शब्दकल्पद्रुमः/स्वर्गलोकेशः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/४८६

स्वर्गलोकेशः, पुं, (स्वर्गलोकाय ईशः ।

शरीरजन्यकर्म्मणऋते स्वर्गप्राप्त्यभावात्तथात्वमस्य ।)
शरीरम् । इति जटाधरः ॥
(स्वर्गलोकस्य ईशः ।) इन्द्रश्च ॥

स्वर्गसरिद्वरा, स्त्री, (स्वर्गस्य सरिद्वरा ।)

गङ्गा । इति राजनिर्घण्टः ॥

स्वर्गापगा, स्त्री, (स्वर्गस्य आपगा ।) गङ्गा ।

इति हेमचन्द्रः ॥

स्वर्गिगिरिः, पुं, (स्वर्गस्य पक्षे स्वः गिरिः

पर्व्वतः ।) सुमेरुः । इति हेम-
चन्द्रः ॥

स्वर्गरिः, पुं, (स्वर्गस्य पक्षे स्वः गिरिः

पर्व्वतः ।) सुमेरुः । इति हेम-
चन्द्रः ॥

स्वर्गिबधूः, स्त्री, (स्वर्गिणां देवानां बधूः ।) अप्स-

रसः । इति हेमचन्द्रः ॥

स्वर्गो, [न्] पुं, (स्वर्गोऽस्त्यस्य भोग्यत्वेनेति । स्वर्ग +

इनिः ।) देवता । इति त्रिकाण्डशेषः ॥ (यथा,
कुमारे । २ । ४५ ।
“भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
खिलीभूते विमानानां तदापातभयात् पथि ॥”)
स्वर्गगामिनि, त्रि । तल्लक्षणं यथा, --
“दया भूतेषु संवादो परलोकं प्रतिक्रिया ।
सत्यं परहिता चोक्तिर्व्वेदप्रामाण्यदर्शनम् ॥
गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः ।
सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः ॥”
इति गारुडे २२९ अध्यायः ॥

स्वर्गौकाः, [स्] पुं, (स्वर्ग ओको वासस्थानं येषाम्

देवता । इति हलायुधः ॥ (यथा, कुमारे ।
१ + ५८ ।
“अनर्घ्यमर्घ्येण तमद्रिनाथः
स्वर्गौकसामर्च्चितमर्च्चयित्वा ।
आराधनायास्य सन्निसमेतां
समादिदेश प्रयतां तनूजाम् ॥”)

स्वर्ग्यः, त्रि, (स्वर्गस्य निमित्तं संयोग उत्पातो

वा । स्वर्ग + “गोद्व्यचोसंख्यापरिमाणाश्वादेर्यत् ।”
५ । १ । ३९ । इति यत् । यद्वा स्वर्गः प्रयोजन-
मस्य । “स्वर्गादिभ्यो यद्वक्तव्यः ।” ५ । १ । १११ ।
इत्यस्य वार्त्तिकोक्त्या यत् ।) स्यर्मीयः । स्यर्ग-
शब्दात् ष्ण्यप्रत्ययेन निष्पन्नः ॥ (यथा, भाग-
वते । ४ । १२ । ४४ ।
“धन्यं यशस्यमायुष्य पुण्यं स्यस्त्ययनं महत् ।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥*)

स्वर्ज्जिकः, पुं, सर्ज्जिकाक्षारः । इति राजनिर्घण्टः ॥

यवक्षारः । यथा, --
“पाक्यः क्षारो यजक्षारो यावशूको यवाग्रजः ।
स्वर्जिकोऽपि स्मृतः क्षारः कापोतः सुखवर्च्चकः ॥
कथितः स्वर्जिकाभेदो विशेषज्ञैः सुवर्चिका ।
यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः ।
निहन्ति शूलं वातामश्लेष्मश्वासगलामयान् ॥
स्वर्जिकाल्पगुणा तस्मात् विशेषात्गुल्मशूलहृत् ।
सुवर्च्चिका स्यर्जिकावत् बोद्धव्या गुणतो जनैः ॥”
इति भावप्रकाशः ॥

स्वर्ज्जिकाक्षारः, पुं, स्वर्ज्जिक्षारः । साचिक्षार इति

भाषा । अस्य गुणाः ।
“यवक्षारः जयेदर्शः श्वासान् वातकफामयान् ।
गुरुमहृद्ग्रहणीपाण्डुप्लीहानाहगलामयान् ।
तस्मादल्पान्तरगुणः स्वज्जिकाक्षार उच्यते ॥ *
इति राजवल्लभः ॥

स्वर्ज्जिक्षारः, पुं, (स्वर्जी एव क्षारः ।) सर्ज्जिका-

क्षारः । तत्पर्य्यायः । स्वर्ज्जिकः २ क्षारः ३
स्वर्जी ४ सुखोर्ज्जिकः ५ सुवर्च्चिकः ६ सुवर्चिः ७
सुखवर्च्चाः ८ । अस्य गुणाः । पटुत्वम् । कटु-
ष्णत्वम् । तोक्ष्णत्वम् । वातकफार्त्तिनाशित्वम् ।
गुल्माध्मानक्रमिव्रणजठरदोषनाशित्वञ्च । इति
राजनिर्घण्टः ॥

स्वर्ज्जी, [न्] पुं, (सुखेन अर्ज्जयतीति । सु +

अर्ज्ज + णिनिः । स्वर्ज्जिक्षारः । इति राज-
निर्घण्टः ॥

स्वर्णं, क्ली, (सुष्ठु अर्णो वर्णो य स्य ।) सुवर्णम् ।

धुस्तूरः । इत्यमरः । २ । ९ । ९४ ॥ गौरसुवर्ण-
शाकम् । नागकेशरम् । इति राजनिर्घण्टः ॥ * ॥
स्वर्णस्योत्पत्तिर्यथा, --
“एकदा सर्व्वदेवाश्च समूबुः स्वर्गसंसदि ।
तत्र कृत्वा च नृत्यञ्च गायन्त्यप्सरसां गणाः ॥
विसोक्य रम्भां सुश्रोणीं सकामो वह्निरेव च ।
पपात वीर्य्यं चच्छाद लज्जया वाससा तथा ॥
उत्तलौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः ।
क्षणेन वर्द्धयामास स सुमेरुर्बभूव ह ॥
हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः ॥”
इति ब्रह्मवैवंर्त्ते श्रीकृष्णजन्मखण्डे १३१ । ३३-३७ ॥
तस्य गुणाः ।
“सुवर्णं तिक्तमधुरं कषायं गुरु लेखनम् ।
हृद्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ॥
आयुर्मेधावयःस्थैर्य्यवाग् विशुद्धिद्यतिप्रदम् ।
क्षयोन्मादगदार्त्तानां शमनं परमुच्यते ॥”
इति राजवल्लभः ॥ * ॥
सुवर्णस्य शोधनमारणविधिर्यथा । मारणाय
योग्यं सुवर्णमाह ।
“दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ।
तारशुक्लाग्निभं स्निन्धं कोमलं गुरु हेम सत् ॥”
सत् उत्तमम् ।
“तच्छेतं कठिनं रूक्षं विवर्णं समलं दलम् ।
दाहे च्छेदेऽसितं श्वेतं कषे स्फुटलघु त्यजेत् ॥”
अथ शोधनविधिः ।
“पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत् ।
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥
गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा ।
एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥” * ॥
अथाशुद्धस्य सुवर्णस्य दोषमाह ।
“बलं सवीर्य्यं हरते नराणां
रोगतजं पोषयतीह काये ।
असौख्यकार्य्ये च सदा सुवर्ण-
मशुद्धमेतन्मरणञ्च कुर्य्यात् ॥”
अथ स्वर्णमारणविः ।
“स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् ।
तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥”
स्वर्णस्य अतितनूकृतपत्रस्य । गन्धं गन्धकचूर्णम् ।
“गोलकञ्च ततो रुद्ध्वा सरावदृढसंपुटे ॥
त्रिंशद्वनोपलैर्दद्यात् पुटान्येवं चतुर्द्दश ।
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥”
रुद्ध्वा सवस्त्रकुष्टितचिक्वणमृत्तिकया । वनो-
पलः गोइटा इति लोके । निरुत्थं यत् पुनर्न
जीवति ॥ * ॥ अथान्यप्रकारः ।
“काञ्चने गलिते नागं षोडशांशेन निःक्षिपेत् ।
चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम् ॥
गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ।
सरावसंपुटे धृत्वा पुटे त्रिशद्धनोपलैः ॥
एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते ।
अत्रापि पूर्ब्बवद्गन्धः प्रदातव्यः पुनः पुनः ॥
काञ्चनारिरसैर्घृष्ट्वा समसूतकगन्धयोः ।
कज्जलीहेमपत्राणि लेपयेत् समया तथा ॥
काञ्चनारित्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत् ।
धृत्वा तत् संपुटे गोलं मृन्मूषासंपुटे च तत् ॥
निधाय सन्धिरोधञ्च कृत्वा संशोष्य गोलकम् ।
वह्निं खरतरं कुर्य्यादेवं दद्यात् पुटत्रयम् ॥
निरुत्थं जायते भस्म सर्व्वकर्म्मसु योजयेत् ।
काञ्चनारिप्रकारेण लाङ्गलीं हन्ति काञ्चनम् ॥
णाङ्गली करिहारी ।
ज्वालामुखी तथा हन्यात्तथा हन्ति मनःशिला ।
शिलासिन्दूरयोश्चूर्णसमयोरर्कदुग्धकैः ॥
सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः ।
ततस्तु गलिते हेम्नि कल्कोऽयं दीयते समः ॥
पुनर्धमेदतितरां यथा कल्को विलीयते ।
एवं बेलात्रयं दद्यात् कल्कं हेममृतिर्भवेत् ॥
एवं मारितस्य सुवर्णस्य गुणाः ।
सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् ।
स्वादु तिक्तञ्च तुवरं पाके च स्वादु पिच्छिलम् ।
पवित्रं वृंहणं नेत्र्यं मेघास्मृतिमतिप्रदम् ॥
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् ।
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् ॥”
वृष्यं वृषाय कामुकाय हितम् ॥ * ॥
असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत् ।
करोति रोमान्पृत्युञ्च तद्धन्याद् यत्नतस्ततः ॥”
इति भावप्रकाशः ॥
अन्यत् सुवर्णशब्दे द्रष्टव्यम् ॥

स्वर्णकणः, पुं, (स्वर्श्चवत् पीतः कणो यस्य ।)

कणगुग्गुलुः । इति राजनिर्घण्टः ॥ (स्वर्णस्य
कणः ।) सुवर्णकणा च ॥

स्वर्णकणिका, स्त्री, (कर्णस्य कणिका ।) कनक-

कणा यथा, --
“कुर्व्वत्याः सरसि स्नानं पार्व्वत्यास्तु शरीरजाः ।
निःसृताः स्वर्णकणिकास्ता वहन्ति जलैरिमाः ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

स्वर्णकायः, पुं, (स्वर्ण इव पीतः कायो यस्य ।)

गरुडः । इति हेमचन्द्रः ॥ सुवर्णमयशरीरे,
त्रि ॥

स्वर्णकारः, पुं, (स्वर्णं स्वर्णालङ्कारं करोतीति ।

कृ + अण् ।) जातिविशेषः । सेकरा इति
भाषा । तत्पर्य्यायः । नाडीन्धमः २ कलादः ३
रुक्मकारः ४ । इत्यमरः । २ । १० । ८ ॥ कणादः
५ । इति तट्टीकासारसुन्दरी ॥ हेमलः ६ ।
इति जटाधरः ॥ तस्योत्पत्तिर्यथा, --
पृष्ठ ५/४८७
“विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः ।
ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥
मालाकारः कर्म्मकारः शङ्खकारः कुबिन्दकः ।
कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥
सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च ।
पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः ॥
स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्विजोत्तम ।
बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे । १० । १९ -- २२ ॥ * ॥
तस्य कर्म्मविपाको यथा, --
“तैलचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् ।
ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८५ । १२८ ॥

स्वर्णकृत्, पुं, (स्वर्णं सुवर्णालङ्कारं करोतीति ।

कृ + क्विप् । तुक् च ।) स्वर्णकारः । इति शब्द-
माला ॥

स्वर्णकेतकी, स्त्री, (स्वर्णवर्णा केतकी ।) हरिद्रा-

वर्णकेतकीपुष्पम् । तत्पर्यायः । हेमकेतकी २
कनकप्रसवा ३ हैमी ४ छिन्नरुहा ५ विष्ठा-
रुहा ६ स्वर्णपुष्पी ७ कामखङ्गदला ८ । अस्या
गुणाः ।
“केतकीकुसुमं वर्ण्यं केशदौर्गन्ध्यनाशनम् ।
हेमाभं मदनोन्मादबाहुल्यं सौख्यकारि च ॥
तस्यास्तनोति शिशिरः कटुः पित्तकफापहः ।
रसायनकरो वर्ण्यो देहदार्धकरः परः ॥”
इति राजनिर्घण्टः ॥

स्वर्णक्षीरी, स्त्री, (स्वर्चवर्णा क्षीरी ।) ओषधि-

विशेषः । तत्पर्य्यायः पटुपर्णी २ हैमवती ३
हिमावती ४ । इत्यमरः । २ । ४ । १३८ ॥
चत्वारि स्वर्णक्षीर्य्याम् । इयं पीतक्षीरा नाग-
जिह्विकाकारा ।
“हेमवर्णं पयस्तस्या हिमवद्भूमिसम्भवा ।
सा नागजिह्विकाकारा तद्मूलं बाणिजौषध-
मिति ॥”
पटूनि निश्छिद्राणि पर्णानि अस्याः पटुपर्णी
जातेरत इति ईप् । हिमवति जाता हैमवती
ष्णः । स्वर्णमिव पीतत्वात् क्षीरमस्याः स्वर्ण-
क्षीरी नदादिः । हिमयुक्तोत्पत्तिस्थानयोगात्
हिमावती मोङ्मझपाद्वतुरिति वतुः नाम्न्यस्त्यर्थे
इति दीर्घः । इति भरतः ॥ * ॥ अपि च ।
“स्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाह्वारुक्मिणी तथा ।
सुवर्णा हेमदुग्धी च हेमक्षीरी च काञ्चनी ॥
स्वर्णक्षीरी हिमा तिक्ता कृमिपित्तकफापहा ।
मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥”
इति राजनिर्घण्टः ॥

स्वर्णगैरिकं, क्ली, (स्वर्णवत् पीतं गैरिकम् ।)

सुवर्णगैरिकम् । वर्णक् माटी इति भाषा ।
इति राजनिर्घण्टः ॥ अस्य विवरणं गैरिक-
भेदशब्दे द्रष्टव्यम् ॥

स्वर्णग्रीवा, स्त्री, (स्वर्णवर्णा ग्रीवा यस्याः ।)

नाटकशैलपूर्ब्बभागान्निःसृतनदीविशेषः । यथा,
“या निःसृणापूर्ब्बभागात् तस्माद्गिरिवरान्नदी ।
स्वर्णग्रीवेति विख्याता सा गङ्गासदृशी फले ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

स्वर्णचूडः, पुं, (स्वर्णवर्णा चूडा यस्य ।) पक्षि-

विशेषः । यथा, --
“चाषः कीकीदिविः स्वर्णचूडोऽथ पीतमुण्डकः ॥ *
इति जटाधरः ॥

स्वर्णजं, क्ली, (स्वर्णात् जायते इति । जन + डः)

रङ्गम् । यथा, --
“वङ्गं त्रपुः स्वर्णजनागजीवने
मृदङ्गरङ्गे गुरुपत्रपिच्चटे ।
स्याच्चक्रसंज्ञं तमरञ्च नागजं
कस्तीरमालीनकसिंहले अपि ॥”
इति हेमचन्द्रः ॥

स्वर्णजीवन्ती, स्त्री, (स्वर्णवर्णा जीवन्ती ।) वृक्ष-

विशेषः । तोनाजीवै इति हिन्दी भाषा ।
तत्पर्य्यायः । हेमाहा २ हेमजीवन्ती ३ तृण-
ग्रन्थिः ४ हिमाश्रया ५ स्वर्णपर्णी ६ सुजी-
वन्ती ७ स्वर्णजीवा ८ सुपर्णिका ९ हेमपुष्पा
१० स्वर्णलता ११ हेमवल्ली १२ हेमसता १३ ।
अस्या गुणाः । वृष्पत्वम् मधुरत्वम् । चक्षुष-
त्वम् । शिशिरत्त्वम् । वातपित्तास्रदाहनाशि-
त्वम् । वलवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥

स्वर्णदी, स्त्री, (स्वः स्वर्मस्य नदी ।) मन्दाकिनी ।

इत्यमरः । १ । १ । ५२ ॥ बृणिकाली । इति
राजनिर्घण्टः ॥ सितगङ्गा । सा तु कामा-
ख्यायाः पूर्व्वभागे दिक्करवासिन्याः प्रान्ते
खिता । यथा, --
“नद्याः स्वर्णश्रिया पूर्व्वं नदी कामाह्वया तथा ।
कामाख्यायाः पूर्ब्बभागे नदी सोमासनाह्वया ।
सोमासनायाः पूर्व्वस्यां नदी नाम्ना वृषोदका ॥
ततः पूर्व्वे कामरूपपीठान्ते जगतां प्रसूः ।
जगन्माया महामाया देवी दिक्करवासिनी ॥
एता या कथिता नद्यः सकला दक्षिणस्रवाः ।
तासु स्नात्वा च पीत्वा च स्वर्गलोकमवाप्नुयात् ॥
प्रान्ते दिक्करवासिन्याः सदा वहति स्वर्णदी ।
सितगङ्गाह्वया लोके साक्षात् गङ्गाफलप्रदा ॥
सा भूमिपीठसंस्था तु देवी दिक्करवासिनी ।
अन्तर्ज्जलैः प्लावयन्ती याति प्रत्यक्षतां सुरैः ॥
सितगङ्गाजले स्नात्वा पृष्ट्वा शम्मुं हरिं
विधिम् ।
इष्ट्वा ललितकान्ताख्यां पुनर्योनौ न जायते ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

