शब्दकल्पद्रुमः/सुकन्दः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/३६२

सुकन्दः, पुं, (सु सुन्दरः कन्दो यस्य ।) कशेरुः ।

इति राजनिर्घण्टः ॥

सुकन्दकः, पुं, (सु सुन्दरः कन्दो यस्य । कप् ।)

पलाण्डः । इत्यमरः । २ । ४ । १४७ ॥ वाराहोकन्दः ।
वरणीकन्दः । इति राजनिर्घण्टः ॥

सुकन्दी, [न्] पुं, (सुकन्दोऽस्यास्तीति । इनिः ।)

शूरणः । इति राजनिर्घण्टः ॥

सुकन्यकः, त्रि, शोभना कन्या यस्य । इति मुग्ध--

बोधव्याकरणम् ॥

सुकन्या, स्त्री, (सु शोभना कन्या ।) शर्यातिराज

कन्या । सा तु च्यवनर्षिपत्नी । यथा, श्रीभागवते
९ । ३ । अध्याये ।
“शर्य्यातिर्मानवो राजा ब्रह्मिष्ठः संबभूव ह ।
सुकन्या नाम तस्यासीत् कन्या कमललोचना ॥
सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।
प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥”
शोभना कन्या च ॥

सुकन्याकः, त्रि, (शोभना कन्या यस्य ।) सुक-

न्यकः । इति मुग्धबोधव्याकरणम् ॥

सुकरः, त्रि, (सुखेन क्रियते इति । सु + कृ +

“ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ३ । ३ ।)
१२३ । इति खल् ।) सुखकरः । अक्लेशसाध्यः ।
यथा, --
“क्रियमाणन्तु यत् कर्म्म स्वयमेव प्रसिध्यति ।
सुकरैः स्वैर्गणैः कर्त्तुः कर्म्मकर्त्तेति तद्विदुः ॥”
इति मुग्धबोधव्याकरणम् ॥

सुकरा, स्त्री, (सु सुखं करोतीति । कृ + अच् ।)

सुशीला गौः । इत्यमरः । २ । ९ । ७० ॥

सुकर्णकः, पुं, (सुन्दरः कर्ण इव कन्दो यस्य ।)

हस्तिकन्दः । इति राजनिर्घण्टः ॥ सुन्दरकर्ण-
युक्ते, त्रि ॥

सुकर्णिका, स्त्री, (सुन्दरः कर्ण इव पर्णमस्याः ।

कापि अत इत्वम् ।) मूषीकर्णी । इति शब्द-
रत्नावली ॥

सुकर्णी, स्त्री, (शोभनः कर्ण इव पत्रमस्याः ।

ङीष् ।) इन्द्रवारुणी । इति राजनिर्घण्टः ॥

सुकर्म्मा, [न्] पुं, (सु शोभनं कर्म्म यस्मात् ।)

विस्कम्भादिसप्तविंशतियोगान्तर्गतसप्तमयोगः ।
तत्र जातफलम् ।
“परोपकारी कुशलः कलासु
हर्षेण युक्तो नितरां यशस्वी ।
प्रसूतिकाले यदि चेत् सुकर्म्मा
नरः सुकर्म्मा भवति प्रसिद्धः ॥”
इति कोष्ठीप्रदीपः ॥
विश्वकर्म्मा । इति मेदिनी ॥

सुकर्म्मा, [न्] त्रि, (सु शोभनं कर्म्म यस्य ।)

शाभनकर्म्मशालः । सत्क्रियः । इति हेम-
चन्द्रः ॥

सुकलः, त्रि (सुष्टु कल्यते इति । सु + कल +

खल् ।) दतृभोक्तृव्यक्तिः । इत्यमरः । ३ । १ । ८ ॥
य एक एव दत्ते भुङ्क्ते च तत्र । विख्या-
तत्वात् सुष्ठु अतिशयेन वा कल्यते शब्द्यते वा
असौ सुकलः । इति भरतः ॥

सुकाण्डः पुं, (सु शोभनः काण्डो यस्य ।) कार-

वेल्लः । इति राजनिर्घण्टः ॥ सुन्दरकाण्डयुक्त-
वृक्षादिश्च ॥

सुकाण्डिका, स्त्री, (सुन्दरः काण्डो यस्याः । कन् ।

टापि अत इत्वम् ।) काण्डीरलता । इति राज
निर्घण्टः ॥

सुकाण्डी, [न्] पुं, (सुन्दराः काण्डा इव चर-

णानि सन्त्यस्येति । इनिः ।) भ्रमरः । इति
राजनिर्घण्टः ॥ सुन्दरकाण्डयुक्तश्च ॥

सुकामा, स्त्री, (सुष्ठु काम्यतेऽसौ । सु + कम् +

कर्म्मणि घञ् ।) त्रायमाणा । इति राज-
निर्घण्टः ॥ (सुष्ठु कामो यस्याः ।) शोभन-
कामयुक्ता च ॥

सुकालुका, स्त्री, डोडीक्षुपः । इति राज-

निर्घण्टः ॥

सुकाष्ठकं, क्ली, (सु शोभनं काष्ठमस्येति । कन् ।)

देवकाष्ठम् । इति राजनिर्घण्टः ॥ सुन्दर-
दारु च ॥

सुकाष्ठा, स्त्री, (सु शोभनं काष्ठमस्याः ।) कट्वी ।

काष्ठकदली । इति राजनिर्घण्टः ॥

सुकुन्दकः, पुं, पलाण्डुः । इति शब्दरत्नावली ॥

सुकुन्दनः, पुं, वर्व्वरः । इति राजनिर्घण्टः ॥

सुकुमारः, त्रि, (सुष्ठु कुमारयत्यनेनेति । सु +

कुमारत् क केलौ + घञ् ।) कोमलः । इत्य-
मरः । ३ । १ । ७८ ॥ (यथा, महाभारते ।
१ । १५४ । १४ ।
“सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् ॥”)
पुं, उत्तमबालकश्च ॥

सुकुमारः, पुं, (सु + कुमारत् क केलौ + अच् ।

घञ् वा ।) पुण्ड्रेक्षुः । इति मेदिनी ॥ वन-
चम्पकः । क्षवः । श्यामाकः । इति राज-
निघण्टः ॥ दैत्यविशेषः । इति केचित् ॥ (मोदकौ-
षधविशेषः । यथा, --
“त्रिवृदर्द्धं पलं चूर्णं सिताक्षौद्रं पलं पलम् ।
एलात्वङ्मरिचानाञ्च निष्कं प्रति विमिश्रयेत् ॥
किञ्चिन्मृद्वग्निना तप्तं कर्षद्वयञ्च भक्षयेत् ।
विरेकः सुकुमाराणां रक्तपित्तनिलापहः ॥”
इति सुकुमारमोदकः ।
इति वैद्यकपत्रीसंग्रहः ॥)

सुकुमारक, क्ली, (सुकुमारमिव । कन् ।) तमाल-

पत्रम् । इति राजनिर्घण्टः ॥

सुकुमारकः, पुं, (सुकुमार एव । स्वार्थे कन् ।)

शालिः । इति राजनिर्घण्टः ॥ सुन्दरबालकः ।
यथा हरिवंशे । ३८ । ३६ ।
“सिंहप्रसेनमवधात् सिंहो जाम्बवता हतः ।
सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ॥”

सुकुमारा, स्त्री, (सुकुमार + टाप् ।) जाती ।

नवमालिका । कदली । पृक्वा । मालती । इति
राजनिर्घण्टः ॥

सुकुमारी, स्त्री, (सुकुमार + ङीष् ।) नव-

मालिका । इति राजनिर्घण्टः ॥ (शङ्खिनी ।
तत्पर्य्यायो यथा, --
“शङ्खिनी सुकुमारी च ।”
इति गारुडे २०८ अध्यायः ॥
कोमलाङ्गी स्त्री । यथा, रामायणे । २ । ३८ । ४ ।
“सुकुमारी च बाला च सततञ्च सुखोचिता ।
नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥”)

सुकृत्, त्रि, (सुष्टु करोतीति । कृ + “सुकर्म्मपाप-

मन्त्रपुण्ये षु कृञः ।” ३ । २ । ८९ । इति
क्विप् ।) पुण्यवान् । इति जटाधरः ॥ धार्म्मिकः
इति त्रिकाण्डशेषः ॥ (यथा, रघुः । ११ । ५० ।
“सद्य एव सुकृतां हि पच्यते
कल्पवृक्षफलधर्म्मि काङ्क्षितम् ॥”)

सुकृतं, क्ली, (सु + कृ + क्तः ।) पुण्यम् । इत्य-

मरः । १ । ४ । २४ ॥ (यथा, कुमारे । ६ ।
४७ ।
“अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।
स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥”)
शुभम् । सुविहिते, त्रि । इति मेदिनी ॥ (यथा,
भागवते । ८ । २३ । ३१ ।
“क्रियमाणे कर्म्मणीदं दैवे पित्र्येऽथ मानुषे ।
यत्र यत्रानुकीर्त्त्येत तत् तेषां सुकृतं विदुः ॥”)
सुकृतन्तु मनुष्यैः सह गच्छति । यथा, --
“सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति ।
तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ ।
दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि च
कारयेत् ॥”
इति वह्निपुराणे वैष्णवक्रियायोगे यमानुशा-
सनोनामाध्यायः ॥

सुकृतिः, स्त्री, (सु + कृ + क्तिन् ।) पुण्यम् ।

मङ्गलम् । सत् कर्म्म ॥

सुकृती, [न्] त्रि, (सुकृतमस्यास्तीति । इनिः ।)

पुण्यवान् । इत्यमरः । ३ । १ । ३ ॥ शुभयुक्तः ।
इति मेदिन्यां सुकृतशब्दार्थदर्शनात् ॥ (यथा,
गोतायाम् । ७ । १६ ।
“चतुव्विधा भजन्ते मां जना सुकृतिनोऽर्ज्जुन ।
आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥”)

सुकेशरः, पुं, (सुन्दरः केशरो यस्य ।) बीजपूरः ।

इति राजनिर्घण्टः ॥

सुकेशा, स्त्री, (शोभनः केशो यस्याः ।) सुन्दर-

केशयुक्ता । यथा । “सुकेशी सुकेशा रथ्या ।”
इति मुग्धबोधव्याकरणम् ॥

सुकेशी, स्त्री, (शोभनः केशो यस्याः । ङीष् ।)

स्वर्गवेश्याभेदः । इति पुराणम् ॥ (यथा, महा-
भारते । १३ । १९ । ४५ ॥
“मनोहरा सुकेशी च सुमुखी हासिनी प्रभा ।
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ॥”)
शोभनकेशयुक्ते, त्रि ॥ (यथा, महाभारते । ३ ।
६४ । ६४ ।
“शुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ।
सा विवेशाश्रमपद वीरसेनसुतप्रिया ॥”)
पृष्ठ ५/३६३

सुकोली, स्त्री, (सुशोभना कोली ।) क्षीरकाकोली ।

इति रत्नमाला ॥ शोभनवदरी च ॥

सुकोशकः, पुं, (सु शोभनः कोशो यस्य ।) कोषाम्रः ।

इति राजनिर्घण्टः ॥

सुख, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥

(अदन्तचुरा० पर०-सक०-सेट् ।) तत्कृतिः
सुखक्रिया । श्रीजयदेवकवेरिति गीतं सुखयतु
केशवपदमुपनीतम् । इति दुर्गादासः ॥

सुखं, क्ली, (सुखयतीति । सुख + अच् ।) आत्म-

वृत्तिगुणविशेषः । इति नैयायिकाः ॥ मनसो
धर्म्मः । इति वैदान्तिकाः ॥ तत्पर्य्यायः । मुत् २
प्रीतिः ३ प्रमदः ४ हर्षः ५ प्रमोदः ६ आमीदः
७ संमदः ८ आनन्दथुः ९ आनन्दः १० शर्म्म ११
शातम् १२ । इत्यमरः । १ । ४ । २५ ॥ मदः १३
भोगः १४ रभसः १५ निर्वृतिः १६ धृतिः १७
वीचिः १८ । इति जटाधरः ॥ संमेदः १९
मोदः २० नन्दथुः २१ नन्दः २२ मुदा २३
सौख्यम् २४ उपजोषम् २५ आनन्दम् २६ जोषम्
२७ । इति शब्दरत्नावली ॥ न्यायमते जगतां
काम्यं धर्म्मजन्यमिदम् । यथा, --
“सुखन्तु जगतामेव काम्यं धर्म्मेण जन्यते ।
अधर्म्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥ *
तस्य मनोगोचरत्वं यथा, --
“मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः
कृतिः ॥”
इति भाषापरिच्छेदः ॥ * ॥
“सुखं चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । तत्तु
नित्यं जन्यञ्च । नित्यं परमात्मनो विशेषगुणान्त
र्व्वर्त्ति । जन्यसुखं जीवात्मनो विशेषगुणान्त-
व्वर्त्ति । तच्च शुभादृष्टजन्यं धनमित्रलाभारोग्य-
मिष्टान्नपानपुरीषोत्सर्गपुत्त्रादिजन्मतत्पाण्डित्य
कान्तासम्भोगादिजन्यञ्च तस्य द्विक्षणस्थायित्वं
स्वोत्तरोत्पन्नानुभवनाश्यत्वात् । सुखाद्यपरागे-
णैवात्मनो मानसबोधः । सुखं तदुपायश्चेष्टः ।
बालस्य स्तन्यपानप्रवृत्तौ सुखसाधनत्वज्ञानं
हेतुः तत्र सुखस्यैवेष्टत्वम् । दुःखजनकगमनादि-
प्रवृत्तौ सुखोपायो धनं तदेवेष्टं तत्साधनत्वज्ञान-
मेव हेतुः । यागादिप्रवृत्तावपि पारलौकिक-
सुखसाधनत्वज्ञानं कारणं सुखोपायस्वर्गादिरूपे-
ष्टसाधनत्वज्ञानमपि कारणम् । सुखस्य काला-
वच्छेद्यत्वं शरीरावच्छेद्यत्वञ्चातोऽव्याप्यवृत्तित्वं
शरीरकदेशावच्छेदेन दुःखसम्भवेऽप्यन्यदेशा-
वच्छेदेन सुखसम्भवात् एकक्षणावच्छेदेन
जीवस्य दुःखसम्भवेऽपि क्षणान्तरावच्छेदेन
सुखसम्भवाच्च तत्तु विस्फोटकवतो मिष्टान्न-
भोजनादौ द्रष्टव्यम् । इति तार्किकाः ॥ * ॥
तत्कारणं यथा, --
“सुदिनं दुर्द्दिनं शश्वद्भ्रमत्येव भवे भव ।
सर्व्वेषां प्राकृतानाञ्च द्वे बीजे सुखदुःखयोः ॥
सुखाद्भवति हर्षश्च दर्पः शौर्य्यं प्रमत्तता ।
राग ऐश्वर्य्यकामौ च विद्वेषश्च परस्परम् ॥
दुःखात् शोकात् समुद्वेगाद्भयं नित्यं प्रवर्त्तते ।
हतान्ये तानि सर्व्वाणि हते बीजे महेश्वर ॥
सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवं भव ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४३ । ४८-५१
तस्य कारणान्तरं लक्षणञ्च यथा, --
“रागद्वे षादियुक्तानां न सुखं कुत्रचित् द्विज ।
विचार्य्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥
यत्र स्नेहो भयं तत्र स्नेहो दुःखस्य भाजनम् ।
स्ने हमूलानि दुःखानि तस्मिं स्त्यक्ते महत्
सुखम् ॥
शरीरमेवायतनं दुःखस्य च सुखस्य च ।
जीवितञ्च शरीरञ्च जात्यैव सह जायते ॥
सर्व्वं परवशं दुःखं सर्व्वमात्मवशं सुखम् ।
एतद्विद्यात् समासेन लक्षणं सुखदुःखयोः ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
सुखं दुःखं मनुष्याणां चक्रवत् परिवर्त्तते ॥”
इति गारुडे ११३ अध्यायः ॥ * ॥
सर्व्वभूतसुखकर्त्तव्यत्वं यथा, देवीपुराणे देवी-
संवत्सरवलिहरणाध्याये ।
“कृमिकीटपतङ्गेषु भूमौ दध्योदनं क्षिपेत् ।
सर्व्वदा सर्व्वभूतानां सुखं कार्य्यं सुखार्थिनाम् ॥”
सुख-दुःख-साधनानामस्थिरत्वं सुखस्य मनो-
विलासमात्ररूपत्वञ्च यथा, --
“वस्त्वे कमेव दुःखाय सुखायेर्ष्योद्भवाय च ।
कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ।
तदेव प्रोतये भूत्वा पुनर्दुः खाय जायते ।
तदेव कोपाय ततः प्रसादाय च जायते ॥
तस्माद्दुःखात्मकं नास्ति न च किञ्चित् सुखा-
त्मकम् ।
मनसः परिणामोऽयं सुखदुःखोपलक्षणः ॥”
इति विष्णुपुराणे । २ । ६ । ४३-४५ ॥
“सुखं हि दुःखान्यनुभूय शोभते
घनान्धकारेष्विव दीपदर्शनम् ।
सुखात्तु यो याति नरो दरिद्रतां
धृतः शरीरेण मृतः स जीवति ॥”
इति मृच्छकटिकम् ॥ * ॥
तद्वैदिकपर्य्यायः । शिम्बाता १ शतरा २
शातपन्ता ३ शिल्गुः ४ स्यूमकम् ५ शेवृधम् ६
मयः ७ सुग्म्यम् ८ सुदिनम् ९ शूषम् १०
शुनम् ११ शग्मम् १२ भेषजम् १३ जलाशम् १४
स्योनम् १५ सुम्नम् १६ शेवम् १७ शिवम् १८
शम् १९ कम् २० । इति विंशतिः सुखनामानि ॥
इति वेदनिघण्टौ । ३ । ६ ॥ * ॥ त्रिविधसुखं
यथा, --
“अभ्यासाद्रमते यत्र दुःखान्तञ्च नियच्छति ।
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ॥
तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ १
विषयेन्द्रियसंयागात् यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत् सुखं राजसं स्मृतम् । २
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम् ॥” ३ ॥
इति श्रीभगवद्गीतायाम् १८ अध्यायः ॥
स्वर्गः । इति मेदिनी ॥ वृद्धिनामौषधम् । इति
राजनिर्घण्टः ॥ जलम् । इति केचित् ॥ सुख-
विशिष्टे, त्रि । यथा, --
“शस्तञ्चाथ त्रिषु द्रव्ये पापंपुण्यं सुखादि च ।”
इत्यमरः । १ । ४ । २६ ॥
“पापपुण्यशब्दौ सुखादयः शस्तान्ताश्च गुणे
यथोक्तलिङ्गाः उपचारात्तद्वति द्रव्ये विशेष्ये
वर्त्तमाना वाच्यलिङ्गाः । यथा, --
“पापा ऋतुमती कन्या पापो राजाप्यरक्षकः
पापं व्याधकुलं हिंस्रं पापो विप्रश्च सेवकः ॥”
पुण्यं तीर्थं पुण्या नदी पुण्य आश्रमः । सुखा
भूतिः सुखो वासः सुखं कामिकुलम् ।” इति
भरतः ॥

सुखकरः, त्रि, (सुखं कर्त्तुं शीलमस्येति । सुख

+ कृ + टः ।) सुकरः । यथा । कर्त्तुः सुकरैः
सुखकरैरित्यर्थः । इति मुग्धबोधटीकायां
दुर्गादासः ॥

सुखगः, त्रि, (सुखेन गच्छतीति । गम् + डः ।)

सुखेन गमनकर्त्ता ॥

सुखङ्करी, स्त्री, (सुखं करोतीति । कृ + खच् ।

मुम् । ङीप् ।) जीवन्तीवृक्षः । इति राज-
निर्घण्टः ॥ सुखकरी च ॥

सुखङ्घुणः, पुं, शिवखट्वाङ्गः । इति त्रिकाण्डशेषः ।

सुखचरः, त्रि, सुखगामी । सुखेन चरति इत्यर्थे

टप्रत्ययेन निष्पन्नः । ग्रामविशेषे, पुं, । सुखेन
चरति अत्र इत्यर्थे अल्प्रत्ययेन निष्पन्नः ॥

सुखचारः, पुं, (सुखेन चरत्यनेनेति । चर + घञ्)

उत्कृष्टाश्वः । इति शब्दमाला ॥

सुखजातः, त्रि, (सुखेन जातः । यद्वा, जातं

सुखमस्येति ।) जातसुखः । यथा भट्टौ ५ । ३८ ।
“सुखजातः सुरापीतो नृजग्धो माल्यधारयः ॥”
(सुखस्य जनने, क्ली, यथा, गीतगोविन्दे । १० । ३
“घटय भुजबन्धनं जनय रदखण्डनं
येन वा भवति सुखजातम् ॥”)

सुखदं, क्ली, (सुखं ददातीति । दा + कः ।)

विष्णोः स्थानम् । विष्णोरासनम् । इति केचित्

सुखदः, पुं, (सुखं ददातीति । दा + कः ।) विष्णुः

यथा । सुखदोऽनैकदोऽग्रजः । इति तस्य
सहस्रनामस्तोत्रम् ॥ तालभेदः । यथा, --
“विंशत्यक्षरसंयुक्तो ध्रुवः सुखदसंज्ञकः ।
शृङ्गारवीरयोर्ज्ञेयो गुरुणैकेन मण्डितः ॥”
इति संगीतदामोदरः ॥
सुखदातरि, त्रि ॥ (यथा, वृहत्संहितायाम् ।
१०४ । ३८ ।
“हरिणप्लुतशावविचित्रितं
रिपुगते मनसः सुखदं गुरौ ॥”

सुखदा, स्त्री, (सुखं ददाति या । दा + कः ।

टाप् ।) सुखदात्री । गङ्गा । यथा, --
“सद्यःपातकसंहन्त्री सद्योदुःखविनाशिनी ।
सुखदा मोक्षदा गङ्गा गङ्गैव परमा गतिः ॥”
इति गङ्गाप्रणाममन्त्रः ॥
स्वर्गवेश्या । इति शब्दरत्नावली ॥ शमीवृक्षः ।
इति राजनिर्घण्टः ॥
पृष्ठ ५/३६४

सुखदोह्या, स्त्री, (सुखेन दोह्या दोहनयोग्या ।)

सुखसंदोह्या गौः । इति हेमचन्द्रः ॥

सुखभाक्, [ज्] त्रि, सुखी । सुखं भजते इति ।

ठाद्भजवहसहो विण् । इत्यनेन सुखशब्दपूर्व्वक-
भजधातोर्विण्प्रत्ययेन निष्पन्नः । इति मुग्ध-
बोधव्याकरणम् ॥ (यथा, वृहत्संहितायाम् ।
४७ । ५ ।
“निर्व्वैराः क्षितिपाः सुखभाजः
संहृष्टाश्च जना गतरोगाः ॥)
इष्टपरिष्वङ्गः । इति महाभारते मोक्षधर्म्मः ॥

