषिकम्। असम्भवात्। इह च पञ्चसूत्री अनुवर्त्तते। स्वे यज्ञं यजति यजते वा। स्वं कटं करोति कुरुते वा। स्वं पुत्रमपवदति अपवदते वा। स्वं व्रीहिं संयच्छति संयच्छते वा। स्वाङ्गां जानाति जानीते वा।
(अष्टाoसूo1-3-78)
शेषात्कर्त्तरि परस्मैपदम्(अष्टाoसूo1-3-78)। आत्मनेपदनिमित्तहीनाद्धातोः कर्त्तरि परस्मैपदं स्यात्। याति, वाति। कथं तर्हि--
स्मराग्नौ जुव्हानाः सुरभिघृतधाराहुतिशतैः(श्लोo33)
इति सौन्दर्यलहरी। सत्यम्। नायं शानच् किन्तु चानश्। एतेन "रसमानसारसेन(शिo6-75)इति माघो व्याख्यातः।
(अष्टाoसूo1-3-79)
अनुपराभ्यां कृञः(अष्टाoसूo1-3-79)। आभ्यां कृञः परस्मैपदं स्यात् कर्तृगेऽपि फले गन्धनादावपि। अनुकरोति, पराकरोति। ननु कर्मकर्तर्यपि प्राप्नोति। `अनुक्रियते स्वयमेव' इति। नैष दोषः। कार्यातिदेशपक्षे "कर्मवत्कर्मणा"(अष्टाoसूo3-1-87)इत्यात्मनेपदेन परेणास्य बाधात्। शास्त्रातिदेशे तु "भावकर्मणोः"(अष्टाoसूo1-3-13)इत्यस्य पूर्वत्त्वात्परेणानेन यद्यपि भाव्यं तथापीह "कर्त्तरि कर्म(अष्टाoसूo1-3-14)इत्यतः "शेषात्कर्तरि"(अष्टाoसूo1-6-78)इत्यतश्च कर्तृग्रहणद्वयमनुवर्त्तते तेन कर्तैव यः कर्ता तत्रायं विधिर्न तु कर्मकर्त्तरीति बोध्यम्।
(अष्टाoसूo1-3-80)
अभिप्रत्यतिभ्यः क्षिपः(अष्टाoसूo1-3-80)। "क्षिप प्रेरणे"(तुoउo1216)स्वरितेत्। अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति। एभ्यः किम्! आक्षिपते। कर्त्तरीत्येव। नेह-आक्षिप्यते सूत्रम्। द्वितीयकर्तृग्रहणानुवृत्तेः कर्मकर्त्तर्यपि न।
(अष्टाoसूo1-3-81)
प्राद्वहः(अष्टाoसूo1-3-81)। "वह प्रापणे"(भाoउo1004)स्वरितेत्। प्रवहति। प्रात्किम्? आवहते।
(अष्टाoसूo1-3-82)
परेर्मृषः(अष्टाoसूo 1-3-82)"मृष तितिक्षायाम्"(दिoउo1164)स्वरितेत्। परिमृष्यति। परेः किम्? आमृष्यते। इह परेरिति योगं विभज्य वह इत्यनुवर्त्तनात् परिवहति इति केचिदिच्छन्ति।
(अष्टाoसूo1-3-83)
व्याङ्परिभ्यो रमः(अष्टाoसूo1-3-83)। "रम क्रीडायाम्"(भ्वाoआo0853)अनुदात्तेत्। विरमति, आरमति, परिरमति, एभ्यः किम्? अभिरमते।
(अष्टाoसूo1-3-84)
उपाच्च(अष्टाoसूo1-3-84)। उपपूर्वाद्रमेः प्राग्वत्। सकर्मकार्थोयमारम्भः। अकर्मकात्तु विभाषां वक्ष्यति। स्यादेतत्-उपपूर्वको रमिर्निर्वृत्तिविनाशयोर्वतते। उपरतोध्ययनात्। "उपरता निधनानि" इति यथा। न चानयोरर्थयोः सकर्मकता सम्भवति। सत्यम्। अन्तर्भावितव्यर्थोऽत्रोदाहार्यः। तद्यथा-`यज्ञदत्तमुपरमति। उपरमयतीत्यर्थः।
(अष्टाoसूo1-3-85)
