शब्दकल्पद्रुमः/ह

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/४९८

, हकारः । स तु व्यञ्जनत्रयस्त्रिंशवर्णः । अष्टम

वर्गीयचतुर्थवर्णश्च । तस्य उच्चारणस्थानं कण्ठः ।
इति व्याकरणम् ॥ (यथा च शिक्षायाम् । १७ ।
“कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजावुपू ॥ *)
अस्य स्वरूपं यथा, --
“हकारं शृणु चार्व्वङ्गि ! चतुर्व्वर्गप्रदायकम् ।
कुण्डलीद्वयसंयुक्तं रक्तविद्युल्लतोपमम् ।
रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा ।
पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा ।
त्रिबिन्दुसहितं वर्णं हृदि भावय पार्व्वति ! ॥”
इति कामधेनुतन्त्रम् ॥ * ॥
(वङ्गीयवर्णमालायाम्) अस्य लेखनप्रकारो
यथा, --
“ऊर्द्ध्वादाकुञ्चिता मध्ये कुण्डलीत्वं गता त्वधः ।
ऊर्द्ध्वं गता पुनः सैव तासु ब्रह्मादयः क्रमात् ।
मात्रा च पार्व्वती ज्ञेया ध्यानमस्य प्रचक्ष्यते ॥
करीषभूषिताङ्गीञ्च साट्टहासां दिगम्बराम् ।
अस्थिमाल्यामष्टभुजां वरदामम्बुजेक्षणाम् ॥
नागेन्द्रहारभूषाढ्यां जटामुकुटमण्डिताम् ।
सर्व्वसिद्धिप्रदां नित्यां धर्म्मकामार्थमोक्षदाम् ॥
एवं ध्यात्वा हकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य नामानि यथा, --
“हः शिवो गगनं हंसो नागलोकोऽम्बिका-
पतिः ।
नकुलीशो जगत्प्राणः प्राणेशः कपिलामलः ॥
परमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनः
मृगा भयोऽरुणा स्थाणुः क्रूटकूपविरावणः ॥
लक्ष्मीर्म्मविहरः शम्भुः प्राणशक्तिर्ललाटजः ।
स्वकोपवारणः शूली चैतन्यं पादपूरणः ।
महालक्ष्मीः परं शम्भुः शाखोठः सोममण्डलः ॥”
इति वर्णाभिधानम् ॥ * ॥
पृष्ठ ५/४९९
अपि च ।
“शुक्रश्चाथ हकारोऽशः प्राणः सान्तः शिवो
वियत् ।
अकुलो नकुलीशश्च हसः शून्यञ्च हाकिनी ।
अनन्तो नकुली जीवः परमात्मा ललाटजः ॥”
इति बीजवर्णाभिधानम् ।
अपि च ।
“हकारो नकुलीशोऽपि हंसः प्राणोऽङ्कुशः
प्रिये ।
महेशो नकुली चैव वरावो गगनं रविः ।
लिङ्गं शून्यो महाशून्यः प्राणश्च परमेश्वरि ! ॥”
इति श्रीरुद्रयामले ८ पटले मन्त्राभिधानम् ॥

, व्य, (हन हिंसागत्योः + अन्येभ्योऽपीति डः ।)

पादपूरणम् । इत्यमरः । ३ । ४ । ५ ॥ (यथा,
रामायणे । १ । १ । ५८ ।
“पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥”)
सम्बोधनम् । विनिग्रहः । नियोगः । क्षेपः ।
कुत्सा । इति मेदिनीशब्दरत्नावल्यौ ॥

हं, [म्] व्य, रुषोक्तिः । अनुनयः । इति मेदिनी ॥

हः, पुं, शिवः । जलम् । शून्यम् । धारणम् ।

मङ्गलम् । गगनम् । नकुलीशः । रक्तम् । स्वर्गः ।
इति मेदिनी ॥ पापहरणम् । चन्द्रः । इति
शब्दरत्नावली ॥ सकोपवारणः । शुष्कः ।
इत्येकाक्षरकोषः ॥

हंसः, पुं, (हन्ति सुन्दरं गच्छतीति । हन

हिंसागत्योः + “वृतॄवदिहनीति ।” उणा ०३ ।
६२ । इति सः ।) पक्षिविशेषः । हाँस इति
भाषा । तत्पर्य्यायः । श्वेतगरुत् २ चक्राङ्गः ३
मानसौकाः ४ । इत्यमरः । २ । ५ । २३ ॥ कल-
कण्ठः ५ सितच्छदः ६ । इति जटाधरः ॥
सितपक्षः ७ सरःकाकः ८ पुरुदंशकः ९ ।
इति शब्दरत्नावली ॥ धवलपक्षः १० मान-
सालयः ११ । इति राजनिर्घण्टः ॥ अस्य
मांसगुणाः । वातहरत्वम् । वृष्यत्वम् । स्वर्य्य-
त्वम् । मांसबलप्रदंत्वञ्च । इति राजवल्लभः ॥ * ॥
अपि च ।
“स्निग्धं हिमं गुरु वृष्यं मांसं जलपक्षिणान्तु
वातघ्नम् ।
तेष्वपि च हंसमांसं वृष्यतभं तिमिरहरञ्च ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“हंससारसकाचाक्षवकक्रौञ्चसरारिकाः ।
नन्दीमुखी सकादम्बा बलाकाद्यः प्लवाः स्मृताः ।
प्लवन्ते सलिले यस्मात् एते तस्मात् प्लवाः
स्मृताः ॥”
काचाक्षः कपर्दिकाक्षो बृहद्बकः । क्रौञ्चः
शरद्विहङ्गः स्यात् । टेक इति लोके । शरारिका
सिन्धु इति लोके ।
“स्थूला कठोरा वृत्ता च यस्याश्चञ्चुर्व्यवस्थिता ।
गुटिकाचञ्चुसदृशी ज्ञेया नन्दीमुखीति सा ॥”
कादम्बः करावा इति लोके । वला बगुली इति
लोके ।
“प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः ।
वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥”
इति भावप्रकाशः ॥ * ॥
(यथा च ।
“गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः ।
बृहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः ॥”
इति चरके सूत्रस्थाने २७ अध्याये ॥)
अस्या डिम्बगुणाः हंसबीजशब्दे द्रष्टव्याः ॥ * ॥
तस्य शकुनं यथा, --
“काष्ठासु सर्व्वास्वपि दर्शनेन
हंसस्य शब्देन तु सर्व्वसिद्धिः ।
नामानि हंसस्य शृणीति यस्तु
प्रयान्ति नाशं दुरितानि तस्य ॥
चौरैः समं दर्शनमाद्यशब्दे
निधिर्द्वितीयेऽथ भयं तृतीये ।
युद्धं चतुर्थे नृपतिप्रसादः
स्यात् पञ्चमे हंसरवे नराणाम् ॥”
इति वसन्तराजशाकुने ८ वर्गः ॥
निर्लोभनृपः । विष्णुः । (यथा महाभारते । १२ ।
४३ । ७ ।
“शुचिश्रवा हृषोकेशो घृतार्च्चिर्हंस उच्यसे ॥”)
सूर्य्यः । (यथा, महाभारते । ३ । ३ । ६१ ।
“त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ॥”)
परमात्मा । मत्सरः । योगिभेदः । मन्त्रभेदः ।
शरीरस्थवायुविशेषः । तुरङ्गमप्रभेदः । इति
मेदिनी ॥ (गोविशेषः । यथा, बृहत्संहिता-
याम् । ६१ । १७ ।
“सितवर्णः पिङ्गाक्ष-
स्ताम्रविषाणेक्षणो महावक्त्रः ।
हंसो नाम शुभफलो
यूथस्य विवर्द्धनः प्रोक्तः ॥”)
गुरुः । पर्व्वतः । इति शब्दरत्नावली ॥
शिवः । इत्यनेकार्थकोषः ॥ अग्रतः स्थितः ।
श्रेष्ठः । इति हेमचन्द्रः ॥ विशुद्धः । इत्यजयः ॥ *
अथ हंसमन्त्रविवरणम् । अस्याजपागायत्त्री-
मन्त्रस्य शिरसि हंसऋषये नमः । मखे अव्यक्त-
गायत्त्रीच्छन्दसे नमः । हृदि परमहंसदेवतायै
नमः । लिङ्गे हं बीजाय नमः । आधारे सः
शक्तये नमः । परमात्मप्रोतये उच्छासनिश्वा-
साभ्यां षट्शताधिकैकविंशतिसहस्रजपेन पूर्ब्ब-
भूतेभ्यो निवेदयामि । मूलाधारमण्डपे स्वर्णवर्णं
चतुर्द्दलपद्मे वादिसान्तचतुर्व्वर्णान्विते गायत्त्री-
सहिताय गणनाथाय षट्शतसंख्यजपमहर्निशं
समर्पयामि नमः । स्वाधिष्ठानमण्डपे अनेक-
विद्युन्निभे वादिलान्तषड्वर्णान्विते षड्दलपद्मे
सावित्रीसहिताय ब्रह्मणे अजपामन्त्रषट्सहस्रं
निवेदयामि नमः । मणिपूरमण्डपे नीलोत्पल-
मेघनिभे डादिफान्तदशवर्णान्विते दशदलपद्मे
लक्ष्मीसहिताय विष्णवे षट्सहस्रजपं समर्पयामि
नमः । अनाहतमण्डपे तरुणरविनिभे द्वादश-
वर्णयुते द्बादशदलपद्मे गौरीसहिताय शिवाय
अजपाषट्सहस्रजपं समर्पयामि नमः । विशुद्ध-
मण्डपे षोडशदलकर्णिकामध्ये जीवात्मने
अकारादि-अःकारान्ते अजपासहस्रसंख्यजपं
निवेदयामि नमः । आज्ञामण्डपे श्रीचन्द्रप्रभे
द्विदलपद्मेह-क्ष-वर्णान्विते मायासहितगुरुमूर्त्तये
एकसहस्रजपं निवेदयामि नमः । ब्रह्मरन्ध्रमण्डपे
नानावर्णोज्ज्वले सहस्रपद्मस्थिताय परमात्मने
अकारादिक्षकारान्तसहिताय एकसहस्रजपं
निवेदयामि नमः । सहस्रशब्दोऽसंख्यपर इति
बोध्यम् । उक्तञ्च पद्मं कोटिसमन्वितमिति ।
इति जपं समर्प्य अष्टोत्तरशतसंख्यमजपाजपं
कुर्य्यात् । अकारादिक्षकारान्ता वर्णा हंस इति
शिवशक्तिबिन्दूना ब्रह्म अ इति विसर्गरूप-
बिन्दूभ्यां हरिहरयोरभेदः । सोऽहमित्याभेद-
भावनया ब्रह्मरूपतां स्वं स्वं परिभाव्य उक्तः ।
षट्शताधिकैकविंशतिसहस्रजपेन परदेवतारूपः
श्रीपरमेश्वरः प्रीयतामित्येकवारं सङ्कल्प्य
ध्यायेत् ॥ * ॥ हंसस्य ध्यानं यथा, --
“आराधयामि मणिसन्निभमात्मलिङ्गं
मायापुरीहृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलावगाहं
नित्यं समाधिकुसुमैरपुनर्भवाय ॥” * ॥
प्रसङ्गाज्जपरहस्यं लिख्यते । पञ्चाशद्वर्ण-
संपूटत्वेनानुलोम्यप्रातिलौम्येन ब्रह्मरूपं मेरुं
क्षकारं परिकल्प्य तया सह जपं कुर्य्यादिति
दोषलेशैर्न वाध्यते । एतेन विश्वमेव हंसमातृ-
कयोरेकाकारेण कालात्मना लोके चिदात्म
उच्यते । अजपाविधानं विना श्रीविद्यादिसकल-
विद्याया अनधिकारी भवेत् । तदुक्तम् ।
“हंसज्ञानविमुग्धेन कृतमप्यकृतं भवेत् ।” इति ।
“अजपाधारणं देवि ! कथयामि तवानघे ! ।
यस्य विज्ञानमात्रेण परं ब्रह्मैव देशिकः ॥
हसः पदं परेशानि प्रत्यहं प्रजपेन्नरः ।
मोहरन्ध्रं न जानाति मोक्षस्तस्य न विद्यते ॥
श्रीगुरोः कृपया देवि ! ज्ञायते जप्यते यदा ।
उच्छासनिश्वासतया तदा बन्धक्षयो भवेत् ॥
उच्छासे चैव निश्वासे हंस इत्यक्षरद्वयम् ।
तस्मात् प्राणस्तु हंसात्मा आत्माकारेण संस्थितः ।
नाभेरुच्छासनिश्वासात् हृदयाग्नेर्व्यवस्थितिः ॥”
इति राघवभट्टधृतदक्षिणामूर्त्तिसंहितायां ७
पटलः ॥ * ॥ अहोरात्रमध्येऽजपाजपसंख्या
यथा, --
“षष्टिश्वासैर्भवेत् प्राणः षट्प्राणा नाडिका
मता ।
षष्टिनाड्या अहोरात्रं जपसंख्याक्रमो मतः ॥
एकविशतिसाहस्रं षट्शताधिकमीश्वरि ।
जपते प्रत्यहं प्राणी सान्द्रानन्दमयीं पराम् ।
उत्पत्तिश्च जपारम्भो मृत्युस्तस्य निवेदनम् ॥”
इति तत्रैव ७ पटलः ॥ * ॥
अजपानामकारणमपि तत्रैव ।
“विना जपेन देवेशि ! जपो भवति मन्त्रिणः ।
अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी ॥
एवं जपं महेशानि प्रत्यहं विनिवेदयेत् ।
पृष्ठ ५/५००
गणेशब्रह्मविष्णुभ्यो हराय परमेश्वरि ! ॥
जीवात्मने क्रमेणैव तथैव परमात्मने ।
षट्शतानि सहस्राणि सहस्रञ्च तदेव हि ।
पुनः सहस्रं गुरवे क्रमेण च निवेदयेत् ” * ॥
एवं यथास्थानावस्थितेभ्यो गणेशादिभ्यस्त-
ज्जपसमर्पणमुक्त्वा तत्तत्स्थानानां तत्तदवस्थित-
मातृकार्णानाञ्च रूपमाह तत्रैव ।
“आधारे स्वर्णवर्णेऽस्मिन् वादिसान्तानि
संस्मरेत् ।
द्रुतसौवर्णवर्णानि वर्णानि परमेश्वरि ! ॥
स्वाधिष्ठाने विद्रुमाभे वादिलान्तानि च स्मरेत् ।
विद्युत्पुञ्जप्रभाभानि सुनीले मणिपूरके ॥
डफान्त्यनि महानीलप्रभाणि च विचिन्तयेत् ।
पिङ्गवर्णे महावह्निकलिकाभानि चिन्तयेत् ॥
कादिठान्तानि वर्णानि चतुर्थेऽनाहते प्रिये ।
विशुद्धौ धूम्रवर्णे च रक्तवर्णान् स्वरान् यजेत् ॥
आज्ञायां विद्युदाभायां शुभ्रौ हक्षौ विचि-
न्तयेत् ॥
कर्पूरद्युतिसंराजत्सहस्रदलनीरजे ।
नादात्मकं ब्रह्मरन्ध्रं जानीहि परमेश्वरि ।
एतेषु प्तप्तचक्रेषु स्थितेभ्यः परमेश्वरि ! ॥
जपं निवेदयित्वा तं अहोरात्रभवं प्रिये ।
सहजं परमेशानि न्यासं कुर्य्याद्विचक्षणः ॥
ऋषिर्हंसोऽव्यक्तरूपगायत्त्री च्छन्द उच्यते ।
देवता परमादिस्तु हंसोऽहं बीजमुच्यते ॥
सः शक्तिः कीलकं सोऽहं प्राणवस्तु त्वमेव हि ।
नेत्रस्थलं भवेत् श्वेतं वर्णञ्च परमेश्वरि ! ॥
तदा तत्सह इत्येवं मनोरस्य प्रकीर्त्तितः ।
मोक्षार्थे विनियोगः स्यादेवं जानीहि पार्व्वति ॥
ततः षडङ्गविन्यासं कुर्य्याद्देहस्य सिद्धये ।
सूर्य्यं सोमं महेशानि निरञ्जनमतः परम् ॥
निराभासं चतुर्थ्यन्तं स्वाहान्ते क्रमतो न्यसेत् ।
कवचान्तं प्रविन्यस्य ततोऽनन्तपदं स्मरेत् ॥”
इति च तत्रैव ७ पटलः ॥ {??} ॥
अजपाया द्वैविध्यमुक्तं यथा, --
“हंसेति प्रकृतिर्ज्ञेया ॐकारः प्रकृतेर्गुणः ।
हंकारेण बहिर्याति सकारेण विशेत् पुनः ॥
हंसेति परमं मन्त्रं जीवा जपति सर्व्वदा ।
षट्शतानि दिवारात्री सहस्राण्येकविंशतिः ॥
अजपा नाम गायत्री योगिनां मोक्षदायिनी ।
अजपा द्विविधा देवि ! व्यक्ता गुप्ता क्रमेण च ।
व्यक्ता च द्विविधा प्रोक्ता शब्दज्योतिःस्वरू-
पिणी ।
ज्योतीरूपा च सा देवी हृदिस्थाने प्रतिष्ठिता ।
ठकाररूपा गुप्ता च शिवशक्तिः प्रकीर्त्तिता ।
चन्द्रबीजं ठकारस्तु वीप्सितः स्वर उच्यते ॥
अजपार्थमयी गुप्ता वह्निजाया प्रकीर्त्तिता ।
अस्याः सङ्कल्पमात्रेण पुरश्चरणमुच्यते ॥”
इति निरुत्तरतन्त्रे ४ पटलः ॥
(जरामन्धनृपतेः सेनापतिविशेषः । यथा, महा-
भारते । २ । २२ । ३१ -- ३२ ।
“सु तु सेनापतिं राजा सस्मार भरतर्पभ ! ।
कौशिकं चित्रसेनञ्च तस्मिन् युद्ध उपस्थिते ॥
ययोस्ते नामनी राजन् ! हंसेति डिभकेति च ।
पूर्व्वं संकथिते पुंभिर्नृलोके लोकसत्कृते ॥” * ॥
मेरोरुत्तरस्थपर्व्वतविशेषः । यथा, विष्णुपुराणे ।
२ । २ । २८ ।
“शङ्खकूटोऽथ ऋषभो हंसो नागस्तथा परः ।
कालञ्जराद्याश्च तथा उत्तरे केशराचलाः ॥”)

हंसकः, पुं, (हंस इव कायति मधुरध्वनित्वात् ।

कैशब्दे + कः ।) पादकटकः । यथा, --
“पादाङ्कदं तुलाकोटिर्मञ्जीरो नूपूरोऽस्त्रियाम् ।
हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका ॥”
इत्यमरः । २ । ६ । १०९ ॥
“षट् नूपुरे । केचित्तु पादाङ्गदादिचतुष्कं चरण-
भूषणे नूपुर इति ख्याते । हंसकादिद्वयं रवशून्ये
हंसाकृतिचरणभूषणे इत्याहुः । हंस इव
कायति मधुरध्वनित्वात् हंसकः । कै शब्दे डः ।
हंसाकृतित्वात् हंस इव हंसकः इति वा ।
इवार्थेविकारसंघ इत्यादिना कः ।” इति भरतः ॥
(हंस इवेति । इवे प्रतिकृताविति कन् । स्वार्थे
कन् वा) राजहंसः । इति शब्दचन्द्रिका ॥
(यथा, माघे । ७ । २३ ।
“सरित इव सविभ्रमप्रवात-
प्रणदितहंसकभूषणा विरेजुः ॥”
तालप्रभेदः । यथा, --
“लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः ॥”
इति सङ्गीतदामोदरः ॥

हंसकीलकः, पुं, (हंस इव कौलतीति । कील

बन्धने + ण्वुल् ।) रतिबन्धविशेषः । यथा, --
“नारीपादद्वयं कृत्वा कान्तस्योरुयुगोपरि ।
कटिमान्दोलयेद् यत्नात् बन्धोऽयं हंस-
कीलकः ॥”
इति स्मरदीपिका ॥

हंसकूटः, पुं, ककुत् । इति केचित् ॥ (पर्व्वत-

विशेषः । यथा, महाभारते । १ । ११९ । ४९ ।
“इन्द्रद्युम्नः सरः प्राप्य हंसकूटमतीत्य च ।
शतशृङ्गे महाराज तापसः समतप्यत ॥”)

हंसगद्गदा, स्त्री, (हंस इव गद्गदो यस्याः ।)

मधुरभाषिणी । तत्पर्य्यायः । मधुरनिस्वना २ ।
इति त्रिकाण्डशेषः ॥

हंसगामिनी, स्त्री, (हंस इव गच्छतीति । गम +

णिनिः । ङीप् । हंसगमनमिव गमनं यस्याः
सा इति वा ।) नारीविशेषः । (हंसेन गच्छ-
तीति ।) ब्रह्माणी । इति हंसारूढाशब्द-
दर्शनात् ॥

हंसदाहनं, क्ली, (हंसं श्रेष्ठं सुरभित्वात् दाहनं

यस्य ।) अगुरु । इति शब्दचन्द्रिका ॥ (गुणा-
दयोऽस्या अगुरुशब्दे ज्ञातव्याः ॥)

हंसनादिनी, स्त्री, (हंस इव नदतीति । नद +

णिनिः । ङीप् । नारीविशेषः । तस्या लक्षणं
यथा, शब्दमालायाम् ।
“गजेन्द्रगमना तन्वी कोकिलानां रुतान्विता ।
नितम्बगुर्व्विणो या सा कथ्यते हंसनादिनी ॥”

हंसपदी, स्त्री, (हंसस्येव पादा मूलाम्यस्याः ।

ङीप् । पादस्य पद्भावः ।) गोधापदी । इति
राजनिर्घण्टः ॥ हंस्रपदीविशेषः । तत्पर्य्यायः ।
मधुस्रवा २ हंसपादी ३ त्रिपदी ४ । इति रत्न-
माला ॥ (अस्याः पर्य्यायो यथा, --
“हंसपादी हंसपदी कीटमाता त्रिपादिका ।”
इति भावप्रकाशस्य पूब्ब खण्डे प्रथमे भागे ॥)

हंसपादं, क्ली, (हंसस्य पाद इव वर्णो यस्य ।)

हिङ्गुलम् । इति हलायुधः ॥ पुं, यथा, --
हिङ्गुलन्दरदं म्लेच्छमिङ्गुलञ्चूर्णपारदम् ।
दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुकतुण्डकः ॥
हंसपादस्तृतीयः स्यात् गुणवानुत्तरोत्तरम् ।
चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः ।
जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
हंसचरणे च पुं ॥

हंसपादिका, स्त्री, (हंसपादी एव स्वार्थे कन् ।

टाप् ।) हंसपदी । इति राजनिर्घण्टः ॥

हंसपादी, स्त्री, (हंसस्य पादा इव मूलान्यस्याः ।

ङीप् ।) हंसपदीविशेषः । इति रत्नमाला ॥
(अस्याः पर्य्यायो गुणाश्च यथा, --
“हंसपादी हंसपदी कीटमाता त्रिपादिका ।
हंसपादो गुरुः शीता हन्ति रक्तविषव्रणान् ॥
विसर्पदाहातिसारलूताभूताग्निरोहिणीः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हंसबीजं, क्ली, (क्षंसस्य बीजम् ।) हंसडिम्बः ।

तस्य गुणाः यथा, राजनिर्घण्ठे ।
“हसबीजं परं बल्यं वृंहणं वातनाशनम् ।
पाके लघुतरं प्रोक्तं सर्व्वामयविनाशनम् ॥”

हंसमाला, स्त्री, (हंसस्य माला ।) कादम्बः ।

इति शब्दचन्द्रिका ॥ हंससमूहः । यथा, --
“तां हंसमालाः शरदीव गङ्गां
महौषधीर्नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले
प्रपेदिरे प्राक्तनजन्मविद्याः ॥”
इति कुमारसम्भवे । १ । ३० ॥

हंसमाषा, स्त्री, हंसः श्रैष्ठो माषो यस्याः ।)

माषपर्णी । इति राजनिर्घण्टः ॥

हंसरथः, पुं, (हंसो रथो वाहनं यस्य ।) ब्रह्मा ।

इति त्रिकाण्डशेषः ॥

हंसलोमशं, क्ली, (हंस इव लोमशम् ।) कासी-

सम् । इति राजनिर्घण्टः ॥

हंसलोहकं, क्ली, (हंसं श्रेष्ठं लोहमिव । कन्) ।

पित्तलम् । इति हेमचन्द्रः ॥ (विवरणमस्य
पित्तलशब्दे ज्ञातव्यम् ॥)

हंसवती, स्त्री, (हंस इव हंसपदाकार इव

मूलमस्त्यस्या इति । हंस + मतुप् । ङीप् ।
मस्य वः ।) हंसपदीलता । इति जटाधरः ॥
हंसयुक्ते, त्रि ॥

हंसवाहनः, पुं, (हंसो वाहनं यस्य ।) ब्रह्मा ।

इति कश्चिदमरः । १ । १ । १७ ॥ (यथा,
श्रीमद्भागवते । ७ । ३ । १६ ।
पृष्ठ ५/५०१
“तपन्तं तपसा लोकान् यथाब्भ्रापिहितं
रविम् ।
विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥”)

हंमाङ्घ्रिः, पुं, (हंसस्य अङ्घ्रिरिव रक्तववर्णत्वात् ।)

हिङ्गुलम् । इति केचित् ॥ हंसपादश्च ॥

हंसाधिरूढा, स्त्री, (हंसमधिरूढा ।) सरस्वती ।

यथा, --
“वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्द-
प्रभां
चन्द्रार्द्धाङ्कितमस्तकां निलकरैः मबिभ्रती-
मादरात् ।
बीणामक्षगुणं सुधाढ्यकलसं विद्याञ्च तुङ्गस्तनों
दिव्यैराभरणैर्व्विभूषिततनुं हंसाधिरूडां
भजे ॥”
इति तन्त्रसारः ॥

हंसाभिख्यं, क्ली, (हंसस्येव अभिख्या शोभा यस्य

शुक्लवर्णत्वात् ।) रूप्यम् । इति हेमचन्द्रः ॥

हंसारूढः, पुं, (हंसमारूढः ।) ब्रह्मा । यथा ।

रक्तवर्णं चतुर्म्मखं द्विभुजं अक्षसूत्रकमण्डलुकरं
हंसारूढं ब्रह्माणम् । इति वैदिकसन्ध्याप्राणा-
यामे ब्रह्मध्यानम् ॥ (यथा, बृहत्संहितायाम् ।
५ । ५७ ।
“दण्डी यमो महिषगो
हंसारूढश्च पाशभृद्वरुणः ॥”)

हंसारूढा, स्त्री, (हंसमारूढा ।) ब्रह्माणी । यथा,

“चतुर्मुखीं जगद्धात्रीं हंसारूढां वरप्रदाम् ।
सृष्टिरूपां महाभागां ब्रह्माणीं तां नमा
म्यहम् ॥”
इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतिः ॥

हंसिका, स्त्री, (हंसी एव । स्वार्थे कन् । टाप् ।)

हंसी । इति शब्दरत्नावली ॥

हंसी, स्त्री, (हंसस्य पत्नी । हंस + ङीप् ।) हंस-

भार्य्या । तत्पर्य्यायः । चक्राङ्गी २ वरटा ३
चक्राकी ४ वरटी ५ सरःकाकी ६ हंसिका ७
वारला ८ हंसयोषित् ९ । इति शब्दरत्नावली ॥
वरला १० मराली ११ मञ्जुगमना १२ मृदु-
गामिनी १३ । इति राजनिर्घण्टः ॥ द्वाविंश-
त्यक्षरपादच्छन्दोविशेषः । यथा, --
“मौ गौ नाश्चत्वारो गो गो वसुभुवनयतिरिति
भवति हंसी ।
सार्द्धं कान्तेनैकान्तेऽसौ विकचकमलमधुसुरभि
पिबन्ती
कामक्रीडाकूतस्फीतप्रमदसरभसभरमलघु
रवन्ती ।
कालिन्दीये पद्मारण्ये पवनपतनपरितरलपरागे
कंसाराते पश्य स्वेच्छं रसभसगतिरिह विल-
सति हंसी ॥”
इति छन्दोमञ्जर्य्यां २ स्तवकः ॥
हंसस्त्रीजातिः । इति मुग्धबोधव्याकरणम् ॥