स्वर्णदीधितिः, पुं, (स्वर्णवत् दीधितिः किरणं

यस्य ।) अग्निः इति त्रिकाण्डशेषः ॥

स्वर्णद्रुः पुं, स्वर्णवर्णो द्रुः ।) आरग्वधः । इति

राजनिर्घण्टः ॥

स्वर्णपक्षः, पुं, (स्वर्णवत् पीतौ पक्षौ यस्य ।)

गरुडः । इति त्रिकाण्डशेषः ॥

स्वर्णपद्मा, स्त्री, (स्वर्णस्य पद्मंयस्यामिति ।)

स्वर्गङ्गा । इति शब्दरत्नावली ॥

स्वर्णपाटकः, पुं (स्वर्णं पाटयतीति । पट + णिच्

ण्वुल ।) टङ्कणः । इति शब्दमाला ॥ (क्वचित्
स्वर्णपाचकः पठ्यते ॥ तत्पर्य्याया यथा । टङ्कणः
स्वर्णपाचकः । इति वैद्यकरत्नमालायाम् ॥)

स्वर्णपारेवतं, क्ली, (स्वर्णवर्णं पारेवतम् ।) महा-

पारेवतम् । इति राजनिर्घण्टः ॥

स्वर्णपुष्पः, पुं, (स्वर्णवर्णं पुष्पमस्य ।) आरग्वधः ।

चम्पकः । इति राजनिर्घण्टः । चम्पकपुष्पै-
र्व्विष्णुपूजाफलं यथा, --
“माघे चम्पकपुष्पेण योऽर्च्चयेत् कमलापतिम् ।
स गच्छेत् परमं धाम विमुक्तः सर्व्वपातकैः ॥
यावन्ति स्वर्णपुष्पाणि दीयन्ते चक्रपाणये ।
तावद्युगसहस्राणि स्थीयते विष्णुमन्दिरे ॥
मेरुतुल्यसुवर्णानि दत्त्वा भवति यत् फलम् ।
एकेन स्वर्णपुष्पेण दत्त्वा भवति तत् फलम् ॥
सुवर्णपुष्पं विप्रेन्द्र सर्व्वदा केशवप्रियम् ।
माघे मासि विशेषेण पवित्रं केशवार्च्चने ॥
सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः ।
रत्रैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ॥”
इति पाद्मे क्रियायोगसारे ९ अध्यायः ॥
वावस्रवृक्षः । इति शब्दचन्द्रिका ॥

स्वर्णपुष्पा, स्त्री, (स्वर्णवत् पुष्पं यस्याः) कलि-

कारिः । स्वर्णुली । सातला । इति राज-
निर्घण्टः ॥ (स्वर्णुलोशब्देऽस्यागुणाः ज्ञातव्याः ॥)

स्वर्णपुष्पी, स्त्री, (स्वर्णवत् पीतं पुष्पं यस्याः ।

ङीष् ।) आरग्वधः । इति शब्दचन्द्रिका ॥
स्वर्णकेतकी । इति राजनिर्घण्टः ॥

स्वर्णफला, स्त्री, (स्वण्वत् पीतं फलं यस्याः ।)

पीतरम्भा । इति राजनिर्घण्टः ॥

स्वर्णबणिक्, [ज] पुं, (स्वर्णस्य बणिक्) वर्ण-

सङ्करजातिविशेषः । सोनार बेणे इति भाषा ।
तस्य कर्म्मविपाको यथा, --
“तैसचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् ।
ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः ॥
तमःकुण्डे वर्षशतं स्थित्वा स्वर्णबणिग् भवेत् ।
जन्मैकञ्च दुराचारो जन्मैकं करणो भवेत् ।
विश्वैकलिपिकर्त्ता च भक्षदातुर्द्धनं हरेत् ।
कायस्थेनोदरस्थेन मातुर्म्मांसं न खादितम् ।
तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम् ॥
स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर ।
नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले ॥
हृदयं क्षुरधाराभं तेषाञ्च नास्ति सादरम् ।
शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ ॥”
इति ब्रह्मवैवर्त्तेश्रीकृष्णजन्मखण्डे ८५ । १२८-१३२ ॥

स्वर्णबिन्दुः, पुं, (स्वर्णस्य बिन्दुर्यत्र ।) विष्णुः ।

इति त्रिकाण्डशेषः ॥ सुवर्णकणिका च ॥

स्वर्णभृङ्गारः, पुं, (स्वर्णवर्णो भृङ्गारः ।) स्वर्ण-

भृङ्गराजः । इति राजनिर्घण्टः ॥ सुवर्णकल-
सश्च ॥

स्वर्णमहा, स्त्री, नदीविशेषः । यथा, --

“तत्रोमायाः शरीरात्तु संस्रवन्ति जलैः सह ।
ततः स्वर्णमहा नाम स्वण श्रीः सर्व्वतोऽधिका ॥
एतासु चैत्रमासे तु स्नात्वा मर्त्यो नरर्षभ ।
कृष्णपक्षे चतुर्द्दश्यां त्रिकालं यश्च मानवः ॥
पृष्ठ ५/४८८
चिरं शिवगृहे स्थित्वा शेषे ब्रह्मगृहं ब्रजेत् ।
भूमाववभृतः पश्चात् सार्व्वभौमनृपो भवेत् ॥”
इति कालिकापुराणे ८२ अध्यायः ॥

स्वर्णमाक्षिकं, क्ली, (स्वर्णवत् पीतं माक्षिकम् ।)

स्वनामख्यात उपधातुः । तस्य नामानि गुणाश्च ।
“स्वर्णमाक्षिकमाख्यातं तापिञ्जं मधुमाक्षिकम् ।
तीक्ष्णं माक्षिकधातुश्च मधुधातुश्च स स्मृतः ॥
किञ्चित्सुवर्णसाहित्यात् स्वर्णमाक्षिकमीरि-
तम् ।
उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम् ॥
तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम् ।
किन्तु तस्यानुकल्पत्वात् किञ्चिद्धीनगुणास्ततः ॥
न केवलं स्वर्णगुणा वर्त्तन्ते स्वर्णमाक्षिके ।
द्रव्यान्तरस्य संसर्गात् सन्त्यन्येऽपि गुणास्ततः ॥ *
सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम् ।
चक्षुष्यं वस्तिरुक्कण्ठपाण्डुमेहविषोदरम् ।
अर्शः शोथं विषं कण्डुं त्रिदोषमपि नाश-
येत् ॥” * ॥
अशुद्धस्वर्णमाक्षिकस्य दोषमाह ।
“मन्दानलत्वं बलहानिमुग्रां
विष्टम्भितां नेत्रगदान् सकुष्ठान् ।
मालां तथैव व्रणपूर्बिकाञ्च
कुर्य्यादशुद्धं खलु माक्षिकञ्च ॥” * ॥
तद्दोषशान्त्यर्थं शोधनमाह ।
“माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ।
मातुलुङ्गद्रवैर्व्वाथ जम्बीरस्य द्रवैः पचेत् ॥
चालयेल्लोहजे पात्रे यावत् पात्रं सुलोहितम् ।
भवेत्ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति ॥” * ॥
तन्मारणं थथा, --
“कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् ।”
तैलेनैवाजमूत्रेण म्रियते स्वर्णमाक्षिकम् ॥
इति भावप्रकाशः ॥
(तथास्य शोधनं यथा, --
“स्वर्णमाक्षिकचूर्णन्तु वस्ते बद्ध्वा विपाचयेत् ।
कालमाविषशालिञ्च क्वाथे दौलाविधानतः ।
तदधः पतितं शस्तमेवं शुध्यति माक्षिकम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

स्वर्णयूथी, स्त्री, (स्वर्णवर्णा यूथी ।) पीतवर्ण-

यूथिका । तत्पर्य्यायः । हरिणी २ पीतिका ३
हेमपुष्पिका ४ । इति जटाधरः ॥ हैमा ५ ।
इति शब्दरत्नावली ॥

स्वर्णन्तता, स्त्री, (स्वर्णवर्णा लता ।) ज्योतिष्मती ।

इति राजनिर्घण्टः ॥ (ज्योतिष्मतीशब्देऽस्या-
विवरणं ज्ञातव्यम् ॥)

स्वर्णवर्णा, स्त्री, (स्वर्णवत् वर्णो यस्याः ।) हरिद्रा ।

इति राजनिर्घण्टः ॥ सुवर्णसदृशबर्णयुक्ते, त्रि ॥
(यथा, भ्रमराष्टके । १ ।
“गन्धाढ्यासौ भुवनयिदिता केतकी स्वर्णवर्णा
पद्मस्नात्या क्षुधितमधुपा पुष्पमध्ये पपात ।
अन्याभूतः कृसुमरजसा कण्टकैश्छिन्नपक्षः
स्पातुं गन्ते द्वयमपिं सखे नैव शक्तो द्विरेफः ॥”)

स्वर्णवल्कलः, पुं, (स्वर्णवत् वल्कणं यस्या)

श्योणाकवृक्षः । इति शब्दचन्द्रिका ॥

स्वर्णवल्ली, स्त्री, (स्वर्णवर्णा वल्ली ।) लताविशेषः ।

तत्पर्य्यायः । रक्तफला २ काकायुः ३ काक-
वल्ली ४ । अस्या गुणाः । शिरःपीडात्रिदोष-
नाशित्वम् । दुग्धदातृत्वञ्च । इति राजनिर्घण्टः ॥
(तथास्याः पर्य्याया गुणाश्च ।
स्वर्णवल्लीरक्तफला काकायुः काकवल्लरी ।
स्वर्णवल्ली शिरःपीडां त्रिदोषान् हन्ति
दुग्धदा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

स्वर्णसेफालिका, स्त्री, स्व र्णवर्णा सेफालिका ।)

आरग्वधः । इति शब्दमाला ॥ पीतसेफालिका
च ॥

स्वर्णाङ्गः, पुं, (स्वर्णवत् पीतमङ्गं यस्य ।) आरग्-

वधः । इति राजनिर्घण्टः ॥ (तथास्य पर्य्यायाः ।
“आरग्वधो राजवृक्षः सम्पाकश्चतुरङ्गुलः ।
आरवेतो व्याधिघातः कृतमालः सुवर्णकः ॥
कर्णिकारो दीर्घफलः स्वर्णाङ्गः स्वर्णभूषणः ।”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

स्वर्णारिः, पुं, (स्वर्णस्य अरिः ।) गन्धकम् । इति

केचित् ॥

स्वर्णुली, स्त्री, क्षुपविशेषः । तत्पर्य्यायः । हेम

पुष्पी २ स्वर्णपुष्पा ३ अध्वजा ४ । अस्या
गुणाः । कटुत्वम् शीतत्वम् । कषायत्वम् ।
व्रणापहत्वञ्च । इति राजनिर्घण्टः ॥

स्वर्त्त, क गत्यातङ्के । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-गतौ सक०-आतङ्के अक०-सेट् ।) तङ्को
दुःखेन जीवनम् । क, स्वर्त्तयति जने गच्छति
दुःखेन जीवति वेत्यर्थः । असिस्वर्त्तत् । इति
दुर्गादासः ॥

स्वर्द, ङ, प्रीतिलिहोः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् । प्रीतिः प्रीति-
करणम् । लिट्रसोपादानम् । ङ, स्वर्दते
विविधास्वादं स्वादते च रसायनमिति हला-
युधः । इति दुर्गादासः ॥

स्वर्नदी, स्त्री, (स्वः स्वर्गस्य नदी ।) स्वर्गङ्गा ।

इत्यमरः ॥ स्वः स्वर्नस्य नदी स्वर्णदीष्रुर्ण इति
योगविभागात् णत्वम् । पूर्व्वपदे संज्ञायां णत्व-
मिति परेषाम् प्रकरणे गिरिनद्यादीनामुप-
संख्यानमिति वा णत्वम् । इति मधुमाधवः ॥
स्वर्णदी दन्त्यनकारवतीत्येके । इति भरतः ॥

स्वर्भानवः, पुं, (स्वर्भानोरयं प्रियत्वात् । स्वर्भानु +

अण् ।) गोमेदकमणिः । इति राजनिर्घण्टः ॥

स्वर्भानुः, पुं, (स्वराकाशेभातीति । स्वर् + भा +

“दाभाभ्यांनुः ।” ऊणा० ३ । ३२ । इति नुः ।)
राहुः । इत्यमरः । १ । ३२६ ॥ (यथा, साघे ।
२ । ४९ ।
“तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥”
सत्यभामागर्भजातः श्रीकृष्णपुत्त्रविशेषः । यथा,
भागवते । १० । ६१ । ११ ।
“भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा
चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः ।
श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ॥”)

स्वर्भानुसूदनः, पुं, (स्वर्भानोः सूदनं यत्र ।)

सूर्य्यः । इति पुराणम् ॥ (यथा, महाभारते ।
३ । ३०१ । १८ ।
“तच्छ्रुत्वा भगवान् देवो भानुः स्वर्भानुसूदनः ।
उवाच तं तथेत्येव कर्णं सूर्य्यः स्मयन्निव ॥”)

स्वर्यातः, त्रि, (स्वः स्वर्गं यातः ।) मृतः । यथा,

याज्ञवल्क्यः ।
“पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥
एषामभावे पूर्व्वस्य धनभागुत्तरोत्तरः ।
स्वर्यातस्य ह्यपुत्तस्य सर्व्ववर्णेष्वयं विधिः ॥”
इति दायभागः ॥

स्वर्लोकः, पुं, (स्वरेव लोकः । स्वर्गः । इति

शब्दरत्नावली ॥ (यथा, भागवते २ । ५ । ४२ ।
“भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकाऽस्य
नाभितः ।
स्वर्लोकः कल्पितो मूर्द्ध्व्ना इति वा लोक-
कल्पना ॥”)

स्वर्व्वधूः, स्त्री, (स्वः स्वर्गस्थ वधूः ।) अप्सरसः ।

इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे ।
१७ । १६ ।
“अथाजगाम भूलोकं तामादादाय पुरूरवाः ।
स्वर्वधूदर्शनाश्चर्य्यमर्पयन् मर्त्त्यचक्षुषाम् ॥”)
स्वर्गीयस्त्रीमात्रञ्च ॥

स्वर्व्वापी, स्त्री, (स्वः स्वगस्य वापी) गङ्गा ।

इति हेमचन्द्रः ॥

स्वर्व्वेश्या, स्त्री, (स्वः स्यर्गस्य वेश्या ।) उर्व्व-

श्याद्यप्सरसः । इत्यमरः । १ । १ । ५५ ॥

स्वर्व्वैद्यौ, पुं, (स्वःस्वर्गस्य वैद्यौ ।) अश्विनी-

कुमारौ । तत्पर्य्यायः । अश्विनीसुतौ २ नासत्यौ
३ अश्विनौ ४ दस्रौ ५ आश्विनेयौ ६ । इत्य-
मरः । १ । १ । ५४ ॥ द्वित्वविशिष्टत्वादेकवचना-
भावः । इति स्वामी । सर्व्व एते नित्यद्विवच-
नान्ता एकत्वविवक्षायां एकवचनान्ता अपि ।
यथा, --
“नासत्यश्चैव दस्रश्च स्मृतौ द्वौ नामतोऽश्विनौ ॥”
इति मार्कण्डेयपुराणम् ॥ इति भरतः ॥

स्वलीनः, पुं, (स्वस्मिन् लीनः ।) दानवविशेषः ।

यथा, --
“तामायान्तीन्तु रोधाय स्वलीनो नाम दानवः ।
पार्व्वतं रूपमास्थाग्र वर्षाणान्तु शतैर्द्विजाः ॥
ततो भगीरथो राजाराधयामास कौशिकम् ॥
स तुष्टः प्रददौ नागं वाहनं तं मगीरथः ।
तमारुह्यागमत्तत्र यत्र रुद्धा भगीरथी ॥
तेन नागेन तं दैत्यं संविदार्य्य न सङ्गतम् ।
शतधा तां समाधाय मूर्द्ध्वन्यैरावणो गजः ॥
महीतलं समापेदे स यावन्नागसाह्वयम् ।
तस्माद्व्याघटनाद्विप्रा अभून्नागपुरं वरम् ॥”
इति वह्निपुराणे गङ्गावतरणनामाध्यायः ॥
पृष्ठ ५/४८९

स्वल्पः, त्रि, (सुष्ठु अल्पः ।) अत्यल्पः । यथा, --

“नेहातिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्म्मस्य त्रायते महतो भयात् ॥”
इति भगवद्गीतायाम् । २ । ४० ॥

स्वल्पकेशरी, [न्] पुं, (स्वल्पः केशरोऽस्यास्तीति ।

इनिः ।) कोविदारः । इति राजनिर्घण्टः ॥
(पर्य्यायोऽस्य यथा, --
“कोविदारश्चमरिकः कुद्दालो युगपत्रकः ।
कुण्डली ताम्रपुष्पश्च अन्तकः स्वल्पकेशरी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

स्वल्पकेशी, [न्] पुं, (स्वल्पः केशोऽस्यास्तीति ।

इनिः ।) भूतकेशः । यथा, --
“गोलोमी स्वल्पकेशी च भूतकेशश्च केशघृक् ॥”
इति शब्दचन्द्रिका ॥
अव्यल्पकेशविशिष्टे, त्रि ॥

स्वल्पपत्रकः, पुं, (स्वल्पानि पत्राणि यस्य । कप् ।)

गौरशाकः । स तु मधूकभेदः । यथा, --
“गौरशाणो मधुरोऽस्त्रो गिरिजः स्वल्पपत्रकः ॥”
इति रत्नमाला ॥

स्वल्पफला, स्त्री, (स्वल्पं फलं यस्याः ।) हपुषा-

भेदः । तत्पर्य्यायः । कच्छूघ्री २ ध्याङ्कनाशिनी ३
प्लीहशत्रः ४ विषघी ५ कफघ्नी ६ अपरा-
जिता ७ । अस्या गुणाः हपुषागुणतुल्याः ।
इति राजनिर्घण्टः ॥