विभाषाकर्मकात्(अष्टाoसूo1-3-85)। उपाद्रमेरकर्मकात्परस्मैपदं वा स्यात्। उपरमति उपरमते वा। निवर्त्तत इत्यर्थः।
(अष्टाoसूo1-3-86)
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः(अष्टाoसूo1-3-86)। एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात्। "णिचश्व"(अष्टाoसूo1-3-74)इत्यस्यापवादः। बोधयति पद्मम्। योधयति काष्ठानि। नाशयति दुखम्। जनयति सुखम्। इह "अणावकर्मकात्"(अष्टाoसूo1-3-88)इति न सिध्यति। अचित्तवत्कर्तृकत्वात्। इङ्-अध्यापयति। प्रुद्रूस्रूणां "निगरणचलनार्थेभ्यश्च"(अष्टाoसूo1-3-87)इत्येव सिद्धे यदा न चलनार्थस्तदर्थं वचनम्। प्रावयति-प्रापयीत्यर्थः। द्रावयति-विलापयतीत्यर्थः। स्रावयति-स्यन्दयतीत्यर्थः। स्यन्दनं द्रवत्वजन्यचलनम्। न चैवं चलनार्थत्वात्सिद्धमिति वाच्यम्। द्रवत्वजन्यतावच्छेदकचलनत्वव्याप्यजातिविशेषे शक्ततयास्य विशेषशब्दत्वेप्यपर्यायत्।
(अष्टाoसूo1-3-87)
निगरणचलनार्थेभ्यश्च(अष्टाoसूo1-3-87)। अभ्यवहारार्थेभ्यः कम्पनार्थेभ्यश्च ण्यन्तेभ्यः परस्मैपदं स्यात्। निगारयति, आशयति, भोजयति, चलयति, चोपयति, कम्पयति। सकर्मकार्थोऽचित्तवत्कर्तृकार्थश्चायमारम्भ-। "आदेः प्रतिषेधो वक्तव्यः" इति काशिका। भाष्यकारस्तु "गतिबुद्धि"(अष्टाoसूo1-4-52)इत्यादिना णौकर्त्तुः कर्मसंज्ञा प्राप्ता "आदिखाद्योः प्रतिषेधः"(काoवाo)इति वचनान्न भवति। कथं तर्हि "आदयत्वन्नं बटुना" इति। अकर्त्रभिप्राये भविष्यति। कर्त्रभिप्राये प्राप्तस्य "निगरणचलन"(अष्टाoसूo1-3-87)इत्यस्य ह्ययं निषेधो न तु "शेषात्कर्त्तरि"(अष्टाoसूo1-3-75)इत्यस्य। कथं
तर्ही श्रीहर्षः--
इमां किमाचामयसे न चक्षुषि चिरं चकोरस्य भवन्मुखस्पृशि। इति।
न च नायं भक्षणार्थः। न पीयतां नाम चकोरजिव्हया कथं चिदेतन्मुखचन्द्रचन्द्रिका।। इति ।
पूर्वार्धानुरोधेन पानार्थत्वादिति वाच्यम्। पानस्यापि भक्षणविशेषात्मकत्त्वात्। सामान्यग्रहेण विशेषस्यापि ग्राह्यत्त्वात्। अन्यथेहैव सूत्रे `चोपयति'इत्युदाहरणासङ्गतेः। चुपेर्मन्दगत्यर्थकत्वात्। इमामित्यस्याकर्मकत्त्वासङ्गातिप्रसङ्गाच्च। गत्यादिसूत्रेण ह्यस्य कर्मसंज्ञा सा च प्रत्यवसानार्थतां विना दुरुपपादेति। अत एव "नपादमि"(अष्टाoसूo1-3-89)इति सूत्रे पाग्रहणं धेट उपसङ्ख्यानञ्च सङ्गच्छते। अन्यथा पाधेटोरप्याचमिवत्पानार्थत्त्वेन निषेधो व्यर्थः स्यात्। न चैवं बुधयुधादित्सूत्रे द्रवतिग्रहणं व्यर्थं चलनविशेषवाचकस्यापि चलनवाचकतानपायादिति वाच्यम्। चलनत्वव्याप्याया अखण्डाया एव जातेः प्रवृत्तिनिमित्तताया