हंसोदकं, क्ली, (हंसं श्रेष्ठमुदकम् ।) पानीय-

विशेषः । यथा, --
“नादेयं नवमृद्घटेषु निहितं सन्तप्तमर्कांशुभि-
र्यामिन्याञ्च निविष्टमिन्दकिरणैर्म्मन्दानिलान्दो-
लितम् ।
एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे
विषे
मूर्च्छारक्तमदात्ययेषु च हितं शंसन्ति हंसो-
दकम् ॥”
इति राजनिर्घण्टः ॥

हंहो, व्य, सम्बोधनम् । (यथा, महाभारते ।

१२ । २६७ । ९ ।
“तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् ।
हंहो वेदा यदि मता धर्म्माः केनापरे मताः ॥”)
दर्पः । दम्भः । प्रश्नः । इति शब्दरत्नावली ॥

हक्कः, पुं, (हक् इत्यव्यक्तब्देन कायतीति । कै

+ कः ।) गजसमाह्वानम् । इति जटाधरः ॥

हक्कारः, पुं, (हक् इत्यव्यक्तशब्दस्य कारः

करणम् ।) आह्वानम् । इति केचित् ॥

हञ्जा, व्य, नाट्योक्तौ चेटीसम्बोधनम् । इत्यमर-

टीकायां भरतः ॥

हञ्जिः, पु, क्षुत् । इति जटाधरः ॥

हञ्जिका, स्त्री, भार्गी । इति भावप्रकाशः ॥

(अस्याः पर्य्यायो गुणाश्च । यथा, --
“ब्राह्मण्यङ्गारवल्ली च खरशाका च हञ्जिका ।
अनुष्णा कफपित्तास्रहिक्वाकासज्वरप्रणुत् ॥
व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा ।
अलक्तको गुणैस्तद्वत् विशेषाद्व्यङ्गनाशनः ॥”)
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हञ्जे, व्य, नाट्योक्तौ चेदीसम्बोधनम् । यथा, --

“हण्डे हञ्जे हलाह्वानं नीचं चेटीं सखीं प्रति ॥”
इत्यमरः । १ । ७ । १५ ॥
“हण्डे नीचसम्बोधनम् । हञ्जे चेटीसम्बोधनम् ।
हला सखी सम्बोधनम् । त्रयमेवाव्ययम् । यथा ।
हण्डे कुम्भिल । अरे हञ्जे काञ्चनमाले । हला
सौन्तले इति । त्रयमप्यादन्तमव्ययमस्ति ।
हण्डा हञ्जा हला शब्दास्त्रयः सम्बोधनवाचकाः ।
इति प्राकृतवृत्तावव्ययपरिच्छेदे वसन्तराजः ॥
‘हञ्जेति चेटिकाह्वानं सख्याह्वानं हलेति च ।
हण्डेति कुतसिताह्वानमार्य्यो मारिष उच्यते ॥”
इति भागुरिश्च ॥
अनव्ययश्च हलाशब्दः सखीपर्य्यायोऽस्ति । बाला
वासूः सखी हलेति त्रिकाण्डशेषे वोपालितः ॥’
अतृप्तोऽहं मरिष्यामि हे हले भाषितस्य चेति
तडितमिश्रः । त्रयमिदमव्युत्पन्नम् ।” इति
भरतः ॥

हट, त्विषि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) त्विषि दीप्तौ ॥ हटति । इति
दुर्गादासः ॥

हटपर्णि, क्ली, शैवालम् । इति शैब्दरत्नावली ॥

हट्टः, पुं, क्रयविक्रयस्यानम् । हाट इति भाषा ।

इत्यमरः । ३ । ५ । ९८ ॥

हट्टचौरकः, पुं, (हट्टस्य चौरः । ततः कन् ।)

चौरविशेषः । हाटचोर इति भाषा । तत्प-
र्य्यायः । मल्लीकरः २ माचलः ३ चिल्लाभः ४ ।
इति शब्दरत्नावली ॥ वन्दीकारः ५ प्रसह्य-
चौरः ६ । इति त्रिकाण्डशेषः ॥

हट्टविलासिनी, स्त्री, (हट्टे विलसतीति । वि +

लस + णिनि । ङीप् ।) गन्धद्रव्यविशेपः । तत्-
पर्य्यायः । धमनी २ अञ्जनकेशी ३ हनुः ४ ।
इत्यमरः । २ । ४ । १३० ॥ अस्याः पर्य्यायो
यथा, --
“नखं व्याघ्रनखं व्याघ्रायुधन्तच्चक्रकारकम् ।
नखं स्वल्पनखी प्रोक्ता हनुर्हट्टविलासिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
हरिद्रा । इति भावप्रकाशः ॥ पुस्तकान्तरे
हरिविलासिनीति च पाठः ॥ (वाराङ्गना ।
यथा, आर्य्यासप्तशत्याम् । ४३३ ।
“मृगमदनिदानमटवी कुङ्कुममपि कृषक-
वाटिका वहति ।
हट्टविलासिनि भवती परमेका पौरसर्व्व-
स्वम् ॥”)

हठ, कीलबन्धे । बलात्कृतौ । प्लुतौ । इति कवि-

कल्पद्रुमः ॥ (भा०-पर०-सक-प्लुतौ अक०-
सेट् ।) कीले वन्धः कीलबन्धः । हटति छागं
कीले बध्नाति इत्यर्थः । कातन्त्रादौ बलात्कार-
मात्रे । हठति परचक्रं बली । इति दुर्गादासः ॥

हठः, पुं, (हठ + पुंसीति घः ।) बलात्कारः ।

इत्यमरः । २ । ८ । १०८ ॥ प्रश्नी । इति मेदिनी ॥
(हठयोगः । यथा, हठयोगप्रढीपिकायाम् ।
१ । १० ।
“अशेषतापतप्तानां समाश्रयमठो हठः ।
अशेषयोगयुक्तानामाधारकमठो हठः ॥)

हठपर्णी, स्त्री, (हठति प्लवते । इति । हठ +

अच् । तादृशं पर्णमस्याः । ङीष् ।) शैवालः ।
इति त्रिकाण्डशेषः ॥

हठयोगः, पुं, (हठेन योगः ।) योगविशेषः ।

यथा, --
“इदानीं हठयोगस्तु कथ्यते हठसिद्धिदः ।
कृत्वासनं पवनाशं शरीरे रोगहारकम् ॥
पूरकं कुम्भकञ्चैव रेचकं वायुना भजेत् ।
इत्थं क्रमोत्क्रमं ज्ञात्वा पवनं स्मधयेत् सदा ॥
धौत्यादिकर्म्मषट्कञ्च संस्कुर्य्याद्धठसाधकः ।
एतन्नाड्यान्तु देवेशि ! वायुपूर्णं प्रतिष्ठितम् ॥
ततो मनो निश्चलं स्यात्तत आनन्द एव हि ।
हठयोगान्न कालः स्यान्मनः शून्ये भवेद्यदि ॥
इदानीं हठयोगस्य द्वितीयं भेदवत् शृणु ।
आकाशे नासिकाग्रे तु सूर्य्यकोटिसमं स्मरेत् ॥
श्वेतं रक्तं तथा पीतं कृष्णमित्यादिरूपतः ।
एवं ध्यात्वा चिरायुः स्यादङ्गाजननवर्ज्जितः ॥
शिवतुल्यो महात्मासौ हठयोगप्रसादतः ।
हठाज्ज्योतिर्म्मयो भूत्वा ह्यन्तरेण शिव भवेत् ।
अतोऽयं हठयोगः स्यात् सिद्धिदः सिद्धसेवितः ॥”
इति योगस्वरोदयः ॥

हठालुः, स्त्री, (हठे प्लवने अलति पर्य्याप्नोतीति ।

अल + उण् ।) कुम्भिका । इति शब्दचन्द्रिका ॥

हठी, स्त्री, वारिपर्णी । इति धरणिः ।

पृष्ठ ५/५०२

हडिः, पुं, काष्ठयन्त्रविशेषः । हाइड इति भाषा ।

यथा, --
“निगडो लोहबन्धेऽस्त्री हडिः काष्ठस्य यन्त्रणे ॥”
इति क्षत्त्रियवर्गे शब्दमाला ॥

हडिक, पुं, नीचजातिविशेषः । हाडि इति

भाषा । तत्पर्य्यायः ।
“हडिकस्तु मलाकर्षो हड्डकश्चावपुञ्जिका ॥”
इति शब्दमाला ॥

हड्डं, क्ली, अस्थि । हाड इति भाषा । इति

शब्दचन्द्रिका ॥

हड्डकः, पुं, नीचजातिविशेषः । इति शब्दमाला ॥

हाडि इति भाषा ॥

हड्डजं, क्ली, मज्जा । इति शब्दचन्द्रिका ॥

हड्डिः, पुं, हड्डिपजातिः । हाडि इति

भाषा । स तु चाण्डालीगर्भे लेटस्य
औरसेन जातः । यथा, --

हड्डिकः, पुं, हड्डिपजातिः । हाडि इति

भाषा । स तु चाण्डालीगर्भे लेटस्य
औरसेन जातः । यथा, --
“सद्यश्चाण्डालकन्यायां लेटवीर्य्येण शौनक ! ।
बभूवतुस्तौ द्वौ पुत्त्रौ हड्डिकशौण्डिकौ तथा ॥”
हड्डिकशौण्डिकाबित्यत्र दुष्टौ हड्डिडमौ
तथेत्यपि ।
पाठः । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

हड्डिपः, पुं, मलेग्रहिः । इति मुग्धबोधव्याक-

रणम् ॥ हाडि इति भाषा ॥

हण्डा, व्य, नाट्योक्तौ नीचसम्बोधनम् । इत्यमर

टीकायां भरतः ॥ स्त्री, मृत्पात्रभेदः । हाँडा
इति भाषा । इति बक्ष्यमाणशव्ददर्शनात् ॥

हण्डिका, स्त्री, (हण्डा + स्वार्थे कन् । टापि अत

इत्वम् ।) मृत्पात्रविशेषः । हाँडी इति
भाषा । इति वक्ष्यमाणशब्ददर्शनात् ॥

हण्डिकासुतः, पुं, (हण्डिकायाः सुत इव ।) क्षुद्र-

हण्डिका । तत्पर्य्यायः । क्वणनः २ । इति
त्रिकाण्डशेषः ॥

हण्डी, स्त्री, हण्डिका । हाँडी इति भाषा । इति केचित् ॥

हण्डे, व्य, नाट्याक्ली नीचबम्बाधनम् । इत्यमरः ।

१ । ७ । १५ ॥

हतः, त्रि, (हन + क्तः ।) आशारहितः । तत्प-

र्य्यायः । मनोहतः २ प्रतिहतः ३ प्रतिबद्धः ४ ।
इत्यमरः । ३ । १ । ४१ ॥ नष्टः तत्पर्य्यायः ।
प्रमापितः २ निवर्हितः ३ निकारितः ४ निशा
रितः ५ प्रवासितः ६ परासितः ७ निषूदितः ८
निहिसितः ९ निर्व्वासितः १० संज्ञपितः ११
निर्ग्रन्थितः १२ अपासितः १३ निस्तर्हितः १४
निहतः १५ क्षणितः १६ परिवर्ज्जितः १७
निर्व्वापितः १८ विशसितः १९ मारितः २०
प्रतिघातितः २१ उद्वासितः २२ प्रमथितः २३
क्रथितः २४ उज्जासितः २५ आलम्भितः २६
पिञ्जितः २७ विशरितः २८ घातितः २९ उन्म-
स्थितः ३० वधितः ३१ । इत्यमरदशनात् ॥
पूरिताङ्गः । तत्पर्य्यायः । पिण्डितम् २ गुणि-
तम् । इति त्रिकाण्डशेषः ॥ हनने, क्ली ॥ * ॥
पारिमापिकहता यथा, --
“अवैष्णवो हता विप्रो हतं श्राद्वमभूसुरम् ।
अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् ॥
सदम्भश्च हतो धर्म्मः क्रोधेनैव हतं तपः ।
अदृढञ्च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥
गुर्व्वभक्त्या हता नारी ब्रह्मचारी तथा हतः ।
अदीप्तेऽग्नौ हतो होमो हता त्वजिरमक्षिका ॥
उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।
शूद्रभिक्षोर्हतो योगः कृपणस्य हनं धनम् ॥
अनभ्यासहता विद्या हतो राजा विरोधकृत् ।
जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥
असत्या च हता बाणी तथा पैशुन्यवादिनी ।
सन्दिग्धोपहतो मन्त्रो व्यस्तचित्तो हतो जपः ॥
हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः ।
अश्रद्धया हतं सर्व्वं यत् कृतं पारलौकिकम् ॥
इह लोको हतो नॄणां दरिद्राणां परन्तप ।
मनुष्याणां तथा जन्म माघस्नानंविना हतम् ॥”
इति पाद्मोत्तरखण्डे ४ अध्यायः ॥

हतकः, पुं, (हत इव । कन् ।) नीचलोकः ।

इति केचित् ॥ (यथा, साहित्यदर्पणे । ६ ।
३९५ ।
“देव अजातशत्रो अद्यापि दुर्य्योधनहतकः ॥”)

हतमूर्खः, पुं, (मूर्खः हत इव ।) अतिमूर्खः ।

यथा, --
“क्रूरः खलो हतमूर्खः पापशीलो भवेन्नरः ।
बुधस्यागमने नित्यं जायते स नराधमः ॥”
इति जातरत्नकोष्ठीप्रदीपौ ॥

हताशः, त्रि, (हता आशा यस्य ।) निर्द्दयः ।

आशारहितः । पिशुनः । इति मेदिनी ॥
बन्ध्यः । इति शब्दरत्नावली ॥

हतिः, स्त्री, (हन + क्तिन् ।) अपकर्षः । यथा ।

मुख्यार्थहतिर्द्दोषः । हतिरपकर्षः । इति काव्य-
प्रकाशे ७ उल्लासः ॥ हत्या च ॥ (यथा,
महाभारते । १२ । ३६० । ९ ।
“आशया ह्यभिपन्नानामकृत्वाश्रुपमार्ज्जनम् ।
राजा वा राजपुत्त्रो वा भ्रूणहत्यैव युज्यते ॥”
ताडनम् । यथा, गीतगोविन्दे । १ । १२ ।
“वहसि वपुषि विपदे वसनं जलदाभं
हलहतिभीतिमिलितयमुनाभम् ॥”
विनाशः । यथा, भागवते । १२ । ३ । १८ ।
“कर्म्माण्यारभमाणानां दुःखहत्यै सुखाय च ।
पश्येत् पाकविपर्य्यासं मिथुनीचारिणां नृणाम् ।”

हत्नुः, पुं, (हन्ति शरीरमिति । हन + “कृहनिभ्यां

क्त्नुः ।” उणा० ३ । ३८ । इति क्त्नुः ।
“अनुदात्तोपदेशेति ।” ६ । ४ । ३७ । इति
अनुनासिकलोपः ।) व्याधिः । शस्त्रम् । इति
उणादिकोषः ॥ (हननशीले, त्रि । यथा, ऋग्-
वेदे । १ । २५ । २ ।
“मा नो बधाय हत्नवे जिहीडानस्य रीरधः ॥”)

हत्या, स्त्री, (हन + भावे क्यप् ।) हननम् । वधः ।

यथा, --
“ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥”
इति प्रायश्चित्तविवेकादिः ॥

हथः, पुं, (हन्ति सुखमिति । हन् + “हनि-

कुषोति ।” उणा० २ । २ । इति क्थन् ।)
विषण्णः । इति संक्षिप्तसारोणादिवृतिः । उणा-
दिकोषश्च ॥

हद, ङ औ ग्वर्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-अनिट् ।) ग्वर्थः विष्ठोत्सर्गः ।
ङ, हदते जनः । औ, हत्ता । इति दुर्गादासः ॥

हदनं, क्ली, (हद + ल्युट् ।) विष्ठात्यागः । हागा

इति भाषा । यथा । विट्सृजिर्हदनम् । इति
गूधातुटीकायां दुर्गादासः ॥ हदधात्वर्थोऽप्येवम् ॥

हद्दा, स्त्री, मेषादिलग्नानां त्रिंशदंशः । तैरं-

शैर्द्वादशलग्नेषु पञ्चानां पञ्चानां ग्रहाणां सङ्ख्या-
विशेषेण भागविशेषो भवति । नराणां वर्ष-
प्रवेशादौ शुभाशुभगणनायामस्य प्रयोजनम् ।
तद्भागविशेषो यथा ।
मेषलग्ने प्रथमं बृहस्पतेः ६ भागाः । ततः
शुक्रस्य ६ अंशाः । ततो बुधस्य ८ भागाः ।
ततो मङ्गलस्य ५ भागाः । ततः शनेरपि ५
अंशाः । समुदायेन त्रिंशदंशाः भवन्ति ॥
वृषलग्ने प्रथमं शुक्रस्य ८ भागाः । ततो
बुधस्य ६ अंशाः । गुरोः ८ भागाः । शनेः ५
अंशाः । मङ्गलस्य ३ अंशाः ॥
मिथुनलग्ने प्रथमं ६ भागाः बुधस्य । ततः
शुक्रस्य ६ भागाः । बृहस्पतेः ५ अंशाः । मङ्ग-
लस्य ७ अंशाः । शनेः ६ अंशाः ॥
कर्क्कटलग्ने प्रथमं प्तङ्गलस्य ७ अंशाः । ततः
शुक्रस्य ६ भागाः । बुधस्यापि ६ भागाः ॥
बृहस्पतेः ७ अंशाः । शनेः ४ अंशाः ॥
सिंहलग्ने प्रथमं ६ भागाः बृहस्पतेः ।
शुक्रस्य ५ अंशाः । शनेः ७ भागाः । बुधस्य ६
भागाः । मङ्गलस्यापि ६ भागाः ॥
कन्यालग्ने प्रथमं बुधस्य ७ अंशाः । शुक्रस्य
१० अंशाः । गुरोः ४ अंशाः । मङ्गलस्य ७
भागाः । २ भागौ शनैश्चरस्य ॥
तुलालग्ने आदौ ६ अंशाः शनेः । ८ भागाः
बुधस्य । गुरोः ७ भागाः । शुक्रस्यापि ७
अंशाः । २ भागौ मङ्गलस्य ॥
वृश्चिकलग्ने आदौ मङ्गलस्य ७ भागाः ।
शुक्रस्य ४ अंशाः । ८ भागाः बुधस्य । बृह-
स्पतेः ५ अंशा । ६ भागाः शनेः ॥
धनुर्लग्ने प्रथमं बृहस्पतेः १२ अंशाः । ततः
शुक्रस्य ५ अंशाः । बुधस्य ४ अंशाः । मङ्ग-
लस्य ५ भागाः । शनेः ४ अंशाः ॥
मकरलग्ने आदौ बुधस्य ७ अंशाः । गुरो-
रपि ७ भागाः । ८ अंशाः शुक्रस्य । शनेः ४
अंशाः । मङ्गलस्यापि ४ अंशाः ॥
कुम्भलग्ने प्रथमं बुधस्य ७ भागाः । शव्रस्य ६
भागाः । वृहस्पतेः ७ अंशाः । मङ्गलस्य ५
भागाः । शनेरपि ५ भागाः ॥
मीनलम्ने आदौ १२ अंशाः शुक्रस्य ।
४ भागाः बृहस्पतेः । बुधस्य ३ अंशाः । मङ्ग-
लस्य ९ भागाः । ततः शनेः २ भागौ ॥
पृष्ठ ५/५०३
एषं प्रमाणानि यथा, --
“मेषेऽङ्गतर्काष्टशरेषुभागा
जीवास्फुजिज्ज्ञारशनैश्चराणाम् १ ।
वृषेऽष्टतर्काष्टशरानलांशाः
शुक्रज्ञजीवार्किकुजेशहद्दाः ॥ २ ॥
युग्मे षडङ्गेषुनगाङ्गभागाः
सौम्यास्फुजिज्जीवकुजाकिहद्दाः ॥ ३ ॥
कर्केऽद्रितर्काङ्गनगाब्धिभागाः
कुजास्फुजिज्ज्ञेज्यशनैश्चराणाम् ॥ ४ ॥
सिंहेऽङ्गभूताद्रिरसाङ्गभागा
देवेज्यशुक्रार्किबुधारहद्दाः । ५ ।
स्त्रियां नगाशाब्धिनगाक्षिभागाः
सौम्योशनोजीवकुजार्किहद्दाः ॥ ६ ॥
तुले रसाष्टाद्रिनगाक्षिभामाः
कालज्ञजीवास्फुजिदारनाथाः । ७ ।
कीटे नगाब्ध्यष्टशराङ्गभागा
भीमास्फुजिज्ज्ञेज्यशनैश्चराणाम् ॥ ८ ॥
चापे रवीष्वम्बुधिपञ्चवेदा
जीवास्फुजिज्ज्ञारशनैश्चराणाम् । ९ ।
मृगे नगाद्य्रष्टयुगश्रुतीनां
सौम्येज्यशुक्रार्किकुजेशहद्दाः ॥ १० ॥
कुम्भे नगाङ्गाद्रिशरेषुभागा
ज्ञशुक्रजीवारशनैश्चराणाम् । ११ ।
मीनेऽर्कवेदानलनन्दपक्षाः
सितेज्यसौम्यारशनैश्चराणाम् ॥” १२ ॥
इति नीलकण्ठीयताजकम् ॥

हन, ल औ गतौ । बधे । इति कविकल्पद्रुमः ।

(अदा०-पर०-सक०-अनिट् ।) ल, हन्ति ।
औ, हन्ता । गणकृतमनित्यमिति न्यायात् शप
स्थितौ हनतीत्यपि वररुचिः । तेन सर्व्वा
एवाहनत् पृथक् इत्यादि साधुः । इति दुर्गा-
दासः ॥

हन्, ष्य, रुषोक्तिः । अनुनयः । इति मेदिनी ॥

हनः, पुं, हननकर्त्ता । यथा । हन्तर्घत्वञ्च । घत्व-

मभ्यासस्य उत्तरस्य त्वभ्यासाच्चेति कुत्वम् ।
घनाघनः । पाटेर्णिलुक् च दीर्घश्चाभ्यासस्य
पाटुपटः । पक्ष हनः पटः । इति सिद्धान्त-
कोमुदी क्विपि हन् । तस्य प्रथमैकवचने हा ॥

हननं, क्ली, (हन + ल्युट् ।) मारणम् । यथा, --

“स्यात् प्राणवियागफलकव्यापारो हननं
स्मृतम् ॥”
इति प्रायश्चित्तविवेकः ॥
(यथा, भागवते । ९ । ११ । २० ।
“नेदं यशो रघुपतेः सुरयाच्ञयात्त-
लीलातनोरधिकसाम्यविमुक्तधाम्नः ।
रक्षोबधो जलधिबन्धनमस्त्रपूगैः
किं तस्य शत्रुहनने कपयः सहायाः ॥”)
पूरणम् । इत्यङ्कशास्त्रम् ॥

हनीलः, पुं, केतकी । इति रत्नमाला ॥ हलीनो-

ऽपि पाठः ॥

हनुः, पुं, स्त्री, (हन्ति कठिनद्रव्यादिकमिति ।

हन + “शॄस्वृस्निहीति ।” उणा० १ । ११ ।
इति उः । स च नित् ।) कपोलद्वयपरमुख-
भागः । चोयालि इति भाषा । इत्यमरः ॥
ताभ्यां कपोलाभ्यां परो मुखभागो हनुरुच्यते ।
यत्र जम्भाख्या दन्ता जायन्ते इति सुभूतिः ।
हन्ति कठारमपि द्रव्यं हनु नाम्नीतिः उः ।
तत्परेति पाठे हनोः स्त्रीत्वम् । हनुः कपोला-
वयवे द्वयोरिति कश्चित् । तन्वादेर्व्वा इत्यूपि
हन्श्च ॥ पुंस्यपीति स्वामी । पुंयोगे कर्णहनू
नपुंसके श्मश्रु जानु च गुदञ्चेति वररुचिः ।
इति भरतः ॥

हनुः, स्त्री, (हन्ति पुरुषमिति । हन + उः ।

हट्टविलासिनी । इत्यमरः ।) रोगः । अस्त्रम् ।
मृत्युः । इति जटाधरः ॥

हनुमान्, [त्] पु, (हनुरस्त्यस्येति । हनु +

मतुप् ।) वानरविशेषः । स तु अञ्जनागर्भे
पवनीरसाज्जातः । रावणबधार्थश्रीरामदूतश्च ।
तत्पर्य्यायः । मनूमान् २ आञ्जनेयः ३ योग-
चरः ४ अनिली ५ हिडिम्बारमणः ६ राम-
दूतः ७ अर्ज्जुनध्वजः ८ । इति त्रिकाण्डशेषः ॥
मरुतात्मजः ९ । इति जटाधरः ॥ * ॥ अथ
हनूमत्कल्पः ।
देव्युवाच ।
“शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च ।
साधनानि च सौराणि चान्यानि यानि कानि
च ।
श्रुतानि तानि देवेश ! त्वद्वक्त्रान्निःसृतानि च ॥
किङ्किदन्यत्तु देवानां साधनं यदि कथ्यताम् ।
शङ्कर उवाच ।
शृणु देवि ! प्रवक्ष्यामि सावधानावधारय ।
हनूमत्साधनं पुण्यं महापातकनाशनम् ॥
एतद्गुह्यतमं लोके शीघ्रसिद्धिकरं परम् ।
जयो यस्य प्रसादेन लोकत्रयजितो भवेत् ॥ * ॥
तत्साधनविधिं वक्ष्ये नृणां सिद्धिकरं द्रुतम् ॥
वियत् सलवकं हनूमते च तदनन्तरम् ।
रुद्रात्मकाय कवचं फडिति द्वादशाक्षरः ॥
एतन्मन्त्रं समाख्यातं गोपनीयं प्रयत्नतः ।
तव स्नेहेन भक्त्या च दासोऽस्मि तव सुन्दरि ! ॥
एतन्मन्त्रं अर्ज्जुनाय प्रदत्तं हरिणा पुरा ।
जयेन साधनं कृत्वा जितं सर्व्वं चराचरम् ॥
नदीकूले विष्णुगेहे निर्ज्जने पर्व्वते वने ।
एकाग्रचित्तमाधाय साधयेत् साधनं महत् ॥”
ध्यानमाह ।
“महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ।
तिष्ठ तिष्ट रणे दुष्ट घोररावं समुत्सृजन् ॥
लाक्षारक्तारुणं रौद्रं कालान्तकयमोपमम् ।
ज्वलदग्निसमं नेत्रं सूर्य्यकोटिसमप्रभम् ॥
अङ्गदाद्यैर्महावीरैर्व्वेष्टितं रुद्ररूपिणम् ।
एवंरूपं हनूमन्तं ध्यात्वा यः प्रजपेन्मनुम् ॥
लक्षजपात् प्रसन्नः स्यात् सत्यं ते कयितं मया ।
ध्यानैकमात्रतः पुंसां सिद्धिरेव न संशयः ॥
प्रातः स्नात्वा नदीतीरे उपविश्य कुशासने ।
प्राणायामं षडङ्गञ्च मूलेन सकलं चरेत् ॥
पुष्पाञ्जल्यष्टकं दत्त्वा ध्यात्वा रामं ससीतकम् ।
ताम्रपात्रे ततः पद्ममष्टपत्रं सकेशरम् ॥
रक्तचन्दनघृष्टेन लिखेत्तस्य शलाकया ।
कर्णिकायां लिखेन्मन्त्रं तत्रावाह्य कपिं प्रभुम् ॥
कर्णिकायां हनूमन्तं ध्यात्वा पाद्यादिकं ततः ।
सुग्रीवं लक्ष्मणं चैव अङ्गदं नलनोलकम् ॥
जाम्बवन्तञ्च कुमुदं केशरिणं दले दले ।
पूर्ब्बादिक्रमतो देवि ! पूजयेद्बन्धचन्दनैः ॥
पवनञ्चाञ्जनाञ्चैव पूजयेद्दक्षवामतः ।
दलाग्रे षु कपिभ्योऽपि पुष्पाञ्जल्यष्टकं ततः ॥
ध्यात्वा तु मन्त्राराजं वै लक्षं यावत्तु साधकः ।
लक्षान्तदिवसं प्राप्य कुर्य्याच्च पूजनं महत् ॥
एकाग्रचित्तप्रनसा तस्मिन् पवननन्दने ।
दिवारात्रौ जपं कुर्य्यात् यावत् सन्दर्शनं
भवेत् ॥
सुदृढं साधकं मत्वा निशीथे पवनात्मजः ।
सुप्रसन्नस्ततो भूत्वा प्रयाति साधकाग्रतः ॥
यथेप्सितं वरं दत्त्वा साधकाय कपिप्रभुः ।
वरं लब्ध्वा साधकेन्द्री विहरेदात्मगः सुखैः ॥
एतद्धि साधनं पुण्यं देवानाभाप दुर्लभम् ।
तव स्नेहात् समाख्यातं भक्तासि मयि पार्व्वति ॥”
इति गावडे हनूमत्साधनमिति तन्त्रसारः ॥ * ॥
“हनूमतोऽतिगुह्यन्तु लिख्यते वीरसाधनम् ।
ब्राह्म्ये मुहूर्त्ते उत्थाय कृतनित्यक्रियो द्विजः ॥
गत्वा नदीं ततः स्नात्वा तीर्थमाबाह्य चाष्टधा ।
मूलमन्त्रं ततो जप्त्वा सिञ्चेदादित्यसंख्यया ॥”
ततो वाससो परिधाय गङ्गातीरे पर्व्वते वा
उपविश्य हां अङ्गुष्ठाभ्यां नमः इत्यादिना
कराङ्गन्यासौ कुर्य्यात् । ततः प्राणायामः ।
अकारादिवर्णानुच्चार्य्य वामनासापुटेन वायुं
पूरयेत् पञ्चवर्गानुच्चार्य्य वायुं स्तम्भयेत् ।
यकारादिवर्णानुच्चार्य्य दक्षिणनासापुटेन रेच-
येत् । एवं वारत्रयं कृत्वा मन्त्रवर्णैरङ्गन्यासं
कृत्वा ध्यायेत् ॥ * ॥
“ध्यायेद्रणे हनूमन्तं कपिकोटिसमन्वितम् ।
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥
लक्ष्मणञ्च महावीरं पतितं रणभूतले ।
गुरुञ्च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्व्वतम् ॥
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ।
आब्रह्माण्डं समाव्याप्य कृत्वा भीमं कलेवरम् ॥”
इति ध्यात्वा षट्सहस्रं जपेत् ॥
अस्य मन्त्रः ।
“स्वबीजं पूर्ब्बमुच्चार्य्य पवनञ्च ततो वदेत् ।
नन्दनञ्च ततो देयं ङेऽवसानेऽनलप्रिया ॥
दशार्णीऽयं मनुः प्रोक्तो नराणां सुरपादपः ॥”
हां पवननन्दनाय स्वाहा । इतिमन्त्रः । सप्तम-
दिवसे दिवारात्रं व्याप्य जपेत् । ततो महाभयं
दत्त्वा त्रिभागशेषासु निशासु नियतमागच्छति ।
साधको यदि मायां तरति तदेप्सितं वरं
प्राप्नोति ।
“विद्यां वापि धनं वापि राज्यं वा शत्रुनिग्र-
हम् ।
पृष्ठ ५/५०४
तत्क्षणादेव चाप्नोति सत्यं सत्यं सुनिश्चितम् ॥”
इति च तन्त्रसारः ॥