स्ववामिनी, स्त्री, (स्वस्मिन् पित्रालये वमतीति ।

वम + णिनिः । ङीप् ।) ऊढा अनढा वा पितृ-
गृहस्थिता । तत्पर्य्यायः । चिरिण्टो २ । इत्य-
मरः ॥ “द्वेऊढायामनूढायां वा पितृगृहस्थिता-
याम् । पितृकुलस्नेहात् चिरं एटति गच्छति
चिरिण्टी । इट गतौ अन् मनीषादिः ।
‘स्ववासिन्यां चिरिण्टी स्यात् द्वितीयवयसि
स्त्रियाम् ॥’
इति रुद्रः ॥
चिरण्टीत्येके । स्वेषु ज्ञातिषु वसति स्ववासिनी
ग्रहादित्वाण्णिन् । सुखेन वसति सुवासिनीति
द्राविडाः ।” इत्यमरटीकायां भरतः ॥

स्वबीजः, पुं, (स्वं एव वीजं यस्य ।) आत्मा । इति

शब्दरत्नावली ॥ निजकारणे स्वीयवीर्य्ये च क्ली ॥

स्वसा, [ऋ] स्त्री, (सुष्ठु अस्यते क्षिप्यते इति ।

सु + अस् + “सुञ्यसेरृन् ।” उणा० २ । ९७ ।
इति ऋन् यणादेशश्च । भगिनी । इत्यमरः ।
२ । ६ । २९ ॥ (यथा, मनुः । २ । ५० ।
“मातरं वा स्वसारं वा मातुलां भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥”)

स्वस्क, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, स्वस्कते । इति दुर्गा-
दासः ॥

स्वस्ति, व्य, (सु + अस् + “साबसेः ।” उणा ०४ ।

१८० । इति तिः । बहुलवचनात् न भूभावः ।)
आशीः । क्षेमम् । (यथा, महाभारते । ३ ।
१६६ । १३ ।
“स्वस्ति पाप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ॥”
पुण्यादि । इत्यमरः । ३ । ३ । २४० ॥ आशी-
राशीर्व्वादः । क्षेमं निरुपद्रवः । पुण्यं पाप-
प्रक्षालनम् । एषु । आदिना मङ्गलादौ च
स्वस्ति । स्थस्ति मङ्गलाशीर्व्वादपापनिर्णेजनादि-
ष्विति भागुरिः । इति भरतः ॥ दानस्वीकार-
मन्त्रः । यथा, “ओमित्युक्त्वा प्रतिगृह्य स्वस्ती-
त्युक्त्वा सावित्रीं पठित्वा कामस्तुतिं पठेत् ॥”
इति शुद्धितत्त्वम ॥ तद्योगे चतुर्थी स्यात् ।
यथा, --
“स्वाहाग्नये स्वधा पित्रे स्वस्ति धात्रे नमः सते ॥”
इति मुग्धबोधव्याकरणत् ॥
(स्त्रीलिङ्गेऽपि दृश्यते । यथा, भागवते ।
४ । २४ । ३३ ।
“जितं त आत्मविष्ठुर्य्य स्वस्तये स्वस्तिरस्तु मे ।
भवता राधसा राद्धं सर्व्वस्मा आत्मने नमः ॥”
तथा च वाजसनेयसंहितायाम् । १३ । १९ ।
“अम्बिष्ट्वाभिपातु मह्या स्वस्त्था छर्दिषा शन्त-
मेन ॥”)

स्वस्तिकः, पुं, क्ली, (स्वास्त क्षेमं कायति कथय-

तीति । कै + कः ।) आढ्यानां गृहविशेषः ।
इत्यमरः । २ । २ । १० ॥ तस्य लक्षणं यथा, --
“स्वस्तिकं प्राङ्मुखं यत् स्यादविन्द्यानुगतं भवेत् ।
तत्पार्श्वानुमतौ चान्यौ तत्पर्य्यन्तगतोऽपरः ॥”
इति भरतधृतमाञ्झः ॥
अन्यद्वास्तुशब्दे द्रष्टव्यम् ॥ सितावरशाकः । इति
राजनिर्घण्टः ॥
(“शितिवारः शितिवरः स्मस्तिकः जुनिषणक्षः ।
श्रावारकः सूचिपत्रः पर्णकः कुक्कुटः शिखा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
योगाङ्गासनविशेषः । तस्य त्वचणं आमनशब्दे
द्रष्टव्यम् ॥

स्वस्तिकः, पुं, (स्वस्ति क्षेमं खायतीति । कै + कः)

मङ्गलद्रव्यम् । तत्तु तण्डुलचूर्णनिर्म्मितत्रिकोणा-
काराधिवासद्रव्यम् । चतुष्पयः । गृहभेदः ।
इति मेदिनी ॥ पिष्टकविकारः । रततालिकः ।
इति विश्वः ॥ जिनानां चतुर्व्विंशतिचिह्नान्त-
र्गतचिह्नविशेषः । यथा, --
“वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः
शशी ।
मकरः श्रीवत्सः खङ्गी महिषा सूकरस्तथा ॥
श्येनो वज्रं मृगच्छागौ नद्यावर्त्तो घटोऽपि च ।
कूर्म्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां
ध्वजाः ॥”
इति हेमचन्द्रः ॥
रसोनकः । इति त्रिकाण्डशेषः । (सर्पफणा-
स्थितनीलरेखाविशेषः । यथा, रामायणे ।
१ । १९५ ।
“शिरोभिः पृथुभिनीगा व्यक्तस्वस्तिकलक्षणैः ।
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥”)

स्वस्तिमुखः, पुं, (स्वस्ति मुखे प्रथमे वदने वा

यस्य ।) लेखः । ब्राह्मणः । वन्दिनि, त्रि । इति
मेदिनी ॥

स्वस्तिबाचनं, क्ली, (स्वस्ति मङ्गलस्य वाचनम् ।)

माङ्गल्यकर्म्मारम्भकालीनवक्ष्यमाणमन्त्रोच्चारण-
पूर्ब्बकतण्डुलविकिरणम् । तन्मन्त्रो यथा । अमुक
कर्म्मणि पुण्याहं भवन्तो ब्रुबन्तु । इत्युक्ते
पुण्याहमिति ब्राह्मणैस्त्रिरुक्ते अमुककर्म्मणि
ऋद्धिं भवन्तो ब्रुवन्तु । ततः ऋद्ध्यतामिति
ब्राह्मणास्त्रिब्रूयुः । एवं स्वस्ति भवन्तो ब्रुवन्तु ।
इत्युक्ते स्वस्ति इति ब्राह्मणास्त्रिर्ब्रूयुः । ततः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा
विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति
नो वृहस्पतिर्द्दधातु ॥ इति पठित्वा तण्डुलान्
विकिरेत् ॥ * ॥ प्रमाणं यथा, व्यासः ।
“संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् ।
धर्म्मे कर्म्मणि माङ्गल्ये संग्रामाद्भुतदर्शने ॥”
धर्म्मे कर्म्मणि इति सप्तमीनिर्द्देशात् अमुक-
कर्म्मणि स्वस्ति भवन्तो ब्रुवन्तु इति ब्रूयात् । यमः ।
“पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।
एतदेव निरोङ्कारं कुर्य्यात् क्षत्तियवैश्ययोः ॥
सोङ्कारं ब्राह्मणे ब्रूयात् निरोङ्कारं महीपतौ ।
उपांशु च तथा वैश्ये शूद्रे स्वस्ति प्रयोजयेत् ॥”
इत्युद्वाहतत्त्वम् ॥ * ॥
अपि च ।
नन्द उवाच ।
“अलक्षितोऽस्त्रिन्रहमि मामकैरपि गोव्रजे ।
कुरु द्विजातिसंम्कारं स्वस्तिवाचनपूर्ब्बकम् ॥”
इति श्रीभागवते १० स्कन्धे ८ अध्यायः ॥

स्वस्थः, त्रि, (स्वस्मिन् तिष्ठतीति । स्व + स्था + कः ।

सुस्थः । यथा, --
“दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।”
इति देवीमाहात्म्यम् ॥
(“स्वस्थस्यापि समधातूनां साम्यानुग्रहार्थमेव
कुश{??} रसगुणानाहारविकारांश्च पर्य्यायेले-
च्छन्त्युपयोक्तुम् । सात्मासमाख्यातानेकप्रकार-
भूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरणलक्षणसमा
ख्यातचेष्टया सममिच्छन्ति कर्त्तुम् । देश-
कालान्मगुणविपरीतानां हि कर्म्मणां आहार-
विकाराणाञ्च क्रमेणोपयोगः सम्यक् । सर्व्वाभि-
योगोऽनुदीर्णानां सन्धारणमसन्धारणमुदीर्णा-
नाञ्च गतिमतां साहसानाञ्च वर्ज्जनम् । स्वस्थ-
वृत्तमेतद्धातूनां साम्यानुग्रहार्पमुपदिश्यते ।”
इति चरके शारीरस्थाने षष्ठेऽध्याये ॥ * ॥
“उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता ।
धीमता यदनुष्ठेयं तत् सर्व्वं संप्रचक्ष्यते ॥
तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् ।
कनिष्ठिकापरीणाहमृज्वग्रथितमव्रणम् ॥”
इत्यादिकं सुश्रुते चिकित्सितस्थाने २४ अः ॥
“समदोषः समाग्निश्च समधातुमलक्रियः ।
प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ॥”
इति च तत्रोत्तरतन्त्रे ६४ अध्यायः ॥)

स्वस्रीयः, पुं, (स्वसुरपत्यं पुमानीति । स्वसू +

“स्वसुश्छः ।” ४ । १ । १४३ । इति छः ।
पृष्ठ ५/४९०
भागिनेयः । इत्यमरः । २ । ६ । ३२ ॥ (यथा,
मनुः । ३ । १४८ ।
“मातामहं मातुलञ्च स्वस्रोयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च
भोजयेत् ॥”)

स्वस्रीया, स्त्री, (स्वसुरपत्यं स्त्री । स्वसृ + छः ।

टाप् ।) भागिनेयी । (यथा, मनुः । ११ । १७२ ।
“पैतृष्वस्रेयां भगिनीं स्वस्रीयां मातुरेव च ।
भ्रातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥”)

स्वाक्षपादः, पुं, (अक्षपादः न्यायशास्त्रप्रवर्त्तयिता ।

तस्येदमित्यण् । आक्षपादं न्यायशास्त्रं सुष्ठु आक्ष
पादं अधीते इति अण् ।) नेयायिकः । इति
जटाधरः ॥

स्वाक्षरः, पुं, (स्वस्य अक्षराणि यत्र ।) स्वीया-

क्षरः । सही इति दस्तस्वत इति च पारस्य-
भाषा ॥

स्वागतं, क्ली, (सुखेनागतमिति ।) कुशलप्रश्नः ।

इति हारावली ॥ (यथा, कुमारे । २ । १८ ।
“स्वागतं स्वानधिकारान् प्रभावैरवलम्ब्य वः ।
युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥”)
सुखेंनागतं स्वेनागतञ्च ॥ (सुष्ठु आगते, त्रि ।
यथा, मनुः । ४ । २२६ ।
श्रद्धयेष्टञ्च पूर्त्तञ्च नित्यं कुर्य्यादतन्द्रितः ।
श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥”)

स्वाङ्किकः, पुं, मार्द्दङ्गिकः । इति शब्दरत्नावली ॥

स्वाच्छन्द्यं, क्ली, (स्वच्छन्द + व्यञ् ।) स्वच्छन्दस्य

भावः । स्वच्छन्दता । स्वच्छन्दशब्दात् ष्ण्यप्रत्य-
येन निष्पन्नम् ॥ (यथा, मनुः । ३ । ३१ ।
“ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म्म उच्यते ॥”)

स्वातन्त्र्यं, क्ली, (स्वतन्त्रस्य भावः । स्वतन्त्र + ष्यञ् ।)

स्वतन्त्रस्य भावः । यथा, --
“पिता रक्षति कौमारे भर्त्ता रक्षति यौवने ।
पुत्त्रश्च स्थविरे रक्षेत् न स्त्री स्वातन्त्र्यमर्हति ॥”
इत्युद्वाहतत्त्वम् ॥
“सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परि-
कीर्त्तितम् ।”
इति दायतत्त्वञ्च ॥

स्वातिः, स्त्री, सूर्य्यपत्नीविशेषः । यथा, --

“संज्ञा तु यमकालिन्दीरेवन्तमनुदस्रसूः ।
त्रसरेणुर्म्महावीर्य्या स्वातिः सूर्य्या सुवर्च्चला ।
सरेणुर्द्युमयी त्वाष्ट्री प्रिये चैते विवस्वतः ॥”
इति त्रिकाण्डशेषः ॥
खङ्गः । इति धरणिः ॥

स्वातिः, पुं, स्त्री, (स्वेनैव अततीति । अत +

इम् । वा ङीष् ।) अश्विन्यादिसप्त-
विंशतिनक्षत्रान्तर्गतपञ्चदशनक्षत्रम् । इत्यमरः ।
३ । ५ । ३८ ॥ हस्ता स्वाती श्रवणा अक्लीवे ।
इति तिथ्यादितत्त्वम् ॥ स च कुङ्कुमसदृशारुण-
तरैकतारकः । अस्याधिदेवता पवनः । यथा,
“कुङ्कुमारुणतरैकतारके
वायुभे सुदति मौलिमागते ।

स्वाती, पुं, स्त्री, (स्वेनैव अततीति । अत +

इम् । वा ङीष् ।) अश्विन्यादिसप्त-
विंशतिनक्षत्रान्तर्गतपञ्चदशनक्षत्रम् । इत्यमरः ।
३ । ५ । ३८ ॥ हस्ता स्वाती श्रवणा अक्लीवे ।
इति तिथ्यादितत्त्वम् ॥ स च कुङ्कुमसदृशारुण-
तरैकतारकः । अस्याधिदेवता पवनः । यथा,
“कुङ्कुमारुणतरैकतारके
वायुभे सुदति मौलिमागते ।
शायकाम्बरचराचलाः कला-
श्चञ्चलाक्षि जगदुर्मृगोदयात् ॥”
शायकाम्बरचराचलाः कला-
श्चञ्चलाक्षि जगदुर्मृगोदयात् ॥”
दं ३ । १५ । इति कालिदासकृतरात्रिलग्न-
निरूपकग्रन्थः ॥ तस्य रूपं विद्रुमप्रबालसदृ-
शम् । इति मुहूर्त्तचिन्तामणिः ॥ * ॥ तत्र जात-
फलम् ।
“कन्दर्परूपप्रभया समेतः
कान्ताजनप्रीतिरतिप्रसन्नः ।
स्वातिः प्रसूतौ यदि नित्यं स्वात्
महामतिः प्रातविभूतियोगः ॥”
इति कोष्ठीप्रदीपः ॥

स्वाद, ङप्रीतिलिहोः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) दन्त्यादिः । प्रीतिः
प्रीतिकरणम् । लिट्रसोपादानम् । ङ ।
“अपां हि तृप्ताय न वारिधारा
स्वादुः सुगन्धिः स्वदते तुषारा ।”
इति श्रीहर्षः ।
“स्वर्दते विविधास्वादं स्वादते च रसायनम् ॥”
इति हलायुधः । इति दुर्गादासः ॥

स्वादः, पुं, (स्वाद् + घञ् ।) रसग्रहणम् । (यथा,

कथासरित्सागरे । ६५ । १४१ ।
“सभार्य्यः स तदा भुङ्क्ते सक्तूँल्लवणवर्ज्जितान् ।
अन्यस्यान्नस्य बुबुधे नैव स्वादं स जातुचित् ॥”
प्रीतिकरणम् । इति स्वादधातोरल्प्रत्ययेन
निष्पन्नः ॥

स्वादनं, क्ली, (स्वाद + ल्युट् ।) प्रीतिकरणम् ।

रसग्रहणम् । स्वादधातोरनट्प्रत्ययेन निष्प-
न्नम् ॥

स्वादितः, त्रि, प्रीतः । आस्वादितः । इति स्वाद-

धातोः क्तप्रत्ययेन निष्पन्नः ॥

स्वादुः, पुं, (स्वद आस्वादने + “कृवापाजीति ।”

उणा ०१ । १ । इति उण् ।) मधुररसः ।
यथा, --
“मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्म्मधूलकः ।”
इति हेमचन्द्रः ॥
गुडः । यथा, --
“गण्डोलं स्यात् गुडः स्वादुः ।”
इति त्रिकाण्डशेषः ।
जावकीषधिः । यथा, --
“ह्रस्वाङ्गो मधुरः स्वादुः प्राणकश्चिर-
जीवकः ।”
इति जटाधरः ॥
सुगन्धिद्रव्यभेदः । तत्पर्य्यायः । अगुरुसारः २
सुधूम्पः ३ गन्धधूमजः ४ । अस्य गुणाः । कटु-
त्वम् । कषायत्वम् । उष्णत्वम् । सधूमामोदत्वम् ।
वातनाशित्वञ्च । इति राजनिर्घण्टः ॥

स्वादुः, स्त्री, (स्वद् + उण् ।) द्राक्षा । इति

स्वाद्वीशब्दटीकायां भरतः । २ । ४ । १०७ ॥

स्वादुः, त्रि, (स्वद् + उण् ।) इष्टः । मनोज्ञः ।

मधुरः । मिष्टः । इत्यमरमेदिन्यौ । ३ । ३९४ ॥
(तदुक्तम् । यथा, --
“स्वाद्वन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवा
स्तेषामिन्द्रियनिग्रहो यदि भवेद् पङ्गुस्तरेत्
सागरम् ॥”)

स्वादुकण्टकः, पुं, (स्वादूनि कण्टकानि यस्य ।)

विकङ्कतवृक्षः । गोक्षुरकः । इत्यमरः । २ ।
४ । ३७ । २ । ४ । ९९ ॥ विकण्टकवृक्षः । इति
राजनिर्घण्टः ॥ (विकङ्कतार्थे पर्व्यायो यथा,
“विकङ्कतो स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः ।
स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि ॥”
गोक्षुरकार्थे पर्य्यायो यथा, --
“गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादु-
कण्टकः ।
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥
पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

स्वादुकन्दा, स्त्री, (स्वदुः कन्दो यस्याः ।)

विदारी । इति राजनिर्घण्टः ॥ (यथास्याः
पर्य्यायः ।
“विदारी स्वादुकन्दा च सा तु क्रोष्ट्री सिता
स्मृता ।
इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी ।
वराहवदना गृष्टिर्वदरेत्यपि कथ्यते ॥”
इति भावप्रकाशण्य पूर्बखण्डे प्रथमे भागे ॥)