सुखमोदा, स्त्री, (सुखकरो मोदो यस्याः ।) सल्ल-

कीवृक्षः । इति राजनिर्घण्टः ॥

सुखरात्रिः, स्त्री, (सुखकरी रात्रिर्येस्या-

मिति । पक्षे कप् ।) दीपा-
न्वितामावास्यारात्रिः । तद्विधानं यथा,
ज्योतिषे ।

सुखरात्रिका, स्त्री, (सुखकरी रात्रिर्येस्या-

मिति । पक्षे कप् ।) दीपा-
न्वितामावास्यारात्रिः । तद्विधानं यथा,
ज्योतिषे ।
“तुलाराशिगते भानौ अमावास्यां नराधिपः ।
स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य च
कृत्वा तु पार्व्वणश्राद्धं दधिक्षीरगुडादिभिः ।
ततोऽपराह्णसमये घोषयेन्नगरे नृपः ।
लक्ष्मीः संपूज्यतां लोका उल्काभिश्चापि
वेष्ट्यताम् ॥” * ॥
दर्शद्वैधे प्रदोषव्याप्त्या निर्णयः ।
“तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्सयोः ।
उल्काहस्ता नराः कुर्य्युः पितॄणां मार्गदर्शनम् ॥”
इति ज्योतिषात् ॥
उभयतः प्रदोषप्राप्तौ परदिन एव युग्मात् ।
“दण्डैकरजनीयोगो दर्शस्य स्यात् परेऽहनि ।
तदा विहाय पूर्व्वेद्युः परेऽह्नि सुखरात्रिका ॥”
इति ज्योतिर्व्वचनाच्च ॥
उभयत्र प्रदोषाव्याप्तावपि उल्कादानं परदिने
पूर्व्वोक्तपार्व्वणानुरोधात् ।
“भूताहे ये प्रकुर्व्वन्ति उल्काग्रहमचेतसः ।
निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम् ॥”
इति ज्योतिर्व्वचनाच्च ॥ * ॥
अत्रैव लक्ष्मीः पूर्व्वाहे रात्रौ पूज्या ।
“अमावास्या यदा रात्रौ दिवाभागे चतुर्द्दशी ।
पूजनीया तदा लक्ष्मीर्व्विज्ञेया सुखरात्रिका ॥”
इति ज्योतिव्वचनात् ॥ * ॥
उल्काग्रहणादिपितृकृत्यत्वात् प्राचीनावीतिना
दक्षिणामुखेन कर्त्तव्यम् । तथा च मनुः ।
“प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमानिधनात् कार्य्यं विधिवद्दर्भपाणिना ॥”
तत्र ग्रहणमन्त्रः ।
“शस्त्राशस्त्रहतानाञ्च भूतानां भूतदर्शयोः ।
उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना ॥”
दानमन्त्रश्च ।
“अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम
उज्ज्वलज्योतिषा दग्धास्तेयान्तु परमा गतिम् ॥”
विसर्ज्जनमन्त्रः ।
“यमलोकं परित्यज्य आगता ये महालये ।
उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते ॥” *
ब्रह्मपुराणम् ।
“अमावास्यां यदा देवाः कार्त्तिकेमासि केशवात्
अभयं प्राप्य सुप्ताश्च क्षीरोदार्णवसानुषु ॥
लक्ष्मीर्दैत्यभयान्मुक्ता सुण्वं सुप्ताम्बु जोदरे ।
चतुर्युगसहस्रान्ते ब्रह्मा स्वपिति पङ्कजे ॥
अतोऽत्र विधिवत् कार्य्या मनुष्यैः सुखरात्रिका
दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥
प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् ।
दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि ॥
चतुष्पथश्मशानेषु नदीपर्व्वतसानुषु ।
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥
बस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रयभूमयः ।
दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम् ॥
ब्राह्मणान् भोजयित्वादौ विभोज्य च बुभुक्षि-
तान् ।
अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना ।
स्निग्धैर्म्मुग्धैर्व्विदग्धैश्च बान्धवैर्भृतकैः सह ॥”
मुग्धैः सुन्दरैः । मुग्धः सुन्दरमूढयोरिति
विश्वः ॥ * ॥ अत्र लक्ष्मीपूजायां पुष्पदानकाले ।
“नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात् तदर्च्चनात्”
लक्ष्म्यै नमः । इत्यनेन वारत्रयं पूजयेत् ।
“सुखरात्र्यां प्रदोषे तु कुवेरं पूजयन्ति ये ॥”
इति रुद्रधरधृतात् कुबेरमपि पूजयन्ति ।
“धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः ॥”
इति पठित्वा कुबेराय नमः । इति त्रिः पूज-
येत् । ततो देवगृहादिषु दीपान् दद्यात् । तत्र
मन्त्रः ।
“अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च ।
उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम् ॥”
ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुक्ता
सुखं सुप्त्वा प्रत्यूषे भविष्योक्तं कर्म्म कुर्य्यात् ।
यथा, --
“सुखरात्रेरुषःकाले प्रदीपोज्ज्वलितालये ।
बन्धुर्वन्धूनबन्धूश्च वाचा कुशलयार्च्चयेत् ॥
प्रदीपवन्दनं कार्य्यं लक्ष्मीमङ्गलहेतवे ।
गोरोचनाक्षतञ्चैव दद्यादङ्गेषु सर्व्वतः ॥”
लक्ष्मीपूजामन्त्रः ।
“विश्वरूपस्य भार्य्यासि पद्मे पद्मालये शुभे ।
महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।
सुखरात्रिप्रभातेऽद्य तन्मे लक्ष्मीव्यपोहतु ॥
या रात्रिः सर्व्वमूतानां या च देवेष्ववस्थिता ।
संवत्सरप्रिया या च सा ममास्तु सुमङ्गला ॥
माता त्वं सर्व्वभूतानां देवानां सृष्टिसम्भवा ।
आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥”
लक्ष्म्यै नमः । इति त्रिः पूजयेत् । इति तिथ्यादि
तत्त्वम् ॥

सुखवर्च्चकः, पुं, (सुखं वर्च्चयति उद्दीपयतीति ।

वर्च्च + णिच् + ण्वुल् ) सर्जिकाक्षारः । इत्य-
मरः । २ । ९ । १०९ ॥

सुखवर्च्चाः, [स्] पुं, (सुखं वर्च्चयतीति । वर्च्च

+ असुन् ।) सर्जिकाक्षारः । इति राज-
निर्घण्टः ॥

सुखवासः, पुं, (सुखकरो वासो यस्य ।) फल-

विशेषः । तरमूज इति भाषा । तत्पर्य्यायः ।
शीर्णवन्तः २ । इति रत्नमाला ॥

सुखवासनः, पुं, (सुखं वासयतीति । वस + णिच्

+ ल्युः ।) सुखवासनगन्धद्रव्यम् । यथा, --
“मुखवासकरो गन्ध आमोदी मुखवासनः ।
सुखवासन इत्येके शुभवासन इत्यपि ॥”
इति शब्दरत्नावली ॥

सुखसन्दुह्या, स्त्री, सुशीला गौः । इत्यमरटीकायां

भरतः । २ । ९ । ७१ ॥

सुखसन्दोह्या, स्त्री, (सुखेन सन्दोह्या ।) सुशीला

गौः । तत्पर्य्यायः । सुव्रता २ । इत्यमरः । २ ।
९ । ७१ ॥ सुखदोह्या ३ । इति हेमचन्द्रः ॥
सुखदुह्या ४ । इति भरतः ॥

सुखा, स्त्री, (सुखमस्त्यस्यामिति । अच् । टाप् ।)

वरुणपुरी । इति मेदिनी ॥

सुखाधारः, पुं, (सुखानामाधारः ।) स्वर्गः ।

इति शब्दरत्नावली ॥ सुखस्याधारे, त्रि ॥

सुखायतः, पुं, (सुखेन आयम्यते इति । आ +

यम + क्तः ।) सुशिक्षिताश्वः । यथा, --
“सुखायतः शुद्धमुखः सुखचारः सुखायनः ।”
इति शब्दमाला ॥

सुखायनः, पुं, (सुखेन अयति गच्छति अनेनेति

अय + ल्युट् ।) सुशिक्षिताश्वः । यथा, --
“सुखायतः शुद्ध मुख सुखचारः सुखायनः ।”
इति शब्दमाला ॥

सुखावतीश्वरः, पुं, (सुखावत्या ईश्वरः ।) बुद्ध-

भेदः । हेमचन्द्रः ॥

सुखावहः, त्रि, (आवहतीति । आ + वह +

अच् सु । खस्य आवहः ।) सुखदाता । यथा,
“सर्व्वपापहरं पुण्यं सर्व्वापद्विनिवारकम् ।
सर्व्वकामार्थदं देवि ! साधकानां सुखावहम् ॥”
इति वटुकभैरवस्तोत्रम् ॥

सुखाशः, पुं, (सुखा सुखयुक्ता आशा यस्य । यद्वा

सुखायां पुर्य्यां शेते इति । शी + डः ।) वरुणः ।
(सुखेन अश्यते इति । अश + घञ् ।) राज-
तिनिशः । (अश भोजने + भावे घञ् । सुखेन
आशः ।) सुखभोजनम् । इति मेदिनी ॥

सुखाशकः, पुं, (सुखाश एव । स्वार्थे कन् ।)

राजतिनिशः । इति शब्दमाला ॥

सुखी, (न्) त्रि, (सुखमस्यास्तीति । सुख +

इन् ।) सुखविशिष्टः । यथा, रामकवचम् ।
“स चिरायुः सुखी पुत्त्री विनयी विजयी भवेत् ॥”
“स्वजनं हि कथं हत्वा सुखिनः स्याममाधव ।”
इति भगवद्गीता ॥
“सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्-
झितः ।
तम्मित्रं यस्य विश्वासः पुरुष स जितेन्द्रियः ॥”
इति गारुडे ११६ अध्यायः ॥
पृष्ठ ५/३६५

सुखोत्सवः, पुं, (सुखकरः उत्सवो यस्मात् ।)

पतिः । इति त्रिकाण्डशेषः ॥ (सुखजनक
उत्सवः ।) आनन्दोत्सवश्च ॥

सुखोदकं, क्ली, (सुखजनकमुदकम् ।) सुखजनक-

तप्तजलम् । तत्पर्य्यायः । सुखोष्णम् २ । इति
रत्नमाला ॥

सुखोर्ज्जिकः, पुं, सर्ज्जिकाक्षारः । इति राज-

निर्घण्टः ॥

सुगं, क्ली, (सुखेन गच्छति निर्य्यातीति ।

गम + डः ।) विष्ठा । इति शब्दचन्द्रिका ॥
(सुखेन गच्छत्यस्मिन्निति । “सुदुरोरधिकरणे ।”
३ । २ । ४८ । इत्यस्य वार्त्तिकोक्त्या डः । सुख-
गन्तव्यो देशादिः ॥) सुन्दरगामिनि, त्रि ॥
(सुन्दरं गायतीति । गै + कः । शोभनगीत-
शालिनि च त्रि ॥ यथा, भागवते । १० ।
१२ । ३४ ।
“गीतैः सुगा वाद्यधराश्च वाद्यकैः
स्तवैश्च विप्रा जयनिस्वनैर्गणाः ॥”)

सुगण्, त्रि, (सुगणयतीति । सु + गण + क्विप् ।)

सुन्दरगणकः । इति सिद्धान्तकौमुदी ॥

सुगतः, पुं, (सु शोभनं गतं गमनं ज्ञानं वा अस्येति ।)

बुद्धः । इत्यमरः । १ । १ । ११ ॥ (तद्धर्म्मा-
वलम्बी । यथा, कथासरित्सागरे । २९ । ४० ।
“तेनाभिपूज्य सुगतान् भासयामास तत्र सा ॥”)
सुन्दरगमनविशिष्टे, त्रि ॥

सुगतिः, पुं, (शोभना गतिर्यस्य ।) अतीतकल्पी-

यार्हद्भेदः । इति हेमचन्द्रः ॥ ग्रन्थकर्त्तृविशेषः ।
यथा, सुगतिसोपानप्रभृतयोऽप्येवमिति स्मार्त्त-
लिखनम् ॥ (गयस्य पुत्त्रविशेषः । यथा, भाग-
वते । ५ । १५ । १४ ।
“गयात् गायन्त्यां चित्ररथः सुगतिरविरोधन
इति त्रयः पुत्त्रा बभूवुः ।” शोभना गतिर्य्य-
स्येति । शोभनगतिशीले, त्रि । यथा, बृहत्-
संहितायाम् । ९ । ४५ ।
“सुगतिरविकृतो जयान्वितः
कृतयुगरूपकरः सिताह्वयः ॥”
स्त्री, सद्गतिः । यथा, महाभारते । १ । २ ।
३३५ ।
यत्र धर्म्मं समाश्रित्य विदुरः सुगतिं गतः ॥”)

सुगन्धं, क्ली, (शोभनो गन्धो यस्य ।) क्षुद्र-

जीरकम् । गन्धतृणम् । इति रत्नमाला ॥
(भूतृणम् । तत्पर्य्यायो यथा, --
“गुह्यबीजन्तु भूतीकं सुगन्धं जम्बुरुप्रियम् ।
भूतृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥”
इति भावप्रकाशस्य पूव्वखण्डे प्रथमे भागे ॥)
नीलोत्पलम् । चन्दनम् । इति राजनिर्घण्टः ॥
ग्रन्थिपर्णम् । इति भावप्रकाशः ॥

सुगन्धः, पुं, (शोभनो गन्धो यस्य ।) रक्त्वशिग्रुः ।

गन्धकः । चणकः । भूतृणम् । इति राज-
निर्घण्टः ॥ (भूपलाशः । तत्पर्य्यायो यथा, --
“आस्फातकः सुगन्धश्च भूपलाशो विशल्यकृत् ॥”
इति वैद्यकरत्नमालायाम् ॥
कुन्दुरुः । सुगन्धद्रव्यशल्लकीनिर्य्यासः । तत्-
पर्य्यायो यथा, --
“कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
क्रिमिभेदः । यथा, --
“अन्त्रादा उदरावेष्टा हृदयादा महागुदाः ।
चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्व्वते ॥”
इति वैद्यकरुग्विनिश्चयसंग्रहे क्रिम्यधिकारे ॥)
समवायातिरिक्तसम्बन्धेन सद्गन्धविशिष्टे, त्रि ॥
(यथा, भट्टिः । २ सर्गे ।
“आघ्रायिवान गन्धवहः सुगन्धः ॥”)

सुगन्धकः, पुं, (शोभनो गन्धो यस्य । ततः कन् ।)

रक्ततुलसी । गन्धकः । इति रत्नमाला ॥ नाग-
रङ्गकः । इति त्रिकाण्डशेषः ॥ कर्क्कोटकः ।
इति हेमचन्द्रः ॥ (शालिधान्यम् । यथा, --
“रक्तशालिः मकलमः पाण्डुकः शकुनाहृतः ।
सुगन्धकः कर्द्दमको महाशालिश्च दूषकः ॥
पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः ।
दीर्घशूकः काञ्चनको हायनो लोध्रपुष्पकः ॥
इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुगन्धतैलनिर्य्यासं, क्ली, (सुगन्धः तैलस्य निर्यासो

यत्र ।) जवादिनामगन्धद्रव्यम् । इति राज-
निर्घण्टः ॥

सुगन्धपत्रा, स्त्री, (सुगन्धानि पत्राणि यस्याः ।)

रुद्रजटा । इति राजनिर्घण्टः ॥

सुगन्धभूतृणं, क्ली, (सुगन्धो भूतृणम् ।) गन्ध-

तृणम् । इति राजनिर्घण्टः ॥

सुगन्धमूला, स्त्री, (सुगन्धं मूलं यस्याः ।) स्थल-

पद्मिनी । रास्ना । इति राजनिर्घण्टः ॥
(लवली । तत्पर्य्यायो यथा, --
“सुगन्धमूला लवली पाण्डुः कोमलवल्कला ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुगन्धा, स्त्री, (शोभनो गन्धो यस्याः ।) रास्ना ।

इत्यमरः । २ । ४ । ११४ ॥ शटी । इति शब्द-
रत्नावली ॥ बन्ध्याकर्क्कोटकी । रुद्रजटा । शत-
पुष्पा । नाकुली । नवमालिका । स्वर्णयूथिका ।
पृक्का । गङ्गापत्री । सल्लकी । माधवी । इति
राजनिर्घण्टः ॥ अनन्ता । मातुलुङ्गा । तुलसी ।
इति रत्नमाला ॥ (पीठस्थानस्थदेवीविशेषः ।
यथा, देवीभागवते । ७ । ३० । ६८ ।
“कोटवी कोटतीर्थे तु सुगन्धा माधवे वने ॥”)

सुगन्धामलकं, क्ली, (सुगन्धमामलकम् ।) मिलि-

तौषधविशेषः । यथा, --
“सर्व्वौषधिसमायुक्ताः शुष्कास्त्वामलकत्वचः ।
यदा तदायं योगः स्यात् सुगन्धामलकाभिधः ॥”
इति राजनिर्घण्टः ॥

सुगन्धिः, पुं, (शोभनो गन्धो यस्य । “गन्धस्ये-

दुत्पूतिसुरभिभ्यः ।” ५ । ४ । १३५ । इति
इत् ।) सद्गन्धः । तत्पर्य्यायः । इष्टगन्धः २
सुरभिः ३ । घ्राणतर्पणः ४ । इत्यमरः । १ । ५ । ११ ॥
परमात्मा । इति मोक्षधर्म्मटीकायां नीलकण्ठ-
धृतवेदः ॥ सहकारः । इति शब्दचन्द्रिका ॥
सुगन्धयुक्ते, त्रि, । इति मेदिनी ॥ (यथा,
कुमारे । ३ । ५६ ।
सुगन्धिनिश्वासविवृद्धतृष्ण
विम्बाधरासन्नचरं द्विरेफम् ।
प्रतिक्षणं संभ्रमलोलदृष्टि-
र्लीलारविन्देन निवारयन्ती ॥”)

सुगन्धि, क्ली, (शोभनो गन्धो यस्य । इत् ।) एल-

वालुकम् । इत्यमरः । २ । ४ । १२१ ॥ (अथ
एलवालुकं कक्कोलसदृशं कुष्ठगन्धि ।
“एलवालुकमैलेयं सुगन्धि हरिवालुकम् ।
ऐलवालुकमेलालुकपित्थं पत्रमीरितम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
मुस्ता । कशेरु । गन्धतृणम् । धान्यकम् ।
पिप्पलीमूलम् । इति राजनिर्घण्टः ॥

सुगन्धिकं, क्ली, (शोभनो गन्धो यस्य । इत् । ततः

स्वार्थे कन् ।) कह्लारम् । इति शब्दरत्नावली ॥
पुष्करमूलम् । गौरसुवर्णम् । सुरपर्णम् ।
उशीरम् । इति राजनिर्घण्टः ॥

सुगन्धिकः, पुं, (सु शोभनो गन्धो यस्य । इत् ।

ततः कन् ।) महाशालिः । इति हेमचन्द्रः ॥
तुरुष्कः । इति राजनिर्घण्टः ॥ गन्धकः । इत्य-
मरटीकायां रायमुकुटः ॥

सुगन्धिकुसुमः, पुं, (सुगन्धि कुसुमं यस्य ।) पीत-

करवीरः । इति राजनिर्घण्टः ॥ सुगन्धिपुष्पे,
क्ली ॥

सुगन्धिकुसुमा, स्त्री, (सुगन्धि कुसुमं यस्याः ।)

पृक्का । इति जटाधरः ॥

सुगन्धिता, स्त्री, (सुगन्धेर्भावः । तल् । टाप् ।)

सौगन्धिः । सौरभम् । इति हलायुधः ॥ (यथा,
माघे । ३ । ५४ ।
सुगन्धितामप्रतियत्नपूर्व्वां
विभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्त्राणि च कामिनीना-
मामोदकर्म्मव्यतिहारमीयुः ॥”)

सुगन्धित्रिफला, स्त्री, (सुगन्धि त्रिफलं त्रिशिराकं

फलं यस्याः ।) जातीफलम् । पूगफलम् ।
लवङ्गकलिकाफलम् । इति राजनिर्घण्टः ॥

सुगन्धिनी, स्त्री, (सुगन्धोऽस्त्यस्या इति । इनिः ।

ङीप् ।) आरामशीतला । इति राज-
निर्घण्टः ॥ (सुवर्णकेतकी । अस्याः पर्य्यायो यथा,
“केतकः सूचिकापुष्पो जम्बूकः क्रकचच्छदः ।
सुवर्णकेतकी त्वन्या लघुपुष्पा सुगन्धिनी ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुगन्धिमूलं, क्ली, (सुगन्धि मूलमस्य ।) उशीरम् ॥

इति राजनिर्घण्टः ॥

सुगन्धिमूषिका, स्त्री, (सुगन्धिर्गन्धविशिष्टा

मूषिका ।) छच्छुन्दरी । इति राजनिर्घण्टः ॥

सुगमः, त्रि, (सु + गम + खल् ।) सुखेन गम्यते

प्राप्यते यः । यथा, पक्षे सुगमम् । इति मुग्ध-
बोधीयादादिप्रकरणलिखणम् ॥ (यथा, भाग-
वते । १० । ८४ । ३६ ।
पृष्ठ ५/३६६
“चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा ।
दर्शितः सुगमो योगो धर्म्मश्चात्ममुदावहः ॥”)

सुगहनः, त्रि, (सुन्दरो गहनः ।) निविडः ।

इत्यमरटीकायां रामाश्रमः ॥

सुगहना, स्त्री, कुम्बा । सुगहनेतिविशेषणमिति

केचित् । नाम इत्यन्ये । इत्यमरटीकायां रमा-
नाथः ॥

सुगहनावृतिः, स्त्री, कुम्बा । इत्यमरः ॥ यज्ञस्थाने

अस्पृश्यादिदर्शनवारणाय या सुगहना निरव-
काशा वृतिर्वेष्टनं सा कुम्बा । इति भरतः ॥

सुगृहः, पुं, (सुन्दरं गृहं यस्य ।) चञ्चसूचिक-

पक्षी । इति हेमचन्द्रः ॥ (सुन्दरं गृहम् ।)
सुन्दरालये, क्ली ॥

सुगृहीतः, त्रि, (सु + ग्रह + क्तः ।) सुन्दररूपेण

कृतग्रहणः ॥

सुगृहीतनामा, [न्] पुं, (सुगृहीतं नाम यस्य ।)

शुभकाम्यया प्रातः स्मर्य्यते यः । स च युधिष्ठि-
रादिः । इति त्रिकाण्डशेषः ॥

सुग्रन्थिः, पुं, (शोभना ग्रन्थयो यत्र ।) चोरकः ।

इति राजनिर्घण्टः ॥ सुन्दरग्रन्थियुक्ते, त्रि ॥

सुग्रीवः, पुं, (शोभना ग्रीवा यस्य । विष्णोरश्वः ।

(यथा, महाभारते । २ । २ । १४ ।
“प्रययौ पुण्डरीकाक्षः शैव्यसुग्रीववाहनः ॥”)
शाखामृगेश्वरः । इति मेदिनी ॥ स तु सूर्य्य-
पुत्त्रः किष्किन्धाधिपतिः श्रीरामचन्द्रस्य सखा
यथा, वल्मीकीये रामायणे बालकाण्डे १७
सर्गे ।
“वानरेन्द्रं महेन्द्राभमिन्द्रो बालिनमात्मजम् ।
सुग्रीवं जनयामास तपनस्तपतां वरः ॥”
किञ्च तत्रैव किष्किन्धाकाण्डे ५ सर्गे ।
“दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्च्य सत्कृतम् ।
तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः ॥
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ।
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥” * ॥
अर्हत्पिता । स च वर्त्तमानयुगीयनवमजिन-
पिता । इति हेमचन्द्रः ॥ शिवः । इन्द्रः ।
राजहंसः । असुरः । पर्व्वतविशेषः । अस्त्र-
विशेषः । नागभेदः । इति केचित् ॥ शोभन-
ग्रीवायुक्ते, त्रि । इति विश्वः ॥

सुग्रीवी, स्त्री, (शोभना ग्रीवा यस्याः । ङीप् ।)

ताम्रागर्भजाता कश्यपदुहिता । यथा, --
“षट्सुतास्तु महासत्त्वास्ताम्रायाः परि-
कीर्त्तिताः ।
शुकी श्येणी च भासी च सुग्रीवी शुचिगृध्रिका
शुकी शुकानजनयत् उलूकी प्रत्युलूककान् ।
शुच्यौदकान् पक्षिगणान् सुग्रीवी तु व्यजायत ॥”
इति गारुडे ६ अध्यायः ॥

सुग्रीवेशः, पुं, (सुग्रोवस्य ईशः ।) श्रीरामचन्द्रः ।

इति शब्दरत्नावली ॥

सुग्लः, त्रि, (सुग्लायतीति । सु + ग्लै + “आत-

श्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।) अत्यन्त-
हर्षक्षयविशिष्टः । इति सिद्धान्तकौमुदी ॥

सुचक्षुः, [स्] पुं, (शोभनं चक्षुरिव फलं यस्य ।)

उडुम्बरः । इति जटाधरः ॥ शोभनलोचने,
क्ली ॥ तद्युक्ते, त्रि ॥

सुचञ्चुका, स्त्री, (सुष्ठु चञ्चुरिव शिखा यस्याः ।

कप् ।) महाचञ्चुशाकः । इति राजनिर्घण्टः ॥

सुचरित्रा, स्त्री, (शोभनं चरित्रं यस्याः ।)

साध्वी । इत्यमरः । २ । ६ । ६ ॥ शोभनचरित्र-
युक्ते, त्रि ॥

सुचर्म्मा, [न्] पुं, (शोभनं चर्म्म यस्य ।) भूर्ज-

वृक्षः । इति राजनिर्घण्टः ॥ शोभनचर्म्मविशिष्टे,
त्रि ॥

सुचारुः, त्रि, (शोभनश्चारुश्च ।) मनोहरः ।

यथा, कालिकापुराणोक्तद्शभुजादुर्गाध्याने ।
“सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् ॥”

सुचित्रकः, पुं, (सुन्दराणि चित्राणि यत्र ।) मत्-

स्यरङ्कः । चित्रसर्पः । इति शब्दरत्नावली ॥
सुन्दरचित्रयुक्ते, त्रि ॥

सुचित्रबीजा, स्त्री, सुचित्रं बीजं यस्याः ।)

