सामग्री पर जाएँ

शब्दकल्पद्रुमः/सुराजा

विकिस्रोतः तः
पृष्ठ ५/३८३

सुराजा, [न्] पुं, (सुष्ठु पूजितो राजा । “न

पूजनात् ।” ५ । ४ । ६९ । इति न टच् ।) शोभनो
राजा । इति मुग्धबोधव्याकरणम् ॥ (सुष्ठु-
राजा यस्य । सुन्दरनृपतियुक्ते देशादौ, त्रि ।
यथा, --
“सुराज्ञि देशे राजन्वान् स्यात्ततोऽन्यत्र
राजवान् ॥”
इत्यमरः । २ । १३ ॥)

सुराजीवी, [न्] पुं, सुरया जीवतीति । जीव +

णिनिः ।) शौण्डिकः । यथा, --
“कल्पपालः सुराजीवी शौण्डिको मण्डहारकः
वारिवासः पानबणिक् ध्वजो ध्वज्यासुतीबलः ॥
इति हेमचन्द्रः ॥
(यथा याज्ञवल्क्यः । १ । १६४ ।
“चैलधावसुराजीविसहोपपतिवेश्मनाम् ॥”)

सुरापः, (त्रि, सुरां पिबतीति । पा + कः ।)

सुरापानकर्त्ता । यथा, --
“ब्रह्महा जायते यक्ष्मी सुरापः श्यावदन्तकः ।
सुवर्णहारी कुनखी दुश्चर्म्मा गुरुतल्पगः ॥”
इति प्रायश्चित्तविवेकः ॥

सुरापगा, स्त्री, (सुराणां आपगा ।) गङ्गा ।

इति जटाधरः ॥ (यथा, किराते । ५ । ४० ।
“इह सनियमयोः सुरापगाया-
मुषसि सयावकसव्यपादलेखा ।
कथयति शिवयोः शरीरयोगं
विषमपदा पदवी विवर्त्तनेषु ॥”)

सुरापाणाः, पुं, भूम्नि, (सुरा पानं येषाम् । “पानं

देशे ।” ८ । ४ । ९ इति णत्वम् ।) पूर्व्वदेशस्थाः ।
यथा । सुरापाणाः प्राच्याः । इति संक्षिप्तसार-
टीकायां गोयीचन्द्रः

सुरापा(णं)नं, क्ली, (सुरायाः पानम् । “वा भाव-

करणयोः ।” ८ । ४ । १० । इति विभाषया
णत्वम् ।) मद्यपानम् । यथा, --
“व्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥”
इति प्रायश्चित्तविवेकः ॥
अवदंशः । इति शब्दरत्नावली ॥

सुराभागः, पुं, (सुराया भागः ।) सुराया अग्र-

भागः । इति शब्दचन्द्रिका ॥

सुरामण्डः, पुं, (सुराया मण्डः ।) सुराया अग्र-

भागः । तत्पर्य्यायः । कारोत्तरः २ । इत्य-
मरः । २ । १० । ४३ ॥ कारोत्तमः ३ । इति
तट्टीका ॥ कालोत्तरः ४ सुराभागः ५ । इति
शब्दचन्द्रिका ॥

सुरारिः, पुं, (सुराणां अरिः ।) असुरः । इति

शब्दरत्नावली ॥ (यथा, कुमारे । ३ । ९ ।
“प्रसीद विश्राम्यतु वीर वज्रं
शरैर्म्मदीयैः कतमः सुरारिः ।
विभेतु मोघीकृतबाहुवीर्य्यः
स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥”)

सुरारिहन्ता, [ऋ] पुं, (सुरारीणां हन्ता ।)

विष्णुः । यथा, --
मैत्राद्यपादे स्वपितीह विष्णु-
र्व्वैष्णव्यमध्ये परिवर्त्तते च ।
पौष्णावसाने च सुरारिहन्ता
प्रबुध्यते मासचतुष्टयेन ॥”
इति तिथ्यादितत्त्वम् ।

सुरार्हं, क्ली, (सुरान् अर्हतीति । अर्ह + अण् ।)

हरिचन्दनम् । इति राजनिर्घण्टः ॥ स्वर्णम् ।
इति कचित् ॥

सुरालयः, पुं, (सुराणां आलयः ।) सुमेरुः । इत्य-

मरः । १ । १ । ५२ ॥ स्वर्गः । यथा गारुडे ।
“गङ्गां येऽत्रावगाहन्ते विधिना च नराधिप ।
चतुर्युगसहस्रं ते न पतन्ति सुरालयात् ॥”
इति तिथ्यादितत्त्वम् ॥
(देवमन्दिरम् । यथा, भागवते । ७ । १५ । ४९ ।
“पूर्त्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥”
सुराया आलयः ।) सुरानिलयश्च ॥

सुराष्ट्रः, पुं, (शोभनं राष्ट्रं यस्य ।) देशवि-

शेषः । सुरत् इति ख्यातः । स तु भारतवर्षस्य
प्रतोच्यां दिशि वर्त्तते । इति सौराष्ट्रिकशब्द-
टीकायां भरतः ॥ (यथा महाभारते । ३ । ८८ । १९ ।
“सुराष्ट्रे ष्वपि वक्ष्यामि पुण्यान्यायतनानि च ॥”
श्रीरामचन्द्रस्य परिवारविशेषः । स तु श्रीराम-
यन्त्रे पद्मदलमध्यतः पूज्यः । यथा, अगस्त्य-
संहितायाम् ।
“धूम्रं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्द्धनम् ।
अकोपं धूम्रपालाख्यं सुमन्त्रं दलमध्यतः ॥”
इति तिथ्यादितत्त्वम् ॥

सुराष्ट्रजं, क्ली, (सुराष्ट्रे जायते इति । जन् + डः ।

तुवरिका । इत्यमरः । २ । ४ । १३१ ॥ अस्य पर्य्यायो
यथा, --
“सौराष्ट्री तुवरी काङ्क्षी मृतालकसुराष्ट्रजे ।
आढकी चापि साख्याता मृत्स्ना च सुर-
मृत्तिका ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुराष्ट्रजः, पुं, (सुराष्ट्रे जायते इति । जन् +

डः ।) कृष्णमुद्गः । इति राजनिर्घण्टः ॥ विष-
भेदः । इति शब्दचन्द्रिका ॥ तद्देशजाते, त्रि ॥

सुराष्ट्रजा, स्त्री, (सुराष्ट्रे जायते इति । जन् +

डः । टाप् ।) तुवरी । इति राजनिर्घण्टः ॥
(तुवरीशब्देऽस्या विशेषो विज्ञेयः ॥)

सुराह्वः, पुं, (सुरस्य आह्वा आह्वा यस्य ।) देव-

दारु । इति शब्दरत्नावली ॥ (क्वचित् क्ली ।
अस्य पर्य्यायो यथा, --
“सुरदारु द्रुकिलिमं सुराह्वं भद्रदारु च ।
देवकाष्ठं पोतदारु देवदारु च दारु च ॥”
इति वैद्यकरत्नमालायाम् ॥)
हरिद्रुवृक्षः । मरुवकः । इति राजनिर्घण्टः ॥

सुरि, [रै] त्रि, (सु शोभनं रा धनं यस्य ।)

शोभनधनवत् । इति मुग्धबोधव्याकरणम् ॥

सुरुङ्गः, पुं, शोभाञ्जनः । इति शब्दमाला ॥

सुरुङ्गा, स्त्री, सुरङ्गा । सीँध इति सुरङ्ग इति च

भाषा । तत्पर्य्यायः । सन्धिला २ सन्धिः ३ ।
इति जटाधरः ॥ (यथा, महाभारते । १ ।
१४९ । ११ ।
“ज्ञात्वा तु तद्गृहं सर्व्वमादीप्तं पाण्डु नन्दनाः ।
सुरुङ्गां विविशुस्तूर्णं मात्रा सार्द्ध मरिन्दमाः ॥”

सुरुङ्गाहिः, पुं, (सुरुङ्गायामहिरिव ।) चौर-

विशेषः । यथा, --
“कुजम्भिलः सुरङ्गाहिरधश्चौरः सुरङ्गयुक् ।”
इति शब्दरत्नावली ॥

सुरूपं, क्ली, (सु शोभनं रूपमस्य ।) तूलम् । इति

राजनिर्घण्टः ॥

सुरूपः, त्रि, (सु सुन्दरं रूपमस्य ।) शोभनरूप-

विशिष्टः । यथा, --
“सुन्दरं रुचिरं चारु मनोज्ञं मञ्जु मञ्जुलम् ।
कान्तं मनोरमं रुच्यं सुषमं साधु शोभनम् ॥
वल्गु हारि सुरूपाभिरूपदिव्यमनोहरम् ॥”
इति जटाधरः ॥
(यथा, बृहत्संहितायाम् । ५८ । ४० ।
“शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च ॥”
विद्वान् । यथा, --
“विद्वान् विपश्चिद्दोषज्ञः सन् सुधीः कोविदो बुधः
व्यक्तो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः
कविः ॥
धीमान् शूरिः कृतिः कृष्टिलब्धवर्णो विचक्षणः
प्राप्तरूपसुरूपाभिरूपदूरदृशाः समाः ॥”
इति जटाधरः ॥
सुरूपा यथा । नकुलः १ पुरूरवाः २ अश्विनी-
कुमारौ ३ नलकूवरौ ४ कन्दर्पः ५ शाम्बः ६ ।
इति कविकल्पलता ॥

सुरूपा, स्त्री, (सु शोभनं रूपं यस्याः ।) शालपर्णो

भार्गी । इति राजनिर्घण्टः ॥

सुरूहकः, पुं, गर्द्दभाश्वः । इति हेमचन्द्रः ॥

सुरेज्यः, पुं, (सुराणां इज्यः ।) बृहस्पतिः ।

इति केचित् ॥ (यथा, बृहत्संहितायाम् ।
८ । २३ ।
“विष्णुः सुरेज्यो बलभिद्धुताश-
स्त्वष्टोत्तरप्रोष्ठपदाधिपश्च ॥”)

सुरेज्या, स्त्री, (सुराणामिज्या ।) तुलसी । इति

राजनिर्घण्टः ॥

सुरेन्द्रः, पुं, (सुरेषु इन्द्रः ऐश्वर्य्यशाली ।) इन्द्रः ।

इति केचित् ॥ (यथा, भागवते । ८ । ७ । ३१ ।
“न ते गिरित्राखिललोकपाल-
विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ॥”
लोकपालः । इति मल्लिनाथः ॥ यथा, रघुः ।
३ । ११ ।
“सुरेन्द्रमात्राश्रितगर्भगौरवात्
प्रयत्नमुक्तासनया गृहागतः ॥”
तथाच मनुः । ७ । ५ ।
“यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्म्मितो
नृपः ।
तम्मादभिभवत्येष सर्व्वभूतानि नेजसा ॥”)
पृष्ठ ५/३८४

सुरेन्द्रजित्, पुं, (सुरेन्द्रं देवराजं जितवानिति ।

जि + क्विप् । तुगागमश्च ।) गरुडः । इति
हलायुधः ॥ इन्द्रजिच्च ॥

सुरेभं, क्ली, (सु + रेभ + अच् ।) रङ्गम् । इति

त्रिकाण्डशेषः ॥

सुरेवटः, पुं, रामपूगः । इति त्रिकाण्डशेषः ॥

सुरेश्वरः, पुं, (सुराणामीश्वरः ।) रुद्रः । इति

जटाधरः ॥ (यथा, मात्स्ये । ५ । २९ -- ३० ।
“अजैकपादहिव्रध्नो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकञ्च सुरेश्वरः ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।
एते रुद्राः समाख्याता एकादश गणेश्वराः ॥”
इन्द्रः । यथा, रघुः । ३ । ६४ ।
“नरेन्द्रसूनुः प्रतिसंहरन्निषुं
प्रियंवदः प्रत्यवदत् सुरेश्वरम् ॥”
देवश्रेष्ठे, त्रि । यथा, भागवते । ४ । १५ । ९ ।
“ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः ।
वैण्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः
पादयोररविन्दञ्च तं वै मेने हरेः कलाम् ॥”
सुरेश्वराचार्य्यः । यथा, पञ्चदशी । ६ । १९० ।
“अन्योन्याध्यासमत्रापि जीवकूटस्थयोरिव ।
ईश्वरब्रह्मणोः सिद्धं कृत्वा ब्रूते सुरेश्वरः ॥”)

सुरेश्वरी, स्त्री, (सुराणामीश्वरी ।) स्वर्गगङ्गा ।

इति शब्दरत्नावली ॥ दुर्गा च ॥

सुरेष्टः, पुं, (सुराणामिष्टः ।) शिवमल्ली । शालः ।

सुरपुन्नागः । इति राजनिर्घ ण्टः ॥

सुरेष्टा, स्त्री, (सुराणामिष्टा ।) ब्राह्मी । इति

राजनिर्घण्टः ॥

सुरोत्तमः, पुं, (सुरेषु उत्तमः ।) सूर्य्यः । इति

केचित् ॥ देवश्रेष्ठश्च ॥ (यथा, महाभारते । ३ ।
५६ । ७ ।
“विप्रियं ह्याचरन् मर्त्त्यो देवानां मृत्युमृच्छति
त्राहि मामनवद्याङ्गि ! वरयस्व सुरोत्तमान् ॥”

सुरोत्तरः, पुं, (सुरेषु तत्पूजनेषु उत्तरः श्रेष्ठः ।)

चन्दनम् । इति शब्दचन्द्रिका ॥

सुरोदः, पुं, (सुरा उदकं यस्य । उत्तरपदस्येत्यु-

दकस्योदादेशः ।) सुरासमुद्रः । इति जटाधरः ॥
(यथा, भागवते । ५ । १ । ३३ ।
“क्षारोदेक्षुरसोद-सुरोद-घृतोद-क्षीरोद-दधि-
मण्डीद-शुद्धोदाः सप्त जलधयः ॥”)

सुलक्षणा, स्त्री, (सुशोभनं लक्षणं यस्याः ।) उमा-

सखीविशेषः । इति शब्दमाला ॥ सुन्दरलक्षण-
युक्ते, त्रि ॥ (यथा, कथासरित्सागरे । १५ । ६८ ।
“तच्छुत्वा व्यसृजत् राजा सोऽथ प्रत्ययितान्
द्विजान् ।
गत्वा सुलक्षणा सा वा न वेत्यालोच्यतामिति ॥

सुलभः, त्रि, सुखेन लभ्यते इति । सु + लभ + खल्

“न सुदुर्भ्यां केवलाभ्याम् ।” ७ । १ । ६८ । इति
नुमागमो न ।) सुखलभ्यः । अनायासप्राप्यः ।
यथा, आह्निकतत्त्वे ।
“सुलभं सकलं पुण्यं यज्ञदानादिजं फलम् ।
गङ्गातोयैश्च सतिलैर्द्दुर्लभं पितृतर्पणम् ॥”

सुलभा, स्त्री, (सुखेन लभ्यते इति । लभ + खल् ।

टाप् ।) माषपर्णो । धूम्रपत्रा । इति राज-
निर्घण्टः ॥

सुलोचनः, पुं, (शोभने लोचने यस्य ।) हरिणः ।

इति राजनिर्घण्टः ॥ दुर्य्योधनः । इति केचित् ॥
(धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महाभारते
१ । ६७ । ९४ ।
“विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः ॥”)
सुन्दरचक्षुर्युक्ते, त्रि ॥ (वथा, महाभारते ।
३ । ५५ । १३ ।
“अतीवसुकुमाराङ्गीं तनुमध्यां सुलोचनाम् ।
आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥”

सुलोचना, स्त्री, (शोभने लोचने यस्याः ।) माधव-

राजपत्नी । यथा, --
माधव उवाच ।
“श्रीमद्विक्रमभूभर्त्तुः पुत्त्रोऽहं माधवाह्नयः ।
सर्व्वभावैर्भविष्यामि वशगस्तव सुन्दरि ! ॥
चन्द्रकलोवाच
समुद्रपारे तरुणपुरन्दरपुरोपमा ।
प्लक्षद्वीपेऽस्ति विख्याता दीव्यन्ती सज्ञया
पुरी ॥
गुणाकराह्वयस्तत्र राजा श्रेष्ठो महायशाः ।
सुशीला नाम तद्भार्य्या सर्व्वलक्षणसंयुता ॥
सुलोचनाह्वया कन्या वीर तत्कुक्षिसम्भवा ।
गृहाण तां विवाहेन स्वर्गभोगं यदीच्छसि ॥”
इत्युपक्रम्य ।
“ततः शुभे क्षणे तस्मिन् पृष्ठमारुह्य वाजिनः ।
प्रचेष्टाख्येन भृत्येन विलङ्घ्य जलधिं ययौ ॥
ततो गन्धर्व्वविधिना स राजतनयः सुधीः ।
चक्रे विवाहं तां कन्यां तत्रैव प्राप्तकौतुकः ॥”
इति पाद्मे क्रियायोगसारे ५ अध्यायः ॥

सुलोमशा, स्त्री, (शोभना लोमशा ।) काकजङ्घा ।

इति राजनिर्घण्टः ॥ शीभनलोमयुते, त्रि ॥

सुलोमा, स्त्री, (सुष्ठु लोमान्यस्याः । डाप् ।)

ताम्नवल्ली । मांसच्छदा । इति राजनिर्घण्टः ॥

सुलोहकं, क्ली, (सुष्ठु लोहमिव । कन् ।) पित्तलम्

इति हेमचन्द्रः ॥

सुलोहिता, स्त्री, (सुष्ठु लोहिता ।) अग्निजिह्वा-

विशेषः । इति शब्दमाला ॥ (यथा, मुण्डकोप-
निषदि । १ । २ । ४ ।
“काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरूपी च देवी
लोलायमाना इति सप्त जिह्वाः ॥”
सुन्दररक्तवर्णे, पुं, ॥ तद्वति, त्रि ॥

सुवक्त्रः, पुं, (सुष्ठु वक्त्रं यस्मात् ।) वनवर्व्वरी ।

इति राजनिर्घण्टः ॥ सुन्दरानने, त्रि ॥ (यथा,
महाभारते । १४ । ८ । १६ ।
“उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥”)

सुवचनं, क्ली, (सुष्ठु वचनम् ॥) शोभनोक्तिः ।

तत्पर्य्यायः । सुप्रलापः २ । इत्यमरः । १ । ६ । १७ ॥
(यथा, उत्तरचरिते । १ अङ्के ।
“म्लानस्य जीवकुसुमस्य विकाशनानि
सन्तर्पणानि सकलेन्द्रियमोहनानि
एतानि ते सुवचनानि सरोरुहाक्षि
कर्णामृतानि मनसश्च रसायनानि ॥”)

सुवचनी, स्त्री, (सुष्ठु वचनं यस्याः । टित्त्वात्

ङीप् । एतदाराधनया आराधयितुर्वाक्य-
साफल्यात्तथात्वम् ।) देवीविशेषः । विपदि
स्त्रियो यस्याः पूजां मन्वते कुर्व्वन्ति च ।
आचारमार्त्तण्डे शुभसूचनीति वर्त्तते ॥

सुवचाः, [स्] त्रि, (सुष्ठु वचो यस्य ।) वाग्मी ।

इति जटाधरः ॥

सुवनः, पुं, (सूते विश्वमिति । सू + “भूसूधूभ्रस्-

जिभ्यश्छन्दसि ।” उणा० २ । ८० । इति क्युन् ।)
सूर्य्यः । अग्निः । इत्यणादिकोषः ॥ चन्द्रः । इति
केचित् ॥

सुवर्च्चकः, पुं, स्वर्ज्जिकाक्षारः । इति जटाधरः ॥

सुवर्च्चला, स्त्री, सूर्य्यपत्नी । इति त्रिकाण्डशेष ॥

अतसी । इति रत्नमाला ॥ सूर्य्यमुखीपुष्पम् ।
इति केचित् । आदित्यभक्ता । (अस्याः पर्य्यायो
गुणाश्च यथा, --
“सुवर्च्चला सूर्य्यभक्ता वरदावदरापि च ।
सूर्य्यावर्त्ता रविप्रीतापरा ब्रह्मसुदुर्लभा ॥
सुवर्च्चला हिमा रूक्षा स्वादुपाका सरा गुरुः ।
अपित्तला कटुः क्षारा विष्टम्भकफवातजित् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
ब्राह्मी । इति राजनिर्घण्टः ॥ देशविशेषे, पुं, ॥

सुवर्च्चाः, [स्] त्रि, शोभनतेजोविशिष्टः । शोभनं

वर्च्चो यस्येति बहुब्रीहिसमासनिष्पन्नः ॥ (यथा,
महाभारते । ३ । ५३ । ७ ।
“तं स भीमः प्रजाकामस्तोषयामास धर्म्मवित्
महिष्या सह राजेन्द्र सत्कारेण सुवर्च्चसम् ॥” *
पुं, धृतराष्ट्रपुत्त्रविशेषः । १ । ६७ । १०१ ।
“दृढहस्तः सुहस्तश्च वातवेगसुवर्च्चसौ ॥”)

सुवर्च्चिकः, पुं, स्वर्जिकाक्षारः । इति राजनि-

र्घण्टः ॥ (यथा, --
“कथितः स्वर्ज्जिकाभेदो विशेषज्ञैः सुवर्च्चिकः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुवर्च्चिका, स्त्री, जतुका । इति राजनिर्घण्टः ॥

(स्वर्ज्जिकाक्षारः । अस्याः पर्य्यायो यथा, --
“कापोतं स्वर्ज्जिका स्वर्ज्जिः स्वर्ज्जका च सुव-
र्च्चिका ॥”
इति वैद्यकरत्नमालायाम् ॥
तथास्या गुणाः ।
“सुवर्च्चिका स्वर्ज्जिकावत् बोद्धव्या गुणतो जनैः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुवर्च्ची, [न्] पुं, स्वर्ज्जिकाक्षारः इति राज-