हनूः, स्त्री, (हनु + पक्षे ऊञ् ।) हनुः । इत्य-

मरटीकायां भरतः ॥ (यथा, --
“शाखासु हन्वोः कट्याञ्च चेष्टावन्तस्तु सन्धयः ॥”
इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)

हनूमान्, [त्] पु, (हनूरस्त्यस्येति । हनू +

मतुप् ।) हनुमान् । इति त्रिकाण्डशेषः ॥
(यथा, महाभारते । ३ । १४७ । २७ ।
“अहं केशरिणः क्षेत्रे वायुना जगदायुना ।
जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥”)

हनूषः, पुं, (हन्ति मानुषानिति । हन + “ऋह-

निभ्यामूषन् ।” उणा० ४ । ७३ । इति ऊषन् ।)
राक्षसः । इति त्रिकाण्डशेषः ॥

हन्त, व्य, हर्षः । अनुकम्पा । (यथा, गीता-

याम् । १० । १९ ।
“हन्त ते कथयिव्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥”)
वाक्यारम्भः । विषादः । इत्यमरः । ३ । ३ । २४३ ॥
(यथा, भ्रमराष्टके । ८ ।
“रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्वति हसिष्यति पद्मजालम् ।
इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥”)
अर्त्तिः । वादः । संभ्रमः । इति शब्दरत्ना-
वली ॥ खेदः इति मेदिनी ॥ (यथा, रामा-
यणे ।
“काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ॥”
अन्तकल्पनम् । इत्यजयपालः ॥

हन्तकारः, पुं, (हन्त इत्यस्य कारः करणम् ।)

अतिथिदेयतण्डुलम् । इति केचित् ॥ हन्त-
शब्दः । यथा । यत्तु ।
“निवीती हन्तकारेण मनुष्यांस्तर्पयेदथ ।
कुशस्य मध्यदेशेन नृतीर्थेन उदङ्मुखः ॥”
इति लघुविष्णूक्तम् ॥
हन्तप्रयोगेण जलदानमुक्तं तत् सनकादिप्रत्येक-
तर्पणे । यथा । सनकस्तृप्यतां तस्यैतदुदकं हन्त
इत्यादौ । न तु पद्मपुराणीयमिलिततर्पणे ।
इत्याह्रिकाचारतत्त्वम् ॥ * ॥ अतिथये दानार्थ-
षोडशग्रासाः । यथा, --
“पूजयेदतिथिं नित्यं नमस्योदर्च्चयेद्घिजम् ।
मनोवाक्कर्म्मभिः शान्तमागतं स्वगृहन्ततः ॥
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।
दद्यादतिथये नित्यं बुद्ध्वा तं परमेश्वरम् ॥
भिक्षामाहुर्ग्रासमात्रमग्रञ्च स्याच्चतुर्गुणम् ।
पुष्कलं हन्तकारञ्च तच्चतुर्गुणमुच्यते ॥”
इति कूर्म्मपुराणे उपविभागे । १८ । ११३-११५ ॥
अपि च ।
“भिक्षाञ्च याचतां दद्यात् परिव्राड्ब्रह्मचारि-
णाम् ।
ग्रामप्रमाणं भिक्षा स्यादग्रं ग्रासचतुष्टयम् ॥
अप्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ।
भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा ।
अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः ॥”
इति मार्कण्डेयपुराणे मदालसोपाख्याने । २९ ।
३४ -- ३६ ॥

हन्ता, [ऋ] त्रि, (हन्तीति । हन + तृच् ।

हननकर्त्ता । यथा, भट्टौ ५ सर्गे ।
“भवन्तं कार्त्तवीर्य्यो यो हीनसन्धिमचीकरत् ।
जिगाय तस्य हन्तारं स रामः सार्व्व-
लौकिकः ॥”

हन्तुः, पुं, मृत्युः । वृषः । हनधातोः तुप्रत्ययेन

निष्पन्नः । इति केचित् ॥ (विनाशः । यथा,
भागवते । ११ । ५ । ५० ।
“भूभारासुरराजन्यद्वन्तवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥”)

हन्तोक्तिः, स्त्री, (हन्त इत्यस्य उक्तिः ।) अनु-

कम्पोक्तिः । इति केचित् ॥

हन्नः, त्रि, (हद् + क्तः ।) कृतपुरीषोत्सर्गः । इत्य-

मरः । ३ । १ । ९६ ॥

हन्यमानः, त्रि, (हन + कर्म्मणि शानच् ।) वर्त्त-

मानहननीयवस्तु । हनधातोः कर्म्मणि शान-
प्रत्ययेन निष्पन्नः । यथा, --
“हन्यमानं महासैन्यं विलोक्यमर्षमुद्वहन् ।
अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥”
इति मार्कण्डेये देवीमाहात्म्यम् ॥

हपुषा, स्त्री, वणिग्द्रव्यविशेषः । तत्तु मरीच-

वृन्तवद्दीर्घकृष्णवर्णवस्तु । हबुष् इति ख्यातम् ।
इति वैद्याः ॥ हौहवेर इति हिन्दीभाषा ।
तत् द्विविधम् । तन्मध्ये प्रथमं फलं मत्स्यसदृशं
विस्रगन्धम् । द्वितीयमश्वत्थफलसदृशं मत्स्य-
गन्धम् । तयोर्न्नामानि गुणाश्च ।
“हपुषा वपुषा विस्रा पराश्वत्थफला स्मृता ।
मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥
हपुषा दीपनी तिक्ता मृदूष्णा तुवरा गुरुः ।
पित्तोदरप्रमेहार्शोग्रहणीगुल्मशूलहृत् ॥
पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि ॥”
इति भावमिश्रकृतभावप्रकाशः ॥ * ॥
अपि च ।
“हपुषा हवुषा विस्रा विस्रगन्धा विगन्धिका ।
अन्या चासौ स्वल्पफला कच्छुघ्नी ध्वाङ्क्षनाशिनी ॥
प्लीहशत्रुर्विषघ्नी च कफघ्नी चापराजिता ।
पूर्ब्बा तु पञ्चनाम्नी स्यादपरा सप्तधाभिधा ॥
हपुषा कटुतिक्तोष्णा गुरुश्लेष्मवलासजित् ।
प्रदरोदरविष्टम्भशूलगुल्मार्शसां हरा ॥”
इति श्रीनरहरिपण्डितविरचितराजनिर्घण्ठे
शताह्लादिवर्गश्चतुर्थः ॥

हवुषा, स्त्री, हपुषा । इति राजनिर्घण्टः ॥

हम्बा, स्त्री, गोध्वनिः । तत्पर्य्यायः । हम्मा २

रेभणम् ३ । इति जटाधरः ॥ हम्भा ४ रम्भा ५ ।
इति हेमचन्द्रः ॥ (यथा, महाभारते । १ ।
१६६ । ३१ ।
“क्रोधरक्तेक्षणा सा गौर्हम्बारवघनस्वना ।
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्ब्बशः ॥”)

हम्भा, स्त्री, गोध्वनिः । इति हेमचन्द्रः । त्रिकाण्ड-

शेषश्च ॥

हम्म, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) मद्वयान्तः । हम्मति । इति
दुर्गादासः ॥

हय, क्लमे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-क्लमे अक०-गतौ सक०-सेट् ।) हयति ।
क्लमो ग्लानिः । इति दुर्गादासः ॥

हयः, पुं, (हयति गच्छतीति । हय + अच् ।

हिनोतीति । हि + अच् वा ।) घोटकः ।
इत्यमरः । २ । ८ । ४४ ॥ अथ हयायुर्व्वेदः ।
धन्वन्तरिरुवाच ।
“हयायुर्व्वेदमाख्यास्ये हयैः सर्व्वार्थरक्षणम् ।
काकुटी कृष्णजिह्वश्च कृष्णाख्यः कृष्णतालुकः ॥
कराली हीनदन्तश्च शृङ्गी चाधिकदन्तकः ।
एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥
मार्जारपादो व्याघ्राभः कुष्ठविद्रुधिसन्निभः ।
यमजो वामनश्चैव मार्जारकपिलोचनः ॥
एतद्दोषी हयस्त्याज्य उत्तमोऽश्वश्चतुष्करः ।
एते दोषाश्च कथिता हयहस्त्यादिषूत्तमाः ॥
मध्योऽर्द्धहस्तहीनोऽश्वो मुष्टिहस्तविहीनकः ।
कनीयांश्चार्द्धमानः स्यादर्द्धसप्तस्तु दीर्घतः ॥
षण्मुष्टिहीनः पञ्चोन उत्तमाद्यास्तु दीर्घतः ।
असंहता ये च वाहा ह्रस्वकर्णास्तथैव च ॥
स्वरनेत्रप्रभावेषु न दीनाश्चिरजीविनः ।
रेवन्तपूजनाद्धोमाद्रक्षा स्यात् द्विजभोजनात् ॥
लोहकं निम्बपत्राणि गुग्गुलुसर्षपा घृतम् ।
तिलञ्चैव वचा हिङ्गु वघ्नीयाद्वाजिनां गले ॥
आगन्तुकं दोषजन्तु व्रणं द्विविधमीरितम् ।
चिरपाकं खरं वातात् पित्तजं क्षिप्रपाकिकम् ॥
कण्डुदाहात्मकं पित्तात् सोन्मादं मन्दवेदनम् ।
घनं कफात् सन्निपातात् सर्व्वरूपं द्विदोषजम् ॥
आगन्तुकन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् ।
दन्तीमूलं हरिद्रे द्धे चित्रकं विश्वभेषजम् ॥
रसोनं सैन्धवं वापि तक्रकाञ्जिकपेषितम् ।
तिलशक्तुकपिण्डोका दधियुक्ता ससैन्धवा ॥
निम्बपत्रयुतं पिण्डं तिलैः शोधनरोपणम् ।
करबीरकदल्यर्कस्नुहीकुटजचित्रकैः ॥
भल्लातस्य पचेत्तैलं नाडीव्रणहरं परम् ।
पङ्कवल्कलकल्केन घृतेन च प्रलेपयेत् ॥
द्वे हरिद्रे विडङ्गानि तथा लवणपञ्चकम् ।
पटोलं निम्बपत्रञ्च वचा चित्रक्रमेव च ॥
पिप्पली शृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ।
एतत्पानं कृमिश्लेष्ममदानिलविनाशनम् ॥
निम्बपत्रं पटोलञ्च त्रिफला खदिरं तथा ।
क्वाथयित्वा ततो वाहं शृतरक्तं विचक्षणः ।
त्र्यहमेव प्रदातव्यं पानं कुष्ठोपशान्तये ॥
व्रसणेषु च कुष्ठेषु तैलं सर्षपजं हितम् ।
पञ्चवल्कलतैलं वा दशमूलञ्च शोपनुत् ॥
लशुनादीन् वदे कल्पान् मुक्तिपानान्तलेपतः ।
मातुलुङ्गरसोपेतं मांसलारसकेन वा ॥”
मांसलास्याने मांसानामिति च पाठः ।
पृष्ठ ५/५०५
“रसं दद्यादसोनस्य अन्यैर्व्वा तैलसंयुतैः ।
पलद्वय प्रथमेऽह्नि एकैकपलवृद्धितः ॥
यावद्धि शान्तिपूर्णा स्यात्तन्मात्रेत्युत्तमात्मके
मध्यमे चतुर्द्दश स्युरधमेऽष्टपलानि च ॥
शरन्निदाघयोर्न्नैव देयो नैव तु दापयेत् ।
तैलेन वातिके पित्ते शर्कराज्यपयोऽन्वितैः ॥
कटुतैलैः कफे व्योषैः कफे मुद्गान् कुलत्थकान् ।
शालिषष्टिकदुग्धाशी हयोऽखिलजुगुप्सितः ॥
पक्वजम्बूनिभो हेमवर्णः श्रेष्ठश्च गुग्गुलुः ।
ग्रर्द्धप्रहरणे सूर्य्ये गुग्गुलुं पाययेद्धयम् ॥
भोजने पायसं दुग्धं नाडीस्तिस्रस्तनोति सः ।
विकाले भोजयेदश्वं शाल्यन्नं वातुले ददेत् ॥
मांसानाञ्च रसैः पित्ते मधुमुद्गरसाज्यकैः ।
कफे मुद्गान् कुलत्थान् वा कटुतिक्तान् शृतान्
हये ॥
व्याधिते व्याधिते श्वासे त्रिदोषादौ तु गुग्-
गुलुम् ।
घामैर्दूर्व्वा सर्व्वरोगे प्रथमेऽह्रि पलं ददेत् ॥
विवर्द्धयेत् ततो वर्षमेकादिपलपञ्चकम् ।
उत्तमे स्याच्च चत्वारि त्रीणि मध्यजघन्ययोः ॥
पानेन भोजनेनैव अशीतिपलकं वरे ।
मध्ये षष्टिश्चाधमेऽथ चत्वारिंशच्च भोगिषु ॥
व्रणे कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतम् ।
मन्दाग्नौ शोथरोगे च गवां मूत्रेण योजयेत् ॥
वातपित्तोल्वणे व्याधौ गोक्षीरघृतसंयुतम् ।
देयं कृषाणां पुष्ट्यर्थं माषैर्यक्तञ्च भोजनम् ॥
सुपिष्टायाः प्रदातव्यं गुडूच्याः पलपञ्चकम्
प्रभाते घृतसंयुक्तं शरद्ग्रीष्मेषु वाजिनाम् ॥
रोगघ्नं पुष्टिदञ्चापि बलतेजोविबर्द्धनम् ।
तदेवाश्वाय दद्याद्वै क्षीरयुक्तमथापि वा ॥
गुडूचीकल्कयोगेन शतावर्य्यश्वगन्धयोः ।
चत्वारि त्रोणि मध्यस्य जघनस्य पलानि हि ॥
अकस्माद्यत्र वाहानामेकरूपं यदा भवेत् ।
म्रियते च तदा क्षिप्रं उपसर्गं तमादिशेत् ॥
होमाद्यैरक्षया विप्रभोजनैर्बलिकर्म्मणा ।
शान्त्योपसर्गशान्तिः स्याद्धरीतक्यादिकल्पतः ॥
हरीतको सगोमूत्रा तैलेन लवणान्विता ।
आदौ पञ्च ततः पञ्चवृद्ध्या पूर्णा शतावधि ।
उत्तमाश्वे शतं प्रोक्तमशातिः षष्टिरुत्तरे ॥ * ॥
गजायुर्व्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः ।
गजे चतुर्गुणा मात्रा ताभिर्गजरुगर्द्दनम् ॥
गंजोपसर्गव्याधौनां शमनं शान्तिकर्म्म च ।
पूजयित्वा सुरान् विप्रान् ब्राह्मणे कपिलां ददेत् ॥
दन्तिदन्तद्वये मालां विवध्नीयादुपोषितः ।
मन्त्रणं मन्त्रिता वेद्यो वचासिद्धार्थकामले ॥
सूर्य्याद्याः शिवदुर्शाश्रीर्विष्णुता रक्षसां गणः ।
बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः ॥
भोजनं मन्त्रितं दद्यात् भस्मनोद्भूनयेद्गजम् ।
भूती रक्षा शुभा मेध्या वारुणी रक्षसां सदा ॥
त्रिकला पञ्चकोले च दशमूलं विडङ्गकम् ।
शतावरी गुडूची च निम्बवासककिंशुकाः ॥
गजरोगविनाशाय प्रोक्तः कल्कः कषायकः ।
आयुर्व्वेदो गजाश्वानामुक्तः संक्षेपसारतः ॥”
इति गारुडे हयायुर्व्वेदः २०७ अध्यायः ॥
युक्तिकल्पतरूक्तहयपरीक्षा घोटकशब्दे द्रष्ट-
व्या ॥ * ॥ हये वर्णनीयानि यथा । वेगः १
औन्नत्यम् २ तेजः ३ सल्लक्षणस्थितिः ४ खुरोत्-
खातरजः ५ रूपम् ६ जातिः ७ गतिविचि-
त्रता ८ । इति कविकल्पलता ॥ * ॥ अथ
हयशकुनः ।
“हेषारवं मुञ्चति वामतो यः
क्षुण्णक्षितिर्दक्षिणपादघातैः ।
कण्डूयते दक्षिणमङ्गभाग
तुङ्गं तुरङ्गः स पदं ददाति ॥”
इति वसन्तराजे हयशकुनः १३ वर्गः ॥

हयकातरा, स्त्री, (हयः कातरो यस्याः ।)

अश्वकातरावृक्षः । घोडकाथरा इति हिन्दो
भाषा ॥

हयकातरिका, स्त्री, (हयकातरा एव । स्वार्थे

कन् । टाप् अत इत्वम् ।) अश्वकातरावृक्षः ।
घोडकाथरा इति हिन्दी भाषा । यथा, --
“कातरा हयपर्य्यायैः कातरान्तैः प्रकीर्त्तिताः ।
अश्वकातरिका तिक्ता वातघ्नो दीपनी परा ॥”
इति राजनिर्घण्टः ॥

हयगन्धं, क्ली, (हयस्येव गन्धो यस्य ।) काच-

लबणम् । इति राजनिर्घण्टः ॥ (विवरणमस्य
काचलवणशब्दे ज्ञातव्यम् ॥)

हयगन्धा, स्त्री, (हयस्येव गन्धो यस्याः ।) अश्व-

गन्धा । इति रत्नमाला ॥ (अस्याः पर्य्यायो
यथा, --
“गन्धान्ता वाजिनामादिरश्वगन्धा हयाह्वया ।
वराहकर्णो वरदा बलदा कुष्ठगन्धिनी ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
अजमोदा । इति राजनिर्घण्टः ॥

हयग्रीवः, पुं, (हयस्य ग्रीवा इव ग्रीवा यस्य ।)

मधुकटभहृतवेदोद्धारार्थं विष्णारवतारविशेषः ।
तस्य रूपं यथा, --
“सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा ।
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥
तस्य मूर्द्धा समभवत् द्यौः सनक्षत्रतारका ।
केशाश्चास्याभवद्दीर्घा रवेरंशुसमप्रभाः ॥
कर्णावाकाशपाताले ललाटं भूतधारिणी ।
गङ्गा सरस्वती श्रोण्यौ भ्रुवावास्तां महोदधी ॥
चक्षुषी सोमसूर्य्यौ ते नासा सन्ध्या पुनः स्मृता ।
प्रणवस्त्वथ संस्कारो विद्युज्जिह्वा च निर्म्मिता ॥
दन्ताश्च पितरो राजन् सोमपा इति विश्रुताः ।
गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः ॥
ग्रीवा चास्याभवद्राजन् कालरात्रिर्गुणोत्तरा ।
एतद्धयशिरः कृत्वा नानामूर्त्तिभिरावृतम् ॥”
इति महाभारतम् ॥ * ॥
(हवग्रीवदैत्यवधार्थमेव भगवान् हयग्रीवमूर्त्ति-
रभवत् । इति देवीभागवतमतम् ॥ अस्य
विवरणन्तु तत्रैव १ स्कन्धे ५ अध्याये द्रष्टव्यम् ।)
विष्णुवध्यदैत्यविशेषः । इति हेमचन्द्रः ॥ स च
कल्पान्ते ब्रह्माणि प्रसुप्ते वेदं हृतवान् । तद्वेदो-
द्धारणार्थं विष्णुना मत्स्यावतारेण स हतः ।
इति केचित् ॥ * ॥ आप च ।
“वृद्धगङ्गाजलस्यान्तन्तीरे ब्रह्मसुतस्य च ।
विश्वनाथाह्वयो देवः शिवलिङ्गममन्वितः ।
विश्वदेवी महादेवी योनिमण्डलरूपिणी ॥
हयग्रीवेण युयुधे तत्र देवो जगत्पतिः ।
हयग्रीवं यत्र हत्वा मणिकूटं तथागमत् ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

हयग्रीवहा, [न्] पुं, (हयग्रीवं हन्तीति । हन् +

क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥

हयग्रीवा, स्त्री, दुर्गा । यथा, --

“नारसिंही हयग्रीवा हिरण्याक्षविनाशिनी ।”
इति तस्याः सहस्रनामस्तोत्रम् ॥

हयङ्कषः, पुं, (हयं उच्चैःश्रवसं कषतीति । कष +

खच् ।) मातलिः । स तु इन्द्रसारथिः । इति
त्रिकाण्डशेषः ॥

हयनं, क्ली, (हयति गच्छत्यनेनेति । हय + ल्युट् ।)

कर्णीरथः । इत्यमरः ॥ तस्य रूपान्तरं डय-
नम् । इति तट्टीकायां भरतः ॥

हयपुच्छी, स्त्री, (हयस्य पुच्छमिव आकृतियस्याः ।

ङीष् ।) माषपर्णी । इत्यमरः । २ । ४ । १३८ ॥

हयप्रियः, पुं, (हयस्य प्रियः ।) यवः । इति हेम-

चन्द्रः ॥ (यवशब्देऽस्य गुणादयो ज्ञेयाः ॥)

हयप्रिया, स्त्री, (हयस्य प्रिया ।) अश्वगन्धा ।

खर्ज्जूरी । इति राजनिर्घण्टः ॥

हयमारः, पुं, (हयं मारयतीति । मृ + णिच् +

अण् ।) करवीरः । इति राजनिर्घण्टः ॥

हयमारकः, पुं, (हयं मारयतीति । मृ + णिच् ।

ण्वुल् ।) करवीरवृक्षः । इत्यमरः । २ । ४ । ७६ ॥

हयमारणः, पुं, (हयं मारयतीति । मृ + णिच् +

ल्युः ।) अश्वत्थवृक्षः । इति शब्दचन्द्रिका ॥

हयवाहनः, पुं, (हयो वाहनमस्य ।) रेवन्तः ।

स तु सूर्य्यपुत्त्रः । इति हेमचन्द्रः ॥ कुबेरः ।
इति केचित् ॥

हयवाहनशङ्करः, पुं, रक्तकाञ्चनः । इति शब्द-

चन्द्रिका ॥

हयशाला, स्त्री, (हयस्य शाला ।) अश्वालयः ।

यथा, मात्स्ये । २१७ । १९ -- २३ ।
“गवां स्थानं तथैवात्र तुरगाणान्तथैव च ।
उत्तराभिमुखा श्रेणी तुरगाणां विधीयते ॥
दक्षिणाभिमुखा वाथ परिशिष्टास्तु गर्हिताः ।
तुरगास्तु तथा धार्य्याः प्रदीपैः सर्व्वरात्रिकैः ॥
कुक्कुटा वानराश्चैव मर्क्कटाश्च नराधिप ! ।
धारयेदश्वशालायां सवत्सां धेनुमेव च ।
अजाश्च धार्य्या यत्नेन तुरगाणां हितैषिणा ॥
गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमम् ।
अस्तं गते न कुर्व्वीत देवदेवे दिवाकरे ॥”

हयशीर्षः, पुं, (हयस्य शीर्षं शीर्षं यस्य ।)

विष्णुः । यथा, --
“ततो जगाम हृष्टोऽब्धौ द्रष्टुं वाजिमुखं
प्रभुम् ।
पृष्ठ ५/५०६
तत्र देवह्रदे स्नात्वा तर्पयित्वा पितॄन् सुरान् ।
संपूज्य हयशीर्षञ्च जगाम गजसाह्वयम् ॥”
इति वामनपुराणे ७१ अध्यायः ॥

हया, स्त्री, (हयस्तद्गन्धोऽस्त्यस्या । इति । अच् ।

टाप् ।) अश्वगन्धा । इति राजनिर्घण्टः ॥

हयाध्यक्षः, पुं, (हयस्य अध्यक्षः ।) अश्वाध्यक्षः ।

तस्य लक्षणं यथा, --
“हयशिक्षाविधानज्ञस्तच्चिकित्सितपारगः ।
अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते ॥”
इति मात्स्ये । २१५ । ३७ ॥

हयानन्दः, पुं, (हयस्य आनन्दो यस्मात् ।)

मुद्गः । इति राजनिर्घण्टः ॥ (गुणादयोऽस्य
मुद्गशब्दे ज्ञातव्याः ॥)

हयायुर्व्वेदः, पुं, (हयस्य आयुर्व्वेदा । घोटक-

चिकित्साशास्त्रविशेषः । तच्छास्त्रं हयशब्दे
द्रष्टव्यम् ॥

हयारिः, पुं, (हयस्य अरिः ।) करवीरः । इति

रत्नमाला ॥

हयाशना, स्त्री, (हयानामशनं यस्याः ।) शल्लकी-

वृक्षः । इति शब्दचन्द्रिका ॥

हयी, स्त्री, (हयस्य स्त्री । हय + ङीप् ।)

घोटकी । इति जटाधरः ॥

हयेष्टः, पुं, (हयनामिष्टः ।) यवः । इति राज-

निर्घण्टः ॥

हयोत्तमः, पुं, (हयेषु उत्तमः । कुलीनाश्वः ।

तत्पर्य्यायः । वाताश्वः २ जात्यः ३ अजानेयः ४ ।
इति त्रिकाण्डशेषः ॥

हरः, पुं, (हरति पापानीति । हृ + अच् ।)