बिडङ्गा । इति राजनिर्घण्टः ॥

सुचित्रा, स्त्री, (शोभनानि चित्राणि यस्याः ।)

चिर्भिटा । इति राजनिर्घण्टः ॥

सुचिरायुः, [स्] पुं, (सुचिरं आयुर्यस्य ।) देवता ।

इति शब्दरत्नावली ॥

सुचुटी, स्त्री, अग्न्याद्युद्धरणार्थलौहादियन्त्रविशेषः

चिम्टा इति भाषा । इति केचित् ॥

सुचेलकः, पुं, (शोभनश्चे लकः ।) शोभनवस्त्रम् ।

सरु कापड इति भाषा । तत्पर्य्यायः । पटः २ ।
इत्यमरः । २ । ६ । ११६ ॥ पटिः ३ पटी ४ ।
इति तट्टीका ॥ सुन्दरवस्त्रयुक्ते, त्रि ॥

सुच्छत्री, स्त्री, शतद्रुनदी । इति शब्दरत्नावली ॥

शतलज् इति ख्याता ॥

सुजनः, पुं, (सु सुन्दरो जनः । साधुः । सज्जनः ।

यथा, --
“दुर्ज्जनस्य हि सङ्गेन सुजनोऽपि विनश्यति ।
प्रसन्नं जलमित्याहुः कर्द्दमैः कलुषीकृतम् ॥”
इति गारुडे १५ अध्यायः ॥

सुजनता, स्त्री, (सुजनस्य भावः । तल् । टाप् ।)

सौजन्यम् । यथा, --
“धिगस्त्वेतां विद्यां धिगपि कवितां धिक्सुजनतां
वयो रूपं वा धिक् धिगपि च यशो निर्धन-
वताम् ।
असौ जीयादेकः सकलगुणहीनोऽपि धनवान्
बहिर्यस्य द्वारे तृणलवसमाः सन्ति गुणिनः ॥”
इत्युद्भटः ॥

सुजलं, क्ली, (शोभनं जलं यस्मात् । कमलम् ।

इति राजनिर्घण्टः ॥ सुन्दरसलिलञ्च ॥ सुन्दर-
जलसम्बन्धिनि, त्रि ॥

सुजल्पः, पुं, (सुन्दरो जल्पः कथनम् ।) वाक्य-

विशेषः । यथा, --
“यत्रार्ज्ज वात् सगार्म्भीर्य्यं सदैन्यं सहचापलम्
सोत्कण्ठञ्च हरिः स्पृष्टः स सुजल्पो निगद्यते ॥”
इत्युज्ज्वलनीलमणिः ॥

सुजाता, स्त्री, (सु + जन + क्तः ।) तुवरी । इति

राजनिर्घण्टः ॥

सुजीवन्ती, स्त्री, (सुजीवतीति । सु + जीव +

शतृ । ङीप् ।) स्वर्णजीवन्ती । इति राज-
निर्घण्टः ॥

सुट्ट, क तौच्छ्ये । अनादरे । इति कविकल्पद्रुमः

(चुरा०-पर०-सक०-सेट् ।) पञ्चमस्तरी टद्व-
यान्तः । क, सुट्टयति । दन्त्यादिरयमिति भीमः ।
तौच्छ्यमल्पीभावः । इति दुर्गादासः ॥

सुतः, पुं, (सूयते स्मेति । सु + क्तः ।) पुत्त्रः ।

इत्यमरः । २ । ६ । २७ ॥ “सूयते सुतः कर्म्मणि
क्तः । पुतो नरकभेदात् त्रायते इति पुत्त्रः ।
‘पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्त्र इति ख्यातः स्वयमेव स्वयम्भुवा ॥’
इति स्मृतिः ॥
किंवा पुनाति मातापितराविति त्रासुसिति
त्रे निपातात् ह्रस्वत्वे पुत्त्रः । पुत्त्रो द्वितकारः
एकतकारश्च ।” इत्यमरटीकायां भरतः ॥ * ॥
मातृपितृस्वभाववत्स्वभावे सुतकन्ये भवतः ।
यथा, --
“शीलं संभजते पुत्रो मातुस्तातस्य वै सुता ।
यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ॥
यद्वर्णा वै भवेद्भू मिस्तद्वर्णं सलिलं भवेत् ॥
मातॄणां शीलदोषेण पितृशीलगुणेन च ।
विभिन्नास्तु प्रजाः सर्व्वा भवन्ति भवशीलि-
नाम् ॥”
इति वह्निपुराणे काश्यपीयवंशः ॥
पार्थिवः । इति मेदिनी ॥ * ॥ (उत्पन्ने, त्रि ॥)

सुतजीवकः, पुं, (सुतं जीवयतीति । जीव + ण्वुल्

पुत्त्रजीवकवृक्षः । इति राजनिर्घण्टः ॥

सुतनुः, स्त्री, (शोभना तनुर्यस्याः ।) नारी ।

इति राजनिर्घण्टः ॥ (शोभना तनुः शरीरम् ।)
शोभनशरीरम् ॥ तद्युक्ते, त्रि ॥ (यथा, उत्तर-
चरिते १ अङ्के ।
“स्मरसि सुतनु ! तस्मिन् पर्व्वते लक्ष्मणेन
प्रतिविहितसपर्य्यासुस्थयोस्तान्यहानि ॥”)

सुतपाः, [स्] पुं, (सुष्ठु तपतीति । सु + तप् +

“गतिकारकरोःपूर्व्वपदप्रकृतिस्वरत्वम् ।” उणा०
४ । २२६ । इति असिः ।) सूर्य्यः । इति सिद्धान्त-
कौमुदी ॥ शोभनं तपो यस्य । मुनिः ॥ (रौच्य-
मनुपुत्त्रविशेषः । इति मार्कण्डे यपुराणम् । ९४ ।
२५ ॥ विष्णुः । इति महाभारतम् । १३ ।
१४९ । ३४ ॥ उग्रतपस्यायुक्ते, त्रि । यथा,
कथासरित्सागरे । ११२ । १४१ ।
“स एव जातः संकल्पदोषाद्दाशकुले द्विजः ।
भार्य्यास्य सा च सुतपा जातैषा ते सुता नृप ॥”)

सुतपादिका, स्त्री, (सुताः समकालीनमुत्पन्नाः

पादा मूलानि यस्याः । कप् । टापि अत इत्वम् ।)
हंसपदी । इति राजनिर्घण्टः ॥

सुतरां, व्य, (सु + द्विवचनविभज्येत्यादिना तरप् ।)

अवधारितार्थप्रतिपादकम् । यथा । क्रियैव
काल इति मते तु सुतरां नाधिकरणता । इति
पृष्ठ ५/३६७
सपिण्डीकरणसमाख्यासिद्ध्यर्थं सुतरां तत्रतथा-
चरणम् । इति च तिथ्यादितत्त्वम् ॥ अपि च ।
“अपुत्त्रा जन्मिनः पापात् प्राणिनः समव-
स्थिताः ।
मनुजास्तत्र सुतरां भवन्ति गृहकर्म्मिणः ॥”
इति पाद्ये सृष्टिखण्डे ४३ अध्यायः ॥
“शृणु द्विज महाबुद्धे दम्भेनापि स्मृतो हरिः ।
ददाति मोक्षं सुतरां किं पुनर्द्दम्भवर्ज्जनात् ॥”
इति तत्रैव पातालखण्डम् ॥

सुतर्कारी, स्त्री, देवदालीलता । इति राज-

निर्घण्टः ॥

सुतर्द्दनः, पं, (सुष्ठु तर्द्दति पीडयति विरहिनमिति

तर्द्द अर्द्दने + ल्युः ।) कोकिलः । इति त्रिकाण्ड-
शेषः ॥

सुतलः, पुं, (शोभनं तलं यत्र ।) अट्टालिका-

बन्धः । नागलोकप्रभेदः । इति मेदिनी ॥ स तु
पातालषष्ठखण्डः । तद्विवरणं यथा, --
“ततोऽधस्तात् सुतल उदारश्रवाः पुण्यश्लोको
विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं
चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामन-
रूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैवपुनः
प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रि-
याभिजुष्टः स्वधर्मेणाराधयंस्तमेव भगवन्तमारा-
धनोयमपगतसाध्वस आस्ते अधुनापि ।”
इति श्रीभागवते । ५ । २४ । १८ ॥ (तथाच
देवीभागवते । ८ । १९ । १३ -- ३२ ।
“ततोविलाधस्तात् प्रोक्तं सुतलाख्यं विलेश्वरम्
पुण्यश्लोको बलिर्नाम आस्ते वैरोचनिर्मुने ! ॥
महेन्द्रस्य च देवस्य चिकिर्षुः प्रियमुत्तमम् ।
त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत् ॥
त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्य-
राट् ।
इन्द्रादिष्वप्यलब्धा या सा स्रीस्तमनुवर्त्तते ॥
तमेव देवदेवेशमाराधयति भक्तितः ।
व्यपेतसाध्वसोऽद्यापि वर्त्तते सुतलाधिपः ॥
एवं दैत्यपतिः सोऽयं बलिः परमपूजितः ।
सुतले वर्त्तते यस्य द्वारपालो हरिः स्वयम् ॥
एकदा दिग्जये राजा रावणो लोकरावणः ।
प्रविशन् सुतले येन भक्तानुग्रहकारिणा ॥
पादाङ्गुष्टेन प्रक्षिप्तो योजनायुतमत्र हि ॥
एवम्भूतानुभावोऽयं बलिः सर्व्वसुखैकभुक् ।
आस्त सुतलराज्यस्थो देवदेवप्रसादतः ॥”)

सुतवस्करा, स्त्री, (सुताः वस्कराः पक्षिण इव

बहुत्वात् यस्याः ।) सप्तपुत्त्रप्रसूः । इति
त्रिकाण्डशेषः ॥

सुतश्रेणी, स्त्री, (सुता उत्पन्ना श्रेण्यो यस्याः ।

एकत्र बहुजातत्वात् तथात्वम् । मूषिक-
पर्णो । इत्यमरः । २ । ४ । ८८ ॥ उन्दुरविलोया
इति हिन्दी भाषा । तत्पर्य्यायः । द्रवन्ती २
न्यग्रोधी ३ मूपिकाह्वया ४ चित्रा ५ मूषक-
मारी ६ प्रत्यक्श्रेणी ७ शम्बरी ८ । अस्या
गुणाः । चक्षुष्यत्यम् । कटुत्वम् । आखुविषव्रण-
दोषनेत्रामयनाशित्वञ्च । इति राजनिर्घण्टः ॥
पुस्तकान्तरे श्रुतश्रेणीति च पाठः ॥

सुतहिवुकयोगः, पुं, विवाहोक्तयोगविशेषः ।

यथा, ज्योतिःसारसंग्रहे ।
“सुतहिवुकवियद्विलग्नधर्म्मे-
ष्वमरगुरुर्यदि दानवार्च्चितो वा ।
यदशुभमुपयाति तच्छुभं स्यात्
शुभमतिवृद्धिमुपैति तत्प्रभावात् ॥”
अपि च ज्योतिस्तत्त्वे ।
“लग्ने तत्पञ्चमे तूर्य्ये नवमे दशमे तथा ।
गुरुर्भृ गुर्व्वा दोषघ्नो विवाहे वर्द्धते शुभम् ॥”
अयमेव सुतहिवुकयोगः ॥

सुता, स्त्री, (सूयते स्म या । सु + क्तः । टाप् ।)

स्त्यपत्यम् । कन्या । इति मेदिनी ॥ यथा, --
“आत्मजस्तनयः सूनुः सुतः पुत्त्रः स्त्रियां त्वमी ।
आहुर्दहितरं सर्व्वे -- ॥”
इत्यमरः । २ । ६ । २७-२८ ॥
“अमी आत्मजाद्याः स्त्रियां वर्त्तमाना दुहितर-
माहुः । यथा । आत्मजा । तनया । सूनोः
प्रत्ययान्तराभावात् स्त्रियामपि सूनुरेव । सुता
पुत्त्रा । स्वार्थे के केऽकस्व इति ह्रस्वत्वे द्वैषसूत-
पुत्त्रेत्यादिना विभाषया अत इति पुत्त्रिका
पुत्त्रका च । शोनादिपाठात् पुत्त्री च । मा
भैषीः पुत्त्रि सीतेति महानाटकम् ।” इति
तट्टीकायां भरतः ॥ (यथा, भट्टिः । २ । ४७ ।
“हिरण्मयी शाललतेव जङ्गमा
च्युतादिव स्थास्नुरिवाचिरप्रभा ।
शशाङ्ककान्तेरधिदेवताकृतिः
सुता ददे तस्य सुताय मैथिली ॥”)
दुरालभा । इति शब्दचन्द्रिका ॥

सुतात्मजः, पुं, (सुतस्य सुताया वा आत्मजः ।)

पौत्त्रः । दौहित्रः । इति सुतात्मजाशब्ददर्श-
नात् ॥

सुतात्मजा, स्त्री, (सुतस्य सुताया वा आत्मजा)

पौत्त्री । दौहित्त्री । इत्यमरः । २ । ६ । २९ ॥

सुतारका, स्त्री, (शोभने तारके यस्याः ।) चतु-

र्व्विंशतिबुद्धशासनदेवतान्तर्गतदेवताविशेषः ।
इति हेमचन्द्रः ॥ शोभनतारकायुक्ते, त्रि ॥

सुतिक्तः, पुं, (सुष्ठु तिक्तः ।) पर्प्पटः । इति

राजनिर्घण्टः ॥

सुतिक्तकः, पुं, (सुष्ठु तिक्तः । ततः कन् ।) पारि-

भद्रः । इति जटाधरः ॥ भूनिम्बः । इति शब्द-
रत्नावली ॥

सुतिक्ता, स्त्री, (सुष्ठु तिक्ता ।) कोषातकी ।

इति राजनिर्घण्टः ॥
सुतीः, त्रि, पुत्त्रेच्छुः । पुत्त्रवदाचरणकर्त्ता ।
इति मुग्धबोधव्याकरणम् ॥

सुती, [न्] त्रि, (सुतमस्यास्तौति । इनिः ।) सुत-

विशिष्टः । यथा, हितोपदेशे ।
“गुणिगणगणनारम्भे
न पतति कठिनी ससम्भ्रमात् यस्य ।
तेनाम्बा यदि सुतिनी
वद बन्ध्या कीदृशी भवति ॥”

सुतीक्ष्णः, पुं, (सुष्ठु तीक्ष्णः ।) शोभाञ्जनः । इति

जटाधरः ॥ श्वेतशिग्रुः । इति राजनिर्घण्टः ॥
मुनिविशेषः । यथा, भट्टौ ४ सर्गे ।
“पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः ।
शरभङ्गः प्रदिश्यारात् सुतीक्ष्णमुनिकेतनम् ॥”
अतिशयखरे, त्रि ॥ (यथा, ऋतुसंहारे । ६ । २८
“समदमधुकराणां कोकिलानानाञ्च नादैः
कुसुमितसहकारैः कर्णिकारैश्च रम्यैः ।
इषुभिरिव सुतीक्ष्णै र्मानसं मानिनीनां
तुदति कुसुमबाणो मन्मथोद्दीपनाय ॥”)

सुतुङ्गः, पुं, (सुष्ठु तुङ्गः ।) नारिकेलवृक्षः । इति

हारावली । १०० ॥ ग्रहाणां उच्चांशविशेषः ।
तस्य नामान्तरं अन्त्यतुङ्गः । यथा, सत्कृत्य-
मुक्तावल्याम् ।
“सूर्य्याद्युच्चान् क्रियवृषमृगस्त्रीकुलीरान्त्ययूके
दिग्वह्नीन्द्रद्वयतिथिशरान् सप्तविंशांश्च विंशान्
अंशानेतान् वदति जवनश्चान्त्यतुङ्गान् सुतुङ्गान्
तानेवांशान् मदनभवनेष्वाह नीचान् सुनी-
चान् ॥”
अतिशयोच्चे, त्रि ॥

सुतेजनः, पुं, (सुतेजयतीति । सु + तिज + ल्युः ।)

धन्वन्वृक्षः । इति भावप्रकाशः ॥ (तथास्य
गुणाः ।
“धन्वङ्गः कफपित्तास्रकासहृत्तुवरो लघुः ।
वृंहणो बलकृद्रूक्षः सन्धिकृद्व्रणरोपणः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुतेजाः, [स्] पुं, (सुष्ठुतेजो यस्य । यद्वा, सुतेजय-

तीति । सु + तिज + “गतिकारकयोरिति ।”
उणा० ४ । २२६ । इति असिः ।) अतीत-
कल्पीयार्हद्भेदः । इति हेमचन्द्रः । आदित्य-
भक्ता । इति राजनिर्घण्टः ॥ शोभनतेजोयुक्ते,
त्रि ॥ (यथा, छान्दोग्योपनिषदि । ५ । १२ । १ ।
“एष वैसुतेजा आत्मा वैश्वानरो यं त्वमात्मान-
मुपास्ते ॥”)

सुतैला, स्त्री, (सुष्ठु तैलमस्यामिति ।) महा-

ज्योतिष्मती । इति राजनिर्घण्टः ॥

सुत्रामा, [न्] पुं, (सु + त्रै + मनिन् ।) इन्द्रः । इत्य

मरः । १ । १ । ४५ ॥ सुष्ठु त्रायते भुवनं सुत्रामा
त्रासुसिति मन् सोः पक्षे दीर्घत्वं सूत्रामा च ।
इति रुद्रः । इति भरतः ॥ (यथा, अम्बाष्टके । ३ ।
“यत्राशयो लगति तत्रागजा बसतु कुत्रापि
निस्तुलशुका
सुत्रामकालमुखसत्राशनप्रकरसुत्राणकारि-
चरणा ॥”
वाच्यलिङ्गेऽपि दृश्यते । यथा, वाजसनेयसंहि-
तायाम् । १० । ३१ ।
“इन्द्राय सुत्राम्णे पच्यस्व ।”
“सुष्ठु त्रायते इति सुत्रामा तस्मै सुत्राम्णे
शोभनत्राणकर्त्रे सुत्रातव्याय वा इन्द्राय पच्यस्व”
इति तद्भाष्यम् ॥)
पृष्ठ ५/३६८

सुत्वा, [न्] पुं, (सु + “सुयजोर्ङ्वनिप् ।” ३ । २ ।

१०३ । इति ङ्वनिप् ।) अभिषवे कृती । इत्य-
मरः । २ । ७ । ४७ ॥ अभिषवः स्नानमात्रं
इह तु प्रस्तावात् यज्ञाङ्गस्नानं तत् कृतवान् यः
स सुत्वा कथ्यते । सुञः क्वनिप् तन् सुत्वा
कृतीति अधीतिवत् । कृते इति पाठे सप्तमी ।
इति भरतः ॥

सुद, इ शोभे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) सुन्दरम् । इति दुर्गा-
दासः ॥ सौत्रधातुरयम् ॥

सुदग्धिका, स्त्री, (सुष्ठुदग्धं दाहोऽस्त्यस्या इति

सुदग्ध + ठन् ।) दग्धानामवृक्षः । इति राज-
निर्घण्टः ॥

सुदण्डः, पुं, (शोभनो दण्डो यस्मात् ।) वेत्रः ।

इति राजनिर्घण्टः ॥

सुदण्डिका, स्त्री, गोरक्षी । इति राजनिर्घण्टः ॥

सुदन्, [त्] त्रि, (शोभना दन्ता यस्य । “वयसि

दन्तस्य दतृ ।” ५ । ४ । १४१ । इति दतृ ।)
शोभनदन्तविशिष्टः । (स्त्रियां ङीप् । यथा,
रघुः । ६ । ३७ ।
“विधाय सृष्टिं ललितां विधातु-
र्जगाद भूयः सुदतीं सुनन्दा ॥”
शोभनो दत् दन्तः इति विग्रहे सुदत् इत्येव
स्यात् । शोभनदन्तः । यथा, भागवते । ३ ।
२३ । ३२ ।
“सुश्रुवा सुदता श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा ।
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥”)

सुदन्तः, पुं, (शोभनो दन्तो यस्य । वयोगम्यमा-

नाभावात् न दत्रादेशः ।) नटः । इति केचित् ।
शोभनदन्तश्च ॥

सुदन्ती, स्त्री, (शोभनो दन्तो यस्याः । ङीप् ।

वयोगम्यमानाभावात् न दत्रादेशः ।) दिक्-
करिणीविशेषः । शुभदन्तीशब्ददर्शनादिति
केचित् ॥