निर्घण्टः ॥

सुवर्णं, क्ली, (शोभना वर्णो यस्य ।) धातुविशेषः ।

सोना इति भाषा । तत्पर्य्यायः । स्वर्णम् २ कन-
कम् ३ हिरण्यम् ४ हेम ५ हाटकम् ६ तषनी-
यम् ७ शातकुम्भम् ८ गाङ्गेयम् ९ भर्म्म १०
कर्व्वरम् ११ चामीकरम् १२ जातरूपस् १३
पृष्ठ ५/३८५
महारजतम् १४ काञ्चनम् १५ रुक्मम् १६
कार्त्तस्वरम् १७ जाम्बूनदम् १८ अष्टापदम् १९ ।
इत्यमरः । २ । ९ । ९४ ॥ शातकौम्भम् २०
भर्म्मम् २१ कर्व्वूरम् २२ कर्च्चुरम् २३ रुग्मम् २४ ।
इति तट्टीका ॥ भद्रम् २५ भूरि २६ पिञ्जरम्
२७ द्रविणम् २८ गैरिकम् २९ चाम्पेयम् ३०
भरुः ३१ चन्द्रः ३२ कलधौतम् ३३ । इति जटा-
धरः ॥ अभ्रकम् ३४ अग्निबीजम् ३५ लोहवरम्
३६ उद्धसारूकम् ३७ स्पर्शमणिप्रभवम् ३८
मुख्यधातु ३९ । इति शब्दरत्नावली ॥ उज्ज्वलम्
४० कल्याणम् ४१ मनोहरम् ४२ अग्निवीर्य्यम्
४३ अग्नि ४४ भास्करम् ४५ पिञ्जानम् ४६
अपिञ्जरम् ४७ तेजः ४८ दीप्तम् ४९ अग्निभम्
५० दीप्तकम् ५१ मङ्गल्यम् ५२ सौमञ्जकम् ५३
भृङ्गारम् ५४ जाम्बवम् ५५ आग्नेयम् ५६
निष्कम् ५७ अग्निशिखम् ५८ । अस्य गुणाः ।
स्निग्धत्वम् । कषायत्वम् । तिक्तत्वम् । मधुरत्वम् ।
दोषत्रयध्वंसनत्वम् । शीतत्वम् । स्वादुत्वम् ।
रसायनत्वम् । रुचिकारित्वम् । चक्षुष्यत्वम् ।
आयुष्यदत्वम् । प्रज्ञावीर्य्यबलस्मृतिकरत्वञ्च ।
तद्धारणस्य गुणाः । कान्तिदुरितक्षयश्रीकारि-
त्वम् ॥ * ॥ तत्परीक्षादि यथा, --
“दाहेऽतिरक्तमथ यच्च सितं छिदायां
काश्मीरकान्ति च विभाति निकाषपट्टैः ।
स्निग्धञ्च गौरवमुपैति च यत्तुलायां
जानीत देवकनकं मृदु रक्तपीतम् ॥
तत्रैकं रसवेधजं तदपरं जातं स्वयं भूमिजं
किञ्चान्यद्वहु लोहसङ्करभवं चेति त्रिधा
काञ्चनम् ।
तत्राद्यं कलपीतरक्तमपरं रक्तं ततोऽन्यद्यथा
गौराभ्रं तदिति क्रमेण गदितं स्यात् पूर्व्व-
पूर्व्वोत्तमम् ॥”
इति राजनिर्घण्टः ॥ * ॥
अपिच सुवर्णस्योत्पत्तिनामलक्षणगुणाः ।
“पुरा निजाश्रमस्थानां सप्तर्षीणां जिता-
त्मनाम् ।
पत्नीर्विलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः ॥
कन्दपेदर्पविध्वस्तचेतसो जातयेदसः ।
पतितं तद्धरापृष्ठे रेतस्तु हेमतामगात् ॥
कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधतः ।
स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ॥
तपनीयं कलधौतं गाङ्गेयं भर्म्म काञ्चनम् ।
चामीकरं शातकुम्भं तथा कार्त्तस्वरञ्च तत् ॥
जाम्बूनदं जातरूपं महारजतमित्यपि ।
दाहे रक्तं सितं छेदे निषेके कुङ्कुमप्रभम् ॥
तारशुल्वोऽभिहतं स्निग्धं कोमलं गुरु हम
सत् ॥”
सत् उत्तमम् ।
“तच्छ्नेतं कठिनं रूक्षं विवर्णं समलं दलम् ।
दाहे छेदेऽसितं श्वेतं कषे त्याज्यं लघुस्फुटम् ॥”
दलं दोषत इति लोके । स्फुटं यद्घनाहतं
स्फुटति ॥
“सुवर्णं शीतलं वृष्यं बल्यं गुरु रमायनम् ।
स्वादु तिक्तञ्च तुवरं पाके च स्वादु पिच्छिलम् ॥
पवित्रं बृंहणं नेत्र्यं मेधास्म तिमतिप्रदम् ।
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् ।
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् ॥
बलं सवीर्य्यं हरते नराणां
रोगव्रजं पोषयतीह काये ।
असौख्यकार्य्येव सदा सुवर्ण-
मशुद्धमेतन्मरणञ्च कुर्य्यात् ॥
असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत् ।
करोति रोगान्मृत्युञ्च तद्धन्याद्यत्नतस्ततः ॥”
इति भावप्रकाशः ॥ * ॥
अथ सुवर्णकरणम् ।
“मध्वाज्यं गुडताम्रञ्च करेणामाक्षिकं रसम् ।
धमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥
पीतं धुस्तूरपुष्पञ्च सीसकञ्च पलं मतम्
पाठा लाङ्गलशाखा च मूलमावर्त्तनाद्भवेत् ॥”
इति गारुडे १८८ अध्यायः ॥ * ॥
अपि च ।
श्रीशङ्कर उवाच ।
“आनीय पारदं देवि स्थापयेत् प्रस्तरोपरि ।
तस्योपरि जपेन्मन्त्रं सर्व्वबन्धमयात्मकम् ॥
साष्टसहस्रं देवेशि प्रजपेत् साधकाग्रणीः ।
स्वयम्भुपुष्पसंयुक्ते वस्त्रे चारुणसन्निभे ॥
संस्थाप्य पारदं देवि मृत्पात्रे युगले शिवे ।
पुष्पयुक्ते न सूत्रेण बध्नीयात् बहुयत्नतः ॥
मृत्तिकया रजेनैव धान्यस्य परमेश्वरि ।
लेपयेद्वहुयत्नेन रौद्रे शुष्काणि कारयेत् ॥
पुनश्च लेपयेद्धीमान् ततो वह्नौ विनिःक्षिपेत् ॥
अष्टमीनवमीरात्रौ क्षिपेन्नैव सुरेश्वरि ॥
अथवा परमेशानि मृत्पात्रे स्थापयेद्रसम् ।
वल्लीरसेन तद्द व्यं शोधयेद्वहुयत्नतः ॥
घृतनारीरसेनैव तथैव शोधनं चरेत् ।
एवं कृते तु गुटिकां यदि स्यात् दृढबन्धनम् ॥
धुस्तूरञ्च समानीय मध्ये शून्यञ्च कारयेत् ।
कृष्णाख्यातुलसीयोगे तथा घृतकुमारिका ॥
एवं कृते वह्नियोगे भस्मसात् जायते किल ।
भस्मयोगे भवेत् स्वर्णं धनदायाः प्रसादतः ।
विवर्णं जायते द्रव्यं यदि पूजां न चाचरेत् ॥”
इति मातृकाभेदतन्त्रे ५ पटलः ॥ * ॥
अस्य धार्य्यत्वं सर्व्वदेवतात्मकत्वञ्च यथा, रामायणे
महाभारते च परशुरामं प्रति वशिष्ठवाक्यम् ।
“सर्व्वरत्नानि निर्मथ्य तेजाराशि समुत्थितम् ।
सुवर्णमेभ्यो विप्रे न्द्र रत्नं परमनुत्तमम् ॥
एतस्म्यत कारणाद्देवगन्धर्व्वोरगराक्षसाः ।
मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत् ॥”
तथा ।
“तस्मात् सर्व्वपवित्रेभ्यः पवित्रं परमं स्मृतम् ॥”
तथा ।
“अग्निर्व्वै सकला देवाः सुवर्णञ्च तदात्मकम् ।
तस्मात् सुवर्णं ददता दत्ताः स्युः सर्व्वदेवताः ॥”
तस्मात्तत् पदादौ न धार्य्यं देवतात्मकत्वात् ।
इति शुद्धितत्त्वम् ॥ * ॥ तद्दानफलं यथा, --
अम्बरीष उवाच ।
“न सुवर्णं विना दानं तिलैर्व्वा मुनिसत्तम ।
कस्मात् पवित्रमित्युक्तं भवानेतत् व्रवीतु मे ॥
वशिष्ठ उवाच ।
अत्र ते कथायिष्यामि इतिहासं पुरातनम् ।
जामदग्न्यस्य रामस्य मुनिभिः सह पार्थिव ॥
त्रिःसप्तकृत्वः पृथिवीं मुनीन् पप्रच्छ पार्थिव ।
कृत्वा तु कृपयाविष्टो निःक्षत्त्रां भार्गवः पुरा ॥
राम उवाच ।
क्रोधादिदं कृतं कर्म्म मया मुनिवरोत्तमाः ।
कथं कस्माद्विमुच्येऽहं पापात् क्षत्त्रवधादतः ॥
इत्युक्ता धर्म्मतत्त्वज्ञाः पापानां पावनं परम् ।
दानञ्चेह सुवर्णस्य ते तमूचुर्म्महर्षयः ॥
एतत् पवित्रमतुलं सम्भूतमिह शुश्रुम ।
शम्भोर्वीर्य्यात् परं तेजो ह्यपत्यं जातवेदसः ॥
सहजं कार्त्तिकेयस्य रुद्रशुक्रसमुद्भवम् ।
पवित्रं यत् सुरैः सर्व्वैर्धार्य्यन्ते मुकुटादिभिः
अग्निस्तु देवताः सर्व्वाः प्रीयन्ते सर्व्वदेवताः ।
तस्मात् सुवर्णं ददतां सुवर्णञ्च तदात्मकम् ॥
दश पूर्व्वापरांश्चैव प्रोवाचेदं बृहस्पतिः ।
सुवर्णं ये प्रयच्छन्ति नरकात्तारयन्ति ते ॥
सर्व्वान कामान् प्रयान्त्येते पितामहसुतोऽव्र-
वीत ।
मरीचिर्भगवान् पूर्व्वं ये प्रयच्छन्ति काञ्चनम् ॥
यः सुवर्णं नरो नित्यं ब्राह्मणेम्यः प्रयच्छति ।
स चिरं विरजा विद्वान् देववद्दिवि मोदते ॥
सर्व्वेषामेव दानानामेकजन्मानुगं फलम् ।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥
विद्यमानं सुवर्णं तु यो लोभान्न प्रयच्छति ।
स सदा जनपापैस्तु वेष्टितो नरकं व्रजेत् ॥
कृत्वापि सुमहत् पापं जातरूपं ददाति यः ।
स सद्यस्तेन पापेन मुच्यते नात्र संशयः ॥
एवं ज्ञात्वा तु श्रुत्यर्थं सुवर्णं देहि भार्गव ।
तुलामारुह्य कायस्य समानमात्मनस्तथा ॥
इत्युक्तो मुनिभिर्दिव्यै रामो धर्म्मभृतांवरः ।
प्रादात् सुवर्णं विप्रेभ्यः ततः पापादमुच्यत ॥
तस्मात्त्वमपि राजेन्द्र द्विजेभ्यो देहि काञ्चनम्
विष्वक्सेनं समुद्दिश्य यदीच्छेः शाश्वतीं गतिम् ॥”
इति वह्निपुराणे तुलापुरुषदाननामाध्यायः ॥ * ॥
अपि च ।
“सुवर्णदानं गोदानं भूमिदानं तथिव च ।
नाशयन्त्याशु पापानि महापातकजान्यपि ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
उत्सृष्टस्वर्णस्य गृहे चिरस्थापननिषेधो यथा,
“न चिरं स्थापयेद्गेहे हेम संप्रोक्षितं बुधः ।
तिष्ठत् भयावहं यस्मात् शोकव्याधिकरं नृणाम् ॥
शीघ्रं परस्वीकरणात् श्रेयः प्राप्नोति पुष्कलम् ॥”
संप्रोक्षितं पात्रमुद्दिश्य त्यक्तम् । अतएव विष्णु-
पुराणे ।
“तस्मात् सर्व्वात्मना पात्रे दद्यात् कनकमुत्तमम्
अपात्रे पातयेद्दत्तं सुवर्णं नरकार्णवे ॥
पृष्ठ ५/३८६
प्रमादतस्तु तन्नष्टं तावन्मात्रं नियोजयेत् ।
अन्यथा स्तेययुक्तः स्यात् हेम्न्यदत्ते विनाशिनि”
तद्धेम त्राह्मणायोत्सृष्टं ब्राह्मणसादकृतं यदि
चौरादिना अपह्रियते तदा तावदेव पुनरुत्-
सृज्य देयमिति दानसागरः ॥ * ॥ तत्तु अग्नि-
दैवतम् । यथा, --
“आग्नेयं कनकं प्रोक्तं सर्व्वलौहानि वाप्यथा”
इति शुद्धितत्त्वम् ॥
(अथास्य मारणविधिः ।
“गलितस्य सुवर्णस्य षोडशांशेन सीसकम् ।
योजयित्वा समुद्धृत्य निम्बुनीरेण मर्द्दयेत् ॥
गोलं कृत्वा गन्धचूर्णं समं दद्यात्तदुपरि ।
शरावसंपुटे कृत्वा पुटेत्त्रिंशद्वनोपलैः ।
एवं मुनिपुटैर्हेम नोत्थानं लभते पुनः ॥”
अस्य गुणाः ।
“कषायं तिक्तमधुरं सुवर्णं गुरु लेखनम् ।
हृद्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ॥
आयुर्म्मेधावयःस्थैर्य्यवाग्विशुद्धिस्मृतिप्रदम् ।
क्षयोन्मादगराणाञ्च कुष्ठानां नाशनं परम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-
धिकारे ॥ * ॥) हरिचन्दनम् । इति मेदिनी ॥
स्वर्णगैरिकम् । इति रत्नमाला ॥ धनम् । इति
हेमचन्द्रः ॥ नागकेशरम् । इति राजनिर्घण्टः ॥

सुवर्णः, पुं, क्ली, (सुष्ठु वर्णोऽस्य ।) हेम्नोऽक्षः ।

स अशीतिरत्तिकापरिमितस्वर्णम् । तत्पर्य्यायः
विस्तः २ । इत्यमरः । २ । ९ । ८६ ॥ कर्षं
सुवर्णस्य सुवर्णसंज्ञम् । इति लीलावती ॥ कर्ष-
परिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा, --
“विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहम् ॥”
इति गारुडे २०८ अध्यायः ॥)

सुवर्णः, पुं, (शोभनो वर्णो यस्य ।) स्वर्णकर्षः ।

यज्ञविशेषः । इति मेदिनी ॥ धुस्तूरः । इत्य-
मरः ॥ कणगुग्गुलुः । इति राजनिर्घण्टः ॥
सुष्ठुवर्णे, त्रि । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १३ । ६८ । ३३ ।
“वाससां सम्प्रदानेन स्वदारनिरतो नरः ।
सुवर्णश्च सुवेशश्च भवतीत्यनुशुश्रुमः ॥”)

सुवर्णकं, क्ली, (सुवणमिव । इवार्थे कन् ।)

पित्तलम् । इति हेमचन्द्रः ॥ (स्वार्थे कन् ।
सुवर्णम् । यथा, महाभारते । ३ । ८२ । ७५ ।
“तत्र स्नात्वा नरश्रेष्ठ लभेत् बहु सुवर्णकम् ॥”
सुष्ठु, वर्णो यस्य । कन् ।) सुन्दरवर्णयुक्ते, त्रि ॥

सुवर्णकः, पुं, (सुष्ठु वर्णो यस्य । कन् ।) आर-

स्वधवृक्षः । इत्यमरः । २ । ४ । २४ ॥

सुपणकदली, स्त्री, (सुवर्णा सुवर्णवर्णा सुन्दर-

वर्णा वा कदली ।) कदलीविशेषः । चाँपा
कला इति भाषा । तत्पर्य्यायः । सुवर्णरम्भा २
कनकमोचा ३ पोता ४ सुवर्णमोचा ५ चम्पक-
रम्भा ६ सुरभिका ७ सुभगा ८ हेमफला ९
स्वणेफला १० कनकरम्भा ११ पीतरम्भा १२
गौरी १३ गौररम्भा १४ काञ्चनकदली १५
सुरप्रिया १६ । अस्या गुणाः । मधुरत्वम् ।
हिमत्वम् । स्वल्पाशने दीपनकारित्वम् । तृष्णा-
दाहनाशित्वम् । कफावहत्वम् । वृष्यकारित्वम् ।
गुरुत्वञ्च । इति राजनिर्घण्टः ॥

सुवर्णकारः, पुं, (सुवर्णं स्वर्णभूषणादिकं करो-

तीति । कृ + अण् ।) स्वर्णकारः । इति हला-
युधः ॥ सेकरा इति भाषा ॥ (यथा, मनुः ।
४ । २१८ ।
“राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्च्चसम् ।
आयुः सुवर्णकारान्नं यशश्चर्म्मावकर्त्तिनः ॥”)

सुवर्णगैरिकं, क्ली, (सुवर्णं सुन्दरवर्णं गैरिकम् ।)

गैरिकभेदः । वर्णकमाटि इति वङ्गभाषा ।
पीत गेरु इति हिन्दी भाषा । तत्पर्य्यायः ।
स्वर्णधातुः २ सुरक्तकः ३ सन्ध्याभ्रम् ४ वभ्रु-
धातुः ५ शिलाधातुः ६ । अस्य गुणाः ।
गैरिकं मधुरं शीतं कषायं व्रणरोपणम् ।
विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिगं शुभम् ॥”
इति राजनिर्घण्टः ॥
(तथाच ।
“गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा ।
सुवर्णगैरिकं, त्वन्यत्ततो रक्त्रतरं हि तत् ॥
गैरिकद्वितयं स्निग्धं मधुरन्तुवरं हिमम् ।
चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुवर्णनकुली, स्त्री, (सुवर्णा नकुली ।) महा-

ज्योतिष्मती । इति राजनिर्घण्टः ॥

सुवर्णपुष्पः, पुं, (सुवर्णवत् पुष्पं यस्य ।) राज-

तरुणी । इति राजनिर्घण्टः ॥ (यथा, बृहत्-
संहितायाम् । २९ । १० ।
“श्रेष्ठी सुवर्णपुष्पैः
पद्मैर्विप्राः पुरोहिताः कुमुदैः ॥”)

सुवर्णप्रसरं, क्ली, (सुवर्णस्य प्रसर इव यत्र ।)

एलवालुकम् । इति वैद्यकम् ॥

सुवर्णबणिक्, पुं, (सुवर्णस्य बणिक् क्रयविक्रयादि-

कर्त्ता ।) जातिविशेषः । सोनार वेणिया इति
भाषा । स तु अम्बष्ठाद्वैश्यायां जातः मध्यम-
वर्णसङ्करः । इति केचित् ॥ तस्य पातित्यकारणं
यथा, ब्रह्मववर्त्ते ब्रह्मखण्डे । १० । ९५ ।
“कश्चिद्बणिग्विशेषश्च संसर्गात् स्वर्णकारिणः ।
स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः ॥”
अपि च ।
“गान्धिकः शाङ्खिकश्चैव कांस्यको मणिकारकः ।
सुवर्णजीविकश्चैव पञ्चंते बणिजः स्मृताः ॥
अम्बष्ठाद्रजपुत्त्र्यान्तु जायते गान्धिको बणिक् ।
गन्धचन्दनधूपादिक्रयविक्रयकारकः ॥
गान्धिक्यां रजपुत्त्राच्च संजातः शाङ्खिको बणिक् ।
शङ्खं दत्त्वा मुनेः प्रत्न्यै शङ्खजीवी प्रकीत्तितः ॥
शाङ्खिक्यां गान्धिकाज्जातस्ताम्रकांस्योप-
जीविकः ।
शाङ्खिकात् कांस्यकन्यायां मणिकारः प्रजायते ।
कांस्यकाराच्च माणिक्यां सुवर्णजीविकोऽभवत् ॥”
इति पराशरपद्धतौ भार्गवरामकृतवर्णसङ्कर-
जातिमाला ॥

सुवर्णबिन्दुः, पुं, (सुवर्णवत् बिन्दुर्यत्र ।) विष्णुः ।

इति हेमचन्द्रः ॥

सुवर्णयूथी, स्त्री, (सुवर्णवत् पीता यूथी ।) पीत-

वर्णयूथिका । स्वर्णयूइ इति भाषा । तत्पर्य्यायः
सुगन्धा २ हेमयूथिका ३ युवतीष्टा ४ रक्तगन्धा ५
शिखण्डी ६ नागपुष्पिका ७ हरिणी ८ पीत-
यथी ९ पीतिका १० कनकप्रभा ११ मनोहरा
१२ गन्धाढ्या १३ । अस्या गुणाः । स्वादुत्वम् ।
शिशिरत्वम् । शर्करार्त्तिपित्तदाहतृषानाना-
त्वग्दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“यूथिका गणिकाम्बष्ठा सा पीता हेमपुष्पिका
यूथीयुगं हिमं तिक्तं कट्पाकं सरं लघु ॥
मधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम् ।
व्रणास्रमुखदन्ताक्षिशिरोरोगविषापहम् ॥”
इति भावप्रकाशः ॥

सुवर्णवर्णः, पुं, (सुवर्णवत् वर्णो यस्य ।) विष्णुः ।

यथा, --
“सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।”
इति तस्य सहस्रनामस्तोत्रम् ॥

सुवर्णवर्णा, स्त्री, (सुवर्णवत् वर्णो यस्याः ।) हरिद्रा ।

इति शब्दचन्द्रिका ॥ स्वर्णवर्णयुक्ते, त्रि ॥

सुवर्णा, स्त्री, (सुष्ठु वर्णो यस्याः ।) कृष्णागुरु ।

इति मेदिनी ॥ वाट्यालकः । इति शब्दचन्द्रिका ॥
स्वर्णक्षीरी । हरिद्रा । इति राजनिर्घण्टः ॥
(हास्तिनापुरकर्त्तुर्हस्तिनो माता । यथा, महा-
भारते । १ । ९५ । ३४ । “सुहोत्रः खलु इक्ष्वाकु-
कन्यामुपयेमे सुवर्णां नाम तस्यामस्य जज्ञे
हस्ती य इदं हास्तिनपुरं स्थापयामास एत-
दस्य हास्तिनपुरत्वम् ॥”

सुवर्णाख्यः, पुं, (सुवर्णस्य आख्या आख्या यस्य ।)

नागकेशरः । इति रत्नमाला ॥ धुस्तूरवृक्षः ।
इति कनकाह्वयशब्ददर्शनात् ॥ (तीर्थविशेषे,
क्ली । इति महाभारतम् । ३ । ८४ । १७ ॥)

सुवर्णी, स्त्री, (सुष्ठु वर्णो यस्याः । गौरादित्वात्

ङीष् ।) आखुपर्णी । इति राजनिर्घण्टः ॥
(विवृतिरस्या आखुपर्णोशब्दे ज्ञातव्या ॥)

सुवयाः, [स्] स्त्री, (सुष्ठु वयो यस्याः ।) प्रौढा

स्त्री । इति राजतिर्घण्टः ॥

सुवल्लिः, स्त्री, (शोभना वल्लिः ।) सोमराजी ।

इत्यमरः । २ । ४ । ९५ ॥

सुवल्ली, स्त्री, (सुवल्लि + पक्षे ङीष् ।) सोमराजी ।

इत्यमरटीकायां भरतः ॥

सुवसन्तः, पुं, (शोभनो वसन्तो यत्र ।) चैत्रावली

इति त्रिकाण्डशेषः ॥ सुन्दरवसन्तकालः सुजा-
तीयवसन्तरोगश्च ॥

सुवसन्तकः, पुं, (शोभनो वसन्तो यत्र । कप् ।)

वासन्ती । मदनोत्सवः । इति मेदिनी ॥

सुवहः, त्रि, (सुखेन उह्यते इति । सु + वह +

खल् ।) सुखवाह्यः । इति मेदिनी ॥ (सुष्ठु
वहतीति । वह + अच् । सम्यग्वहः । इति
हेमचन्द्रः ॥
पृष्ठ ५/३८७

सुवहा, स्त्री, (सुष्ठु, वहति सौगन्धमिति । सु +

वह + अच् ।) शेफालिका । रास्ना । (अस्याः
पर्य्यायो यथा, --
“रास्ना युक्तरसा रस्या सुवहा रसना रसा ।
एलापर्णी च सुरसा सुगन्धा प्रेयसी तथा ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
गोधापदी । फलापर्णी । इत्यमरः । २ । ४ । ७० ॥
शल्लकी । (अस्याः पर्य्यायो यथा, भावप्रकाशस्य
पूर्व्वखण्डे प्रथमे भागे ।
“शल्लकी गजभक्ष्या च सुवहा सुरभीरसा ।
महेरुणा कुन्दरुकी वल्लकी च बहुस्रवा ॥”)
बीणा । इति मेदिनी ॥ त्रिवृता । इति शब्द-
चन्द्रिका भरतश्च ॥ रुद्रजटा । हंसपदी ।
गन्धनाकुली । मुशली । नीलसिन्धुवारः । इति
राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, --
“सिन्धुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः ।
नीलपुष्पी तु निर्गुण्डी शेफाली सुवहा च सा ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुवासः, पुं, (शोभनो वासः ।) शोभनगन्धः ।

उत्तमनिवासः । इति केचित् ॥ (महादेवः ।
इति महाभारतम् । १३ । १७ । ११५ ॥)

सुवासिनी, स्त्री, (सुखेन वसतीति । सु + वस +

णिनिः ।) चिरिण्टी । इत्यमरः । २ । ६ । ९ ॥
सुखेन वयतीति सुवासिनीति द्राविडाः । पितृ-
कुलस्नेहात् चिरमेटति गच्छति चिरिण्टी ।
इट गतौ अन् मनीषादिः । सुवासिन्यां चिरिण्टी
स्यात् द्वितौयवयसि स्त्रियामिति रुद्रः । चर-
ण्टीत्येके । इति तट्टीकायां भरतः ॥

सुविद्, पुं, (सुष्ठु वेत्तीति । विद् + क्विप् ।)

पण्डितः । गुणयुक्तनार्य्याम्, स्त्री । इत्यमरे
सौविदल्लशब्दटीकायां रामाश्रमः ॥

सुविदः, पुं, (सुष्ठु वेत्तीति । सु + विद् + कः ।)

सौविदः । इत्यमरटीकायां रायमुकुटः ॥
राजा । इति भरतः ॥

सुविदत्, पुं, (सुष्ठु वेत्तीति । विद् + क्विप् । तमत

तीति । अत् + क्विप् ।) राजा । इत्यमरे
सौविदल्लशब्दटीकायां रायमुकुटः ॥

सुविदत्र, त्रि, (सुष्ठुवेत्तीति । सु + विद् + “सुविदेः

कत्रन् ।” उणा० ३ । १०८ । इति कत्रन् ।)
कुटुम्बः । इत्युणादिकोषः ॥

सुविदल्लं, क्ली, अन्तःपुरम् । इत्यमरटीकायां राय-

मुकुटः ॥

सुविदल्ला, स्त्री, ऊढा नारी । इत्यमरे सौविदल्ल-

शब्दटीकायां रायमुकुटः ॥

सुविधिः, पुं, (सु शोभनो विधिर्यस्य ।) अर्हद्वि-

शेषः । इति हेमचन्द्रः ॥ उत्तमविधाञ्च ॥

सुविनीता, स्त्री, (सुष्ठुविनीता ।) सुकरा गौः । इति

शब्दरत्नाबली ॥ अतिशयविनयविशिष्टे, ति ॥

सुबीजः, पुं, (सु शोभनं बीजं यस्य ।) खस्खसः

इति राजनिर्घण्टः ॥ (महादेवः । इति महा-
भारतम् । १३ । १७ । ३९ ॥) सुन्दरबीजे,
क्ली । तद्वति, त्रि ॥

सुवीरकं, क्ली, (सु + वीर शौर्य्ये + ण्वुल् ।) सौवी-

राञ्जनम् । इति शब्दचन्द्रिका । (पर्य्यायोऽस्य
यथा, --
“सुवीरकं पार्व्वतेयं सौवीरं नीलमञ्जनम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

सुवीराम्लं, क्ली, (सुवीरं अतिशयतेजःशालि अम्लं

यस्य ।) काञ्जिकम् । इति जटाधरः ॥

सुवीर्य्यं, क्ली, (सुष्ठु वीर्य्यं यस्य ।) वदरीफलम् ।

इति जटाघरः ॥ उत्तमवीर्य्यञ्च ॥

सुवीर्य्या, स्त्री, (सुष्ठु वीर्य्यं यस्याः ।) वनका-

र्पासी । इति शब्दरत्नावली ॥ (वनकार्पासी-
शब्देऽस्या विशेषो ज्ञेयः ॥)

सुवृत्तः, पुं, (शोभनो वृत्तः ।) शूरणः । इति

राजनिर्घण्टः ॥ त्रि, सुन्दरवर्त्तुलः ॥ (यथा,
भारते । १ । १५४ । ९ ।
“पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ॥”
सुष्ठु वृत्तं चरित्रं यस्येति । सच्चरित्रः । यथा,
रघुः । ८ । ७७ ।
“मयि तस्य सुवृत्त ! वर्त्तते
लघुसन्देशपदा सरस्वती ।
शृणु विश्रुतसत्त्वसार ! तां
हृदि चैनामुपधातुमर्हसि ॥”)

सुवृत्ता, स्त्री, (सुष्ठुवृत्ता ।) पतपत्री । काकली-

द्राक्षा । इति राजनिर्घण्टः ॥

सुवेगा, स्त्री, (सुष्ठु वेगो यस्याः ।) महा-

ज्योतिष्मती । इति राजनिर्घण्टः ॥

सुवेलः, पुं, (सुगता वेला समुद्रकूलं येन । यद्वा,

सुष्ठु वेला स्थितिर्य्यस्य ।) त्रिकूटपर्व्वतः । इति
हेमचन्द्रः ॥ यथा, अनर्घराघवे । ६ । १७ ।
“श्रुत्वा दाशरथी सुवेलकटके साटीपमर्धेधनु-
ष्टङ्कारैः परिपूरयन्ति ककुभः प्रोच्छन्ति कौक्षे-
यकान् ॥”)

सुवेलः, त्रि, (शोभना वेला मर्य्यादा स्थितिर्यस्य ।)

प्रणतः । शान्तः । इति मेदिनी ॥

सुवे(ष)शः, पुं, (शोभनो वेशो यस्य ।) श्वेतेक्षुः ।

इति राजनिर्घण्टः ॥ सुन्दरवेशयुक्ते, त्रि । यथा,
“सुवेशं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।
योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद ॥”
इति महाभारतम् ॥

सुवेशी, [न्] त्रि, (सुवेशोऽस्यास्तीति । इनिः ।)

सुन्दरवेशयुक्तः ॥

सुव्रतः, पुं, (सुष्ठु व्रतं यस्य ।) भाविकल्पीयार्ह-

द्विशेषः ॥ वर्त्तमानकल्पीयाहद्विशेषः । इति
हेमचन्द्रः ॥ (कार्त्तिकेयः । यथा, महाभारते ।
३ । २३१ । ७ ।
“मुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥”)
शोभनव्रतयुक्ते, त्रि ॥ (यथा, महाभारते ।
१ । २३४ । २७ ।
“सुव्रता चापि कल्पाणी सर्व्वभूतेषु विश्रुता ।
अरुन्धती महात्मानं वशिष्ठमृषिसत्तमम् ॥”)

सुव्रता, स्त्री, (सुष्ठु व्रतं यस्याः ।) सुखसंदोह्या

गौः । इत्यमरः । २ । ९ । ७१ ॥ शोभनव्रता ।
इति मेदिनी ॥ वर्त्तमानकल्पीयपञ्चदशजिन-
माता । इति हेमचन्द्रः ॥ (शठी । तत्पर्य्यायो
यथा, --
“शठी पलाशी षड्ग्रन्था सव्रता गन्धमूलिका ।
गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुशर्म्मा, [न्] पुं, राजविशेषः । इति पुराणम् ॥

निन्दितब्राह्मणविशेषः । यथा, --
“सुशर्म्मा नाम को देव किं जातीयः किमात्मकः
कुतस्तस्य च वै मुक्तिः केन वा यत्र हेतुना ॥
श्रीभागवानुवाच ।
सुशर्म्मा नाम दुर्म्मेधाः सीमा पापात्मनामभूत् ।
अनाम्नायविदां वंशे विप्राणां क्रूरकर्म्मणाम् ॥”
इति पाद्योत्तरखण्डे ८० अध्यायः ॥
सु + शॄ गि हिंसे + “अन्येभ्योऽपि दृश्यन्ते ।”
३ । २ । ७५ । इति मनिन् ।) सुशृणाति यः ।
इति मुग्धबोधटीकायां दुर्गादासः ॥ शोभनसुख-
विशिष्टे, त्रि ॥

सुशल्यः, पुं, (सुष्ठु, दृढं शल्यं कण्टकं यस्य ।)

खदिरः । इति राजनिर्घण्टः ॥ (खदिरशब्देऽस्य
विवरणं ज्ञातव्यम् ॥)