उक्तत्वात्। पानन्तु द्रवद्रव्यस्य गलादधः करणम्। तत्र द्रवद्रव्यांशस्याधःकरणे कर्मीभूतस्याधिकस्य भानेऽपि भक्षयतेरर्थस्य भानं निर्विवादम्। यथा मन्दगतौ भासमानायां गतेर्भानम्। अधिकं प्रविष्टं न तु तद्धानिरिति न्यायात्। न च पानत्वमप्यखण्डस्यन्दनत्ववदिति वाच्यम्। तत्साधकानिरुक्तेः। दृष्टान्ते तु कार्यतावच्छेदकतया तत्सिद्धेरिति। उच्यते-`आचामय' इति लोडन्तं छित्वा "किं नाचामयेः" इति व्याख्येयम्। `से' इति तु सम्बोधनं दमयन्त्यः। तथा हि-अस्य स्त्री ई-लक्ष्मीः तया सह वर्त्तमाना सेः तस्याः सम्बोधनं से। सलक्ष्मीके इत्यर्थः।
(अष्टाoसूo1-3-88)
अणावकर्मकाच्चित्तवत्कर्तृकात्(अष्टाoसूo1-3-88)। णेः पूर्वमकर्मकाच्चित्तवत्कर्तृकाण्ण्यन्तात्परस्मैपदं स्यात्। शेते कृष्णस्तं शाययति गोपी। अणौकिम्! आरोहयमाणं प्रयुङ्क्ते आरोहयते। "णेरणौ"(अष्टाoसूo1-3-67)इति सूत्रे उदाहरणत्वेन योऽकर्मको निर्णीतस्तस्माद् द्वितीये णौ मा भूत्। स हि णावकर्मकः निवृत्तप्रेषणाध्यारोपितप्रेषणयोरुभयोरपि न्यग्भवतीत्यर्थे पर्यवसानस्योक्तत्वात्। अकर्मकात्किम्! कटं कुर्वाणं प्रयुङ्क्ते कारयते। चित्तवत्कर्तृकात्किम्? व्रीहीन् शोषयते। अत्र केचित्। चुरादिण्यन्ताद्धेतुमण्णौ "अणौ"(अष्टाoसूo1-3-88)इत्यस्य प्रत्युदाहरणमाहुः। तत्तु भाष्यादिविरुद्धम्। तथा हि-वुधादिसत्रादिह णेरित्यनुवर्तते। बुधादिभ्यश्च हेतुमण्णिरेव सम्भवतीति निषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्यः। तेन चुरादिण्यन्तादपि हेतुमण्णौ भवत्येवेदं परस्मैपदमिति भाष्ये स्थितम्। यत्तु रूपयन्तं प्रयोजयति `रूपयते' इति केन चित्प्रत्युदाहृतं तच्चुरादिण्यन्ताद्धेतुमण्णिचं विधाय तस्य च सौकर्यातिशयात्प्रयोजकव्यापाराविवक्षायां प्रयोज्यव्यापारमात्रवृत्त्या अकर्मकतामाश्रित्य ततो द्वितीये हेतुमण्णिचि बोद्धव्यम्। अत एव `प्रयोजयति' इत्याह। इह हि युजिना णिचा च प्रयुक्तिद्वयं वदता हेतुमण्णिद्वयं सूच्यते। अन्यथा `प्रयुङ्क्ते' इत्येवादर्शयिष्यत्। एवञ्च चेतयमानं प्रयुङ्क्ते `चेतयते' इति केषां चित्प्रत्युदाहरणं यद्वृत्तिकृता दूषितं तत्समर्थितं भवति। स्वार्थण्यन्तादेकस्मिन्नेव हेतुमण्णौ तु `रूपयति' `वेतयति' इत्येव बोध्यम्।
(अष्टाoसूo1-3-89)