स्वादुका, स्त्री, (स्वादुना रसेन कायतीति । कै +

कः ।) नागदन्ती । इति राजनिर्घण्टः ॥

स्वादुखण्डः, पुं, (स्वादुः स्वण्डो यस्य ।) गुडः ।

इति शरब्दत्नावली ॥ मधुरभागश्च ॥

स्वादुगन्धा, स्त्री, (स्वादुर्गन्धो यस्याः । भूमि-

कुष्माण्डः । इति जटाधरः ॥ रक्तशोभाञ्जनः ।
इति रत्नमाला ॥

स्वादुधन्वा, [न्] पुं, (स्वादु धनुर्यस्य ।) काम-

देवः । इति केचित् ॥

स्वादुपर्णी, स्त्री, (स्वादूनि पर्णानि यस्याः । ङीष् ।)

दुग्धिका । इति राजनिर्घण्टः ॥ (यथास्याः
पर्य्यायः ।
दुग्धिका स्वादुपर्णी स्यात् क्षीरा विक्षीरिणी
तथा ॥”
इति भावप्रकाशस्य पूर्बखण्डे प्रथमे भागे ॥)

स्वादुपाका, स्त्री, स्वादुः पाको यस्याः ।) काक-

भाची । इति राजनिर्घण्टः ॥ (काकमाची-
शब्देऽस्या विषयो ज्ञातव्यः ॥)

स्वादुपिण्डा, स्त्री, (स्वादुः पिण्डो यस्याः ।)

पिण्डखर्ज्जूरी । इति राजनिर्घण्टः ॥

स्वादुपुष्पः, पुं, (स्वादूनि पुष्पाणि यस्य ।) कटभी ।

इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य यथा, --
“कटभी स्वादुपुष्पश्च मधुरेणुः कटम्भरः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥”)

स्वादुफलं, क्ली, (स्वादूनि फलानि यस्य ।) वदरी-

फलम् । इति शब्दरत्नावली ॥

स्वादुफला, स्त्री, (स्वदु फलं यस्याः ।) कोलिः ।

इति शब्दरत्नावली ॥ (द्राक्षा । तत्पर्य्यायो
यथा,
“द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसापि च ।
पृष्ठ ५/४९१
मृद्वीका हारहूरा च गोस्तनी चापि
कीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

स्वादुमज्जा, [न्] पुं, (स्वादु मज्ज यस्य ।) पर्व्वत-

जपीलुः । इति जटाधरः ॥

स्वादुमांसी, स्त्री, (स्वादु मांसं अन्तःशस्यं यस्याः ।

ङीप् ।) काकोली । इति राजनिर्घण्टः ॥
(गुणादयोऽस्याः काकोलीशब्देऽभिहिताः ॥)

स्वादुमूलं, क्ली, (स्वादु मूलं यस्य ।) गर्ज्जरम् ।

इति राजनिर्घण्टः ॥

स्वादुरसा, स्त्री, (स्वादुः रसो यस्याः ।) काकोली ।

इत्यमरः । २ । ४ । १४ ॥ आम्रातकफलम् ।
इति शब्दरत्नावली ॥ मदिरा । इति हेम-
चन्द्रः ॥ शतावरी । इति राजनिर्घण्टः । द्राक्षा ।
इति केचित् ॥

स्वादुलता, स्त्री, (स्वादुः लता ।) विदारी । इति

राजनिर्घण्टः ॥

स्वादुशुद्धं, क्ली, (स्वादु शुद्धञ्चेति ।) सैन्धवलवणं

सामुद्रलवणं वा । इति केचित् ॥

स्वाद्वम्लः, पुं, (स्वादुरम्लरसो यत्र ।) दाडिम-

वृक्षः । इति त्रिकाण्डशेषः ॥

स्वाद्वी, स्त्री, (स्वादु + “वोतो गुणवचनात् ।”

४ । १ । ४५ । इति ङीष् ।) द्राक्षा । इत्यमरः ।
२ । ४ । १०७ ॥

स्वाधिष्ठानं, क्ली, (स्वं लिङ्गं तत्र अधिष्ठानं यस्य ।

स्वस्य लिङ्गस्य अधिष्ठानं यस्मात् इति वा ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदु-
रित्युक्तेस्तथात्वम् ।) षट्चक्रान्तर्गतद्वितीय-
चक्रम् । तत्तु लिङ्गमूलस्ववादिलान्तवर्णयुक्त-
होरकसमप्रभषड्दलपद्मम् । अत्र शिवाग्नी
वर्त्तेते । यथा, --
“षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।
व-भ-मैर्य-र-लैर्युक्ते वर्णैः षड्भिश्च सुव्रत ॥”
अपि च ।
“स्वाधिष्ठानाख्यचक्रे तु सबिन्दुं राकिणीं तथा ।
वादिलान्तं प्रविन्यस्य नाभौ तु मणिपूरके ॥”
इति तन्त्रसारः ॥
अन्यच्च ।
“सिन्दूरपूररुचिरारुणपद्ममन्यत्
सौषुम्रमध्यघटितं ध्वजमूलदेशे ।
अङ्गच्छदैः परिवृतं तडिताभवर्णै-
र्व्वाद्यैः सबिन्दुलसितैश्च पुरन्दरार्णैः ॥
तस्यान्तरे प्रविलसद्विषदप्रकाश-
मम्भोजमण्डलमथो वरुणस्य तस्य ।
अर्द्धेन्दुरूपलसितं शरदिन्दुशुभ्रं
वङ्कारबीजममलं मकराधिरूढम् ॥
तस्याङ्कदेशलसितो हरिरेव पाया-
न्नीलप्रकाशरुचिरश्रियमादधानः ।
पीताम्बरः प्रथमयौवनगर्व्वधारी
श्रीवत्सकौस्तुभधरो धृतवेदबाहुः ॥
तत्रैव भाति सततं खलु राकिणी सा
नीलाम्बजारुचिमहोदरकान्तिशोभा ।
नानायुधोद्यतकरैर्ललिताङ्गलक्ष्मी-
र्दिव्याम्बराभरणभूषितमत्तचित्ता ॥
स्वाधिष्ठानाख्यमेतत् सरसिजममलं चिन्तयेद्यो
मुनीन्द्र-
स्तस्याहङ्कारदोषादिकसकलरिपुः क्षीयते
तत्क्षणेन ।
योगीशः सोऽपि मोहाद्भुततिमिरचये भानु-
तुल्यप्रकाशो
गद्यैः पद्यैः प्रबन्धैर्विरचयति सुधाकाव्यसन्दोह-
लक्ष्मीम् ॥”
इति पूर्णानन्दगिरिकृतषट्चक्रक्रमः ॥

स्वाधीनः, त्रि, (स्वस्य अधीनः ।) स्वतन्त्रः ।

अपराधीनः । यथा, --
“स्वाधीनवृत्तेः साफल्यं न पराधीनवृत्तिता ।
ये पराधीनकर्म्माणो जीवन्तोऽपि च ते
मृताः ॥”
इति गारुडे । ११५ । ३७ ॥

स्वाधीनपतिका, स्त्री, नायिकाविशेषः । तस्या

लक्षणं यथा । स्वाधीनः पतिर्यस्याः सा
स्वाधीनपतिका । सदाज्ञाकरप्रियतमा । अस्या-
श्चेष्टा वनविहारादिमदनोत्सवदर्शनं मदाह-
ङ्कारमनोरथावाप्तिप्रभृतयः । सा पञ्चविधा ।
मुग्धा मध्या प्रौडा परकीया सामान्या चेति ।
मुग्धा स्वाधीनपतिका यथा, --
“मध्ये नो कृशिमा स्तने न गरिमा देहे न वः
कान्तिमा
श्रोणौ न प्रथिमा गती न जडिमा नेत्रे न वा
वक्रिमा ।
लास्य न द्राढमा न वाचि पटिमा हास्ये न
वा स्फीतिमा
प्राणेशस्य तथापि मज्जति मनो मय्येव किं
कारणम् ॥ १ ॥
मध्या स्वाधीनतपतिका यथा, --
यदपि रतिमहोत्सवे नकारो
यदपि करेण च नीविधारणानि ।
प्रियसखि पतिरेष पार्श्वदेशं
तदपि न मुञ्चति चेत् किमाचरामि ॥ २ ॥
प्रौढा स्वाधीनपतिका यथा, --
वक्त्रस्याधरपल्लवस्य वचसो हास्यस्य लास्यस्य
वा
धन्यानामरबिन्दसुन्दरदृशां कान्तस्तनोति
स्तुतिम् ।
स्वप्नेनापि न गच्छति श्रुतिपथं चेतःपथं दृक्पथं
काप्यन्या दयितस्य मे सखि कथं तस्यास्तु
भेदग्रहः ॥ ३ ॥
परकीया स्वाधीनपतिका यथा, --
स्वीयाः सन्ति गृहे सरोरुहदृशो यासां विलास-
क्षणं
काञ्चीकुण्डलहेमकङ्कणझनत्कारो न विश्रा-
म्यति ।
को हेतुः सखि कानने पुरपथे सौधे सखी-
सन्निधौ
भ्राम्यन्तीमपि पल्लवस्य परितो दृष्टिर्न मां
मुञ्च्ति ॥ ४ ॥
सामान्या स्वाधीनपतिका यथा, --
सन्त्येव प्रतिमन्दिरं मृगदृशो यासां सुधा-
सागर-
स्रोतःस्यूतसरोजसुन्दरचमत्कारा दृशो-
र्विभ्रमाः ।
चित्रं किन्तु विचित्रमन्मथकलावैदग्ध्यहेतोः पुन
र्वित्तं चित्तहरं प्रयच्छति युवा मय्येव किं
कारणम् ॥” ५ ॥
इति रसमञ्जरी ॥

स्वाधीनभर्त्तृका, स्त्री, (स्वस्या निजायाः अधीनो

भर्त्ता यस्याः । कप् ।) स्वाधीनपतिका । सा च
नायिकाभेदः ॥ यथा, --
“स्रण्डितोत्कण्ठिता लब्धा तथा प्रोषितभर्त्तृका ।
कलहान्तरिता वासकसज्जा स्वाधीनभर्त्तृका ॥”
इति जटाधरः ॥
(तल्लक्षणं यथा, साहित्यदर्पणे । ३ । ११३ ।
“कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात् स्वाधीन-
भर्त्तृका ॥”)

स्वाध्यायः, पुं, (ग्रुष्ठु आवृत्य अध्यायः वेदाध्ययन-

मिति ।) आवृत्य वेदाध्ययनम् । तत्पर्य्यायः ।
जपः २ । इत्यमरः । २ । ७ । ४७ ॥ जापः ३ ।
इति जटाधरः ॥
“स्वाध्यायो जप इत्युक्तो वदाध्ययनकर्म्मणि ।”
इति शब्दरत्नावली ॥
द्वे आवृत्य वेदाध्ययने । सु सुकृताय आवृत्य
अध्यायोऽधीतिः स्वाध्यायः इङो घञ् । जपनं
जपः अल् घञि जापश्च । इति भरतः ॥

स्वाध्यायवान्, [त्] पुं, (स्वाध्यायोस्त्यस्येति ।

मतुप् । मस्य वः ।) स्वाध्वायविशिष्टः । वेद-
पाठकः । (यथा, महाभारते । १ । ४० । १० ।
“स तूर्द्ध्वरेतास्तपसि प्रसक्तः
स्वाध्यायवान् वीतभयः कृतात्मा ।
चचार सर्व्वां पृथिवीं महात्मा
न चापि दारान् मनसाप्यकाङ्क्षत ॥”)

स्वाध्यायी, [न्] पुं, स्वाध्यायोऽस्यास्तोति ।

इनिः ।) पत्तनबणिक् । इति त्रिकाण्डशेषः ॥
त्रि, वेदपाठकश्च ॥ (यथा, महाभारते । ३ ।
२४ । १५ ।
“ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नथः ।
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः ॥”)

स्वानः, पुं, (स्वननमिति । स्वन् शब्दे + “स्वन-

हसोर्वा ।” ३ । ३ । ६२ । इति घञ् ।) शब्दः ।
इत्यमरः । १ । ७ । २४ ॥ (यथा, माघे । ४ । ५७ ।
“या बिभर्त्ति कलवल्लकी गुण-
स्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तथा
स्वानमानमति कालिमालया ॥”

स्वान्तं, क्ली, (स्वन्यते स्मेति । स्वन + क्त । “क्षुन्ध

स्वान्तध्वान्तेति ।” ७ । २ । १८ । इति अनिट
पृष्ठ ५/४९२
कत्वं निपातितञ्च ।) मनः । इत्यमरः । १ । ४ । ३१ ॥
(यथा, भट्टिः । ६ । २२ ।
“तस्यालिपत शोकाग्निः स्वान्तं काष्ठमिव
ज्वलन् ।
अलिप्तेवानिलः शीतो वने तं न त्वजिह्लदत् ॥”)
गह्वरम् । इति मेदिनी ॥ (स्वस्य अन्ते, पुं, क्ली ।
यथा, भागवते । २ । ६ । ३४ ।
“यो ह्यात्ममायाविभवञ्च पर्य्यगाद्
यथा नभः स्वान्तमथापरे कुतः ॥”)
शब्दिते, त्रि ॥

स्वापः, पुं, (स्वप + घञ् ।) निद्रा । इत्यमरः ।

१ । ७ । ३६ ॥ (यथा, भागवते । ३ । २६ । २९ ।
“संशयोऽथ विपर्य्यासो निश्चयः स्मृतिरेव च ।
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥”)
शयनम् । स्पर्शाज्ञता । अज्ञानम् । इति विश्व-
मेदिन्यौ ॥ (विषयोऽस्य यथा, --
“सर्व्वर्त्तुषु दिवास्वापः प्रतिसिद्धोऽन्यत्र ग्रीष्मात् ॥”
इति सुश्रुते शारीरस्थाने चतुर्लेंऽध्याये ॥)

स्वापतेयं, क्ली, (स्वपतौ धनस्वामिनि साधुः ।

स्वपति + “पथ्यातिथिवसतिस्वपतेर्ढञ् ।” ४ ।
४ । १०४ । इति र्ढञ् । स्वागतादित्वान्नैजा-
गमः ।) धनम् । इत्यमरः । २ । ९ । ९० ॥
(यथा, माघे । १४ । ९ ।
“स्वापतेयमधिगम्य धर्म्मतः
पर्य्यपायमवीवृधञ्च यत् ।
तीर्थगामि करवै विधानत-
स्तञ्जुषस्व जुहवानि चानले ॥”)

स्वापदः, पुं, (श्वापदः । पृषोदरादित्वात् साधुः ।)

श्वापदः । इति हलायुधः ॥

स्वाभाविकः, त्रि, (स्वभावे भवः । स्वभाव + ठक् ।

स्वभावसिद्धः । स्वभावत उत्पन्नः । यथा, --
“शैत्यं नाम गुणस्तवैव सहजः स्वभाविकी
स्वच्छता
किं व्रूमः शुचितां भवन्ति शुचयः स्पर्शेन
यस्यापरे ।
किञ्चान्यत् कथयामि ते स्तुतिपदं त्वं जीविनां
जीवनं
त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धं
क्षमः ॥”
इति वल्लाल्लसेनं प्रति लक्ष्मणसेनप्रेरितश्लोकः ॥
(व्याधिप्रकारभेदः । यथा, --
“तद्दुःखसंयोगा व्याधय इत्युच्यन्ते । चतुर्व्विधाः
आगन्तवः शारीरा मानसाः स्वाभाविका
श्चेति । स्वाभाविकाः क्षुत्पिपासाजरामृत्यु-
निद्राप्रभृतयः ॥” इति सुश्रुते सूत्रस्थामे प्रथमे-
ऽध्याये ॥)

स्वामिजङ्घी, [न्] पुं, परशुरामः । इति शब्द-

माला ॥

स्वामी, [न्] त्रि, (स्वमस्वास्तीतिः । स्व + “स्वामि-

न्नैश्वर्य्ये ।” ५ । २ । १२६ । इति आमिन्प्रत्ययेन
तिपातितः ।) अधिपतिः । तत्पर्य्यायः । ईश्वरः
२ एतिः ३ ईशिता ४ अधिभूः ५ नायकः ६
नेता ७ प्रभुः ८ परिवृढः ९ अधिपः १० ।
इत्यमरः । ३ । १ । १० ॥ अवमतिः ११ ईशः
१२ आर्य्यः १३ । इति जटाधरः ॥ पालकः १४ ।
इति शब्दरत्नावली ॥

स्वामी, [न्] पुं, (स्वमस्यास्तीति । स्व + आमिन् ।)