सुशवी, स्त्री, कारवेल्लः । कृष्णजीरकः । इत्यमर-

टीकायां भरतः । २ । ४ । १५५ ॥

सुशाकं, क्ली, (सुष्ठु शाको यस्मात् ।) आर्द्रकम् ।

इति राजनिर्घण्टः ॥

सुशाकः, पुं, (सुष्ठु शाको यस्य ।) चक्षुः । भिण्डा ।

तण्डुलीयः । इति राजनिर्घण्टः ॥

सुशान्ता, स्त्री, शशिध्वजराजपत्नी । यथा,

कल्किपुराणे २२ अध्याये ।
“शशिध्वजो महातेजा गजायुतबलः सुधीः ।
तस्य पत्नी महादेवी विष्णुव्रतपरायणा ॥
सुशान्ता स्वामिनं प्राह कल्किना योद्धुमुद्यतम्
नाथ कान्तं जगन्नाथं सर्व्वान्तर्यामिनं प्रभुम् ।
कल्किं नारायणं साक्षात् कथं त्वं प्रहरिष्यसि ॥”

सुशिखः, पुं, (शोभना शिखा यस्य ।) अग्निः ।

इति जटाधरः ॥ उत्तमशिखायुक्ते, त्रि ॥

सुशिखा, स्त्री, (शोभना शिखा ।) मयूरशिखा ।

इति राजनिर्घण्टः ॥ (सुन्दरकेशः । यथा,
भागवते । ३ । २० । ३६ ।
“मध्यं विषीदति बृहत्स्तनभारभीत
श्रान्तेव दृष्टिरमला सुशिखासमूहः ॥”)

सुशीतं, क्ली, (शोभनं शीतम् ।) पीतचन्दनम् ।

इति शब्दचन्द्रिका ॥ अतिशयशीतञ्च ।
तद्वति, त्रि ॥

सुशीतः, पुं, (सुष्ठु शीतः ।) ह्रस्वप्लक्षः । इति

राजनिर्घण्टः ॥

सुशीतलं, क्ली, (सुष्ठु, शीतलम् ।) गन्धतृणम् ।

इति रत्नमाला ॥ (गन्धतृणशब्देऽस्य विशेषो
ज्ञेयः ॥) अतिशीतगुणविशिष्टे, त्रि ॥ (यथा,
महाभारते । ३ । ६५ । ४ ।
“निर्म्मलस्वादु शलिलं मनोहारि सुशीतलम् ॥”)
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥”)
पृष्ठ ५/३८८

सुशीता, स्त्री, (सुष्ठु शीता ।) शतपत्री । इति

राजनिर्घण्टः ॥

सुशीविका, स्त्री, कन्दविशेषः । वाराहीकन्दः ।

इति शब्दचन्द्रिका ॥

सुशीमः, पुं, शीतगुणः । इत्यमरटीकायां स्वामा ॥

तद्वति, त्नि ॥

सुशीलः, पुं, (सु शोभनं शीलमस्य ।) चोलराजः ।

यथा, --
“यो विष्णुदासः स तु पुण्यशीलो
यश्चोलभूपः स सुशीलनामा ।
आवामुभौ तत्समरूपभाजौ
द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥”
इति पाद्मे उत्तरखण्डे ५४ अध्यायः ॥
शोभनशीलविशिष्टे, त्रि ॥ (यथा, भागवते ।
६ । १ । १७ ।
“सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।
सुशीलाः साधवो यत्र नारायणपरायणाः ॥”
शोभनं शीलमिति । सच्चिरित्रे, क्ली । यथा,
महाभारते । ३ । २९७ । ४३ ।
“त्वया सुशीलव्रतपुण्ययुक्तया
समद्धृतं साध्वि पुनः कुलीनया ॥”)

सुशीलता, स्त्री, (सुशीलस्य भावः । तल् ।

टाप् । सत्स्वभावः । सुशीलत्वम् ॥

सुशीला, स्त्री, (शोभनं शीलं यस्याः । टाप् । (श्रीकृ-

ष्णस्याष्टमहिष्यन्तर्गतमहिषीविशेषः । यथा, --
“अष्टौ महिष्यस्ताः सर्व्वा रुक्मिण्याद्या
महात्मनः ।
रूक्मिणी सत्यभामा च कालिन्दी च शुचिस्मिता ॥
मित्रविन्दा जाम्बवती नाग्नजिती सुलक्षणा ।
सुशीला नाम तन्वङ्गी महिष्यश्चाष्टमाः स्मृताः ॥”
इति पाद्योत्तरखण्डे ६८ अध्यायः ॥
यमभार्य्या । इति केचित् ॥

सुश्रीका, स्त्री, (शोभना श्रीः शोभा यस्याः ।

कप् ।) सल्लकी । इति राजनिर्घण्टः ॥ सुन्दर-
श्रीयुक्ते, त्रि ॥ (यथा, हरिवंशे । १८३ । ११३ ।
“द्वारोपशोभितां कृत्वा सर्व्वां द्वारवतीं पुरीम् ।
संमृष्टरथ्यां सुश्रीकां बहुरत्नोपशोभिताम् ॥”)
सुश्रुतः, पुं, विश्वामित्रमुनिपुत्त्रः । स तु चिकित्सा-
शास्त्रकर्त्ता । यथा, --
“तथा धन्वन्तरिवंशे जातः क्षीराब्धिमन्थने ।
देवादौनां जीवनाय आयुर्व्वेदमुवाच ह ।
विश्वामित्रसुतायेव सुश्रुताय महात्मने ॥”
इति गारुडे १५० अध्यायः ॥
अथ सुश्रुतप्रादुर्भावः ।
“अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽवदन् ।
अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते ॥
विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् ।
वत्स वाराणसों गच्छ त्वं विश्वेश्वरवल्लभाम् ॥
तत्र नाम्ना दिवोदामः काशिराजोऽस्ति बाहुजः
स हि धन्वन्तरिः साक्षादायुर्व्वेदविदां वरः ॥
आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे ।
सर्व्वप्राणि दया तीर्थमुपकारो महामखः ॥
पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः ।
तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ ॥
अथ धन्वन्तरिं सर्व्ववानप्रस्थाश्रमे स्थितम् ।
भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् ॥
काशिराजं दिवोदासं तेऽपश्यन् विनयान्विताः ।
स्वागतं व इति स्माह दिवोदासो यशोधनः ॥
कुशलं परिपप्रच्छ तथागमनकारणम् ।
ततस्ते सश्रुतद्वारा कथयामासुरुत्तरम् ॥
भगवन् मानवान् दृष्ट्वा व्याधिभिः परिपीडितान् ।
क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा ॥
आमयानां शमोपायं विज्ञातुं वयमागताः ।
आयुर्व्वेदं भवानस्मानध्यापयतु यत्नतः ॥
अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् ।
व्याख्यातं तेन ते यत्नात् जगृहुर्मुनयो मुदा ॥
काशिराजं जयाशीर्भिरभिनद्य मुदान्विताः ।
सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम् ॥
प्रथमं सुश्रुतस्तेषु स्वं तन्त्रं कृतवान् स्फुटम् ।
सुश्रुतस्य सखायोऽपि पृथक् तन्त्राणि तेनिरे ॥
सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः ।
तस्मात्तत् सुश्रुतंनाम्ना विख्यातं क्षितिमण्डले ॥”
इति भावप्रकाशः ॥
(क्ली, गोष्ठीश्राद्धे तृप्तिप्रश्नः । यथा, मनुः ।
३ । २५४ ।
“पित्र्ये स्वदितमित्येव वाच्यं गोष्ठेतु सुश्रुतम् ।
सम्पन्नमित्यभ्यु दये दैवे रुचितमित्यपि ॥”)

सुषमः, त्रि, (सुष्ठु समं सर्व्वं यस्मात् । “सुविनिर्दुर्भ्यः

सुपिसूतिसमाः ।” ८ । ३ । ८८ । इति षत्वम् ।)
शोभनम् । इत्यमरः । ३ । १ । ५२ ॥ समः ।
इति मेदिनी ॥

सुषमा, स्त्री, (सु शोभनं समं सर्व्वं यथा ।) परमा

शोभा । इत्यमरः । १ । ३ । १७ ॥ (यथा,
नैषधे । १९ । २ ।
“जयजय महाराज प्राभातिकीं सुषमामिमां
सफलयतमां दानादक्ष्णोर्द्दरालसपक्ष्मणोः ॥”)
निजानां कालभेदः । इति हेमचन्द्रः ॥

सुषवी, स्त्री, (सुष्ठु सूते फलानीति । सु + सू + अच्

गौरादित्वात् ङीष् ।) कारवेल्लः । इत्यमरः ।
२ । ४ । ११५ । कृष्णजीरकः । जीरकः । इति
मेदिनी ॥ क्षुद्रकारवेल्लः । इति राजनिर्घण्टः ॥

सुषिः, स्त्री, (सुष्ठुं स्यतीति । सु + सो + बाहु-

लकात् किः ।) शुषिः । इत्यमरः । १ । ८ । १ ॥

सुषिरं, क्ली, (श्रुष शोषणे + “इषिमदीति ।” उणा०

१ । ५२ । इति किरच् । पृषोदरादित्वात् शस्य
सः । यद्वा, सुषिरस्यास्तीति । सुषि + “ऊषसुषि
सुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।)
शुषिरम् । इत्यमरटीकायां भरतः । १ । ८ । १ ॥
(काष्ठम् । इति काशिका ॥ छिद्रयुक्ते, त्रि ।
यथा, बृहत्संहितायाम् । ५३ । ८८ ।
“शस्तौषधिद्रुमलतामधुरा सुगन्धिः
स्निग्धा समा न सुषिरा च मही नराणाम् ॥)

सुषीमः, पुं, सर्पविशेषः । इति मेदिनी ॥ चन्द्र-

कान्तमणिः । इति जटाधरः ॥

सुषीमः, त्रि, शीतगुणयुक्तः । इत्यमरः । १ । ३ । १९ ॥

मनोज्ञः । इति मेदिनी ॥

सुषुप्तं, क्ली, (सु + स्वप + क्तः ॥

यथा, --
“यो जागरे बहिरनुक्षणधर्म्मिणोऽर्थान्
भुङ्क्ते समस्तकरणैर्ह्वदि तत्सदृक्षान् ।
स्वप्ने सुषुप्त उपसंहरते स एकः
स्मृत्यन्वयात्त्रिगुणवृत्तिद्गगिन्द्रियेशः ॥”
इति श्रीभागवते । ११ । १३ । ३२ ।
सुषुप्तियुक्ते, त्रि ॥ (यथा, भागवते । ६ । १६ ।
५३ ।
“यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।
आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥”)

सुषुप्तिः, स्त्री, (सु + स्वप् + क्तिन् ।) सत्त्वप्रधानं

अज्ञानम् । तस्य नामान्तरम् । कारणशरीरम् ।
आनन्दमयकोषश्च । इति वेदान्तसारः । सर्व्वस्य
स्थूलसूक्ष्मोपाथेः कारणोपाधौ लीनत्वं सुषुप्ति-
त्वम् । इति तट्टीका ॥ अवस्थाविशेषः । यथा,
“स्वप्नावस्था परीक्षिता सुषुप्तावस्थेदानीं परी-
क्ष्यते । तत्रैताः सुषुप्तविषयाः श्रुतयो भवन्ति
यद्यत्रैतत् सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न
विजानात्यासु नाडीषु सृप्तो भवतीति । नाडी-
रनुक्रम्य श्रूयते । ताभिः प्रत्यवसृप्य पुरीतति
शेत इति । विकल्पमानेषु तु सुषुप्तिस्थानेषु
कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित् पुरीततः
कदाचिदात्मन इत्यशासिष्यत् । तस्मादप्यात्मैव
तु सुप्तिस्थानमिति ।” इति शारीरिकभाष्ये ३
अध्याये २ पादः ॥ किञ्च । “यत्र सुप्तो न कञ्चन
कामं कामयते न कञ्चन स्वप्नं पश्यति तत्
सुषुप्तम् ।” इति माण्डुक्योपनिषत् ॥ सुनिद्रा
च ॥

सुषुम्ना, स्त्री, (सुषु इत्यव्यक्तशब्दं म्नायतीति ।

म्ना + कः ।) मेरुदण्डवाह्ये इडापिङ्गलानाडी-
मध्यस्थनाडीविशेषः । यथा, --
“मेरोर्व्वाह्यप्रदेशे शशिमिहिरशिरे सव्यदक्षे
निषण्णे
मध्ये नाडी सुषुस्ना त्रितयगुणमयी चन्द्र-
सूर्य्याग्निरूपा ।”
इति षट्चक्रभेदः ॥ * ॥
तस्या अशुभलक्षण यथा, --
“क्षणं वामे क्षणं दक्षे यदा बहति मारुतः ।
सुषुम्ना सा च विज्ञेया सर्व्वकार्य्यहराशुभा ॥
तस्यां नाड्यां स्थितो वह्निर्ज्वलन्तकालरूपिणः
विषमं तं विजानीयात् सर्व्वकार्य्यविनाशनम् ॥
यदानुक्रममुल्लङ्घ्य तस्यां नाड्यां द्वयं वहेत् ।
तदा तस्य विजानीयादशुभं समुपस्थितम् ॥”
इति ब्रह्मयामलम् ॥
“मेरुवाह्ये इडा नाडी पिङ्गलया समन्विता ।
सुषुम्ना भानुमार्गेण ब्रह्मद्वारावधिस्थिता ॥”
इति योगस्वरोदयः ॥

सुषेणः, पुं, करमर्द्दकः । इत्यमरः । २ । ४ । ६७ ॥

विष्णुः । (यथा, महाभारते । १३ । १४९ । ७१ ।
पृष्ठ ५/३८९
“महावराहो गोविन्दः सुषेणः कनकाङ्गदी ॥”
“शोभना सेना स्वगणात्मिका यस्य ।” इति तत्र
शाङ्करभाष्यम् ॥ वानरराजसुग्रीववैद्यः । इति
मेदिनी ॥ वेतसः । इति राजनिर्घण्टः (वसु-
देवपुत्त्रविशेषः । यथा, भागवते । ९ । २४ ।
५३ -- ५४ ।
“वसुदेवस्तु देवक्यामष्टपुत्त्रानजीजनत् ।
कीर्त्तिमन्तं सुषेणञ्च भद्रसेनमुदारधीः ॥
ऋजुं समर्द्दनं भद्रं सङ्कर्षणमहीश्वरम् ।
अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल ॥”
नागविशेषः । इति महाभारतम् । १ । ५७ । १६ ॥
नृपविशेषः । स च शूरसेनाधिपतिः । यथा,
रघुः । ६ । ४५ ।
“सा शूरसेनाधिपतिं सुषेण-
मुद्दिश्य लोकान्तरगीतकीर्त्तिम् ।
आचारशुद्धोभयवंशदीपं
शुद्धान्तरक्ष्या जगदे कुमारी ॥”)

सुषेणिका, स्त्री, कृष्णत्रिवृता । इत्यमरः । २ ।

४ । १०८ ॥

सुषेणी, स्त्री, त्रिवृत् । इति राजनिर्घण्टः ॥

सुषोमा, स्त्री, नदीभेदः । इति श्रीभागवते । ५ ।

१९ । १७ ।

सुष्ठु, व्य, (सुतिष्ठतीति । सु + स्था + “अपदुःसुषु

स्थः ।” उणा० १ । २६ । इति कुः । सुषमा-
दित्वात् षत्वम् । प्रशंसा । अतिशयम् । इत्य-
मरः । ३ । ४ । १ ॥ सत्यम् । इति संक्षिप्त-
सारोणोदादिवृत्तिः ॥ (यथा, भागवते । ४ । २२ । १७
“पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु ।
स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥”
“सुष्ठु गम्भीरार्थम् ।” इति तट्टीका ॥)

सुष्मं, क्ली, रज्जुः । इत्यमरटीकायां स्वामी ॥

सुसंयतः, त्रि, । सु + सम् + यम + क्तः ।) यथा-

विधिसंयमविशिष्टः । यथा, बह्मपुराणम् ।
“यो यः कश्चित्तीर्थयात्रान्तु गच्छेत्
सुसंयतः स च पूर्व्वं गृहे स्वे ।
कृतोपवास शुचिरप्रमत्तः
संपूजयेत् भक्तिनम्रो गणेशम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥

सुसंस्कृतं, त्रि, (सुष्ठु संस्क्रियते इति । सु + सं +

कृ + क्तः ।) घृतादिनानाद्रव्येण प्रयत्नसंस्कृत-
व्यञ्जनादि । तत्पर्य्यायः । प्रयस्तम् २ इत्यमरः ॥
“तैलपाकसुसंस्कारे प्रयस्तमुपसंस्कृतम् ॥”
इति शब्दरत्नावली ॥
उत्तमसंस्कारविशिष्टश्च ॥

सुसत्या, स्त्री, जनकराजभार्य्या । यथा, --

“जानामि पितरं चाहं विदेहाधिपतिं नृपम् ।
तस्य भार्य्यां सुसत्याख्यामह्ं जानामि मातरम् ॥
भ्रातरस्तत्सुताः सर्व्वे सीता मे भगिनी शुभा ।
सुसत्या मम मातेति लोको जानाति सन्ततम् ॥”
इति कालिकापुराणे ३७ अध्यायः ॥

सुसवी, स्त्री, सुषवी । इत्यमरटीकामां राय-

मृकुटः । २ । ४ । १५५ ॥

सुसम्पत् (सुष्ठु सम्पत् । प्रादिसमासः ।)

सौभाग्यम् । तत्पर्य्यायः । परभागः ३
इति त्रिकाण्डशेषः ॥

सुसम्पद् (सुष्ठु सम्पत् । प्रादिसमासः ।)

सौभाग्यम् । तत्पर्य्यायः । परभागः ३
इति त्रिकाण्डशेषः ॥

सुसहः, त्रि, सुखसह्यः ॥ दुःसहभिन्नः । सुखेन

सह्यतेऽसाविति सहधातोः कर्म्मण्यल्प्रत्ययेन
निष्पन्नः ॥

सुसारः, पुं, (सुष्ठु सारो यस्य ।) रक्तखदिरः ।

इति राजनिर्घण्टः ॥ अतिशयसारविशिष्टे, त्रि ॥

सुसारवत्, क्ली, (सुसारोऽस्त्यस्येति । मतुप् ।

मस्य वः ।) स्फाटिकम् । इति त्रिकाण्ड-
शेषः ॥

सुसिकता, स्त्री, (सुष्ठु सिकतेव ।) शर्करा । इति

राजनिर्घण्टः ॥ उत्तमवालुका च ॥

सुसीमा, स्त्री, वृत्तार्हन्माता । सा तु षष्ठजिन-

जननी । इति हेमचन्द्रः ॥ (शोभना सीमा ।)
उत्तमसीमा च ॥

सुस्थः, त्रि, (सु + स्था + कः ।) सुखेन तिष्ठति यः ।

अरोगी । यथा, श्रीभागवते । १० । ३ । २७ ।
“मर्त्यो मृत्युव्यालभीतः पलायन्
सर्व्वान् लोकान् निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं प्राप्य यट्टच्छयाद्य
सुस्थः शेते मृत्युरस्मादपैति ॥”

सुस्थता, स्त्री, (सुस्थस्य भावः । तल् ।) आरो-

ग्यम् । इति शब्दचन्द्रिका ॥

सुस्थिरः, त्रि, (सुष्ठुस्थिरः ।) स्थिरतरः । यथा,

श्रीभागवते । ११ । ९ । ३१ ।
“न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात् सुपु-
ष्कलम् ।
ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥”

सुस्नाः, पुं, (सुष्ठु स्नात्यनेन रूक्षत्वात् । सु + स्नै

+ क्विप् ।) शमीधान्यभेदः । खेसारी इति
भाषा । अस्य गुणाः ।
“सुस्ना दुर्व्वातलो रूक्षः कषायो विशदो गुरुः ।”
इति राजनिर्घण्टः ॥

सुस्नातः, पुं, (सुष्ठु + स्नातः ।) यज्ञान्तस्नानकृत् ।

इति शब्दावली ॥ सुन्दररूपकृतस्नाने, त्रि ।
यथा, --
“अघाहःसु निवृत्तेषु सुस्नाताः कृतमङ्गलाः ।
आशुच्याद्विप्रमुच्यन्ते ब्राह्मणान् स्वस्तिवाच्य च ॥”
इति शुद्धितत्त्वम् ॥

सुस्मिता, स्त्री, (सुष्ठु स्मितं यस्याः ।) स्त्रीभेदः ।

इति हेमचन्द्रः ॥ सुन्दरेषद्धास्ययुक्ते त्रि ॥

सुहस्ती, [न्] पुं, बौद्धभेदः । यथा, --

“महागिरिसुहस्त्यद्या वज्रान्ता दशपूर्व्विणः ।”
इति हेमचन्द्रः । ३४ ॥

सुहितः, त्रि, (सु + धा + क्तः ।) विहितः । तृप्तः ।

इति विश्वः ॥ (यथा, बृहत्संहितायाम् ।
५१ । २९ ।
“अतिबहु तदा भुक्त्वान्नं संस्थितः सुहितो
वदेत् ॥”)

सुहिता, स्त्री, (सु + धा + क्तः । टाप् ।) अग्नि-

जिह्वाविशेषः । इति जटाधरः ॥

सुहृत् पुं, (सु शोभनं हृत् हृदयं यस्य ।)

मित्रम् । सखा । इत्यमरः । २ । ८ । १२ ॥
(यथा, हितोपदेशे ।

सुहृद् पुं, (सु शोभनं हृत् हृदयं यस्य ।)

मित्रम् । सखा । इत्यमरः । २ । ८ । १२ ॥
(यथा, हितोपदेशे ।
“सुहृदां हितकामानां यः शृणोति न भाषि-
तम् ।
विपत्सन्निहिता तस्य स नरः शत्रुनन्दनः ॥”)
एकस्माल्लग्नात्तच्चतुर्थलग्नम् । यथा, --
“पातालं हिवुकञ्चैव सुहृदम्भश्चतुर्थकम् ।”
इति ज्योतिस्तत्त्वम् ॥
“शशिजः सुहृद्गृहगतः करोति चातुर्य्यहास्य-
धनवन्तं वचसामधिपः ।” इत्यादिकोष्ठीप्रदीपः ॥
(महादेवः । इति महाभारतम् । १३ । १७ । ९९ ॥)

सुहृदयः, त्रि, (सुष्ठु हृदयमन्तःकरणं यस्य ।)

प्रशस्तमनाः । तत्पर्य्यायः । हृदयालुः २ । इत्य-
मरः । ३ । १ । ३ ॥ सहृदयः ३ । इति शब्द-
रत्नावली ॥

सुहोत्रः, पुं, चन्द्रवंशीयबृहदिषुराजपुत्त्रः । यथा,

“बृहदिषोश्च दायादः सुहोत्रो नाम धार्म्मिकः
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ॥”
इति महाभारते हरिवंशे पितृकल्पे २० अः ॥
(सहदेवपुत्त्रः । यथा, महाभारते । १ । ९५ । ८० ।
“सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामो
पयेमे मद्रराजस्य द्युतिमतो दुहितरं तस्यां
पुत्त्रमजनयत् सुहोत्रं नाम ॥” * ॥ भरतवंशी-
यस्य भुमन्योः पुत्त्रविशेषः । यथा, तत्रैव । १ ।
९४ । २४ ।
“सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ।
पुष्करिण्यामृचीकश्च भुमन्योरभवन् सुताः ॥”)

सूः, स्त्री, सूतिः । क्षेपः । सूधातोः क्विप्प्रत्ययेन

निष्पन्नमिति केचित् ॥

सूकः, पुं, बाणः । वातः । उत्पलम् । इति मेदिनी ॥

सूकरः, पुं, (सूइत्यव्यक्तशब्दं कर्त्तुं शीलमस्य ।

कृ + टः ।) वराहः । इत्यमरः । २ । ५ । २ ॥
(यथा, वैराग्यशतके । १६ ।
“कामिजनपरमभोम्ये कामसुखे धारयन्ति
वीभत्सम् ।
सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न
इव ॥” * ॥
सुष्ठु कर्त्तुं शीलमस्य । सु + कृ + टः । पक्षे
उपसर्गस्य दीर्घत्वम् ।) कुम्भकारः । इति
शब्दरत्नावली ॥ मृगभेदः । इति जटाधरः ॥

सूकरी, स्त्री, (सूकर + जातौ ङीष् ।) सूकर-

भार्य्या ॥ (यथा, याज्ञवल्क्ये । ३ । २५६ ।
“पतिलोकं न सा याति ब्राह्मणी या सुरां
पिबेत् ।
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥”)
वराहक्रान्ता । इति शब्दमाला ॥

सूक्तं, त्रि, (सुष्ठु उक्तम् ।) शोभनोक्तिविशिष्टम् ।

वेदोक्तस्तोत्रमन्त्रादि । यथा । ऋग्वेदस्य अग्नि-
मीले, इत्यादि अग्निसूक्तम् । १ । १ । १ ॥ * ॥
सहस्रशीर्षेत्यादि पुरुषसूक्तम् । १० । ९० । १ ॥ * ॥
अहं रुद्रेभिरित्यादि देवीसूक्तम् । १० । १२५ । १ ॥ *
पृष्ठ ५/३९०
हिरण्यवर्णामित्यादि श्रीसूक्तम् ॥ * ॥ रात्री व्यख्य-
दायतीत्यादि रात्रिसूक्तम् । १० । १२७ । १ ॥ * ॥
आतून इन्द्र क्षुमन्तमित्यादि गणेशसूक्तम् । ८ ।
७० । १ ॥ * ॥ इयमददाद्रभसम् इत्यादि सरस्वती-
सूक्तम् । ६ । ६१ । १ ॥ * ॥ अतो देवा अवन्तु न
इत्यादि विष्णुसूक्तम् । १ । २२ । १६ ॥ * ॥ मेदिनी
देवीत्यादि भूसूक्तम् ॥ * ॥ आदित्यानामित्यादि-
आदित्यसूक्तम् । ७ । ५ । १ । १ ॥ * ॥ त्वं सोम इत्यादि
सोमसूक्तम् । १ । ९१ । १ ॥ इत्यादि ऋग्वेदस्य सूक्त-
सहस्रम् । यथा । सहस्रमेकं सूक्तानामित्यादि
चरणव्यूहः ॥ यजुर्व्वेदस्य विशमैशमित्यादि
कुमारसूक्तम् । सोमाय पितृमते इत्यादि पितृ-
सूक्तम् । पवमान स्वर्ज्जन इत्यादि पावमानी-
सूक्तम् । इत्यादि वेदप्रसिद्धम् ॥ तथा, --
“जप्यानि सूक्तानि तथैव चैषा-
मनुक्रमेणापि यथास्वरूपम् ।”
इति मलमासतत्त्वम् ॥
अपि च ।
“सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः ।
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ॥”
इति माकण्डेयपुराणे देवीमाहात्म्यम् ॥

सूक्ता, स्त्री, (सुष्ठु उक्तं कथनं यस्याः ।) शारिका ।

यथा, त्रिकाण्डशेषे ।
“सूक्ता मदनशलाका चित्राक्षी शारिकाव-
चण्डा च ॥”

सूक्ष्मं, क्ली, (सूच्यते इति । सूच पैशुन्ये +

“सूचेः स्मन् ।” उणा० ४ । १७६ । इति
स्मन् ।) कैतवम् । अध्यात्मम् । इति मेदिनी ॥
(यथा, भागवते । ३ । ८ । १४ ।
“तस्यार्थसूक्ष्माभिनिविष्टदृष्टे-
रन्तर्गतोऽर्थो रजसा तनीयान् ॥”)
अलङ्कारविशेषः । यथा, --
“सूक्ष्मं पराशयाभिज्ञे त्वरसाकूतचेष्टितम् ।
मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥
इति चन्द्रालोकः ॥

सूक्ष्मः, पुं, (सूच् + स्मन् ।) कतकवृक्षः ।

इति शब्दरत्नावली ॥ अणुः । अल्पे, त्रि ।
इति मेदिनी ॥ (यथा, महाभारते । १ ।
२१३ । १५ ।
“न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा ।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥”)
तत्पर्य्यायः ।
“अल्पे स्तोके क्षुल्लसूक्ष्मं क्षुल्लकञ्च कृशं तनु ।
दभ्रं खुल्ल खुल्लकञ्च स्त्रियां मात्रा त्रुटी कणा ।
पुमानणुर्लवो लेशः कणोऽपि च निगद्यते ॥”
इति शब्दरत्नावली ॥