सुदर्भा, स्त्री, (सुष्ठु दर्भो यत्र !) इक्षुदर्भा । इति

राजनिर्घण्टः ॥ शोभनकुशयुक्ते, त्रि ॥

सुदर्शनं, क्ली, (सुष्ठु दृश्यते इति । सु + दृश् +

ल्युट् । शोभनं दर्शनमस्येति वा ।) इन्द्रनग-
रम् । इति मेदिनी ॥

सुदर्शनः, पुं, क्ली, (शोभनं दर्शनमस्येति ।) विष्णु-

चक्रम् । इत्यमरः । १ । १ । २९ । तस्योत्-
पत्तिर्यथा, --
“तस्मात् प्रसादं कुरु मे यद्यनुग्रहभागहम् ।
अपनेष्यामि ते तेजः कृत्वा यन्त्रे दिवाकर ॥
रूपं तव करिष्यामि लोकानन्दकरं प्रभो ।
तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ॥
पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत् ।
त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधि-
कम् ।
दैत्यदानवसंहर्त्तुः सहस्रकिरणात्मकम् ॥”
इति मात्स्ये । ११ । २७-३० ॥ * ॥
अपि च पाद्मोत्तरखण्डे १४५ अध्याये ।
ईश्वर उवाच ।
“नायमेभिर्म्महातेजाः शस्त्रास्त्रैर्वध्यते मया ।
देवाश्च स्वस्वतेजांसि शस्त्रार्थं दीयतां मम ॥
नारद उवाच ।
अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तथा ।
तान्यैक्यं वै गतानीशो दृष्ट्वा स्वञ्चामुचन्महः ॥
तेनाकरोन्महादेवः सहसा शस्त्रमुत्तमम् ।
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ।
तेजःशेषेण च तथा वज्रञ्च कृतवान् हरः ॥”
तच्च शिवेन विष्णवे दत्तम् । यथा, --
“ततः प्रीतः प्रभु प्रादात् विष्णवे प्रवरं वरम् ।
प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम् ॥
तद्दत्त्वा देवदेवाय सर्व्वभूतभयप्रदम् ।
कालचक्रनिभं चक्रं शङ्करो विष्णुमव्रवीत् ॥
वरायुधोऽयं देवेश सर्व्वायुधनिवर्हणः ।
सुदर्शनो द्वादशारो यो मनःसदृशो जवी ॥
आरात् स्थिता अमी चात्र देवा मासाश्च
राशयः ।
शिष्टानां रक्षणार्थाय संस्थिता ऋतवस्तु षट् ॥
अग्निः सोमस्तथा मित्रो वरुणश्च प्रजापतिः ।
इन्द्राग्नी चाप्यथो विश्वे प्रजापतय एव च ॥
हनूमांश्चाथ बलवान् देवो धन्वन्तरिस्तथा ।
तपांस्येव तापसश्च द्वादशैते प्रतिष्ठिताः ॥
चैत्राद्याः फाल्गुनान्ताश्च मासास्तत्र प्रति-
ष्ठिताः ॥
त्वमेवमादाय विभो वरायुधं
शत्रुं सुराणां जहि मा विशङ्किथाः ।
अमोघ एषोऽमरराजपूजितो
धृतो मया देहगतस्तपोबलात् ॥”
इति वामने ७९ अध्यायः ॥ * ॥
वैष्णवाङ्गे तच्चिह्नधारणविधिः यथा । ब्रह्माण्डे ।
“कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकां
तनुम् ।
चक्रादिचिह्नितां भूप धारयेद्वैष्णवो नरः ॥”
नारदीयपञ्चरात्रे ।
“द्वादशारन्तु षट्कोणं वलयत्रयसंयुतम् ।
हरेः सुदर्शनं तप्तं धारयेत्तद्विचक्षणः ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥
अन्यत् मुदाशब्दे द्रष्टव्यम् ॥ * ॥ श्रीमन्दिरोपरि
देयतच्चक्रप्रमाणं यथा, --
विम्बार्द्धमानं चक्रन्तु त्रिभागेणाथ कारयेत् ।
द्वात्रिंशदङ्गुलं ज्येष्ठं कनिष्ठं त्वष्टहानितः ॥
प्रतिमातूर्य्यभागेन कारयेद्वा सुदर्शनम् !
लोहजं शैलजं वापि कारयेच्चिह्नपूर्व्वकम् ॥
अष्टारं द्वादशारं वा मध्ये मूर्त्तिसमन्वितम् ।
नारसिंहेन रौद्रेण विश्वरूपेण वा पुनः ॥”
इत्यादि ॥ * ॥
“अधिवास्य विधानेन चक्रं दण्डं ध्वजं तथा ।
देववत् सकलं कृत्वा मण्डपस्नपनादिकम् ॥
नेत्रोन्मीलनकं कृत्वा पूर्व्वोक्तं सर्व्वमाचरेत् ।
अधिवासयेत विधिना शय्यायां प्राप्य देशिकः ॥
ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद्वुधः ।
तथा सौदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥
मनोऽनुरूपेणास्यैव सजीवकरणं स्मृतम् ।
आरेषु मूर्त्तयो न्यस्याः केशवाद्याः सुरोत्तमाः ॥
नाभ्यक्षप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ।
नारसिंहं विश्वरूपमक्षमध्ये निवेशयेत् ॥
सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकम् ।
निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिम् ॥
तच्छक्तिं व्यापिनीं ध्वायेत् ध्वजरूपाञ्चला-
ननाम् ।
ततो मण्डपमध्येतु स्नाप्य पुज्य यथाविधि ॥
पूर्व्वोक्ते न विधानेन होमं कुण्डेषु कारयेत् ॥
ततः प्रभातसमये मूर्त्तिपैः सह देशिकः ।
मूर्त्तिपः आचार्य्यः ।
कलसे स्वर्णशकलं न्यस्त्वा रत्नानि पञ्च च ।
स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः ॥
पारदेन तु संप्लाव्य नेत्रपट्टेन स्थापयेत् ।
ततो निवेशयेच्चक्रं द्वादशारं सुदर्शनम् ॥
दुर्निरोक्ष्यं सुरैर्द्दैत्यैर्भ्रमद्वह्निस्फुलिङ्गकम् ।
तन्मध्ये चिन्तयेद्देवं नृसिंहं दैत्यनिर्द्दलम् ॥
स्फुरत्सौदामिनीजिह्वं ज्वलज्ज्वलनकेशरम् ।
दीप्तार्कनयनं चन्द्रकोटिभास्वरदंष्ट्रिणम् ॥
तप्तस्य तपनीयस्य सदृज्ञं परुषाननम् ।
सर्व्वदुष्टहरं देवं दुष्प्रेक्ष्यं देवदानवैः ॥
सर्व्ववर्णान्तबीजेन चतुर्द्द शयुतेन च ।
बिन्दुनालङ्कृतेनादौ प्रणवेन प्लुतेन च ।
अन्ते प्रणतियुक्तेन स्थापयेद्दूष्टनाशनम् ॥”
इति श्रीहरिभक्तिविलासे १९ विलासः ॥ * ॥
चक्रमन्त्रो यथा । ॐ नमो भगवते सुदर्शनाय
निर्णाशितसकलरिपुध्वजाय भगवन्नारायण-
कराम्भोरुहस्पर्शदुर्ल्ललिताय ।
“एह्येहि त्वं सहस्रार चक्रराज सुदर्शन ।
यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥”
इति च तत्रैव १५ विलासः ॥
सुमेरुः । जम्बूवृक्षः । इति मेदिनी ॥ (यथा,
मात्स्ये । ११३ । ७४ -- ७५ ।
“सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः ।
नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥
तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः ।
योजनानां सहस्रञ्च शतधा च महान् पुनः ॥
उत्सेधो वृक्षराजस्य दिवमावृत्य तिष्ठति ॥”)
वृत्तार्हत्पिता । जिनानां बलदेवः । इति हेम-
चन्द्रः ॥ (मत्स्यः । तत्पर्य्यायो यथा, --
“मत्स्यो मीनो विसारश्च झषो वैसारिणोऽण्डजः
शकुली पृथुरोमा च स सुदर्शन इत्यपि ।
रोहिताद्यास्तु ये जीवास्तेमत्स्याःपरिकीर्त्तिताः ॥”
इति भावप्रकाशस्य पूर्वखण्डे द्वितीये भागे ॥)

सुदशनः, त्रि, सुदृश्यः । सुखेन दृश्यते असौ इति

सुपूर्व्वकदृशधातोः कर्म्मण्यनप्रत्ययेन निष्पन्नः ।
इति मुग्धबोधटीकायां दुर्गादासः ॥ (शोभनं
दर्शनं यस्येति वा । यथा, भागवते । ४ । २४ । ५१
“श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलम् ।
समचार्व्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् ॥”
पृष्ठ ५/३६९

सुदर्शनचूर्णं, क्ली, (सुदर्शनं सुदृश्यं चूर्णं यस्य ।)

ज्वररोगस्य औषधविशेषः । यथा, --
“त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी ।
त्रिकटु ग्रन्थिकं मूर्व्वा गुडुची धन्वयासकः ॥
कटुका पर्पटो मुस्तं त्रायमाणा च वालु-
कम् ।
निम्बं पुष्करमूलञ्च मधुयष्टी च वत्सकः ॥
यवानीन्द्रयवो भार्गो शिग्रुबीजं सुराष्ट्रजा ।
वचा त्वक् पद्मकोशीरचन्दनातिविषाबलाः ॥
शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा ।
चित्रकं देवकाष्ठञ्च चव्यं पत्रं पटोलजम् ॥
जीवकर्षभकौ चैव लवङ्गं वंशलोचना ।
पुण्डरीकञ्च काकोलिपत्रकं जातिपत्रकम् ॥
तालीशपत्रमेतानि समभागानि चूर्णयेत् ।
अर्द्धांशं सर्व्वचूर्णस्य किरातं प्रक्षिपेत् सुधीः ॥
एतत् सुदर्शनं नाम चूर्णं दोषत्रयापहम् ।
ज्वरांश्च निखिलान् हन्यान्नात्र कार्य्या विचा-
रणा ॥
पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान् विषमज्वरान् ।
सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् ॥
शीतादीनपि दाहादीन् मोहं तन्द्रां भ्रमं
तृषाम् ।
कासं श्वासञ्च पाण्डु ञ्च हृद्रोगं कामलापि च ॥
त्रिकपृष्ठकटीजानुपार्श्वशूलञ्च नाशयेत् ।
शीत्यम्बुना पिवेदेतत् सर्व्वज्वरनिवृत्तये ॥
मुदर्शनं यथा चक्रं दानवानां विनाशनम् ।
तद्वज्जराणां सर्व्वेषां चूर्णमेतत् प्रणाशनम् ॥” *
पुष्करमूलाभावे कुष्ठमपि दद्यात् । भार्ग्य भावे
कण्टकारीमूलम् । सौराष्ट्र्यभावे स्फुटिकां
दद्यात् । तगरालाभे कुष्ठं देयम् । जीवकर्ष-
भयोरभावे विदारीकन्दस्य भागद्वयं दद्यात् ।
पुण्डरीकं श्वेतकमलम् । काकोल्यभावे अश्व-
गन्धामूलं दद्यात् । तालीशपत्रकाभावे स्वर्ण-
ताली प्रदीयते इति । अथवा कण्टकारीजटा
देया । इति भावप्रकाशः ॥

सुदर्शनद्वीपं, क्ली, (सुदर्शनस्य तन्नाम्ना प्रसिद्धस्य

जम्बूवृक्षस्य द्वीपम् ।) जम्बूद्वीपम् । इति पुरा-
णम् ॥

सुदर्शना, स्त्री, (सुखेन दृश्यतेऽसौ । सु + दृश +

माषायां शासियुधीति युच् । टाप् ।) सुदर्शन-
वृक्षः । सुदर्शनगुलञ्च इति पद्मगुलञ्च इति च
ख्यातः । तत्पर्य्यायः । चक्राङ्गा २ वृषकर्णी ३
दध्यानी ४ । इति रत्नमाला ॥ सोमवल्ली ५
मधुपणिका ६ चक्राह्वा ७ । अस्या गुणाः ।
स्वादुत्वम् । उष्णत्वम् । कफशोफास्रवातनाशि-
त्वञ्च । इति भावप्रकाशः ॥ विषनाशित्वम् ।
इति राजवल्लभः ॥ आज्ञा । ओषधिविशेषः ।
इति विश्वमेदिन्यौ ॥

सुदशनी, स्त्री, (सुष्ठु दर्शनं यस्याः । ङीप् ।)

अमरावती । इति विश्वः ॥

सुदलः, पुं, (सुष्ठु दलमस्य ।) क्षीरमोरटा । इति

रत्नमाला ॥

सुदला, स्त्री, (सुष्ठु दलान्यस्याः ।) शालपर्णी ।

तरुणी । इति राजनिर्घण्टः ॥

सुदान्तः, पुं, (सुष्ठु दान्तः ।) शाक्यमुनिशिष्य-

विशेषः । इति त्रिकाण्डशेषः ॥ (अतिशय-
शान्ते, त्रि । यथा, महाभारते । १ । ३८ । १२ ।
“सुदान्तानपि चैवाहं दद्यामष्टादशापरान् ॥”)

सुदामा, [न्] पुं, (सुष्ठु ददातीति । दा +

“आतो मनिन्क्वनिपवनिपश्च ।” ३ । २ । ७४
इति मनिन् ।) मेघः । पर्व्वतः । इति मेदिनी ॥
गोपभेदः । समुद्रः । इति शब्दरत्नावली ॥
ऐरावतः । इति त्रिकाण्डशेषः ॥ श्रीकृष्ण-
शरणागत-विप्रविशेषः । यथा, ब्रह्मवैवर्त्ते
श्रीकृष्णजन्मखण्डे ११२ अध्याये ।
“सद्यो जहार दारिद्र्यं सुदाम्नो ब्राह्मणस्य च ।
समागतस्य स्वगृहात् द्वारकां शरणार्थिनः ॥”

सुदामा, [न्] त्रि, (सु + दा + मनिन् ।) सुदाता

सुष्ठु ददातीत्यर्थे मन्प्रत्ययेन निष्पन्नः । इति
मुग्धबोधव्याकरणम् ॥

सुदामा, स्त्री, नदीविशेषः । यथा, वाल्मीकीये

रामायणे अयोध्याकाण्डे ७० सर्गे ।
“स प्राङ्मुखो राजगृहादभिनिर्याय वीर्य्यवान्
ततः सुदामां द्यतिमान् सन्तीर्य्यावेक्ष्य तां
नदीम् ॥”

सुदायः, पुं, (सुष्ठु दीयते इति । सु + दा + घञ्

युगागमः ।) देययौतकादि । इत्यमरः । २ ।
८ । २८ ॥ यथा । यौतक आदिना उपनयन-
भिक्षाप्रसादादि च यत् देयं तत् दायहरण-
पदवाच्यम् । कन्यादानकाले जामात्रादिभ्यो
व्रतभिक्षादौ ब्राह्मणादिभ्यश्च यद्द्रव्यं दीयते तत्र
दायादिद्वयमित्यर्थः । युतकं योनिसम्बन्धः तत्र
भवमिति ष्णे यीतकम् । युतयोर्व्वधूवरयोरिद-
मिति वा कणि यौतुकम् । यौतुकमुकारमध्य-
मपि । यौतकं यौतुकञ्च तत् । इति वाचस्पतिः
दीयते दायः कर्म्मणि घञ् सुष्ठुदीयते सुदाय
इति पाठ इत्यन्ये । इति भरतः ॥ पितृमातृ-
भर्त्तृकुलसम्बन्धी । यथा, --
“सुदायेभ्यःपितृमातृभत्तृ कुलसम्बन्धिभ्यो लब्धं
सौदायिकम् ।” इति दायतत्त्वम् ॥

सुदारुः, पुं, (सुष्ठु दारु यत्र ।) पारिपात्रपर्व्वतः

तत्पर्य्यायः । पारिपात्रिकः २ । इति हेम-
चन्द्रः ॥

सुदि, व्य, शुक्लपक्षः । इति पश्चिमदेशे प्रसिद्धः ॥

सुदिनं, क्ली, (ष्ठसु दिनम् ।) शुभदिवसः । यथा,

ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४३ । ४८ । ५१ ।
“सुदिनं दुर्द्दिनं शश्वत् भ्रमत्येव भवे भव ।
सर्व्वेषां प्राकृतानाञ्च द्वे बीजे सुखदुःखयोः ॥
सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवं भव ।
तत्कर्म्म तपसा साध्यं कर्म्मणाञ्च शुभाशुभम् ॥”

सुदिनाहं, क्ली, (सुदिनेषु शुभदिनेषु अहः शुभ-

दिनम् । यद्वा, सुदिनं प्रशस्तमहः । टच्
समासे ।) प्रशस्तदिनम् । यथा । उत्तमैका-
भ्याञ्च । आभ्यामह्नादेशो न । उत्तमशब्दः
अन्त्यार्थः पुण्यशब्दमाह । पुण्यै काभ्यामित्येव
सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् ।
सुदिनशब्दः प्रशस्तवाची । इति सिद्धान्त-
कौमुदी ॥

सुदीर्घः, त्रि, (सुष्ठु दीर्घः ।) अतिविस्तारः ।

यथा, --
“विवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च ।
सुदीर्घेणापि कालेन तेषां तत्तु न सिध्यति ॥”
इति व्यवहारतत्त्वम् ॥

सुदीर्घघर्म्मा, स्त्री, (सुदीर्घः अतिशयः घर्म्मो

यस्याः ।) असनपर्णी । इति शब्दचन्द्रिका ॥

सुदीर्घफलिका, स्त्री, (सुदीर्घं फलं यस्याः । कप् ।

टापि अत इत्वम् ।) वार्त्ताकुविशेषः । इति
रत्नमाला ॥ शिङ्गा वेगुन इति भाषा ॥

सुदीर्घा, स्त्री, (सुष्ठु दीर्घा ।) चीनाकर्क्कटी ।

इति राजनिर्घण्टः ॥

सुदुःखितः, त्रि, (सुष्ठु दुःखितः ।) अतिशय-

व्यथितः । यथा । ज्योतिस्तत्त्वे भीमपराक्रम-
वचनम् ।
“विष्णुभाद्ये त्रिके चित्रे ज्येष्ठायां ज्वलने यमे ।
एभिर्व्विवाहिता कन्या भवत्येव सुदुःखिता ॥”

सुदुर्ल्लभः, त्रि, (सु + दुर् + लभ + खल् ।) अति-

दुष्प्राप्यः । यथा, --
“ब्रह्मत्वादपि देवत्वादिन्द्रत्वादमरादपि ।
अमृतात् सिद्धिलाभाच्च हरिदास्यं सुदुर्ल्लभम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९७ अध्यायः ॥

सुदुश्चरः, त्रि, (सु + दुर् + चर + खल् ।) अति-

शयदुःखेनाचरणीयः । यथा, श्रीभागवते ११ ।
२९ । १ ।
“सुदुश्चरामिमां मन्ये योगचर्य्यामनात्मनः ।
यथाञ्जसा पुमान् सिध्येत् तन्मे ब्रूह्यञ्जसाच्युत ॥”
(कार्त्तिकेये, पुं, । यथा, महाभारते । ३ ।
२३१ । ७ ।
“प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ॥”)

सुदुष्करः, त्रि, (सु + दुर् + कृ + खल् ।) अत्यन्त-

क्लेशकरः । यथा, श्रीभागवते । ४ । ८ । ६९ ।
“सुदुष्करं कर्म्म कृत्वा लोकपालैरपि प्रभुः ।
एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥”

सुदुस्तरः, त्रि, (सु + दुर् + स्तृ + खल् ।) अति-

दुःखेन तरणीयः । यथा, श्रीभागवते । १० ।
२ । ३१ ।
“स्वयं समुत्तीर्य्य सुदुस्तरं द्युमन्
भवार्णवं भीममदभ्रसौहृदाः ।
भवत्पदाम्भोरुहनावमत्र ते
निधाय याताः सदनुग्रहो भवान् ॥”

सुदुस्त्यजः, त्रि, (सु + दुर् + त्यज + खल् ।)

अतिदुःखेन त्याज्यः । यथा, --
“त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्म्मिष्ठ आर्य्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधाव-
द्वन्दे महापुरुष ते चरणारविन्दम् ॥”
इत्याह्निकतत्वधृतश्रीभागवतवचनम् ॥
पृष्ठ ५/३७०
दूरः, त्रि, (सुष्ठु दूरः ।) अतिदूरतरः । तत्-
पर्य्यायः । दवीयान् २ दविष्ठः ३ । इत्यमरः ।
३ । १ । ६९ ॥

सुदूरपराहतः, त्रि, (सुदूरे पराहतः निरा-

कृतः ।) अतिदूरनिराकृतः । चिरध्वस्तः ।
यथा । “अननुगमेन तत्तज्जातिघटितलक्षणा-
सम्भवात् लक्षणानुपपत्तिरूपयुक्तेः सुदूरपरा-
हतत्वात् इति भाववर्णनं अनुपादेयमेव ।” इत्य-
वयवग्रन्थगादाधरी ॥

सुदृक्, [श्] त्रि, (सुष्ठु दृक् नेत्रं यस्य ।) सुन्दर-

चक्षुर्युक्तः । यथा, श्रीभागवते । १० । ३० । २७ ।
“भीता सुदृक् पिधायास्यं भेजे भीतिविड-
म्बनम् ॥”
“सुदृक् सुनयनं आस्यं पिधाय । सुदृक् वरा-
क्षीति वा । भीतिविडम्बनं भयानुकरणम् ।”
इति श्रीधरस्वामी ॥ शोभनचक्षुषि, क्ली ॥

सुदृढं, क्ली, (सुष्ठु दृढम् ।) गाढम । तद्वति,

त्रि । इति शब्दरत्नावली ॥

सुद्युम्नः, पुं, वैवस्वतमनुपुत्त्रः । स तु इडराजः ।

यथा, वह्निपुराणे सागरोपाख्याननामाध्याये ।
“जलक्रीडागतो यत्र पार्व्वत्या सहितो हरः ।
स्त्रीरूपधारिभिर्व्वालस्ततः स हिमवद्विरौ ॥
ततोऽविशदिडस्तत्र मृगयाकृष्टचेतनः ।
वभूव नृपतिः सद्यः सानुयात्रबलान्वितः ॥
इदं स्त्रीलिङ्गमापन्नः प्रतिभ्रमति कानने ।
ततो बुधाश्रमं प्रायादिडारूपाश्रया सती ॥
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ।
सोमपुत्त्राद्बुधाद्राजन् तस्या जज्ञे पुरूरवाः ॥
जनयित्वा पुनः सा तं पुनः सुद्युम्नतां गता ।
प्रसादात् शङ्करस्यापि बुधेनाराधितस्य च ॥
सुद्युम्नस्य तु दायादः स्रवः परमधार्म्मिकः ॥”

सुधन्वा, [न्] त्रि, (सुष्ठु धनुर्यस्य । धनुषश्चेत्य-

नङ् ।) प्रीडधानुष्कः । इति मेदिनी ॥ (यथा,
वाजसनेयसोहतायाम् । १६ । ३६ ।
“नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधायच
सुधन्वने ॥”)

सुधन्वा, [न्] पुं, (सुष्ठु धनुर्यस्य ।) विश्वकर्म्मा ।

इति मेदिना ॥ राजविशेषः । इति पुराणम् ॥
(यथा, हरिवशे । १२ । १० ।
“सम्भूतस्य च दायादः सुधन्वा रिपुमर्द्दनः ।
सुधन्वनः सुतश्चासीत् त्रिधन्वा नाम पार्थिवः ॥”
विदुरः । यथा, भागवते । ३ । २१ । ३५ ।
“तास्मन् सुधन्वन्नहनि भगवान् यत् समा-
दिशत् ।
उपादायाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥”)

सुधन्वाचार्य्यः, पुं, व्रात्यवंश्यात् सवर्णायां जातो-

जातिविशेषः । यथा, --
“वश्यात्तु जायते व्रात्यात् सुधन्वाचार्य्य एव च
कारुषश्च विजन्मा च भैत्रः सात्वत् एव च ॥”
इति मानवे १० अध्यायः ॥

सुधर्म्मः, पुं, जिनगणाविपविशेषः । इति हेम-

चन्द्रः ॥

सुधर्म्मा, स्त्री, (शोभनो धर्म्मोऽस्यामिति ।

अनिच् । ततः “डाबुभाभ्यामन्यतरस्याम् ।” ४ ।
१ । १३ । इति पक्षे डाप् ।) देवसभा । इत्य-
मरः । १ । १ । ५१ ॥ (यथा, रघुः । १७ । २७ ।
“स राजककुदव्यग्रपाणिभिः पार्श्ववर्त्तिभिः ।
ययावुदीरितालोकः सुधर्म्मानवमां सभाम् ॥”
“सुधर्म्माया देवसभाया अनवमां अन्यूनाम् ।”
इति तट्टीकायां मल्लिनाथः ॥)

सुधर्म्मा, [न्] पुं, (सुष्ठु धर्म्मो यत्र । “धर्मादनिच्

केवलात् ।” ५ । ४ । १२४ । इति अनिच् ।)
देवसभा । कुटुम्बी । इत्युणादिकोषः । २ । १८७ ॥
(देवसभार्थे स्त्रीलिङ्गोऽपि भवति ॥ * ॥ सु + धृ +
“मिथुने मनिः ।” उणा० ४ । १५१ । इति मनिः
क्षत्त्रियः । इत्युज्ज्वलदत्तः ॥ सद्धर्म्मविशिष्टे, त्रि
यथा, हरिवंशे । ११५ । ७५ ।
“सुधर्म्मणे सुधर्म्मां तां कृष्णायाक्लिष्टकारिणे ।
देवो देवसभां दत्त्वा वायुरन्तरधीयत ॥”)

सुधर्म्मी, स्त्री, देवसभा । इत्यमरटीका । १ । १ । ५१

सुधा, स्त्री, (सुखेन धीयते पीयते इति । धेट

पाने + “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इत्यङ् ।
टाप् ।) अमृतम् । इत्यमरः । १ । १ । ५१ ॥
(यथा, रामायणे । २ । ६१ । १३ ।
“न पश्चात्तेऽपि मन्यन्तेसुधामपि सुरोपमाः ॥”
लेपनम् । (यथा, माघे । १२ । ६२ ।
“सेनासुधाक्षालितसौधसम्पदां
पुरां बहूनां परभागमाप सा ॥”)
मूर्व्वी । स्नुंही । (यथा, --
“सेहुण्डः सिंहतुण्डः स्याद्वज्री वज्रद्रुमोऽपि च
सुधा समन्तदुग्धा च स्नु क्स्त्रियां स्यात् स्नुही
गुडा ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
गङ्गा । इष्टका । इति मेदिनी ॥ विद्युत् । रसः
तोयम् । (यथा, --
“रसायनमिवर्षीणां देवनामामृतं यथा ।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥”
इति सुश्रुते सूत्रस्थाने ४३ अध्यायः ॥)
धात्री । इति नानार्थध्वनिमञ्जरी ॥ हरितकी
मधु । इति शब्दचन्द्रिका ॥ शालपर्णी । इति
राजनिर्घण्टः ॥

सुधांशुः, पुं, (सुधायुक्ताः अशवो यस्य ।) चन्द्रः ।

इत्यमरः । १ । ३ । १४ ॥ (यथा, कथासरि-
त्सागरे । १०१ । १२८ ।
“दीप्रदावानलशिखाः सुधांशोरपि रश्मयः ।
तस्याः सुन्दरसेनोत्कचेतसो वत जज्ञिरे ॥”
कर्पूरः । चन्द्रसंज्ञत्वात् ॥)

सुधांशुतैलं, क्ली, (सुधांशोः कर्पूरस्य तैलम् ।)

कर्पूरतैलम् । इति राजनिर्घण्टः ॥

सुधांशुरत्नं, क्ली, (सुधांशुप्रिय रत्नम् ।) मोक्ति-

कम् । इति राजनिर्घण्टः ॥

सुधाकरः, पुं, (सुधायुक्ताः करा यस्य ।) चन्द्रः ।

इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम्
११९ ।
“उल्लसिति लाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः
स्फू रति ।
आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥”

सुधाङ्गः, पुं, (सुधामयं अमृतात्मकमङ्गमस्य ।

सुधेव शुक्लमङ्गमस्येति वा ।) चन्द्रः । इति
त्रिकाण्डशेषः ॥

सुधाजीवी, [न्] पुं, (सुधा + जीव + णिनिः ।)

सुधया लेपनेन जीवति यः । राज इतिभाषा ।
तत्पर्य्यायः । पलगण्डः २ लेपकः ३ । इति
त्रिकाण्डशेषः ॥