शिवः । इत्यमरः । १ । १ । ३१ ॥ (यथा,
रघुः । ४ । ३२ ।
“स सेनां महतीं कर्षन् पूर्ब्बसागरगामिनीम् ।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥”)
अग्निः । गर्द्दभः । इति केचित् ॥ हरणम् ।
इत्यङ्कणास्त्रम् ॥ त्रि, हरणकर्त्ता । (यथा,
भागवते । ३ । १८ । ११ ।
“एते वयं न्यासहरा रसौकसां
गतह्नियो गदया द्रावितास्ते ॥”)

हरकः, पुं, (हर एव । स्वार्थे कन् ।) शिवः ।

चौरः । इति केचित् ॥ हरणकर्त्तरि, त्रि ॥

हरगौरी, स्त्री, (हरेण सह गौरी ।) अर्द्ध-

नारोश्वरमूर्त्तिः । यथा, --
देव्युवाच ।
“यथा तवाहं सततं छायेवानुगता हर ।
भवेयं साहचर्य्येण तथा मां कत्तुमर्हसि ॥
मव्वगात्रेण संस्पर्शं नित्यालिङ्गनविभ्रमम् ।
अहमिच्छामि भवतस्तत्त्वं चेत् कर्त्तुमर्हसि ॥
श्रीभगवानुवाच ।
रोचते तन्मह्यमपि यत्त्वमिच्छसि भाविनि ! ।
तत्रोतायमहं वक्ष्ये यदि शक्नोषि तत् कुरु ॥
अद्धं मम शरीरस्य गृहाश त्वं मनोहरे ।
अद्धं भवा मे नारी तथैवार्द्ध पुमानिति ॥
यदि त्वं न हि शक्नोषि हर्त्तुं तत्त्वर्द्धमीदृशम् ।
तदाहं ते हरिष्यामि शरीरार्द्धं वरानने ! ॥
तवैवार्द्धं तथा नारी अर्द्धं भवतु पूरुषः ।
विद्यते तत्र शक्तिर्मे त्वमनुज्ञातुमर्हसि ॥
श्रीदेव्युवाच ।
“तवेवाहं हारष्यामि शरीरार्द्धं वृषध्वज ! ।
किन्त्वहं त्वेकमिच्छामि यच्चेत्त्वं हर इच्छसि ॥
तथाहमर्द्धं भवतो हृत्वा तिष्ठामि तावता ।
त्यजाम्यहं यदा तेऽर्द्धं सम्पूर्णं स्यात्तदा द्वयम् ॥
इत्यर्द्धभागहरणं भवेद्यदि यथेप्सितम् ।
तदैवाहं तदा शम्भोः शरीरार्द्धं हराम्यहम् ॥”
ईश्वर उवाच ।
एवमस्तु भवेन्नित्यं यथा त्वं कर्त्तुमिच्छसि ।
शरीरार्द्धस्य हरणं भूयात्तव यथेप्सितम् ॥
श्रीऔर्व्व उवाच ।
अथ गौरी तदा पूर्ब्बमनुभूतं तपःस्थितौ ।
योगनिद्रास्वरूपं तदात्मानोऽचिन्तयद्धिया ॥
हरं प्रणम्य प्रथमं ब्रह्माणञ्च ततः परम् ।
ततस्त्रिजगतामीशं हरिं नारायणं प्रभुम् ॥
चिन्तयित्वा तथा तेषामेकतां सा जगन्मयी ।
आत्मानं यागनिद्राञ्च चिन्तयित्वा मनस्विनी ॥
दक्षिणे स्वशरीरस्य भागार्द्धं शशभृद्भृतः ।
शरीरस्य तथा वाममतिप्रेम्णा निजं हरे ॥
हरोऽपि स्वशरीरार्द्धं गौरीकाये तदा स्वयम् ।
प्रेम्णानिवेशयत्तस्याश्चिकीर्षुः प्रियमद्भुतम् ॥
अथ स्थित्वा तदा भर्गः काल्या सह चिरं
तदा ।
परित्यज्य शरीरार्द्धं पृथगेव बभौ रुचा ॥
काली भूत्वा स्वर्णगौरी शरीरार्द्धन्तु शाङ्करम् ।
प्राप्य मोदात्तदात्मानं सन्तुष्टा च जगम्भयी ॥
एवं यदा शरीरार्द्धमादाय परमेश्वरी ।
हरस्य तिष्ठति तदा राजतेऽतीवशोभना ।
अर्द्धं धम्मिलसंयुक्तं जटाजूटार्द्धयोजितम् ।
एकस्मिन् श्रवणे भोगी भागे जाम्बृनदाचितम् ।
कुण्डलं श्रवणेऽन्यस्मिन् शीर्षे तस्या व्यराजत ॥
अर्द्धं मृगाक्षि चास्यार्द्धं वृषभाक्षि व्यराजत ।
अर्द्धं स्थूलनसं चारु तिलपुष्पनसं परम् ॥
दोर्घश्मश्रु तथैवार्द्धमर्द्धं श्मश्रुविवर्ज्जितम् ।
आरक्तचारुदशनं रक्तौघमेकतस्तथा ॥
अपरं शुक्लविपुलदीर्घाकृति रदं परम् ।
अर्द्धं नीलगलञ्चाद्धमपरं हारसंयुतम् ॥
अर्द्धं कङ्कणकेयूरयुक्तबाहु तथापरम् ।
नागकेयूरसंयुक्तस्थूलबाहु निरूर्म्मिकम् ॥
अर्द्धं विषायतभुजं करिहस्तभुजं परम् ।
एकत्र सोर्म्मिकाः शाखाः करस्यान्यत्र तां
विना ॥
एकस्तनन्तु हृदयं रोमावल्यर्द्ध्वसंयुतम् ।
रम्भास्तम्भसमानोरु सुपार्ष्णि मृदुपादकम् ॥
एकं तथापरं स्थूलसंहतोरु पदाम्बुजम् ।
एकञ्चारु मृदु स्थूलजघनं सुमनोहरम् ॥
तथापरं दृढकटि संहतोर्द्ध्वपदाम्बुजम् ।
एकं वैयाव्रचर्म्मोपयुक्तं भूतिविलेपनम् ॥
अपरं मृदुकौषेयवसनं चन्दनोक्षितम् ।
एवमर्द्धं तथा जातं यीषिल्लक्षणसंयुतम् ॥
अपरं बलवद्भूरि सुदृढं पुरुषाकृति
एवमर्द्धं स्मररिपार्ज्जहार गिरिजा सती ॥
हिताय सर्व्वजगतां कामाख्या कालिकोपमा ।
तस्याः शरीरं राजेन्द्र हरतन्वर्द्धसंयुतम् ।
येनोपमेयं तन्नास्ति मार्गितं भुवनत्रये ॥
सन्तानः पारिजातो वा एकान्तविषदस्तरुः ।
अमोघया तथा वन्द्यौ तौ चापि ययतुर्नहि ॥
बहुधा च पृथक्त्वेन तौ रेमाते नरेश्वर ।
अर्द्धनारोश्वरो भूत्वा स तु रम कदाचन ॥
इति यद्यपि भूतेशः स्वयं शक्नोति कालिकाम् ।
गौरीं कर्त्तुं तदा सर्व्वभूतकारणकारणः ॥
तथापि तां गिरिसुतां संयोज्य विविधैः पुरा ।
तपस्ययोजयद्देव क्रियो पायैरनेकशः ॥
तपोनिर्धूतसर्व्वाङ्गीं पश्चाद्गौरीमथाकरोत् ।
अर्द्धञ्च प्रददौ तस्यं शरीरस्य महेश्वरः ॥
नैवास्य तत्त्वं जानन्ति शक्राद्याः सकलाः
सुराः ।
शरीरार्द्धप्रदानस्य तपसो योजनस्य च ॥
एतस्य तत्त्वं जानन्ति महात्मानो महाबलाः ।
नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा ।
अङ्गभूता महेशस्य वीतभीतास्तपोधनाः ॥
ये मानुषशरीरेण प्रापिरे तपसो बलात् ।
गणानामाधिपत्यन्तु ते जानन्ति हरं परम् ॥
एवं सदा त्वया योज्याः सानुगा नृपसत्तम ! ।
वनिताः सत्क्रियोपायैस्ततो भद्रमवाप्स्यसि ॥
य इदं शृणुयान्नित्यमद्भुतं पुण्यदायकम् ।
शिवयोः प्रीतिकरणं शरीरार्द्धं ग्रहं तथा ॥
गौरीत्वापादनञ्चैव कालिकायाः शुभावहम् ।
न तस्य विघ्ना जायन्ते स च पुण्यतमो मतः ।
दीर्घायुः स सुखी भूयात् पुत्त्रपीत्त्रसमन्वितः ॥
सततं परिशृण्वानः शिवयोश्चरितं महत् ।
शिवलाकमवाप्नोति सुचिरं शिवल्लभः ॥”
इति श्रीकालिकापुराणे ४४ अध्यायः ।

हरचूडामणिः, पुं, (हरस्य चूडामणिः शिरो-

भूषणमिव ।) चन्द्रः । इति भूरिप्रयोगः ॥ शिव-
शिरोरत्नञ्च ॥

हरणं, क्ली, (ह्नियते इति । हृ + ल्युट् ।) यौत-

कादिदेयद्रव्यम् । (यथा, रघुः । ७ । २२ ।
“सत्त्वानुरूपाहरणाकृतश्रीः
प्रास्थापयत् राघवमन्वगाच्च ॥”)
तत्पर्य्यायः । दायः २ । इत्यमरः । २ । ८ । २८ ॥
यौतकं आदिना उपनयनभिक्षाप्रसादादि च
यत् देयं तत् दायहरणपदवाच्यं कन्यादानकाले
जामात्रादभ्यो व्रतभिक्षादो ब्रह्मणादिभ्यश्च यत्
द्रव्यं दीयते यत्र दायादिद्वयमित्यर्थः । युतकं
यानिसम्बन्धः तत्र भवमिति ष्णेयौतकं युतयो-
र्बधूवरयोरिदमिति वा कणि योतकं यौतुक-
मुकारमध्यमपि । यौतकं यौतुकञ्च तत् इति
वाचस्पतिः । दीयते दायः, कर्म्मणि घञ् सुष्ठु
दीयते सुदायः इति पाठः इत्यन्ये । ह्रियते
हरणं कर्म्मणि अनट् । इति भरतः ॥ * ॥
पृष्ठ ५/५०७
भुजः । हृतिः । इति मेदिनी ॥ (यथा, भाग-
वते । १० । ५० । ९ ।
“एतदर्थोऽवतारोऽयं भूभारहरणाय मे ।
संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥”)
शुक्रम् । स्वर्णम् । कपर्द्दकम् । उष्णोदकम् ।
इति केचित् ॥ भाज्याङ्कात् भाजकाङ्कद्वारा-
भागग्रहणम् । इति लोलावती ॥

हरतेजः, [स्] क्ली, (हरस्य तेजः ।) पारदम् ।

इति राजनिर्घण्टः ॥ शिववोर्य्यञ्च ॥

हरनेत्रं, क्ली, (हरस्य नेत्रम् ।) शिवचक्षुः ।

संख्यात्रयम् । इति ज्जोतिःशास्त्रम् ॥

हरबीजं, क्ली, (हरस्य बीजम् ।) पारदम् ।

इति भूरिप्रयोगः ॥

हररूपः, पुं, (हरस्य रूपमिव रूपमस्य ।) शिवः ।

इति शब्दरत्नावली ॥

हरशेखरा, स्त्री, (हरस्य शेखरं आवासत्वेना-

स्त्यस्या इति । अच् ।) गङ्गा । इति हेमचन्द्रः ॥

हरहूरा, स्त्री, हारहूरा । द्राक्षा । इति केचित् ॥

हराद्रिः, पुं, (हरस्य अद्रिः ।) कैलासपर्व्वतः ।

इति केचित् ॥ (यथा, कथासरित्सागरे । ११३ ।
९९ ।
“विद्याधराः शृणुत यः कुरुते ममात्र
धर्म्मव्यतिक्रममितः प्रभृति प्रजासु ।
वध्य स मे नियतमित्यभितो हराद्रि-
मुद्धोषणाञ्च स ततो भ्रमयाञ्चकार ॥”)