कार्त्तिकेयः । इति मेदिनी ॥ राजा । यथा, --
“स्वाम्यमात्यः सुहृत् कोषो राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥”
इत्यमरः । २ । ८ । १७ ॥
विभुः । हरः । हरिः । इति शब्दरत्नावली ॥
गुरुः । भर्त्ता । इति धरणिः ॥ वात्स्ययनमनिः ।
इति त्रिकाण्डशेषः ॥ गरुडः । इति केचित् ॥
अतीतकल्मीयार्हद्धेदः । इति हेमचन्द्रः ॥ परम-
हंसः । यथा, श्रीधरस्वामिप्रभृतयः ॥ * ॥
स्वाम्यर्थमरणफलं यथा, वह्निपुराणे संग्राम-
प्रशंमानामाध्याये ।
“शृङ्गिभिर्दंष्ट्रिभिर्व्वापि तथा म्लेच्छैश्च तस्करैः ।
स्वाम्यर्थेये हता राजन् तेषांस्वर्गो न संशयः ॥
हते गोस्वामिविप्रार्थे नरमेधफलं हि तत् ॥”
स्वामिप्रशंसा यथा, --
“स्त्रीगर्व्वः पतिसौभाग्याद्वर्द्धते च दिने दिने ।
सुस्त्री चेद्विभवो यस्मात्तं भजेद्धर्म्मतः सदा ॥
पतिर्बन्धुः कुलस्वीणामधिदेवः सदा पतिः ।
परं मम्पतस्वरूपश्च सुखरूपश्च मूर्त्तिमान् ॥
धर्म्मदः सुखदः शश्वत् प्रीतिदः शान्तिदः
सदा ।
सम्मानदो मानदश्च मान्यश्च मानखण्डनः ॥
सारात्सारतमः स्वामी बन्धूनां बन्धुदर्शनः ।
न च भर्त्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते ॥
भरणादेव भर्त्तारं पालनात् पतिरुच्यते ।
शरीरेशाच्च स स्वामी कामदात् कान्त उच्यते ।
बन्धुश्च सुखबन्धाच्च प्रीतिदानात् प्रियः परः ।
ऐश्वर्य्यदानादीशश्च प्राणेशात् प्राणनाथकः ॥
रतिदानाच्च रमणः प्रियो नास्ति प्रियात् परः ।
पुन्नस्तु स्वामिनः शुक्रात् जायते तेन स प्रियः ॥
शतपुत्त्रात् परः स्वामी कुलजानां प्रियः सदा ।
असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥
स्नानञ्च सर्व्वतोर्थेषु सर्व्वयज्ञेषु दीक्षणम् ।
प्रादक्षिण्यं पृथिव्याश्च सर्व्वाणि च तपांसि च ॥
सर्व्वाण्येव व्रतानीति महादानानि यानि च ।
उपोषणानि पुण्यानि यान्यन्यानि च विश्वतः ॥
गुरुसेवा विप्रसेवा देवसेवादिकञ्च यत् ।
स्वामिनः पादसेवायाः कलां नार्हन्ति षोड-
शीम् ॥
गुरुविप्रेष्टदेवेषु सर्व्वेभ्यश्च पतिर्गुरुः ॥
इति व्रह्मवैवर्त्ते प्रकृतिखण्डे । ४२ । २० -- ३० ॥

स्वाम्युपकारकः, पुं, (स्वामिन उपकारकः ।)

अश्वः । इति केचित् ॥ प्रभुहितकारके, त्रि ॥

स्वायम्भुवः, पुं, (स्वयम्भुवोऽपत्यमिति । स्वयम्भू +

अण् । संज्ञापूर्ब्बकस्य विधेरनित्यत्वात् न गुणः ।)
प्रथममनुः । स च सृष्टिवृद्धये ब्रह्मणो दक्षि-
णाङ्गाज्जातः । वामाङ्गात् शतरूपा स्त्री तस्य
महिषी आसीत् । अस्मिन्मन्वन्तरे यज्ञोऽवतारः
स एव इन्द्रः । यमादयो देवाः मरीच्यादिसप्त-
र्षयः । स्वायम्भुवो मनुः । प्रियव्रतोत्तानपादौ
मनुपुत्त्रौ । आकूतिः देवहूतिः प्रसूतिः कन्याः ।
इति श्रीभागवतमतम् ॥ * ॥ अपि च ।
“यामा नाम पुरा देवाः आसन् स्वायम्भुवे-
ऽन्तरे ।
सप्तैव ऋषयः पूर्ब्बं ये मरीच्यादयः स्मृताः ॥
अग्निध्रश्चाग्निबाहुश्च रिभः सवन एव च ।
ज्योतीष्मान् द्युतिमान् हव्यो मेधा मेधातिषि-
र्व्वसुः ॥
स्वायम्भुवस्यास्य मनोर्द्दशैते वंशवर्द्धनाः ।
प्रतिस्वर्मममी कृत्वा जम्मुस्ते परमं पदम् ॥
एतत् स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम् ॥”
इति मात्स्वे । ९ । ३ -- ६ ॥ * ॥
अपरञ्च ।
“ततो ब्रह्मात्मसंभूतं पूर्ब्बं स्वायम्भुवं प्रभुः ।
आत्मनः सदृशं चक्रे प्रजापाल्ये मनुं तदा ॥
शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् ।
स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥
तस्माच्च पुरुषात् पुत्त्रौ शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्म्मभिः ॥
कन्ये द्वे च तथाकूतिः प्रसूतिश्च ततः पिता ।
ददौ प्रसूतिं दक्षाय तथाकूतिं रुचेः पुरा ॥
प्रजापतिः स जगृहे तयोर्यज्ञः सदक्षिणः ।
पुत्त्रो जज्ञे महाभानः दम्पत्योर्मिथुनं ततः ॥
यज्ञस्य दक्षिणायास्तु पुत्त्रो द्वादश जज्ञिरे ॥
यामा इति समाख्याता देवाः स्वायम्भुवेऽन्तरे
तस्य पुत्त्रास्तु यज्ञस्य दक्षिणायां सुभास्वराः ॥
प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा ।
ससर्ज कन्यास्तासान्तु सम्यक् नामानि मे
शृणु ॥”
इति मार्कण्डेयपुराणे दुःसहशासननामाध्यायः
(तत्सम्बन्धिनि, त्रि । यथा, हरिवंशे । ७ । ९ ।
“यामा नाम तथा देवा आसन् सायम्भुवे-
ऽन्तरे ॥
ब्रह्मसम्बन्धिनि च त्रि । यथा, कुमारे । २ । १ ।
“तस्मिन् विप्रकृताः काले तारकेण दिवौकसः ।
तुरासाह पुरोधाय धाम स्वायम्भुवं ययुः ॥”)

स्वायम्भुवमनुपिता, [तृ] पुं, (स्वयम्भ वमनोः

पिता ।) ब्रह्मा । इति पुराणम् ॥

स्वायम्भुवी,) स्त्री, (स्वयम्भुव इयमिति । अण् ।

ङीष् ।) ब्राह्मी । इति राजनिर्घण्टः ॥

स्वराट्, [ज] पुं, (स्वः स्वर्गे राजते इति । राज्

+ क्विप् ।) इन्द्रः । इत्यमरः । १ । १ । ४६ ॥

स्वारोचिषः, पुं, (स्वरोचिषोऽप्रत्यमिति । अण् ।)

द्वितीयो मनुः । अस्मिन् मन्वन्तरे विभुरव-
तारः । रोचन इन्द्रः । तुषियादयो देवाः ।
उर्ज्जस्तम्भादयः सप्तर्षयः । अग्निसुतः स्वारो-
चिषो मनुः । द्युमत्सुषेणरोचिष्मत्प्रमुखा मनु-
पुत्त्राः । इति श्रीभागवतमतम् ॥ अपि च ।
“स्वारोचिषस्य तनयाश्चत्वारो देववर्च्चसः ।
पृष्ठ ५/४९३
नभोनभस्यप्रसृतिभानवः कीर्त्तिवर्द्धनाः ॥
दत्तोलिश्च्यवनस्तम्बः प्रालः कश्यप एव च ।
और्व्वो वृहस्पतिश्चैव सप्त सप्तर्षयः स्मृताः ॥
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ।
हस्तीन्द्रः सुकृतो मूर्त्तिरापज्योतिरयः स्वयः ॥
वशिष्ठस्थ सताः सप्त ये प्रजापतयस्तदा ।
द्वितीयमेतत् कथितं मन्वन्तरमतः परम् ॥”
इति मात्स्ये । ९ । ७ -- १० ॥

स्वार्थः, पुं, (स्वस्य अर्थः ।) स्वीयाभिधेयः ।

स्वकीयधनम् । स्वीयवस्तु । आत्मप्रयोजनम् ।
(यथा, माघे । २ । ६५ ।
“यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः ।
वयं हनाम द्विषतः सर्व्वः स्वार्थं समीहते ॥”)
स्वनिवृत्तिः । इति अर्थशब्दार्थदर्शनात् ॥ लिङ्गार्थ-
विशेषः । यथा, --
“स्वार्थो द्रव्यञ्च लिङ्गञ्च संख्या कर्म्मादिरेव च ।
अमी पञ्चैव लिङ्गार्थास्त्रयः केषाञ्चिदग्रिमाः ॥
स्वार्थो विशेषणम् । द्रव्यं विशेष्यम् । लिङ्गं
पुंस्त्वादि । संख्या एकत्वादिः । कर्म्मादिर्ढादिः ।”
इति मुग्धबोधटीकायां दुर्गादासः ॥

स्वास्थ्यं, क्ली, (स्वस्थस्य भावः । स्वस्थ + ष्यञ् ।)

आरोग्यम् । इति शब्दरत्नावली ॥ (यथा, --
“गतवेगे भवेत् स्वास्थ्यं सर्व्वेष्वाक्षेपकादिषु ।”
इति माधवकरकृतरुग्विनिश्चयसंग्रहे वात-
ष्याध्यधिकारे ॥) सन्तोषः । इति हेमचन्द्रः ॥
(यथा, साहित्यदर्पणे । ३ । २४९ ।
“किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि
सा दुर्ल्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं
धास्यति ॥”)

स्वाहा, व्य, (सुष्ठु आहूयन्ते देवा अनेनेति ।

सु + आ + ह्वे + डा ।) देवहविर्द्दानमन्त्रः ।
तत्पर्य्यायः । श्वौषट् २ वौषट् ३ वषट् ४
स्वधा ५ । इत्यमरः । ३ । ४ । ८ ॥ अस्य
टीका स्वधाशब्दे द्रष्टव्या ॥ (यथा, देवी-
माहात्म्ये । १ । ५४ ।
“त्वं स्वाहा त्वं स्वघा त्वं हि वषट्कारः स्वरा-
त्मिका ॥”)

स्वाहा, स्त्री, अम्निभार्य्या । सा दक्षकन्या । इति

श्रीभागवतम् ॥ तत्पर्य्यायः । अम्नायी २ हुत-
भुक्प्रिया ३ । इत्यमरः । २ । ३ । २१ ॥ द्विठः ४
अनलप्रिया ५ । इति बीजवर्णाभिधानम् ॥
वह्निबधूः । ६ । इति शब्दरत्नावली ॥ * ॥ मता-
न्तरे तस्या उत्पत्तिर्यथा, --
नारद उवाच ।
“स्वाहा देवहविर्द्दाने प्रशस्ता सर्व्वकर्म्मसु ।
पिण्डदाने स्वधा शस्ता दक्षिणा सर्व्वतो वरा ॥
एतासां चरितं जन्म फलं प्राधान्यमेव च ।
श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदां वर ॥
सौतिरुवाच ।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥
श्रीनारायण उवाच ।
सृष्टेः प्रथमतो देवाश्चाहारार्थं ययुः पुरा ।
ब्रह्मलोके ब्रह्मसभामगम्यां सुमनोहराम् ॥
मत्वा निवेदनञ्चक्रुराहारहेतुकं मुने ।
ब्रह्मा श्रुत्वा प्रतिज्ञाय सिषवे श्रीहरिं परम् ॥
यज्ञरूपो हि भगवान् कलया च बभूव सः ।
यज्ञे यद्यद्धविर्द्दानं दत्तं तेभ्यश्च कर्म्मणा ॥
हविर्द्ददति विप्राश्च भक्त्या च क्षत्त्रियादयः ।
सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्गव ! ॥
देवा विषण्णास्ते सर्व्वे तत्सभाञ्च ययुः पुनः ।
गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥
ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णशरणं ययौ ।
पूजाञ्चकार प्रकृतेर्ध्यानेनैव तदाज्ञया ॥
प्रकृतेः कलया चैव सर्व्वशक्तिस्वरूपिणी ।
बभूव दाहिका शक्तिरम्नेः स्वाहा स्वकामिनी ॥
ग्रीष्ममध्याह्नमार्त्तण्डप्रभाच्छादनकारिणी ॥
अतीवसुन्दरी रामा रमणीया मनोहरा ।
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ॥
उवाचेति विधेरग्रे पद्मयोने ! वरं वृणु ।
विधिस्तद्वचनं श्रुत्वा संभ्रमात् समुवाच ताम् ॥
ब्रह्मोवाच ।
त्वमग्नेर्दाहिका शक्तिर्भव पत्नी च सुन्दरि ! ।
दग्धुं न शक्तस्त्यकृती हुताशश्च त्वया विना ॥
तन्नामोच्चार्य्य मन्त्रान्ते यो दास्यति हविर्नरः ।
सुरेभ्यस्तत् प्राप्नुवन्ति सुराः स्वानन्दपूर्ब्बकम् ॥
अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी ।
देवानां पूजिता शश्वत् नरादीनां भवाम्बिके ॥
ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ।
तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् ॥
स्वाहीवाच ।
अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ॥
ब्रह्मंस्तदन्यत् यत्किञ्चित् स्वप्नवद्भ्रम एव च ॥
विधाता जगतां त्वञ्च शम्भुर्मृत्युञ्जयः प्रभो ।
विभर्त्ति शेषो विश्वञ्च धर्म्मः साक्षी च
धर्म्मिणाम् ॥
सर्व्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ।
प्रकृतिः सर्व्वसूः सर्व्वपूजिता यत्प्रसादतः ॥
ऋषयो मुनयश्चैव पूजिता यं निषेष्य च ।
तत्पादपद्मं पद्मैकभावेन चिन्तयाम्यहम् ॥
पद्मास्या पाद्ममित्युक्त्वा पद्मनाभानुसारतः ।
जगाम तपसे पाद्मे पद्मादीशस्य पद्मजा ॥
तपस्तेपे लक्षवर्षमेकपादेन पद्मजा ।
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् ॥
अतीवकमनीयञ्च रूपं दृष्ट्वा च रूपिणी ।
मूर्च्छां संप्राप कामेन कामेशस्य च कामुकी ॥
विज्ञाय तदभिप्रायं सर्व्वेशस्तामुवाच सः ।
समुत्थाप्य च स्वक्रोडे क्षीणाङ्गीं तपसा चिरम् ॥
श्रीकृष्ण उवाच ।
वाराहे च त्वमंशेन मम पत्नी भविष्यसि ।
नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च ॥
अधुनाग्नेर्दाहिका त्वं भव पत्नी च भाविनि ! ।
मन्त्ररूपा च पूता च मत्प्रसादाद्भविष्यसि ॥
वह्निस्त्वां भक्तिभावेन संपूज्य च गृहेश्वरोम् ।
रमिष्यते त्वया सार्द्ध्वं रामया रमणोयया ॥
इत्युक्त्वान्तर्द्दधे देवो देवीमाश्वास्य नारद ! ।
तत्राजगाम संत्रस्तो वह्निर्ब्रह्मनिदेशतः ॥
सामवेदोक्तध्यानेन ध्यात्वा तां जगदम्बिकाम् ।
संपूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः ॥
तदा दिव्यवर्षशतं स रेमे रामया सह ।
अतीवनिर्ज्जने रम्ये संभोगसुखदे सदा ॥
बभूव गर्भस्तस्याश्च हुताशस्य च तेजसा ।
तद्दधार च सा देवी दिव्यं द्वादशवत्सरम् ॥
ततः सुषाव पत्राश्च रमणीयान्मनोहरान् ।
दक्षिणाम्निर्गार्हपत्याहवनीयान् क्रमेण च ॥
ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्त्रियादयः ।
स्वाहान्तं मन्त्रमुच्चार्य्य हविर्द्ददति नित्यशः ॥
स्वाहायुक्तञ्च मन्त्रञ्च यो गृह्णाति प्रशस्तकम् ।
सर्व्वसिद्धिर्भवेत्तस्य ब्रह्मन् ग्रहणमात्रतः ॥
विषहीनो यथा सर्पो वेदहीनो यथा द्विजः ।
पतिसेवाविहीना स्त्री विद्याहीनो यथा नरः ॥
फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः ।
स्वाहाहीनस्तथा मन्त्रो न द्रुतं फलदायकः ॥
परितुष्टाः द्विजाः सर्व्वे देवाः संप्रापुराहुतिम् ।
स्वाहान्तेनैव मन्त्रेण सफलं सर्व्वकर्म्म च ॥
इत्येवं कथितं सर्व्वं स्वाहोपाख्यानमुत्तमम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥
नारद उवाच ।
स्वाहापूजाविधानश्च ध्यानं स्तोत्रं मुनीश्वर ।
संपूज्य वह्निस्तुष्टाव येन तां वद मे प्रभो ! ॥
श्रीनारायण उवाच ।
ध्यानञ्च सामवेदोक्तं स्तोत्रं पूजाविधानकम् ।
वदामि श्रूयतां ब्रह्मन् सावधानं निशामय ॥
सर्व्वयज्ञारम्भकाले शालग्रामे घटेऽथवा ।
स्वाहां संपूज्य यत्नेन यज्ञं कुर्य्यात् फलाप्तये ॥
स्वाहां मन्त्राङ्कभूताञ्च मन्त्रसिद्धिस्वरूपिणीम् ।
सिद्धाञ्च सिद्धिदां नॄणां कर्म्मणां फलदां भजे ॥
इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ।
सर्व्वसिद्धिं लभेत् स्तुत्वा मूलं स्तोत्रं मुने शृणु ॥
ॐ ह्रीँ श्रीँ वह्निजायायै देव्यै स्वाहेत्यनेन च ।
यः पूजयेच्च तां देवीं सर्व्वेष्टं लभते ध्रुवम् ॥
वह्निरुवाच ।
स्वाहाद्याः प्रकृतेरंशा मन्त्रान्ताङ्गस्वरूपिणी ।
मन्त्राणां फलदात्री च धात्रौ च जगतां सती ॥
सिद्धिरूपा च सिद्धा च सिद्धिदा सर्व्वदा नृणाम् ।
हुताशदाहिका शक्तिस्तत्प्राणाधिकरूपिणी ॥
संसारसाररूपा च घोरसंसारतारिणी ।
देवजीवनरूपा च देवपोषणकारिणी ॥
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।
सर्व्वसिद्धिर्भवेत्तस्य सर्व्वकर्म्म सुशोभनम् ।
अपुत्त्रो लभते पुत्त्रममार्य्यो लभते प्रियाम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे स्वाहोपाख्यानं
नाम । ४० । ७ -- ५६ ॥ * ॥ बीद्धशक्तिविशेषः ।
तत्पर्य्यायः । तारा २ महाश्रीः ३ ओङ्कारा ४
श्रीः ५ मनोरमा ६ तारिणी ७ जया ८
पृष्ठ ५/४९४
अनन्ता ९ शिवा १० लोकेश्वरात्मजा ११ खदूर-
वासिनी १२ भद्रा १३ वैश्या १४ नीलसर-
स्वती १५ शङ्किनी १६ महातारा १७ वसु-
चारा १८ धनन्ददा १९ त्रिलोचना २० लोच-
नास्या २१ । इति त्रिकाण्डशेषः ॥