सुधाधारः, पुं, (सुधाया आधारः ।) चन्द्रः ।

इति शब्दरत्नावली ॥ अमृतपात्रञ्च ॥

सुधानिधिः, पुं, (सुधाया निधिः ।) चन्द्रः । इति

शब्दरत्नावली ॥

सुधापयः, [स्] क्ली, सुधेवशुक्लं पयः निर्य्यासः ।

स्नुहीक्षीरम् । इति केचित् ॥

सुधापाणिः, पुं, (सुधा पाणो यस्य ।) धन्वन्तरिः ।

इति केचित् ॥

सुधाभुक्, [ज्] पुं, (सुधां भुङ्क्ते इति । भुज् +

क्विप् ।) देवः । इति हेमचन्द्रः ॥

सुधाभृतिः, पुं, (सुधाया भृतिर्यस्मात् ।) चन्द्रः ।

यज्ञः । इति मुद्राङ्कितमेदिनी ॥ हस्ताक्षर-
मेदिन्यां सुधासूतिरिति पाठः ॥

सुधामयः, पुं, (सुधात्मकः इति । सुधा + मयट् ।)

भूपालभवनम् । इति शब्दरत्नावली ॥ अमृता-
त्मके, त्रि । यथा, श्रीजयदेवः ।
“रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रवा-
मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया
साधु त्वद्वदनं सधामयमिति व्याहृत्य गीत-
स्तुति-
व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः
पातु वः ॥”

सुधामोदकः, पुं, (सुधेव मोदयतीति । मुद +

णिच् + ण्वुल् ।) यवासशर्करा । इति राज-
निर्घण्टः ॥

सुधामोदकजः, पुं, (सुधामोदात् जायते इति ।

जन + डः ।) तवराजोद्भवखण्डः । इति राज-
निर्घण्टः ॥

सुधावर्षी, [न्] पुं, (सुधां वर्षतीति । वृष +

णिनि ।) ब्रह्मा । इति शब्दरत्नावली ॥ बुद्ध-
भेदः । इति त्रिकाण्डशेषः ॥

सुधावासः, पुं, (सुधाया आवासः ।) चन्द्रः । यथा,

“ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतये नमः
नमस्ते रोहिणीकान्त सुधावास नमोऽस्तुते ॥”
इति तिथ्यादितत्त्वम् ॥
(त्रपुसम् । तत्पर्य्यायो यथा, --
“त्रपुसं कण्टकिफलं सुधावासः सुशीतलम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुधावासा, स्त्री, (सुधाया वासो यत्र ।) त्रपुषी ।

इति राजनिर्घण्टः ॥

सुधासिन्धुः, पुं, (सुधायाः सिन्धुः ।) अमृत-

समुद्रः । यथा, --
पृष्ठ ५/३७१
“सुधासिन्धोर्म्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्य्यङ्कनिलयां
भजन्ति त्वा धन्याः कतिचन चिदानन्दलह-
रीम् ॥”
इत्यानन्दलहरी ॥

सुधासूतिः, पु, (सुधायाः सूतिरुत्पत्तिर्यत्र ।)

यज्ञः । चन्द्रः । पद्मम् । इति शब्दरत्नावली ॥

सुधास्रवा, स्त्री, (स्रवतीति । स्रु + अच् । टाप् ।

सुधायाः स्रवा ।) प्रतिजिह्वा । अलिजिह्विका ।
इति त्रिकाण्डशेषः ॥ रुदन्तीवृक्षः । इति
राजनिर्घण्टः ॥

सुधाहरः, पुं, (सुधां हरतीति । हृ + अच् ।

सुधाया हर इति वा ।) गरुडः । इति शब्द-
रत्नावली ॥

सुधाहृत्, पुं, (सुधां हरतीति । हृ + क्विप् ।)

गरुडः । इति हेमचन्द्रः ॥

सुधितिः, पुं, स्त्री, स्वधितिः । इत्यमरटीकायां

रायमुकुटः ॥

सुधीः, पुं, (सु शोभना धीर्यस्य ।) पण्डितः ।

इत्यमरः । २ । ७ । ५ ॥

सुधीः, स्त्री, (शोभना धीः ।) सुन्दरबुद्धिः ।

सुष्ठुधीः । इति मुग्धबोधव्याकरणम् ॥ शोभना
धीर्यस्य ।) शोभनबुद्धियुक्ते, त्रि ॥ (यथा,
भट्टिः । १२ । ६ ।
“मात्रातिमात्रं शुभयैव बुद्ध्या
चिरं सुधीरभ्यधिकं समाधात् ॥”)

सुधूम्यः, पुं, स्वादुनामगन्धद्रव्यम् । इति राज-

निर्घण्टः ॥

सुधोद्भवः, पुं, (सुधया सह उद्भवो यस्य ।)

धन्वन्तरिः । इति त्रिकाण्डशेषः ॥

सुधोद्भवा, स्त्री, (सुधाया उद्भवो यस्याः ।)

हरीतकी । इति त्रिकाण्डशेषः ॥ (हरीतकी-
शब्देऽस्य विवरणं ज्ञेयम् ॥)

सुनन्दं, क्ली, (सुष्ठु नन्दयतीति । नन्द + अच् ।)

बलभद्रस्य मुषलम् । इति शब्दमाला ॥ (कुजृम्भ-
दैत्यस्य मुषलम् । यथा, मार्कण्डेये । ११६ । १८
“सुनन्दं नाम मुषलं त्वष्ट्रा यन्निर्म्मितं पुरा ।
तज्जहार स दुष्टात्मा तेन हन्ति रणे रिपून् ॥)
सुन्दरानन्दजनके, त्रि ॥

सुनन्दः, पुं, (सुष्ठु नन्दयतीति । नन्द + अच् ।)

श्रीकृष्णस्य पार्षदविशेषः । यथा, श्रीभागवते
१० । ८९ । ५६ ।
“सुनन्दनन्दप्रमुखैः स्वपार्षदैः
चक्रादिभिर्मूर्त्तिधरैर्निजायुधैः ।
पुष्ट्या श्रिया कीर्त्त्यजयाखिलर्द्धिभि-
र्निषेव्यमाणं परमेष्ठिनां पतिम् ॥”
द्वादशविध-राजगृहान्तर्गतगृहविशेषः । यथा,
“यद्यत्रवोच्यते मानं तस्य तेनैव कल्पना ।
राज्ञः स्वहस्तमेकन्तु दीर्घे सर्व्वत्र निःक्षिपेत् ॥
आयामेन सुनन्दः स्याद्राजहस्तैश्च पञ्चभिः ।
परिणाहे चतुर्भिश्च राजहस्तैः प्रतिष्ठितः ॥
अस्याधिदेवता भौमो रक्षतीदं वसुन्धरा ।
द्वाराणि विंशतिश्चास्य रक्तचित्रावृतानि च ॥
रक्तपट्टावृतो गेहः सकलार्थप्रसाधकः ।
अत्र स्थित्वा महीपालः सचिरं पाति मेदि-
नीम् ॥”
दीर्घः ५१ प्रस्थः ४० । इति सुनन्दः ॥ सुन्दरः
इति च पाठः । इति युक्तिकल्पतरुः ॥

सुनन्दा, स्त्री, (सुष्ठु नन्दयति या । नन्द + अच् ।

टाप् ।) उमा । गोरोचना । इति मेदिनी ॥
नारी । इति विश्वः ॥ उमासखीभेदः । इति
शब्दमाला ॥ (अजपत्न्या इन्दुमत्याः सखी
द्वारपालिका । यथा, रघुः । ६ । २० ।
“ततो नृपाणां श्रुतवृत्तवंशा
पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक् सन्निकर्षं मगधेश्वरस्य
नीत्वा कुमारीमवदत् सुनन्दा ॥”)
अर्कपत्रीवृक्षः । इति रत्नमाला ॥ इषेरमूल
इति भाषा ॥ (पुरुवंशीयसार्व्वभौमनृपतेः
पत्नी । यथा, महाभारते । १ । ९५ । १६ ।
“सार्व्वभौमः खलु जित्वा जहार कैकेयीं सुनन्दां
नाम तामुपयेमे । तस्यामस्य जज्ञे जयत्सेनो
नाम ॥” * ॥ दुष्मन्तपुत्त्रभरतस्य पत्नी । यथा,
तत्रेव । १ । ९५ । ३२ ।
“भरतः खलु काशेयीमुपयेमे सार्व्वसेनीं सुनन्दां
नाम । तस्यामस्य जज्ञे भुमन्युः ॥” * ॥ चेदि-
राजकन्या । यथा, तत्रैव । ३ । ६५ । ५० ।
“एवमुक्त्या ततो भैमीं राजमाता विशांपते ।
उवाचेदं दुहितरं सुनन्दां नाम भारत ॥”)

सुनयनः, पुं, (शोभने नयने यस्य ।) मृगः । इति

शब्दचन्द्रिका ॥ शोभनचक्षुर्युक्ते, त्रि ॥ (यथा,
रघुः । ९ । ५२ ।
“ददृशुरध्वनि तं वनदेवताः
सुनयनं नयनन्दितकोशलम् ॥”)

सुनयना, स्त्री, (सु शोभने नयने यस्याः ।) नारी ।

इति राजनिर्घण्टः ॥

सुनाकृतः, पुं, कर्पूरकः । इति शब्दचन्द्रिका ।

सुनाभः, पुं, (सुष्ठु नाभिरस्य । अच् समासे ।)

मैनाकपर्व्वतः । इति त्रिकाण्डशेषः ॥ (यथा,
महाभारते । ३ । १० । ३० ।
“इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्व्वतौ ॥”
धृतराष्ट्रपुत्त्रविशेषः । यथा, तत्रैव । १ । ११७ । ५ ।
“उर्णनाभः सुनाभश्च तथानन्दोपनन्दकौ ॥”
सुष्ठु नाभिश्चक्रमध्यमस्येति । सुदर्शनचक्रे, क्ली
यथा, भागवते । ३ । ३ । ६ ।
“सुतं मृधे खं वपुषा ग्रसन्त
दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।
आमन्त्रितस्तत्तनयाय शेषं
दत्त्वा तदन्तःपुरमाविवेश ॥”
वाच्यलिङ्केऽपि दृश्यते । यथा, महाभारते ।
३ । ३ । ४८ ।
“तत्तेजसा कृतं चक्रं सुनाभं विश्वकर्म्मणा ।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥”)

सुनामद्वादशी, स्त्री, (सुनामा द्वादशी । यद्वा,

सुनामप्रिया द्वादशी ।) द्वादशमासीयद्वादश-
कर्त्तव्यव्रतविशेषः । यथा, --
अम्बरीष उवाच ।
“कथं सुनामभिर्देवो द्वादश्यां मुनिसत्तम् ।
पूज्यते केशवो मर्त्त्यैर्भुक्तिकामफलार्थिभिः ॥
वशिष्ठ उवाच ।
शृणुष्वैकमना भूयः सुनामद्वादशीं शुभाम् ।
सर्व्वपापहरां स्वर्ग्यां भुक्तिमुक्तिप्रदायिकाम् ॥
मनसापि चिकीर्षन्ति ये द्वादशीं नरोत्तमाः ।
तेऽपि घोरं न पश्यन्ति पुनः संसारसागरम् ॥
आद्यं सर्व्वव्रतानान्तु वैष्णवानां नृपोत्तम ।
नरैः स्त्रीभिश्च कर्त्तव्यं विष्णोस्तुष्टिकरं परम् ॥ *
मार्गशीर्षे शुभे मासि शुक्लपक्षे यतव्रतः ।
प्रथमं चैव गृह्णोयात् द्वादशों विधिवन्नरः ॥
मनोवाक्कायचेष्टाभिः स विशुद्धो जितेन्द्रियः ।
दशम्यां नियतः स्नात्वा प्रणिंपत्य जनार्द्दनम् ॥
हविष्यान्नकृताहारः शुचिर्भूत्वा भवेद्व्रती ।
उपलिप्ते शुचौ देशे भक्षयेत् दन्तधावनम् ॥
उपोष्यैकादशीं सम्यक् पूजयित्वा जनार्द्दनम् ।
सुनामद्वादशीं देव अहं भोक्ष्ये परेऽहनि ॥
एवं सङ्कल्प्य नियमं प्रणम्य गरुडध्वजम् ।
दशम्यामेकभक्ताशी संयतः संवसेन्निशाम् ॥
एकादश्यां ततः कुर्य्यादेकचित्तः समाहितः ।
पूर्व्वं प्रपूजयेत् सूर्य्यं ततोदेवं प्रपूजयेत् ॥
नमस्ते देवदेवेश नमस्ते भक्तवत्सल ।
भास्कराय नमस्तुभ्यं रवये कार्य्यभानवे ॥
नमः सूर्य्याय देवाय नमस्ते सप्तसप्तये ।
एकस्मै हि नमस्तुभ्यमेकचक्ररथाय च ॥
ज्योतिषां पतये नित्यं सव्वतेजोहराय च ।
दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते ॥
एवं संपूज्य विधिवत् पुष्पधूपानुलेपनैः ।
दीपैर्व्वस्त्रैः सुनैवेद्यैस्ततो विष्णुगृहं व्रजेत् ॥
ततोऽनु स्नापयेद्देवं दधिक्षीरघृतादिभिः ।
सर्व्वौषधिजलैः पुण्यैस्तथा चन्दनवारिभिः ॥
कुङ्कमोशीरकपूरैश्चन्दनेन विलेपयेत् ।
अच्युतं चार्च्चयेद्भक्त्या मालतीकुसुमैर्भृशम् ॥
गुग्गुलुं घृतसंयुक्तं धूपं दद्यादहर्निशम् ।
पायसापूपसंयावकरम्भाज्यकदम्बकैः ॥
नैवेद्यं हरये दद्यात् फलमोदकंयान्वितैः ।
गीतवाद्यैर्हरेर्ह्येष प्रणमेच्च मुहुर्मुहुः ॥
एवं पूजां हरेः कृत्वा द्विजं ज्ञानप्रदायकम् ।
पूजयेदन्तरं नास्ति विप्रकेशवयोरपि ॥
ततोऽव्रणं समालभ्य चन्दनेन नवं घटम् ।
स्रग्विणं तोयसम्पूर्णं न्यसेद्देवस्य सन्निधौ ॥
सहेममौक्तिकाक्षन्तु वज्ररत्नसुवर्णकम् ।
न्यस्य गर्भे सवस्त्रन्तु पूजयेत्तत्र केशवम् ॥
यस्य रोम्नि स्थिता मेघाः सर्व्वसन्धिषु पन्नगाः ॥
सागराः कुक्षिदेशस्थाः सोऽत्रायातु जगत्पति ।
वनस्पतिरसो दिव्यः सर्व्वगन्धेषु चोत्तमः ।
घृतेन सहसोन्मिश्रो धूपोऽयं प्रतिगृह्यताम् ॥
केशवः केशिहा केशिकंसारिष्टनिसूदनः ।
पृष्ठ ५/३७२
सर्व्वकामप्रदो देवः स मे पापं व्यपोहतु ॥
एवमभ्यर्च्च्य देवेशं प्रणिपत्य क्षमापयेत् ।
द्वादश्यां तत्र तोयेन स्नापयेत्तेन मानवः ॥
सर्व्वपापविनिर्मुक्तो वैष्णवीं लभते तनुम् ।
कृताभिषेकः पुण्यात्मा सम्यगभ्यर्च्च्य केशवम् ॥
नवनीतकृतां धेनुं व्राह्मणायोपपादयेत् ।
कशवः प्रीयतां देवः केशिहन्ता महाच्युतः ।
स मे भवेत्तु सुप्रीतः इष्टान् कामान् प्रयच्छतु ।
एवं प्रदक्षिणं कृत्वा शृणु तस्यापि यत् फलम् ॥
त्रिंशदब्दकृत पापं हित्वा स त्रिविधं नरः ।
षष्टिं वर्षसहस्राणि स्वर्गे मोदति देववत् ॥
यदा कालादिहायाति सधर्म्मो धनवान् भवेत्
अभावादथ धेनूनां तत् पात्रं कल्पयेत्ततः ॥
तत्फलं हि विनिर्द्दिष्टं यथाशक्त्या तु दक्षिणा ।
भक्त्या फलं समाप्नोति भक्तिरेवात्र कारणम् ॥ *
पौषस्यैव तु मासस्य योऽप्येवं क्षपयेन्नरः ।
समाहितमना भूप रसधेनुप्रदायकः ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं वर्त्मनी तस्मात् नारायण इति स्मृतः ॥
नारायणः प्रीयतां मे देवो नरप्रियः सदा ।
इष्टकामप्रदो नित्यं स मे पापं व्यपोहतु ॥
ततः प्रदक्षिणं कृत्वा ब्राह्मणान् भोजयेत्ततः ।
एवं हि पौषमासस्य तस्य पुण्यफलं शृणु ॥
षष्ट्या वाब्दैः कृतं पापं स्वल्पं वा यदि वा बहु
हत्वा स्वर्गं समाप्नोति वर्षाणामयुतायुतम् ॥ * ॥
माघस्यैव तु मासस्य द्वादशीं शुक्लपक्षतः ।
यः क्षिपेद्धि शुचिर्भूत्वा एकचित्तः समाहितः ॥
स्नापने पूजने नित्यं ब्राह्मणानाञ्च तर्पणे ।
प्रदाने नृपशार्द्दूल इमं मन्त्रमुदीरयेत् ॥
मा लक्ष्मीश्च पुरात्रेयी भगिनी शशिनोऽनुजा ।
भर्त्ता त्वमपि तस्याश्च सर्व्वकामद माधव ॥
प्रीयतां माधवो देवो मधुकैटभसूदनः ।
वासुदेवो जगन्नाथो मम पापं व्यपोहतु ॥
एवं यः कुरुते सद्यस्तस्य पुण्यफलं शृणु ।
यावज्जन्मकृतं पापं हत्वा सर्व्वमशेषतः ॥
दिव्यवर्षसहस्राणि स्वर्गे वसति षोडश ।
गुडधेनुप्रदो माघे इहायातः सदा सुखी ॥
भवेद्राजन् निरातङ्कः पुत्रैश्वर्य्यसमन्वितः ।
तत्र विष्णुपरो भूत्वा क्रमान्मोक्षमवाप्नु यात् ॥ * ॥
फाल्गुनामलपक्षस्य द्वादश्यां नियतः शुचिः ।
पूजयित्वा विधानेन देवदेवं स्वशक्तितः ॥
मन्त्रेणानेन राजेन्द्र गोविन्दः प्रोयतामिति ।
गवा भक्तोऽसि गोस्वामो गोवासो गोकृतालयः
सर्व्वकामप्रदो नित्यं स मे पापं व्यपोहतु ।
स्तुत्ववं शर्कराधेनुं भक्त्या दद्यात् द्विजातये ॥
ततः प्रदक्षिणं कृत्वा शृणु पुण्यं यथातथम् ।
वलोवर्द्दसहस्राणां दशानां धूर्विवाहिनाम् ॥
न तंस्तत् फंलमाप्नोति द्वादश्या यद्भवेन्नृप ।
दिव्यवषसहस्राणि स्वर्गे तिष्ठति स्वर्गिवत् ॥ * ॥
चैत्रस्य द्वादशीं शुक्लां समुपोष्य नृपोत्तम ।
स्नात्वा प्रपूजयेद्विष्णुं जगतोऽन्तरचारिणम् ॥
पूर्व्वाक्तविधिवत् स्नात्वा गोमूत्रैर्गौमयेन च ।
स्नापयित्वामृतेनैव पञ्चानां गन्धसंयुतैः ॥
अद्भिः पश्चात् प्रपूज्यैवं गन्धधूपविलेपनैः ।
पुष्पैर्व्वासोभिरेवं हि मन्त्रेणानेन बुद्धिमान् ॥
प्रवेशने यथाशीलो जगतां रक्षणाय च ।
दुर्वृत्तानां विनिर्जेतुमसि विष्णुरतो हरे ॥
विष्णुर्भवतु मे प्रीतो विष्णुर्देवः सनातनः ।
सर्व्वपापविनाशाय विणुर्मे प्रीयतामिति ॥
मधुधेनुमभावाच्च शक्तितः पात्रमेव च ।
दत्त्वा यत् फलमाप्नोति तदिहैकमनाः शृणु ॥
पूर्व्वजम्मनि यत् पापमिह जन्मनि साम्प्रतम् ।
वर्त्तते सकलं हत्वा स्वर्गलोके महीयते ॥ * ॥
वैशाखस्य तु मासस्य पूजयेन्मधुसूदनम् ।
पूर्व्वीक्तविधिना राजन् सौवर्णं मधुसूदनम् ॥
जलकुम्भे तु संस्थाप्य मन्त्रेणानेन पूजयेत् ।
एकार्णवे जले धातुर्हृता वेदाः पुरा हरे ॥
मधुना ते हतः सोऽपि तेनासि मधुसूदनः ।
स मे भवतु सुप्रीतो देवदेवः सनातनः ॥
सर्व्वपापविनाशाय प्रीयतां मधुसूदनः ।
घृतधेनुमथो दत्त्वा व्राह्मणान् भोजयेत्ततः ॥
ततः प्रदक्षिणं कुर्य्यात् दत्त्वा देयान् यथोपगान्
एवन्तु क्षपमाणस्य तस्य पुण्यफलं शृणु ॥
कपिलानां सहस्रस्य सम्यग्दत्तस्य पुष्करे ।
तत्फलं समवाप्नोति भक्तियुक्तोऽप्यसंशयः ।
यावदिन्द्रो वसेत् स्वर्गे तावदेव स तिष्ठति ॥ * ॥
ज्यैष्ठस्यैव तु मासस्य श्रुक्लपक्षे तु द्धादशीम् ।
पूजयेद्विधिवद्भक्त्या समुपोष्य त्रिविंक्रमम् ॥
जलधेनुमथो दद्याद्विप्राय नियतः शुचिः ।
यज्ञभागभुजो दैत्यान् सन्निहत्य क्रमैस्त्रिभिः ॥
त्रैलोक्यमाहृतं तस्मात् तेनासि त्वं त्रिविक्रमः
त्रिविक्रमं त्रिलोकेशं प्रीणयामि त्रिविक्रमम् ॥
ततः प्रदक्षिणं कृत्वा ब्राह्मणेभ्यश्च दक्षिणाम् ।
वत्त्वा तु भोजयेत्तांस्तु शृणु तस्यापि यत् फलम्
वाजपेयस्य यज्ञस्य सम्यगिष्टस्य पार्थिव ।
तत्फलं लभते मर्त्त्यः परत्रेह सुखी भवेत् ॥ * ॥
वामनस्तु तथाषाढे समुपोष्य प्रयत्नतः ।
द्वादशीनियताहारो वामनं तत्र पूजयेत् ॥
हिताय सर्व्वदेवानां आदित्यः कामदो यथा ।
तथा त्वं भव मे देव वामनो वलिबन्धनः ॥
तिलधेनुं ततो दद्यात् वामनः प्रीयतामिति ।
तदभावात्तथा पात्रं यथाशक्त्या च दक्षिणाम् ॥
पूर्व्वजन्मकृतं पापमिहजन्मकृतञ्च यत् ।
तत् सर्व्वं विनिहत्याशु परत्र च शुभां गतिम् ॥ * ॥
श्रावणस्य तु मासस्य द्वादश्यां शुक्लपक्षतः ।
यः क्षिपेन्नियतो भूत्वा समुपोष्य जनार्द्दनम् ॥
समर्च्चयेत् यथाशक्त्या पूर्व्वोक्तविधिना ततः ।
धेनुं सर्व्वगुणोपेतां ब्राह्मणाय निवेदयेत् ॥
मन्त्रेणानेन राजेन्द्र पौराणविहितेन च ।
समादाय ततो लक्ष्मीं लोकेभ्यः क्षीरसागरे ।
स्वपिषि श्रावणे मासि श्रीधरोऽसि जगत्पते ! ॥
श्रावणे श्रीधरो देवः श्रीवत्सः श्रोनिकेतनः ।
प्रीयतां हि श्रियः कान्तो गतिमिष्टां ददातु मे
गवां दशसहस्रेण पात्रदत्तेन यत् फलम् ।
सकलं लभते मर्त्यो भक्तियुक्तो न संशयः ।
स्वर्गेषु विपुलान् भोगान् भुनक्ति सुरराडिव ॥ * ॥
तेनैव विधिना राजन् मासे भाद्रपदे ततः ।
समुपोष्य ततो भक्त्या हृषीकेशं प्रपूजयेत् ॥
मुक्ताधेनुमथो दद्यात् यथाविभवविस्तरात् ।
हृशीकाणीन्द्रियाण्याहुस्तेषामीशो जगत्पतिः ॥
करोति कर्त्तृभूतोऽसौ हृषीकेशो भतानतः ।
देवदेवं हृषीकेशं भूतेषु प्रभवाव्ययम् ॥
प्रीणयामि सुसंप्रीतो मम पापं व्यपोहतु ।
एवं प्रदक्षिणं कृत्वा विष्णुलोके महीयते ॥ * ॥
द्वादश्यां समुपोष्यैव पद्मनाभं तथाश्विने !
पूजयेद्विधिवद्भक्त्या गन्धधूपविलेपनैः ।
गन्धधेनुं ततो दद्यात् कर्पूरागुरुचन्दनैः ।
कुङ्कुमेन हि राजेन्द्र वित्तशाठ्यं विवर्ज्जयेत् ॥
एकार्णवगते तोये स्वपतो यस्य वेधसः ।
निवासाय भवन्नाभ्यां पद्मनाभोऽसि इत्युत ॥
प्रीयतां पद्मनाभो मे दुस्कृतं चोपशाम्यतु ।
इत्युक्त्वा तं समभ्यर्च्च्य दद्यात् धेनुं द्विजायते ॥
इत्येवं क्षपमाणस्य तस्य पुण्यमतः शृणु ।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
दग्ध्वा तत् सकलं भूप विष्णुलोकं स गच्छति ॥ * ॥
कार्त्तिकस्य तु मासस्य एकादश्यामुपोषितः ।
प्रसुप्तं बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः ॥
नृत्यैर्गीतैस्तथा वाद्यैरृग्यजुःसाममङ्गलैः ।
बीणापणवशब्दैश्च पुराणश्रवणेन च ॥
वासुदेवकथाभिश्च स्तोत्रैरन्यैश्च वाहवैः ।
सुभाषितैरिन्द्रजालैर्भूमिशोभाभिरेव च ॥
पुष्पैर्धूपैश्च नैवेद्यैर्दीपवृक्षंश्च शोभनैः ।
होमैर्भक्ष्यैरपूपैश्च फलैः शाकैश्च पायसैः ।
इक्षोर्विकारैर्मधुना द्राक्षाखोडैः सदाडिमैः ।
कुठेरकस्य मञ्जर्य्या सर्ज्जिकालवणेन च ॥
हृद्याभ्यां श्वेतरक्ताभ्यां चन्दनाभ्याञ्च सर्व्वदा ।
कुङ्कु मालक्तकाभ्याञ्च रक्तसूत्रैः सकङ्कणैः ॥
तथा नानाविधैः पुष्पैर्द्रव्यैर्वीचिक्रियाघनैः ।
तस्याम् रात्र्यां व्यतीतायां द्वादश्यामरुणोदये ।
स्नात्वा नदीजलैः पुण्यैः प्रतिमां स्नापयेत्ततः ॥
उत्थितां त्वपरै रम्यां ताम्रां रौप्यां सुवर्णजाम् ।
वैष्णवी प्रतिमा यत्र चित्रे सुप्ता क्कचित् भवेत् ।
तत्र स्नानादिपूजा च वेद्यां कार्य्या च विष्णवे ॥
आदौ घृतेन तैलेन मधुना तदनन्तरम् ।
दध्ना क्षीरेण च ततः पञ्चगव्येन शास्त्रवित् ॥
उद्वर्त्तनं माषचूर्णं मसूरामलकानि च ।
रौध्रं कालीयकञ्चैव नागरं वर्णकं तथा ॥
सर्षपाश्च प्रियङ्गुश्च मातुलुङ्गरसैस्तथा ।
सर्व्वौषध्यः सर्व्वगन्धाः सर्व्वबीजानि काञ्चनम् ॥
माङ्गल्यानि यथालाभं रत्नानि च कुशोदकम् ।
हस्तिदन्तोद्धृता मृच्च वृषशृङ्गोद्धृता तथा ॥
नदीतोराद्गवां स्थानात् वल्मीकात् सङ्गमात्
ह्रदात् ।
द्वन्द्वस्थानाच्च सरसस्तथा पर्व्वतमस्तकात् ॥
एताभिः स्नाप्य देवेश दद्यात् गोरोचनां शुभाम्
ततस्तु कलसा देया यथाप्राप्तं स्वलङ्कृताः ॥
पृष्ठ ५/३७३
जातीपल्लवसंयुक्ताः सफलाश्च सकाञ्चनाः ।
पुण्याहवेदशब्देन वीणावेणुरवेण च ॥
शब्देन मधुरेणैव सूतमागघवन्दिनाम् ।
एवं संस्थाप्य गोविन्दं स्वनुलिप्तं स्वलङ्कृतम् ॥
सुवासं पूजयेत्तन्तु सुमनोभिश्च कुङ्कुमैः ।
दीपैर्धूपैर्मनोज्ञैश्च पायसेन तु भूरिणा ॥
नानारत्नप्रदानैश्च होमैः पुण्यैः सदक्षिणैः ।
वासोभिर्भूषणैर्हृद्यैर्गीभिरश्वैर्गजैरपि ॥
ब्राह्मणाः पूजनीयाश्च विष्णोराद्याः सुमूर्त्तयः ।
विष्णो रात्रौ प्रसुप्तस्य दामोदरगतं यतः ॥
ब्रह्माण्डस्य च तेनासि दामोदर इति स्मृतः ।
दामोदर इमां धेनुं गृह्णातु स्वयमेव हि ॥
द्विजरूपेण ते विष्णो प्रकृत्येषा सनातनी ।
इत्येवं पृथिवीदानात् फलं प्राप्नोति मानवः ॥
सुवर्णस्य महाधेनुं दत्त्वा नृपवरोत्तमः ।
हत्वा पापान्यशेषाणि शतजन्मान्तराणि वै ॥
वैष्णवं लोकमाप्नोति यावदिन्द्राश्चतुर्द्दश ।
सम्यगत्र व्रते चीर्णे सप्तजन्मानुगं फलम् ॥
ददाति भगवान् विष्णुः कामान् मोक्षं नरेश्वर ।
ब्राह्मणान् भोजयेद्भक्त्या भक्षैरुच्चावचैरपि ॥
ततः प्रदक्षिणं कृत्वा यथाशक्त्या च दक्षिणाम् ।
कलसान् द्वादशैवैवं ब्राह्मणेभ्यः प्रदापयेत् ॥
वस्त्रेणावेष्टितग्रीवान् हेमगर्भोपशोभितान् ।
दधिक्षीरयुतांश्चै व सगुडान् नृप भूरिशः ।
शक्तिर्यथा तथा दद्यात् भक्तिरेवात्र कारणम् ॥
प्रसङ्गेनापि यो राजन् सुनामद्वादशीं नरः ।
करोति पुण्यभागी स यथा दैत्योद्भवो बलिः ॥
एवं यः कुरुते राजन् सुनामद्वादशीं नरः ।
राजसूयस्य यज्ञस्य फलं समधिकं भवेत् ॥
सर्व्वदानेषु यत् पुण्यं यच्च पुण्यं तपोवने ।
सर्व्वतीर्थेषु यत् पुण्यं तत् पुण्यं समुदाहृतम् ॥
गावो द्वादश दातव्या वस्त्रयुग्मानि काञ्चनम् ।
अलाभे चैव गामेकां पात्रं वा स्वर्णसंयुतम् ॥
मासे मासेऽथवाप्येवं चञ्चलं जीवितं यतः ।
बहुविघ्ना हि धर्म्मस्य कर्त्तुश्छिद्रं न जायते ॥
एतज्ज्ञात्वा सुमेधावी न तत्र ग्लपयेन्मनः ।
न तस्य वित्तलाभोऽस्ति भक्तिग्राह्यो हि केशवः ॥
अनेन विधिना यस्तु द्वादशीं प्रतिवत्सरम् ।
कृत्वा नरः परं याति विष्णुलोकमनामयम् ॥
सुनामद्वादशी चैव व्रतानामुत्तमा नृप ।
आद्या नरैस्तु कर्त्तव्या तोषयद्भिर्जनार्द्दनम् ॥
यश्चैनां कीत्तयेत् पुण्यां शृणुयात् द्वादशीं नरः ॥
तावुभौ गच्छतः स्वर्गं कर्त्ता विष्णुपुरं व्रजेत् ॥”
इति वह्रिपुराणे सुनामद्वादशीनामाध्यायः ॥