सूक्ष्मकृष्णफला, स्त्री, सूक्ष्मं कृष्णञ्च फलं यस्याः ।)

मध्यमजम्बुवृक्षः । इति रत्नमाला ॥

सूक्ष्मतण्डुलः, पुं, (सूक्ष्मं तण्डुलं बीजं यस्य ।)

खस्खसः । इति राजनिर्घण्टः ॥

सूक्ष्मतण्डुला, स्त्री, (सूक्ष्मं तण्डुलं बीजं यस्याः ।)

पिप्पली । इति राजनिर्घण्टः ॥

सूक्ष्मदर्शी, [न्] त्रि, (सूक्ष्मं पश्यतीति । दृश +

णिनिः ।) अतिशयबुद्धिमान् । तत्पर्य्यायः ।
कुशाग्रीयमतिः २ तत्कालधीः ३ प्रत्युत्पन्नमतिः
४ । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
१३ । १४ । २३ ।
“न विदुर्यस्य भवनमादित्याः सूक्ष्मदर्शिनः ।
स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥”)

सूक्ष्मदारु, क्ली, (सूक्ष्मं दारु ।) तनुकाष्ठम् । तत्प-

र्य्यायः । कलिञ्जः ३ । इति त्रिकाण्डशेषः ॥

सूक्ष्मपत्रः, पुं, (सूक्ष्माणि पत्राणि यस्य ।) धान्य-

कम् । वनजीरकः । देवसर्षपः । लघुवदरः ।
सूरपर्णम् । वनवर्व्वरी । लोहितेक्षुः । कुक्कु-
टद्रुः । इति राजनिर्घण्टः । यथा, --
“वावलः स्वर्णपुष्पश्च सूक्ष्मपत्रश्च कण्टलः ॥”
इति शब्दचन्द्रिका ॥

सूक्ष्मपत्रिका, स्त्री, (सूक्ष्माणि पत्राणि यस्याः ।

ततः कन् । टापि अत इत्त्वम् ।) शतपुष्पा ।
शतावरी । लघुब्राह्मी । क्षुद्रोपोदकी । दुरा-
लभा । आकाशमांसो । इति राजनिर्घण्टः ॥

सूक्ष्मपर्णा, स्त्री, (सूक्ष्मं पर्णमस्याः ।) जीर्ण-

फञ्जी । डोडी । इति राजनिर्घण्टः ॥

सूक्ष्मपर्णी, स्त्री, (सूक्ष्मं पर्णमस्याः । ङीष् ।)

रामदूतीवृक्षः । यथा, --
“रामदूती पर्व्वपुष्पी विशल्या नागदन्तिका ।
काण्डली सूक्ष्मपर्णी च भरण्याह्वा फणिज्-
झका ॥”
इति शब्दचन्द्रिका ॥

सूक्ष्मपिप्पली, स्त्री, (सूक्ष्मा पिप्पली ।) वन-

पिप्पली । इति राजनिर्घण्टः ॥
सूक्ष्मपुष्पी, स्त्री, यवतिक्ता । इति राजनिर्घण्टः ॥

सूक्ष्मफलः, पुं, (सूक्ष्मं फलमस्य ।) भूकर्व्वुदारः ।

इति राजनिर्घण्टः ॥

सूक्ष्मफला, स्त्री, (सूक्ष्मं फलमस्याः ।) भूम्याम-

लकी । इति रत्नमाला ॥

सूक्ष्मबदरी, स्त्री, (सूक्ष्मा बदरी ।) भूबदरी ।

इति राजनिर्घण्टः ॥

सूक्ष्मबीजः, पुं, (सूक्ष्मं बीजं यस्य ।) खस्खसः ।

इति राजनिर्घण्टः ॥

सूक्ष्मभूतं, क्ली, (सूक्ष्मं भूतम् ।) अपञ्चीकृता-

काशादिभूतम् । इति वेदान्तसारः ॥

सूक्ष्ममक्षिकः, पुं, (सूक्ष्मा मक्षिका तद्वदाकृति-

रस्त्यस्येति । अच् ।) मशकः । इति राज-
निर्घण्टः ॥

सूक्ष्ममूला, स्त्री, (सूक्ष्मं मूलं यस्याः ।) जयन्ती ।

इति राजनिर्घण्टः ॥

सूक्ष्मवल्ली, स्त्री, (सूक्ष्मा वल्ली ।) ताम्रवल्ली ।

जतुका । इति राजनिर्घण्टः ॥

सूक्ष्मवस्त्रं, क्ली, (सूक्ष्मं वस्त्रम् ।) श्लक्ष्णवसनम् ।

सरु कापड इति भाषा । यथा । उपभोगोऽपि
न सूक्ष्मवस्त्रपरिधानादिना । इति दायभागः ॥

सूक्ष्मशरीराणि, क्ली, (सूक्ष्माणि शरीराणि ।)

ज्ञानेन्द्रियपञ्चकं कर्म्मेन्द्रियपञ्चकं वायुपञ्चकं
बुद्धिमनसी चेति सप्तदशावयवानि । इति
वेदान्तसारः ॥

सूक्ष्मशर्करा, स्त्री, (सूक्ष्मा शर्करेव ।) बालुका ।

इति राजनिर्घण्टः ॥

सूक्ष्मशाखः, पुं, (सूक्ष्मा शाखा यस्य ।) जाल-

वर्व्वूरः । इति राजनिर्घण्टः ॥

सूक्ष्मशालिः, पुं, (सूक्ष्मः शालिः ।) अणुधान्य-

विशेषः । तत्पर्य्यायः । सूचिशालिः २ पाव-
शालिः ३ सूचकः ४ । अस्य गुणाः । सूमधुर-
त्वम् । लघुत्वम् । पित्तास्रदहिनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

सूक्ष्मषट्चरणः, पुं, (सूक्ष्माणि षट्चरणानि

यस्य ।) पक्ष्मयूकः । इति राजनिर्घण्टः ॥

सूक्ष्मा, स्त्री, (सूक्ष्म + टाप् ।) यूथिका । इति

शब्दचन्द्रिका ॥ क्षुद्रैला । करुणी । वालुका ।
इति राजनिर्घण्टः ॥

सूक्ष्मैला, स्त्री, (सूक्ष्मा एला ।) क्षुद्रैला । गुजु-

राटी एलाचि इति भाषा । तत्पर्य्यायः ।
वयस्था २ तीक्ष्णगन्धा ३ त्रपुटी ४ त्रुटिः ५ ।
इति रत्नमाला ॥

सूच, त् क पैशुन्ये । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) दीर्घी । असु-
सूचत् कथां लोकः कथितवान् इत्यर्थः । इति
रमानाथः । पैशुन्यमन्तर्द्रोह इत्येके । इति
दुर्गादासः ॥

सूचः, पुं, (सीव्यति चरणौ इति । सिव + “सिवेष्टे-

रू च ।” उणा० ४ । ९३ । इति चट् । टेरू-
त्वञ्च ।) कुशाङ्कुरः । इति केचित् ॥

सूचकः, त्रि, (सूचयतीति । सूचपैशुन्ये + ण्वुल् ।)

पिशुनः । इत्यमरः । ३ । १ । ४७ ॥ (यथा, मनुः ।
४ । ७१ ।
“लोष्टमर्द्दी तृणच्छेदी नखखादी च यो नरः ।
स विनाशं व्रजत्याशु सूचकोऽशुचिरेव च ॥”)
अस्य विवरणं कर्णेजपशब्दं द्रष्टव्यम् ॥ (सूचन-
कर्त्ता । यथा महाभारते । १ । १३६ । २७ ।
“द्वारदेशात् समुद्भूतो माहात्मबलसूचकः ।
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥”)

सूचकः, पुं, (सीव्यत्यनेनेति । सिव + “सिवेष्टे-

रू च ।” उणा० ४ । ९३ । इति चट् । टेरूत्वञ्च ।
ततः स्वार्थे कन् ।) सीवनद्रव्यम् । (सूचय-
तीति । सूच + ण्वुल् ।) बोधकः । कुक्कुरः ।
विडालः । काकः । इति मेदिनी । के, १६८ ॥
पिशुनः । बुद्धः । सिद्धः । पिशाचः । इति
शब्दरत्नावली ॥ सूत्रधारः । कथकः । इति
हेमचन्द्रः ॥ सूक्ष्मशालिः । इति राजनिर्घण्टः ॥

सूचनं, क्ली, (सूच + ल्युट् ।) गन्धनम् । इत्यमरः ।

३ । ३ । ११४ ॥ ज्ञापनम् । इति त्रिकाण्डशेषः ॥
(यथा, कथासरित्सागरे । १५ । १४८ ।
“भङ्गिसूचनविधौ विशारदो
नारदो मुनिरदर्शनं ययौ ॥

सूचना, स्त्री, (सूच + णिच् + युच् । टाप् ।)

व्यधनम् । दृष्टिः । मन्धनम् । अभिनयः इति ।
पृष्ठ ५/३९१
विश्वमेदिन्यौ ॥ (ज्ञापनम् । यथा, साहित्य-
दर्पणे । ६ । ३१२ ।
“यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला ।
तदङ्कमुखमित्याहुर्बीजार्थख्यापकञ्च तत् ॥”)

सूचिः, स्त्री, (सूच्यतेऽनयेति । सूच + णिच् +

“अच इः ।” उणा० ४ । १३८ । इति इः ।)
व्यधनी । इत्यसरः । ३ । ५ । ७ ॥ (यथा, कथा-
सरित्सागरे । १०४ । ७५ ।
“चन्द्रोऽग्निर्विषमाहारो गीतानि श्रुतिसूचयः
उद्यानं बन्धनं पौष्पी माला दिग्धा शरावली ॥”
“विव्यथ भरतोऽतीव व्रणे तुद्येव सूचिना ।”
इति रामायणे । २ । ७५ । १७ । इत्यत्र तु
महाकविप्रयोगवशात् साधुत्वम् ॥) नृत्यप्रभेदः ।
शिखा । यथा, --
“सूचिर्नृत्यप्रभेदे च व्यधनीशिखयोरपि ।”
इति रत्नकोषः ॥
(यथा, कुमारे । ५ । ४३ ।
“अलभ्यशोकाभिभवेयमाकृति-
र्विमानना सुभ्रु कुतः पितुर्गृहे ।
पराभिमर्शो न तवान्ति कः करं
प्रसारयेत् पन्नगरत्नसूचये ॥” * ॥
केतकीपुष्पम् । इति सूचिपुष्पशब्दर्शनात् ॥
यथा, ऋनुसंहारे । २ । २३ ।
“मुदित इव कदम्बैर्जातपुष्पैः समन्तात्
पवनचलितशाखैः शाखिभिर्नृत्यतीव ।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसलिलनिषेकात् शान्ततापो वनान्तः ॥”
व्यूहविशेषः । यथा, मनुः । ७ । १९१ ।
“संहतान् योधयेदल्पान् कामं विस्तार-
येद्बहून् ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥”)

सूचिकः, पुं, सूच्या जीवति यः । दरजी इति

भाषा । तत्पर्य्यायः । सौचिकः २ सौचिः ३
तुन्नवायः ४ सूत्रभित् ५ । इति शब्दरत्ना-
वली ॥ (यथा, बृहत्संहितायाम् । १० । ९ ।
“हस्ते नापितचाक्रिकचौरभिषक्सूचिक-
द्विपग्राहाः ॥”)

सूचिका, स्त्री, (सूचिरेव स्वार्थे कन् ।) सूचिः ।

हस्तिशुण्डः । इति केचित् ॥

सूचिकाधरः, पुं, (सूचिकायाः शुण्डस्य धरः ।)

हस्ती । इति शब्दमाला ॥

सूचिकाभरणः, पुं, औषधविशेषः । यथा, --

“विषं पलमितं सूतः शाणकश्चूर्णयेद्द्वयम् ।
तच्चूर्णं संपुटे कृत्वा काचलिप्तशरावयोः ॥
मुद्रां कृत्वाथ संशोष्य ततश्चुल्ल्यां निवेशयेत् ।
वह्निं शनैः शनैः कुर्य्यात् प्रहरद्वयसङ्ख्यया ॥
ततः उद्घाट्य तन्मुद्रामुपरिस्थशरावकात् ।
सलग्नी यो भवेद्धूमस्तं गृह्णीयाच्छनैः शनैः ॥
वायुस्पर्शी यथा न स्यात्ततः कूप्यां निवेशयेत् ।
यावत् सूच्या मुखे लग्नं कूप्या निर्याति भेषजम्
तावन्मात्रो रसो देयो मूर्च्छिते सतिपातिनि ॥
क्षुरेण पक्षते मूर्द्ध्नि तत्राङ्गुल्या च घर्षयेत् ॥
रक्तभेषजसम्पर्कात् मूर्च्छितोऽपि हि जीवति ।
तथैव सर्पदष्टोऽपि मृतावस्थोऽपि जीवति ।
यदा तापो भवेत्तस्य मधुरं तत्र दीयते ॥”
इति सूचिकाभरणो रसः ॥
इति भैषज्यरत्नावली ॥ * ॥ अपि च ।
“विषं पलं रस शाणं तच्चूर्णं काचलेपिते ।
मृत्संपटे च संरुध्य चल्ल्यां संस्थाप्य पाच-
येत् ॥
शनैर्य्यामद्वयं पक्त्वा तं समुद्वास्य शीतलम् ।
ऊर्द्धपात्रगतं धूमं गृहीत्वा स्पृष्टमारुतम् ॥
यावत् सूच्या मुखे लग्नं कूप्या आयाति भेषजम्
क्षुरेण प्रक्षते शीर्षे तत्राङ्गुल्या च घर्षयेत् ॥
त्रिदोषे मूर्च्छितो जीवो रक्तभेषजसङ्गमात् ।
सर्पदष्टो मृतावस्थः सोऽपि जीवति तत्क्षणात्
दद्याच्च मधुरं तोयं सूचिकाभरणे रसे ॥”
इति सूचिकाभरणरसः सन्निपाते ॥
इति रसप्रदीपः ॥ * ॥ (अपि च ।
“रसगन्धकनागञ्च विषं स्थावरजङ्गमम् ।
मात्स्यवाराहमायूरच्छागपित्तैर्विभावयेत् ॥
सूचिकाभरणो नाम भैरवेण प्रकीत्तितः ।
सूचिकाग्रेण दातव्यः सन्निपातनिवर्हणः ॥”
इति सूचिकाभरणो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)

सूचिकामुखं, क्ली, (सूचिकेव क्रमसूक्ष्मं मुखं यस्य)

शङ्खः । इति हारावली । ११० ॥ सूच्यास्ये, त्रि ॥

सूचितः, त्रि, (सूच + क्तः ।) कथितः । बोधितः ।

(यथा, साहित्यदर्पणे । ६ । ३११ ।
“अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ।
यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः ॥”)

सूचिपत्रकः, पुं, (सूचिवत् सूक्ष्माणि पत्राणिं

यस्य । कप् ।) सितावरशाकः । इति राज-
निर्घण्टः ॥

सूचिपुष्पः, पुं, (सूच्याकारं पुष्पमस्य । सूचिरिति

नाम्ना ख्यातं पुष्पमस्येति वा ।) केतकवृक्षः ।
इति जटाधरः ॥

सूचिरोमा, [न्] पुं, (सूचिवत् रोमाणि यस्य ।)

वराहः । इति हारावली ॥

सूचिवदनः, पुं, (सूचिवत् सूक्ष्मं वदनं यस्य ।)

नकुलः । मसकः । इति राजनिर्घण्टः ॥

सूचिवान्, [त्] पुं, (सूचिस्तदाकारचञ्चुरस्त्य-

स्येति । मतुप् । मस्य वः ।) गरुडः । इति
शब्दरत्नावली

सूचिशालिः, पुं, (सूचिवत् सूक्ष्मः शालिः ।)

इति राजनिर्घण्टः ॥

सूची, स्त्री, (सीव्यतेऽनया । सिव + “सिवेष्टेरू च

उणा० ४ । ९३ । इति चट् । टेरूत्वञ्च ।
टित्वात् ङीप् । गौरादित्वात् ङीष् इति केचित्
सूच + इः । कृदिकारादिति ङीष् वा ।) सीवन-
द्रव्यम् । सूँच इति भाषा ॥ (यथा, महा-
भारते । ५ । ५८ । १८ ।
“यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान् प्रति ॥”
वैद्यकोक्तकार्य्यमस्या यथा, --
“एषण्यागतिमन्विष्य क्षारसूत्रानुसारिणीम् ।
सूचीं विदद्याद्गन्त्यन्ते चोन्नम्याशुच निर्हरेत् ॥
सूत्रस्यान्तं समानीय गाढबन्धनमाचरेत् ।
ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ॥
क्षाराक्तं मतिमान् वैद्यो यावन्न छिद्यते गतिः
भगन्दरेऽप्येष विधिः कार्य्यो वैद्येन जानता ॥
अर्व्वुदादिषु चोत्क्षिप्य मूले सूत्रं न धापयेत् ।
सूचीभिर्यववक्राभिराचितं वासमन्ततः ।
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्व्रणम् ॥”
इति वैद्यकचक्रपाणिग्रहे नाडीव्रणाधिकारे ॥)
आङ्गिकाभिनयविशेषः । अङ्गद्वाराचेष्टा । इति
मेदिनी ॥ करणम् । इति हेमचन्द्रः ॥ दृष्टिः ।
इति केचित् ॥ (केतकीपूष्पम् । इति सूचिशब्द-
दर्शनात् ॥ व्यूहविशेषः । यथा, मनुः । ७ । १८७ ।
“वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥”)

सूची, [न्] त्रि, (सूचयतीति । सूच + णिनिः ।)

सूचकः । (पिशुनः । यथा, महाभारते ।
५ । ३५ । ४६ ।
“पर्व्वकारी च सूची च मित्रध्रुक् पारदा-
रिकः ॥”)

सूचीदलः, पुं, (सूचीवत् दलानि यस्य ।) सिता-

वरः । इति राजनिर्घण्टः ॥

सूचीपत्रा, स्त्री, (सूचीवत् पत्राणि यस्याः ।)

गण्डदूर्व्वा । इति राजनिर्घण्टः ॥

सूचीपुष्पः, पुं, (सूचीवत् सूक्ष्मं पुष्पमस्य ।

सूचीति नाम्ना प्रसिद्धं पुष्पमस्येति वा ।)
केतकी । इति रत्नमाला ॥

सूचीमुखं, क्ली, (सूचीवत् सूक्ष्मं मुखं यस्य ।)

होरकम् । इति हेमचन्द्रः ॥ (यथा, साहित्य-
दर्तणे । ८ । ६१२ ।
“सूचीमुखेन सकृदेव कृतव्रणस्त्वं
मुक्ताकलाप लुठसि स्तनयोः प्रियायाः ।
बाणैः स्मरस्य शतशो विनिकृत्तमर्म्मा
स्वप्नेऽपि तां कथमहो न विलोकयामि ॥” * ॥
नरकविशेषः । यथा, भागवते । ५ । २६ । ७ ।
“पर्य्यावर्त्तनः सूचीमुखमित्यष्टाविंशतिर्नरका
विविधयातनाभूमयः ॥” * ॥ सूच्या मुखम् । यथा,
कादम्बरी । “तमसि सूचीमुखाग्रसंभेद्ये इति ॥”
सूचास्ये, त्रि । (यथा, महाभारते । ६ । १८ । ५ ।
“सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥”
तथा, मार्कण्डेये । १४ । ५५ ।
“दुष्टास्ते पूयनिर्य्यासभुजः सूचौमुखास्तु ते ॥”)

सूचीमुखः, पुं, (सूचीवत् सूक्ष्मं मुखं यस्य ।)

सितकुशः । इति राजनिर्घण्टः ॥

सूचीरोमा, [न्] पुं, (सूचीवत् रोमाणि यस्य ।)

शूकरः । इति त्रिकाण्डशेषः ॥ सूचातुल्य-
लोमविशिष्टे, त्रि ॥

सूच्यग्रस्थूलकः, पुं, (सूच्या अग्रैव स्थूलः । ततः

कन् ।) तृणविशेषः । उलु इति भाषा । यथा-
“सूच्यग्रस्थूलको दर्भो जूर्णाख्यथ खरच्छदः ॥”
इति रत्नमाला ॥
पृष्ठ ५/३९२

सूच्यास्यः, पुं, (सूचीवत् आस्यं मुखं यस्य ।)

मूषिकः । इति हेमचन्द्रः ॥ सूचीमुखे, त्रि ॥

सूच्याह्वः, पुं, (सूच्या आह्वा आह्वा यस्य ।)

सितावरः । इति राजनिर्घण्टः ॥

सूतः, पुं, (सूप्रेरणे ऐश्वर्य्ये प्रसवे च + क्तः ।)

सारथिः । (यथा, रघुः । ३ । ४२ ।
“स पूर्व्वतः पर्व्वतपक्षशातनं
ददर्श देवं नरदेवसम्भवः ।
पुनः पुनः सूतनिषिद्धचापलं
हरन्तमश्वं रथरश्मिसंयतम् ॥”)
त्वष्टा । इत्यमरः । ३ । ४ । ६१ ॥ क्षत्त्रियात्
ब्राह्मणीसुतः । (यथा, मनुः । १० । ११ ।
“क्षत्त्रियात् विप्रकन्यायां सूतो भवति जातितः
अश्वसारथ्यमेवैतेषां जीविका । यथा, तत्रैव ।
१० । ४७ ।
“सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम् ॥
वन्दी । (यथा, रघुः । ५ । ६५ ।
“सूतात्मजाः सवयसः प्रथितप्रबोधं
प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥”)
पारदः । इति मेदिनी ॥ (यथा, वैद्यकरसेन्द्र-
सारसंग्रहे जारणमारणाधिकारे ।
“हतो हन्ति जराव्याधिं मूर्च्छितोव्याधिघातकः
बद्धः खेचरतां धत्ते कोऽन्यः सूतात् कृपाकरः ॥
सूर्य्यः । इत्यनेकार्थकोषः ॥ पूराणवक्ता । यथा,
“सवान्ते सूतमनघं नैमिषीया महर्षयः ।
पुराणसंहितां पुण्यां पप्रच्छ लोमहर्षणम् ॥
त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः ।
इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥
अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् ।
द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः ॥
भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ।
मुनीनां संहितां वक्तुं व्यासः पौराणिकों पुरा
त्वं हि स्वायम्भुवे यज्ञे सत्यादौ वितते सति ।
संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तम ॥”
इति कौर्म्मे । १ । ३ -- ६ ॥ * ॥
अपि च ।
“नियोगाद्ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसः ।
वेणपुत्त्रस्य वितते पुरा पैतामहे मखे ॥
सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ।
प्रवक्ता सर्व्वशास्त्राणां धर्म्मज्ञो गुणवत्सलः ॥
तं मां वित्त मुनिश्रेष्ठाः पूर्व्वोद्भूतं सनातनम् ।
एतस्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ॥
श्रावयामास याः प्रीत्या पुराणपुरुषो हरिः ।
मदन्वये च ये सूताः संभूता वेदवर्ज्जिताः ।
तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ॥”
इति कौर्म्मे १२ अध्यायः ॥ * ॥
किञ्च ।
“ब्रह्मणः पौष्करे यज्ञे सूत्याहे वितते सति ।
पृषदाज्यात् समुत्पन्नः सूतः पीराणिको द्विजः ॥
वक्ता वेदादिशास्त्राणां त्रिकालामलतत्त्ववित् ।
तीर्थयात्राप्रसङ्गेन नैमिषारण्यमागमत् ॥”
इति वह्निपुराणे १ अध्यायः ॥ * ॥
अन्यच्च ।
“हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः ।
विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ ॥ ४४ ॥
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामते ॥ ५०
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ ५१
स्तूयतामेव नृपतिः पृथुर्वैण्यः प्रतापवान् ॥” ५२
इति विष्णुपुराणे । १ । १३ अध्यायः ॥ * ॥
यून एव पृथोर्जातत्वात् जातमात्रस्य यज्ञ इत्यु-
च्यते । पृथुरेवाभवत् यस्मात्ततः पृथुरजायत
इति मात्स्योक्तेः । पैतामहे पितामहदैवत्ये
पृथोरेव यज्ञे न तु पितामहकर्त्तृके । यथाह
वायुः । वैण्यस्य हि पृथोर्यज्ञे वर्त्तमाने महा-
त्मनः । सूतः सूत्यां समुत्पन्न इति । सूत्यामिति
सूतिरभिषूतिः अभिषूयते कण्ड्यते सोमोऽस्या-
मिति सूतिः सीमाभिषवभूमिस्तस्याम् । सौत्ये-
ऽहनि तस्मिन्नेव दिने । इति तट्टीका ॥ * ॥
किञ्च ।
“एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि पुराणवित् ॥
तेषां यज्ञे पुनस्त्वेवमुत्पन्नौ सूतमागधौ ।
पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥
ते ऊचुरृषयः सर्व्वे स्तूयतामेष पार्थिवः ।
तैर्नियुक्तौ सुकर्म्माणि पृथोर्यानि महात्मनः ॥
तुष्टुवुस्तानि सर्व्वाणि आशीर्व्वादांस्ततः परान्
तयोः स्तवान्ते सुपीतः पृथुः प्रादात् जनेज्वरः ॥
अनूपंदेशं सूताय मागधान् मागधाय च ।
तं दृष्ट्वा परमपीताः प्रजाः प्राहुर्महर्षयः ॥
वृत्तीनामेष वो दाता भविष्यति नरेश्वरः ॥”
इति वह्निपुराणे पृथोरुपाख्याननामाध्यायः ॥

सूतः, पुं, क्ली, (सू + क्तः ।) पारदः । इत्यमरः ॥

(यथा, --
“रसोनखरसैः सूतो नागवल्लीदलोत्थितैः ।
त्रिफलायास्तथा क्वाथै रसो मर्द्द्यः प्रयत्नतः ॥
ततस्तेभ्यः पृथक्कृत्वा सूतं प्रक्षाल्य काञ्जिकैः ।
सर्व्वदोषविनिर्म्मुक्तं योजयेद्रसकर्म्मसु ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-
धिकारे ॥)

सूतः, त्रि, (सू + क्तः ।) प्रसूतः । प्रेरितः । इति

मेदिनी ॥

सूतकं, क्ली, (सू + भावे क्तः । ततः स्वार्थे कन् ।

जन्म । इति मेदिनी ॥ (सूतकं जन्म कारण-
त्वेनास्त्यस्येति । अच् ।) जननाशौचम् । यथा,
“मृतेन सूतकं गच्छेन्नेतरत् सूतकेन तु ।” इति ।
वृद्धमनुरपि ।
“शावस्योपरि शावे तु सूतकोपरि सूतके ।
शेषाहोभिर्व्विशुद्धिः स्यादुदक्यां सूतिकां विना ॥”
मरणाशौचम् । यथा, --
“सर्व्वं गोत्रमसंस्पृश्यं तत्र स्यात् सूतके सति ।
मध्येऽपि सूतके दद्यात् पिण्डान् प्रेतस्य तृप्तये ॥”
इति शुद्धितत्त्वम् ॥
प्रतिबन्धकम् । यथा, --
“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।
आरब्धे सूतकं न स्यादनारब्धे नु सूतकर्म् ॥”
इति तिथ्यादितत्त्वम् ॥
(उपरागः । ग्रहणम् । यथा, मनुः । ४ । ११० ।
“प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥”
“राजा चन्द्रमास्तस्य सूतकं राहुं प्रत्यमृत-
स्रवणं चशब्दात् सूर्य्यस्य च । अथवा जनपदे-
श्वरस्य राज्ञः सूतकं पुत्त्रजन्मोत्मवः । राहोः
सूतकं चन्द्रसूर्य्ययोरुपरागः ग्रहणमिति प्रसि-
द्धम् ॥” इति तत्र मेधातिथिः ॥)