स्वाहापतिः, पुं, (स्वाहायाः पतिः ।) अग्निः ।

इति धरणिः ॥

स्वाहाप्रियः, पुं, (स्वाहायाः प्रियः ।) अग्निः ।

इति हलायुधः ॥

स्वाहाभुक्, [ज्] पुं, (स्वाहया भुङ्क्ते इति ।

भुज + क्विप् ।) देवता । इति त्रिकाण्डशेषः ॥

स्वित्, व्य, प्रश्नः । (यथा, महाभारते । ५ । ३५ । ८ ।

“किं ब्राह्मणा वै श्रेयांसो दितिजाः सिद्वि-
रोचन ॥”)
वितर्कः । इत्यमरः । ३ । ३ । २४१ ॥ (यथा,
मेघदूते । १४ ।
“अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभि-
र्दृष्टोच्छ्रायश्चकितचकितं मुग्धसिद्धाङ्ग-
नाभिः ॥”
पादपूरणम् । इति मेदिनी ॥ प्रश्ने पृच्छायाम् ।
यथां स्विदेकाकी विचरसि । वितर्को नाना-
पक्षावमर्षः । स्वित् प्रश्ने च वितर्के च तथैव
पादपूरणे । इति मेदिनी । इति भरतः ॥

स्विदितः, त्रि, स्वेदितः । यथा । विभाषायामादि-

कर्म्मणोः । भावे आदिकर्म्मणि चादितो निष्ठाया
इड् वा स्यात् । प्रस्वेदितश्चैत्रः । प्रेस्वेदितं
तेन । ञि स्विदेति भ्वादिरत्र गृह्यन्ते ञिद्भिः
साहचर्य्यात् । स्विद्यतेस्तु स्विदित इत्येव ।
इति सिद्धान्तकौमुदी ॥

स्विन्नः, त्रि, (स्विद् + क्तः ।) घर्म्मयुक्तः । यथा ।

स्विन्नो घर्मोपेतो जनः । इति हलायुधः ॥
(यथा च कुमारे । ७ । ७७ ।
“रोमोद्गमः प्रादुरभूद्मायाः
स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् ॥”
पक्कम् । यथा, --
“शस्यं क्षेत्रगातं प्राहुः सतुषं धान्यमुच्यते ।
आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतम् ॥”
इति श्राद्धतत्त्वधृतवशिष्ठवचनम् ॥

स्वीकारः, पुं, (अस्वस्य स्वस्य कारः करणम् ।

स्व + कृ + घञ् । अभूततद्भावे च्वीः) अङ्गी-
कारः । यथा, --
“सम्बिदागूः प्रतिज्ञा च सन्धावाचश्च सङ्गरः ।
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥
संश्रवोङ्कारनियमोररीकाराश्रवा अपि ॥”
इति जटाधरः ॥
प्रतिज्ञानम् । इति शब्दरत्नावली ॥ अस्वं स्वं
कुर्व्वन् व्यापारः । यथा । न च स्वीकारात् स्वत्वं
स्वीकत्तुरेव दातृत्वापत्तेः । किञ्च । मनसा पात्र-
मुद्दिश्य इत्यादि शास्त्रे स्वीकारात् प्रागेव दान-
पदं दृष्टम् । ननु ग्रहणं स्वीकारोऽभूततद्भावे
च्विप्रत्ययात् अस्वं स्वं कुर्व्वन् व्यापारः भवति
कथं ततः प्रागेव स्वत्वम् । उच्यते उतपन्नमपि
स्वत्वं सम्प्रदानव्यापारेण ममेदमिति ज्ञानेन
व्यवहारार्हं क्रियत इति स्वीकारशब्दार्थः ।
इति दायभागः ॥

स्वीयः, त्रि, (स्वस्यायमिति । स्व + छः ।) स्वकीयः ।

आत्मीयः । यथा, स्कान्दे शिववाक्यम् ।
“शूद्रः कर्म्माणि यो नित्यं स्वीयानि कुरुते
प्रिये ।
तस्याहमर्च्चां गृह्णामि चन्द्रखण्डविभूषिते ! ॥”
इति तिथ्यादितत्त्वम् ॥

स्वीया, स्त्री, (स्वस्येयमिति । स्व + छः । टाप् ।)

नायिकाभेदः । तस्या लक्षणम् । स्वामिन्ये-
वानुरक्ता पतिव्रता इति यावत् । अस्याश्चेष्टा
स्वामिशुश्रूषा शीलरक्षा सरलता क्षमा च ।
सा च त्रिविधा । मुग्धा मध्या प्रगल्भा च ।
एताः सर्व्वा नायिका अवस्थाभेदेन प्रत्येके
नवविधा । प्रोषितभर्त्तृका खण्डिता कलहा-
न्तरिता विप्रलब्धा उत्कण्ठिता वासकसज्जा
स्वाधीनपतिका अभिसारिका प्रवत्स्यत्पतिका
च । एताः प्रत्येके उत्तममध्यमाधमभेदेन
अष्टाविंशत्युत्तरशतनायिका भवन्ति । एतासां
दिव्यादिव्यगणनाभेदेन चतुरशीत्युत्तरशतत्रय-
प्रकारा भवन्ति । तत्र प्रमाणं यथा । नायिका
त्रिविधा । स्वीया परकीया सामान्यवनिता
चेति । तत्र स्वामिन्येवानुरक्ता स्वीया । न च
परिणीतायां परगामिन्यामतिव्याप्तिस्तत्र पति-
व्रताया एव लक्ष्यत्वात् । तस्या परगामितया
परकीयत्वमेव समायाति । अस्याश्चेष्टा । भर्त्तुः
शुश्रूषा । शीलसंरक्षणम् । आर्ज्जवम् । क्षमा
च । यथा, --
“गतागतकुतूहलं नयनयोरपाङ्गावधि
स्मितं कुलनतभ्रुवामधर एव विश्राम्यति ।
वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः
कदाचिदपि चेत्तदा मनसि केवलं मज्जति ॥”
अपि च ।
“सञ्चारो रतिमन्दिरावधि सखीकर्णावधि
व्याहृतं
चेतः कान्तसमीहितावधि पदन्यासावधि
प्रेक्षितम् ।
हास्यञ्चाधरपल्लवावधि महामानोऽपि मौनावधि
सर्व्वं स्वावधि नावधिः कुलभुवां प्रेम्णः परं
केवलम् ॥”
अपि च ।
“पदन्यासो गेहाद्वहिरांहफणारोहणसमः
स्वगेहादन्यत् यद्भवनमपरद्वीपतुलितम् ।
वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः
पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः ॥”
स्वीयापि त्रिविधा । मुग्धा मध्या प्रगल्भा च ।
तत्राङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवना
अज्ञातयौवना च । सैव क्रमशो लज्जाभयपरा-
धीनरतिर्नवोढा । सैव क्रमशो जातप्रश्रया
विश्रब्धनवोढा । अस्याश्चेष्टा । क्रिया मनोहरा
कोपे मार्द्दवं नवविभूषणे समीहा च ॥ * ॥
मुग्धा यथा, --
“आज्ञप्तं किल कामदेवधरणीपालेन काले
शुभे
वस्तुं वास्तुविधिं विधास्यति तनौ तारुण्य-
मेणीदृशः ।
दृष्ट्या खञ्जनचातुरी मुखरुचा सौधाकरी
माधुरी
वाचा किञ्च सुधासमुद्रलहरी लावण्यमाम-
न्त्यते ॥”
अज्ञातयौवना यथा, --
“नीरात्तीरमुपागता श्रवणयोः सीम्रि स्फुर-
न्नेत्रयोः
श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं
न्यस्यति ।
सैवालाङ्कुरशङ्कया शशिमुखी रोमावलीं
प्रोञ्छति
श्रान्तास्मीति मुहुः सखीमविदितश्रोणीभरा
पृच्छति ॥”
ज्ञातयौवना यथा, --
“स्वयम्भुः शम्भुरम्भोजलोचने ! तत्पयोधरः ।
नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥” * ॥
नवोढा यथा, --
“हस्ते धृतापि शयने विनिवेशितापि
क्रोडे कृतापि यतते बहिरेव गन्तुम् ।
जानीमहे नवबधूरथ तस्य वश्या ।
यः पारदं स्थिरयितुं क्षमते करेण ॥”
यथा च ।
“बलान्नीता पार्श्वं सुखमनुमुखं नैव कुरुते
धुनाना मूर्द्धानं क्षिपति वदनं चुम्बनविधौ ।
हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना
नवोढा वोढारं रमयति च सन्तापयति च ॥” *
विश्रब्धनवोढा यथा, --
“दरमुकुलितनेत्रपाणिनीवी-
नियमितबाहुकृतोरुयुग्मबन्धम् ।
मरकलितकुचस्थलं नवोढा
स्वपिति समीपमुपेत्य कस्य यूनः ॥” * ॥
समानलज्जामदना मध्या । एषव चातिप्रश्रया-
दतिविश्रब्धनवोढा । अस्याश्चेष्टा सागसि प्रेयसि
धैर्य्ये वक्रोक्तिरधैर्य्ये परुषवाक् । यथा, --
“स्वापे प्रियाननविलोकनहानिरेव
स्वापच्युतौ प्रियकरग्रहणप्रसङ्गः ।
इत्थं सरीरुहमुखी परिचिन्तयन्ती
स्वापं विधातुमपि हातुमपि प्रपेदे ॥” * ॥
पतिमात्रविषयकेलिकलापकोविदा प्रगल्भा ।
वेश्यायां कुलटायाञ्च पतिमात्रविषयत्वाभा-
वात् न तत्रातिव्याप्तिः । अस्याश्चेष्टा रति-
प्रीतिरानन्दादात्मसंमोहः । प्रथमं यथा, --
“सस्पृश्य स्तनमाकलय्य वदनं संश्लिष्य कण्ठ-
स्थलं
निष्पीयाधरविम्बमम्बरमपाकृष्य व्युदस्याल-
काम् ।
पृष्ठ ५/४९५
देवस्याम्बुजिनीपतेः समुदयं जिज्ञासमाने प्रिये
वामाक्षी वसनाञ्चलैः श्रवणयोर्नीलोत्पलं
निह्नुते ॥” * ॥
यथा च ।
“नखाङ्कितमुरःस्थलेऽधरतले रदस्य क्षतं
च्युता वकुलमालिका विगलिता च मुक्तावली ।
रतान्तसमये मया सकलमेतदालोकितं
स्मृतिः क्व च पतिः क्व च कृ च तवालि शिक्षा-
विधिः ॥”
अपि च ।
“कान्ते तल्पमुपागते विगलिता नीवी स्वयं
बन्धनात्
वासश्च श्लथमेखलागुणधृतं किञ्चित् नितम्बे
स्थितम् ।
एतावत् सखि वेद्मि केवलमहो तस्याङ्गसङ्गे पुनः
कोऽसौ कास्मि रतञ्च कीदृशमिति स्वल्पापि मे
न स्मृतिः ॥” * ॥
मध्याप्रगल्भे मानावस्थायां प्रत्येकं त्रिविधे ।
धीरा अधीरा धीराधीरा चेति । व्यङ्ग्यकोप-
प्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशा अधीरा ।
व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा धीराधीरा । इयांस्तु
विशेषः । मध्यमायाः धीरायाः कोपव्यञ्जिका
गीः । अधीरायाः परुषवाक् । धीराधीराया
वचनरुदिते प्रकाशिके । प्रौढाधीरायास्तु
रतावौदास्यम् । अधीरायास्तर्ज्जनताडनादिः ।
धीराधीराया रतावौदास्यं तर्ञ्जनादि च कोप-
प्रकाशकम् । यत्तु धीरादिभेदः स्वीयाया एव
न परकीयाया इति प्राचीनलिखनं तदाज्ञा
मात्रं धीरात्वमधीरात्वं तदुभयञ्च माननियत-
मेव परकीयाया मानश्च नेति वक्तुमशक्यत्वात्
परकीयाया मानश्चेत्तेषामप्यावश्यकत्वादिति
भावः ॥ * ॥ मध्या धीरा यथा, --
“लोलालिपुञ्जे व्रजतो निकुञ्जे
स्फारा बभूवुः श्रमवारिधाराः ।
देहे समीहे भवतो विधातुं
धीरं समीरं नलिनीदलेन ॥” * ॥
मध्या अधीरा यथा, --
“जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे
शोणिमा
निष्पीतं भवता मधु प्रविततं व्याघूर्णितं मे
मनः ।
भ्राम्यद्भृङ्गघने निकुञ्जभवने लब्धं त्वया श्रीफलं
पञ्चेषुः पुनरेष मां बहुतरैः क्रूरैः शरैः
कृन्तति ॥” * ॥
मध्या धीराधीरा यथा, --
“कान्तानुरागचतुरोऽसि मनोहरोऽसि
नाथोऽसि किञ्च नवयौवनभूषितोऽसि ।
इत्थं निगद्य सुदृशा वदने प्रियस्य
निश्वस्य वास्पलुलिता निहिता दृगन्ताः ॥” * ॥
प्रौढा धीरा यथा, --
“नो तल्पं भजसे न जल्पसि सुधाधारानुकारा
गिरो
दृक्पातं कुरुषे न वा परिजने कोपप्रकाश-
च्छलात् ।
इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपनं
किं स्यादेव न चेत् पुनः सहचरो कुर्व्वीत
साचि स्मितम् ॥” * ॥
प्रगल्भा अधीरा यथा, --
“प्रतिफलमवलोक्य स्वीयमिदोः कलायां
हरशिरसि परस्यावासमाशङ्कमाना ।
गिरिशमचलकन्या तर्ज्जयामास कम्प-
प्रचलवलयवेल्लत्कान्तिभाजा करेण ॥” * ॥
प्रगल्भा धीराधीरा यथा, --
“तल्पोपान्तमुप्रेयुषि प्रियतमे साचीकृतग्रीवया
काकुव्याकुलवाचि साचिहसितस्फूर्ज्जत्कपोल-
श्रिया ।
हस्तन्यस्तकरे पुनर्म्मृगदृशा लाक्षारसाक्षलित-
प्रौष्ठीपृष्ठमयूखमांसलरुचो विस्फारिता
दृष्टयः ॥” * ॥
एते धीरादिषड्भेदा द्विविधा । धीरा ज्येष्ठा
कनिष्ठा च । अधौरा ज्येष्ठा कनिष्ठा च
धीराधीरा ज्येष्ठा कनिष्ठा च इत्यपि क्वचित्
पाठः एते धीरादित्रयो मेदात् द्विविधा
भवन्ति । ज्येष्ठा कनिष्ठा च । परिणीतत्वे
सति भर्त्तरधिकस्नेहा ज्येष्ठा । परिणीतत्वे
सति भर्त्तुर्न्यूनस्नेहा कनिष्ठा । अधिकस्नेहासु
न्यूनस्नेहासु मामान्यवनितादिषु नातिव्याप्तिः ।
परिणीतत्वपदेन व्यावर्त्तनात् । नापि परकौ-
यायामतिव्याप्तिः । भर्त्तृपदेन तद्व्यावृत्तेः । धीरा
ज्येष्ठा कनिष्ठा च यथा, --
“एकस्मिन् शयने सरोरुहदृशोर्विज्ञाय निद्रां
तयो-
रेकां पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान्
अन्यस्याः सविधं समेत्य निभृतं व्यालोलहस्ता-
ङ्गुलि-
व्यापारैर्वसनाञ्चलञ्चपलयन् स्वापच्युतिं क्तृप्त
वान् ॥” ॥ * ॥
अधीरा ज्येष्ठा कनिष्ठा यथा, --
“अन्तःकोपकषायिते प्रियतमे पश्यन् घने
कानने
पुष्पस्यावचयाय नम्रवदनामेकां समायोजयन् ।
अर्द्धोन्मीलितलोचनाञ्चलचमत्काराभिरामाननां
स्मेरार्द्राधरपल्लवां नवबधृमन्यां समालिङ्गति ॥”
धीराधीरा ज्येष्ठा कनिष्ठा च यथा, --
“धैर्य्याधैर्य्यपरिग्रहग्रहिलयोरेणीदृशोः प्रीतये
रत्नद्वन्द्वमनन्तकान्तिरुचिरं मुष्टिद्वये न्यस्तवान् ।
एकस्याः कलयन् करे प्रथमतो रत्नं परस्याः
प्रियो
हस्ताहस्तिमियात् स्पृशन् कुचतटीमानन्दमा-
विन्दति ॥”
इति रसमञ्जरी ॥

स्वूर्च्छ, आ विस्मृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) दन्त्यादिः ह्नस्वी वकार-
युक्तः । क्विपि राछोर्लोपे स्वूः स्वुरौ स्वुरः ।
आ स्वूर्च्छितं स्वूर्णं तेन । स्वर्च्छति कथां
मद्यपः । इति दुर्गादासः ॥

स्वृ, ऊ शब्दोपतापयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-शब्दे अक०-उपतापे सक०-वेट् ।)
दन्त्यादिर्वकारोपधः । ऊ, अस्वारीत् पिकः ।
अस्वार्षीत् खलं राजा । इति दुर्गादासः ॥

स्वॄ, गि हिंसने । इति कविकल्पद्रुमः ॥ (क्र्या०-

पर०-सक०-अनिट् ।) दन्त्यादिर्वकारोपधः ।
तद्रहितोऽपीति केचित् । गि, स्वृणाति स्वूर्णः
स्वूर्णिः । इति दुर्गादासः ॥

स्वेक, ऋ, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) वकारयुक्तः । ऋ, असि-
स्वेकत् । ङ, स्वेकते । इति दुर्गादासः ॥

स्वेच्छा, स्त्री, (स्वस्य इच्छा ।) स्वकीयेच्छा ।

तत्पर्य्यायः । यदृच्छा २ स्वैरिता ३ । इति
हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । २५ । ४८ ।
“स च मत्स्योऽब्धिमध्येन तत्कालं स्वेच्छया
चरन् ।
उत्स्यलद्वीपनिकटं जगाम विधियोगतः ॥”)