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः(अष्टाoसूo1-3-89)। एभ्यो ण्यन्तेभ्यः परस्मैपदं न स्यात्‌। तत्र पिबतिर्निगरणार्थः। इतरे चित्तवत्कर्तृकाः। नृतिश्चलनार्थेऽपि। तेन "अणावकर्मकात्"(अष्टाoसूo1-3-88)इति "निगरणचलन"(अष्टाoसूo1-3-87)इति प्राप्तमिह निषिध्यते। "पा पाने"(भ्वाoपo125)पाययते। "पारक्षणे(अoपo1056)इत्ययन्तु न गृह्यते। "लुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्"(पoभाo)इति परिभाषणात्। तेनाणावकर्मकत्वविवक्षायां परस्मैपदं भवत्येव। पालयति। "पालेर्लुग्वक्तव्यः"(कoवाo)िति लुगागमः। "दमु उपशमे"(दिoपo1203)दमयते। आङ्गपूर्वो "यम उपरमे"(भ्वाoपo184)। आयामयते। "नकम्यमिचमाप्"(गoसूo)इत्यतो नेत्यनुवर्तमाने "यमोऽपरिवेषणे"(गoसूo)इत्यनेनमित्संज्ञाप्रतिषेधः। ङकारविशिष्टस्योपादानमुपसर्गप्रांतपत्त्यर्थम्। तेनान्यान्वितादाकारात्परस्य न। आङ्पूर्वो "यसुप्रयत्नेः(दिoपo1211)। आयासयते। परिपूर्वो "मुह वैचित्ये"(दिoपo1198)। परिमोहयते, रोचयते, नर्त्तयते, वादयते, वासयते। "वस आच्छादने"(भ्वाo1005)इत्यस्य लुग्विकरणत्वादग्रहणम्। पादिषु धेट उपसङ्ख्यानम्(काoवाo)। "धापयेते शिशुमेकं सामीची" प्रत्यवसानार्थत्त्वाच्छिशुमित्यस्य कर्मत्वम्। समीचीति प्रथमाद्विवचनम्। "वा छन्दसि"(अष्टाoसूo6-1-107)इति पूर्वसवर्मदीर्घः। स्यादेतत्, "वत्सान्पाययति पयः"। "दमयन्ती कमनीयतामदम्"। "अवीवदद्वीणां परिवादकेन"। "भिक्षा वासयति" इत्यादिप्रयोगास्तर्हिकथमिति चेत्, अत्राहुः-कर्तृगे फले प्राप्तस्यात्मनेपदस्यापवादो यद्विहितं परस्मैपदं तस्यैवायं निषेधः। यत्त्वकर्त्रभिप्राये "शेषात्"(अष्टाoसूo1-2-78)इति परस्मैपदं तन्निर्बाधमेवेति।
(अष्टाoसूo1-3-90)
वा क्यषः(अष्टाoसूo1-3-90)। क्यषन्तात् परस्मैपदं वा स्यात्। लोहितायति, लोहितायते। नन्विह परस्मैपदाबावपक्षे लकार एवाश्रयेत न त्वात्मनेपदम्। तस्य प्रकृतिविशेषेऽर्थविशेषे च नियतत्वात्। सत्यम्। पूर्वसूत्रे तावदपवादमपनयता प्रतिषेधेनात्मनेपदं प्रवर्त्यत इति निर्विवादम्। स एव च प्रतिषेध इहानुवर्त्यते। तदनुवृतिसामर्थ्याच्चेहात्मनेपदविकल्पः सिध्यति। आत्मनेपदप्रवृत्त्यविनाभूतेन निषेधेनात्मनेपदस्य लक्षणया उपस्थितौ तस्यैव विकल्पनात्। तेन मुक्ते "शेषात्कर्त्तरि परस्मैपदम्'(अष्टाoसूo1-3-78)भविष्यति। प्रकृत्यर्थनियमपक्षे एकवाक्यताविधिश्चेति पक्षे च परस्मैपदविकल्पेपि न कश्चिद्दोष इत्यवधेयम्।