हरिः, पुं, (हरति पापानीति । हृ + “हृपिषि-

रुहीति ।” उणा० ४ । १२८ । इति इन् ।)
विष्णुः । (यथा, रघुः । १० । ८६ ।
“हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः
पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥”)
सिंहः । (यथा, रघुः । २ । ५९ ।
“स न्यस्तगस्त्रो हरये स्वदेह-
मुपानयत् पिण्डमिवामिषस्य ।”)
शुकपक्षी । सर्पः । वानरः । भेकः । इत्यमरः ॥
चन्द्रः । सूर्य्यः । वायुः । अश्वः । (यथा,
महाभारते । ३ । १६६ । ५ ।
“ततः स हरिभिर्युक्तं जाम्बनदपरिस्कृतम् ।
मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥)
यमः । शिवः । ब्रह्मा । किरणः । इन्द्रः । (यथा,
रघुः । १२ । १०३ ।
“यन्ता हरेः सपदि संहृतकार्म्मुकज्य-
मापृच्छ्य रावघमनुष्ठितदेवकार्य्यम् ॥”)
वर्षविशेषः । इति मेदिनी ॥ मयरः । कोकिलः ।
हंसः । अग्निः । इति शब्दरत्नावली ॥ भर्त्तृ-
हरिः । इति त्रिकाण्डशषः ॥ पिङ्गवर्णः ।
हरिद्वर्णः । इति हेमचन्द्रः ॥ * ॥ हरेरष्टोत्तर-
शतनामानि यथा, --
त्रीसदावि उवाच ।
श्रीकृष्णाष्टोत्तरशतं नाम मङ्गलदायकम् ।
तत्शृणुष्व महाभाग ! सव्वकल्मषनाशनम् ॥
श्रीकृष्णः पुण्डरोकाक्षो वासुदेवी जनार्द्दनः ।
नारायणो हरिर्व्विष्णुर्म्माधवः पुरुषोत्तमः ॥
गोविन्दः केशवोऽनन्तो वामनो मधुसूदनः ।
दामोदरो हृषीकेशः पद्मनाभस्त्रिविक्रमः ॥
वैकुण्ठश्चाच्युतो रामश्चक्रपाणिरधोक्षजः ।
पीताम्बरो जगन्नाथो नृसिंहो गरुडध्वजः ॥
राधिकापतिरानन्दस्वरूपो विश्वमोहनः ।
यशोदानन्दनः सत्यः श्रीगोपोजनवल्लभः ॥
गदाधरो हयग्रीबो वराहश्च गवीश्वरः ।
गोवर्द्धनधरो विश्वबीजं कमललोचनः ॥
सर्व्वान्तर्य्यामी जगदीशश्चानूरमर्द्दनः प्रभुः ।
विश्वम्भरो यज्ञभोक्ता वनमाली सनातनः ॥
पुराणपुरुषो नन्दात्मजः श्रीवत्सलाञ्छनः ।
देवकीनन्दनः श्यामः श्रीश्यामाप्राणवल्लभः ॥
अनिरुद्धः परं ब्रह्म मुरारिः श्रीधरस्तथा ।
श्रीगोपीप्तोहनः शार्ङ्गधन्वा तु ब्राह्मणप्रियः ॥
ब्रह्मण्यदेवः क्षेत्रज्ञस्तापत्रयविनाशनः ।
कैटभारिर्गुणातीतो रुक्मिणीरमणो विराट् ॥
सङ्कर्षणः शेषशायी दैत्यारिर्वकभित्तथा ॥
सर्व्वशास्त्रप्रणेता च मुकुन्दो भक्तवत्सलः ॥
अघासुरघ्नः प्रद्युम्नो हंसश्च मुरलीधरः ।
कुवलयापीडघाती च पद्मधारी चतुर्भुजः ॥
भक्तलोकैकशरणो गोपालो वैष्णवप्रियः ।
वंशीपाणिर्गुणमयः कोटिकन्दर्पमोहनः ॥
वेणुवाद्यविनोदी च कंसारिर्यादवस्तथा ।
चतुर्व्वेदमयो नित्यः सच्चिदानन्दविग्रहः ।
दीनानाथैकशरणं भक्तानुग्रहकारकः ॥ * ॥
एतदष्टोत्तरशतं कृष्णनाम नृमङ्गलम् ।
प्रत्यहं यः पठेत् प्रातस्त्रिसन्ध्यां वा विशेषतः ॥
द्विजादिश्चेन्नरो भक्त्या शृणोति जपति स्मरेत् ।
दुःस्वप्ननाशनं तस्य मनोमलविनाशनम् ।
सर्व्वापराधशमनं सर्व्वपापक्षयो भवेत् ।
पावनं शान्तिदं पुण्यं तापत्रयविनाशनम् ॥
आयुष्यं सर्व्वसुखदं सर्व्वदुःखापहं मुने ! ।
वतयज्ञतपोदानयागतीर्थफलप्रदम् ॥
पुत्त्रदं चाशु बन्ध्यानां ग्रहपीडादिनाशनम् ।
सर्व्वाभीष्टप्रदं सर्व्वैश्वर्य्यदं विघ्ननाशनम् ॥
सर्व्वोपद्रवदारिद्य्रनाशनं मानवस्य तु ।
सद्बुद्धिविद्याविज्ञानयशोधर्म्मप्रदं तथा ॥
सर्व्वभीतिहरं भक्तिमुक्तिंधान्यधनप्रदम् ।
सर्व्वरोगक्षयकरं बाह्वान्तःशुद्धिदं परम् ॥
फलकामिनो वैष्णवस्य सर्व्वकामफलप्रदम् ।
सर्व्वशत्रुक्षयो याति हरिभक्तिश्च जायते ॥
सरस्वती च वशगा कमलाविरतं भवेत् ।
क्षेत्रतीर्थे च मरणं गङ्गायां वा विशेषतः ॥
मोचनं भवबन्धस्य यमभीतिविनाशनम् ।
निष्कामिनस्त्वनन्यस्य प्रेमभक्तिसुखप्रदम् ।
भवेदहैतुकं ज्ञानं साक्षात् कृष्णः प्रसीदति ॥”
इति पाद्मोत्तरखण्डे १११ अध्यायः ॥ * ॥
श्रीहरिपादचिह्नाणि यथा, --
श्रासदाशिव उवाच ।
“सच्चिदानन्दरूपस्य कृष्णस्याद्भुतकर्म्मणः ।
संस्मरेत् पादचिह्नानि प्रातर्भक्त्या नरोत्तमः ॥
अतिगुह्यानि देवर्षे । यानि भक्तिप्रदानि च ।
सर्व्वसुखप्रदानीह तव प्रोक्तानि वेधसा ॥
मयापि भुवनेश्वर्य्यै कथितानि प्रयत्नतः ।
पुरासौ तुष्टचित्ताभूत् श्रुत्वा कृष्णसुखप्रदा ॥
दिलीप उवाच ।
कानि कानि च चिह्नानि कृष्णस्य पादयो-
र्म्मने ।
वशिष्ठ ! श्रोतुमिच्छामि कथयस्वानुपूर्ब्बकम् ॥
वशिष्ठ उवाच ।
यदूचिवान् स्वयं ब्रह्मा नारदाय नराधिप ! ।
तत् शृणुष्व महत् पुण्यमतिगोप्यतमं वचः ॥
विधिर्देवर्षिणा पृष्ट उपाख्यानमिदं पुरा ।
महाभागवतं पुण्वमेकदा तमुवाच ह ॥
ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि पादयोश्चिह्नलक्षणम् ।
भगवत्कृष्णरूपस्य ह्यानन्दैकरसस्य च ॥
अवताराः ह्यसंङ्ख्याश्च कथिता ये तवाग्रतः ।
परं सम्यक् प्रवक्ष्यामि कृष्णस्तु भगवान् स्वयम् ॥
देवानां कार्य्यसिद्ध्यर्थमृषीणां वा नृणां तया ।
आविर्भूतस्तु भगवान् स्वानां प्रियचिकीर्षया ॥
केनैव ज्ञायेते देवो भगवान् भक्त्वत्सलः ।
तान्यहं वेद्मि नान्योऽस्ति सत्यमेतन्मयोदितम् ॥
ऊनविंशतिचिह्नानि मया दृष्टानि तत्पदे ।
दक्षिणे दश चिह्नानि वामे च नव नारद ! ॥
ध्वजातपत्रं कमलं वज्राख्यमङ्कुशो यवः ।
स्वस्तिकं चोर्द्धरेखा चाष्टकोणं चक्रमेव च ॥ * ॥
नवान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ! ।
चिह्नानि वामचरणे गोविन्दस्याद्भुतानि च ॥
इन्द्रचापं त्रिकोणञ्च कलसञ्चार्द्धचन्द्रकम् ।
शङ्खोऽम्बरं मत्स्यचिह्नं गोष्पदं जाम्बवं स्मृतम् ॥
अङ्कान्येतानि भो विप्र ! दृश्यन्ते च यदा कदा ।
कृष्णाख्यन्तु परं ब्रह्म भुवि जातं न संशयः ॥
द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ।
दृश्यन्ते ब्रह्मवित्श्रेष्ठ ह्यवताराः कथञ्चन ॥
मध्ये ध्वजा तु विज्ञेया पद्मं द्व्यङ्गलमानतः ।
वज्रन्तु दक्षिणे पार्श्वे चाङ्कुशो वै तदग्रतः ॥
यवोऽप्यङ्गुष्ठमूले स्यात् स्वस्तिकं तत्र कुत्र-
चित् ।
आतपत्रं चोर्द्धरेखा वामे चक्रञ्च दक्षिणे ॥
आद्यमङ्गुलिमारभ्य यावद्वै मध्यमा स्थिता ।
तावद्वै चोर्द्धरेखा च कथिता पद्मसंज्ञके ॥
अष्टकोणं ततो वत्स ! समानाष्टाङ्गुलैश्च तत् ।
निर्द्दिष्टं दक्षिणे पादे चेत्याहुर्म्मुनयो हरेः ॥ * ॥
एवं पादस्य चिह्नानि नान्यं वहति वैष्णवः ।
दक्षिणेतरस्थानानि संवदामीह संस्मृरेत् ॥
चतुरङ्गुलमानेन द्वयाङ्गुलिसमीपतः ।
इन्द्रचापं ततो विद्यादन्यत्र च न ते क्वचित् ॥
त्रिकोणं मध्यनिर्द्दिष्टं कलसो यत्र कुत्रचित् ।
अष्टाङ्गुलप्रमाणेन तद्धरेरर्द्धचन्द्रकम्
अर्द्धचन्द्रसमाकारं कलसो निर्द्दिष्टं तस्य सुव्रत ।
इन्द्रं वै यच्च चिह्नन्तु ह्याद्यन्ते वै निरूपितम् ॥
त्रिकोणं दक्षिणे भागे त्वम्बरं तदधो यवः ।
जम्बूफलं त्रिकोणस्य वामपार्श्वे निरूपितम् ॥
पृष्ठ ५/५०८
मोष्पदं द्विखुरं ज्ञेयं तदा द्व्यङ्गुलमानतः ।
त्रिकोणाधस्तु निर्द्धिष्टमथवा कलसो यथा ॥
श्रीनारद उवाच ।
न श्रुतं न च दृष्टञ्च चिह्नमेतन्ममोदितम् ।
रूपं वै सदृशं ब्रह्मन् वद त्वं माम्प्रतं मम ॥
श्रीब्रह्मोवाच ।
पताका च ध्वजा प्रोक्ता प्रान्ते त्रैलोक्यकालयः ।
पद्मं वै बाह्यपत्रञ्च ज्ञातव्यं श्रुतिनोदितम् ॥
वज्रं खण्ड इति प्रोक्तं दृष्टं वै गोत्रभित्करे ।
सहस्रारं समाख्यातं क्वचिद्वेदविदो विदुः ॥
अङ्गुशो नागशिक्षास्त्रं निर्म्मितं यद्धि पुत्रक ।
तादृशं तद्भवेच्चिह्नं विज्ञेयं वैष्णवैर्नरैः ॥
यवोऽप्यङ्गुष्ठमूलेषु कथितो मुनिभिर्ध्रुवम् ।
आतपत्रं नृपच्छत्राकारं वत्स सुशोभनम् ॥
चक्रं सुदर्शनाकारं यच्चिह्नं तम्मनोहरम् ।
वासुदेवकरे यद्वत् मुनिभिः परिकीर्त्तितम् ॥
विवाहादौ च माङ्गल्ये पुत्त्रे जाते तथैव च ।
स्त्रीभिश्चैव सदा कार्य्यं स्वस्तिकञ्च तदुच्यते ॥
रेखाश्चतस्रः संख्यातास्तिर्य्यगूर्द्ध्वा यदीक्षिताः ।
पल्लवेन च संयुक्तमष्टकोणं तदुच्यते ॥
दण्डाकारोर्द्ध्वरेखा स्यात् न वक्रा दृश्यते यदा ।
मध्यमाङ्गष्ठमानेन कथिता मुनिभिः किल ॥
दशभिश्चिह्नितैः पादं वन्द्यं पूज्यञ्च सर्व्वदा ।
चिह्नान्येतानि भो विप्र दक्षिणे चरणे विभोः ।
स श्रीकृष्ण इति ज्ञेयो बुद्धिमद्भिर्नरोत्तमैः ॥ * ॥
यद्रूपाणि च चिह्नानि वामपादे च तत् शृणु ॥
इन्द्रचापं घनुर्व्विद्यात् द्व्यङ्गुलञ्च चतुर्गुणम् ।
मौर्व्वीसंयुक्तवक्रं चेत्तदाहुर्मुनयो ध्रुवम् ॥
त्रिकोणन्तु त्रिरेखाख्यं शकटाकारकं यदा ।
तदा वै तत्त्रिकोणाख्यं चिह्नन्तु मुनिनोदितम् ॥
कलसो वर्त्तुलाकारो ग्रोवया सहितो यदा ।
दृश्यते तादृशं पुत्त्र चिह्नितं सकलाधिकम् ॥
द्वितीयायां यथा चन्द्रो दृश्यते चाम्बरे क्वचित् ।
तदर्द्धं चन्द्रं विज्ञेयं श्रुतौ च प्रतिपादितम् ॥
अम्बरं बिन्दूरित्येवं द्विरेखासुसमन्वितम् ।
वर्त्तुलञ्च सदा दृष्टं श्रीकृष्णे परमात्मनि ।
भत्स्याकारो भवेद्यत्र तच्चिह्नं मत्स्यसज्ञकम् ।
जम्बूफलसमाकारं जम्बूचिह्नं विदुर्बुधाः ॥
एतच्चिह्नं समाख्यातमूनविंशतिमंख्यकम् ।
पादयोरुभयोराहुः कृष्णस्य मुनयोऽनघाः ॥ ७ ॥
एवं वृन्दावनेश्वर्य्याः पादयार्म्मुनिसत्तम ! ।
ऊनविंगतिचिह्नानि कथयामीह तत् शृणु ॥
दक्षिणे नव चिह्नानि राधाया दश वामतः ।
मेदोऽयं कथिता विप्र कृष्णस्यार्द्धाङ्गरूपिणी ॥
पतानि पदचिह्नानि दृष्टानि च श्रुतानि च ।
त्वदग्रे कथितान्येव पुनः किं कथयाम्यहम् ॥
नारद उवाच ।
चिह्नान्येतानि भो ब्रह्मन् किं कर्त्तव्यानि वैष्णवैः ।
कथयस्व हि सर्व्वज्ञ युगयोः पादयोर्म्मम ॥
ब्रह्मोवाच ।
मीवणं राजतं वापि पाषाणं काष्ठजादिकम् ।
युगलं युगलं पादं कृत्वा चिह्नैश्च चिह्नितम् ॥
स्वगात्रे विभृयात्तानि पदचिह्नानि वैष्णवः ।
नाभेरूर्द्धं मुनिः स्नात्वा वत्स वृन्दावनेशयोः ॥
अथवा चिह्नितं पादं कृत्वा भागवतोत्तम ! ।
पूजामारभते तावत् यावज्जीवति नारद ! ॥
पूजितो देवदेवेशः फलं भवति देहिनाम् ।
तथा तच्चिह्नितं पादं अर्च्चनं कुरुते यदि ॥
राजसूयाश्वमेधादिफलं भवति सर्व्वथा ।
तदनन्तगुणं प्रोक्तं यद्येकं पूजयेत् सुधीः ॥”
इति पाद्मोत्तरखण्डे श्रीकृष्णपदचिह्नमाहात्म्यं
नाम ११२ अध्यायः ॥ * ॥ तन्नाममाहात्म्यं यथा,
श्रीसदाविव उवाच
“शृणु नारद ! भद्र ते कथयिष्यामि चानघ ।
पार्व्वत्यै यदहं पृष्ठः प्रावोचन्तु यथातथम् ॥
वेदस्याध्ययनं यज्ञं तपो योगः शमो दमः ।
कृष्णनामसहस्रांशैर्देवर्षे ! नहि तुल्यकम् ॥
ज्ञानं देवार्च्चनं ध्यानं धारणा नियमो यमः ।
प्रत्याहारः समाधिश्च हरिनामसमं न च ॥
गोविन्दनामसदृशं न त्यागो न व्रतं मुने ! ।
न सङ्कल्पो नापि शौचं न पुण्यं न फलं तथा ॥
वानप्रस्थं ब्रह्मचर्य्यं गार्हस्थ्यं कर्म्मन्यासकम् ।
धर्म्म एव सद्राचारो न हरेर्नामतुल्यकः ॥
न हरेर्नामसदृशं कर्म्म किञ्चित् तपस्तथा ।
सर्व्वतीर्थाटनञ्चैव चतुर्द्धा मुक्तिरेव च ॥
कृष्णनाम परा मुक्तिः कृष्णनाम परा गतिः ।
कृष्णनाम परं पुण्यं कृष्णनाम परं फलम् ॥
कृष्णनाम परो धर्म्मः कृष्णनाम परं तपः ।
कृष्णनाम परा शान्तिः कृष्णनाम परा स्तुतिः ॥
कृष्णनाम परा भक्तिः कृष्णनाम परा स्मृतिः ।
कृष्णानाम परं यज्ञं कृष्णनाम परा मतिः ॥
कृष्णनाम परं ज्ञानं कृष्णनाम परा स्थितिः ।
कृष्णनाम परं दानं कृष्णनाम जगत्प्रियम् ॥
कृष्णनाम परं श्राद्धं पितॄणां तर्पणं सदा ।
कृष्णनाम परा प्रीतिः कृष्णनाम परः प्रभुः ॥
कृष्णनाम जगत् सत्यं जन्तूनां कारणं परम् ।
जीवनं शरणं कृष्णनामैव विपुलं धनम् ॥
कृष्णनाम जगद्बन्धुर्ज्जगद्बीजं गुणः परः ।
विश्व धारं कृष्णन म जगतां पावनं परम् ॥
कृष्णनाम जगज्जन्म यत् किञ्चित् सचराचरम् ।
धार्य्यते प ल्यते विखं कृष्णनाम्ना प्रलीयते ॥
यत् किञ्चित् क्रियते कर्म्म कृष्णनाम परायणः ।
तत् कर्म्म कर्म्म एव स्यात् साक्षाद्गृह्वाति
केशवः ॥
श्रीहरेर्नाम ग्रहणं प्रशस्तञ्च युगे युगे ।
कुत्रापि न भवेत् सिद्धिर्हित्वा तन्नाम कर्म्म च ॥
विशेषतः कलियुगे कृष्णनामैव केवलम् ।
त्यक्त्वा नास्त्येव देवर्षे ! लोकस्य गतिरन्यथा ॥
हरिनामपरः शान्तः क्षमाशीलो जितेन्द्रियः ।
नीत्वा कुलसहस्राणि कृष्णं प्राप्नोति स्वानि च ॥
श्रीकृष्णहरिगोविन्ददासनामादिको जनः ।
यः कञ्चिद्याति कलुषं सर्व्वं तन्नामकीर्त्तनात् ॥
हत्यायुतं पानसहस्रमुग्रं
गुर्व्वङ्गनाकोटिनिषेवणञ्च ।
स्तेयान्यनेकानि हरेः प्रियेण
गोविन्दनाम्ना निहतानि सद्यः ॥
अनृच्छयापि दहति स्पृष्टो हुतवहो यथा ।
हरिनाम दहेत् पापं तथाज्ञमुखनिर्गतम् ॥
सकृदुच्चारितं येन हरे कृष्णेति निश्चयम् ।
यमाधिकारं नो याति कापट्येन विना मुने ॥
अज्ञानादथवा ज्ञानाद्दस्युभावेन वा पुनः ।
कृष्णनामैव यच्चिन्ता स याति परमं पदम् ॥
ब्रह्महा मद्यपः स्तेयो ह्यज्ञानाद्गुरुतल्पगः ।
भवार्णवं तरेदन्ते कृष्णनामपरायणः ॥
पितृहा नृपहा गोघ्नः स्त्रीहन्ता पापिनोऽपरे ।
गोविन्दनामोच्चारेण पश्चात्ते शुद्धिमाप्नुयुः ॥
यद्भूतं पापमज्ञानाद्वर्त्तमानञ्च नारद ।
यद्भविष्यति तत् सर्व्वं कृष्णनाम दहेद्ध्रुवम् ॥
जीवानान्तु सदा द्रोही चात्महा निन्द्यकर्म्मकृत् ।
स पूतो जायते धन्यो नामकीर्त्तनतो हरेः ॥
क्षेत्रतीर्थतपोदानव्रतार्च्चनं फलं तथा ।
शक्तिश्च सर्व्वयज्ञानां मुक्तेरध्यात्मवस्तुनः ॥
ज्ञानञ्च दैवमहतां सर्व्वसिद्धिप्रदं फलम् ।
नैमित्तिकानां नित्यानां तथा च काम्यकर्म्म-
णाम् ॥
वर्णाश्रमानां योगानां स्थापितं येषु नामसु ।
आकृष्य सर्व्वाघहरं पुरा कृष्णेन नारद ॥
त्रैलोक्ये यानि पुण्यानि धर्म्मकर्म्मफलानि च ।
तुल्यतां तानि नो यान्ति हरिनामानुकीर्त्तने ॥
नाम्नोऽस्य यावती शक्तिः पापनिर्हरणे हरेः ।
तावत् कर्त्तुं न शक्नोति पातकं पातकी जनः ।
श्वपवो धृजिनं कर्त्तुं नहि शक्रोति यत्नतः ॥
तावद्धर्त्तुं मुने यावत् कृष्णनामानुकीर्त्तनम् ।
मानसं कर्म्मजं वाग्जं लोके तन्नास्ति कल्मषम् ।
सर्व्वाशुभघ्नं शिवदं यद्धरेर्नामकीत्तनम् ।
चान्द्रायणादिभिः कृच्छ्रैः शुद्धिर्न स्यात्तथा-
नृणाम् ॥
कीर्त्तनेन हरेर्नाम्नः सकृदेव भवेद्यथा ।
सकृदाख्याततं येन कृष्णनाम सुमङ्गलम् ।
तज्जिह्वा वष्णवी नान्यं वचो वक्त्यप्यकारणम् ॥
ऋग्वेदो हि यजुर्व्वेदः सामवेदोऽप्यथर्व्वणम् ।
अधीतास्तेन येनाक्तं हरिरित्यक्षरद्वयम् ॥
पापिनोऽपि हरेर्नाम कीर्त्तयन्ति यथा यथा ।
सर्व्वाघं मस्मसात् कृत्वा कृष्णभक्तिस्तथा तथा ॥
सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्व्वतीर्थेषु स्नातो भवति नारद ! ॥
पुराणशास्त्रागमवेदपाठ-
तीर्थावगाहादिफलं यथेष्टम् ।
गोविन्दानाम्नोऽपि कलाशतांशै-
स्तुल्यं भवेन्नैव मुने कदाचित् ॥
मा ऋचो मा यजुर्व्विप्र न साम पठ किञ्चन ।
कृष्णगोविन्दनामादि गेयं गायस्व नित्यशः ॥
गोकोटिदाने ग्रहणे खगस्य
प्रथागगङ्गाम्बुनि कल्पवासः ।
यत्यायुतं मेरुसुवर्णदानं
गोविन्दनाम्नो न समं शतांशैः ॥
पृष्ठ ५/५०९
कुरुक्षेत्रण किं तस्य किं काश्या पुष्करेण च ।
जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम् ॥
विश्रुतानि बहून्येव तीर्थानि बहुधा न च ।
कोट्यंशेनापि तुल्यानि नामकीर्त्तनतो हरेः ॥
इष्टापूर्त्तानि कर्म्माणि सुबहूनि कृतान्यपि ।
भवहेतूनि तान्येव हरेर्नाम तु मुक्तिदम् ॥
परिहासेऽपि हासाद्यैविष्णोर्गृह्णन्ति नाम ये ।
कृतार्थास्तेऽपि मनुजास्तेभ्योऽपीह नमो नमः ॥
स्त्री, शूद्रः पुरुषो वापि ये चान्ये पापयोनयः ।
कीर्त्तयन्ति हरिं भक्त्या तेभ्योऽपीह नमो नमः ॥
न देशनियमस्तत्र न कालनियमस्तथा ।
नोच्छिष्टादौ निषेधश्च नामलुब्धस्य श्रीहरेः ॥
चक्रायुधस्य नामानि सदा सर्व्वत्र कीर्त्तयेत् ।
नाशौचं कीर्त्तने तस्य स पवित्रकरो यतः ॥
न कालशौचनियमा न देशाशौचनिर्णयः ।
हरेः संकीर्त्तनादेव नाम्नो नारद मुच्यते ॥
स्नाने कालोऽस्ति दाने च कालोऽस्ति जप-
यज्ञयोः ।
कृष्णसङ्कीर्त्तने कालो नास्त्यत्र पृथिवीतले ॥
किं सांख्ययोगैः किं यज्ञैस्तपोभिः किं करिष्यति ।
चेन्मुक्तिमिच्छेद्भक्तिञ्च कुर्य्याद्गोविन्दकीर्त्तनम् ॥
परदाररतः पापी परहिंसापकारकः ।
मुक्तिमायाति संशुद्धो हरेर्नामानुकीर्त्तनात् ॥
कृष्णनामधनः कृष्णनामग्राही सदा नरः ।
तत्त्वतः कृष्णमाप्रोति कृष्णनामजनप्रियः ॥
हित्वा गोविन्दनामानि सर्व्वकर्म्म करोति यः ।
बन्धाय तस्य तत् कर्म्म न मोक्षाय तु नारद ! ॥
सर्व्वकर्म्म परित्यज्य हरिनाम स्मरेत् सदा ।
यस्तस्य कर्म्मसिद्धिः स्यात् कृष्णनामप्रसङ्गतः ॥
कामांस्त्यक्त्वा मनोभोगान् विषयांश्च चरन्ति ये ।
तेषां दद्यात् परां भक्तिं हरिनामपरायणः ॥
हरिनामरतो भूत्वा सर्व्वकर्म्म परित्यजेत् ।
स सर्व्वपापान् मुक्तो यः पद्मं हित्वोदकं यथा ।
कृष्णनामैव यच्चित्ते देवर्षे तस्य कर्म्म च ।
स लोकान् सकलान् जित्वा तत्त्वतः कृष्ण-
माप्नुयान् ॥
हरिनाम सदा गीत्वा विचरन्ति महीतले ।
न प्राप्नुवन्ति तद्भाग्यं देवा इन्द्रादंयोऽपरे ॥
श्रद्धया हेलया ये तु हरिनाम सुमङ्गलम् ।
गायन्त्येकान्तिनश्चित्तेऽच्युतस्तिष्ठति सन्ततम् ॥
एकान्तिनः कृष्णनामाश्रया ये च हरेः प्रिया ।
यदि स्युरन्त्यजा वेदपारगा न तथा मुने ! ॥
कृणनामानि गायन्ति तस्य सेवादिकर्म्म च ।
सदा कुर्व्वन्ति ये विप ! तेभ्यो नित्यं नमो नमः ॥
स्तेयी गुर्व्वङ्गनागामो ब्रह्मघ्नो मद्यपः खलः ।
तत्पापेभ्यः स मुक्तोऽङ्ग श्रीहरेर्नाम यत्तपः ॥
पूर्ब्बजन्मपरित्यज्यो ह्यासक्तः कृष्णनामसु ।
यथात्मा भौतिकाद्देहात् स मुक्तः सर्व्वपातकात् ॥
हरिनाम व्रतं यस्य हरिनाम च यत्तपः ।
स्वयं भवार्णवात् त्राता गोविन्दो मुनिपुङ्गव ! ॥
श्रद्धयाविरतं कृष्णनामगानरतो जनः ।
कुर्य्यात् सदैव सर्व्वत्र तच्चिन्तां कृपयाच्यतः ॥
मात्सर्य्यलोभमोहैश्च कामक्रोधमदैर्युतः ।
सर्व्वापहारी तन्मुक्तः कृष्णनामैब यत्तपः ॥
सर्व्वदोषयुतो विप्र व्याप्तश्चाशेषपातकैः ।
मुक्तः स वृजिनादस्मात् कृष्णनामैव यत्तपः ॥
स्वधर्म्मवर्ज्जितः पापो जीवद्रोही च हिंसकः ।
स मुक्तः सर्व्वपापेभ्यः कृष्णनामैव यत्तपः ॥
विप्रक्षत्रियविट्शूद्राः सङ्करान्त्यजजारजाः ।
कानीना गोलकाश्चैव पितुर्जाताश्च क्षेत्रजाः ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
यद्येते पापिनो विप्र ! महापातकिनोऽपि वा ॥
उपपातकिनश्चातिपापिनो ह्यनुपापिनः ।
भ्रष्टाचाराश्च पाषण्डाः स्वस्वधर्म्मविवर्ज्जिताः
जीवहत्यारता व्रात्या निन्दकाश्चाजितेन्द्रिया ।
पश्चाज्ज्ञानसमुत्पन्ना गुरोः कृष्णप्रसादतः ॥
ततस्तु यावज्जीवन्ति हरिनामपरायणाः ।
शुद्धास्तेऽखिलपापेभ्यः पूर्ब्बजेभ्यो हि नारद ! ॥
नामादेशं रटन्तस्तु श्रीहरेः स्मृतिपूर्ब्बकम् ।
महद्भयं यमं जित्वा परं गोविन्दमाप्नुयुः ॥
गृहान्धकूपपतिताः सर्व्वदोषैस्तु संप्लुताः ।
संसारवासनालिप्ताः सर्व्वधर्म्मबहिष्कृताः ॥
मुक्तास्ते सर्व्वतस्तस्मादुच्चरन्तो हरेर्द्विज ।
मृत्योर्म्महद्भये नाम यान्ति गोविन्दमव्ययम् ॥
हरिनामानि तिष्ठन्ति सन्ति वक्ताणि प्राणिनाम् ।
भवन्ति कर्म्मसम्बद्धा लोका नरकगामिनः ॥
विसृज्य कृष्णनामानि कर्म्ममार्गरता नराः ।
पुनर्जन्म पुनर्मृत्युं भ्रमन्तः स्युस्ततस्ततः ॥
कृष्णनामानि गायन्ति कुर्व्वन्ति तस्य सेवनम् !
ते यान्ति वासुदेवस्य स्थानं परममव्ययम् ॥
वर्णाश्रमस्थिता विप ! हरिनामपरायणाः ।
तेषां वक्तुं न शक्रोमि महिमानमहं यदि ॥
हित्वा गोविन्दनामानि कर्म्माशेषं करोति यः ।
पथमप्राप्य कृष्णस्य भ्रमते कर्म्मवर्त्मनि ॥
मायामोहितचित्तेन पापिष्ठास्ते नराधमाः ।
त्यक्त्वा कृष्णस्य नामानि भ्रमन्ते सर्व्वयोनिषु ॥
यदृच्छयाशया नाम शिक्षया यः स्मरेद्धरेः ।
सर्व्वाघमुक्तो देवर्षे ! सततं कृष्णनामतः ॥
येन तेन प्रकारेण मुकुन्दनामजल्पकः ।
घोराद्भवार्णवात् पूतो मुक्तः स कृष्णानामतः ।
नामाङ्किकं जनं दृष्ट्वा यस्य श्रद्धा भवेद्धरेः ॥
स याति वैष्णवं धाम परमं कृष्णनामतः ॥
दृष्ट्वा प्रमाणं कुर्व्वन्ति हरेर्नामाश्रयं जनम् ।
सकलादंहसो मुक्ता मानवाः साधुवज्जनाः ॥
कृष्णानाम सदा नीत्वा विचरेत् कृष्णसन्निधौ
तथ्यं वदामि ते विप्र ! क्रीतस्तस्य जनार्द्दनः ॥
नीत्वा करोति नामानि श्रोहरेः करतालिकाम् ।
विक्रीतोऽहमृतं तस्य वदामि तव नारद ! ॥
एकान्ती नाम नीत्वा तु सन्निधौ नर्त्तयेद्धरेः ।
सत्यं तस्य हरिः क्रीतो देवतानाञ्च का कथा ॥
ये भावगद्गदा भूत्वा रुदन्त्यच्युतसन्निधौ ।
तेषां कृष्णः परिक्रीतो ब्रह्मादीनाञ्च का कथा ॥
ये पतन्त्यवनौ गीत्वा हरेर्नामानि गद्गदाः ।
भावेन तेषां गोविन्दः क्रीतो नारद ! नान्यथा ॥
जन्मना ये न गृह्णन्ति कृष्णदीक्षां सतो गुरोः
तेषां न दर्शन कार्य्यं दूरतः परिवर्जयेत् ॥
कदाचित् यो न गृह्णाति कृष्णनाम भवामृतम् ।
मृतः श्वखरकोलानां स तु योनिषु जायते ॥
देवर्षे ! हरिनामानि भवनिस्तारहेतुनि ।
न गृह्णीयात्त यो मोहान्मृते स्यात्तदधोगतिः ॥
गुणकर्म्माणि नामानि न गृह्णाति च यो हरेः ।
दर्शनस्पर्शने चैव ध्रुवं तस्य विवर्जयेत् ॥
मनुथजम्म संप्राप्य न नामग्रहणं हरेः ।
कुर्य्यात् कदापि स्वप्ने वा ह्यदृश्यः स नराधमः ॥
ध्यानं सत्ययुगे विष्णोः त्रेतायां यज्ञसाधनम् ।
अर्च्चनं द्वापरयुगे हरिनाम कलौ मुने ॥
ध्यानं तपः सत्ययुगे त्रेतायां यज्ञकर्म्म च ।
द्वापरे पूजनं दानं हरेर्नाम कलौ युगे ॥
कलौ भवार्णवोत्तीर्णो मानवो मुनिपुङ्गव ! ।
वर्त्तते यस्य जिह्वाग्रे हरिरित्यक्षरद्वयम् ॥
सर्व्वलोको जितस्तेन कृष्णः प्राप्तः सनातनः ।
सकृदुच्चारितं येन हरेर्नाम चिदात्मकम् ॥
फलं नास्य क्षमो वक्तुं सहस्रवदनो विधिः ।
जितं तेन जिनं तेन जितं तेनेति निश्चितम् ।
वर्त्तते यस्य जिह्वाग्रे हरिरित्यक्षरद्वयम् ॥
सत्यं कलियुगे विप्र ! श्रीहरेर्नाम मङ्गलम् ।
परं स्वस्त्ययनं नॄणां नास्त्येव गतिरन्यथा ॥”
इति पाद्मोत्तरखण्डे श्रीकृष्णनाममाहात्म्ये ९८
अध्यायः ॥ * ॥ कलौ दशसहस्रवर्षपर्य्यन्तं पृथिव्यां
तस्यावस्थितिर्यथा, --
“शालग्रामो हरेर्मूर्त्तिर्ज्जगन्नाथश्च भारतम् ।
कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम् ॥
वैष्णवाश्च पुराणानि शङ्खानि श्राद्धतर्पणम् ।
वेदोक्तानि च कर्म्माणि ययुस्तैः सार्द्धमेव च ॥
हरिपूजा हरेर्न्नाम तत्कीर्त्तिगुणकीर्त्तनम् ।
वेदाङ्गानि च शास्त्राणि ययुस्तेः सार्द्धमेव च ॥
सत्त्वञ्च धर्म्मः सत्यञ्च वेदाश्च ग्रामदेवताः ।
व्रतं तपश्चानशनं ययुस्तैः सार्द्धमेव च ॥
वामाचाररताः सर्व्वे मिथ्या कापट्यमेव च ।
तुलसीवर्ज्जिता पूजा भविष्यन्ति ततः परम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ७ । १२ -- १६ ॥
तस्य स्वरूपं यथा, --
गर्ग उवाच ।
“अये नन्द प्रवक्ष्यामि वचनं ते सुखावहम् ।
प्रस्थापितोऽहं वसुना येन तत् श्रूयतामिति ॥
वसुना सूतिकागारे शिशुः प्रत्यर्पणीकृतः ।
पुत्त्रोऽयं वसुदेवस्य ज्येष्ठस्य तस्य च ध्रुवम् ॥
कन्या ते च येन नीता मथुरां कंसभीरुणा ।
अस्यान्नप्राशनायाहं नामानुकरणाय च ॥
गूढेण प्रेषितस्तेन तस्य यागं कुरु व्रज ॥
पूणब्रह्मस्वरूपोऽयं शिशुस्ते मायया महीम् ।
आगत्य भारहरणं कर्त्ता धात्रा च सेवितः ॥
गोलोकनाथो भगवान् श्रीकृष्णो राधिकापतिः
नारायणो यो वैकुण्ठे कमलाकान्त एव च ॥
श्वेतद्वीपनिवासो यः पाता विष्णुश्च सोऽप्यजः ।
कपिलोऽन्ये तदंशाश्च नरनारायणावृषी ॥
पृष्ठ ५/५१०
एकीभूय च सर्व्वेषां तजसां राशिमूर्त्तिमान् ।
तं वसुं दर्शयित्वा च शिशुरूपो बभूव ह ॥
साम्प्रतं सूतिकागारादाजगाम तवालयम् ।
अपोनिसम्भवश्चायमाविर्भूतो महोतले ॥
वायुपूर्णं मातृगर्भं कृत्वा च मायया हरिः ।
आविर्भूय वसुं मूर्त्तिं दर्शयित्वा जगाम ह ॥
युगे युगे वर्णभेदो नामभेदोऽस्य वल्लव ! ।
शुक्लो रक्तस्तया पीत इदानीं कृष्णतां गतः ॥
शुक्लवर्णः सत्ययुगे सुतीव्रतेजमा वृतः ।
त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः ॥
कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव च ।
परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः ॥” * ॥
तस्य कृष्णनाम्नो व्युत्पत्तिर्यथा, --
“ब्रह्मणो वाचकः कोऽयमृकारोऽनन्तवाचकः ।
शिवस्य वाचकः षश्च णकारो धर्म्म एव च ॥
अकारो विष्णोर्व्वचनं श्वेतद्वोपनिवासिनः ।
नरतारायणोऽयंस्य विभर्गा वाचकः स्मृतः ॥
सर्व्वेषां तेजसां राशिः सर्व्वमूर्त्तिस्वरूपकः ।
सर्व्वाधारः सर्व्व बीजस्तेन कृष्ण इति स्मृतः ॥
कृषिर्निर्व्वाणवचनो णकारो मोक्ष एव च ।
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ॥
कृषिर्निश्चेष्टवचनो णकारो भक्तिवाचकः ।
अकारो दातृवचनस्तेन कृष्ण इति स्मृतः ॥
कर्म्मनिर्म्मूलवचनः कृषिर्णो दास्यवाचकः ।
अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृताः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । १३ । ४५ -- ६२ ॥
तस्य नामान्तराणां व्युत्पत्तिर्यथा, --
“राम नारायणानन्त मुकुन्द मधुसूदन ।
कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ॥
इत्येकादश नामानि पठेद्वा पाठयेद्यदि ।
जन्मकोटिसहस्राणां पातकादवमुच्यते ॥
राशब्दो विश्ववचनो मश्चापीश्वरवाचकः ।
विश्वानामीश्वरो यो हि तेन रामः प्रकीर्त्तितः ॥
रमते रमया सार्द्धं तेन रामं विदुर्बुधाः ।
रमाया रमणस्थानं रामं रामविदो विदुः ॥
रा चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः ।
लक्ष्मीपतिं गतिं रामं प्रवदन्ति मनीषिणः ॥
ताम्नां सहस्रं दिव्यानां स्मरणे यत् फलं भवेत् ॥
तत्फलं लभते नूनं रामोच्चारणमात्रतः ॥
सारूप्यमुक्तिवचनो नारेति च विदुर्बुधाः ।
यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः ॥
नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम् ।
यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः ॥
मकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्व्वतीर्थेषु स्नातो भवति निश्चितम् ॥
नारञ्च मोक्षणं पुण्यमयजं ज्ञानमीप्सितम् ।
तयोर्ज्ञानं भवेद्यस्मात् सोऽयं नारायणः प्रभुः ॥
नास्त्यन्तो यस्य वेदेषु पुराणेषु चतुर्षु च ।
शास्त्रेष्वन्येषु योगेषु तेनानन्तं विदुर्बुधाः ॥ * ॥
मुकुमव्ययमान्तञ्च निर्व्वाणमोक्षवाचकम् ।
तद्ददाति च यो देवो मुकुन्दस्तेन कीर्त्तितः ॥
मुकुं भक्तिरसप्रेमवचनं वेदसम्मतम् ।
यस्तद्ददाति भक्तेभ्यो मुकुन्दस्तेन कीर्त्तितः ॥ * ॥
सूदनं मधुदैत्यस्य यस्मात् स मधुसूनः ।
इति सन्ता वदन्तीशं वेदैर्भिन्नार्थमीप्सितम् ॥
मधु क्लीवञ्च माध्वीके कृतकर्म्मशुभाशुभे ।
भक्तानां कर्म्मणाञ्चैव सूदनं मधुसूदनः ॥
परिणामाशूभं कर्म्म भ्रान्तानां मधुरं मधु ।
करोति सूदनं यो हि स एव मधुसूदनः ॥ * ॥
कृषिरुत्कृष्टवचनो णश्च सद्भिक्तिवाचकः ।
अश्चापि दातृवचनः कृष्णं तेन विदुर्बधाः ॥
कृषिश्च परमानन्दे णश्च तद्दास्यकर्म्मणि ।
तयोर्द्दाता च यो देवस्तेन कृष्णः प्रकीर्त्तितः ॥
कोटिजन्मार्ज्जिते पापे कृषिः क्लेशे च वर्त्तते ।
भक्तानां णश्च निर्व्वाणे तेन कृष्णः प्रकीर्त्तितः ॥
नाम्नां सहस्रं दिव्यानां त्रिरावृत्त्या तु यत्
फलम् ।
एकावृत्त्या तु कृष्णस्य तत् फलं लभते नरः ॥
कृष्णनाम्नः परं नाम न भूतं न भविष्यति ।
सर्व्वेभ्यश्च परं नाम कृष्णेति वैदिका विदुः ॥
कृष्ण कृष्णेति हे गोपि यस्तं स्मरति नित्यशः ।
जलं भित्त्वा यथा पद्मं नरकादुद्धरत्ययम् ॥
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते ।
भस्मीभवन्ति सद्यस्तु महापातककोटयः ॥
अश्वमेधसहस्रेभ्यः फलं कृष्णजपस्य च ।
वरं तेभ्यः पुनर्ज्जन्म नातो भक्तः पुनर्भवः ॥
सर्व्वेषामपि यज्ञानां लक्षाणि च व्रतानि च ।
तीर्थस्नानानि सर्व्वाणि तपांस्यनशनानि च ॥
वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम् ।
कृष्णनामजपस्यास्य कलां नाहन्ति षोडशीम् ॥
तेषां भोगाद्भवेत् स्वर्गफलञ्च सुचिरं नृणाम् ।
स्वर्गादवश्यं पुंसश्च जपकर्त्तुर्हरेः प्रदम् ॥ * ॥
के जले सर्व्वदेहेऽपि शयनं यस्य चात्मनः ।
वदन्ति वैदिकाः सर्व्वे तं देवं केशवं परम् ॥
कंसश्च पातके विघ्ने रोगे शोके च दानवे ।
तेषामरिर्निहर्त्ता यः स कंसारिः प्रकीर्त्तितः ॥
रुद्ररूपेण संहर्त्ता विश्वानामपि नित्यशः ।