सूतकः, पुं, क्ली, (सूत एव । स्वार्थे कन् ।) पारदः ।

इति मेदिनी ॥ (पर्य्यायोऽस्य यथा, --
“रसेन्द्रः पारदः सूतः सूतराजश्च सूतकः ।
शिवतेजो रसः सप्त नामान्येवं रसस्य तु ॥”
ईति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-
धिकारे ॥)

सूतका, स्त्री, सूतिका । इति सूतकागृहशब्द-

दर्शनात् ॥

सूतकागृह, क्ली, (सूतकायाः गृहम् ।) सूतिका-

गृहम् । इत्यमरटीकायां भरतः । ३ । २ । ८ ॥

सूततनयः, पुं, (सूतस्य अधिरथस्य सूर्य्यस्य वा

तनयः ।) कर्णः । इति हेमचन्द्रः ॥ (सौतिः ।
इति महाभारतम् ॥)

सूतपुत्त्रः, (सूतस्य अधिरथस्य सूर्य्यस्य वा

पुत्त्रः । कर्णः । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १ । १३५ । ११ ।
“स्पर्द्धमानस्तु पार्थेन सूतपुत्त्रोऽत्यमर्षणः ।
दुर्य्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान् ॥”
सौतिः । यथा, तत्रैव । १ । ५ । ११ ।
“सूतपुत्त्र ! यथा तस्य भार्गवस्य महात्मनः ।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥”)

सूतपुत्त्रकः, पुं, (सूतपुत्त्र एव । स्वार्थे कन् ।)

कर्णः । इति त्रिकाण्डशेषः ॥ (सौतिः । इति
महाभारतम् ॥)

सूतराट्, [ज्] पुं, (सूतः सन् राजते इति ।

राज् + क्विप् ।) पारदः । इति राजनिर्घण्टः ॥

सूतिः, स्त्री, (सू + क्तिन् ।) सोमाभिषवभूमिः ।

यथा । “अभिषूयते कण्ड्यते सोमोऽस्यामिति
सूतिः सोमाभिषवभूमिः ।” इति सूतशब्दे
विष्णुपुराणटीका ॥ जननम् । (यथा, भाग-
वते । १ । १६ । १ ।
“यथा हि सूत्यामभिजातकोविदाः
समादिशन् विप्र महद्गुणस्तथा ॥”)
सन्तानः । सीवनम् । इति केचित् ॥

सूतिका, स्त्री, (सू + क्तः । टाप् । ततः स्वार्थे

कन् । यद्वा, सूतं प्रसवोऽस्त्यस्यामिति । ठन् ।)
नवप्रसूता । यथा, --
“शावस्योपरि शावे तु सूतकोपरि सूतके ।
शेषाहोभिर्व्विशुद्धिः स्यादुदक्यां सूतिकां विना ॥”
इति शुद्धितत्त्वम् ॥ * ॥
पृष्ठ ५/३९३
तदन्नभोजनप्रायश्चित्तं यथा । शङ्खः ।
“चाण्डालान्नं मूमिपान्नमजजीविश्वजीविनाम्
शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रती भवेत् ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
तदवलोकनतदालपनतत्संस्पर्शनिषेधो यथा --
“नालपेत् जनविद्विष्टान् वीरहीनां तथा
स्त्रियम् ।
देवता-पितृसच्छास्त्रयज्ञसत्रादिनिन्दकैः ॥
कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात् ।
अवलोक्य तथादक्यामन्त्यजं पतितं शवम् ॥
विधर्म्मिसूतिकाषण्डविवस्त्रान्तावसायिनः ।
मृतनिर्यातकांश्चैव परदाररतांश्च ये ।
एतदेव हि कर्त्तव्यं प्राज्ञैः शोधनमात्मनः ॥”
पारिभाषिकसूतिकालक्षणं यथा, --
“अभोज्यसूतिकाषण्ढमार्जाराखूंश्च कुक्कुटान् ।
पतितापविद्धचाण्डालमृतहारांश्च धर्म्मवित् ॥
संस्पृश्य शुध्यते स्नानात् उदक्याग्रामसूकरौ ।
तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि ॥
अलर्क उवाच ।
भवत्या कीर्त्तिता भोज्या य एते सूतिकादयः ।
अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि ह ॥
मदालसोवाच ।
ब्राह्मणी ब्राह्मणश्चैव यावत्शेषत्वमागतौ ।
तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥”
इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥
वामनपुराणे १४ अध्याये च द्रष्टव्यम् ॥

सूतिकागारं, क्ली, (सूतिकाया आगारम् ।)

प्रसवगृहम् । इति जटाधरः ॥ (यथा, हरि-
वंशे । १६३ । ४७ ।
“आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद ।
सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः ॥”)

सूतिकागृहं, क्ली, (सूतिकाया गृहम् ।) प्रसवा-

लयः । तत्पर्य्यायः । अरिष्टम् २ । इत्यमरः ।
१ । २ । ८ ॥ सूतकागृहम् ३ । इति तट्टीका ॥
सूतीगृहम् ४ सूतिगृहम् ५ । इति जटाधरः ॥
तस्याकृतिर्यथा, --
“अष्टहस्तायतं चारु चतुर्हस्तविशालकम् ।
प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम् ॥”
इति भावप्रकाशः ॥
तत्र पिशाचानां वासो यथा, --
“सर्व्वत्रगानप्रतिघान् सूतिकागृहसेविनः ।
पृष्ठतः पाणिपादांश्च पृष्ठग्रीवान् सुरंहसः ॥
एवविधान् पिशाचांश्च दृष्ट्वा ब्रह्मानुकम्पया ।
अन्तर्धानं वरं प्रादात् कामशायित्वमेव च ॥”
इति वह्निपुराणे प्रजापतिसर्गनामाध्यायः ॥
प्रसवात् पूर्व्वं तत्संस्कारमाह साङ्ख्यायनगृह्यम्
काकादन्या मेचकधातक्या बृहत्याः कोषतक्या
कालक्लीतकस्य मूलानि पेषयित्वा उपलेपयेद्देशं
यस्मिन् प्रजायते रक्षसामपहत्यै इति । काका-
दनी काकजङ्क्षा । मेचकधातकीकाकमोचिका
कोषातकी घोषकम् । कालक्लीतकः यष्टिमधु-
केति कल्पतरुः ॥ अतएव हरिवंशे ।
“एष मानुष्यको यत्नो मानुषैरेव साध्यते ।
श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ॥
मन्त्रग्रामैः सूविहितैरौषधैश्चैव योजितैः ।
यत्नेन चानुकूलेन दैवमप्यनुलोम्यते ॥”
इत्यनुचरान् प्रति कंसवाक्यम् । इति ज्योति-
स्तत्त्वम् ॥

सूतिकागेहं, क्ली, (सूतिकाया गेहम् ।) प्रसव-

गृहम् । यथा, --
“जगाम सूतिकागेहं नारीरूपं विधाय भूः ।
जयशब्दः शङ्खशब्दो हरिशब्दो बभूव ह ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४ अध्यायः ॥

सूतिकाभवनं, क्ली, (सूतिकाया भवनम् ।) प्रसव-

गृहम् । इति हलायुधः ॥

सूतिकावासः, पुं, (सूतिकाया आवासः ।) प्रसव-

गृहम् । यथा, --
“सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तन्तु शुद्धिर्ज्जन्मनि कीर्त्तिता ।
षष्ठेऽह्नि रात्रियागन्तु जन्मदानान्तु कारयेत् ॥”
इति शुद्धितत्त्वम् ॥

सूतिकारोगः, पुं, (सूतिकाया रोगः ।) नव-

प्रसूताया व्याधिभेदः । तन्निदानादि यथा, --
“मिथ्योपचारात् संक्नेशात् विशमाजीर्णभोज-
नात् ।
सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते ॥”
मिथ्योपचारात् अनुचिताचरणात् । प्रवातादि-
सेवनात् । संक्लेशात् संक्लिश्यन्ते दोषा अनेन
इति संक्लेशः दोषजनकमन्नं तस्मात् । दारुणाः
कष्टसाध्याः । के ते व्याधय इत्याकाङ्क्षायामाह ।
“अङ्गमर्द्दो ज्वरः कासः पिपासा गुरुमात्रता ।
शोथः शूलातिसारौ च सूतिकारोगलक्षणम् ॥”
एतेऽङ्गमर्द्दादयः प्रायेण सूतिकाया भवन्तः
सूतिकारोगत्वेन लक्ष्यन्ते ॥ * ॥ ज्वरादीनां
रोगविशेषाणां निदानविशेषमाह ।
“ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः ।
तन्द्रारुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः ॥
कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः
ते सर्व्वे सूतिका नाम्ना रोगास्ते चाप्युपद्रवाः ॥”
सूतिकाभवत्वेन सूतिकानाम्ना ते रोगाः ।
आश्रयाश्रितयोरभेदोपचारात् । ते चाप्युपद्रवा
इति । त एव ज्वरादय उक्तानां रोगाणामन्य-
तमं प्रधानीकृत्योपद्रवाश्च ॥ * ॥
अथ सूतिकारोगचिकित्सा ।
“सूतिकारोगशान्त्यर्थं कुर्य्यात् वातहरीं
क्रियाम् ।
दशमूलकृतं क्वाथं कोष्णं दद्यात् घृतान्वितम् ॥
अमृतानागरसहचरभद्रोत्कटपञ्चमूलकं जल-
दम् ।
शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकातङ्कम् ॥
देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम् ।
भूनिम्बकट्फलं मुस्तं तिक्ताधान्यं हरीतकी ॥
गजकृष्णा सदुःस्पर्शा गोक्षुरं धन्वयासकः ।
बृहत्यतिविषा च्छिन्ना कर्क्कटः कृष्णजीरकः ॥
समभागान्वितैरेतैः सिन्धुरामठसंयुतैः ।
क्वाथमष्टावशेषन्तु प्रसूतां पाययेत् स्त्रियम् ॥
शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽर्त्तिभिः ।
युक्तं प्रलापतृड्दाहतन्द्रातीसारवान्तिभिः ॥
निहन्ति सूतिकारोगं वातपित्तकफोद्भवम् ।
कषायो देवदार्व्वादिः सूतायाः परमौषधम् ॥”
इति देवदार्व्वादिक्वाथः ॥ * ॥
“जीरकः स्थूलजीरश्च शतपुष्पाद्वयन्तथा ।
यवानी चाजमोदा च धान्यकं मेथिकापि च ॥
शुण्ठी कृष्णा कणामूलं चित्रकं हपुषापि च ।
वदरीफलचूर्णञ्च कुष्ठं कम्पिल्लकं तथा ॥
एतानि पलमात्राणि गुडं शतपलं मतम् ।
क्षीरं प्रस्थद्वयं दद्यात् सर्पिषः कुडवन्तथा ॥
पञ्चजीरकपाकोऽयं प्रसूतानां प्रशान्तये ।
युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये ।
कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु च ॥”
इति पञ्चजीरकपाकः ॥ * ॥
“आज्यस्याञ्जलियुग्ममत्र पयसःप्रस्थद्वयंखण्डत
पञ्चाशत्पलमत्र चूर्णितमथ प्रक्षिप्यते नागरम् ।
प्रस्थार्द्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्यकात्
मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजि-
जीरादपि ॥
व्योषाम्भोददलोरगेन्द्र-सुमनस्तत्द्राविडीनां पल
पक्वं नागरखण्डसंज्ञकमिदं सौभाग्यदं योषि-
ताम् ।
तृट्श्वासज्वरदाहशोषशमनं सश्वासकासापहं
प्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दी-
पनम् ॥”
दलं पत्रकम् । उरगेन्द्रसुमुखनागकेशरम् ।
द्राविडी सूक्ष्मैला । सौभाग्यशुण्ठीपाकः । इति
भावप्रकाशः ॥

सूतिकाषष्ठी, स्त्री, (सूतिकायाः षष्ठी । सूतिका-

गृहपूज्या षष्ठीति मध्यपदलोपी कर्म्मधारयो
वा ।) सूतिकागारे जातबालकस्य षष्ठदिने
पूज्यदेवीविशेषः । अथ सूतिकाषष्ठी-पूजा ।
विष्णुधर्म्मोत्तरे ।
“सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तार्थं शुद्धिर्जन्मनि-कीर्त्तिता ॥
षष्ठेऽह्नि रात्रियागन्तु जन्मदानाञ्च कारयेत् ।
रक्षणीया सदा षष्ठी निशां तत्र विशेषतः ॥
राम ! जागरणं कार्य्यं जन्मदानां तथा वलिः ॥”
रामेति सम्बोधनम् ॥ * ॥ तत्राशौचान्तरदोषो-
ऽपि नास्ति ।
“अशौचे तु समुत्पन्ने पुत्त्रजन्म यदा भवेत् ।
कर्त्तुस्तात्कालिकी शुद्धिः पूर्व्वाशौचाद्विशु-
ध्यति ॥”
इति प्रजापतिवचनात् । पुत्त्रजन्मेति श्रवणात्
पितुरेवाशौचाभावः न तु मातुः कर्त्तुरिति
पुंलिङ्गनिर्द्देशाच्च । कारयेदिति अन्यगोत्रजाभि-
प्रायेण ॥ * ॥ तत्रादौ विनयकादिसहितषोडश-
मातृकापूजनम । तथा च कृत्यचिन्तामणौ ।
पृष्ठ ५/३९४
“छागजागरणं कार्य्यं खङ्गो धार्य्यः समी-
पतः ।
आवाह्य पूजयेद्देवीं गणेशं मातरं गिरिम् ॥”
देवीं षष्ठीम् । गिरिं मन्थानदण्डम् ॥ * ॥ मातृ-
नामान्याह । बह्वृचगृह्यपरिशिष्टम् ।
“गौरी पद्मा शची मेधा सावित्री विजया जया
देवसेना स्वधा स्वाहा मातरो सोकमारतः ॥
शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह ।
आदौ विनायकः पूज्यो अन्ते च कुलदेवताः ॥”
ताश्चाभिधाय भविष्ये ।
“पूज्याश्चित्रेऽथवा कार्य्या वरदाभयपाणयः ।”
मातरः इति सर्व्वासां विशेषणम् । अतएव गौर्य्यै
मात्रे नमः । इत्यादिप्रयोगः । एता मातरो
लोकमातरो ज्ञेयाः अतएव तयोर्ब्बहुत्वेन
निर्द्देशः ॥ * ॥ गणेशपूजायां प्रार्थनामन्त्रो यथा,
“सर्व्वविघ्नहरो देव एकदन्तो गजाननः ।
षष्ठीगृहेऽर्च्चितः प्रीत्या शिशुं दीर्घायुषं कुरु ॥”
ततः ।
“आयाहि वरदे देवि महाषष्ठीति विश्रुता ।
शक्तिरूपेण मे पुत्रं रक्ष जागरवासरे ॥”
इति षष्ठ्या आवाहनम् । ततः षष्ठों पूजयेत् ।
“गौर्य्याः पुत्त्रो यथा स्कन्दः सदा संरक्षितस्त्वया
तथा ममाप्ययं बालो रक्ष्यतां षष्ठि ते नमः ॥”
इति त्रिः पूजयेदिति । भोजराजः ।
“गणेशश्चैव नन्दा च पूतना मुखमण्डिका ।
विवानिका शकुनिका शुष्कनन्दा च जम्भिका ॥
आचार्य्यका रेवती च पिलिपिञ्जा ततः परम् ।
स्कन्दा च द्वादशैतेऽर्च्च्याः रक्षार्थं मातृका-
ग्रहाः ॥”
कृत्यचिन्तामणौ स्तुतिः ।
“जय देवि जगन्मातर्जगदानन्दकारिणि ।
प्रसीद मम कल्याणि नमोऽस्तु षष्ठि देवि ते ॥”
वरप्रार्थनम् ।
“रूपं देहि यशो देहि भाग्यं भगवति देहि मे ।
पुत्त्रान्देहि धनं देहि सर्व्वान् कामांश्च देहि मे ॥
धात्री त्वं कार्त्तिकेयस्य महाषष्ठीति विश्रुता ।
त्वत्प्रसादादविघ्नेन चिरं जीवतु बालकः ॥
देवतानामृषीणाञ्च सर्व्वेषां हितकारिणि ।
समर्पितं रक्ष पुत्त्रं महाषष्ठि नमोऽस्तु ते ॥
इत्यनेन बालं व्यजनस्थं कृत्वा समर्पयेत् ॥”
मन्थानदण्डं पूजयेत् ।
“मन्थानमन्दरोऽसि त्वं मथितः सागरस्त्वया ।
तथा ममापि पुत्त्रस्य मन्थ विघ्नं नमोऽस्तुते ॥”
ततः षट्कृत्तिकाः पूजयेत् । ताश्च ।
“शिवा सम्भूतिनाम्नी च कीर्त्तिः सन्ततिरेव च ।
अनसूया क्षमा चैव षडेताः कृत्तिकाः स्मृताः ॥”
मार्कण्डयपुराणम् ।
“अग्न्यम्बुपशुशून्ये च निर्यूपे सूतिकागृहे ।
अदीपशस्त्रमूषले भूतिसर्षपवर्ज्जिते ।
अनुप्रविश्य या जातमपहृत्यात्मसम्भवम् ।
क्षणप्रसविनी बालं तत्रैवोत्सृज्यते द्विज ॥
मा जातहारिणी नाम सुघोरा पिशिताशना ।
तस्मात् संरक्षणं कार्य्यं यत्नतः सूतिकागृहे ॥”
यूपो बद्धच्छागस्तम्भः । पशुः छागः । छाग-
जागरणं कार्य्यमित्येकवाक्यत्वात् ॥ * ॥ पाद्मे ।
“पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति ।
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥”
इति ज्योतिस्तत्त्वम् ॥
अन्यत् षष्ठीशब्दे द्रष्टव्यम् ॥

सूतिगृहं, क्ली, (सूत्याः प्रसवस्य गृहम् ।) प्रसव-

गृहम् । इति शब्दरत्नावली ॥

सूतिमासः, पुं, (सूतेः प्रसवस्य मासः ।) प्रसव-

मासः । तत्पर्य्यायः । वैजननः २ । इत्यमरः ।
२ । ६ । ३९ ।
“सूतिमासो वैजननो नवमो दशमोऽपि च ।”
इति जटाघरः ॥

सूतीगृहं, क्ली, (सूत्याः गृहम् ।) प्रसवागारः ।

इति शब्दरत्नावली ॥ (यथा, भागंवते । १० ।
८५ । २० ।
सूतीगृहे ननु जगाद भवानजो नो
संजज्ञ इत्यनुयुगं निजधर्म्मगुप्त्यै ॥”)

सूत्कारः, पुं, (सूत् इति शब्दस्य कारः करणम् ।)

अनुकरणशब्दविशेषः । सूत् इति शब्दं
करोति । यथा, सीत्कारादिः ॥

सूत्थानः, त्रि, (सुष्ठु, उत्थानं उद्योगो यस्य ।)

चतुरः । इत्यमरः ॥ सुन्दरोत्थाने, क्ली ॥

सूत्परं, क्ली, सुरासन्धानम् । इति शब्दचन्द्रिका ॥

सूत्या, स्त्री, (सू + क्यप् । निपातनात् साधुः ।)

यज्ञस्नानम् । तत्पर्य्यायः । अभिषवः २
सवनम् ३ । इत्यमरः ॥ सोमलतारसपानम् ।
इति भरतः ॥

सूत्याशौचं, क्ली, (सूतिनिमित्तकमाशौचम् ।)

जननाशीचम् । यथा, --
“दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः ।
शावाशौचं न कर्त्तव्यं सूत्याशौचं विधीयते ॥”
इति शुद्धितत्त्वम् ॥

सूत्र, त् क ग्रन्थने । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) दीर्घी दन्त्यवर्गाद्य-
मध्यः । वेष्टने इत्यन्ये । सूत्रयति सूत्रापयति
सूत्रेण हस्तं लोकः । इति दुर्गादासः ॥

सूत्रं, क्ली, (सूत्र्यतेऽनेनेति । सूत्रत् क ग्रन्थने +

णिच् + “एरच् ।” इत्यच् । यद्वा षिव्यु तन्तु-
सन्ताने + “सिविमुच्योष्टेरू च ।” उणा० ४ ।
१६२ । इति ष्ट्रन् । टेरू च ।) वस्त्रारम्भकम् ।
सूता इति भाषा । तत्पर्य्यायः । तन्तुः २ ।
इत्यमरजटाधरौ ॥ सूत्रतन्तुः ३ । इति भरत-
धृतहारावली ॥ (यथा, रघुः । १ । ४ ।
“अथवा कृतवाग्दारे वंशेऽस्मित् पूर्व्व-
सूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥”
यज्ञसूत्रम् । यथा, महानिर्व्वाणे । १ । ४८ ।
“ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम् ॥”)
व्यवस्था । शास्त्रादिसूचनाग्रन्थः । इति मेदिनी ॥
सूत्रलक्षणं यथा, --
“स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥”
इति मुग्धबोधटीकायां दुर्गादासः ॥
(कारणम् । निमित्तम् । यथा, भागवते । ४ ।
६ । ४३ ।
त्वमेव धर्म्मार्थदुघाभिपत्तये
दक्षेण सूत्रेण ससर्ज्जिथाध्वरम् ॥”)

सूत्रकण्ठः, पुं, (सूत्रं कण्ठे यस्य ।) विप्रः ।

खञ्जरीटः । कपोतः । इति मेदिनी ॥

सूत्रकोणः, पुं, (सूत्रबद्धः कोणो र्यस्य ।) डमरुः ।

इति हारावली ॥

सूत्रकोणकः, पुं, (सूत्रकोण एव । स्वार्थे कन् ।)

डमरुः । इति त्रिकाण्डशेषः ॥

सूत्रगण्डिका, स्त्री, (सूत्रं गण्डयतीति । गण्ड +

ण्वुल् ।) तन्त्रवायोपकरणविशेषः । तत्पर्य्यायः ।
एषणी २ । इति शब्दरत्नमाला ॥

सूत्रतन्तुः, पुं, (सूत्रमेव तन्तुः ।) सूत्रम् । इति

हारावली ॥

सूत्रतर्कुटी, स्त्री, (सूत्रस्य तर्कुटी ।) तर्कुटी ।

इति जटाधरः ॥ टेको इति भाषा ॥

सूत्रधरः, पुं, (धरतीति । धृ + अच् । सूत्रस्य

धरः ।) सूत्रधारः । इति केचित् ॥

सूत्रधारः, पुं, (सूत्रं धरति धारयति वा । धृ +

णिच् वा + अण् ।) शचीपतिः । इन्द्रः । नान्द्य-
न्तरसञ्चारी । स तु रङ्गभूमिं परिक्रम्य नाट-
कीयकथासूत्रसूचकः । (यथा, साहित्यदर्पणे ।
६ । २८३ ।
“पूर्व्वरङ्गं विधायैव सूत्रधारो निवर्त्तते ।
प्रविश्य स्थापकस्तद्वत् काव्यमास्थापयेत्ततः ॥”)
शिल्पिप्रभेदः । छुतार इति भाषा । इति
मेदिनी ॥ स च शूद्रागर्भे विश्वकर्म्मण औरसेन
जातः । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

सूत्रपुष्पः, पुं, (सूत्रार्थं पुष्पमस्य ।) कार्पासः ।

इति त्रिकाण्डशेषः ॥

सूत्रबीणा, स्त्री, (सूत्रबद्धा बीणा ।) बीणा-

भेदः । तत्पर्य्यायः । लावुकी २ । इति हारा-
वली ॥

सूत्रभित्, पुं, (सूत्रं भिनत्तीति । भिद् + क्विप् ।)

सौचिकः । इति शब्दरत्नावली ॥

सूत्रभिद्, पुं, (सूत्रं भिनत्तीति । भिद् + क्विप् ।)

सौचिकः । इति शब्दरत्नावली ॥

सूत्रमध्यभूः, पुं, (सूत्रमध्यवत् भूरुत्पत्तिर्यस्य ।)

यक्षधूपः । इति शब्दचन्द्रिका ॥

सूत्रयन्त्रं, क्ली, (सूत्रस्य यन्त्रम् ।) सूत्रवेष्टनकाष्ठम् ।

ताँत इति भाषा । यथा, --
“आवापनं सूत्रयन्त्रं यत्सूत्रैरभिवेष्टते ॥”
इति शब्दमाला ॥

सूत्रला, स्त्री, (सूत्रं लातीति । ला + कः ।)

तर्कुटी । इति हारावली ॥

सूत्रवेष्टनं, क्ली, (वेष्ट्यतेऽनेनेति । वेष्ट + करणे

ल्युट् । सूत्रस्य वेष्टनम् । तन्त्रवायोपकरणम् ।
तासनी इति भाषा । तत्पर्य्यायः । त्रसरः २ ।
इत्यमरः । ३ । २ । २४ ॥ तसरः ३ । इति
भरतः ॥
पृष्ठ ५/३९५

सूत्रामा, [न्] पुं, सुष्ठु त्रायते इति । सु + त्रै +

“सर्व्वधातुभ्यो मनिन् ।” उणा० ४ । १४४ ।
इति मनिन् । पक्षे उपसर्गस्य दीर्घत्वम् ।)
इन्द्रः । इत्यमरः । १ । १ । ४५ ॥

सूत्राली, स्त्री, (सूत्रस्य आली श्रेणिर्यत्र ।) गल-

सूत्रम् । तत्पर्य्यायः । गलमेखला २ । इति
हारावली ॥

सूत्री, [न्] पुं, (सूत्रमस्यास्तीति । सूत्र + इनिः ।

काकः । इति त्रिकाण्डशेषः ॥ सूत्रविशिष्टे, त्रि ॥

सूदः, पुं, (सूदयति रसानिति । सूद क्षरणे + णिच्

+ अच् ।) सूपकारः । (यथा, महाभारते ।
१ । १३४ । २१ ।
“तं दृष्ट्वानित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम्
आहूय वचनं द्रोणो रहः सूदमभाषत ॥”)
व्यञ्जनम् । इत्यमरः । ३ । ३ । ९० ॥ (यथा,
महाभारते । १ । १२८ । ३४ ।
“भक्ष्यं भोज्यञ्च पेयञ्च चोष्यं लेह्यमथापि वा ।
उपाकृतं नरैस्तत्र कुशलैः सूदकर्म्मणि ॥”)
सूपः । इति विश्वः ॥ सारथ्यम् । अपराधः ।
लोध्रः । पापम् । इत्यजयपालः ॥

सूदनं, क्ली, (सूद् + ल्युट् ।) अङ्गीकरणम् ।

हनन्म् । (यथा, हरिवशे । १६३ । ४२ ।
“वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च ।
अभेद्यं कवचं तस्य प्रयच्छासुरसूदने ॥”)
निःक्षेपणम् । षूदधातोरनट्प्रत्ययेन निष्पन्नम् ॥
तद्वति, त्रि । (यथा, महाभारते । १ । १९ । २० ।
“तत्र दिव्यं धनुर्द्दष्ट्वा नरस्य भगवानपि ।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम् ॥”)

सूदशाला, स्त्री, (सूदस्य शाला ।) पाकशाला ।

तथा, --
“सूदशाला रसवती पाकस्थानं महानसम् ॥”
इति हेमचन्द्रः ॥

सूदाध्यक्षः, पुं, (सूदानां सूपकाराणामध्यक्षः ।)

पाकशालाध्यक्षः । तत्पर्य्यायः । पौरोगरः १ ।
इति हेमचन्द्रः ॥ पुरोगमः ३ । इति शब्द-
रत्नावली ॥ तल्लक्षणं यथा, --
“अनाहार्य्यः शुचिर्द्दक्षश्चिकित्सितविदांवरः ।
सूदशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते ॥”
इति मात्स्ये १८९ अध्यायः ॥