सुनारः, पुं, (सुष्ठु नालमस्य । लस्य रः ।)

शुनीस्तन्यम् । सर्पाण्डः । कलविङ्कः । इति
मेदिन्मे ॥

सुनालकः, पुं, (सुष्ठु नालमस्य । कप् ।) वक-

पुष्पवृक्षः । इति शब्दचन्द्रिका ॥ सुन्दरनाल-
युक्ते, त्रि ॥

सुनासिका, स्त्री, (सुष्ठु नासिका यस्याः ।)

काकनासा । इति राजनिर्घण्टः ॥ (शोभना
नासिका ।) शोभननासा । तद्युक्ते, त्रि ॥
(यथा, भागवते । ४ । २४ । ४६ ।
“पद्मकोषपलाशाक्षं सुन्दरभ्रु सुनासिकम् ॥”)

सुनासीरः, पुं, (सुष्ठु नासीरं अग्रगामिसैन्यं

यस्य ।) इन्द्रः । इत्यमरः । १ । १ । ४४ ॥ (देवः ।
यथा, भागवते । ४ । ७ । ७ ।
“ततो मीड्वांसमामन्त्र्य सुनासीराः सहर्षिभिः ।
भूयस्तद्देवयजनं समीढ्वद्वे धसो ययुः ॥”)
सुनाशीरश्च ॥

सुनिर्यासा, स्त्रीं, (शोभनो निर्य्यासो यस्याः ।)

जिङ्गिनीवृक्षः । इति भावप्रकाशः ॥

सुनिश्चितः, पुं, (सुष्ठु निश्चितं निश्चयो यस्य ।)

बुद्धविशेषः । इति त्रिकाण्डशेषः ॥

सुनिश्चितः, त्रि, (सुष्ठु निश्चितः ।) सुन्दरनिश्चय-

विषयीभूतः । इति हलायुधः ॥

सुनिषण्णं, क्ली, (सुष्ठु निषण्णं निद्रा यस्मात् ।)

सुनिषण्णकशाकम् । इति त्रिकाण्डशेषः ॥
(यथा, सुश्रुते । ६ । ४५ ।
“पटोलशेलूसुनिषण्णयूथिका
वटातिमुक्ताङ्कु रमिन्द्रवारजम् ।
हितञ्च शाकं घृतसंस्कृतं सदा
तथैव धात्रीफलदाडिमान्वितम् ॥”
क्वचित् पुंलिङ्गेऽपि दृश्यते । यथा, --
सुनिषण्णो हिमो ग्राहो मोहदोषत्रयापहः ।
अविदाही लघुः स्वादुः कषायो रूक्षदीपनः ।
वृष्यो रुच्यो ज्वरश्वासमेहकुष्ठभ्रमप्रणुत् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुनिषण्णकं, क्ली, पुं, (सुनिषण्णमेव । स्वार्थे कन् ।)

शाकविशेषः । सुषुणी इतिभाषा । तत्पर्य्यायः ।
वितुन्नम् २ । इत्यमरः । २ । ४ । १४९ ॥ सुनि-
षणम् ३ चुचूः ४ । इति त्रिकाण्डशेषः ॥ (यथा,
“शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः ।
श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी ॥
चाङ्गेरीसदृशं पत्रं चतुर्द्दल इतीरितः ।
शाको जलान्विते देशे चतुःपत्रीति चोच्यते ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
अस्य गुणाः । यथा, --
“अविदाही त्रिदोषघ्नः संग्राही सुनिषण्णकः ।”
इति राजवल्लभः ॥
अन्यत् सितावरशब्दे द्रष्टव्यम् ॥

सुनिष्टप्तः, त्रि, अत्यत्तप्तः । सुपूर्व्वनिर्पूर्व्वतप-

धातोः क्तप्रत्ययेन निष्पन्नः ॥

सुनीतिः, स्त्री, (शोभना नीतिः ।) शोभनतनयः ।

ध्रुवमाता । इति मेदिनी ॥ सा तुउत्तानपादस्य
राज्ञोऽप्रेयसी पत्नी । यथा, भागवते । ४ । ८ । ८ ।
“जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।
सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ॥”)
शोभननीतिविशिष्टे, त्रि ॥

सुनीथः, त्रि, (सुष्ठु नयति धर्म्ममिति । सु + नी

+ “हनिकुषिनीरमिकाशिभ्यः कथन् ।” उणा०
२ । २ । इति क्थन् ।) धर्म्मशीलकः । इत्यु-
णादिकोषः ॥ पुं, ब्राह्मणः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥ (चन्द्रवंशीयालर्कराजपौत्त्रः ।
यथा, भागवते । ९ । १७ । ८ ।
“अलर्कात् सन्ततिस्तस्मात् मुनीथोऽथ निके-
तनः ॥”)

सुनीलं, क्ली, सुष्ठु नीलम् ।) लामज्जकम् । इति

राजनिर्घण्टः ॥

सुनीलः, पुं, (अतिशयो नीलः ।) दाडिमः । इति

राजनिर्घण्टः ॥ सुन्दरनीलवणश्च ॥

सुनीलकः, पुं, (सुनील एव । स्वार्थे कन् ।) नील-

भृङ्गराजः । नीलासनः । नीलरत्नम् । इति
राजनिर्घण्टः ॥

सुनीला, स्त्री, (अतिशयनीला) अतसी ।

विष्णुक्रान्ता । जरतीतृणम् । इति राजनिर्घण्टः ॥

सुनु, [नौ] क्ली, जलम् । शोभना नौर्यत्र तत् सुनु

जलम् । इति मुग्धबोधटीकायां दुर्गादासः ॥

सुनौः, त्रि, शोभननौकाविशिष्टः । शोभना नौर्यत्र

यस्य वा इति बहुव्रीहिसमासनिष्पन्नः । शोभन-
नौकायाम्, स्त्री ॥

सुन्दः, पु, वानरविशेषः । यथा, --

“जाम्बुवान् ऋषभः सुन्दो वम्भः शतवलिः
पृथुः ।
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्व्वतः ॥”
इति वाल्मीकीये रामायणे युद्धकाण्डे ४७ सर्गः ॥
राक्षसविशेषः । यथा, --
“अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ।
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्त्रकम् ॥”
इति रामायणे बालकाण्डे २० सर्गः ॥
(संह्रादपुत्त्रः । यथा, हरिवंशे । ३ । ७२ ।
“संह्रादपुत्त्रौ सुन्दश्च निसुन्दश्चैव तावुभौ ॥”
विष्णुः । इति महाभारतम् । १३ । १४९ । ९८ ॥)

सुन्दरं, त्रि, (सुष्ठ उनत्ति आर्द्रीकरोति चित्त-

मिति । सु + उन्द क्लेदने + अरः । शकन्ध्वा-
दित्वात् साधुः ।) मनोहरम् । तत्पर्य्यायः ॥
रुचिरम् २ चारु ३ सुषमम् ४ साधु ५ शोभ-
नम् ६ कान्तम् ७ मनोरमम् ८ रुच्यम् ९
मनोज्ञम् १० मञ्जु ११ मञ्जुलम् १२ । इत्य-
मरः । ३ । १ । ५१ ॥ मनोहारि १३ सौम्यम्
१४ भद्रकम् १५ रमणीयम् १६ रामणीयकम्
१७ । इति तट्टीका ॥ बन्धूरम् १८ बन्धुरम् १९
पेशलम् २० पेसलम् २१ वामम् २२ रामम् २३
अभिरामम् २४ नन्दितम् २५ सुमनम् २६ ॥
इति शब्दरत्नावली ॥ वल्गु २७ हारि २८
स्वरूपम् २९ अभिरूपम् ३० दिव्यम् ३१ । इति
जटाधरः ॥

सुन्दरः, पुं, (सु + उन्द + अरः ।) कामदेवः ॥

इति केचित् ॥ वृक्षविशेषः । सुँद्री इति
भाषा ॥ यथा, --
“जम्बुवव्वोलखदिरसिन्धुवाराश्च सुन्दरः ।
एषामन्यतमाङ्गारं निर्म्मलाम्बुनि भावयेत् ॥”
इति सुखबोधः ।

सुन्दरी, स्त्री, (सुन्दर + गौरादित्वात् ङीष् ।)

नारीभेदः । इत्यमरः । २ । ६ । ४ ॥ सुष्ठु उनत्ति
पृष्ठ ५/३७४
आर्द्रयति मनः इति सुन्दरी । उन्द धी क्लेदे
सुपूर्व्वः नाम्नीति अरः निपातनादुल्लोपः नदा-
दित्वादीप् । रूपलावण्यसम्पन्ना सुन्दरी । इति
तट्टीकायां भरतः ॥ तरुभेदः । इति मेदिनी ॥
हरिद्रा । इति शब्दचन्द्रिका ॥ त्रिपुरसुन्दरी ।
यथा, --
“अङ्गुष्ठानामिकायोगात् वामहस्तस्य पार्व्वति ।
तर्पयेत् सुन्दरीं देवीं समुद्राञ्च सवाहनाम् ॥”
इति तन्त्रसारे श्रीविद्याप्रकरणम् ॥
योगिनीविशेषः । यथा, --
“तावन्मन्त्रं जपेद्विद्वान् यावदायाति सुन्दरी ।
ज्ञात्वा दृढं साधकेन्द्रं निशीथे याति निश्चितम् ॥”
इति तत्रैव योगिनीसाधनप्रकरणम् ॥

सुन्भ, द्युतौ । हिंसे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-हिंसे सक०-सेट् ।) सुम्भते ।
इति दुर्गादासः ॥

सुन्वन्, [त्] त्रि, यज्ञकर्त्ता । “सुञो यज्ञसंयोगे ।”

३ । २ । १३२ । इति सुनोतेः शतृप्रत्ययः ॥
सर्व्वे सुन्वन्तः । सर्व्वे यजमानाः सत्रिणः । इति
सिद्धान्तकौमुदी ॥
सुपक्कः, पुं, (सु + पच् + क्तः ।) सुगन्ध्याम्रः ।
इति शब्दचन्द्रिका ॥ शोभनपरिणते, त्रि ॥
(यथा, भागवते । १ । ८ । ४० ।
“इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षिताः ॥”)

सुपत्रं, क्ली, (शोभनं पत्रमस्य ।) तेजपत्रम् ।

इति शब्दचन्द्रिका ॥

सुपत्रः, पुं, (शोभनं पत्रमस्येति ।) आदित्यपत्रः ।

पल्लिवाहतृणम् । इति राजनिर्घण्टः ॥

सुपत्रकः, पुं, (शोभनं पत्रमस्य । कप् ।) शिग्रुः ।

इति राजनिर्घण्टः ॥ (शिग्रुशब्देऽस्य विशेषो
ज्ञातव्यः ॥)

सुपत्रा, स्त्री, (शोभनं पत्रमस्याः ।) रुद्रजटा ।

शतावरी । पालक्यम् । शमी । शालपर्णी ।
इति राजनिर्घण्टः ॥

सुपत्रिका, स्त्री, जतुका । इति राजनिर्घण्टः ॥

सुपथः, पुं, (सु शोभनः पन्थाः । अः समासे ।)

सन्मार्गः । यथा, --
“सत्पथस्त्वतिपन्थाश्च सुपन्थाः सुपथोऽपि च ।”
इति शब्दरत्नावली ॥
(यथा, कथासरित्सागरे । २० । १९२ ।
“विषयाकृष्यमाणा हि तिष्ठन्ति सुपथेकथम् ॥”
शोभनपथयुक्ते, त्रि ॥

सुपथ्या, स्त्री, (सुष्ठु पथ्यं यस्याः ।) श्वेतचिल्ली ।

इति राजनिघण्टः ॥ सत्खाद्ये, त्रि ॥

सुपन्थाः, पुं, (शोभनः पन्थाः ।) सत्पथः । इति

शब्दरत्नावली ॥

सुपद्मः, पुं, पद्मनाभदत्त-कृतव्याकरणविशेषः ।

यथा, --
“धैर्य्यावधेयं धीराः श्रीपद्मनाभनिवेदितम् ।
उक्तो व्याकरणादर्शः सुपद्मस्तस्य पञ्जिका ॥
ततो हि बालबोधाय प्रयोगाणाञ्च दीपिका ।
उणादिवृत्ती रचिता च धातुकौमुदी ॥”
इति तदीयपरिभाषावृत्तिः ॥
(पुं, क्ली, । शोभनं पद्मम् ।) शोभनपद्मञ्च ।
शोभनपद्मविशिष्टे, त्रि ॥

सुपद्मा, स्त्री, वचा । इति शब्दचन्द्रिका ॥

सुपर्णः, पुं, (सुष्ठु पर्णं पक्षो यस्य ।) गरुडः ।

इत्यमरः । १ । १ । ३१ ॥ (यथा, रघुः ! १० । ६१ ।
“उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥”)
स्वर्णचूडपक्षी । कृतमालकवृक्षः । इति मेदिनी
(पक्षिमात्रम् । यथा, मनुः । १ । ३७ ।
“नागान् सर्पान् सुपर्णांश्च पितॄऋणाञ्च पृथग्-
गणान् ॥”
विष्णुः । इति महाभारतम् । १३ । १४९ ।
३४ ॥) शोभनपर्णविशिष्टे, त्रि ॥

सुपर्णकः, पुं, (सु शोभनानि पर्णानि यस्य । कन् ।)

आरग्वधवृक्षः । इति रत्नमाला ॥ सप्तच्छद-
वृक्षः । इति जटाधरः ॥ गरुडः । इति हेम-
चन्द्रः ॥

सुपर्णकेतुः, पुं, (सुपर्णः केतौ यस्य ।) विष्णुः ।

इति हलायुधः

सुपर्णा, स्त्री, (सु शोभनानि पर्णानि पत्राणि

यस्याः ।) पद्मिनी । इति शब्दमाला

सुपर्णास्यः, पुं, (सुपर्ण इति आख्या यस्य ।)

नागकेशरः । इति त्रिकाण्डशेषः ॥ (अस्य
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“दीपः सर्पः सुपर्णाख्यश्चाम्पे यो नागकेशरः ॥”)

सुपर्णिका, स्त्री, (शोभनानि पर्णानि यस्याः ।

कप् । टापि अत इत्वम् ।) स्वर्णजीवन्ती ।
पलाशी । शालपर्णी । रेष्णुका । वाकुची । इति
राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, --
“अवल्गुजो वाकुची स्यात् सोमराजी सुपर्णिका
शशिलेखा कृष्णफला सोमा पूतिफलीति च ।
सोमवल्ली कालमेधी कुष्ठघ्नी च प्रकीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुपर्णी, स्त्री, (सुष्ठु पर्णान्यस्याः । गौरादित्वात्

ङीष् ।) कमलिनी । गरुडमाता । इति
मेदिनी ॥ (पक्षिणीमात्रे च । यथा, महाभारते ।
३ । २२४ । १० ।
“सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्”)

सुपर्णीतनयः, पुं, (सुपर्ण्यास्तनयः ।) गरुडः ।

इति हलायुधः ॥

सुपर्व्वा, [न्] पुं, (सुष्ठु पर्व्व यस्य ।) देवताः ।

इत्यमरः । १ । १ । ७ ॥ बाणः । वंशः । पर्व्व ।
धूमः । इति मेदिनी ॥

सुपर्व्वा, स्त्री, (शोभनं पर्व्व यस्याः ।) श्वेतदूर्व्वा

इति राजनिर्घण्टः ॥ सुन्दरपर्व्वविशिष्टा च ॥
सुपाक्यं, क्ली, (सुपाकाय हितम् । सुपाक + यत् ।
विड्लवणम् । इति राजनिर्घण्टः ॥

सुपात्रं, क्ली, (सुष्ठु पात्रम् ।) योग्यव्यक्तिः ।

(यथा, भागवते । ७ । १४ । ४१ ।
“पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।
तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥”)
तत्र दानविधिर्यथा, --
“तस्मात्मर्व्वात्मना पात्रे दद्यात्कनकदक्षिणाम्
इति ।
सर्व्वेषामेव पात्राणां परं पात्रं महेश्वरः ।
पतन्तं त्रायते यस्मादतीव नरकार्णवादिति ॥
पात्र्याण्याध्यात्मिका मुख्या विशुद्धाश्चाग्नि-
होत्रिणः ।
देवताश्च तथा मुख्या गोदानं ह्येतदुत्तममिति ॥
सर्व्वत्र गुणवद्दानं श्वपाकादिष्वपि स्मृ तम् ।
देशे काले विधानेन पात्रे दत्तं विशेषतः ॥”
पात्रे विद्यातपस्यादिगुणयुक्ते । इति च प्राय-
श्चित्ततत्त्वम् ॥ अपि च ।
“तस्मात् सर्व्वात्मना पात्रे दद्यात् कनकमुत्तमम् ।
अपात्रे पातयेद्दत्तं सुवर्णं नरकार्णवे ॥”
इति शुद्धितत्त्वम् ॥ * ॥
शोभनभाजनम् । शोभनञ्च तत्पात्रञ्चेति कर्म्म-
धारयसमासनिष्पन्नम् । उत्तमपात्रयुक्ते, त्रि ॥