स्वेच्छामृत्युः, पुं, (स्वेच्छया मृत्युर्यस्य ।) भीष्मः ॥

इति त्रिकाण्डशेषः ॥ स्वेच्छया मरणञ्च । तद्-
युक्ते, त्रि ॥

स्वेदः, पुं, (स्विद् + घज् ।) घर्म्मः इत्यमरः ॥

१ । ७ । ३३ ॥ स्वेदनम् । इति मेदिनी ॥ भावरा
इति भाषा ॥ * ॥ उष्मा । तापः । अथातः
स्वेदाव्यायं व्याख्यास्यामः । इति ह स्माह
भगवानात्रेयः ।
“अथ स्वेदान् प्रवक्ष्यामि यैर्यथावत् प्रयोजितैः
स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः ॥
स्नेहपूर्ब्बप्रयुक्तेन स्वेदेनावजितेऽनिले ।
पुरीषमूत्ररेतांसि न सज्जन्ति कदाचन ॥
शुष्काण्यपि च काष्ठानि स्नेहस्वेदोपपादनैः ।
नमयन्ति यथान्यायं किं पुनर्ज्जीवतो नरान् ॥
योगर्त्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च ।
द्रव्यवान् कल्पितो देशे स्वेदः कार्य्यकरो मतः ॥
व्याधौ शीते शरीरे च महान् स्वेदो महाबले ॥
दुर्व्वले दुर्ब्बलः स्वेदो मध्यमे मध्यमो हितः ॥ * ॥
वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते ।
स्निग्धरूक्षस्तथास्निग्धोऽरूक्षश्चाप्युपकल्पितः ॥
आमाशयपते वाते कफे पक्काशयाश्रिते ।
रूक्षपूर्ब्बो हितः स्वेदः स्नेहपूर्ब्बस्तथैव च ॥
वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु वा न वा ।
मध्यमं वंक्षणौ शेषमङ्गावयवमिष्टतः ॥
सुशुद्धैलक्तकैः पिण्ड्या गोधूमानामथापि वा ।
पद्मोत्पलपलाशैर्व्वा स्वेदः सम्बृत्य चक्षुषी ॥
मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि ।
जलार्द्रैर्जलजैर्हस्तैः खिद्यतो हृदयं स्पृशेत् ॥
शीतशूलव्युपरमे स्तम्भगौरषनिग्रहे ।
संजाते मार्द्दवे स्वेदे स्वेदनाद्विरतिर्म्मता ॥
पिपासा गात्रसदनं मूर्च्छापित्तप्रकोपणम् ।
दाहः स्वेदोऽङ्गदौर्ब्बल्यमतिस्विन्नस्य लक्षणम् ॥
पृष्ठ ५/४९६
उक्तस्तस्याशितीये यो ग्रैष्मिकः सर्व्वशो विधिः ।
सोऽतिस्विन्नस्य कर्त्तव्यो मधुरस्निग्धशीतलः ॥”
अशितीये अशनाध्याये ॥ * ॥
“कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम् ।
पित्तिनां सातिसाराणां रूक्षाणां मधुमेहि-
नाम् ॥
विदग्धभृष्टव्रध्नानां विषमद्यविकारिणाम् ।
तान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहि-
नाम् ॥”
तान्तानां क्लान्तानाम् ।
“तृषतां क्षुत्परीतानां क्रुद्धानां शोचतामपि ।
कामल्युदरिणाञ्चैव क्षतानामाढ्यरोगिणाम् ॥
दुर्ब्बलातिविशुष्काणामुपक्षीणौजसान्तथा ।
भिषक् तैमिरिकाणाञ्च न स्वेदमवतारयेत् ॥ * ॥
प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे ।
कर्णमण्यां शिरःशूले स्वरभेदे गलग्रहे ॥
अर्द्दितैकाङ्गसर्व्वाङ्गपक्षाघाते विनामके ।
कोष्टानाहविबन्धेषु मूत्राघाते विजृम्भके ॥
पार्श्वपृष्ठकटीकुक्षिसंग्रहे गृध्रसीषु च ।
मूत्रकृच्छ्रे महत्त्वे च मुष्कयोरङ्गमर्द्दके ॥
पादोरुजानुजङ्क्षार्त्तिसंग्रहे श्वयथावपि ।
खल्वौष्वामे च शीते च वेपथौ वातकण्टके ॥
सङ्कोचायामशूलेषु स्तम्भगौरवसुप्तिषु ।
सर्व्वेष्वेषु विकारेषु स्वेदनं हितमुच्यते ॥ * ॥
तिलमाषकुलत्थान्नघृततैलामिषौदनैः ।
पायसैः कृशरैर्म्मांसैः पिण्डस्वेदान् प्रयोजयेत् ॥
गोखराश्ववराहोष्ट्रशकृद्भिः सतुषैर्यवैः ।
सिकतापांशुपाषाणकरीषायसपूटकैः ॥
श्लैष्मिकान् स्वेदयेत् पूर्व्वैर्व्वातिकान् समुपाचरेत् ॥
द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि ॥
भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च ।
विधूमाङ्गारतप्तेष्वभ्यक्तः स्विद्यति ना मुखम् ॥
ग्राम्यानूपौदकं मांसं पयोवस्तशिरस्तथा ।
वराहमध्यपित्तासृक्स्नेहवत्तिलतण्डुलाः ॥
इत्येतानि समुत्क्वाथ्य नाडीस्वेदं पयोजयेत् ।
देशकालविभागज्ञो युक्त्यापेक्षी भिषक्तमः ॥ * ॥
वीरणामृतकैरण्डशिग्रुमूलकसर्षपैः ।
वासावंशकरञ्जार्कपत्रैरश्मन्तकस्य च ॥
शोभाञ्जनकशौवीरमालतीसुरसार्जकैः ।
पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदंप्रयोजयेत् ॥
भूतीकपञ्चमूलाभ्यां सुरया दधिमस्तुना ।
मूत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत् ॥ * ॥
एत एव च निर्यहाः प्रयोज्या जलकोष्ठके ।
स्वेदनार्थं घृतक्षीरतैलकोष्ठांश्च कारयेत् ॥
गोधूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः ।
सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते ॥ * ॥
गन्धैः सुरायाः किट्टेन जीवन्त्या शतपुष्पया ।
उमया कुष्ठतेलाभ्यां युक्तया चोपनाहयेत् ॥ * ॥
चर्म्मभिश्चोपनद्धव्यः सलोमभिरपूतिभिः ।
उष्णवीर्य्यैरलाभे तु कौषेयाविकशाटकैः ॥
रात्रौ बद्धं दिवा मुञ्चेत् मुञ्चेद्रात्रौ दिबाकृतम् ।
विदाहपरिहार्थं स्यात् प्रकर्षस्तु शीतलैः ॥
सङ्करः १ प्रस्तरो २ नाडी परिषेको ४ ऽवगाह-
नम् ५ ।
जेन्ताको ६ ऽश्मघनः ७ कर्षुः ८ कुटी ९ भूः १०
कुम्भिरेव च ११ ॥
कूपो १२ होलाक १३ इत्येते स्वेदयन्ति त्रयोदश ।
ते यथावत् प्रवक्ष्यन्ते सर्व्व एवानुपूर्ब्बशः ॥”
इति ॥ * ॥
तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्व्वा पिण्डैर्ययोक्तै-
रुपस्वेदनं सङ्करस्वेद इति विद्यात् ॥ १ ॥ शूक-
शमीधान्यपुलाकानां वेशवारपायसकृशरोत्-
कारिकादीनां वाप्रस्तरे कौषेयाविकोत्तरप्रच्छदे
पञ्चाङ्गुलोरुवुकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्व्व-
गात्रस्य शयानस्योपरि स्वेदनं प्रस्तरस्वेद इति
विद्यात् ॥ २ ॥ स्वेदनद्रव्याणां पुनर्मूलफलपत्र-
भङ्गादीनां मृगशकुनिपिशितशिरःपदादीना-
मुष्णस्वभावानां वा यथार्हमम्ललबणस्नेहोप-
संहितानां मूत्रक्षीरादीनां वा कुम्भ्यां वास्पमनु-
द्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदल-
करञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया
व्यामदीर्घया व्यामार्द्धदीर्घया वा व्यामचत-
र्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्व्वतो
वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्व्वा विनमितया
वातहरसिद्धस्नेहाभ्यक्तगात्रस्य वास्पमुपहरेत् ।
वास्पो ह्यनूर्द्ध्वगामीविहतचण्डवेगस्त्वचमविदहन्
सुखं स्वेदयतीति नाडीस्वेदः ॥ ३ ॥ वातिकोत्तर-
वातिकानां पुनर्म्मूलादीनामुत्क्वाथैः सुखोष्णैः
कुम्भीर्व्वषूनिकाः प्रनाडीर्व्वा पूरयित्वा यथार्ह-
सिद्धस्नेहाभ्यक्तगात्रं वस्त्राबच्छन्नं परिषेचये
दिति परिषेकः ॥ ४ ॥ वातहरोत्क्वाथक्षीर-
घृततैलपिशितरसोष्ण्णसलिलकोष्ठकावगाहस्तु
यथोक्त एवावगाहः ॥ ५ ॥ अथ जेन्ताकं चिकीर्ष
र्भूमिं परीक्षेत । तत्र पूर्ब्बस्यां दिश्युत्तरस्यां वा
गुणवति प्रशस्ते भूमिभागे कृष्णमृत्तिके सुवर्ण-
वर्णमृत्तिके वा परीवापपुष्करिण्यादीनां जला-
शयानामन्यतमस्य कूले दक्षिणे षश्चिमे वा
सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौ वा
अरत्नीः सुपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं
वा अभिमुस्वतीर्यं कूटानारं कारयेत् । उत्सेध-
विस्तारतः परमरत्नीः षोडश समन्तात् सुवृतं
मृत्कर्म्मसम्पन्नमनेकवातायनम् । अस्य कूटा-
गारस्यान्तः समन्ततो भित्तिमरत्रि विस्तारोत-
सेधां पिण्डिकां कारयेत् आकपाटाट् । मध्ये
चास्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं
मृण्मयं कन्दूसंस्यानं बहुसूक्ष्मच्छिद्रमङ्गारको-
ष्ठकस्तम्भं सपिधानं कारयेत् । तञ्च खादिरा-
णामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदी-
पयेत् । स यदा जानीयात् साधु दग्धानि
काष्ठानि गतधूमानि अवतप्तञ्च केवलमग्निना
तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति तत्रैवं
पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्न प्रवे-
शयेत् । प्रवेशयंश्चैनमनुशिष्यात् सीम्य प्रविश-
कस्याणायारोग्याय चेति । प्रविश्य चैनां
पिण्डिकामधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं
शयीथाः । न च त्वया स्वेदमूर्च्छापरीतेनापि
सता पिण्डिकैषा विमोक्तव्या आप्राणोच्छासात् ।
भ्रश्यमानो हतः पिण्डिकावकाशात् द्वार-
मनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यःप्राणान्
जह्याः । तस्मात् पिण्डिकामेनां न कथञ्चन
मुञ्चेथाः । त्वं यदा जानीयाः विगताभिष्यन्द-
मात्मानं सम्यक् प्रस्रुतस्वेदपिच्छं सर्व्वस्रोतो-
विमुक्तं लघुभूतमपगतविबद्धस्तम्भसुप्तिवेदना-
गौरवमिति ततस्तां पिण्डिकामनुसरन् द्वारं
प्रपद्येथाः । निष्क्रम्य च न सहसा चक्षुषोः
परिपालनार्थं शीतोदकमुपस्पृशेथाः । अपगत-
सन्तापक्लमस्तु मुहूर्त्तात् सुखोष्णेन वारिणा
यथान्यायं परिषिक्तोऽश्नीयाः । इति क्षेन्ताकः
स्वेदः ॥ ६ ॥
“शयानस्य प्रमाणेन घनामश्ममयीं शिलाम् ।
तापयित्वा मारुतघ्नैर्द्दारुभिः संप्रदीपितैः ॥
व्यपोह्य सर्व्वानङ्गारान् प्रोक्ष्य चैवोष्णवारिणा ।
तां शिलामथ कुर्व्वीत कौशेयाविकसस्तरात् ॥
तस्यां स्वभ्यक्तसर्व्वाङ्गः शयानः स्विद्यते सुखम् ।
रौरवाजिनकौशेयप्रावाराद्यैः सुसंवृतः ॥
इत्युक्तोऽश्मघनस्वेदः कर्षूस्वेदः प्रवक्ष्यते ॥ ७ ॥
खानयेत् शयनस्याधः कर्षूस्थानविभागवित् ।
दीप्तैरधूमैरङ्गारैस्तां कर्षूंपूरयेत्ततः ॥
तस्यामुपरि शय्यायां स्वपन्स्विद्यति ना सुखम् ॥ ८
अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम् ।
घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः संप्रलेपयेत् ॥
कुटीमध्येभिषक् शय्यां स्वास्तीर्णाञ्चोपकल्पयेत्
प्रावाराजिनकौषेयकुथकम्बलगोलकैः ॥
हसन्तिकाभिरङ्गारैः पूर्णाभिस्ताञ्च सर्व्वशः ।
परिवार्य्यान्तरारोहेऽभ्यक्तः स्विद्यति ना
सुखम् ॥ ९ ॥
य एवाश्मघनस्वेदविधिर्भूमौ स एव तु ॥ १० ॥
प्रशस्तायां निवातायां समायामुपदिश्यते ।
कुम्भीं बातहरक्वाथपूर्णां भूमौ निखातयेत् ॥
अर्द्धभागं त्रिभागं वा शयनं तत्र चोपरि ।
स्थापयेदासनं वापि नातिसान्द्रपरिच्छदम् ॥
अथ कुम्भ्यां सुसन्तप्तान् प्रक्षिपेदयसो गुडान् ।
पाषाणान् बोष्मणा तेन तत्स्थः स्विद्यति ना
सुखम् ॥ ११ ॥
सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः ।
कूपं शयनविस्तारं द्विगुणञ्चापि वेधतः ॥
देशे निबाते शस्ते च कुर्य्यादन्तः सुमार्जितम् ।
हस्त्यश्वगोखरीष्ट्राणां करीषैर्दग्धपूरिते ॥
स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तः स्विद्यति ना
सुखम् ॥ १२ ॥
धीतीकान्तु करीषाणां यथोक्तानां प्रदीपयेत् ॥
धीतीकां गुण्डिकाम् ।
शयनान्तःप्रमाणेन शस्यामुपरि तत्र च ।
सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत् ॥
स्ववच्छन्नः सुखं यत्राभ्यक्तः स्विद्यति ना सुखत् ।
पृष्ठ ५/४९७
होलाफस्वेद इत्येष सुखप्रोक्तो महर्षिणा ॥ १३ ॥
इति त्रयोदशविधः स्वेदोऽग्निगुणसंश्रयः ॥ * ॥
व्यायाम उष्ममदनं गुरुप्रावरणं क्षुधा ।
बहुपानं भयक्रोधावुपनाहाहवातणाः ।
स्वेदयन्ति दशैतानि नरमग्निगुणादृते ॥
इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च ।
एकाङ्गसर्व्वाङ्गगतः स्निग्धो रूक्षस्तथैव च ॥
इत्येतत् द्विविधं द्वन्द्वं स्वेदमुद्दिश्य कीत्तितम् ।
स्निग्धस्वेदैरुपक्रम्य स्विन्नः पथ्याशनो भवेत् ।
तदहः स्विन्नमात्रस्तु व्यायामं वर्जयेन्नरः ॥”
इति ॥ * ॥
तत्र श्लोकाः ।
“स्वेदो यथा कार्य्यकरो हितो येभ्यश्च यद्विधः ।
यत्र देशे यथायोग्यो देशो रक्ष्यश्च यो यथा ॥
स्विन्नातिस्विन्नरूपाणि तथातिस्विन्नभेषजम् ।
अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना ॥
त्रयोदशविधः स्वेदो विना दशविधोऽग्निना ।
संग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः ॥
स्वेदाधिकारे तद्वाच्यमुक्तमेतन्महर्षिणा ।
शिष्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्व्वसुः ॥”
इति चरकीयस्वेदाध्यायः समाप्तः ॥ * ॥
अथ स्वेदविधिः ।
“स्वेदश्चतुर्व्विधः प्रोक्तस्तापोष्मस्वेदसंज्ञितः ।
उपनाहो द्रवस्वेदः सर्वे वातार्त्तिहारिणः ॥”
तापस्वेदः उष्मस्वेदश्च ताभ्यां संज्ञितः । उप-
नाहः उपनाहस्वेदः ।
“स्वेदौ तापोष्णजौ प्रायः श्लेष्मघ्नौ समदीरितौ ।
उपनाहस्तु वातघ्नः पित्तरोगे द्रवो हितः ॥”
द्रवो द्रवस्वेदः ।
“महाबले महाव्याधौ शीते स्वेदो महान् स्मृतः ।
दुर्ब्बले दुर्ब्बलस्वेदो मध्यमे मध्यमो मतः ॥
वलासे रूक्षणः स्वेदो रूक्षः स्निग्धः कफा-
निले ॥
रूक्षणः रूक्षयतीतिः रूक्षणः नन्द्यादित्वात्
अनप्रत्ययः ।
“कफमेदोवृते वाते कोष्णगेहं रवेः करात् ।
नियुद्धं मार्गगमनं गुरुप्रावरणं ध्रुवम् ॥
चिन्ताव्यायामभारांश्च सेवेतामयमुक्तये ।
येषां नस्यं प्रदातव्यं वस्तिश्चापि हि देहिनाम् ।
शोधनोयाश्च ये केचित् पूर्ब्बस्वेद्याश्च ते मताः ।
स्वेद्याः ऊर्द्ध्वं त्रयोऽपोह भगन्दर्य्यर्शसस्तथा ।
अश्मर्य्या चातुरो जन्तुः शमयेच्छस्त्रकर्म्मणः ॥”
शस्त्रकर्म्मण ऊर्द्ध्वं पश्चाच्चति सुश्रुते ।
“पश्चात् स्वेद्या हृते शल्ये मूढगर्भगदे तथा ।
काले प्रजातेऽकाले बा पश्चात् स्वेद्या
नितम्बिनी ।
सर्व्वान् स्वेदान्निवाते च जीर्णेऽन्ने वा विचा-
रयेत् ॥
स्वेदाद्धातुस्थिता दोषा स्वेहक्लिन्नस्य देहिनः ।
द्रवत्वं प्राप्य कोष्ठान्तर्गत्वा यान्ति विरेकिताम् ॥
स्नेहाभ्यक्तशरीरस्य शीतेराच्छाद्य चक्षुषी ।
खेद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत् ॥
शीतैरार्द्रवस्त्रादिभिः ॥
“अजीर्णो दुर्ब्बलो मेही क्षतक्षीणः पिपासितः ।
अतीमारी रक्तपित्ती पाण्डुरोगी तथोदरी ।
मेदस्वी गर्भिणी चैव न हि स्वेद्या विजानता ॥
स्वेदादेषां यान्ति देहा विनाशं
नो साध्यत्वं यान्ति चैषां विकाराः ॥
एतानपि मृदुस्वेदैः स्वेदसाध्यानुपाचरेत् ।
मृदुस्वेदं प्रयुञ्जीत तथा हृन्मष्कदृष्टिषु ॥
अतिस्वेदात् सन्धिपीडा दाहतृष्णा क्लमो भ्रमः ।
पित्तासृक्पिडकाकोपस्तत्र शीतैरुपाचरेत् ॥”
तत्र तापस्वेदमाह ।
“तेषु तापाभिधः स्वेदो बालुकावस्त्रपाणिभिः ।
प्रतप्तैरम्लमिक्तैश्च कायेऽलक्तकवेष्टिते ॥” * ॥
उष्णस्वेदमाह ।
“अथवा वातनिर्णाशद्रव्यक्वाथरसादिभिः ।
उष्णैर्घटं पूरयित्वा पार्श्वे च्छिद्रं विधाय च ॥
विमुड्यास्यं त्रिखण्डञ्च धातजां काष्ठजामुत ।
षडङ्गुलास्यां गोपुच्छां नाडीं युञ्ज्यात् द्विह-
स्तिकाम् ॥
सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम् ।
हस्तिशुण्डिकया नाद्या स्वेदयेद्वातरोगिणम् ॥”
त्रिखण्डमिति स्वेदसौकर्य्यार्थम् । षडङ्गुलास्या-
मिति मूले षडङ्गुलविशालमुखाम् । गोपुच्छमिव
क्रमकृशां तेनाग्रे गोपुच्छाग्रपरिमाणेन कृशां
नाडीं अतः सरन्ध्राम् । द्विहस्तिकां हस्तद्वय-
परिमाणाम् । हस्तिशुण्डिकयेति हस्तिशुण्डवत्
क्रमकृशत्वात् नाड्या इयं संज्ञा ।
“पुरुषायाममात्रान्तु भूमिं संमार्ज्ज्य खादिरः ।
काष्ठैर्द्दग्ध्वा तथाभ्युक्ष्य क्षीरधान्याम्लवारिभिः ॥
वातघ्नपत्रैराच्छाद्य शयान स्वेदयेन्नरम् ।
एवं माषादिभिः स्विन्नैः शयानः स्वेदमाचरेत् ॥”
उपनाहस्वेदः ।
“तथोपनास्वेदञ्च कुर्य्याद्वातहरौषधैः ।
प्रदिह्य देहं वातार्त्तं क्षीरमांसरसादिभिः ॥
अम्लपिष्टैः सलवणैः सुखोष्णैः स्नेहसंयुतैः ।
ततो ग्राम्यान्पमांसैर्जीवनीयगणेन च ॥
दधिसौवीरकक्षीरैर्वीरतर्व्वादिना तथा ।
कुलत्थमाषगोधूमैरतसीतिलसर्षपैः ॥
शतपुष्पादेवदारुशेफालीस्थूलजीरकैः ।
एरण्डमूलबीजैश्च रास्नामूलकशिग्रुभिः ॥
मिसिकृष्णाकुठेरैश्च लवणैरम्लसंयुतैः ।
प्रसारण्यश्वगन्धाभ्यां बलाभिर्द्दशमूलकैः ॥
गुडूच्या वानरीबीजैर्यथालाभं समाहृतैः ।
क्षणैः स्विन्नैश्च वस्त्रेण बद्धैः संस्वेदयेन्नरम् ॥
महाशाल्वनसंज्ञोऽयं योगः सर्व्वानिलार्त्ति-
हृत् ॥”
अस्यायमर्थः । उपनाहस्वेदञ्च कुर्य्यात् । केन
प्रकारेण इत्याकाङ्क्षायां तत्प्रकारमाह वातहरौ-
षधैः । कथंभूतैः । अम्लपिष्टैः अम्लेन काञ्जिक-
तक्रादिना पिष्टैः सलवणैः स्नेहयुक्तैः क्षोरमांस-
रसान्वितैः । सुखोष्णैः । वातात्तदेहे प्रदिह्य
प्रलिप्य स्वेदयेदित्यर्थः । अथवास्तेन संप्रिष्टैः
कोष्णैः सूक्ष्मपटस्थितैः । भेषजैः स्वेदयेत् ।
किंवा स्विन्नैः कोष्णैः पटस्थितैः ॥ * ॥ द्रवस्वेद-
माह ।
“द्रवस्वेदस्तु वातघ्नद्रव्यक्वाथेन पूरिते ।
कटाहे कोष्ठके वापि सूपविष्टोऽवगाहयेत् ॥
सौवर्णं राजतं वापि ताम्रं लौहञ्च दारुजम् ।
कोष्ठकं तत्र कुर्व्वीतोच्छ्राये षड्विंशदङ्गुलम् ।
आयामे तावदेव स्याच्चतुष्कोणस्तु चिक्वणम् ॥”
पक्षान्तरमाह ।
“नाभेः षडङ्गुलं यावन्मग्नः क्वाथस्य धारया ।
कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत् स्निग्धतनु-
र्नरः ॥”
अयमर्थः । प्रथमतो वातघ्नद्रव्यक्वाथेन कटाहं
पूरिते कोष्ठके कटाहे वा सूपविष्टस्तिष्ठेत्
अथवा नाभेः षडङ्गुलमूर्द्ध्वं यावत् क्वाथे मग्न
उपविष्टः । पश्चात् क्वाथस्य धारया स्कन्धयोः
सिच्यभानस्तिष्ठेत् । तथा च कोष्ठकं परिपूर्णं
भवतीत्यर्थः । क्वाथपक्षे प्रथमतः स्नेहाभ्यक्त-
तनुरुपविशेत् ।
“मुहूर्त्तैकं समारभ्य यावत् स्यात्तच्चतुष्टयम् ।
तावत्तदवगाहेत यावदारोग्यनिश्चयम् ॥
एवं तलेन दुग्धेन सर्पिषा स्वेदयेन्नरम् ।
एकान्तरो द्व्यन्तरो वा युक्तः स्नेहोऽवगाहने ॥
एतावता क्वाथो दुग्धञ्च नित्यमेव युज्यते ॥”
स्नेहस्तु दिनमेकं द्वे वा दिने गमयित्वा युक्तः ।
अग्निमान्द्यशङ्कयेति भावः ।
“सिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयन् ।
शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ॥
जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङ्कुरादयः ।
तथव धातुवृद्धिर्हि स्नेहसिक्तस्य जायते ॥
नातः परतरः कश्चिदुपायो वातनाशनः ।
शीतशूलव्युपरमे स्त्रम्भगौरवनिग्रहे ।
दीप्तेऽग्नी मार्द्दवे जाते स्नेदनाद्विरतिर्मता ॥”
इति भावप्रकाशः ॥