सूनं, क्ली, (सू ओ ङ य सूतौ + क्तः ।) प्रसवः ।

पुष्यम् । विकसिते, त्रि । इति विश्वमेदिन्यौ ॥

सूनः, त्रि, (सू + क्तः । “ओदितश्च ।” ८ । २ । ४५ ।

इति निष्ठातस्य नः ।) जातः । इति मुग्धवोध-
व्याकरणम् ॥

सूनवान्, [त्] त्रि, (सू + क्तवतु ।) जातः । इति

मुग्धबोधव्याकरणम् ॥

सूना, स्त्री, (सूयते स्मेति । सू + क्तः । टाप् ।)

पुत्त्री । (मुञ्न पीडने + “मुजो दीर्घश्च ।”
उणा० ३ । १३ । इति नः । दीर्घश्च धातोः ।)
वधस्थानम् । गलशुण्डिका । इति मेदिनी ।
ने, २४ ॥ मृगादिमांसविक्रयः । मृगपक्षिवध-
स्थानम् । इति संक्षिप्तसारोणादिवृत्तिः ॥
(यथा, भागवते । १ । १७ । ३८ ।
“अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।
द्यूतं पानं स्त्रियः सूना यत्राधर्म्मश्चतुर्व्विधः ॥”)
जाता । इति सूनशब्दार्थदर्शनात् । सूनाप्रका-
राणि तत्पापापनाशकानि च पञ्चसूनाशब्दे
द्रष्टव्यानि ॥

सूनी, [न्] पुं, (सूना अस्त्यस्येति । इनिः ।) व्याधः ।

मांसविक्रयी । (यथा, याक्षवल्क्ये । १ । १४१ ।
“प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्व्वात् पूर्व्वादेते यथाक्रमम् ॥”)

सूनुः, पुं, (सूयते इति । सू + “सुवः कित् ।”

उणा० ३ । ३५ । इति नुः । स च कित् ।)
पुत्त्रः । (यथा, रघुः । १ । ९५ ।
“सूनुः सुनृतवाक् स्रष्टुः विससर्ज्जोदितश्रियम् ॥”)
अनुजः । सूर्य्यः । इति मेदिनी ॥ अर्कवृक्षः ।
इत्यमरः ॥

सूनुः, स्त्री, (सू + नुः । वा ऊङ् ।) कन्या ।

इति हेमचन्द्रः ॥

सूनुः, स्त्री, (सू + नुः । वा ऊङ् ।) कन्या ।

इति हेमचन्द्रः ॥

सूनृतं, क्ली, (सुनृत्यत्यनेनेति । सु + नृत् + घञर्थेकः

उपसर्गस्य दीर्घः ।) सत्यप्रियवाक्यम् । इत्यमरः ।
१ । ६ । १९ ॥ (यथा, साहित्यदर्पणे । ३ । १५५ ।
“भाषते सूनृतं म्लिग्धमनुरक्ता नितम्बिनी ॥”)
मङ्गलम् । इत्यजयः ॥ तद्वति, त्रि । (यथा,
भागवते । १ । १९ । ३१ ।
“प्रणम्य मूर्द्ध्नावहितः कृताञ्जलि-
र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥”)

सून्मदः, त्रि, (सुष्ठु उन्मदः ।) उन्मत्तः । उन्म-

दिष्णुः । इत्यमरे उन्मदशब्दटीकायां भरतः ।
३ । १ । २० ॥

सून्मादः, त्रि, (सुष्ठु उन्भादः ।) उन्मादरोग-

विशिष्टः । इत्यमरे उन्मदशब्दटीकायां रमा-
नायः ॥

सूपः, पुं, (सौतिरसानिति । सु + “षुशॄभ्यां निच्च ।”

उणा० ३ । २६ । इति पः । चकारात् कित्
दीर्घत्वञ्च ।) व्यञ्जनविशेषः । डाल इति भाषा ।
सूदः । इति मेदिनी ॥ भाण्डम् । शायकम् ।
इति शब्दरत्रावली ॥ * ॥ अथ दाली ।
“दलितन्तु शमीधान्यं दालिर्द्दाली स्त्रियामुभे ।
दाली तु सलिले सिद्धा लबणार्द्रकहिङ्गुभिः ।
संयुक्ता सूपनाम्नी स्यात् कथ्यते तद्गुणा अथ ॥
सूपो विष्टम्भको रूक्षः शीतन्तु स विशेषतः ।
निस्तुषो भृष्टसिद्धः स लाघवं सुतरां व्रजेत् ॥”
इति भावप्रकाशः ॥

सूपकारः, पुं, (सूपं करोतीति । कृ + अण् ।)

पाककर्त्ता । तत्पर्य्यायः । वल्लवः २ आरा-
लिकः ३ आन्धसिकः ४ सूदः ५ औदनिकः ६
गुणः ७ । इत्यमरः । २ । ९ । २८ ॥ पाचकः
८ । इति शब्दरत्नावली ॥ पाकुकः ९ । इत्यु-
णादिकोषः ॥ भक्ष्यङ्कारः १० । इति हेमचन्द्रः ॥
तस्य लक्षणं यथा, चाणक्यम् ।
“इङ्गिताकारतत्त्वज्ञो बलवान् मिष्टपाचकः ।
शूरश्च कठिनश्चैव सूपकारः स उच्यते ॥”
शूद्रपाकोपजीवी । यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे
२७ अध्याये ।
“देवोपजीवाजीवी यः देवलश्च प्रकीर्त्तितः ।
शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः ॥
सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ।
उक्तपूर्व्वप्रकारेण लक्षणं वृषलीपतेः ॥
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ।
कुण्डान्यन्यानि ते यान्ति निबोध कथयामि
तान् ॥”

सूपधूपनं, क्ली, (सूपस्य धूपनमस्मादिति ।) हिङ्गु ।

इति त्रिकाण्डशेषः ॥

सूपपर्णी, स्त्री, (सूपकरं सूपस्य स्वादुताकरं पर्ण-

मस्याः । ङीष् ।) मुद्गपर्णी । इति रत्नमाला ॥

सूपश्रेष्ठः, पुं, (सूपेषु तत्साधनेषु श्रेष्ठः ।) मुद्गः ।

इति राजनिर्घण्टः ॥

सूपाङ्गं, क्ली, (सूपस्य अङ्गम् । तत्साधनत्वात् ॥

हिङ्ग । इति राजनिर्घण्टः ॥

सूमं, क्ली, (सू + “इषियुधीति ।” उणा० १ । १४४ ।

इति मक् ।) क्षीरम् । आकाशम् । इति
मेदिनी ॥ जलम् । इति शब्दरत्नावली ॥

सूरः, पुं, (सूते जगदिति । सू + “सुसूधाञ्-

गृधिभ्यः क्रन् ।” उण० २ । २४ । इति क्रन् ।)
सूर्य्यः । (यथा, ऋग्वेदे । १ । १६३ । २ ।
“सूरादश्वं वसवो निरतष्ट ॥”)
अर्कवृक्षः । इत्यमरः । १ । ३ । २८; २ । ४ । ८० ॥ वृत्ता-
र्हत्पितृविशेषः । इति हेमचन्द्रः ॥ पण्डितः ।
इति केचित् ॥

सूरणः, पुं, शूरणः । इति शब्दरत्नावली ॥

कार्त्तिकमासे तस्य भक्षणनिषेधो यथा, कर्म्म-
लोचने ।
“मकरे मूलकञ्चैव सिंहे चालावुकं तथा ।
कार्त्तिके शूरणञ्चैव सद्यो गोमांसभक्षणम् ॥”

सूरतः, त्रि, (सुष्ठु रमते इति । सु + रम + “सौ

रमतेः क्तो दमे पूर्व्वपदस्य च दीर्घः ।” उणा०
५ । १४ । इति क्तः सुशब्दस्य च दीर्घः ।)
कृपालुः । इत्यमरः । ३ । १ । १५ ॥

सूरसूतः, पुं, (सूरस्य सूर्य्यस्य सूतः सारथिः ।)

अरुणः । स सूर्य्यसारथिः । इत्यमरः । १ । ३ । ३२ ॥

सूरिः, पुं, (सूते सद्वाक्यानीति । सू + “सूङः

क्रिः ।” उणा० ४ । ६४ । इति क्रिः ।)
पण्डितः । इत्यमरः । २ । ७ । ६ ॥ (यथा,
भागवते । १ । १ । १ ।
“जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः
स्वराट् ॥
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्
सूरयः ॥”)
यादवः । सूर्य्यः । इत्युणादिकोषः ॥

सूरी, [न्] पुं, (सूरः सूर्य्य उपास्यतया अस्त्य-

स्येति । सूर + इनिः ।) पण्डितः । इति शब्द-
रत्नावली ॥

सूरी, स्त्री, (सू + क्रिः । ङीष् ।) राजसर्षपः ।

इति रत्नमाला ॥ (विद्षी । इत्युणादिवृत्तौ
पृष्ठ ५/३९६
उज्ज्वलः । ४ । ६४ ॥ * ॥ सूर्य्यस्य स्त्री ।
“पयोगादाख्यायाम् ।” ४ । १ । ४८ । इति ङीष् ।
सूर्य्यतिष्यागस्त्येति यलोपः । कुन्ती । इति
व्याकरणम् ॥)

सूर्क्ष, नारदे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रेफयुक्तः षष्ठस्वरी दन्त्यादिः ।
सूर्क्षति दुष्टं लोकः । सुसूर्क्ष । इति दुर्गादासः ॥

सूर्क्षणं, क्ली, (सूर्क्ष + ल्युट् ।) अनादरः । इति

शब्दरत्नावली ॥

सूर्क्ष्य, अनादरे । ईर्षे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) दन्त्यादिर्दीर्घी रेफ-
मध्यः । सूर्क्ष्यति सुसूर्क्ष्य । इति दुर्गादासः ॥