भक्तानां पालको यो हि हरिस्तेन प्रकीर्त्तितः ॥
कुण्ठं जडञ्च विश्वौघं विशिष्टञ्च करोति या ।
विकुण्ठां प्रकृतिं वेदाश्चत्वारश्च वदन्ति ताम् ॥
गुणाश्रयेण भगवान् तस्यां जातः स्वसृष्टये ।
परिपूर्णतमं तेन वैकुण्ठश्च विदुर्बुधाः । * ॥
वामो विपत्तौ नश्छेदे साक्षाद्वेदेषु वर्त्तते ।
सुराणां विपदां छेत्ता वामनस्तेन कीर्त्तितः ॥
एवं नाम्नाञ्च सर्व्वेषां व्युत्पत्तिश्च श्रुतौ श्रुता ।
यथागमञ्च कथितं सर्व्वं जानाति माधवः ॥ * ॥
यशोदावाच ।
वासुदेवश्च गोविन्दो मुरारिर्माघवस्तथा ।
नाम्नां चतुर्णां व्युत्पत्तिं वद चान्यच्च तिष्ठतु ॥
राधिकोवाच ।
वसुः सर्व्वनिवासश्च विश्वानि यस्य लोमसु ।
स च देवः परं ब्रह्म वासुदेव इति स्मृतः ॥ १ ॥
गाञ्च विश्वसमूहञ्च विन्दते योऽवलीलया ।
ज्ञानसिन्धुसमूहञ्च मोविन्दस्तेन कीर्त्ततः ॥ २ ॥
मुरः क्लेशे च सन्तापे कर्म्मभोगे च कर्म्मिणाम् ।
दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्त्तितः ॥ ३ ॥
मा च ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी ।
नारायणीति विख्याता विष्णुमाया सनातनी ॥
महालक्ष्मीस्वरूपा च वेदमाता सरस्वती ।
राधा वसुन्धरा गङ्गा तासां स्वामी च माधवः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । १ । १ ।
१९ -- ५२ ; ५५--६० ॥ तस्य भूषणास्त्रस्वरूपं
यथा, --
श्रीमैत्रेय उवाच ।
“भूषणास्त्रस्वरूपेण यथैतदखिलं जगत् ।
बिभर्त्ति भगवान् विष्णुस्तन्ममाख्यातुमर्हसि ॥
श्रीपराशर उवाच ।
नमस्कृत्याप्रमेयाय विष्णवे प्रभविष्णवे ।
कथयामि यथाख्यातं वशिष्ठेन ममाभवत् ॥
आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
बिभर्त्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥
श्रीवत्ससंस्थानधरमनन्ते च समाश्रितम् ।
प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥
भूतादिमिन्द्रियादींश्च द्विधाहङ्कारमीश्वरः ।
बिभर्त्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥
बलस्वरूपमत्यन्तजवेनान्तरितानिलम् ।
चक्रस्वरूपञ्च मनो धत्ते विष्णुः करस्थितम् ॥
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।
सा भूतहेतुसंघातो भूतमाला च वै द्विज ॥
यानीन्द्रियाण्यशेषाणि बुद्धिकर्म्मात्मकानि वै ।
शररूपाण्यशेषाणि तानि धत्ते जनार्द्दनः ॥
बिभर्त्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्म्मलम् ।
विद्यामयन्तु तज्ज्ञानमविद्याचर्म्मसंस्थितम् ॥
इत्थं पुमान् प्रधानञ्च बुद्ध्यहङ्कारमेव च ।
भूतानि च हृषीकेशे मनः सर्व्वेन्द्रियाणि च ।
विद्याविद्ये च मैत्रेय सर्व्वमेतत् समाश्रितम् ॥
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्ज्जितः ।
बिभर्त्ति मायारूपोऽसौ श्रेयसे प्राणिनां हरिः ॥
सविकारं प्रधानं यत् पुमांश्चैवाखिलं जगत् ।
बिभर्त्ति पुण्डरीकाक्षस्तदेवं परमेश्वरः ॥
या विद्या या तथाविद्या यत् यच्चासदव्य-
यम् ।
तत् सर्व्वं सर्व्वभूतेशे मैत्रेय मधुसूदने ॥
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः ।
कालस्वरूपो भगवानपरो हरिरव्ययः ॥
भूर्लोकोऽथ भुवर्लोकः स्वर्लोको मुनिसत्तम ! ।
महर्जनस्तपः सत्यः सप्त लोका इमे विभुः ॥
लोकात्ममूर्त्तिः सर्व्वेषां पूर्ब्बेषामपि पूर्ब्बजः ।
आधारः सर्व्वविद्यानां स्वयमेव हरिः स्थितः ॥
देवमानुषपश्वादिस्वरूपैर्ब्बहुभिर्विभुः ।
स्थितः सर्वेश्वरोऽनन्तो भूतमूर्त्तिरमूर्त्तिमान् ।
ऋचो यजूंषि सामानि तथैवाथर्व्वणानि च ।
इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥
वेदाङ्गानि समस्तानि मन्वादिगदितानि च ।
शास्त्राण्यशेषाण्याख्यानान्यनुवादाश्च ये
क्वचित् ॥
पृष्ठ ५/५११
काव्यालापाश्च ये केचित् गीतकान्यखिलानि च
सर्व्वर्मूर्त्तिधरस्यैते वपुर्विष्णोर्महात्मनः ॥
यान्यमूर्त्तानि मूर्त्तानि यान्यत्रान्यत्र वा क्वचित् ।
सन्ति वै वस्तुजातानि तानि सर्व्वाणि तद्वपुः ॥”
इति विष्णुपुणे १ अंशे २२ अध्यायः ॥ * ॥
हरि सान्निध्यस्थानानि यथा, --
भरद्वाज उवाच ।
“केषु केषु विभो नित्यं स्थानेषु पुरुषोत्तम ! ।
सान्निध्यं भवतो ब्रूहि ज्ञातुमिच्छामि तत्त्वतः ॥
वामन उवाच ।
श्रूयतां कथमिष्यामि येषु येषु गुरो ह्यहम् ।
निवसामि सुपुण्येषु स्थानेषु बहुरूपवान् ॥
ममावतारैहुर्ब्बधा नभःस्थलं
पातालमम्भोनिचयं दिवञ्च ।
दिशः समस्ता गिरयोऽम्बुदाश्च
व्याप्ता भरद्वाज ममानुरूपैः ॥
ये दिव्या ये च भौमा जलगगनचरा स्थावरा
येऽत्र विश्वे
सेन्द्राः सार्काः सचन्द्रा यमवसुवरुणाः साग्नयः
सर्व्वपालाः ।
ब्रह्माद्याः स्थावरान्ता द्विजखगसहिता मूर्त्ति-
मन्तो ह्यमूर्त्ता-
स्ते सर्व्वे मत्प्रसूता बहुविविधगुणाः पूरणार्थं
पृथिव्याः ॥
एते हि मुख्याः सुरसिद्धदानवैः
पूज्यास्तथा सन्निहिता महीतले ।
यैर्द्दृष्टमात्रैः सहसैव नाशं
प्रयाति पापं द्विजवर्य्य कीर्त्तितैः ॥”
इति वामने ८५ अध्यायः ॥ * ॥
आप च ।
श्रीभगवानुवाच ।
आद्यं मत्स्यं महद्रूपं संस्थितं मानसे ह्रदे ।
गर्व्वपापक्षयकरं कीर्त्तनस्पर्शनादिभिः ॥
कौर्म्ममन्यत् सन्निधानं कौशिक्यां पापनाशनम् ।
हयग्रीवञ्च कृष्णाङ्गे गोविन्दं हास्तिने पुरे ॥
त्रिविक्रमञ्च कालिन्द्यां लिङ्गभेदे भवं विभुम् ।
केदारे माधवं शौचं कुब्जाम्रे कृष्णमूर्द्धजम् ॥
नारायणं वदर्य्याञ्च वाराहे गरुडासनम् ।
जयेशं रुद्रकर्णे च विपाशायां द्विजप्रियम् ॥
कृतशौचे नृसिंहञ्च गोकर्णे विश्वकर्म्मिणम् ।
प्राचीने कामपालञ्च पुण्डरीकं महाम्भसि ॥
विशाखये च ह्यजितं हंसं हंसपदे तथा ।
पयोष्ण्याञ्च तमः खण्डं वितस्तायां स्वरूविलम् ॥
मणिमत्पर्व्वते ब्रह्मन् ! ब्रह्माणञ्च प्रजापतिम् ।
मधुनद्यां चक्रधरं शूलबाहुं हिमाचले ॥
विद्धि विष्णुं मुनिश्रेष्ठ स्थितमौषधसद्मनि ।
भृगुतुङ्गे सुवर्णाख्यं नैषधे प्रीतवाससम् ॥
गयायां गोपतिं देवं गदापाणिनमोश्वरम् ।
त्रैलोक्यनाथं वरदं गोप्रभावे कुशेशयम् ॥
अर्द्धनारीश्वरं पुण्ये महेन्द्रे दक्षिणे गिरौ ।
गोपालमुत्तरे नित्यं महेन्द्रे सोमपिण्डिनम् ॥
वैकुण्ठमपि सह्याद्रौ पारिपात्रे पराजितम् ।
कशेरुदेशे देवेशं विश्वरूपं तपोधन ! ॥
मलयाद्रौ च सौगन्धिं बिन्ध्यपादे सदाशिवम् ।
अवन्तिविषये विष्णुं निषेधेष्वमरेश्वरम् ॥
पाञ्चालिकञ्च ब्रह्मर्षे पञ्चालेषु व्यवस्थितम् ।
महोदये हयग्रीवं प्रयागे योगशायिनम् ॥
स्वयम्भुवं मधुवने अयोगन्धिञ्च पुष्करे ।
तथैव विप्रपवर वाराणस्याञ्च केशवम् ॥
अविमुक्तकमत्रैव लोलश्चात्रैव गीयते ।
पक्षायां पद्मकिरणं समुद्रे वडवामुखम् ॥
कुमारवने वाह्लीशं कार्त्तिकेयञ्च बर्हिणम् ।
यज्ञेशं शम्भुमनघं स्थाणुञ्च कुरुजाङ्गले ॥
वनमालिनमाहुर्म्मां किष्किन्धावासिनो जनाः ।
वीरं कुवलयारूढं शङ्खचक्रगदाधरम् ॥
श्रीवत्साङ्कमुदाराङ्गं नर्म्मदायां श्रियः पतिम् ।
माहिष्मत्यां त्रिनयनं तत्रैव च हुताशनम् ॥
अर्व्वुदेषु त्रिसौपर्णं क्ष्माधरं शूकराचले ।
त्रिणाचिकेतं ब्रह्मर्षे प्रभासेषु कपर्द्दिनम् ॥
तथैवात्रापि विख्यातं तृतीयं शशिशेखरम् ।
उदये शशिनं सूर्य्यं ध्रुवञ्च त्रितयं स्थितम् ॥
मन्दरे यज्ञपुरुषं स्कन्दं शरवणे स्थितम् ।
महालये स्मृतं रुद्रं चत्वरेषु कुरुष्वथ ॥
पद्मनाभं मुनिश्रेष्ठ सर्व्वसौख्यप्रदायकम् ।
सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम् ॥
तत्रैव च महावासं प्रयागेऽपि वटेश्वरम् ।
भल्लीवने महायोगं मद्रेषु पुरुषोत्तमम् ॥
प्लक्षावतरणे श्रीमत्श्रीनिवासं द्विजोत्तमम् ।
सूर्पारके चतुर्ब्बाहुं मगधायां सुधापतिम् ॥
गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे ।
वनस्पतिं समाख्यातं दण्डकारण्यवासिना ॥
कालञ्जरे नीलकण्ठं शरय्वां शम्भुमुत्तमम् ।
हंसयुक्तं महाकौश्यां सर्व्वपापप्रणाशनम् ॥
गोकर्णे दक्षिणे सर्व्वं वासुदेवं प्रजामुखे ।
बिन्ध्यशृङ्गे महासौरिं कथायां मधुसूदनम् ॥
त्रिकूटशिखरे ब्रह्मंश्चक्रमाणिनमीश्वरम् ।
लौहदण्डे हृषीकेशं कौशलायां मनोहरम् ॥
महाबाहुं सुराष्ट्रे च नवराष्ट्रे यशोधरम् ।
भूधरं देविकानद्यां महोदायां कुशप्रियम् ॥
गोमत्यां छादितगदं शङ्कोद्धारे च शङ्खिनम् ।
सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम् ॥
भद्राक्षञ्च हिरण्वत्यां वीरभद्रं त्रिपिष्टपे ।
शङ्कुकर्णञ्च भीमायां भीमं शालवने विदुः ।
विश्वामित्रञ्च गदितं कैलासे वृषभध्वजम् ।
महेशं महिलाशैले कामरूपे शशिप्रभम् ॥
वडभ्यामपि गोमित्रं पटहे पङ्कजप्रियम् ।
उपेन्द्रं सिंहलद्वीपे शक्राख्ये कुन्दमालिनम् ॥
रसातले च विख्यातं सहस्रशिरसं मुने ! ।
कालाग्निरुद्रं तत्रैव तथान्यं कीर्त्तिवाससम् ॥
सुतले कूर्म्ममचलं वितले पङ्कजासनम् ।
महातले गुरो ख्यातं देवेशं छागलेश्वरम् ॥
तले सहस्रचरणं सहस्रभुजमीश्वरम् ।
सहस्राक्षं परिख्यातं मुषलाकृष्टदानवम् ॥
पाताले योगिनामीशं स्थितञ्च हरिशङ्करम् ।
धरातले कोकनदं मेदिन्याञ्चक्रपाणिनम् ॥
भुवर्लौके च गरुडं स्वर्लोके विष्णुमव्ययम् ।
मर्त्त्यलोके तथागस्त्यं कपिलञ्च जले स्थितम् ॥
तपोलोके स्थितं ब्रह्मन् ! वाङ्मयं सत्यसंयुतम् ।
ब्रह्माणं ब्रह्मलोके तु सप्तमे वै प्रतिष्ठितम् ॥
सनातनं तथा शैवे परं ब्रह्म च वैष्णवे ।
अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम् ॥
जम्बद्वीपे चतुर्ब्बाहुं कुशद्वीपे कुशेशयम् ।
प्लक्षद्वीपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम् ॥
पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम् ।
सहस्रांशुः स्थितः शाके धनराट् पुष्करे स्थितः ॥
तथा पृथिव्यां ब्रह्मर्षे ! शालग्रामे स्थितोऽस्म्य-
हम् ।
सजलस्थलपर्य्यन्तं चरेषु स्थावरेषु च ॥
एतानि पुण्यानि ममालयानि
ब्रह्मन् पुराणानि सनातनानि ।
धर्म्मप्रधानानि महौजसानि
संकीर्त्तनीयान्यघनाशनानि ॥
सङ्कीर्त्तनात् स्मरणाद्दर्शनाच्च
संस्पर्शनादेव च देवताद्याः ।
धर्म्मार्थकामान्यपवर्गमेव
लभन्ति दैत्या मनुजाः ससाध्याः ।
एतानि तुभ्यं विनिवेदितानि
ममालयानीह स्वनिष्ठितानि ॥”
इति वामनपुराणे स्वस्थानोक्तिर्न्नाम ८६ अः ॥
हरिहरयोरभेदो यथा, --
“या श्रीः सा गिरिजा प्रोक्ता यो हरिः स
त्रिलोचनः ।
एवं सर्व्वेषु शास्त्रेषु पुराणेषु च पठ्यते ॥
एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक् तया ।
तं नास्तिकं विजानीयात् सर्व्वधर्म्मबहिष्कृतम् ।
इति वाराहे सौभाग्यव्रतनामाध्ययः ॥ * ॥
ब्रह्मविष्णुमहेश्वरणामेकत्वं सत्त्वादिरूपञ्च
यथा, --
महेश्वर उवाच ।
“नारायणः परो देवः सत्त्वरूपो जनार्दनः ।
त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ॥
रजस्तमोभ्यां युक्तोऽभूद्रजःसत्त्वाधिकं विभुः ।
ससर्ज नाभिकमलात् ब्रह्माणं कमलासनम् ॥
रजसा तमसा युक्तं सोऽपि मां त्वसृजत् प्रभुः ।
यत् सत्त्वं स हरिर्देवो यो हरिस्तत् परं पदम् ॥
ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसम्भवः ।
यो ब्रह्मा सैव देवस्तु यो देवः स चतुर्म्मुखः ॥
यद्रजस्तमसोपेतं सोऽयं नास्त्यत्र संशयः ।
सत्त्वं रजस्तमश्चैव तृतीयं चैतदुच्यते ॥
सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।
न तस्मात् परतो देवो भविता न भविष्यति ॥
यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽह-
मेव च ।
वेदत्रयेऽपि यज्ञेऽस्मिन् पण्डितेष्वेष निश्चयः ॥
यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम ।
पृष्ठ ५/५१२
स पापकारी दुष्टात्मा दुर्गतिं समवप्नुयात् ॥
इति तत्रेव रुद्रगीतानामाध्यः ॥ * ॥
तद्गुणा यथा, --
“ब्रह्मादयः सुराः सर्व्वेये चान्ये देवदानवाः ।
मनुष्याः पक्षिवृक्षाद्याः सर्व्वे तद्ब्रह्मसंभवा ॥
तत्र योऽसौ परो देवो व्यापदो मुनिमत्तम ।
निर्लक्षो ह्यचलः सूक्ष्मः कारणैः परिवर्जितः ॥
अनौपम्यस्त्वनिर्देश्यो ह्यक्षरादक्षरं परम् ।
निष्प्रपञ्चो निरालम्बो विषयातीतगोचरः ॥
सर्व्वज्ञः सर्व्वकर्त्ता च प्रत्यज्ञं सर्व्वदाक्षरम् ।
अनामा नामकोटीनां गीयते तदने कधा ॥
अगम्यमथवा गम्यमदृश्यं दृश्यमेव च ।
अस्वरं स्वरसंयुक्तमघोषं घोषरूपकम् ॥
सकलं निष्कलं चैव निर्म्मलं मलसंयुतम् ।
हरिमेतद्गुणैर्युक्तं मया ते परिकीर्त्तितम् ॥ * ॥
मरीचिरुवाच ।
अक्षयं चाव्ययं चैव यद्वह्ने ते प्रकीर्त्तितम् ।
कथं तस्य विनाशोऽस्ति सर्व्वज्ञः केन हेतुना ॥
अगम्यं कीर्त्तितं वह्ने गम्यं चैव कथं भवेत् ।
अवर्णञ्च समाख्यातं वर्णयुक्तं हि कारणम् ॥
अस्वरं स्वरसंयुक्तं कथं तद्गम्यते हरिः ।
अप्रमाणं त्वया प्रोक्तं प्रमाणञ्च कथं भवेत् ॥
अनादेस्तु कयं चादिर्लभ्यते किं विभावसो ।
कथयस्वविशेषेण येन सम्पद्यते सुखम् ॥ * ॥
वह्निरुवाच ।
स्थावरं जङ्गमञ्चैव अण्डजं स्वेदजं तथा ।
विनश्यन्तीह भूतानि विनाशी तेन कथ्यते ॥
अगम्यमप्रबुद्धानां कामाद्यासक्तचेतसाम् ।
स्वकर्म्मविनिवृत्तानां गम्यं तच्छुभकर्म्मणा ॥
ज्ञानचक्षुर्विहीनानामदृश्यं सर्व्वजन्तुषु ।
ज्ञानचक्षुःसमायुक्ताः ख्यितं पश्यन्ति नित्यशः ॥
अन्धकारे यथा दीपो दर्शयेत् गृहमेधिनाम् ।
विद्याचक्षुस्तथा विप्रो दर्शयेत् परमं पदम् ॥
ये नरा वेद सिद्धान्तैर्ब्बोधिता गुरुणा च ये ।
अनेकरूपसंयुक्तं पश्यन्ति परमेश्वरम् ॥
ये स्वकर्म्मतपोहीनविषयासक्तचेतसः ।
वर्णरूपं न जानन्ति वेदसिद्धान्तवर्जिताः ।
भ्रान्तिं पश्यन्ति सर्व्वत्र सविकल्पाश्च मानवाः ॥
जीवाख्यं वर्णनिर्मुक्तं शून्यसंज्ञन्तु कथ्य ते ॥
यदा वर्णसमायुक्तस्तदा वर्णस्तु जायते ॥
स्वरं तु गृह्णते यावत्तावद्घोषस्तु कीर्त्त्यते ।
बिन्दुहीनस्तु निर्घोषो निराकारः स एव तु ॥
यदा सृजति भूतानि प्रकृतिस्थो हरिः स्वयम् ।
तावत् कर्त्ता स वै ज्ञेयः कर्त्ता प्रकृतिवर्जितः ॥
नासारन्ध्रेण निर्याति अङ्गुलानि दशद्वयम् ॥
निर्म्मलः स विभुर्ज्ञेयः समलो देहवर्द्धितः ॥
अप्रमाणं भवेत्तावत् यावत् शास्त्रं न विन्दति ।
शास्त्रज्ञानमधीते यः प्रमाणं तस्य लभ्यते ॥
तेन सर्व्वमिदं विश्वं व्यापितं सचराचरम् ।
सूक्ष्मः सर्व्वगतस्तृप्तो लक्षणोपायवर्ज्जितः ॥”
इत्याद्ये वह्निपुराणे सर्गकथननामाध्यायः ॥ * ॥
पूजितविष्णुदर्शनादिफलं वह्निपुराणे शुद्धिव्रत-
नामाध्याये क्रियायोगनामाध्याये च द्रष्टव्यम् ।
तस्य यमाष्टकस्तोत्रं नृसिंहपुराणे ९ अध्याये
तत्पूजायां द्रव्यविशेषदानफलञ्च तत्रैव ३२
अध्याये द्रष्टव्यम् ॥ * ॥ शिवस्य हरेराराधन-
प्रमाणं यथा, --
ब्रह्मोवाच ।
“अहं गतोऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह ।
तत्र दृष्टो महारुद्रो ध्यायमानः परं पदम् ॥
पृष्टो नमस्कृतो देवः किं त्वं ध्यायसि शङ्कर ।
त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः ।
सारात् सारतरं तत्त्वं श्रोतुकामः सुरैः सह ॥
रुद्र उवाच ।
अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम् ।
सर्व्वगं सर्व्वदं सर्व्वं सर्व्वप्राणिहृदि स्थितम् ॥
भस्मोद्धूनितदेहस्तु जटामण्डलमण्डितः ।
विष्णोराराधनार्थं मे व्रतचर्य्या पितामह ॥
तमेव गत्वा पृच्छामः सारं यच्चिन्तयास्यहम् ।
विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्ज्जितम् ॥
शुचिं शुचिपदं हंसं तत्परं परमेश्वरम् ।
युक्त्वा सर्व्वात्मनात्मानं तं देवं चिन्तयाम्यहम् ॥
यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति
च ।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥
सहस्राक्षं सहस्राङ्घ्रिं सहस्रोरुकराननम् ।
अणीयसामणीयांसं स्थविरञ्च स्थवीयसाम् ॥
गरीयसां गरिष्ठञ्च श्रेष्ठञ्च श्रेयसामपि ।
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ॥
गृणन्ति सत्यकर्म्माणं सत्यं सत्येषु साममु ।
पुराणे पुरुषः प्रोक्तो ब्रह्म प्रोक्तो द्विजादिषु ॥
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ।
यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा ॥
ऋतमेकाक्षरं ब्रह्म यत्तत् सदसतः परम् ।
अर्च्चयन्ति च यं देवा यक्षराक्षसकिन्नराः ॥
यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ
क्षितिः ।
चन्द्रादित्यौ च नयने तं देवं चिन्तयास्यहम् ॥
यस्य त्रिलोकौ जठरे यस्य काष्ठाः सुबाहवः ।
यस्योच्छासश्च पवनस्तं देवं चिन्तयाम्यहम् ॥
यस्य कुशेषु जीमूता नद्यः सर्व्वाङ्गसन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम् ॥
परः कालात् परो यज्ञात् परः सदमदश्च यः ।
अनादिरादिर्विश्वस्य तं देवं चिन्तय म्यहम् ॥
मनसश्चन्द्रमा यस्य चक्षुषश्च दिवाकरः ।
मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम् ॥
पद्भ्यां यस्य क्षितिर्ज्जाता श्रोत्राभ्याञ्च तथा
दिशः ।
मूर्द्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम् ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं यस्मात् तं देवं चिन्तयाम्यहम् ॥
यं तं ध्यायाम्यहं यस्माद्व्रजामः सार-
मीक्षितुम् ॥”
इति गारुडे । २ । ९ -- २७ ॥
तद्भक्तिर्यथा, --
सूत उवाच ।
“विष्णुभक्तिं प्रवक्ष्यामि यया सर्व्वमवाप्यते ।
यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥
महतः श्रेयसो मूलं प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु ददाति स्मरणं हरेः ।
भज इत्येष बै धातुः सेवायां परिकीर्त्तितः ।
तस्मात् सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी ॥
ते भक्ता लोकनाथस्य नामकर्म्मादिकीर्त्तने ।
मुञ्चन्त्यश्रूणि संहर्षात् ये च हृष्टतनूरुहा ॥
जगद्धातुर्महेशस्य दिव्याज्ञाचरणाव्ययाः ।
इह नित्यक्रियाः कुर्य्युः स्निग्धा ये वैष्णवास्तु ते ॥
प्रणामपूर्ब्बकं क्षान्त्या यो वदेत् वैष्णवो हि सः ।
तद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम् ॥
तत्कथाश्रवणे प्रीतिः स्वरनेत्राङ्गविक्रिया ।
येन सर्व्वात्मना विष्णौ भक्त्या भावो निवेशितः ॥
विप्रेष्वीश्वरदृष्टिश्च महाभागवतो हि सः ।
विष्णोश्च कारणं नित्यं तदन्नं दम्भवर्ज्जितम् ॥
स्वयमभ्यर्च्चनञ्चैव यो विष्णुं वोपजीवति ।
भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते ॥
स विप्रेन्द्रो मुनिः श्रीमान् स जातः स च
पण्डितः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥
स्मृतः संभाषितो वापि पूजितो वा द्विजोत्तमः ।
पुनाति भगवद्भक्तश्चण्डालोऽपि यदृच्छया ॥
प्रणताय प्रपन्नाय तवास्मीति च यो वदेत् ।
अभयं सर्व्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥
मन्त्रयाजिसहस्रेभ्यः सर्व्ववेदान्तपारगाः !
सर्व्ववेदान्तवित्कोट्या विष्णुभक्तो विशिष्यते ॥
ऐकान्तिकाश्च पुरुषाः गच्छन्ति परमं पदम् ।
ऐकान्तिना समो विष्णुर्यस्मादेषां परायणः ।
तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ।
प्रियाणामपि सर्व्वेषां देवदेवस्य स प्रियः ।
आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी ।
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पतु ॥
अन्तर्गतोऽपि वेदानां सर्व्वशास्त्रार्थवेद्यपि ।
यो न सर्वेश्वरे भक्तस्तं विद्यात् पुरुषाधमम् ॥
नाधीतवेदशास्त्रोऽपि न कृतं चापसव्यवत् ।
यो भक्तिं वहते विष्णौ तेन सर्व्वं कृतं भवेत् ॥
यज्ञानां क्रतुमुख्यानां सर्व्वेषां पारगा अपि ।
न तां यान्ति गतिं भक्त्या यां यान्ति मुनिसत्तम ॥
यः कश्चित् वैष्णवो लोके मिथ्याचारोऽप्यना-
श्रमी ।
पुनाति सकलान् लोकान् सहस्रांशुरिवोदितः ॥
ये नृ शसा दुरात्मानः पापाचाररतास्तथा ।
तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥
दृढा जनार्द्दने भक्तिर्यदैवाव्यभिचारिणी ।
तदा कियत् स्वर्गसुखं सैव निर्व्वाणहैतुकी ॥
भ्राम्यतां तत्र संसारे नराणां कर्म्मदुगमे ।
हस्तावलम्बनो ह्येको भक्तितुष्टो जनार्द्दनः ॥
न शृणोति गुणान् दिव्यान् देवदेवस्य चक्रिणः
पृष्ठ ५/५१३
स नरो वधिरो क्षेयः सर्व्वधर्म्मबहिष्कृतः ॥
नाम्नि संकोर्त्तिते विष्णोर्यस्य पुंसो न जायते ।
शरीरं पुलकोद्भासि तद्भवेत् कुणपोपसम् ॥
यस्मिन् स्मृते द्विजश्रेष्ठ ! मुक्तिरप्यचिराद्भवेत् ।
विष्णौ निविष्टमनसां किं पुनर्वृजिनक्षयः ॥
स्वपुरुषमभिवोक्ष्य पाशहस्तं
वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रपन्नान्
प्रभुरहमन्यनृणां न वैष्णवानाम् ॥
अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥
क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं नियच्छति ।
विप्रेन्द्र ! प्रतिजानीहि विष्णुभक्तो न नश्यति ॥
धर्म्मार्थकामैः किन्तस्य मुक्तिस्तस्य करे स्थिता ।
समस्तजगतां मूले यस्य भक्तिः स्थिरा हरौ ॥
दैवी ह्येषा गुणमयी हरेर्म्माया दुरत्यया ।
तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥
कियदाराधने पुसां शिष्यते हरिमेधसः ।
भक्त्यैवाराध्यते विष्णुर्नान्यं तत्रोपकारकम् ॥
न दानैर्व्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्द्दनः ॥
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे ।
कदाचित् केशवे भक्तिस्तद्भक्तैर्व्वा समागमः ॥
पत्रेषु पुष्पेषु फलेषु सत्सु
तोयेषु लभ्येषु सदैव सत्सु ।
भक्त्यै कलभ्ये पुरुषे पुराणे
मुक्त्यै कथं नु क्रियते प्रयत्नः ॥
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।
वैष्णवोऽस्मत्मकुले जातः स नः सन्तारयिष्यति ।
अज्ञानिनः सुरवरं समधिक्षिपन्ति
ये पापिनोऽपि शिशुपालसुयोधनाद्याः ।
मुक्तिं गताः स्मरणमात्रविधूतपापः
कः संशयः परमभक्तिमतां जनानाम् ॥
शरणं तं प्रपन्ना ये ध्यानयोगविवर्ज्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥
भवोद्भवक्लेशशताहतस्तथा
परिभ्रमन्निन्द्रियबन्धकैः पथैः ।
नियम्यतां माधव ! मे मनोहय-
स्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥
विष्णुरेव पर ब्रह्म ह्यभेद इह पट्यते ।
वेदसिद्धान्तमार्गेषु तं न जानन्ति मोहिताः ॥
वसति हृदि सनातने च तस्मिन्
भवति पुमान् जगतोऽस्य सौम्यरूपः ।
क्षितिपसुमतिरम्यमात्मनोऽन्तः
कथयति चारुतयैवमालपते ॥”
इति गारुडे भगवद्भक्तिः २३१ अध्यायः ॥ * ॥
तस्य नमस्कारादिकं तत्रैव २३२ । २३३ । २३४
अध्यायेषु द्रष्टव्यम् ॥ * ॥ तस्य द्वादशमासकृत्यं
यथा, --
“मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् ।
ज्यैष्ठे तु स्नापनं कुर्य्यात् श्रीविष्णोः स्नानवासरे ॥
दैनन्दिनन्तु दुरितं पक्षमासाहवर्षजम् ।
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ॥
स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च ।
कोटिकोटिसहस्राणि ह्युपपापानि यानि च ॥
सर्व्वाण्यपि प्रणश्यन्ति पौर्णमास्यान्तु वासरे ।
अभिषिञ्चेच्च तन्मूर्द्ध्नि तदेतत् कलसोदकम् ॥
पुरुषसूक्तेन मन्त्रेण पावमानी ऋचा तथा ।
नारिकेलोदकेनाथ तथा तालफलाम्बुना ॥
रत्नोदकेन गन्धेन तथा पुष्पोदकेन च ।
पञ्चोपचारैराराध्य यथाविभवविस्तरैः ॥
घं घण्टायै नम इति घण्टावाद्यं निवेदयेत् ॥
पादे तस्य महाध्वानं ध्वस्तपातकपञ्चके ।
पाहि मां पापिनं घोरं संसारार्णवपातितम् ॥
य एवं कुरुते विद्वान् ब्राह्मणः श्रोत्रियः शुचिः ।
सर्व्वपापैः प्रमुच्येत विष्णुलोकं स गच्छति ॥ १ ॥
आषाढशुक्लै कादश्यां कुर्य्यात् स्वापमहोत्सवम् ।
आषाढे च रथं कुर्य्यात् श्रावणे श्रवणा-
विधिम् ॥ २ ॥ ३ ॥
भाद्रे च जन्मदिवसे उपवासपरो भवेत् । ४ ।
प्रसुप्तञ्च पारिवर्त्तमाश्विने मासि कारयेत् ॥
उत्थानञ्च हरेः कुर्य्यादन्यथा विष्णुद्रोहकृत् ।
शुभे चैवाश्विने मासि महामायां प्रपूजयेत् ॥ ५ ॥
कार्त्तिके मासि यत् कृत्यं शृणु देवि वरानने ! ।
सप्तवर्त्याः प्रमाणेन दीपः स्याच्चतुरङ्गुलः ॥
पक्षान्ते च प्रकर्त्तव्या दीपमालावलिः शुभा ॥ ६ ॥
मार्गशीर्षे सिते पक्षे षष्ठ्याञ्च सितवस्त्रकैः ।
पूजयेज्जगदीशञ्च तूलवस्त्रैर्विशेषतः ॥ ७ ॥
पौषे पुण्याभिषेकञ्च वर्ज्जयेच्चन्दनं यथा ॥ ८ ॥
संक्रान्त्यां माघमासे च साधिवासिततण्डुलान् ।
निवेद्य विष्णवे भक्त्या इमं मन्त्रमुदीरयेत् ॥
जीवनं सर्व्वभूतानां जनकस्त्वं जगद्गुरो ! ।
त्वन्मायालीनतां प्राप्ता त्वयैव जनिता प्रभो ! ॥
कर्पूराकृतिद्रव्याणि घृताक्तानि निवेदयेत् ।
ब्राह्मणान् भोजयेद्भक्त्या देवदेवपुरस्थितान् ॥
अभ्यर्{??} भगवद्भक्त्या द्विजांश्च भगवद्धिया ।
एकस्मिन् भोजिते भक्ते कोटिर्भवति भक्तितः ।
विप्रभोजनमात्रेण व्यङ्गं साङ्गं भवेत् ध्रुवम् ॥
पञ्चम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ।
पूजयेद्भगवद्भक्त्या चूतपल्लवसम्मितैः ॥ ९ ॥
फल्गुचूर्णैश्च विविधैर्व्वासितैः पटवासितैः ।
काननं रमणीयञ्च प्रदीप्तदीपदीपितम् ॥
द्राक्षेक्षुरम्भाजम्वीरनागरङ्गकपूगकम् ।
नारिकेलञ्च धात्री च वंशतालहरीतकी ॥
अन्यैश्च वृक्षषण्डैश्च सर्व्वर्त्तुकुसुमाचितम् ।
पुष्पैश्च विविधैश्चैव फलपुष्पसमन्वितम् ॥
वितानैः कुसुमोद्यानैर्व्वारिपूर्णघटैस्तथा ।
चूतशाखोपशाखाभिः शोभितं छत्रचामरैः ॥
विशेषतः कलियुगे दोलोत्सवो विधीयते ।
फाल्गुने च चतुर्द्दश्यामष्टमे यामसंज्ञके ॥
अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ ।
पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्व्विधैः ॥
सितरक्तैर्गौरपीतैः कर्पूरादिविमिश्रितैः ।
हरिद्राक्षारयोगाच्च रङ्गरम्यैर्म्मनोहरैः ॥
अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ॥
एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ॥
पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते ।
दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः ॥
दृष्ट्वावराधनिचयैर्म्मुक्तास्तु नात्र संशयः ॥ १० ॥
निःक्षिप्य जलमात्रे तु मासे माधवसंज्ञिते ।
सौवर्णपात्रे ताम्रे वा रौप्ये वा मृण्मयेऽपि वा ॥
तोयस्थं योऽर्च्चयेद्देवं शालग्रामसमुद्भवम् ।
प्रत्यहं मां महाभागे तस्य पुण्यं न गण्यते ॥
दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् ।
वैशाख्यां श्रावणे भाद्रे कर्त्तव्यञ्च तदर्पणम् ॥ ११ ॥
वैशाखे च तृतीयायां जलमध्ये विशेषतः ।
अथवा मण्डपे कुर्य्यात् मण्डले वा वृहद्ध्वुजे ॥
सुगन्धचन्दनेनाङ्गं सुपुष्टाङ्गो दिने दिने ।
यथा प्रयत्नतः कार्य्यः कृशाङ्गो नैव पूजितः ॥
चन्दनागुरुकस्तूरीकुष्ठं कुङ्कुमरोचना ।
जटामांसी वचा चैव विष्णोर्गन्धाष्टकं तथा ।
एतैर्गन्धयुतैश्चापि अङ्गानि च विलेपयेत् ॥
घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।
अथवा केशरैर्योज्यं हरिचन्दनमच्युते ॥
अस्मिन् काले कृष्णभक्त्या ये प्रपश्यन्ति मानवाः ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
सुगन्धिमिश्रितैस्तोयेः स्नापयित्वा जगद्-
गुरुम् ।
अथवा पुष्पमध्यं च स्थापयेज्जगदीश्वरम् ॥
वृन्दावनं तत्र कृत्वा उपस्कृतफलानि च ।
विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥
नारिकेलं फलं नीर कोषञ्चोद्धृत्य दापयेत् ।
कण्टाफलञ्च पनसं कोषमुद्धृत्य दीयते ॥
यथा पचेत्तथा दद्याद्यथाशक्तिनियोगतः ।
दध्ना विमिश्रितञ्चान्नं घृतेनाप्लुत्य दापयेत् ॥
पाचितं पिष्टकं धातुरष्टादश घृतेन च ।
तिलैश्च तिलसंमिश्रैः फलं शुद्धञ्च दापयेत् ॥
यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् ।
दत्त्वा नैवेद्यवस्त्रत्तादीन्नाददीत कथञ्चन ॥
त्यक्तव्यं विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ।
इति ते कथितं किञ्चित् समासेन महेश्वरि ! ।
गोप्तव्यञ्च प्रयत्नेन स्वयोनिरिव पार्व्वति ! ॥ १२ ॥
श्रीकृष्णरूपगुणवर्णनशांस्त्रवर्गे
बोधाधिकार इह चेदलमन्यपारैः ।
तत्प्रेमभावबलभक्तिविलासनाम-
हासेषु चेद्यदि रतिः किमु कामिनीभिः ॥
तञ्चेतसा विभजतां व्रजबालकेन्द्र
वृन्दावनं क्षितितलं यमुनाजलञ्च ।
तल्लोकनाथपद पङ्कजधूलिभिश्चे-
ल्लिप्तं वपुः किल वृथागुरुचन्दनाद्यैः ॥”
इति पाद्मे पातालखण्डे १२ अध्यायः ॥