स्वेदचूषकः, पुं, (स्वेधं चूषति पिबतीति । चूष +

ण्वुल् ।) शीतलवायुः । इति केचित् ॥

स्वेदजः, त्रि, (स्वेदात् जायते इति । जन + डः ।)

स्वेदाज्जातजन्तुः । क्रमिदंशादिः । इत्यमरः ।
३ । १ । ५१ ॥ तद्गणा यथा, --
“संस्वेदजविकाराश्च यथा येभ्यो भवन्ति च ।
मानुषस्वेदमलजा मक्षिकाद्या भवन्ति च ॥
नवमेघप्रसिक्तायां पिपालिकगणादयः ।
सस्वेदजापि विज्ञेया वृक्षगोपशुजन्तवः ॥
समिद्भ्या माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः ।
जायन्त क्रिमया विप्राः काष्टभ्यो घुणकादयः ॥
तथा शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति च ।
संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥
गोभ्यो हि महिषेभ्यश्च मानुषेभ्यश्च जन्तवः ।
मत्स्यादिध्यश्च विविधा अन्तःकुक्षौ विशषतः ॥
अथान्यानि च सूक्ष्माणि सूक्ष्मयूकास्तथैव च ।
गोभ्याऽश्वेभ्यस्तथा चैव अष्टापदकिनीनकाः ॥
मक्षिकाणां विकाराश्च उत्सृष्टोदककर्दमैः ।
पृष्ठ ५/४९८
शरावति विकाराश्च करीषेभ्यो भवन्ति हि ॥
एवमादिरसख्यातो गणः संस्वेदजो मया ।
समासान्निहितो ह्येष प्राक्कर्म्मवशजः स्मृतः ॥”
इति वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥

स्वेदनं, क्ली, (स्विद् + ल्युट् ।) स्वेदः । इति

मेदिनी ॥ स्वेदनयन्त्रं यथा, --
“निबद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणाम्बरे ।
रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥
सन्धानपूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् ।
अधस्ताज्ज्वालयेद्वह्निं तत्तदुक्तक्रमेण हि ।
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥”
सन्धानं काञ्जिकादि ।
“साम्बुस्यालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च ।
पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं स्मृतम् ॥”
इति भावप्रकाशः ॥
(स्वेदयतीति । स्विद् + णिच् + ल्युः । स्वेदके,
त्रि । यथा, सुश्रुते । ३ । ४ ।
“स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनख-
नयनतालुजिह्वोष्ठपाणिपादतल इत्यादि ॥”

स्वेदनिका, स्त्री, (स्वेदनमस्त्यस्या इति । ठन् ।)

कन्दुः । इति हेमचन्द्र ॥ भर्ज्जनपात्रम् । भर्ज्जन-
शालाच ॥

स्वेदनी, स्त्री, (स्विद्यतेऽनयेति । स्विद् + ल्युट् ।

ङीप् ।) लौहमयपात्रम् । ताओया इति
लोहता इति च ख्यातम् । इति भरतः ॥
तत्पर्य्यायः । कन्दुः २ । इत्यमरः । २ । ९ । ३०
स्वेदनिका ३ । इति हेमचन्द्रः ॥

स्वेदमलोज्झितदेहः, पुं, (स्वेदमलेन उज्झितः

देहो यस्य ।) सर्व्वकल्पीयजिनात्तमः । इति
हेमचन्द्रः ॥ स्वेदमलत्यक्तकायश्च । तद्युक्ते, त्रि ॥

स्वेदविप्रुट्, [ष्] स्त्री, घर्म्मबिन्दुः । स्वेदस्य विप्रुट्

बिन्दुः । इति षष्ठीतत्पुरुषसमासनिष्पन्ना ॥

स्वैरः, त्रि, (स्वेन स्वातन्त्र्येण ईर्त्ते इति । ईर गतौ

+ अच् । “स्वादीरेरिणोः ।” ६ । १ । ८९ ।
इत्यस्य वार्त्तिकोक्त्या वृद्धिः ।) स्वच्छन्दः ।
(यथा, रघुः । २ । ५ ।
“अव्याहतैः स्वैरगतैः स तस्याः
सम्राट् समाराधनतत्परोऽभूत् ।”)
मन्दः । इति मेदिनी ॥ (यथा, महाभारते ।
४ । ६६ । ४९ ।
“अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा ।
आकीर्य्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥” * ॥
वृथालापः । यथा, तत्रैव । १ । ४२ । २ ।
“नैवान्यथेदं भविता पितरेष ब्रवीमि ते ।
नाहं मृषा ब्रवीम्येव सैरेष्वपि कुतः शपन् ॥”)

स्वेरता, स्त्री, (स्वैरस्य भावः । स्वैर + तल् ।)

स्वैरिता । इत्यमरटीकायां रायमुकुटः । ३ । २ । २ ॥

स्वैरिणी, स्त्री, (स्वेनैव ईरयितुं शीलमस्याः ।

ईर + णिनिः । ङीप् । स्यादीरेरिणारिति
वृद्धिः ।) व्यभिचारिणी इत्यमरः । २ । ६ । ११ ॥
सा तु चतुःपुरुषगामिनी (यथा, महाभारते ।
१ । १२३ । ७३ -- ७४ ।
“पाण्डुस्तु पुनरेवैनां पुत्त्रलोभात् महायशाः ।
वक्तुमैच्छद्धर्म्मपत्नीं कुन्ती त्वेनमथाव्रवीत् ॥
नातश्चतुर्थं प्रमवमापत्स्वपि वदन्त्युत ।
अतः परं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत् ॥”)

स्वैरिता, स्त्री, (स्वैरिणो भाव । तल् । टाप् ।)

स्वच्छन्दता । तत्पर्य्यायः । यदृच्छा २ । इत्य-
मरः । ३ । २ । २ ॥

स्वैरिन्ध्नी, स्त्री, परवेश्मस्था स्ववशा शिल्पकारिणी

नारी । इति शब्दरत्नावली ॥ परगृहस्था
स्वतन्त्रा प्रसाधनानुलेपनादिशिल्पकारिणीति
विशेषणत्रययुक्ता या सा सैरिन्ध्री । स्वैरं
स्वाच्छन्द्यं धरतीति स्वैरिन्ध्री निपातनात् ।
स्वैरिन्ध्री परवेश्मस्था शिल्पकृत् स्ववशा
स्त्रियाम् । इति दन्त्यादौ रभसः । इत्यमर-
टीकायां भरतः ॥ अस्या रूपान्तरं सैरन्ध्री
सैरिन्ध्रिः इति च टीकान्तरम् ॥

स्वैरी, [न्] त्रि, स्वेनैव ईरितुं शीलमस्य । ईर

गतौ + णिनिः । स्वतन्त्रः । इत्यमरः । ३ । १ । १५ ॥
(यथा, महाभारते । १३ । १४२ । २१ ।
“सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः ।
स्वैरिणो दारसंयुक्तास्तेषां धर्म्मः कथं स्मृतः ॥”

स्वोपार्ज्जितः, त्रि, (स्वेनोपार्ज्जितः ।) स्वयम-

र्ज्जितः । स्वयमुपात्तः । यथा, पिता चेत् पुत्त्रान्
विभजेत् तस्य स्वेच्छा स्वयमुपात्तेऽर्थे पत्तामहे
तु पितापुत्त्रयास्तुल्यं स्वामित्वम् । इति विष्णु-
सूत्रम् । अपि च । मनुविष्णू ।
“पतृकन्तु पिता द्रव्यमनवाप्तं यदाप्नुयात् ।
न तत् पुत्त्रैर्भजेत् सार्द्धमकामः स्वयमर्जितम् ॥”
तत् स्वयमर्जितमिति कृत्वा न विभजेदित्यन्वयः ।
एतत्तु स्थावरविषयम् । मण्यादावनुद्धृतेऽपि पितु-
रेव स्वाच्छन्द्यम् ।
“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् ।
तसम्भूय सुतान् सर्व्वान् न दानं न च विक्रयः ॥
पितुः प्रसादात् भुज्यन्ते वस्त्राण्याभरणानि च ।
स्थावरन्तु न भुज्येत प्रसादे सति पतृके ॥”
इति मिताक्षराधृतवचनमपि पितामहधन
परम् । पित्रा च स्वोपार्जितं स्थावरं दत्तं
भुज्यत एवेति । अन्यथा मूलभूतश्रुत्यन्तर-
कल्पनापत्तः । इति दायतत्त्वम् ॥ * ॥ स्वापा-
र्जितं द्विविधम् । पित्रादधनाद्युपधातेन स्वेनो-
पार्जितम् । तदनुपघातेन उपार्जितञ्च । तद्धन-
विभागविधिर्यथा । व्यासः ।
“अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद्धनम् ।
दायादभ्यो न तद्दद्यात् विद्यालब्धञ्च यद्भवेत् ॥”
कात्यायनः ।
“द्व्यंशहरोऽर्द्धहरो वा पुत्त्रवित्तार्जनात् पिता ।”
पुत्त्रवित्तार्जनात् । कृद्विहितो भावा द्रव्यवत्
प्रकाशते इति न्य्ययात् पुत्त्रार्जितावत्तात् पितु-
र्द्व्यंशित्वं पितृधनानुपघातविषयं भ्रातृधनोप-
घातविंषयञ्च । अर्जकस्य तु द्व्यंशित्वम् । भ्रातृ-
धनोपघाते तु तेषामप्येकांशित्वं वक्ष्यमाणवच-
नात् । पितुरर्द्वहरत्वन्तु पितृद्रव्योपघाताद्गुण-
वत्त्वाद्वा इति दायभागः ॥ अनुपघाते पिता
द्व्यंशहरः । अर्जकत्वात् स्वयमपि द्व्यंशहरः ।
इतरेषामनंशित्वम् । भ्रातृद्रव्योपघाते तु तेषा-
मप्येकांशः । इति द्ब्यंशार्द्धांशयोर्भेदकथनम् ॥ * ॥
साधारणधनार्जितेऽपि विशेषमाह व्यासः ।
“साधारणं समाश्रित्य यत्किञ्चित् वहनायुधम् ।
शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ।
तस्य भागद्वयं देयं शेषास्तु समभागिनः ॥”
अत्र भ्रातर इत्युपलक्षणं पितृव्यादयोऽपि
बोद्धव्याः । तस्यार्जकस्य । साधारणोपघाते
यस्य यावतोऽंशस्थाल्पस्य महतो वा उपघात-
स्तस्य तदनुसारेण भागकल्पना कार्य्या । इति
दायभागः ॥ इति च दायतत्त्वम् ॥

स्वोरसः, पुं, शिलापिष्टकल्कः । यथा, --

“स्वोरसः स्वरसः प्रोक्तः कल्को दृषदि पेषितः ॥”
इति शब्दचन्द्रिका ॥