(अष्टाoसूo1-3-91)। द्युतादिभ्यः परस्मैपदं वा स्याल्लुङि। अद्युतत्, अद्योतिष्ट। अलुठत्, अलोठिष्ट। लुङि किम्? द्योतते, लोठते। अनुदात्तेत्त्वान्नित्यं तङ्। नन्विह विकल्पानुवृत्तिर्व्यर्था। "अनुदात्तेतः"(अष्टाoसूo1-3-12)इत्यनेन प्रतिषिद्धस्य परस्मैपदस्यानेन प्रतिप्रसवे कृते "लस्य"(अष्टाoसूo3-4-77)इत्युत्सर्गेणेव पाक्षिकस्यात्मनेपदस्य सिद्धेः। सत्यम्। परस्मैपदे प्रतिप्रसूते आत्मनेपदं न भवतीति ज्ञापयितुं वानुवृत्तिः। तेन "अनुकरोति" इत्यादौ पाक्षिकमात्मनेपदं न भवति। यदा तु "अनुदात्तङितः"(अष्टाoसूo1-3-12)इत्यादिप्रकरणेनात्मनेपदमेव विधीयते "शेषात्"(अष्टाoसूo1-3-78)इत्यादिना च परस्मैपदम्। तदा `अनुकरोति' इत्यादौ परस्मैपदेनात्मनेपदं बाध्यते येन नाप्राप्तिन्यायात्। पक्षे आत्मनेपदप्रवृत्त्यर्थं चेह वाग्रहणमित्यवधेयम्। पक्षद्वयमपीदं "अनुपराभ्याम्"(अष्टाoसूo1-3-79)इति सूत्रे नियमसूत्राणां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति पक्षद्वयस्यापि तत्त्वं निरूपितमस्माभिः। तदप्येतस्माद्भाष्यादुत्थितमित्यवधेयम्।
(अष्टाoसूo1-3-92)
वृभ्द्यः स्यसनोः(अष्टाoसूo1-3-92)। वृतुवृधुशृधुस्यन्दूभ्यः परस्मैपदं वा स्यात्स्ये सनि च। वर्त्स्यति, अवर्त्स्यत्। विवृत्सति, "न वृद्भ्यश्चतुर्भ्यः"(अष्टाoसूo7-2-59)इतीणिनषेधः। पक्षे वर्त्तिष्यते, अवर्तिष्यत। विवर्त्तिषते। स्यसनोः किम्? वर्त्तते। ननु द्युतादिष्वेव वृतादयः पठ्यन्ते। तथा च तक्रकौण्डिन्यन्यायेनेयं प्राप्तिर्वृद्भयः पूर्वां प्राप्तिं बाधेत। ततश्च `अवृतत्, अवर्तिष्ट'इति लुङि पूर्वेम विकल्पो न सिध्येत्। तथाचोत्तरसूत्रे चकारः क्रियते। लुटीति विशेषविधिना स्यसनोरियं प्राप्तिर्मा बाधीति1-1--1.अपादानसंज्ञां बाधते इत्यर्थः।-। अन्यथा कृपेरपि वृताद्यन्तर्भावादनेनैव सिद्धे किञ्चकारेणेति चेत्? सत्यम्, द्युतादिपाठसामथ्यांद्वृतादिभ्यो लुङि भविष्यति। यद्वा लुङीति स्वरयिष्यते।
(अष्टाoसूo1-3-93)
लुटि च क्लृपः(अष्टाoसूo1-3-93)। लुटि स्यसनोश्च कृपेः परस्मैपदं वा स्यात्। कल्प्तासि, कल्प्स्यति, अकल्प्स्यत्। चिक्लृप्सति। "तासि च क्लृपः"(अष्टाoसूo7-2-30) इतीट्प्रतिषेधः। पक्षे कल्पितासे। कल्पिष्यते, अकल्पिष्यत। चिकल्पिषते। इहेणिनषेधो नास्ति। तत्र हि "गमेरिट् परस्मैपदेषु"(अष्टाoसूo7-2-58)इत्यतः परस्मैपदेष्वित्यनुवर्त्तते। ऊदित्वात्पाक्षिक इडभावस्त्वस्त्येव। स्यादेतत्, स्यसनोरित्यस्य स्वरितत्वमेवास्तु "वा क्यषः"(अष्टाoसूo1-3-90)इति वाशब्दस्य यथा। तथा च "स्वरितेनाधिकारः"(अष्टाoसूo1-3-11)हत्येव सिद्धे किञ्चकारेण? सत्यम्, स्पष्टार्थश्चकारः। अथ एवानुकर्षणार्थाः सर्वे चकारा भाष्ये प्रत्याख्याताः।
।। इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य तृतीये पादे द्वितीयमान्हिकम्।। पादश्च समाप्तः ।।