हरिः, त्रि, (हरति नेत्रदुःखमिति । हृ + इन् ।)

पिङ्गलवर्णः । हरिद्वर्णः । इति मेदिनी ॥ (यथा
रघुः । ३ । ४३ ।
“शतैस्तमक्ष्णामनिमेषवृत्तिभि-
र्हरिं विदित्वा हरिभिश्च वाजिभिः
पृष्ठ ५/५१४
अवोचदेनं गगनस्पृशा रघुः
स्वरेण धीरेण निवर्त्तयन्निव ॥”)
पीतवर्णः । इत्यनेकार्थकोषः ॥

हरिकः, पुं, (हरिरेव । हरि + स्वार्थे संज्ञायां

वा कन् ।) पीतहरितवर्णाश्वः । तत्पर्य्यायः ।
हालकः २ । इति हेमचन्द्रः ॥ चौरः । अक्ष-
क्रीडकः । इति केचित् ॥

हरिकेलीयः, पुं, (हरिकेलिमर्हतीति । हरिकेलि

+ छः ।) वङ्गदेशः । इति हेमचन्द्रः । तद्दे-
शस्थे, त्रि ॥

हरिकेशः, पुं, (हरिः पिङ्गलः केशो यस्य ।)

शिवः । इति केचित् ॥ (यथा, महाभारते ।
१३ । १७ । ४४ ।
“दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ॥”
विष्णुः । यथा, महाभारते । ६ । ६२ । ५० ।
“महोरग वराहाद्य हरिकेश विभो ! जय ॥”)
शिवभक्तयक्षविशेषः । स तु शिवप्रसादात् दण्ड-
पाणित्वं क्षेत्रपालत्वादिकञ्च प्राप्तवान् । यथा,
“एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः ।
जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः ।
तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः ।
दिव्यं चक्षुरदात्तस्मै यैनापश्यत् स शङ्करम् ॥
सूत उवाच ।
अथ यक्षस्तदा तत्र शनैरुम्मील्य चक्षुषी ।
अपश्यत् स शिवं देवं वृषं श्वेतमुपाश्रितम् ॥
देव उवाच ।
जरामरणनिर्मुक्तः सर्व्वशोकविवर्ज्जितः ।
भविष्यसि गणाध्यक्षो वरदः सर्व्वपूजितः ॥
अजेयश्चापि लोकानां योगैश्वर्य्यसमन्वितः ।
अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि ॥
महाबलो महासत्त्वो ब्रह्मण्यो मम च प्रियः ।
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च ॥
उद्भ्रमः सम्भ्रमश्चैव गणौ ते परिचारकौ ।
तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ॥”
इति मात्स्ये । १० । ८८ -- ९० ९६ -- ९९ ॥

हरिक्रान्ता स्त्री, (हरिणा क्रान्ता ।) विष्णु-

क्रान्ता । इति राजनिर्घण्टः ॥

हरिर्गृहं, क्ली, (हरेर्गृहम् ।) हरेरालयः ।

पुरीविशेषः । तत्पर्प्यायः । एकचक्रम् २ शुम्भ-
पुरी ३ । इति त्रिकाण्डशेषः ॥

हरिचन्दनं, पुं, क्ली, (हरेरिन्द्रस्य प्रियं चन्दनम् ।)

देवतरुविशेषः यथा, --
“पञ्चैते देवतारवो मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥”
इति स्वर्गवर्गे अमरः । १ । १ । ५३ ॥
देवभूमावेव सम्भवात् देवतरुः । चन्दयति
आह्वादयति चन्दनं चदि आह्वादे दीप्तौ
नन्द्यादित्वादनः । हरेरिन्द्रस्य चन्दनं हरि-
चन्दनम् । इति तट्टीकायां भरतः ॥ * ॥ चन्दन-
विशेषः । तत्पर्य्यायः । तैलपर्णिकम् २ गोशी-
र्षम् ३ । इति मनुष्यवर्गे अमरः । २ । ६ । १३१ ॥
घौणि हरिचन्दने । चन्दनविशेषाणां पृथक्
पृथक् नामानीत्यन्ये । तथा च तिलस्येव पर्ण-
मस्य तिलपर्णो वृक्षभेदः ततो जातं तैलपर्णि-
कम् । धवलं सुशीतलं चन्दनं तैलपर्णिकम् ।
गोः शीर्षं गोशीर्षं तदाकारे मलयैकदेशे जातं
गोशीर्षम् । कालताम्रव्यामिश्रवर्णमुत्पलगन्धि
अतिसुरभि शीतलतया सदैव सर्षैर्वेष्टितं गो-
शीर्षम् । कपिलवर्णत्वात् हरि च तच्चन्दन-
ञ्चेति हरिचन्दनम् । हरेरिन्द्रस्य चन्दनं वा ।
हरिर्मण्डूकस्तदाकारे पर्व्वतभागे जातत्वाद्वा
हरिचन्दनम् । इति भरतः ॥ तत्पर्य्यायान्तरं
सुरार्हम् २ हरिगन्धम् ३ इन्द्रचन्दनम् ४ दिव्यम्
५ दिविजम् ६ महागन्धम् ७ नन्दनजम् ८
लोहितजम् ९ । हरिचन्दनं कोकणे प्रसि-
द्वम् । अस्य गुणाः ।
“हरिचन्दनन्तु दिव्यं हिमं तदिह दुर्व्वहं मनुजैः ।
पित्ताटोपविलोपि वमथुभ्रमशोषमान्द्यमेदो-
हृत् ॥”
इति राजनिर्घण्टः ॥ * ॥
(पीतचन्दनम् । कलम्व इति लोके ।
“कालीयकन्तु कालीयं पीताभं हरिचन्दनम् ।
हरिप्रियं कालसारं तथा कालानुसार्य्यकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पारिभाषिकहरिचन्दनं यथा, --
“घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।
अथवा केशरैर्योज्यं हरिचन्दनमुच्यते ॥”
इति पाद्मे पातालखण्डे १२ अध्यायः ॥

हरिचन्दनं, क्ली, (हरिचन्दनं तद्वद्वर्णोऽस्त्यस्येति ।

अच् ।) ज्योत्स्ना । कुङ्कुमम् । इति मेदिनी ॥
पद्मकेशरम् । इति हलायुधः ॥ कान्ताङ्गम् ।
इति शब्दरत्नावली ॥

हरिणः, पुं, (हरति मनः ह्रियते गीतादिना वा ।

हृ + “श्यास्त्याहृञविभ्य इनच् ।” उणा० २ ।
४६ । इति इन्च ।) स्वनामाख्यातपशुः । तत्प-
र्य्यायः । मृगः २ कुरङ्गः ३ वातायुः ४ अजिन-
योनिः ५ । इत्यमरः । २ । ५ । ८ ॥ सारङ्गः ६
चलनः ७ पृषत् ८ भीरुहृदयः ९ मयुः १० ।
इति जटाधरः ॥ चारुलोचनः ११ जिनयोनिः
१२ कुरङ्गमः १३ ऋष्यः १४ ऋश्यः १५ रिष्यः
१६ रिश्यः १७ एणः १८ एणकः १९ । इति
शब्दरत्नावली ॥ कृष्णतारः २० सुलोचनः २१
पृषतः २२ । अस्थ मांसगुणाः ।
“एणस्य मांसं लघु शीतवृष्यं
त्रिदोषहृत् षड्रसदञ्च रुच्यम् ।
कुरङ्गमांसं मधुरञ्च यद्वत्
कफापहं पित्तहरं मरुत्प्रदम् ॥”
इति राजनिर्घण्टः ॥ * ॥
अपि च ।
“हरिणः शीतलो बद्धबिण्मूत्रो दीपनो लघुः ।
रसे पाके च मधुरः सुगन्धिः मन्निपातहा ॥
एणः कषायो मधुरः पित्तासृक्कफनाशनः ।
संग्राही रोचनो हृद्यो बलकृज्ज्वरनाशनः ॥”
इति राजवल्लभः ॥ * ॥
अन्यच्च ।
“कुरङ्गो वृंहणो बल्यः शीतलः पित्तहृद्गुरुः ।
मधुरो वातहृद् ग्राही किञ्चित्कफकरो मतः ॥”
इति भावप्रकाशः ॥ * ॥
हरिणस्य पञ्चमेदो यथा, --
“हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्रु भैरव ।
ऋष्यः खङ्गो रुरुश्चैव पृषतश्च मृगस्तथा ।
एते बलिप्रदानेषु चर्म्मदाने च कीर्त्तिताः ॥”
इति कालिकापुराणे ६६ अध्यायः ॥ * ॥
शुक्लवर्णः । विष्णुः । शिवः । (यथा, महा-
भारते । १३ । १७ । ११९ ।
“आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ॥”)
सूर्य्यः । हंसः । इति केचित् ॥ (ऐरावत-
वंशोद्भूतनागविशेषः । यथा, महाभारते । १ ।
५७ । ११ ।
“पारावतः पारिजातः पाण्डरो हरिणः
कृशः ।
विहङ्गः शरभो मेदः प्रमोदः संहतापनः ।
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”)
पाण्डुवर्णः । तद्युक्ते, त्रि ॥ इत्यमरः । १ । ५ । १३ ॥
(यथा, महाभारते, । १ । १ । १३५ ।
“स भोगान् विविधान् भुञ्जन् रत्नानि विवि-
धानि च ।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥”)

हरिणनर्त्तकः, पुं, (हरिण इव नृत्यतीति । नृत् +

ण्वुल् ।) किन्नरः । इति शब्दरत्नावली ॥

हरिणहृदयः, त्रि, (हरिणस्येव भीतं हृदयं

यस्य ।) भीरुः । इति शब्दरत्नावली ॥

हरिणाक्षी, स्त्री, हट्टविलासिनीनामगन्धद्रव्यम् ।

इति शब्दचन्द्रिका ॥ (हरिणस्य अक्षिणीव
अक्षिणी यस्याः । समासे षः । ङीप् । मृग-
लोचना रमणी ॥)

हरिणाङ्कः, पुं, (हरिणः अङ्कश्चिह्नं यस्य ।)

चन्द्रः । इति शब्दरत्नावली ॥

हरिणी, स्त्री, (हरिण + ङीष् ।) मृगी । (यथा,

रघुः । २ । ११ ।
“धनुर्भृतोऽप्यस्य दयार्द्रभाव-
माख्यातमन्तःकरणैर्विशङ्कैः ।
विलोकयन्त्यो वपुरापुरक्ष्णां-
प्रकामविस्तारफलं हरिण्यः ॥”)
स्वर्णप्रतिमा । इत्यमरः । ३ । ४ । ५० ॥ (हरित +
ङीष् । तस्य नः ।) हरिता । नारीभेदः । वृत्त-
भेदः । इति मेदिनी ॥ (तल्लक्षणं यथा, --
“नसमरला गः षड्वेदैर्हयैर्हरिणी मता ॥”
विस्तारस्तु छन्दःशब्दे द्रष्टव्यः ॥) मञ्जिष्ठा
स्वर्णयूथी । इति राजनिर्घण्टः ॥ तरुणी ।
वरस्त्री । इति शब्दरत्नावली ॥ (सुराङ्गनाभेदः ।
यथा, रघुः । ८ । ७९ ।
“चरतः किल दुश्चरं तप-
स्तृणविन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिभेदिनीं
हरिरस्मै हरिणीं सुराङ्गनाम् ॥”)
पृष्ठ ५/५१५

हरित्, पुं, (हरति नयनमनांसीति । हृ + “हृसृ-

रुहियुषिभ्य इति ।” उणा० १ । ९९ । इति
इतिः ।) नीलपीतमिश्रितवर्णः । सबुजरङ् इति
भाषा ॥ तत्पर्य्यायः । पालाशः २ हरितः ३ ।
इत्यमरः । १ । ५ । १४ ॥ श्यामः ४ । इति
शब्दरत्नावली ॥ अश्वविशेषः । इति मेदिनी ॥
सूर्य्याश्वः । इति त्रिकाण्डशेषः ॥ यथा, कुमारे ।
२ । ४३ ।
“उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।
आक्रोडपर्व्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥”)
मुद्गः । इति हेमचन्द्रः ॥ सिंहः । सूर्य्यः ।
विष्णुः । इति केचित् ॥ हरिद्वर्णविशिष्टे, त्रि ॥

हरित्, स्त्री, (हृ + इतिः ।) दिक् । इत्यमरः । १ । ३ । १ ॥

(यथा, रघुः । ३ । ३० ।
“ततार विद्याः पवनातिपातिभि-
र्दिशो हरिद्भिर्हरितामिवेश्वरः ॥”)
हरिद्रा । इति राजनिर्घण्टः ॥

हरित्, पुं, क्ली, (हृ + इतिः ।) तृणम् । इति

मेदिनी ॥

हरितं, क्ली, (हृ + इतन् ।) स्थौणेयकम् । इति

राजनिर्घण्टः ॥

हरितः, पुं, (हरति नयनमनांसीति । हृ + “हृश्या-

भ्यामितन् । “उणा० ३ । ९३ । इति इतन् ।)
हरिद्वर्णः । इत्यमरः । १ । ५ । १४ ॥ सिंहः ।
इति केचित् ॥ मन्थानकतृणम् । इति राज-
निर्घण्टः ॥ हारील इति लोके । तदर्थे पर्य्यायो
यथा, --
“हारीतो रक्तपित्तः स्याद्धरितोऽपि स कथ्यते ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥)
हरिद्वर्णयुक्ते, त्रि । इति मेदिनी ॥ (यथा,
किराते । ५ । ३८ ।
“परिसरविषयेषु लीढमुक्ताः
हरिततृणोद्गमशङ्कया मृगोभिः ॥”)

हरितकं, क्ली, (हरितो वर्णोऽस्त्यस्येति । अच् ।

ततः कन् ।) शाकम् । इत्यमरः । २ । ९ । ३४ ॥
(यथा, माघे । ५ । ५८ ।
“अश्रावि भूमिपतिभिः क्षणवीतनिद्रै-
रश्नन् पुरो हरितकं मुदमादधानः ॥”)

हरितपत्रिका, स्त्री, (हरितानि पत्राणि यस्याः ।

ततः स्वार्थे कन् । टापि अत इत्वम् ।) पाची ।
इति राजनिर्घण्टः ॥

हरितशाकः, पुं, (हरितः हरिद्वर्णः शाकः ।)

शिग्रुः । इति राजनिर्घण्टः ॥ (शिग्रुशब्देऽस्य
गुणादयो ज्ञातव्याः ॥)

हरिता, स्त्री, (हरितो वर्णोऽस्त्यस्या इति । अच् ।

टाप् ।) दूर्व्वा । इति मेदिनी ॥ जयन्ती ।
हरिद्रा । कपिलद्राक्षा । पाची । नीलदूर्व्वा ।
इति राजनिर्घण्टः ॥

हरितालं, क्ली, (हरितं तद्वर्णं आलातीति ।

आ + ला + कः ।) पीतवर्णधातुविशेषः । स तु
हरेर्व्वीर्य्यम् । यथा, --
“हरितालं हरेर्व्वीर्य्यं लक्ष्मीवीर्य्यं मनःशिला ।
पारदं शिववीर्य्यं स्यात् गन्धकं पार्व्वतीरजः ॥”
इति वैद्यकम् ॥
तत्पर्य्यायः । पिञ्जरम् २ पीतकम् ३ तालम् ४
आलम् ५ हरितालकम् ६ । इत्यमरः । २ । ९ । १०३ ॥
गोदन्तम् ७ पीतलम् ८ नटमण्डनम् ९ हरि-
बीजम् १० सिद्धधातुः ११ । इति जटाधरः ॥
वर्णकम् १२ नटभूषणम् १३ । इति रत्नमाला ॥
पीतम् १४ गोरोचम् १५ चित्राङ्गम् १५ पिञ्ज-
रकम् १७ वैदलम् १८ तालकम् १९ कनक-
रसः २० काञ्चनकम् २१ विडालकम् २२ चित्र-
गन्धम् २३ पिङ्गम् २४ पिङ्गसारम् २५ नौरी-
ललितम् २६ । अस्य गुणाः । कटुत्वम् । उष्ण-
त्वम् । स्निग्धत्वम् । त्वग्दोषभूतभीतिविषयवात-
रुजानाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च ।
“हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ।
तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् ॥
स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् ।
पत्राख्यं तालकं विद्यात् गुणाढ्यं तद्रसायनम् ॥
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ।
स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम् ॥
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् ।
कण्डुकुष्ठास्य रोगास्रकफपित्तकचव्रणान् ॥
हरति च हरितालं चारुतां देहजातां
सृजति च बहुतापानङ्गसङ्कोचपीडाः ।
वितरति कफवातौ कुष्ठरोगं विदध्या-
दिदमसितमशुद्धं मारितं चाप्यसम्यक् ॥”
इति भावप्रकाशः ॥ * ॥
अथ तालस्याशुद्धस्य दोषमाह ।
“अशुद्धं तालमायुर्हृत् कफमारुतमेहकृत् ।
तापस्फोटाङ्गसंकोचान् कुरुते तेन शोधयेत् ॥”
अथ तालकस्य शोधनविधिः ।
“तातकं कणशः कृत्वा तच्चूर्णं काञ्जिके क्षिपेत् ।
दोलायन्त्रेण यामैकं ततः कुष्माण्डजे द्रवे ॥
तिलतैले पचेद्यामं यामञ्च त्रिफलारसे ।
दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥” * ॥
अथ तालकस्य मारणविधिः ।
“सदलं तालकं शुद्धं पौनर्नवरसेन तु ।
खल्ले विमर्द्दयेदेकं दिनं पश्चाद्विशोधयेत् ॥
संशोध्य गोलकं तस्य कुर्य्यात्तच्च विशोधयेत् ।
ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत् ॥
तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत् ।
आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे ॥
स्थालीं चूल्यां समारोप्य क्रमाद्वह्निं विवर्द्धयेत् ।
दिनान्यन्तरशून्यानि पञ्चवह्निं प्रदीपयेत् ॥
एवं तन्म्रियते तालं मात्रा तस्यैकरत्तिका ।
अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् ॥”
एवं शोधितस्य मारितस्य तालकस्य गुणाः ।
“हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् ।
कण्डुकुष्ठास्यरागास्रकफपित्तकचव्रणान् ॥”
अन्यच्च ।
“तालकं हरते रोगान् कुष्ठमृत्युज्वरापहम् ।
शोधितं कुरुते कान्तिं वीर्य्यवृद्धिं तथायुषः ॥”
इति च भावप्रकाशः ॥