सुपानः, त्रि, (सुखेन पीयते इति । सु + पा +

“आतो युच् ।” ३ । ३ । १२८ । इति युच् ।)
पानयोम्यः । सुखेन पीयतेऽसौ । आतोऽनोऽद-
रिद्र इत्यनेन कर्म्मणि अनप्रत्ययेन निष्पन्नः ।
इति मुग्धबोधव्याकरणम् ॥

सुपार्श्वः, पुं, (सुष्ठु पार्श्वोऽस्य ।) चतुर्व्विंशति-

वृत्तार्हदन्तर्गतवृत्तार्हद्विशेषः । इति हेमचन्द्रः ॥
प्लक्षवृक्षः । इति राजनिर्घण्टः ॥ पक्षिविशेषः ।
स तु सम्पातिपुत्त्रः । यथा, --
“निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ।”
इत्युपक्रम्य ।
“क्व सीता केन वा दृष्टा को वा हरति
मैथिलीम् ।
तदाख्यातु भवान् सर्व्वं गतिर्भव वनौकसाम् ॥
सहरीन् प्रतिसंमुक्तान् सीताश्रुतिसमाहितान्
पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ॥
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते ।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥
तं मामेवं गतः पुत्त्रः सुपार्श्वो नाम नामतः ।
आहारेण यथाकालं विभर्त्ति पततां वरः ॥”
इति बाल्मीकीये रामायणे किष्किन्धाकाण्डे
५९ सर्गः ॥ (पीठस्थानविशेषः । यथा, देवी-
भागवते । ७ । ३० । ६६ ।
“नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥”
इलावृतवर्षस्य पर्व्वतविशेषः । यथा, विष्णु-
पुराणे । २ । २ । १७
“विपुलः पश्चिमे पार्श्वेसुपार्श्वश्चोत्तरे स्मृतः ॥)

सुपार्श्वकः, पुं, (सुष्ठु पार्श्वो यस्य । कन् ।)

चतुर्व्विंशतिभाव्यर्हदन्तर्गतार्हद्विशेषः । इति
हेमचन्द्रः ॥ गर्द्दभाण्डवृक्षः । इत्यमरः । २ ।
४ । ४३ ॥ (अथ पिष्पलभेदः । गजहुण्डसहीरा
इति लोके ।
“पारोषोऽन्यः पलाशश्च कपिचूतः कमण्डलुः ।
गर्द्दभाण्डष्कन्दरालः कपोतनः सुपार्श्वकः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
पृष्ठ ५/३७५

सुपिङ्गला, स्त्री, (सुष्ठु पिङ्गला ।) जीवन्ती ।

ज्योतिष्मती । इति राजनिर्घण्टः ॥

सुपीडन, क्ली, (सु + पीड + ल्युट् ।) सुष्ठु-

मर्द्दनम् इति केचित् ॥ गाचापा इति
भाषा ॥

सुपीतं, क्ली, (सु + पा + क्तः ।) गर्ज्जरम् । इति

राजनिर्घण्टः ॥

सुपीवा, [न्] त्रि, (सुष्ठु पिबतीति । सु + पा +

“आतो मनिन्क्वनिप्वनिपश्च ।” ३ । २ । ७४ ।
इति क्वनिप् ।) शोभनपानकर्त्ता । इति मुग्ध-
बोधटीकायां दुर्गादासः ॥

सुपुटः, पुं, (सुष्ठ पुटमस्य ।) कोलकन्दः । विष्णु-

कन्दः । इति राजनिर्घण्टः ॥

सुपुत्त्रिका, स्त्री, (शोभना पुत्त्रिकेव ।) जतुका ।

इति राजनिर्घण्टः ॥

सुपुष्करा, स्त्री, स्थलपद्मिनी । इति राजनिर्घण्टः ॥

सुपुष्पं, स्त्री, (शोभनं पुष्पमस्य ।) लवङ्गम् । इति

शब्दचन्द्रिका ॥ आहुल्यम् । प्रपौण्डरीकम् ।
तूलम् । इति राजनिर्घण्टः ॥ स्त्रीणां रजः ।
यथा, --
“सुपुष्पै राकीर्णं कुसुमधनुषो मन्दिरमहो
पुरो ध्यायन् ध्यायन् यदि जपति भक्तस्तव
मनुम् ।”
इति तन्त्रसारः ॥

सुपुष्पः, पुं, (शोभनानि पुष्पाणि यस्य ।) रक्त-

पुष्पकः । इति शब्दचन्द्रिका ॥ पालितामादार
इति भाषा ॥ शिरीषः । हरिद्रुः । राजतरुणी ।
इति राजनिर्घण्टः ॥

सुपुष्पिका, स्त्री, (शोभनानि पुष्पाणि यस्याः ।

ङीष् । ततः कन् ।) पाटला । इति राज-
निर्घण्टः ॥ (गुणादयोऽस्याः पाटलाशब्दे
ज्ञातव्याः ॥)

सुपुष्पी, स्त्री, (सुष्ठु पुष्पं यस्याः । ङीष् ।) श्वेता-

पराजिता । जीणफञ्जी । शतपुष्पी । मिश्रेया ।
द्रोणपुष्पी । इति राजनिर्घण्टः ॥ कदली ।
इति शब्दचन्द्रिका ॥

सुपूरः, पुं, बीजपूरः । इति राजनिर्घण्टः ॥

सुपूरकः, पुं, (सुष्ठु पूरयतीति । पूर + ण्वुल् ।)

वकपुष्पवृक्षः । इति रत्नमाला ॥

सुप्, क्ली, लिङ्गोत्तरप्रयुज्यमानप्रत्ययविशेषः । स तु

सप्तमीविभक्तेर्ब्बहुवचनम् । इति मुग्धबोधव्याक-
रणम् ॥ सुपद्मादिव्याकरणमते एकविंशति-
विभक्तीनां संज्ञा ॥ (यथा, “सुप्तिङन्तचयो
वाक्यम् ।” इति व्याकरणटीकायां वाक्य-
लक्षणम् ॥

सुप्तं, क्ली, (स्वप् + क्तः ।) सुषुप्तिः । तत्पर्य्यायः ।

साधिका २ । इति हेमचन्द्रः ॥

सुप्तः, त्रि, (स्वप् + क्तः ।) निद्रितः । तत्पर्य्यायः ।

निद्राणः २ शयितः ३ । इति हेमचन्द्रः ॥ तस्य
बोधने विधिनिषेधौ यथा, --
“क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः ।
भाण्डारी च प्रवासी च सप्त सुप्तान् प्रबोधयेत् ॥
मक्षिका भ्रमरी सर्पो राजा वै बालकस्तथा ।
परश्वापि च मूर्खश्च सप्त सुप्तान्न बोधयेत् ॥”
(स्वकार्य्याक्षमः । यथा, --
“त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते
आतन्यते सरागा च पर्व्वरुक्त्वग्गतेऽनिले ॥”
इति माधवकरसंगृहीतरुग्विनिश्चये वात-
व्याध्यधिकारे । ६ ॥)

सुप्तघातकः, त्रि, (सुप्तमपि हन्तीति । हन +

ण्वुल् ।) हिंस्रः । तत्पर्य्यायः । दशेरः २ । इति
त्रिकाण्डशेषः ॥

सुप्तजनः, पुं, (सुप्ता जना यत्र ।) अर्द्धरात्रः ।

इति जटाधरः ॥ (सुप्तो जनः ।) निद्रितलोकश्च ॥

सुप्तज्ञानं, क्ली, (सुप्ते निद्रावस्थायां ज्ञानम् ।)

स्वप्नः । इति जटाधरः ॥

सुप्तविज्ञानं, क्ली, (सुप्ते निद्रावस्थायां विज्ञा-

नम् ।) स्वप्नः । इति जटाधरः ॥

सुप्तिः, स्त्री, (स्वप् + क्तिन् । स्पर्शता । निद्रा ।

(यथा, भागवते । ४ । २९ । ७१ ।
“सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः ।
नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥”)
विश्रम्भः । शयनम् । इति मेदिनी ॥

सुप्रतिभा, स्त्री, (सुष्ठु प्रतिभा यस्याः ।) मदिरा ।

इति राजनिर्घण्टः ॥

सुप्रतिष्ठा, स्त्री, (सुष्ठु प्रतिष्ठा यस्याः ।) पञ्चा-

क्षरावृत्तिच्छन्दः । स तु द्विविधः । पङ्क्तिः ।
प्रिया च यथा, --
“उक्थात्युक्था तथा मध्या प्रतिष्ठा सा
सुपूर्व्विका ।
गायत्त्री च ततश्चोष्णिगनुष्टुप् बृहती तथा ॥”
पङ्क्तेरुदाहरणं तच्छब्दे द्रष्टव्यम् । प्रियाया
यथा । स-ल-गैः प्रिया ।
“व्रजसुभ्रुवो विलसत्कलाः ।
अभवन् प्रिया सुरवैरिणः ॥”
इति छन्दोमञ्चरी ॥
(शोभना प्रतिष्ठा ।) सुन्दरप्रशंसा च ।
(शोभनप्रतिष्ठाविशिष्टे, त्रि । यथा, महा-
भारते । ३ । ६४ । ६४ ।
“सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ।
वर्च्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना ।
सा विवेशाश्रमपदं वीरसेनसुतप्रिया ॥”)

सुप्रतिष्ठितः, पुं, (सुष्ठु, प्रतिष्ठितः ।) उडुम्बरवृक्षः ।

इति राजनिर्घण्टः ॥ सुन्दरप्रतिष्ठायुक्ते, त्रि ॥
(यथा, महाभारते । २ । ५८ । ४ ।
“अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः ॥”
तथाच ।
“अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥”
इत्युद्भटः ॥)

सुप्रतीकः, पुं, (शोभनाः प्रतीका अङ्गानि यस्य ।

ईशानदिग्गजः । इत्यमरः । १ । ३ । ४ ॥
(यथा, रघुः । ५ ७५ ।
“मदपटुनिनदद्भिर्बोधितो राजहंसैः
सुरगज इव गाङ्गं सैकतं सुप्रतीकः ॥”)
शिवः । कामदेवः । इति केचित् ॥ (साधुः ।
इति श्रीधरस्वामी ॥ यथा, भागवते । १० । ८ । ३१ ।
“एवं धार्ष्टान्यु शति कुरुते मेहनादीनि वास्ती
स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथास्ते ॥”
शोभनः प्रतीकः ।) शोभनाङ्गम् । तद्युक्ते, त्रि ॥
(यथा, भागवते । ५ । ३ । २ ।
“भगवान् भागवतवात्सल्यतया सुप्रतीक
आत्मानमपराजितं निजजनाभिप्रेतार्थविधि-
त्सया गृहीतहृदय इति ॥”)

सुप्रभः, पुं, (सुष्ठु प्रभा यस्य ।) शुक्लबलः । इति

हेमचन्द्रः ॥ सुन्दरप्रभायुक्ते, त्रि ॥ (यथा,
मार्कण्डेये । ९० । २७ ।
“ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवा-
करः ॥”)

सुप्रभा, स्त्री, (सुष्ठु प्रभा यस्याः ।) वाकुची । इति

राजनिर्घण्टः ॥ अग्निजिह्वाविशेषः । यथा, --
“सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ॥”
इति तन्त्रसारः ॥
शोभनदीप्तिश्च ॥

सुप्रभातं, क्ली, (सुष्ठुप्रभातम् ।) शुभसूचक-

प्रातःकालः । (यथा, भ्रमराष्टके । ८ ।
“रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पद्मजालम् ।
इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥”)
प्राभातिकपाठ्यमङ्गलवाक्यम् । यथा, --
सुकेशिरुवाच ।
“किं तदुक्तं सुप्रभातं शङ्करेण महात्मना ।
प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात् ॥
ऋषय ऊचुः ।
श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम् ।
श्रुत्वा स्मृत्वा पठित्वा च सर्व्वपापैः प्रमुच्यते ॥
ब्रह्मा मुरारिस्त्रिपुरान्तकारी
भानुः शशी मूमिसुतो बुधश्च ।
गुरुः सशुक्रः सह भानुजेन
कुव्वन्तु सर्व्वे मम सुप्रभातम् ॥
भृगुर्व्वशिष्ठः क्रतुरङ्गिराश्च
मनुः पुलस्त्यः पुलहः सगोतमः ।
रैभ्यो मरीचिश्च्यवनोऽमलोरुः
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
सनत्कुमारः सनकः सनन्दनः
सनातनोऽप्यासुरिपिङ्गलौ च ।
सप्तस्वरः सप्तरसातलाश्च
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
पृथ्वी सगन्धा सरसास्तथापः
सस्पर्शवायुर्ज्वलितञ्च तेजः ।
नभः सशब्दं महता सहैव
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
सप्तार्णवाः सप्त कुलाचलाश्च
सप्तर्षयो द्वीपवराश्च सप्त ।
भूरादि कृत्वा भुवनानि सप्त
कुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
पृष्ठ ५/३७६
इत्थं प्रभाते परमं पवित्रं
यः संस्मरेद्वा शृणुयाच्च भक्त्या ।
दुःस्वप्ननाशो ननु सुप्रभाते
भवेच्च सत्यं भगवत्प्रसादात् ॥”
इति वामनपुराणे १४ अध्यायः ॥

सुप्रभाता, स्त्री, नदीविशेषः । यथा । अरुणा

नृमणा आङ्गिरसी सावित्री सुप्रभाता ऋत-
म्भरा सत्यम्भरेति महानद्यः । इति श्रीभागवते
५ । २० । ४ ॥ शोभनप्रभातयुता रात्रिश्च ॥

सुप्रयुक्तः, त्रि, (सु + प्र + युज + क्तः ।) शोभन-

प्रयोगविशिष्टः । (यथा, साहित्यदर्पणे । १ परि-
च्छेदे ।
एकः शब्दः सुप्रयुक्तः सम्यक् ज्ञातः स्वर्गे लोके
च कामधुग् भवति ॥”)

सुप्रयुक्तशरः, पुं, (सुप्रयुक्तः शरो येन ।) कृत-

हस्तः । इति हेमचन्द्रः ॥

सुप्रयोगविशिखः, पुं, सुशिक्षितबाणमोक्षकः ।

साध्यसाधनक्षमत्वात् शोभनः प्रयोगो निक्षेपो
यस्य स सुप्रयोगः तादृशो विशिखो बाणो यस्य
स तथा । कृतहस्तः सुप्रयोगविशिखः कृत-
पुङ्खवत् । इत्यमरभरतौ । २ । ८ । ६८ ॥

सुप्रलम्भः, पुं, (सु + प्र + लभ + खल् । “उप-

सर्गात् खल्घञोः ।” ७ । १ । ६७ । इति नुम् ।)
सुखलभ्यः । इति सिद्धान्तकौमुदी ॥

सुप्रलापः, पुं, (सु + प्र + लप + घञ् ।) सुवचनम्

इत्यमरः । १ । ६ । ३८ ॥

सुप्रसन्नः, पुं, (सुष्ठु प्रसन्नः ।) कुबेरः । इति

शब्दमाला ॥ सुप्रसादयुक्ते, त्रि ॥ (यथा, मार्क-
ण्डेये । १०५ । ७ ।
“तथानुकम्पां पुत्त्राणां सुप्रसन्नो रवे मम ।
कुरु प्रसन्नार्त्ति हर स्थितिकर्त्ता त्वमुच्यते ॥”

सुप्रसन्नकः, पुं, (सुप्रसन्न + संज्ञायां कन् ।) कृष्णा-

र्जकः । इति राजनिर्घण्टः ॥

सुप्रसरा, स्त्री, (सुप्रसरतीति । सु + प्र + सृ +

अच् । टाप् ।) प्रसारिणी लता । इति राज-
निर्घण्टः ॥

सुप्रसादः, पुं, (सुष्ठु प्रसादो यस्य ।) शिवः । इति

त्रिकाण्डशेषः ॥ (विष्णुः । इति महाभारतम् ।
१३ । १४९ । ३९ ॥ सु + प्र + सद् + घञ् ।)
सुप्रसन्नता च । (प्रसन्नतायुक्ते, त्रि । यथा,
महाभारते । १२ । ५७ । ३१ ।
“क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः ॥”

सुप्रिया, क्ली, (सुष्ठु प्रिया ।) सुन्दरहृद्या ।

अस्याः प्रमाणं सुभगाशब्दे द्रष्टव्यम् ॥ (अप्सरो-
विशेषः । यथा, महाभारते । १ । १२३ । ६० ।
“असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा ॥”)
सुफलः, पुं, (सुष्ठु, फलं यस्य ।) कर्णिकारः ।
दाडिमः । वदरः । मुद्गः । इति राजनिर्घण्टः ॥
कपित्थः । इति शब्दचन्द्रिका ॥ शोभनफल-
युक्ते, त्रि । (यथा, मार्कण्डेये । १२० । १६ ।
“सुफलानि च शस्यानि रसवन्ति फलानि च ॥”
शोभनफले, क्ली ॥ * ॥ सुष्ठु फला यस्येति
विग्रहे शोभनफलाविशिष्टे, त्रि । यथा, महा-
भारते । ४ । ४० । १२ ।
“मुफलश्चित्रकोषश्च किङ्किणीशायको महान् ।
कस्य हेमत्सरुर्द्दिव्यः खङ्गः परमनिर्म्मलः ॥”)

सुफला, स्त्री, (सुष्ठु फलं यस्याः ।) इन्द्रवारुणी ।

कुष्माण्डी । काश्मरी । कदली । कपिलद्राक्षा
इति राजनिर्घण्टः ॥

सुफेनः, पुं, (सुष्ठु फेनः ।) समुद्रफेनः । इति

राजनिर्घण्टः ॥ (क्वचित् क्लीवलिङ्गोऽपि
दृश्यते ॥)

सुबन्धः, पुं, (सुष्ठु बन्धो यस्य ।) तिलः । इति

शब्दचन्द्रिका ॥

सुब्रह्मण्यः, पुं, कार्त्तिकेयः । इति केचित् ॥

सुब्रह्मवासुदेवः, पुं, ब्रह्मरूपवसुदेवसुतः । यथा,

“सुब्रह्मवासुदेवाय गोब्राह्मणहिताय च ।
शान्तिरस्तु शिवञ्चास्तु इत्युक्त्वा तान् विसर्ज्जयेत्
इति तिथ्यादितत्त्वे जन्माष्टमीप्रकरणम् ॥

सुभगः, पुं, (सुष्ठ भगं माहात्म्यं श्रीर्वा यस्य ।)

टङ्कणः । चम्पकः । रक्ताम्लानः । अशोकः ।
इति राजनिर्घण्टः ॥

सुभगः, त्रि, (सुष्ठु भगं श्रीर्यस्य ।) सुदृश्यः ।

तत्पर्य्यायः । चक्षुष्यः २ । इति हेमचन्द्रः ॥
(यथा, रघुः । ११ । ८० ।
“केवलोऽपि सुभगो नवाम्बुदः
किं पुनस्त्रिदशचापलाञ्छितः)”)
शोभनैश्वर्य्यादियुक्तश्च ॥

सुभगा, स्त्री, (सुष्ठु भगं यस्याः ।) कैवर्त्तो ।

शालपर्णो । हरिद्रा । नीलदूर्व्वा । तुलसी ।
प्रियङ्गुः । कस्तूरी । सुवर्णकदली । इति राज-
निर्घण्टः ॥ वनमल्ली । इति शब्दरत्नावली ॥
पतिप्रिया । यथा, माण्डव्यः ।
“मघा ऋक्षं परित्यज्य यदा सिंहे गुरुर्भवेत् ।
तत्राब्द कन्यका चोढा सुभगा सुप्रिया भवेत् ॥”
इति मलमासतत्त्वम् ॥

सुभगासुतः, पुं, (सुभगायाः सुतः ।) सौभागि-

नेयः । इत्यमरः । २ । ६ । २४ ॥

सुभङ्गः, पुं, (सुखेन भज्यते इति । सु + भञ्ज +

घञ् ।) नारिकेलवृक्षः । इति जटाधरः ॥

सुभद्रः, पुं, (सुष्ठु भद्रं यस्मात् ।) विष्णुः । इति

शब्दमाला ॥ राजभेदः । इति हेमचन्द्रः ॥
(पौवरीगर्भसम्भूतो वसुदेवस्य पुत्त्रविशेषः ।
यथा, भागवते । ९ । २४ । ४७ ।
“सुभद्रो भद्रबाहुश्च दुर्म्मदो भद्र एव च ।
पोवव्यास्तनयो ह्येते भूताद्या द्वादशाभवन् ॥)
शाभनमङ्गलयुक्ते, त्रि ॥ (यथा, महाभारते ।
१ । २३३ । १७ ।
“त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः ।
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः ॥”)

सुभद्रकः, पुं, (सुष्ठु भद्रमस्मात् । ततः कन् ।)

देवरथः । यथा, शब्दरत्नावल्याम् ।
“व्योमयानं दिव्यरथो विमानोऽस्त्री सुभद्रकः ॥
विल्ववृक्षः । इति शब्दचन्द्रिका ॥

सुभद्रा, स्त्री, (शोभनं भद्रमस्याः ।) श्यामालता ।

इति शब्दमाला ॥ (अस्याः पर्य्यायो यथा, --
“कालपेषी महाश्यामा सुभद्रोत्पलशारिवा ।
दीर्घमूला च पालिन्दी मसूरविदला च सा ॥”
इति वैद्यकरत्नमालायाम् ॥)
घृतमण्डा । इति शब्दचन्द्रिका ॥ काश्मरी ।
इति राजनिर्घण्टः ॥ श्रीकृष्णभगिनी । सा च
अर्ज्जुनभार्य्या । यथा, --
श्रीकृष्ण उवाच ।
“ममैषा भगिनी पार्थ सारणस्थ सहोदरा ।
सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता ।
यदि ते वर्त्तते बुद्धिर्व्वक्ष्यामि पितरं स्वयम् ॥
अर्ज्जुन उवाच ।
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा ।
रूपेण चैषा सम्पन्ना कमिवैषा न मोहयेत् ॥
निवृत्तश्चार्ज्जुनस्तत्र विवाहं कृतवान् प्रभुः ।
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमागतः ॥”
इति महाभारते आदिपर्व्वणि २२१ अध्यायः
(पीठस्थानस्थदेवीविशेषः । यथा, देवीभाग-
वते । ७ । ३० । ७५ ।
“उत्पलावर्त्तके लोला सुभद्रा शोणसङ्गमे ॥”)

सुभद्राणी, स्त्री, त्रायन्ती । इति रत्नमाला ॥

बहुला इति ख्याता ॥

सुभद्रेशः, पुं, (सुभद्राया ईशः ।) अर्ज्जुनः । इति

हेमचन्द्रः ॥

सुभाञ्जनः, पुं, (सु शोभनं अञ्जनं यस्मात् ।)

शोभाञ्जनवृक्षः । इति भरतद्विरूपकोषः ॥

सुभाषितः, पुं, (सुष्ठु भाषितं यस्य ।) बुद्धभेदः ।

यथा, --
“कोमाभो द्वादशास्यश्च वीतरागः सुभाषितः ॥”
इति त्रिकाण्डशेषः ॥
सुन्दरकथिते, त्रि ॥ (सुन्दरवाक्यविशिष्टे च
त्रि । यथा, महाभारते । ३ । ६० । ४ ।
“नलञ्च हृतसर्व्वस्वमुपलभ्येदमब्रवीत् ।
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् ।
हितां सर्व्वार्थकुशलामनुरक्तां सुभाषिताम् ॥ *
मुष्ठु भाषितम् । सुवाक्ये, क्ली, ॥ यथा, हितो-
पदेशे ।
“विषादप्यमृतं ग्राह्यममे ध्यादपि काञ्चनम् ।
नीचादप्युत्तमां विद्यां बालादपि सुभाषितम् ॥”