सूर्क्ष्यः, पुं, (सूर्क्ष्यते अनाद्रियते इति । सूर्क्ष्य +

घञ् ।) माषः । इति शब्दरत्नावली ॥

सूर्पः, पुं, क्ली, शूर्पः । इति शब्दरत्नावली ॥

कुम्भपरिमाणम् । द्विद्रोणपरिमाणम् । इति
वैद्यकपरिभाषा ॥

सूर्म्मी, स्त्री, शूर्म्मी । इति केचित् ॥

सूर्य्यः, पुं, (सरति आकाशे सुवति कर्म्मणि लोकं

प्रेरयति वा । सृ गतौ सूप्रेरणेवा + “राजसूय-
सूर्य्यमृषोद्येति ।” ३ । १ । ११४ । इति क्यप्प्रत्ययेन
माधुः ।) ग्रहविशेषः । अर्कपर्णः । इति
मेदिनी ॥ बलिपुत्त्रः । इति केचित् ॥ (यथा,
हरिवंशे । ३ । ७४ ।
“बलेः पुत्त्रशतञ्चासीत् बाणज्येष्ठं नराधिप ।
धृतराष्ट्रश्च सूर्य्यश्च चन्द्रमाश्चेन्द्रतापनः ॥”)
दानवविशेषः । यथा, --
“अभवन् दनुपुत्त्राश्च वंशे ख्याता महासुराः ।
विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः ॥
स्वर्भानुर्वृषपर्व्वा च कुहदश्च महासुरः ।
धृतराष्ट्रश्च सूर्य्यश्च दनुमानिन्द्रतापनः ॥”
इति वह्निपुराणे काश्यपीयवंशः ॥
ग्रहविशेषस्य पर्य्यायो यथा । सूरः २ अर्य्यमा ३
आदित्यः ४ द्वादशात्मा ५ दिवाकरः ६ भास्करः
७ अहस्करः ८ व्रध्रः ९ प्रभाकरः १० विभा-
करः ११ भास्वान् १२ विवस्वान् १३ सप्ताश्वः १४
हरिदश्वः १५ उष्णरश्मिः १६ विवर्त्तनः १७
अर्कः १८ मार्त्तण्डः १९ मिहिरः २० अरुणः २१
पृषा २२ द्युमणिः २३ तरुणिः २४ मित्रः २५
चित्रभानुः २६ विरोचनः २७ विभावसुः २८
ग्रहपतिः २९ त्विषाम्पतिः ३० अहःपतिः ३१
भानुः ३२ हंसः ३३ सहस्रांशुः ३४ तपनः ३५
सविता ३६ रविः ३७ । इत्यमरः । १ । ३ । २८ -- ३१ ॥
शृरः ३८ भगः ३९ वृध्नः ४० पद्मिनीवल्लभः ४१
हरिः ४२ दिनमणिः ४३ चण्डांशुः ४४ सप्त-
मप्तिः ४५ गभस्तिमान् ४६ अंशुमाली ४७
काश्यपेयः ४८ खगः ४९ भानुमान् ५० लोक-
लोचनः ५१ पद्मबन्धुः ५२ ज्योतिष्मान् ५३
अव्यथः ५४ तापनः ५५ चित्ररथः ५६
खमणिः ५७ दिवामणिः ५८ गभस्तिहस्तः ५९
हेलिः ६० पतङ्गः ६१ अर्च्चिः ६२ दिनप्रणीः ६३
षेदोद्यः ६४ कालकृतः ६५ ग्रहराजः ६६
तमोनुदः ६७ रसाधारः ६८ प्रतिदिवा ६९
ज्योतिःपीथः ७० इनः ७१ । इति शब्दरत्ना-
वली ॥ कर्म्मसाक्षी ७२ जगच्चक्षुः ७३ त्रयी-
तपः ७४ प्रद्योतनः ७५ खद्योतः ७६ लोक-
बान्धवः ७७ पद्मिनीकान्तः ७८ अंशुहस्तः ७९
पद्मपाणिः ८० हिरण्यरेताः ८१ पीतः ८२
अद्रिः ८३ अगः ८४ हरिवाहनः ८५ अम्ब-
रीषः ८६ धामनिधिः ८७ हिमारातिः ८८
गोपतिः ८९ कुञ्जारः ९० प्लवगः ९१ सूनुः ९२
तमोपहः ९३ गभस्तिः ९४ । इति जटाधरः ॥ * ॥
अस्य वणः रक्तश्याममिश्रितः । स च पूर्व्वदिक्-
पुरुष-क्षत्त्रियजाति-सत्त्वगुण-कटुरससिंहराशी
नामधिपतिः । धान्यादिसुवर्णद्रव्यचतुष्पदगो-
भूमिस्वामी । चतुष्कोणाकृतिः । मध्याह्वकाले
प्रबलः । वृद्धः । रणचारी । तिक्तरसप्रियश्च ।
इति बृहज्जातकादयः ॥ * ॥ ग्रहयज्ञे तु ।
वर्त्तुलाकारः । मण्डलमध्यस्थः । अस्य जन्मभूमिः
कलिङ्गदेशः । गोत्रः काश्यपः । वर्णः रक्तः ।
पूर्व्वमुखः । जातिः ब्राह्मणः । बलिर्गुडौदनम् ।
धूपो गुग्गुलुः । गन्धो रक्तचन्दनम । समित्
अर्कः । अस्य ध्यानम् ।
“क्षत्त्रियं कांश्यपं रक्तं कालिङ्गं द्वादशाङ्गुलम् ।
पद्महस्तद्वयं पूर्व्वाननं सप्ताश्ववाहनम् ।
शिवाधिदैवतं ध्यायेद्वह्निप्रत्यधिदैवतम् ॥”
अस्य मन्त्रः ।
“आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं
मर्त्यञ्च हिरण्ययेन सविता रथेन देवो याति
भुवनानि पश्यन् ॥” दक्षिणा धेनुः । इति ग्रह-
यागसंस्कारतत्त्वे ॥ * ॥ तस्योत्पत्त्यादिर्यथा, --
“अथान्तरीक्षादाभाष्य कश्यपं मुनिसत्तमम् ।
सतोयमेघगम्भीरा वागुवाचाशरीरिणी ॥
मारितञ्च यतः प्रोक्तमेतदण्डं त्वयादितिम् ।
तस्मान्मुने सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति ॥
सूर्य्याधिकारञ्च विभुर्ज्जगत्येष करिष्यति ।
हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् ॥
देवा निशस्येति वचो गगनात् समुपागतम् ।
प्रहर्समतुलं याता दानवाश्च हतौजसः ॥
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ।
सह देवैर्मुदा युक्तो दानवाश्च तमभ्ययुः ॥
तेषां युद्धसभूद्घोरं देवानामसुरैः सह ।
शस्त्रास्त्रदीप्तिसंदीप्तसमस्तभुवनान्तरम् ॥
तस्मिन् युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ।
तेजसा दह्यमानास्तु भस्मीभूता महासुराः ॥
ततः प्रहर्षमतुलं प्रापुः सर्व्वे दिवौकसः ।
तुष्टुवुस्तेजसो योनिं मार्त्तण्डमदितिं तथा ॥
स्वाधिकारं ततः प्रापुयज्ञभागाश्च पूर्व्ववत् ।
भगवानपि मार्त्तण्डः स्वाधिकारमथाकरोत् ॥
कदम्बपुष्पवद्भास्वानधश्चोर्द्धञ्च रश्मिभिः ।
वृत्तोऽग्निपिण्डमदृशो दध्र नातिस्फुटं वपुः ॥”
इति मार्कण्डयपुराणे मार्त्तण्डोत्पत्तिः ॥ * ॥
मार्कण्डेय उवाच ।
“अथ तस्मै ददौ कन्यां संज्ञां नाम विवस्वते ।
प्रसाद्य प्रणतो भूत्वा विश्वकर्म्मा प्रजापतिः ॥
विवस्वतस्तु संभूतौ मनू द्वौ चरितं तयोः ।
पूर्व्वमेव तवाख्यातं मयैतदखिलं द्विज ॥
त्रीण्यपत्यान्यसौ तस्यां जनयामास गोपतिः ।
द्वौ पुत्त्रौ सुमहाभागौ कन्याञ्च यमुनां नदीम् ॥
मनुव्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।
तेषां यमो यमी चैव यमलौ संबभूवतुः ॥
तत्तेजोऽभ्यधिकं चैव मार्त्तण्डस्य विवस्वतः ।
असहन्ती तु तच्चेजः स्वां छायां वीक्ष्य साब्रवीत्
संज्ञोवाच ।
अहं यास्यासि भद्रं ते स्वकञ्च भवनं पितुः ।
निर्विकारं त्वयाप्यत्र स्थेयं मच्छासनात् शुभे ॥
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ।
संभाव्या नैव चाख्येयमिमं भगवते त्वया ॥
छायोवाच ।
आकेशग्रहणाद्देवि आशापान्नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वाञ्छितम्
इत्युक्ता छायया संज्ञा जगास पितृमन्दिरम् ।
तत्रावसत् पितृगृहे कञ्चित् कालं शुभेक्षणा ॥
भर्त्तुः समीपं याहीति पित्रोक्ता सा पुनः पुनः ।
अगच्छद्वडवा भूत्वा कुरून् विप्रोत्तरांस्ततः ॥
तत्र तेपे तपः साध्वी निराहारा महामुने ।
पितुः समीपं यातायाः संज्ञाया वाक्यतत्परा ॥
तद्रूपधारिणी च्छाया भास्करं समुपस्थिता ।
तस्याञ्च भगवान् सूर्य्यः संज्ञेयमिति चिन्तयन् ॥
तथैव जनयामास पुत्त्रौ द्वौ कन्यकां तथा ।
पूर्व्वजस्य मनोस्तुल्यः सावर्णिस्तेन सोऽभवत् ॥
यस्तयोः प्रथमं जातः पुत्त्रयोर्द्विजसत्तम ।
द्वितीयो योऽभवच्चान्यः स ग्रहोऽभूत् शनैश्चरः ॥
कन्याभूत्तपती या तां वव्रे संवरणो नृपः ।
संज्ञा तु पार्थिवी तेषामात्मजानां यथाकरोत् ॥
स्नेहं न पूर्व्वं जातानां तथा कृतवती सती ।
मनुस्तत् क्षन्तवांस्तस्या यमश्चास्या न चक्षमे ॥
बहुशः पीड्यमानस्तु पितुः पत्न्या सुदुःखितः ।
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात्
पदा संतर्जयामास च्छायां संज्ञासुतो यमः ।
तं शशाप ततः क्रुद्धा संज्ञा सां पार्पिवी भृशम् ॥
छायोवाच ।
पदा तर्जयसे यन्मां पितृभार्य्यां गरीयसीम् ।
तस्मात्तवैष चरणः पतिष्यति न संशयः ॥
यमस्तु तेन शापेन भृशं पीडितमानसः ।
मनुना सह धर्म्मात्मा सर्व्वं पित्रे न्यवेदयत् ॥
यम उवाच ।
स्नेहेन तुल्यमस्मासु माता देव न वर्त्तते ।
विसृज्य ज्यायसोऽप्यस्मान् कनीयांसो बुभूषति
तस्या मयोद्यतः पादो न तु देहे निपातितः ।
बाल्याद्वा यदि वा मोहात् तद्भवान् क्षन्तुमर्हसि
शप्तोऽहं तात कोपेन जनन्या तनयो यतः ।
ततो न मन्ये जननी ममैषा तपतां वर ॥
निर्गुणेष्वपि पुत्त्रेषु न माता निर्गुणा भवेत् ।
पादस्ते पततां पुत्त्र कथमेतत्तयोदितम् ॥
तव प्रसादाच्चरणौ न पतेत् भगवन् यथा ।
पृष्ठ ५/३९७
मातृशापादयं मेऽद्य तथा चिन्तय गोपते ॥
रविरुवाच ।
असंशयमिदं पुत्त्र भविष्यत्यत्र कारणम् ।
येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम् ॥
सर्व्वेषामेव शापानां प्रतिघातो हि विद्यते ।
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्त्तनम् ॥
न शक्यमेतन्मिथ्या तु कर्त्तुं मातुर्व्वचस्तव ।
किं चित्ते संविधास्यामि पुत्त्रस्नेहादनुग्रहम् ।
कृमयो मांसमादाय प्रयास्यन्ति महीतलम् ।
कृतं तस्या वचः सत्यं त्वञ्च त्राता भविष्यसि ॥
मार्कण्डेय उवाच ।
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ।
तुल्येष्वप्यधिकस्नेह एकत्र क्रियते त्वया ॥
नूनं न चैषां जननी संज्ञा क्वापि त्वमागता ।
विगुणेष्वप्यपत्येषु माता शापं न दास्यति ॥
सा तत् परिहरन्तीव नाचचक्षे विवस्वतः ।
स चात्मानं समाधाय युक्तस्तत्त्वमवैक्षत ॥
तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिनाधिपम् ।
भयेन कम्पिता ब्रह्मन् यथावृत्तं न्यवेदयत् ॥
विवस्वांस्तु तदा क्रुद्धः श्रुत्वा श्वशुरमभ्यगात् ।
स चापि तं यथान्यायमर्च्चयित्वा दिवाकरम् ।
निर्दग्धुकामं रोषेण शान्तयामास सुव्रतः ॥
विश्वकर्म्मा उवाच ।
तवातितेजसा व्याप्तमिदं रूपं सुदुःसहम् ।
असहन्ती ततः संज्ञा वने चरति वै तपः ॥
द्रक्ष्यते तां भवानद्य स्वां भार्य्यां शुभचारिणीम्
रूपार्थं भवतोऽरण्ये चरन्ती सुमहत्तपः ॥
मतं मे ब्रह्मणो वाक्यात् यदि ते देव रोचते ।
रूपं निवर्त्तयाम्यद्य तव कान्तं दिवस्पते ॥
मार्कण्डेय उवाच ।
यतो हि भास्वतो रूपं प्रागासीत् परि-
मण्डलम् ।
ततस्तथेति तं प्राह त्वष्टारं भगवान् रविः ॥
विश्वकर्म्मा त्वनुज्ञातः शाकद्वीपे विवस्वतः ।
भ्रमिमारोप्य तत्तेजः शातनायोपचक्रमे ॥
देवाश्च ब्रह्यणा सार्द्धं भास्वन्तमभितुष्टुवः ।
लिख्यमानं सहस्रांशुं प्रणेमुः सर्व्वदेवताः ॥
ततः कोलाहले तस्मिन् सव्वदेवसमागमे ।
तेजसः शातनं चक्रे विश्वकर्म्मा शनैः शनैः ॥”
इति मार्कण्डेयपुराणे सूर्य्यतेजःशातनम् ॥ * ॥
“शातितं चास्य यत्तेजस्तेन चक्रं विनिर्मितम्
विष्णोः शूलञ्च सर्व्वस्य शिविका धनदस्य च ॥
दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तया ।
अन्येषाञ्चैव देवानामायुधानि स विश्वकृत् ।
चकार तेजसा भानोर्भासुराण्यरिशान्तये ॥
इति शातिततेजाः स श्वशुरेणातिशोभनम् ।
वपुर्दधार मार्त्तण्डः पुष्पचापमनोरमम् ॥
स ददर्श समाधिस्थां स्वां भार्य्यां बडवाकृतिम्
अपापां सर्व्वभूतानां तपसा नियमेन च ॥
ततो जगाम भास्वान् वै संज्ञा यत्र व्यवस्थिता ॥
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम संमुखं तस्य पृष्ठरक्षणतत्परा ॥
ततश्च नासिकायोगात् तयोस्तत्र समेतयोः ।
नासत्यदस्रौ तनयावश्ववक्त्राद्विनिर्गतौ ॥
रेतरसोऽन्ते च रेवन्तः स्वङ्गी धन्वी तनुत्रधृक्
अश्वारूढः समुत्पन्नो बाणतूणसमन्वितः ॥
ततः स्वरूपमतुलं दर्शयामास भानुमान् ।
तस्याथ सा समालोक्य स्वरूपं मुदमाददौ ॥
स्वरूपधारिणीं चैनामानिनाय निजालयम् ।
संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः ॥
ततः पूर्व्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्वितीयश्च यमः शापात् पापदर्शनतत्परः ॥
कृमयो मांसमादाय पादतस्ते महीतलम् ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम्
धर्म्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगे तं याम्ये चकारतिमिरापहः ॥
यमुनाञ्च नदीञ्चक्रे कलिन्दान्तरवाहिनीम् ।
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ॥
गुह्यकाधिपतित्वे च रेवन्तो विनियोजितः ॥
रेवन्तमप्याह ततो भगवान् लोकभावनः ।
त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि ॥
अरण्येऽग्नौ महादावे वैरिदस्युभयेषु च ।
त्वां स्मरिष्यन्ति ये मर्त्या मोक्षन्ते ते महापदः ॥
क्षेमं वृद्धिं सुखं राज्यमारोग्यं कीर्त्तिमुन्नतिम् ।
नराणां परितुष्टस्त्वं पूजितः संप्रदास्यसि ॥
छायासंज्ञासुतश्चापि सावर्णः सुमहायशाः ।
भाव्यः सोऽनागते काले मनुः सावर्णिकोऽष्टमः ॥
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ।
भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्छासनाद्रवेः ॥
यवीयसी च या कन्या तस्य चासीद्द्विजोत्तम ।
अभवत् सा सरिच्छ्रेष्ठा तपसी लोकपावनी ॥
यस्तु ज्येष्ठो महाभाग सर्गो तस्येह साम्प्रतम् ।
विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ॥
य इदं जन्म देवानां शृणुयाद्वा पठेत्तथा ।
विवस्वतस्तु जातानां रवेर्माहात्म्यमेव च ।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥
अहोरात्रकृतं पापमेतत् शमयति श्रुतम् ।
माहात्म्यमादिदेवस्य मार्त्तण्डस्य महात्मनः ॥”
इति मार्कण्डेयपुराणे मार्त्तण्डमात्म्यनामा-
ध्यायः ॥ अपि च ।
प्रजापाल उवाच ।
“शरीरस्य कथं मूर्त्तिग्रहणं ज्योतिषो द्विज ।
एतन्मे संशयं छिन्धि प्रणतस्य द्विजोत्तम ॥
महातपा उवाच ।
योऽसावात्मा ज्ञानशक्तिरेक एव सनातनः ।
स द्वितीयं यदा चैच्छत् तदा तेजः समुत्थितम् ॥
तत् सूर्य्य इति भास्वांस्तु अन्योन्येन महात्मनः
लोलीभूतानि तेजांसि भासयन्ति जगत्त्रयम् ॥
तस्मिम् सर्व्वे सुराः सिद्धा गणाः सर्व्वे मह-
षिभिः ।
स्वयं भूता इति विभो तस्मात् सूर्य्यस्तु सोऽभवत्
लोलीभूतस्य तस्याशु तेजसोऽभूच्छरीरकम् ।
पृथक्त्वेन रविः सोऽथ कीर्त्त्यते वेदवादिभिः ॥
भासयन् सर्व्वलोकांस्तु यतोऽसावुत्थितो दिवि ।
अतोऽसौ भास्करः प्रोक्तः प्राकर्षाच्च प्रभाकरः ।
दिवा दिवस इत्युक्तस्तत्कारित्वाद्दिवाकरः ।
सर्व्वस्य जगतस्त्वादिरादित्यस्तेन उच्यते ॥
एतस्य द्वादशादित्याः संभूतास्तेजसा पृथक् ।
प्रधान एक एवायं जगत्सु परिवर्त्तते ॥
तं दृष्ट्वा जगतो व्याप्तिं कुर्व्वाणं परमेश्वरम् ।
तस्यैवान्तःस्थिता देवा विनिष्क्रम्य स्तुतिं जगुः ॥”
इति वाराहे आदित्योत्पत्तिनामाध्यायः ॥ * ॥
उत्तरायणदक्षिणायनयोरनुलोमप्रतिलोमं गन्त-
व्यानि मण्डलानि प्रतिमासं सूर्य्यभ्रमणाधि-
कारिगणाश्च यथा, --
“अशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः ।
आरोहणावरोहाभ्यां भानोरब्देन या गतिः ॥
स रथोऽधिष्ठितो देवैरादित्यैरृषिभिस्तथा ।
गन्धर्व्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥
धाता कृतस्थला चैव पुलस्त्यो वासुकिस्तथा ।
रथकृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः ॥
एते वसन्ति वै चैत्रे मधुमासे सदैव हि ।
मैत्रेय स्यन्दने भानोः सप्त मासाधिकारिणः ॥
अर्य्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थला ।
प्रहेतिः कच्छनीरश्च नारदश्च रथे रवेः ।
माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे ॥
मित्रोऽत्रिस्तक्षको रक्षः पौरुषेयोऽथ मेनका ॥
हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै ॥
वशिष्ठो वरुणो रम्भा सहजन्यो हुहूर्वधः ।
रथचित्रस्तथा शुक्रे वसन्त्याषाढसंज्ञिते ॥
इन्द्रो विश्वावसुः स्रोत एलापत्रस्तथाङ्गिराः ॥
प्रम्लोचा च नभस्येते सर्पश्चार्के वसन्ति हि ॥
विवस्वानुग्रसेनश्च भृगुरायूरणस्तथा ।
प्रम्लोचा शङ्खपालश्च व्याघ्रो भाद्रपदे तथा ॥
पूषा च सुरविर्व्वातो गौतमोऽथ धनञ्जयः ।
सुषेणोन्यो घृताची च वसन्त्याश्वयुजे रवौ ॥
विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तथा ।
विश्वाचीसेनजित्संज्ञौ कार्त्तिके चाधिकारिणः
अंशुकश्यपतार्क्षास्तु महापद्मस्तथोर्व्वशी ।
चित्रसेनस्तथा विद्युत् मार्गशीर्षाधिकारिणः ॥
ऋतुर्भगस्तथोर्णायुस्फूर्जः कर्कोटकस्तथा ।
अरिष्टनेमिश्चैवान्या पूर्व्वचित्तिर्व्वराप्सराः ।
पौषमासे वसन्त्येते सप्त भास्करमण्डले ॥
लोकप्रकाशनार्थाय विप्रवर्य्याधिकारिणः ।
त्वष्टा च जमदग्निश्च कम्बलोऽथ तिलोत्तमा ॥
ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रश्च सप्तमः ।
माघमासे वसन्त्येते सप्त मैत्रेय भास्करे ॥
श्रूयतां चापर सूर्य्ये फाल्गुने निवसन्ति ये ।
विष्णुरश्वतरो रम्भा सूर्य्यवर्च्चाश्च सत्यजित् ॥
विश्वामित्रस्तथा रक्षो यक्षापेतो महामुने ।
मासेष्वेतेषु मैत्रेय वसन्त्येतेषु सप्तकाः ॥
सवितुर्मण्डले ब्रह्मन् विष्णुशक्त्युपष्टंहिताः ।
स्तुवन्ति मुनयः सूर्य्यं गन्धर्व्वैर्गीयते पुरः ॥
नृन्तन्त्यप्सरसो यान्ति सूर्य्यस्यानु निशाचराः ॥
वहन्ति पन्नगा यक्षः क्रियतेऽभीषु संग्रहः ॥
बालखिल्यास्तथैवैनं परिवार्य्य समासते ।
पृष्ठ ५/३९८
सोऽयं सप्तगणः सूर्य्यमण्डले मुनिसत्तम ।
हिमोष्णवारिवृष्टीनां हेतुत्वं समुपागतः ॥”
इति विष्णुपुराणे २ अंशे १० अध्यायः ॥ * ॥
सूत उवाच ।
“एवमेष महादेवो देवदेवः पितामहः ।
करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥
तस्य ये रश्मयो विप्राः सर्व्वलोकप्रदीपकाः ।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥
सुसुम्नो हरिकेशश्च विश्वकर्म्मा तथैव च ।
विश्वव्यचाः पुनश्चान्यः सम्पद्वसुरतः परः ।
अर्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः ॥
सुसुम्नः सूर्य्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ।
तिर्य्यगूर्द्धप्रचारोऽसौ सुसुम्नः परिगीयते ॥
हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ।
विश्वकर्म्मा तथा रश्मिर्बुधं पुष्णाति सर्व्वदा ॥
विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा
सम्पद्वसुरिति ख्यातः स पुष्णाति च लोहितम् ॥
बृहस्पतिं प्रपुष्णाति रश्मिरर्व्वाग्वसुः प्रभोः ।
शनैश्चरं प्रपुष्णाति सप्तमश्च स्वराट् तथा ॥
एवं सूर्य्यप्रभावेण सर्व्वा नक्षत्रतारकाः ।
वर्द्धन्ते वर्द्धिता नित्यं नित्यमप्याययन्ति च ॥
दिव्यानां पार्थिवानाञ्च नैशानाञ्चेव सर्व्वशः ।
आदानान्नित्यमादित्यस्तेजसा तमसां प्रभुः ।
आदात्ते स तु नाडीनां सहस्रेण समन्ततः ॥
नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रशः ।
स्थावरान् जङ्गमांश्चैव यच्च कुल्यादिकं पयः ॥
तस्य रश्मिसहस्रन्तु शीतवर्षोष्णनिस्वरम् ।
तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्त्तयः ॥
छन्दनाश्चैव याह्याश्च कोतना हकनास्तथा ।
अमृता नाम ताः सर्व्वा रश्मयो वृष्टिसर्ज्जनाः ॥
हिमोद्घहाश्च तामस्यो रश्मयस्त्रिशतं पुनः ।
रश्म्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्ज्जनाः ॥
चन्द्रास्ता नामतः सर्व्वाः पीताभाः स्युर्गभस्तयः
शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा ॥
शुक्रास्ता नामतः सर्व्वास्त्रिविधा घर्म्मसर्ज्जनाः
समं विभर्त्ति ताभिः स मनुष्यपितृदेवताः ॥
मनुष्यानौषधेनेह स्वधया च पितॄनपि ।
अमृतेन सुरान् सर्व्वान् तिस्रस्त्रींस्तर्पयत्यसौ ॥
वसन्ते ग्रैष्मिके चैव शतंः सन्तपति त्रिभिः ।
शरद्यपि च वर्षासु चतुर्भिः सम्प्रवर्षति ।
हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ॥
वरुणो माघमासे तु सूर्य्यः पूषा तु फाल्गुने ।
चैत्रे मासि भवेदीशो पाता वैशाखतापनः ॥
ज्यैष्ठमूले भवेदिन्द्र आषाढे सविता रविः ।
विवस्वान् श्रावणे मासि प्रोष्ठपद्यां भगः स्मृतः ॥
पर्य्यन्योऽश्वयुजि त्वष्टा कार्त्तिके मासि भास्करः
मागशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः ॥
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्म्मणि ।
षड्भिः सहस्रैः पूषा तु देवोऽंशुसप्तभिस्तथा ॥
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ।
विवस्वान् दशभिः पाति पात्यकादशभिर्भगः ॥
सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ।
अर्य्यमा दशभिः पाति पर्य्यन्यो नवभिस्तपेत् ।
षड्भी रश्मिसहस्रैस्तु मित्रस्तपतिंविश्वधृक् ॥
वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसप्रभः ।
श्वेतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः ॥
हेमन्तेताम्रवर्णः स्यात् शिशिरे लोहितो रविः
ओषधीषु बलं धत्ते स्वधामपि पितृष्वथ ॥
सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति ।
अन्ये चाष्टौ ग्रहा ज्ञेयाः सूर्य्ये चाधिष्ठिता
द्विजाः ॥
चन्द्रमाः सोमपुत्त्रश्च शुक्रश्चैव बृहस्पतिः ।
भीमो भानुस्तथा राहुः केतुमानपि चाष्टमः ॥
सर्व्वे ध्रुवे विरुद्धा यैर्ग्रहास्ते वातरश्मिभिः ।
भ्राम्यमाणा यथायोगं भ्रमन्त्यनु दिवाकरम् ॥
अलातचक्रवद्यान्ति वातचक्रेरिता द्विजाः ।
यस्माद्वहति तान् वायुः प्रवहस्तेन वै स्मृतः । *
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दश तेन निशाकरः ॥
वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा ।
ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्व्वदा ॥
स सोमः शुक्लपक्षे तु भास्करे परतस्थिते ।
आपूर्य्यन्ते परोऽस्यान्तः सततं दिवसक्रमात् ॥
क्षीणेऽपि तं सुरैः सोममाप्याययति नित्यदा ।
एकेन रश्मिना विप्राः सुसुम्नाख्येन भास्करः ॥
एषा सूर्य्यस्य वीर्य्येण सोमस्याप्यायिता तनुः ।
पौर्णमास्यां स दृश्येत संपूर्णो दिवसक्रमात् ॥
संपूर्णमर्द्ध मासेन तं सोमसमृतात्मकम् ।
पिबन्ति देवता विप्रा यतस्तेऽमृतभोजनाः ॥
ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके ।
अपराह्णे पितॄणां स जघन्यां पर्य्युपासते ॥
पिबन्ति हि फलं कालं शिष्टा तस्य कला तु या ।
स्वधामृतमयीं पुण्यां तामिन्दोरमृतात्मिकाम् ॥
निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ।
मासतृप्तिमवाप्याग्रां पितरः सन्ति निर्वृताः ॥
न सोमस्य विनाशः स्यात् मुधा देवैस्तु पीयते ।
एवं सूर्य्यनिमित्तोऽस्य क्षयो वृद्धिश्च सत्तमाः ॥”
इति कौर्म्मे ४० अध्यायः ॥ * ॥
अस्य भार्य्यापत्यानि यथा ।
सूत उवाच ।
“अदितिः सुषुवे पुत्त्रमादित्यं कश्यपात् प्रभुम् ।
तस्यादित्यस्य चैवासीद्भार्य्याणान्तु चतुष्टयम् ॥
संज्ञा राज्ञी प्रभां च्छाया पुत्त्रांस्तासां निबोधत
संज्ञा त्वाष्ट्री तु सुषुवे सूर्य्यान्मनुमनूत्तमम् ।
यमञ्च यमुनाञ्चैव राज्ञी रेवन्तमेव च ॥
प्रभा प्रभातमादित्याच्छाया सावर्णिमात्मजम्
शनिञ्चैव तपतीञ्च विष्टिञ्चैव यथाक्रमम् ॥”
इति कौर्म्मे २० अध्यायः ॥ * ॥
तस्य मण्डलपरिमाणं यथा, --
सूत उवाच ।
“सूर्य्याचन्द्रमसावेतौ भ्रमतो यावदेव तु ।
सप्तानाञ्च समुद्राणां द्वीग्रानाम्भाति विस्तरः ॥
विस्तारार्द्धं पृथिव्यास्तु भवेदन्यत्र वाह्यतः ।
पर्य्यासपारिमाण्यात्त चन्द्रादित्यी प्रकाशतः ॥
पर्य्यासपारिमाण्यैस्तु बुधैस्तुल्यं दिनं स्मृतम् ।
अवतीमांस्त्रयो लोकान् यस्मात् सूर्य्यः परि-
भ्रमात् ॥
अचिरात्तु प्रकाशे तु अवनात् स रविः स्मृतः ॥
तयोर्भूयः प्रवक्ष्यामि प्रमाणं चन्द्रसूर्य्ययोः ॥
महितत्वान्महीशब्दो यस्मिन्नर्थे निपात्यते ।
अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्ततम् ॥
मण्डलं भास्करस्याथ योजनैस्तन्निबोधत ।
नवयोजनसाहस्रो विस्तारो मण्डलस्य तु ॥
विस्तारात्त्रिगुणश्चापि परिणाहोऽत्र मण्डले ।
विष्कम्भमण्डलाच्चैव भास्करात् द्विगुणः शशी ॥”
तस्य गतिनिरूपणं यथा, --
“मानसस्योत्तरे पृष्ठे लोकपालाश्चतुर्द्दिशम् ।
स्थिता धर्म्मव्यवस्थार्थं लोकसंरक्षणाय च ॥
लोकपालोपरिष्टात्तु सर्व्वतो दक्षिणायने ।
काष्ठागतस्य सूर्य्यस्य गतिन्तस्य निबोधत ॥
दक्षिणोपक्रमः सूर्य्यः क्षिप्तेषुरिव सर्पति ।
ज्योतिषां चक्रमादाय सततं परिगच्छति ॥
मध्यतश्चामरावत्यां यदा भवति भास्करः ।
वैवस्वते संयमने ऊर्द्धं तत्र प्रदृश्यते ॥
सुखायामर्द्धरात्रन्तु विभावर्य्यस्तमेति च ।
वैवस्वते संयमने मध्याह्ने तु रविर्यदा ॥
सुखायामथ वारुण्यामुत्तिष्ठन् स तु दृश्यते ।
विभावर्य्यामर्द्धरात्रं माहेन्द्र्यामस्तमेति च ।
सुखायामथ वारुण्यां मध्याह्ने चार्य्यमा यदा ।
विभावर्य्यां सोमपुर्य्यां उत्तिष्ठति विभावसुः ॥
रात्र्यर्द्धं चामरावत्यामस्तमेति यमस्य च ।
सोमपुर्य्यां विभावर्य्यां मध्याह्ने चार्य्यमा यदा ॥
अमरावत्यां महेन्द्रस्य तद्गच्छति दिवाकरः ।
अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ॥
सुशीघ्रमेव पर्य्येति भास्करोऽलातचक्रवत् ।
भ्रमन् वै भ्रममाणानि ऋक्षाणि चरते रविः ॥
ऐवं चतुर्षु पार्श्वेषु दक्षिणान्तेषु सर्पति ।
उदयास्तमये चासावुत्तिष्ठति पुनः पुनः ॥
पूर्व्वाह्णे चापराह्णे तु द्वौ द्वौ देवालयौ तु सः ।
तपत्येकञ्च मध्याह्ने ताभिरेव च रश्मिभिः ॥
उदितो वर्द्धमानाभिर्म्मध्याह्ने तपते रविः ।
अतः परं ह्रसन्तीभिर्गीभिरस्तन्नियच्छति ॥
उदयास्तमयाभ्याञ्च स्मृते पूर्व्वापरे तु वै ।
यावत् पुरस्तात्तपति तावत् पृष्ठेऽथ पार्श्वयोः ॥
यैरर्को यत्र दृश्येत तेषां स उदयः स्मृतः ।
प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते ॥
सर्व्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे ।
विदूरभावादर्कस्य भूमेर्लेखागतस्य च ॥
ध्रियन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ।
ऊर्द्ध्वं शतसहस्रन्तु स्थितस्तत्र प्रदृश्यते ॥
एवं पुष्करमध्येन यदा भवति भाष्करः ।
त्रिं शद्भागन्तु मेदिन्या मुहूर्त्तेन स गच्छति ॥
योजनाद्यां मुहूर्त्तस्य इमां संख्यां निबोधत ।
पूर्णे शतसहस्राणामेकत्रिं शत्तु ताः स्मृताः ॥
पञ्चाशच्च सहस्राणि तथान्यान्यधिकानि च ।
मौहूर्त्तिकी गतिर्ह्येषा सूर्य्यस्य तु विधीयते ॥
पृष्ठ ५/३९९
एतेन गतियोगेन यदा काष्ठान्तु दक्षिणाम् ।
पर्य्यागच्छत् पतङ्गोऽसौ वामकोष्ठेऽन्तरेऽहनि ॥
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ।
मानसोत्तरमेरोस्तु अन्तरं त्रिगुणन्तु तत् ॥ * ॥
सर्पतो दक्षिणायान्तु काष्ठायान्तु निबोधत ।
नवकोट्यैः प्रसंख्याता योजनैः परिमण्डलम् ॥
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च ।
अहोरात्रा पतङ्गस्य गतिरेषा विधीयते ॥
दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः ।
क्षीरोदस्य समुद्रस्य उत्तरातो दिशश्चरन् ।
मण्डलं विषुवश्चापि योजनैस्तन्निबोधत ॥
तिस्रः कोट्यस्तु संपूर्णं विषुवस्याथ मण्डलम् ।
तथा शतसहस्राणां विंशत्येकाधिका पुनः ॥ * ॥
श्रावणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत् ।
गोमेदकस्य द्वीपस्य उत्तरास्तु दिशश्चरन् ॥
उत्तरायाः प्रमाणन्तु काष्ठाया मण्डलस्य तु ।
दक्षिणोत्तरमध्यानि तानि विद्याद् यथाक्रमम् ॥
स्थानं जरद्गवं मन्ये तथैरावतमुत्तमम् ।
वैश्वानरं दक्षिणतो निर्द्दिष्टमिह तत्त्वतः ॥
नागवीथ्युत्तरा वीथी अजवीथ्याश्च दक्षिणे ।
उभे आषाढमूलन्तु अजवीथ्युदयास्त्रयः ॥
अभिजित् पूर्व्वतः स्वाती नागवीथ्युत्तरास्त्रयः ।
अश्विनी कृत्तिका याम्या नागवीथ्युत्तरा स्मृता ॥
रोहिण्यार्द्रा मृगशिरो नागवीथीरिति स्मृता ।
पुष्याश्लेषा पुनर्व्वस्वोर्वीथीरैरावती स्मृता ॥
तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते ।
पूर्व्वा उत्तरफल्गुन्योर्मघा चैवार्षभी भवेत् ॥
पूर्व्वोत्तरे प्रोष्ठपदे गोवीथी रेवती स्मृता ।
श्रवणा तु धनिष्ठा च वारुणञ्च जरद्गवम् ।
एताश्च वाथतस्तिस्रो मध्यमो गार्ग उच्यते ॥
हस्ता चित्रा तथा स्वाती नागवीथीरिति
स्मृता ।
विशाखमित्रपैत्रश्च नागवीथीरिहोच्यते ॥
मूलपूर्व्वोत्तराषाढा विथीर्व्वश्वानरी तथा ।
स्मृ तास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे बुधैः ॥
काष्ठयोरन्तरं त्वेता वक्ष्यन्ते योजनैः पुनः ।
एतच्छतसहस्राणामेकत्त्रिंशत्तु वै स्मृतम् ॥
शतानि त्रीणि चान्यानि त्रयस्त्रिंशच्च योजनैः
काष्ठयोरन्तरं ह्येवं योजनाग्रात् प्रकीर्त्तितम् ॥
काष्ठयोर्लेखयोर्श्चैव अयने दक्षिणोत्तरे ।
ते वक्ष्यामि प्रसंख्याय योजनैस्तु निबोधत ॥
एकैकमन्तरन्तद्वै युक्तान्येतानि सप्ततिः ।
सहस्रैरतिरिक्ता च ततोऽन्या पञ्चविंशतिः ॥
लेखयोः काष्ठयोश्चैव वाह्याभ्यन्तरयोश्चरन् ।
अभ्यन्तरं स पर्य्येति मण्डलान्युत्तरायणम् ॥
वाह्यतो दक्षिणेनैव सततं सूर्य्यमण्डलम् ।
चरत्यसौ प्रतीच्यान्तु त्र्यशीतिमण्डलं शतम् ॥
तरणिर्द्दक्षिणे तावत् क्रमते मण्डलानि तु ।
प्रमाणं मण्डलस्यापि योजनाग्रान्निबोधत ॥
योजनानां सहस्राणि दश चाष्टौ ततः स्मृतः ।
अधिकान्यष्टपञ्चाशत् योजनानि च वै पुनः ॥
विष्कम्भो मण्डलस्यैतत्तिर्य्यक् स तु विधीयते ।
अहस्तु चरते नाभिं सूर्य्यो वै मण्डलक्रमात् ॥
कुलालचक्रपर्य्यन्तं यथा ररिः शशी तथा ।
दक्षिणे चक्रवत् सूर्य्यस्तथा शीघ्रं निवर्त्तते ॥
तस्मात् प्रकृष्टां भूमिन्तु कालेनाल्पेन गच्छति ।
सूर्य्यो द्वादशभिः शीघ्रं मुहूर्त्तैर्द्दक्षिणायने ॥
त्रयोदशार्द्धमृक्षाणां मध्ये चान्तरमण्डलम् ।
मुहूर्त्तैस्तानि ऋक्षाणि नक्तमष्टादशैश्चरन् ॥
कुलालचक्रमध्यस्थो यथामन्दं प्रसर्पति ।
उदगयने तथा सूर्य्यः स सर्पेत् मन्दविक्रमः ॥
तस्मात् दीर्घेण कालेन भूमिं सोऽल्पां प्रसर्पति
सूर्य्योऽष्टादशभिर्बद्धो मुहूर्त्तैरुदगायने ॥
त्रयोदशानां मध्ये तु ऋक्षाणां चरते रविः ।
मुहूर्त्तैस्तानि ऋक्षाणि रात्रौ द्वादशभिश्चिरम् ॥
ततो मन्दतरं ताभ्यां चक्रन्तु भ्रमतां पुनः ।
मृत्पिण्ड इश मध्यस्थो भ्रमतेऽसौ ध्रुवस्तथा ॥
मुहूर्त्तैस्तावत् त्रिंशद्भिरहोरात्रं घ्रुवं भ्रमन् ।
उभयोः काष्ठयोर्म्मध्ये भ्रमते मण्डलानि तु ॥
उत्तरे प्रक्रमेऽर्कस्य दिवा मन्दगतिः स्मृता ।
तस्यैव तु पुनर्नक्तं शीघ्रा सूर्य्यस्य वै गतिः ॥
दक्षिणे क्रमणे चापि दिवा शीघ्रं विधीयते ।
गतिः सूर्य्यस्य वै नक्तं मन्दा चापि पुनः स्मृता ॥
एवं गतिविशेषेण विभजेद्रात्र्यहानि तु ।
अजवीथ्या दक्षिणं यल्लोकालोकस्य चोत्तरम् ॥
लोकसन्तानको ह्येष वैश्वानरपथाद्वहिः ।
व्युष्टा यावत् प्रभा सौरी पुष्करात् संप्रकाशते ।
पार्श्वेभ्यो बाह्यतस्तावत् लोकालोकस्तु पर्व्वतः ॥
योजनानां सहस्राणि दशोर्द्धं चोच्छ्रितो गिरिः ।
प्रकाशश्चाप्रकाशश्च सर्व्वतः परिमण्डलः ॥
नक्षत्रचन्द्रसूर्य्याश्च ग्रहास्तारागणैः सह ।
अभ्यन्तरे प्रकाशन्ते लोकालोकस्य वै गिरेः ॥
इति मात्स्ये १०१ अध्यायः ॥
अस्य राहुग्रस्तादिकारणं यथा, --
नन्द उवाच ।
“राहुग्रस्तः कथं सूर्य्यश्चन्द्रो वापि जगत्प्रभो ॥
नष्टश्चन्द्रः कथं भाद्रे चतुर्थ्याञ्च सितासिते ।
वेदानां जनकस्त्वञ्च कं पृच्छामि त्वया विना ॥
श्रीभगवान् उवाच ।
शृणु नन्द प्रवक्ष्यामि कथामेतां पुरातनीम् ।
यां श्रुत्वा निष्कलङ्कश्च तीर्थस्नायी भवेन्नरः ॥
एकदा यमदग्निश्च महाकौतूहलान्वितः ।
रेणुकासहितस्तुष्टो जगाम नर्म्मदातटम् ।
निर्ज्जने नर्म्मदातीरे विजहार तया सह ॥
चन्दनोक्षितसर्व्वाङ्गं वस्त्रमाल्यधरं मुनिम् ।
महारासरसाढ्यं तमुवाच भास्करः स्वयम् ॥
वेदकर्त्तुः प्रपौत्त्रस्त्वं ब्रह्मणश्च जगत्पतेः ।
चतुर्व्वेदविधेयेषु सुनिष्णातः सदा शुचिः ॥
वेदप्रणिहितो धर्म्मो ह्यधर्म्मस्तद्विर्य्ययः ।
धर्म्मं त्यजति धर्म्मज्ञो अधर्म्मेण रतः कथम् ॥
दिवामैथुनदोषञ्च वक्ति वेदो विशेषतः ।
अहञ्च कर्म्मणां साक्षी तेन त्वां कथयामि ते ॥
सूर्य्यस्य वचनं श्रुत्वा तत्याज मैथुणं द्विजः ।
दृष्ट्वा पुगो विप्ररूपं सूर्य्यं तेजस्विनं सुरम् ।
उवाच सूर्य्यं रक्तास्यः कोपलज्जासमन्वितः ॥
रेणुका लज्जिता तत्र विधाय वाससी सती ॥
यमदग्निरुवाच ।
अद्य मे निर्ज्जनस्थाने रसभङ्गस्त्वया कृतः ।
मम शापात् पापदृश्यो राहुग्रस्तो भविष्यति ॥
द्रष्टुं त्वां मेघगणाः सर्व्वे दूरीभूता भवन्ति ते ।
त्वामाच्छन्नं करिष्यन्ति वायुना प्रेरितास्तथा ॥
स्वतेजसा भवान् गर्व्वी हततेजा भविष्यति ।
मेघाच्छन्नः स्वल्पतेजा राहुग्रस्तो भवान् भव ॥
ब्राह्मणस्य वचः श्रुत्वा भगवान् भास्करः स्वयम्
त्रस्तः पुटाञ्जलिर्भूत्वा तुष्टाव मुनिपुङ्गवम् ॥
सूर्य्य उवाच ।
अहमेव त्वया शप्तो मया शप्तो भवान् भव ।
अन्यथा मां वदन्त्येवं सूर्य्यं निस्तेजसं जनाः ॥
पराभूतः क्षत्त्रियेण भविष्यसि द्विजेश्वरः ।
मरणं क्षत्त्रियास्त्रेण भवतश्च भविष्यति ॥
सूर्य्यस्य वचनं श्रुत्वा चुकोप ब्राष्णणः पुनः ।
तं शशापातिरक्तास्यः शम्भुना च जितो
भवान् ॥
उभयोः कलहं ज्ञात्वा कश्यपेन सह व्रज ।
आजगाम स्वयं ब्रह्मा विधाता जगतामपि ॥
आगत्य ब्रह्मा संत्रस्तं बोधयामास भास्करम् ।
मुनिश्रेष्ठञ्च धर्म्मज्ञं धर्म्मज्ञानां गुरोर्गुरुः ॥
ब्रह्मोवाच ।
क्षमस्व भास्कर त्वञ्च साक्षान्नारायणो भवान् ।
युष्माकं परिपालश्चाप्यवध्यो ब्राह्मणः सदा ॥
अहं करोमि भवतो विप्रशापान्तमुल्वणम् ।
शान्तो भव सुरश्रेष्ठ साक्षी त्वं सर्व्वकर्म्मणाम् ॥
कुत्रचिद्दिवसे ब्रह्मन्नृतौ त्वं कुत्रचित् क्षणम् ।
भविष्यसि घनाच्छन्नः सद्यो मुक्तो भविष्यसि ॥
न्यूनातिरिक्ते वर्षे वा राहुग्रस्तो भविष्यसि ।
तत्रादृश्यश्च केषाञ्चित् पुण्यदृश्यो हि कस्यचित् ॥
अन्यथा सर्व्वकाले नापुण्यदृश्यो भवान् भुवि ।
त्वां दृष्ट्वा च नमस्कृत्य सर्व्वे निष्पापिणो जनाः ॥
जन्मसप्ताष्टरिप्फाङ्कचतुर्थे दशमे विधौ ।
जन्मर्क्षे निधने नॄणां अदृश्यस्त्वं भविष्यसि ॥
अस्तकाले घनाच्छन्ने मध्याह्नस्थे जलेऽपि वा
अर्द्धोदिते च काले च पापदृश्यो भविष्यसि ॥
भार्य्यादुःखनिमित्तेन भार्य्यया हेतुभूतया ।
श्वशुरेण श्यालकेन हततेजा भविष्यसि ॥
अन्यथा तव तेजश्च संज्ञा सहितुमक्षमा ।
मालिसुमालियुद्धे च शम्भुना त्वं पराजितः ॥
इत्येवमुक्त्वा सूर्य्यञ्च बोधयामास ब्राह्मणम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ७९ । १-५० ॥
ब्रह्माण्डपुराणे ५९ अध्यायेऽप्येमेव ॥
अथ सूर्य्यमन्त्राः ।
“तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः ।
वह्नासनो मरुत् शेषः सनेत्रोऽदिस्त्यपश्चिमः ।
अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतः परः ॥”
ॐ घृणि सूर्य्य आदित्य । अस्य पूजा । प्रातः
कृत्यादिप्राणायामान्तं विधाय पीठन्यासं कुर्य्यात्
तत्र विशेषः । हृदयस्य पूर्व्वादिदिक्षु मध्य च ।
पृष्ठ ५/४००
प्रभूतं विमलं सारं समाराध्यं परमसुखं विन्यस्य
आधारशक्त्यादि अं सूर्य्यमण्डलाय द्वादशकला-
त्मने नमः इत्यन्तं विन्यसेत् । तथा च निबन्धे ।
“पीठे कॢप्ते च प्रथमं दिक्षु मध्ये च संयजेत् ।
प्रभूतं विमलं मारं समाराध्यमनन्तरम् ॥
परमादि सुखं पीठं स्वविम्बान्तं प्रकल्पयेत् ॥”
ततः केशरेषु मध्ये च वां दीप्तायै नमः ॥
एवं वीं सूक्ष्मायै वूं जयायै वें भद्रायै वैं
विभूत्यै वों विमलायै वौं अमोघायै वं विद्यु-
तायै वः सर्व्वतोमुख्यै । तथा च निबन्धे ।
“दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला पुनः
अमोघा विद्युता सर्व्वतोमुखी पीठशक्तयः ॥
दीप्तदीपशिखाकारान् बीजन्यासान् विदुः
क्रमात् ।
अक्लीवह्रस्वत्रितयस्वरान् बिन्द्वग्निसंयुतान् ॥”
तदुपरि ब्रह्मविष्णुशिवात्मकाय सौराय योग-
पीठाय नमः । यथा च शारदायाम् ।
“वदेत् पदं चतुर्थ्यन्तं ब्रह्मविष्णुशिवात्मकम् ।
सौराय योगपीठाय नमःपदमनन्तरम् ॥
पीठमन्त्रोऽयमाख्यातो दिनेशस्य जगत्पतेः ॥”
तत ऋष्यादिन्यासः । शिरसि देवभागऋषये
नमः । मुखे गायत्त्रीच्छन्दसे नमः । हृदि
आदित्याय देवतायै नमः । निबन्धे ।
“देवभागो मुनिः प्रोक्तो गायत्त्रीच्छन्द ईरितम्
आदित्यो देवता प्रोक्तो दृष्टादृष्टफलप्रदः ॥”
ततः कराङ्गन्यासौ । सत्याय तेजोज्वालामणे
हुँ फट् स्वाहा अङ्गुष्ठाभ्यां नमः । एवं ब्रह्मणे
१० तर्ज्जनीभ्यां स्वाहा । विष्णवे १० मध्यमाभ्यां
वषट् । रुद्राय १० अनामिकाभ्यां हूम् । अग्नये
१० कनिष्ठाभ्यां वौषट् । सर्व्वाय १० करतल-
पृष्ठाभ्यां फट् । एवं हृदयादिषु । तथा च
शारदायाम् ।
“सत्याय हृदयं प्राक्तं ब्रह्मण शिर इरितम् ।
विष्णवे स्याच्छिखावर्म्म रुद्राय परिकीर्त्तितम् ॥
अग्नये नेत्रमाख्यातं सर्व्वायास्त्रमुदीरितम् ।
तेजोज्वालामणे हूँ फट् द्विठान्ताः परिकी-
र्त्तिताः ॥”
ततो मूर्त्तिन्यासः । यथा शिरसि ॐ आदि-
त्याय नमः । मुखे एं रवये । हृदये ऊं भानवे ।
गुह्ये ईं भास्कराय । चरणयोः अं सूर्य्याय ।
तथा च निबन्धे ।
“आदित्यं विन्यसेन्मूर्द्ध्नि रविं मुखगतं न्यसेत् ।
हृदये भानुनामानं भास्करं गुह्यदेशतः ।
सूर्य्यं चरणयोर्न्यस्येद्वर्णैः सत्यादिपञ्चभिः ॥”
ततो मन्त्रन्यासः । शिरशि ॐ ॐ नमः । मुखे
ॐ घृ नमः । कण्ठे ॐ णि नमः । हृदि ॐ सू
नमः । कुक्षौ ॐ र्य्य नमः । नाभौ ॐ आ
नमः । लिङ्गे ॐ दि नमः । पादयोः ॐ त्य
नमः । तथा च ।
“मूर्द्धास्यकण्ठहृदयकुक्षिनाभिध्वजाङ्घ्रिषु ।
मन्त्रवर्णान्न्यसेदष्टौ प्रत्येकं प्रणवादिकान् ॥” * ॥
ततो ध्यानम् ।
“रक्ताब्जयुग्माभयदानहस्तं
केयूरहाराङ्गदकुण्डलाद्यम् ।
माणिक्यमौलिं दीननाथमीडे
बन्धूककान्तिं विलसत्त्रिनेत्रम् ॥”
एवं ध्यात्वा मानसैः संपूज्य अर्घस्थापनं कृत्वा
गुरुपंक्तिं संपूज्य पीठपूजां कुर्य्यात् । ततः स्वं
खसोल्काय नमः । इति मन्त्रेण मूर्त्तिं संकल्प्य
पुनर्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदान-
पर्य्यन्तं विधायावरणपूजामारभेत् । तथा च
निबन्धे ।
“तारादि खं खंसोल्काय मनुना मूर्त्तिकल्पना
साक्षिणं सर्व्वलोकानां तस्यामावामाह्य पूजयेत्”
केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु च सत्याय
तेजोज्वालामणे हूँ फट् स्वाहा हृदयाय नमः ।
एवं ब्रह्मणे शिरसे स्वाहा । विष्णवे शिखायै
वषट् । रुद्राय कवचाय हूम् । अग्नये नेत्रत्रयाय
वौषट् । सर्व्वाय अस्त्राय फट् । दिक्पत्रेषु
पूर्व्वादि ॐ आदित्याय नमः । एवं एं रवये
ऊँ भानवे ईं भास्कराय । विदिक्पत्रेषु
अग्न्यादि उं उषायै पं प्रज्ञायै पं प्रभायै सं
सन्ध्यायै । तथा च ।
“अङ्गानि पूजयेदादौ दिक्पत्रेष्वर्कमूर्त्तयः ।
आदित्याद्याश्चतस्रोऽर्च्च्याः शक्तयः कोण-
पत्रगाः ॥
स्वस्वनामादिवर्णाः स्युस्तासां बीजान्यनुक्रमात्
उषा प्रज्ञा प्रभा सन्ध्या शक्तयः परिकीर्त्तिताः ॥”
ततः पत्राग्रेषु ब्राह्माद्याः संपूज्य पुरतोऽरुण-
मर्च्चयेत् । तथा च शारदायाम् ।
“पत्राग्रसंस्था ब्राह्माद्याः पुरतोऽरुणमर्च्चयेत् ।”
तद्वाह्ये चन्द्रादीन् पूजयेत् । यथा चन्द्राय नमः
एवं मङ्गलाय बुधाय बृहस्पतये शुक्राय शनैश्च-
राय राहवे केतवे । तथा च शारदायाम् ।
“चन्द्रादीन्पूजयेत्पश्चात्ग्रहानष्टौ ततो वहिः ॥”
ततः इन्द्रादीन् वज्रादींश्च सम्पूज्य धूपादि
विसर्ज्जनान्तंकर्म्म समापयेत् । अस्य पुरश्चरण-
मष्टलक्षजपः । तथा च ।
“वसुलक्षं जपेन्मन्त्रं समिद्भिः क्षीरशाखिनाम् ।
तत्सहस्रं प्रजुहुयात् क्षीराक्ताभिर्ज्जितेन्द्रियः ॥”
वाचनिक एवाष्टसहस्रहोमः ॥ * ॥ मन्त्रान्तरं यथा
“आकाशमग्निदीर्घेन्दुसंयुतं भुवनेश्वरी ।
सर्गान्वितो भृगुर्भानोस्त्र्यक्षरोऽयं समीरितः ॥”
ह्राँ ह्रीँ सः । अस्य पूजाप्रयोगः । प्रातः-
कृत्यादिपूर्व्वमन्त्रोक्तपीठन्यासं विधाय पूर्व्वोक्तं
ऋष्यादिन्यासं कुर्य्यात् । ततो मन्त्रन्यासः ।
यथा आधारादिपादपर्य्यन्तं ह्राँ नमः । कण्ठा-
दाधारपर्य्यन्तं ह्रीँ नमः । मूर्द्धादिकण्ठपर्य्यन्तं
सः नमः । शारदायाम् ।
“आधारादिपदाग्रान्तं कण्ठादाधारकावधि ।
मूर्द्धादिकण्ठपर्य्यन्तं क्रमाद्बीजत्रयं न्यसेत् ॥”
ततः कराङ्गन्यासौ । ह्राँ अङ्गुष्ठाभ्यां नमः ।
ह्रीँ तर्ज्जनीभ्यां स्वाहा । हूँ मध्यमाभ्यां वषट्
ह्रैँ अनामिकाभ्यां हूँ । ह्रीँ कनिष्ठाभ्यां
वौषट् । ह्रः करतलपृष्ठाभ्यां फट् । एवं हृदया-
दिषु । तथा च निबन्धे ।
“षड्दीर्घभाजा मध्येन बीजेनाङ्गानि कल्पयेत् ॥”
ततो ध्यानम् ।
“रक्ताम्बुजासनमशेषगुणैकसिन्धुं
भानुं समस्तजगतामधिपं भजामि ।
पद्मद्वयाभयवरान् दधतं कराब्जै-
र्माणिक्यमोलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥”
एवं ध्यात्वा मानसैः संपूज्य अर्घ्यस्थापनं कृत्वा
पूर्व्वोक्तक्रमेण पीठपूजां विधाय मूर्त्तिमन्त्रेण
मूर्त्तिं सङ्कल्प्य पुनर्ध्यात्वावाहनादिपञ्चपुष्पा-
ञ्जलिदानपर्य्यन्तं विधायावरणपूजामारमेत् ।
अग्निनिरृतिवाय्वीशानेषु मध्ये दिक्षु च ह्राँ
हृदयाय नमः इत्यादिना पूजयेत् । पत्रेषु चन्द्रा-
दीन् पूजयेत् । तत इन्द्रादीन् वज्रादींश्च पूजयेत्
ततो धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।
अस्य पुरश्चरणं द्वादशलक्षजपः । तथा च ।
“भानुलक्षं जपेन्मन्त्रमाज्येन च दशांशतः ।
तिलैर्व्वा मधुरासिक्तैर्जुहुयाद्विजितेन्द्रियः ॥”
मन्त्रान्तरम् ।
“आकाशमग्निपवनसत्यान्तार्घीशबिन्दुमत् ।
मार्त्तण्डभैरवं नाम बीजमेतदुदाहृतम् ॥
पुटितं विम्बबीजेन सर्व्वकामफलप्रदम् ॥”
विम्बबीजमाह ।
“टान्तं दहननेत्रे न्दुसहितं तदुदाहृतम् ॥”
ठ्रिं ह्र्यौडं ठ्रिम् । अस्य पूजाप्रयोगः । प्रातः-
कृत्यादि पूर्व्ववत् एतन्मन्त्रोक्तपीठन्यासान्तं कर्म्म
विधाय ऋष्यादिन्यासं कुर्य्यात् । ततो मूर्त्ति-
न्यासः । ठ्रंसूर्य्याय नमोऽङ्गुष्ठयोः । ठ्रिं भास्क-
राय नमस्तर्ज्जन्योः । ठुं भानवे नमः मध्य-
मयोः । ठें रवये नमोऽनामिकयोः । ठ्रों
दिवाकराय नमः कनिष्ठयोः । ततः शिरसि
वदने हृदये गुह्ये पाददेशेषु तास्तत्तद्वीजा-
दिका न्यसेत् । तथा च निबन्धे ।
“पञ्चह्रस्वाढ्यबीजेन पञ्चमूर्त्तिः प्रविन्यसेत् ।
अङ्गुष्ठादिकनिष्ठान्तं अङ्गुलिषु क्रमादिमाः ॥
सूर्य्यस्तु भास्करो भानुस्ततो रविदिवाकरौ ।
शिरोवदनहृद्गुह्यपाददेशेषु ताः क्रमात् ॥”
ततः कराङ्गन्यासौ । ठ्रां अङ्गुष्ठाभ्यां नमः । ठ्रों
तर्ज्जनीभ्यां स्वाहा । ठ्रूं मध्यमाभ्यां वषट् ।
ठ्रैं अनामिकाभ्यां हूम् । ठ्रौँ कनिष्ठाभ्यां
वौषट् । एवं हृदयादिषु । ठ्रां हृदयाय नमः
इत्यादि । तथा च निबन्धे ।
“दीर्घयुक्तेन बीजेन नेत्रान्ताङ्गानि विन्यसेत् ।”
ततो मूलबीजेन व्यापकं कृत्वा ध्यायेत् । तथा
च ।
“व्यापकं मूलबीजेन कुर्व्वीत तदनन्तरम् ।”
ध्यानम् ।
हेमाम्भोजप्रबालप्रतिमनिजरुचिं चारु-
स्वट्टाङ्गपद्मौ
चक्रं शक्तिं सपाशं शृणिमतिरुचिरामक्ष-
मालां कपालम् ।
पृष्ठ ५/४०१
हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वे दवक्त्वाभिरामं
मार्त्तण्डं वल्लभार्द्धं मणिमयमुकुटं हारदीप्तं
भजामः ॥”
एवं ध्यात्वा मानसैः सम्पूज्यार्घस्थापनं कुर्य्यात्
ततः पूर्व्वोक्तक्रमेण पीठं संपूज्य पूर्व्वादिदिक्षु
कर्णिकायाम् । उं उषायै नमः । एवं पं प्रभायै
पं प्रज्ञायै सं सन्ध्यायै इति संपूज्य मूर्त्तिं मूलेन
कल्पयेत् । ततः पूर्व्वादिदिक्षु सूर्य्यं भास्करं भानुं
रविञ्च पूजयेत् । कोणेषु दिवाकरम् । ततः
पूर्व्वदक्षिणपश्चिमोदीच्येषु दिक्षु ठ्रां हृदयाय
नमः । इत्यादिना पूज्ययेत् । ईशाने ठ्रौं नेत्र-
त्रयाय वौषट् । शारदायाम् ।
“सूर्य्यादीन् चतुरो दिक्षु विदिक्ष्वन्यं समर्च्चयेत
अङ्गपूजा यथापूर्व्वा नेत्रमीशानदिग्गतम् ॥”
ततः पूर्व्ववच्चन्द्रादिग्रहान् पूजयेत् । ततो
लोकपालान् पूजयेत् । तथा च निबन्धे ।
“ग्रन्थानष्टौ तथा बाह्ये लोकपालांस्ततःपरम् ॥”
ततो धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।
अस्य पुरश्चरणजपो लक्षत्रयसंख्यः । त्रिमधुरो-
पेतैः कमलैर्द्दशांशहोमः । तथा च ।
“लक्षत्रयं जपेन्मन्त्री बीजं विम्बपुटीकृतम् ।
दशांशं कमलैः फुल्लैर्जुहुयान्मधुरोक्षितैः ॥
इमं मन्त्रं जपन्मर्त्यः कान्तिं पुत्त्रान् धनं द्युतिम्
वाक्सिद्धिममितां लक्ष्मीं सौभाग्यमपि साधयेत्
इति तन्त्रसारः ॥ * ॥
अस्य प्रकारान्तरमन्त्रध्यानपूजादिकं गरुड-
पुराणे ३९ अध्याये द्रष्टव्यम् ॥ * ॥ सूर्य्ये वर्ण-
नीयानि यथा । अरुणता १ रविमणिप्रकाशः २
चक्रवाकप्रीतिः ३ पद्मप्रकाशः ४ पश्रिकप्रौतिः ५
लोचनप्रीतिः ६ तारार्त्तिः ७ चन्द्राप्रकाशः ८
दीपाप्रकाशः ९ ओषध्यप्रकाशः १० पेच-
कार्त्तिः ११ तमोऽभावः १२ चैरार्त्तिः १३ कुमु-
दार्त्तिः १४ कुलटार्त्तिः १५ । इति कविकल्प-
लता ॥