हरितालः, पुं, पीतवर्णपक्षिविशेषः । हरियाल

इति भाषा । तस्य मांसगुणाः ।
“हरितालोऽल्पविट्कः स्यात् कषायो मधुरो
लघुः ।
रक्तपित्तपशमनस्तृषाघ्नो वातकोपनः ॥”
इति राजवल्लभः ॥

हरितालकं, क्ली, (हरितालमेव । स्वार्थे कन् ।)

हरितालम् । इत्यमरः । २ । ९ । १०३ ॥

हरितालिका, स्त्री, दूर्व्वा । इति त्रिकाण्डशेषः ॥

सौरभाद्रशुक्लचतुर्थी हरितालिका । सौरभाद्र-
कृष्णचतुर्थ्यामुदितचन्द्रस्य नष्टचन्द्र इति संज्ञा ।
इति पञ्जिकायां प्रसिद्धा । तत्र चन्द्रदर्शननिषेधो
यथा । भोजदेवः ।
“शुक्लपक्षे चतुर्थ्यान्तु सिंहे चन्द्रस्य दर्शनम् ।
मिथ्याभिशापं कुरुते न पश्येत्तत्र तन्ततः ॥”
चतुर्थ्यां दर्शननिषेध्यत् तत्रोदितस्य चन्द्रस्य
पञ्चम्यां दर्शने तु न दोषः । अतः ।
“पञ्चाननगते भानौ पक्षयोरुभयोरपि ।
चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन ॥”
चतुर्थ्यां नेक्षितव्य इति मुनिभिरुदित उक्त
इत्यर्थः । अथवा चतुर्थ्यामित्यस्य प्रधानक्रिया-
न्वयाभ्यर्हितत्वादीक्षितव्य इत्यनेनान्वयो न
तूदित इत्यनेन । तथा च अव्यक्तं प्रधानगामि
इति सूत्रेअव्यक्तस्य शब्दस्य प्रधानेन सह सम्बन्ध
इति भट्टनारायणव्याख्यानं इति । उदितस्त्वर्द्धो-
दितव्यावृत्तिपरः स्वरूपाख्यानपरो वा ।
“ब्राह्मणी तु शुना दष्टा जम्बुकोष्ट्रेण वा गवा ।
उदितं सोमनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥”
इति पराशरोक्तोदित इतिवत् ॥ * ॥
नन्वेकपदस्य कथमनेकार्थता इति चेन्न यावन्तो-
ऽर्थास्तावन्ति पदानीति । तथा चोक्तम् ।
“यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् ।
अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः ॥”
शिङ्गं समार्थम् । रूढिगतं प्रसिद्धम् । न
त्वप्रसिद्धम् । हन हिंसागत्योरित्यादौ गमना-
दिकम् । अभिधेयो वाच्यः । तावद्भिर्धातुभि-
र्गुणविग्रहो गुणैर्गणनाभिर्विग्रहो ग्रहणं यत्रार्थे
स तथा । एतेन धातुसमसंख्यार्थत्वं पदस्य ।
ब्रह्मपुराणे सिंहार्काधिकारे ।
“नारायणोऽभिशप्तस्तु निशाकरमरीचिषु ।
स्थितश्चतुर्थ्यामद्यापि मनुष्याय पतेच्च सः ॥
अतश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्वीक्ष्य मानवः ।
पठेद्धात्रेयिकावाक्यं प्राङ्मुखो नाप्युदङ्मुखः ॥
अभिशप्तः परीवादविषयीभूतः । सोऽभिशापः ।
धात्रेयिकावाक्यं विष्णुपुराणे ।
“सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥”
अनेन मन्त्रेणाभिमन्त्रितं जलं पेयं आचारात्
स्यमन्तकोपाख्यानञ्च श्रोतव्यम् । इति तिथ्यादि-
तत्त्वम् ॥
पृष्ठ ५/५१६

हरिताली, स्त्री, (हरिताल + ङीष् ।) दूर्व्वा ।

आकाशरेखा । इति मेदिनी ॥ खड्गलता ।
इति विश्वः ॥ सौरभाद्रीयनक्षत्रविशेषयुक्त-
चतुर्थी । यथा, --
“भाद्रे मासि सिते पक्षे वसुदैवतसंयुता ।
हरिताली चतुर्थी स्यात् सर्व्वाणीप्रीतिदा
सदा ॥
भाद्रे मासि सिते पक्षे चतुर्थ्याख्याभियोगतः ।
ददाति किल्विषं घोरं दृष्टश्चन्द्रो न संशयः ॥
करिचित्रानलर्क्षेषु हरौ सूर्य्ये चतुर्थिका ।
हरिताली समाख्याता रुद्राणीप्रीतिदा सदा ॥”
इति राजमार्त्तण्डः ॥

हरिताश्म, [न्] क्ली, (हरितं अश्म ।) तुत्थम् ।

पेरोजम् । इति राजनिर्घण्टः ॥

हरित्पर्णं, क्ली, (हरित् पर्णमस्य ।) मूलकम् ।

इति राजनिर्घण्टः ॥ हरिद्वर्णपत्रयुक्ते, त्रि ॥

हरिदश्वः, पुं, (हरित् अश्वो यस्य ।) सूर्य्यः ।

(यथा, रघुः । ३ । २२ ।
“पुपोष वृद्धिं हरिदश्वदीधिते-
रनुप्रवेशादिव बालचन्द्रमाः ॥”)
अर्कवृक्षः । इत्यमरः । १ । ३ । २९ ॥

हरिदेवः, पुं, (हरिर्देवोऽधिष्ठात्रीदेवता यस्य ।)

श्रवणानक्षत्रम् । इति हेमचन्द्रः ॥ हरिर्देवो
यस्य इति बहुव्रीहौ, त्रि । हरिश्चासौ देव-
श्चेति कर्म्मधारये हरिमात्रबोधकः ॥

हरिद्गर्भः, पुं, (हरिद्वर्णो गर्भो यस्य ।) हरिद्वर्ण-

कुशः । हरिदर्भ इति च पाठः । तत्पर्य्यायः ।
खरपत्रः २ बृहच्छदः ३ अत्र पृथुच्छदोऽपि
पाठः । शीरी ४ रूक्षदर्भः ५ दीर्घपत्रः ६
पवित्रकः ७ । अस्य गुणाः ।
“दर्भौ द्वौ च गुणे तुल्यौ तथापि च सिता-
धिकः ।
यदि श्वेतकुशाभावे त्वपरं योजयेद्भिषक् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“दर्भद्वयं त्रिदोषघ्नं मघुरं तुवरं हिमम् ।
मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित् ॥”
इति भावप्रकाशः ॥
तन्मूलगुणाः ।
“कुशमूलं हिमं रुच्यं मधुरं पित्तनाशनम् ।
रक्तज्वरतृषाश्वासकामलादोषमोक्षकृत् ॥”
इति राजनिर्घण्टः ॥

हरिद्रवः, पुं, (हरिवर्णः पिङ्गलवर्णः द्रव इव ।)

नागकेशरचूर्णम् । इति त्रिकाण्डशेषः ॥

हरिद्रा, स्त्री, (हरितं पीतवर्णं रातीति । हरित्

+ रा + कः । टाप् ।) ओषधिविशेषः । हलुद
इति भाषा । तत्पर्य्यायः । निशाह्वा २ काञ्चनी
३ पीता ४ वरवर्णिनी ५ । इत्यमरः । २ । ९ । ४१ ॥
कावेरी ६ उमा ७ वर्णवती ८ गौरी ९ पीञ्जा
१० । इति जटाधरः ॥ पीतवालुका ११ हेम-
नाशा १२ भङ्गवासा १३ घर्षिणी १४ । इति
शब्दरत्नावली ॥ पीतिका १५ रजनी १६
निशा १७ मेहघ्नी १८ बहुला १९ वर्णिनी २०
रात्रिनामिका २१ । इति रत्नमाला ॥ हरित्
२२ रञ्जनी २३ स्वर्णवर्णा २४ सुवर्णा २५
शिवा २६ दीर्घरागा २७ हलद्दी २८ वराङ्गी
२९ जनेष्टा ३० वरा ३१ वर्णदात्री ३२ पवित्रा
३३ हरिता ३४ विषघ्नी ३५ पिङ्गा ३६ मङ्गल्या
३७ मङ्गला ३८ लक्ष्मीः ३९ भद्रा ४० शिफा
४१ शोभा ४२ शोभना ४३ सुभगाह्वया ४४
श्यामा ४५ जयन्तिका ४६ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफवातास्र-
कुष्ठमेहकण्डुव्रणनाशित्वम् । देहवर्णविधायि-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अन्यच्च ।
“हरिद्रा कफपित्तास्नशोथकण्डुव्रणापहा ।”
इति राजवल्लभः ॥
अपि च ।
“हरिद्रा काञ्जनी पीता निशाख्या वर-
वर्णिनी ।
कृमिघ्ना हलदी योषित्प्रिया हरिविलासिनी ॥
हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् ।
वर्ण्यात्वग्दोषमेहास्रशोथपाण्डुव्रणापहा ॥” * ॥
अथ वनहरिद्रा ।
“अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः ।” * ।
अथ कर्पूरहरिद्रा ।
“दार्व्वी भेदाम्रगन्धा च सुरभिश्चारु दारु च ।
कर्पूरा पद्मपत्रा स्यात् सुरभिः सुरनायिका ॥
आम्रगन्धिहरिद्रा या सा शीता वातला
मता ।
पित्तहृन्मधुरा तिक्ता सर्व्वकण्डविनाशिनी ॥”
इति भावप्रकाशः ॥

हरिद्रागणेशः, पुं, (हरिद्रावर्णो गणेशः ।)

गणेशविशेषः । तन्मन्त्रो यथा, --
अथ हरिद्रागणेशः ।
“पङ्कान्तको धरासंस्थो बिन्दुभूषितमस्तकः ।
एकाक्षरो महामन्त्रः सर्व्वकामफलप्रदः ॥”
अथ वशिष्ठ ऋषिर्गायत्त्री च्छन्दो हरिद्रागण-
पतिर्देवता गकारो बीजं लकारः शक्तिर्बीजे-
नैव षडङ्गकम् । ध्यानन्तु ।
“हरिद्राभं चतुर्ब्बाहुं हारिद्र्यवसनं विभुम् ।
पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ॥”
ऐवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनादि-
पीठमन्वन्तां पीठपूजां विधाय पुनर्ध्यात्वा गण-
पतिं पूजयेत् । आवरणपूजाविनियोगादिकं
एकाक्षरगणपतिवत् । अस्य पुरश्चरणं चतु-
र्लक्षजपः । त्रिमधुरयुक्तहरिद्राचूर्णमिश्रितै-
स्तण्डुलैरयुतहोमः । इत्यादि तन्त्रसारः ॥

हरिद्राङ्गः, पुं, (हरिद्राया इव अङ्गं यस्य ।)

हरितालपक्षी । इति शब्दचन्द्रिका ॥

हरिद्राभः, पुं, (हरिद्राया आभा इव आभा

यस्य ।) पौतशालः । कर्पूरकः । इति शब्द-
चन्द्रिका ॥ पीतवर्णः । तद्युक्ते, त्रि ॥ इत्य-
मरः । १ । ५ । १४ ॥ (यथा, तन्त्रमारे ।
“हरिद्राभं चतुर्ब्बाहुं हारिद्र्यवसनं विभुम् ॥”)

हरिद्रारागः, त्रि, (हरिद्राया राग इव रागो

यस्य । अचिरस्थायित्वादेवास्य तथात्वम् ।)
अस्थिरसौहृदः । इति हेमचन्द्रः ॥ तत्पर्य्यायः ।
क्षणमात्रानुरागी २ । हरिद्राराग इव रागो-
ऽस्येति हरिद्रारागः । हरिद्रारागस्याचिर-
स्थायित्वात् तथेति यावत् । यथा, --
“क्षणमात्रानुरागी च हरिद्राराग उच्यते ॥”
इति हलायुधः ॥

हरिद्रुः, पुं, (हरिवर्णः द्रुर्वृक्षः ।) वृक्षः । इति

हेमचन्द्रः ॥ दारुहरिद्रा । इत्यमरः । २ । ४ । १०१ ॥
तथा चोक्तम् ।
“दार्व्वी दारुहरिद्रा च पर्ज्जन्या पर्ज्जनीति च ।
कटङ्कटेरी पीता च भवेत् सैव च पञ्चधा ॥
सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च ।
पीतद्रुश्च हरिद्रुश्च पीतदारु कपीतकम् ।
दार्व्वी निशागुणा किन्तु नेत्रकर्णस्य रोगनुत् ॥”
इति भावप्रकाशः ॥ * ॥
वृक्षविशेषः । हलदीवा इति हिन्दी भाषा ।
तत्पर्य्यायः । पीतदारु ५ पीतकाष्ठः ३ पीतकः ४
कदम्बकः ५ सुपुष्पः ६ सुराह्वः ७ पीतकद्रुमः ८ ।
अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । मङ्ग-
ल्यत्वम् । पित्तवातनानात्वग्दोषनाशित्वम् ।
अङ्गकान्तिकरत्वम् । बल्यत्वञ्च । इति राज-
निर्घण्टः ॥

हरिद्वारं, क्ली, (हरेस्तत्प्राप्तेर्द्वारमिव ।) स्वनाम-

ख्यातनगरम् । तत्तु तीर्थविशेषः । यथा, --
“शृणु देवि महामाये पठेच्चण्डीं शृणोत्यपि ।
गयायाञ्चैव यत् पुण्यं काश्यां विश्वेश्वराग्रतः ॥
प्रयागे मुण्डनाच्चैव हरिद्वारे हरेर्गृहे ।
तुल्यं पुण्यं भवेद्देवि सत्यं दुर्गे शिवे रमे ॥”
इति रुद्रयामले हरगौरीसंवादे रुद्रचण्डी ॥ * ॥
तत्र गङ्गावतरणात् गङ्गाद्वारमिति ख्यातम् ।
तत्र स्नानादिफलं यथा, --
“ततो गच्छेत धर्म्मज्ञ नमस्कृत्य महागिरिम् ।
स्वर्गद्वारेण तत्तुल्यं गङ्गाद्वारं न संशयः ॥
तत्राभिषेकं कुर्व्वीत कोटितीर्थे समाहितः ।
लभते पुण्डरीकन्तु कुलञ्चैव समुद्धरेत् ॥
तत्रैकरात्रिवासेन गोसहस्रफलं लभेत् ॥”
इति पाद्मे भूमिखण्डे १२ अध्यायः ॥
अपिच ।
“सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥
सवासवाः सुराः सर्व्वे गङ्गाद्वारं मनोरमम् ।
समागत्य प्रकुर्व्वन्ति स्नानदानादिकं मुने ! ॥
दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरम् ।
मनुष्यपक्षिकीटाद्यास्ते लभन्ते परं पदम् ॥”
इति तत्रैव क्रियायोगसारे ३ अध्यायः । * ॥
पुस्तकान्तरे गङ्गाद्वारस्थाने हरिद्वारमिति
पाठः ॥

हरिनाम, [न्] क्ली, (हरेर्नाम ।) श्रीहरे-

राख्यानम् । तन्माहात्म्यं यथा, --
“न कालनियमस्तत्र न देशनियमस्तथा ।
पृष्ठ ५/५१७
नोच्छिष्टादी निषेधोऽस्ति हरेर्नामनि लुब्धक ॥
ज्ञानं देवार्च्चनं ध्यानं धारणा नियमो यमः ।
प्रत्याहारः समाधिश्च हरिनामसमं न च ॥”
इति पाद्मोत्तरखण्डे ९८ अध्यायः ॥
अपि च ।
“हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥”
इति श्रीहरिभक्तिविलासस्य ११ विलासे बृह-
न्नारदीयपुराणवचनम् ॥ * ॥ वैष्णवानां जप्य-
हरिनामानि यथा, --
“हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे ॥”
अस्य प्रमाणादि यथा, --
त्रिपुरोवाच ।
“वासुदेव महाबाहो ! शृणुष्व परमं वचः ।
त्वं हि देव सुरश्रेष्ठः किमर्थं तप्यते तपः ॥
कुलाचारं विना पुत्त्र ! नहि सिद्धिः प्रजायते ।
शक्तिहीनस्य ते सिद्धिः कथं भवति रे सुत ! ॥
ममांशसम्भवां लक्ष्मीं त्यक्त्वा किं तप्यते तपः ।
वृथा श्रमं वृथा पूजां जपञ्च विफलं सुत ! ॥
संयोगं कुरु यत्नेन शक्त्या सह तपोधन ! ।
सुखं विना सुतश्रेष्ठ ! विद्यासिद्धिर्न्न जायते ॥
साधके क्षोभमापन्ने देवता क्षोभमाप्नुयात् ।
तस्माद्भोगयुतो भूत्वा जपकर्म्म समारभेत् ॥
भोगं विना सुतश्रेष्ठ ! नहि भोक्षः प्रजायते ।
शृणु पुत्त्र सुतश्रेष्ठ दीक्षाया आनुपूर्ब्बिकीम् ॥
दशवर्षे तु संप्राप्ते द्वादशाभ्यन्तरे सुत ! ।
शृणुयाद्धरिनामानि षोडशानि पृथक् पृथक् ।
हरिनाम विना पुत्त्र ! कर्णशुद्धिर्न्न जायते ॥
श्रीवासुदेव उवाच ।
शृणु मातर्म्महामाये विश्वबीजस्वरूपिणि ! ।
हरिनाम महामाये क्रमात्तव मतं वद ॥ * ॥
त्रिपुरोवाच ।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे ॥
द्वात्रिंशदक्षराण्येवं कलानाममृतं सदा ।
शृणु च्छन्दः सुतश्रेष्ठ ! हरिनाम्नस्तु चैव हि ॥
छन्दो हि परमं गुह्यं महत् पदमनव्ययम् ।
सर्व्वशक्तिमयं तन्त्रं हरिनाम तपोधन ! ॥” * ॥
अस्य श्रीहरिनाममन्त्रस्य वासुदेव ऋषिर्गायत्त्री
च्छन्दः श्रीत्रिपुरा देवता मम महाविद्या-
सिद्ध्यर्थे विनियोगः ॥ * ॥
“एतन्मन्त्रं सुतश्रेष्ठ ! प्रथमं शृणुयान्नरः ।
श्रुत्वा द्विजमुखात् पुत्त्र दक्षकर्णे तपोधन ! ॥
आदौ छन्दस्ततो मन्त्रं श्रुत्वा शुद्धो भवेन्नरः ।
द्वादशाभ्यन्तरे श्रुत्वा कर्णशुद्धिमवाप्नुयात् ॥
कर्णशुद्धिं विना पुत्त्र महाविद्यामुपालभेत् ।
नारी वा पुरुषो वापि तत्क्षणान्नारकी भवेत् ॥
ततस्तु षोडशे वर्षे संप्राप्ते सुरवन्दित ! ।
महाविद्यां ततः शुद्धां नित्यां ब्रह्मस्वरूपिणीम् ।
श्रुत्वा कुलमुखाद्विप्रात् साक्षात् ब्रह्ममयो भवेत् ।
कुर्य्यादेतद्रहस्यं यः शिवोक्तञ्च तपोधन ! ।
तस्य सिद्धिर्भवेद्विद्या अष्टैश्वर्य्यमवाप्नुयात् ॥
रहस्यं हि विना पुत्त्र ! श्रम एव हि केवलम् ।
अतएव सुतश्रेष्ठ ! रहस्यरहितस्तव ।
रहस्यरहितां विद्यां न जपेत्तु कदाचन ॥ * ॥
हकारस्तु सुतश्रेष्ठ ! शिवः साक्षान्न संशयः ।
रेफस्तु चिपुरादेवी मम मूर्त्तिमयी सदा ॥
एकारञ्च भगं विद्यात् साक्षाद्योनिं तपो-
धन ! ।
एकारः शून्यरूपी च रेफो विग्रहधारिणः ।
हरे तु त्रिपुरा साक्षान्मम मूर्त्तिर्न्न संशयः ॥
ककारः कामदा कामरूपिणी स्फुरदव्ययम् ।
ऋकारश्च सुतश्रेष्ठ ! ज्येष्ठा शक्तिरितोरिता ॥
ककारश्च ऋकारश्च कामिनी वैष्णवी कला ॥
षकारश्चन्द्रमा देवः कलाषोडशसंयुतः ॥
णकारश्च सुतवर ! साक्षान्निर्वृत्तिरूपिणी ।
द्वयोरैक्यं तपःश्रेष्ठ ! महामाया जगन्मयी ॥
कृष्ण कृष्ण सुतश्रेष्ठ ! महामाया जगन्मयी ।
हरे हरे ततो देवि ! शिवशक्तिस्वरूपिणी ॥
हरे रामेति च पदं शिवशक्तिमयं सुत ! ।
हरे हरे इति पदं शक्तिद्वयसमन्वितम् ॥
आद्यन्ते प्रणवं दत्त्वा यो जपेद्दशधा द्विजः ।
स भवेत् सुतवर ! श्रेष्ठो महाविद्यासु सुन्दरः ॥
हरिनाम सुतश्रेष्ठ ! ज्येष्ठं तु वैष्णवं मतम् ॥
एवं षोडश नामानि द्वात्रिंशदक्षराणि च ।
आद्यन्ते प्रणवं दत्त्वा चतुस्त्रिं शदनुत्तम ! ॥
हरिनाम विना पुत्त्र ! दीक्षा च विफला सदा ।
कुलदेवमुखाच्छ्रुत्वा हरिनाम पराक्षरम् ॥
ब्राह्मणक्षत्त्रवैश्याश्च शूद्रः श्रुत्वा पराक्षरम् ।
दीक्षां कुर्य्यात् सुतश्रेष्ठ ! महाविद्यासु सुन्दर ! ॥
दीक्षां वापि हरेर्न्नाम यदि शूद्रमुखात् प्रिये ! ।
अज्ञानाद्यदि गृह्णीयात् तस्य पापफलं शृणु ॥
शूद्रः शूद्रमुखात् श्रुत्वा विद्यां वा मन्त्रमुत्तमम् ।
कोटिवंशान् समादाय रौरवं प्रति गच्छति ।
अपि दातृगृहीत्रोर्वा द्वयोरपि समं फलम् ॥
ब्रह्महत्यामवाप्नोति अक्षरं अक्षरं प्रति ।
शृणु पुत्त्र ! वासुदेवप्रसङ्गाद्वचनं मम ॥”
इति श्रीवासुदेवमाहात्म्ये राधातन्त्रे त्रिपुरा-
वासुदेवसंवादे द्वितीयपटलः ॥

हरिनामा, [न्] पुं, (हरेर्नाम नाम यस्य ।)

मुद्गः । इति त्रिकाण्डशेषः ॥

हरिनेत्रं, क्ली, (हरेर्नेत्रमिव ।) श्वेतपद्मम् ।

इति राजनिर्घण्टः ॥ श्रीहरेर्लोचनम् । यथा, --
“विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।
विंश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
हरिद्वर्णचक्षुश्च ॥

हरिनेत्रः, पुं, (हरेर्मर्कटस्येव नेत्रमस्य) पेचकः ।

इति त्रिकाण्डशेषः ॥

हरिन्मणिः, पुं, (हरिद्वर्णो मणिः ।) मरकतमणिः ।

इत्यमरः । २ । ९ । ९२ ॥ (यथा, माघे । ३ । ४९ ।
“हरिन्मणिश्यामतृणाभिरामै-
र्गृहाणि नीध्रैरिव यत्र रेजुः ॥”)

हरिन्मुद्गः, पुं, (हरिद्वर्णो मुद्गः ।) शारदमुद्गः ।

इति राजनिर्घण्टः ॥

हरिपर्णं, क्ली, (हरि हरिद्वर्णं पर्णं यस्य ।) मूल-

कम् । इति हेमचन्द्रः ॥

हरिप्रियं, क्ली, (हरेः प्रियम् ।) कृष्णचन्दनम् ।

इति शब्दचन्द्रिका ॥ तत्तु कालीयकम् कालिया-
काष्ठमिति ख्यातम् । इति रत्नमाला ॥ (यथा,
“कालोयकन्तु कालीयं पीताभं हरिचन्दनम् ।
हरिप्रियं कालसारं तथाकालानुसार्य्यकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
उशीरम् । इति राजनिर्घण्टः ॥

हरिप्रियः, पुं, (हरेः प्रियः ।) कदम्बवृक्षः । इति

शब्दचन्द्रिकामरौ । २ । ४ । ४२ ॥ पीतभृङ्ग-
राजः । विष्णुकन्दः । करवोरः । शङ्खः ।
बन्धूकः । इति राजनिर्घण्टः ॥ शिवः । वातुलः ।
कञ्चुकः । इति केचित् ॥

हरिप्रिया, स्त्री, (हरेः प्रिया ।) लक्ष्मीः । इत्य-

मरः । १ । १ । २८ ॥ तुलसी । द्वादशीतिथिः ।
पृथिवी । इति केचित् ॥

हरिबालुकं, क्ली, (हरिप्रिया बालुका यत्र)

एलवालुकम् । इत्यमरः । २ । ४ । १२१ ॥

हरिभक्तः, पुं, (हरेर्भक्तः ।) हरिसेवकः । तस्य

लक्षणं यथा, --
“सर्व्वजीवेषु यो विष्णुं भावयेत् समताधिया ।
हरौ करोति भक्तिश्च हरिभक्तः स च स्मृतः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥

हरिभद्रं, क्ली, (हरेर्भद्रं तृप्तिर्यस्मात् ।) हरि-

बालुकम् । इति शब्दचन्द्रिका ॥

हरिभाविणी, स्त्री, हरिं भावयितुं शीलं यस्याः

सा । (हरि + भू + णिनि । ङीप् ।) हरि-
भावनाशीला । इति मुग्धबोधव्याकरणम् ॥

हरिभुक्, [ज्] पुं, (हरिं भेकं भुङ्क्ते इति । भुज् +

क्विप् ।) सर्पः । इति शब्दरत्नावली ॥

हरिमन्थः, पुं, गणिकारिका । इति शब्दरत्ना-

वली ॥ चणकः । इति राजनिर्घण्टः ॥ (अस्य
पर्य्यायो यथा, --
“चणको हरिमन्थः स्यात् सकलप्रिय इत्यपि ॥”
इति भावप्रकाशश्य पूर्ब्बखण्डे प्रथमे भागे ॥)
देशविशेषः । इति हरिमन्थजशब्दटीकायां भरतः ॥

हरिमन्थकः, पुं, (हरिमन्थ एव । स्वार्थे कन् ।)

चणकः । इत्यमरः । २ । ९ । १८ ॥

हरिमन्थजः, पुं, चणकः । इत्यमरः । २ । ९ । १८ ॥

हरिमन्थे देशे प्राचुर्य्येण जातवान् हरिमन्थजः ।
हनजनादिति डः । इति भरतः ॥ (क्लीवेऽपि
दृश्यते । यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“स्वादुपाकरसं शाकं दुर्ज्जरं हरिमन्थजम् ॥”)
कृष्णमुद्गः । इति हेमचन्द्रः ॥

हरियः, पुं, (हरिं पीतवर्णं याति प्राप्नोतीति ।

या + कः ।) पीतवर्णघोटकः । इति हेमचन्द्रः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ह&oldid=44116" इत्यस्माद् प्रतिप्राप्तम्