सूर्य्यकान्तः, पुं, (सूर्य्यः कान्तो यस्य । सूर्य्यस्य

कान्तः प्रियो वा ।) स्फटिकः । इति हला-
युधः ॥ मणिविशेषः (यथा, रघुवंशे । ११ ।
२१ ।
“ज्योतिरिन्धननिपाति भास्करात्
सूर्य्यकान्त इव ताडकान्तकः ॥”)
तत्पर्य्यायः । सूर्य्यमणिः २ सूर्य्याश्मा ३ दहनो-
पमः ४ । इति हेमचन्द्रः ॥ तपनमणिः ५ तापनः ६
रविकान्तः ७ दीप्तोपलः ८ अग्निगर्भः ९ ज्वल-
नाश्मा १० अर्कोपलः ११ । अस्य गुणाः ।
उष्णत्वम् । निर्म्मलत्वम् । रसायनत्वम् । वात-
श्लेष्महरत्वम् । मेध्यत्वम् । पूजनाद्रवितुष्टिदत्वञ्च
इति राजनिर्घण्टः ॥ पुष्पवृक्षविशेषः । तत्-
पर्य्यायः । सूर्य्यमणिः २ पुष्परक्तः ३ पचत्पुटः ४ ।
इति शब्दचन्द्रिका ॥

सूर्य्यकान्तिः, स्त्री, (सूर्य्यस्येव कान्तियंस्याः ।)

युष्पविशेषः । यथा, --
“सूर्य्यकान्तिस्ताम्रवर्णा ओड्रपर्य्याय इत्यपि ॥”
इति शब्दचन्द्रिका ॥
सूर्य्यस्य दीप्तिश्च ॥

सूर्य्यकालः, पुं, (सूर्य्योपलक्षितः कालः ।) दिवसः ।

इति शब्दचन्द्रिका

सूर्य्यकालानलचक्रं, क्ली, नरणा शुभाशुभज्ञानार्थं

नक्षत्रघटितचक्रविशेषः । यथा, --
“ऊर्द्धगास्त्रित्रिशूल्यग्रास्तिस्रस्तिर्य्यग्व्यवस्थिताः
द्वे द्वे नाड्यौ स्थिते कोणे शृङ्गयुग्मं तथैकया ॥
मध्यत्रिशूलदण्डादौ भानुभाद्यं भमण्डलम् ।
साभिजित्तत्र दातव्यं सव्यमार्गेण सर्व्वदा ॥
नाम ऋक्षं स्थितं यत्र ज्ञेयं तत्र श्रुभाशुभम् ।
अधोगतैस्त्रिनक्षत्रैरुद्वेगो वधबन्धनम् ॥
रेखाष्टके जयो लाभ ऋक्षषट्के तथा पुनः ।
शृङ्गयुग्मे रुजाभङ्गो मृत्युः शूलत्रये स्फुटम् ॥
विवादे व्यसने युद्धे रोगार्त्ते गमने तथा ।
सूर्य्यकालानलं चक्रं ज्ञातव्यन्तु प्रयत्नतः ॥”
इति स्वरोदयः ॥

सूर्य्यग्रहः, पुं, (सूर्य्यरूपो ग्रहः ।) नवग्रहाणां

प्रथमग्रहः । (सूर्य्यस्य ग्रहः ग्रहणम् ।)
सूर्य्योपरागः । यथा, गारुडे ।
“सूर्य्यग्रहः सूर्य्यवारे सोमे सोमग्रहो भवेत् ।
चूडामणिरयं योगस्तत्रानन्तफलं स्मृतम् ॥”
इति तिथ्यादितत्त्वम् ॥

सूर्य्यग्रहणं, क्ली, (सूर्य्यस्य ग्रहणम् ।) सूर्य्योप-

रागः । तत्कारणं यथा, वह्निपुराणे गणभेद-
नामाध्याये ।
“सूर्य्येन्दोरुपरागस्तु गोलकच्छायाया भवेत् ।
अन्योन्ययोस्तयोरेव व्यापयोरेव कारणात् ॥
ग्रासमोक्षौ तु जायेते तत्रातः पूर्व्वपश्चिमौ ।
तत्र पुण्यफलाद्भागः कृतो राहोस्तु विष्णुना ॥”
अन्यत् ग्रहणशब्दे द्रष्टव्यम् ॥

सूर्य्यजः, पुं, (सूर्य्यात् जायते इति । जन + डः ।)

सुग्रीववानरः । इति जटाधरः ॥ शनिग्रहः ।
(यथा, बृहत्संहितायाम् । १०४ । ४४ ।
“गच्छत्यध्वानं सप्तमे चाष्टमे च
हीनः स्त्रीपुत्त्रैः सूर्य्यजे दीनचेष्टः ॥”
यमः । मनुः । रेवन्तः । कर्णश्च ॥)

सूर्य्यजा, स्त्री, (सूर्य्यात् जायते इति । जन + डः ।

टाप् ।) यमुना नदी । इति हेमचन्द्रः ॥

सूर्य्यतनयः, पुं, (सूर्य्यस्य तनयः ।) शनैश्चरग्रहः ।

यमः । (सावर्णिमनुः । रेवन्तः ।) यथा, --
“तस्य पत्नीत्रयन्तद्वत् संज्ञा राज्ञी प्रभा तथा ।
रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् । २ ।
प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ।
यमश्च यमुना चैव यमलौ तु बभूवतुः ॥ ३ ॥
जनयामास तस्यान्तु पुत्त्रञ्च मनुरूपिणम् ।
सवर्णत्वाच्च सावर्णिर्मनोर्वैवस्वतस्य च ॥ ८ ॥
ततः शनिञ्च तपतीं विष्टिञ्चैव क्रमेण तु ।
छायायां जनयामास संज्ञे यमिति भास्करः ॥” ९
इति मात्स्ये ११ अध्यायः ॥
(वानरराजः सुग्रीवः । कर्णश्च ॥)

सूर्य्यतनया, स्त्री, (सूर्य्यस्य तनया ।) यमुना नदी ।

इत्यमरः । १ । १० । ३२ ॥

सूर्य्यपत्रः, पुं, (सूर्य्य इव तीक्ष्णं पत्रमस्य ।)

आदित्यपत्रः । इति राजनिर्घण्टः ॥

सूर्य्यपुत्त्रः, पुं, सूर्य्यस्य पुत्त्रः ।) वरुणः । शनिः ।

इति केचित् ॥ (यथा, महाभारते । ६ । ३ । १३ ।
“मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ।
भाग्यं नक्षत्रमाक्रम्य सूर्य्यपुत्त्रेण पीड्यते ॥”)
यमः । यथा, --
“धर्म्मराज नमस्तुभ्यं नमस्ते यमुनाग्रज ।
पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र नमोऽस्तु ते ॥”
इति तिथ्यादितत्त्वम् ॥
(अश्विनीकुमारौ । यथा, महाभारते । १३ ।
१५७ । १९ ।
“पिबेतामश्विनौ सोमं भवद्भिः सहितावुभौ ।
उभावेतावपि सुरौ सूर्य्यपुत्त्रौ सुरेश्वर ! ॥”)
अन्यत् सूर्य्यतनयशब्दे द्रष्टव्यम् ॥

सूर्य्यपुत्री, स्त्री, (सूर्य्यस्य पुत्त्री ।) यमुना । यथा,

महाभारते ।
“यमस्वसर्नमस्तेऽस्तु यमुने लोकपूजिते ।
वरदा भव मे नित्यं सूर्य्यपुत्त्रि नमोऽस्तु ते ॥”
इति तिथ्यादितत्त्वम् ॥
विद्युत् । इति केचित् ॥

सूर्य्यफणिचक्रं, क्ली, सर्व्वकार्य्यशुभाशुभज्ञापक-

चक्रविशेषः । यथा, --
“सप्तविंशतिभान्यत्र पङ्क्तियुक्त्या क्रमेण तु ।
त्र्यन्तारत्र्यन्तरे वेधः फणिचक्रं त्रिनाडिकम् ॥
यत्र ऋक्षे स्थितो भानुर्भेदादौ गणयेद्बुधः ।
नाम ऋक्षं स्थितं यत्र ज्ञेयं तत्र शुभाशुभम् ॥
कुर्य्यान्मृत्युञ्च रोगञ्च नाडीवेधगतं नृणाम् ।
वर्ज्जयेत् सर्व्वकार्य्येषु युद्धकाले विशेषतः ॥
निर्व्वेधऋक्षमध्यस्थं यस्य नाम प्रजायते ।
सिध्यन्ति सर्व्वकार्य्याणि संग्रामे च जयो भवेत् ॥”
इति स्वरोदयः ॥

सूर्य्यभक्तः, पुं, (सूर्य्यस्य भक्तः प्रियः ।) बन्धूक-

पुष्पवृक्षः । सूर्य्यपूजके, त्रि । इति मेदिनी ॥

सूर्य्यभक्तकः, पुं, (सूर्य्यभक्त एव । स्वार्थे कन् ।)

बन्धूकपुष्पवृक्षः । इति शब्दमाला ॥ सूर्य्य-
पूजके, त्रि ॥

सूर्य्यमणिः, पुं, (सूर्य्यप्रियो मणिः ।) सूर्य्यकान्त-

मणिः । इति हेमचन्द्रः ॥ पुष्पवृक्षविशेषः ।
यथा, शब्दचन्द्रिकायाम् ।
“सूर्य्यकान्तः सूर्य्यमणिः पुष्परक्तः पचत्पटः ॥”

सूर्य्यमण्डलं, क्ली, (सूर्य्यस्य मण्डलम् ।) सूर्य्य-

सन्निधिवेष्टनम् । तत्पर्य्यायः । परिवेशः २ परिधिः
३ उपसूर्य्यकम् ४ मण्डलम् ५ । इत्यमरः । १ ।
३ । ३२ ॥ यथा, --
“सायाह्ने शिवरूपाञ्च वृद्धां वृषभवाहिनीम् ।
सूर्य्यमण्डलमध्यस्थां सामवेदसमायुताम् ॥”
इत्याह्रिकतत्त्वम् ॥