सुभिक्षः, त्रि, (सुखेन लभ्या भिक्षा यत्र ।) सुलभ-

भैक्षद्रव्यम् । सुलभभैक्षयुक्तकालादिश्च । यथा, --
“द्वाविमौ पुरुषौ लोके सूर्य्यमण्डलमेदिनौ ।
दातान्नस्य तु दुर्भिक्षे सुभिक्षे वस्त्रहेमदः ॥”
इति वह्निपुराणे आह्निकतपोनामाध्यायः ॥
किञ्च ।
“श्वेते क्षेमसुभिक्षं ब्राह्मणपीडांश्च निर्दिशे-
द्राहौ ॥”
इति तिथ्यादितत्त्वम् ॥

सुभिक्षा, स्त्री, (सुष्ठु भिक्ष्यतेऽसौ । सु + भिक्ष +

घञ् ।) धातृपुष्पिका । इत्यमरः । २ । ४ । १२४ ।
(अस्याः पर्य्यायो यथा, --
पृष्ठ ५/३७७
“धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा ।
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सुभीरकः, पुं, पलाशवृक्षः । इति हारावली ॥

सुभूः, त्रि, (शोभना भूरुत्पत्तिर्यस्य ।) सुजन्मा ।

इति मुग्धबोधव्याकरणम् ॥ (शोभना भूर्भूमिः ।)
उत्कृष्टभूमौ, स्त्री । तत्सम्बन्धिनि, त्रि ॥

सुभूतिकः, पुं, (सुष्ठुभूतिर्यत्र । कप् ।) विल्ववृक्षः ।

इति राजनिर्घण्टः ॥

सुभूमः, पुं, कार्त्तवीर्य्यः । स तु जिनानां अष्टम-

चक्रवर्त्ती । इति हेमचन्द्रः ॥

सुभृशं, क्ली, (सुष्ठु भृशम् ।) वाढम् । अतिशयम् ।

इति शब्दरत्नावली ॥ (यथा, देवीभागवते ।
२ । ६ । २६ ।
“शप्स्यामि तं द्विजञ्चाद्य यन मन्त्रः समर्पितः ।
त्वाञ्चापि सुभृशं कुन्ति ! नो चेत् मां त्वं
भजिष्यसि ॥”)
तद्वति, त्रि ॥

सुभ्रुः, स्त्री, (सुष्ठु भ्रुर्यस्याः । वा ऊङ् ।)

नारी । इति जटाधरः ॥ (शोभना
भ्रूः । यथा, भागवते । ३ । २३ । ३२ ।

सुभ्रूः स्त्री, (सुष्ठु भ्र् र्यस्याः । वा ऊङ् ।)

नारी । इति जटाधरः ॥ (शोभना
भ्रूः । यथा, भागवते । ३ । २३ । ३२ ।
“सुभ्रुवा सुदता श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा ।
पद्मकोषस्पृधा नीलैरलकैश्च लसन्मुखम् ॥”)
सुन्दरभ्रुयुक्ते, त्रि ॥ (यथा, भागवते । ४ । ८ । ४५ ।
“सुनसं सुभ्रुवं चारु कपोलं सुरसुन्दरम् ॥”)

सुमं, क्ली, (सुष्ठु मातीति । मा + कः ।) पुष्पम् ।

इत्यमरटीकायां भरतः ॥ (यथा, राजेन्द्र-
कर्णपूरे । ७४ ।
“किं हारैः किमु कङ्कणैः किमु सुमैः किं
कर्णपूरैरलं
केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः ।
पुंसामेकमखण्डनं पुनरिदं शम्भोर्मते मण्डनं
यन्निष्पीडितपार्व्वणेन्द्रशकलस्यन्दोपमाः
सूक्तयः ॥”)

सुमः, पुं, (सुष्ठु माति सौन्दर्य्यमिति । मा + कः ।)

चन्द्रः । नभः । इति संक्षिप्तसारोणादिवृत्तिः ॥

सुमङ्गला, स्त्री, (सुष्ठु मङ्गलं यस्याः ।) वाय-

सोली । इति रत्नमाला ॥ माकडहाता इति
माकडिया इति च भाषा ॥ अर्हतां माता ।
इति हेमचन्द्रः ॥ कामाख्यादेशीयनदीविशेषः ।
यथा, कालिकापुराणे ८१ अध्याये ।
“नदी सुमङ्गला नाम हिमपर्व्वतनिर्गता ।
पूर्व्वस्यां मणिकूटस्य सदा स्रवति शोभना ॥
मणिकूटं समारुह्य यस्तां पश्यति वै नदीम् ।
स गङ्गास्नानजं पुण्यमवाप्य त्रिदिवं ब्रजेत् ॥”
अतिशयक्षेमयुक्ते, त्रि ॥

सुमतः, त्रि, सुन्दरज्ञानविषयः । सुशब्दपूर्व्वक-

मनधातोः क्तप्रत्ययेन निष्पन्नः ॥

सुमतिः, पुं, (शोभना मतिर्यस्य ।) वर्त्तमानकल्पी-

यार्हद्भेदः । भूतकल्पीयार्हद्भेदः । इति हेम-
चन्द्रः ॥ सुन्दरमतियुक्ते, त्रि । (यथा, भाग-
वते । १० । ६० । ३८ ।
“त्वं वै समस्तपुरुषार्थमयः फलात्मा
यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् ।
तेषां विभो समुचितो भवतः समाजः
पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ॥” * ॥
शोभना मतिः ।) शोभगमतौ, स्त्री ॥

सुमतिः, स्त्री, (शोभना मतिर्यस्याः ।) विष्णु-

यशसः पत्नी । सा कल्किमाता । यथा, --
“सम्भले विष्णुयशसो गृहे प्रादुर्भवाम्यहम् ।
सुमत्यां मातरि विभोः कन्यायां तन्निदेशतः ।
चतुर्भिर्भ्रातृभिर्देव करिष्यामि कलिक्षयम् ॥”
इति कल्किपुराणे २ अध्यायः ॥
अपि च । तत्रैव ।
“सुमत्यां विष्णुयशसा गर्भमाधत्त वैष्णवम् ॥”
“सुमतिस्तं सुतं लब्ध्ना विष्णुं जिष्णुं जगत्पतिम्
पूर्णकामा विप्रमुख्यानाहूयादाद्गवां शतम् ॥”

सुमदनः, पुं, (सुष्ठुमदयति कोकिलादीनिति ।

सु + मद + णिच् + ल्यः ।) आम्रवृक्षः । इति
राजनिर्घण्टः ॥

सुमदात्मजा, स्त्री, (सुमदः आत्मज इव यस्याः ।

सुमदस्य आत्मजेव इति वा ।) अप्सरसः । इति
त्रिकाण्डशेषः ॥

सुमधुरं, क्ली, (सुष्ठु मधुरम् ।) अत्यर्थमधुर-

वाक्यम् । तत्पर्य्यायः । सान्त्वम् २ । इति हेम-
चन्द्रः ॥ अतिशयमधुररसयुक्ते, त्रि ॥ (यथा,
महाभारते । १३ । ५४ । १५ ।
“गीतध्वनिं सुमधुरं तथैवाध्यापनध्वनिम् ।
हंसान् सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥”)
सुमधुरः, पुं, (सुष्ठुसुधुरो रसो यत्र ।) जीव-
शाकः । इति राजनिर्घण्टः ॥

सुमनः, पुं, (सुष्ठु मन्यते इति । सु + मन + अच् ।

गोधूमः । इत्यमरः । २ । ९ । १८ ॥ (अस्य
पर्य्यायो यथा, --
“गोधूमः सुमनोऽपि स्यात्त्रिविधः स च कीर्त्तितः ।
महागोधूम इत्याख्यः पश्चाद्देशात् समागतः ॥
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
धुस्तूरः । इति शब्दमाला ॥ मनोहरे, त्रि ।
इति शब्दरत्नाबली ॥

सुमनः, [स्] क्ली, (शोभनं मना यस्मात् ।) पुष्पम् ।

इत्यमरः ॥ (यथा, भागवते । ४ । १५ । ७ ।
“प्रशंसन्ति स्म तं विप्रा गन्धव्वप्रवरा जगुः ।
सुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥”)
उत्तममनश्च । शोभनमनोयुक्ते, त्रि ॥ (यथा,
महाभारते । १ । ४९ । १० ।
“ब्राह्यणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्म्मसु ।
स्थिताः सुमनसो राजंस्तेन राज्ञा स्वधि-
ष्ठिताः ॥”)

सुमनःपत्रिका, स्त्री, (सुमनसो जात्याः पत्रिका ।)

जातीपत्रिका । इति राजनिर्घण्टः ॥

सुमनःफलं, क्ली, (सुमनसो जात्याः फलम् ।)

जातीफलम् । इति राजनिर्घण्टः ॥

सुमनःफलः, पुं, (सुष्ठु मनोयस्मात् तादृशं फलं

यस्य ।) कपित्थवृक्षः । इति शब्दचन्द्रिका ॥

सुमनसः, स्त्री, भूम्नि, पुष्पम् । इत्यमरः । २ । ४ । १७ ॥

सुप्रीतं मन आभिरिति सुमनसः नित्यबहुवच-
नान्तत्वात् बहुवचननिर्देशः । भूम्नि स्त्रियः
सुमनसः । इति रत्नकोषः ॥ बहवश्च समा-
सिकता अप् सुमनसोऽप्सरस इति भूम्नि वाम-
नोऽपि । भूम्नि भूरिप्रयोगः । एकत्वञ्च दृश्यते ।
सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयो-
रिति मेदिनी । वेश्या श्मशानसुमना इव वर्ज्ज-
नीया इति शूद्रकप्रयोगश्च । सुमनसः क्लीवत्व-
मपि पुष्पं सुमनः कुसुममिति नाममालादिदर्श-
र्नात् । अप्रत्याख्येये दधिसुमनसीति क्लीवत्वं
छान्दसमित्येके । इति भरतः ॥ (यथा, महा-
भारते । १३ । ९८ । २० -- २२ ।
“मनो ह्लादयते यम्मात् श्रियञ्चापि ददाति च ।
तस्मात् समनसः प्रोक्ता नरैः सुकृतकर्म्मभिः ॥
देवताभ्यः सुमनसो यो ददाति नरः शुचिः ।
तस्य तुष्यन्ति वै देवास्तुष्टाः पुष्टिं ददत्यपि ॥
यं यमुद्दिश्य दीयेरन् देवं सुमनसः प्रभो ।
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ! ॥”)

सुमना, स्त्री, जातीपुष्पवृक्षः । इति शब्दरत्ना-

वली ॥ (यथा, भरतधृतसुश्रुतः ।
“सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ॥”)

सुमनाः, [स्] पुं, (शोभनं मनो यस्य ।) देवता ।

इत्यमरः । १ । १ । ७ ॥ सुष्ठुमन्यते सुमना-
अस् । शोभनं मनोऽस्य इति वा । इति भरतः ॥
पण्डितः । इति मेदिनी ॥ पूतिकरञ्जः । इति
शब्दमाला ॥ निम्बः । महाकरञ्जः । गोधूमः ।
इति राजनिर्घण्टः ॥ (शोभनचित्ते, त्रि । यथा,
महाभारते । ३ । २६ । २१ ।
“ततस्ते ब्राह्मणाः सर्व्वेवकं दाल्भ्यमपूजयन् ॥
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ॥”)

सुमनाः, [स्] स्त्री, (सुष्ठु, मनो यस्याः ।) पुष्पम् ।

मालती । इति मेदिनी ॥ जाती । शतपत्री ।
इति राजनिर्घण्टः ॥ “सुष्ठु मन्यते जनैर्मनोज्ञ-
त्वात् शोभनं मनोऽस्यामिति वा सुमनाः सान्ता
स्त्रीलिङ्गा च ।
‘स्त्रियां सुमनसो भूम्नि पुष्पे जातौ च भेदतः ।
विदुष्यति यदा दृष्टस्तदा भेदेन शिव्यते ॥’
इति व्याडिः ।
‘सुमनाः पुष्पमालत्योः स्त्रियां नाधीरदेवयोः ।’
इति सान्तेषु मेदिनी । आवन्तापि सुमनास्ति ।
‘सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ।’
इति सुश्रुतः ।” इत्यमरटीकायां भरतः ॥

सुमनोरजः, [स्] क्ली, (सुमनसां रजः ।)

परागः । इत्यमरः । २ । ४ । १७ ॥

सुमन्तुः, पुं, मुनिविशेषः । स चाथर्व्ववेदशाखा-

प्रचारकः । वज्रवारकश्च । यथा, --
“तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।
वैशम्पायन एवैको निष्णातो यजुषामुत ॥
अथर्व्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः ।
इतिहासपुराणानां पिता मे रोमहर्षणः ॥”
इति श्रीभागवते । १ । ४ । २० -- २२ ॥
पृष्ठ ५/३७८
“जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।
पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥”
इति पुराणम् ॥
(सुष्ठु मन्तुरपराधो यस्य ।) अत्यपराधिनि, त्रि ॥

सुमन्त्रः, पुं, कल्किदेवस्य ज्येष्ठभ्राता । यथा, --

“कल्केर्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः
तातमातृप्रियकरा गुरुविप्रप्रतिष्ठताः ॥”
इति कल्किपुराणे २ अध्यायः ॥
अपि च ।
“विशाखयूपभूपालः प्रायात् साधुजनप्रियः ।
कल्किं द्रष्ठुं हरेरंशमाविर्भूतञ्च सम्भले ॥
कविं प्राज्ञं सुमन्त्रञ्च पुरस्कृत्य महाप्रभम् ।
गार्ग्य भार्ग्यविशालैश्च ज्ञातिभिः परिवारितम् ॥”
इति तत्रैव ३ अध्यायः ॥
दशरथराजस्य सारथिः मन्त्री च । यथा, --
“तद्गच्छ त्वरितं सूत राजपुत्त्रं यशस्विनम् ।
राममानय भद्रं ते नात्र कार्य्या विचारणा ॥
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि ।
तच्छ्रु त्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमत्रवीत्
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ॥”
इति वाल्मीकीये रामायणे अयोध्याकाण्डे १४
सर्गः ॥

सुमित्रः, पुं, चतुर्व्विंशतिवर्त्तमानार्हत्पित्रन्तर्गत-

विंशार्हत्पिता । इति हेमचन्द्रः ॥ इक्ष्वाकु-
वंशीयबृहद्बलान्वयः सुरथराजपुत्त्रः । इति
विष्णुपुराणे ४ अंशे २२ अध्यायः ॥

सुमित्रभूः, पुं, सगरः । स तु जिनानां चक्रवर्त्ति-

मेदः । इति हेमचन्द्रः ॥

सुमित्रा, स्त्री, दशरथराजपत्नी । सा तु लक्ष्मण-

शत्रुघ्नमाता । यथा, भट्टौ २ सर्गे ।
“प्रासोष्ट शत्रुघ्नसुदारचेष्ट-
मेका सुमित्रा सह लक्ष्मणेन ॥”
तत्पर्य्यायः । लक्ष्मणप्रसूः २ । इति शब्दरत्ना-
वली ॥

सुमुखं, क्ली, नखक्षतविशेषः । इति शब्दरत्ना-

वली ॥ (शोभनं सुखमिति ।) उत्तमास्यञ्च ॥

सुमुखः, पुं, (शोभनं मुखं यस्य ।) गरुडपुत्त्रः ।

(यथा, महाभारते । ५ । १०१ । २ ।
“वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् ।
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्च्चसा ।
सुरुचा पक्षिराजेन सुबलेन च मातले ! ॥”)
गणेशः । शाकभेदः । नागभेदः । इति शब्द-
रत्नावली ॥ (यथा, महाभारते । १ । ३५ । १४ ।
“हस्तपिण्डः पिठरकः सुमुखः कौणपाशनः ।
कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः ॥”)
पण्डितः । इति विश्वः ॥ सितार्ज्जकः । वन-
वर्व्वरिका । वर्व्वरः । इति राजनिर्घण्टः ॥

सुमुखः, त्रि, (सुष्ठु सुखं यस्य ।) मनोज्ञः ।

सुन्दराननः । इति शब्दरत्नावली ॥ (यथा,
भागवते । ४ । २१ । १५ ।
“सुनासः सुमुखः सौम्यः पीनांसः सुद्विज-
स्मितः ॥”)

सुमुखसूः, पुं, (सुमुखस्य सूरुत्पत्तिर्यस्मात् ।)

गरुडः । इति त्रिकाण्डशेषः ॥ उत्तमाननपुत्त्र-
पिता च ॥

सुमुखा, स्त्री, (शोभनं मुखं यस्याः । टाप् ।)

सुन्दरी नारी । सुन्दरानना । इति भरत-
द्विरूपकोषः ॥ सुमुखा शाला । इति मुग्ध-
बोधव्याकरणम् । दर्पणः । इति केचित् ॥

सुमुखी, स्त्री, (सुष्ठु मुखं यस्याः । “स्वाङ्गा-

च्चोपसर्जनादसंयोगोपधात् ।” ४ । १ । ५४ ।
इति ङीष् ।) सुन्दरी नारी । सुन्दरानना ।
(यथा, कुमारे । १ । २६ ।
“उ मेति मात्रा तपसो निषिद्धा
पश्चादुमाख्यां सुमुखी जगाम ॥”)

सुमुष्टिः, पुं, (मुष वञ्चने + क्तिन् । शोभना मुष्टि-

र्यस्मात् ।) विषमुष्टिक्षुपः । इति राजनिर्घण्टः ॥

सुमूलः, पुं, (सुष्ठुमूलं यस्य ।) श्वेतशिग्रुः ।

इति राजनिर्घण्टः ॥

सुमूलकं, क्ली, (शोभनं मूलं यस्य । कप् ।)

गर्ज्जरम् । इति राजनिर्घण्टः ॥

सुमूला, स्त्री, (शोभनं मूलं यस्याः ।) शालपर्णी

पृश्निपर्णी । इति राजनिर्घण्टः ॥ सुन्दरमुल-
युक्ते, त्रि ॥

सुमेखलः, पुं, (शोभना मेखला यस्मात् ।) मुञ्जः ।

इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, --
“मुञ्जो मुञ्जातको बाणः स्थूलदर्भः सुमेखलः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
शोभनमेखलायुक्ते, त्रि ॥

सुमेधाः, [स्] स्त्री, (सुष्ठु मेधा अस्याः ।

“नित्यमसिच प्रजामेधयोः ।” ५ । ४ । १२२ ।
इति असिच् ।) ज्योतिष्मती । (सुष्ठुमेधा
यस्य ।) सुबुद्धौ, त्रि । इति मेदिनी ॥ (यथा,
भागवते । ९ । ४ । ३ ।
“इमे अङ्गिरसः सत्रमासतेऽद्य सुमेधसः ॥”)

सुमेरुः, पुं, (सुष्ठुमिनोति क्षिपति ज्योतींषि इति

सु + मि + “मिपीभ्यां रुः ।” उणा० ४ । १०१ ।
रुः ।) पर्व्वतविशेषः । तत्पर्य्यायः । मेरुः २
हेमाद्रिः ३ रत्नसानुः ४ सुरालयः ५ । इत्य-
मरः । १ । १ । ५२ ॥ अमराद्रिः ६ भूस्वर्गः ७ ।
इति जटाधरः ॥ तद्विवरणं यथा, --
“एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य
नाभ्यामवस्थितः सर्व्वतः सौवर्णः कुलगिरि-
राजो मेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः
कुवलयकमलस्य मूर्द्धनि द्वात्रिंशत्सहस्रयोजन-
विततो मूले षोडशसहस्रं तावतान्तर्भूम्यां
प्रविष्टः ॥” ७ ॥
“मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुत-
योजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भ-
गिरय उपकॢप्ताः ॥ ११ ॥
चतुर्षु एतेषु चूतजम्बूकदम्बन्यग्राधाः चत्वारः
पादपप्रवराः पर्व्वतकेतव इवाधिसहस्रयोजनो-
न्नाहास्तावद्विटपविततयः शतयोजनपरि-
णाहाः ॥ १२ ॥
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः
यदुपस्पर्शिन उपदेवगणा योगैश्वर्य्याणि स्वाभा-
विकानि भारतर्षभ धारयन्ति ॥ १३ ॥
देवोद्यानानि च भवन्ति चत्वारि नन्दनं
चैत्ररथं वैभ्राजकं सर्व्वतोभद्रमिति ॥” १४ ॥
“मेरोर्मूर्द्धनि भगवत आत्मयोनेर्मध्यत उप-
कॢप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां
शातकौम्भीं वदन्ति ॥ २८ ॥
तामनुपरितो लोकपालानामष्टानां यथादिशं
सथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः ।” २९ ॥
इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥
“अस्मिन्नैन्द्रीं पुरीं पूर्व्वस्यां मेरोर्देवधानीं
नाम दक्षिणतो याम्यां संयमनीं नाम पश्चा-
द्वारुणीं निम्नोचनीं नाम उत्तरतः सौम्यां
विभावरीं नाम ।” इति च तत्रैव । ५ । २१ । ७ ॥ * ॥
अपि त्र ।
“परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्व्वतः ।
चातुर्व्वर्णः स सौवर्णश्चतुरस्रः समुच्छ्रितः ॥
नानावर्णः स पार्श्वे तु पूर्व्वान्ते श्वेत उच्यते ।
पीतन्तु दक्षिणं तत्र भृङ्गपत्रनिभं परम् ॥
उत्तरं तस्य रक्तं वै इति वर्णसमन्वितः ।
मेरुस्तु शुशुभे दिव्यो राजवत् समधिष्ठितः ॥
आदित्यतरुणाभासो विधूम इव पावकः ।
योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः ॥
प्रविष्टः षोडशाधस्तादष्टाविंशतिविंशतिः ।
विस्तारात्त्रिगुणस्तस्य परिणाहः समन्ततः ॥
स पर्व्वतो महादिव्यो दिव्यौषधिसमन्वितः ।
भुवनैरावृतः सर्व्वैर्जातरूपपरिष्कृतैः ॥
तत्र देवगणाः सर्व्वे गन्धर्व्वोरगराक्षसाः ।
शैलराजे प्रमोदन्ते सर्व्वतोऽप्सरसस्तथा ॥
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः ।
यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः ॥
भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमे ।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥
विष्कम्भपर्व्वतास्तद्वन्मन्दरो गन्धमादनः ।
विपुलश्च सुपार्श्वश्च सर्व्वरत्नविभूषितः ॥”
इति मात्स्ये ९५ अध्यायः ॥ * ॥
किञ्च ।
“मध्ये पृथिव्यामद्रीन्द्रो भास्वान् मेरुर्हिरण्मयः
योजननां सहस्राणि चतुरशीतिः समुच्छ्रितः ॥
प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः ।
तावत्प्रमाणा पृथिवी पर्व्वतश्च समन्ततः ॥
तस्य शृङ्गत्रयं मूर्द्ध्नि स्वर्गो यत्र प्रतिष्ठितः ।
नानाद्रुमलताकीर्णं नानारत्नीपशोभितम् ॥
मध्यगं पश्चिमं पूर्व्वं मेरोः शृङ्गाणि त्रीणि वै ।
प्रयुतोच्छ्रितमात्राणि द्वे शृङ्गे तस्य मध्यतः ॥
मध्यस्थं स्फाटिकं शृङ्गं वैदूर्य्यकरकामयम् ।
इन्द्रनीलमयं पूर्व्वं माणिक्यं पश्चिमं स्मृतम् ॥
योजनानां सहस्राणि नियुतानि चतुर्दश ।
उच्छ्रितं मध्यगं शृङ्गं स्वर्गो यत्र प्रतिष्ठितः ॥
प्रयुतान्तरितं शृङ्गं मूर्द्ध्रि च्छत्राकृति स्थितम् ।
पूर्व्वमध्यमशृङ्गाणां सकलं मध्यमस्य च ॥
पृष्ठ ५/३७९
त्रिपृष्टो नाकपृष्ठो वा अप्सरःशान्तिनिर्वृती ।
आनन्दोऽथ प्रमोदश्च स्वर्गाः शृङ्गे च मध्यमे ॥
श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ ।
आह्लादः स्वर्गराजश्च स्वर्गाः शृङ्गे तु पश्चिमे ॥
निर्म्ममो निरहङ्कारः सौभाग्यश्चातिनिर्म्मलः ।
स्वर्माश्चैते द्विजश्रेष्ठ पूर्व्वशृङ्गे समर्थिताः ॥
एकविंशत्यमी स्वर्गा निविष्टा मेरुमूर्द्धनि ॥ * ॥
अहिंसादानकर्त्ता च यज्ञानां तपसां तथा ।
तेषु तेषु वसन्ति स्म जनाः क्रोधविवर्ज्जिताः ।
जलप्रवेशी चानन्दं प्रमोदं वह्निसाहसः ॥
भृगुप्रपाते सौम्यस्तु रणे चैवास्य निर्म्मलः ॥
अनशने तु संवासे मृतो गच्छेत्त्रिपिष्टपम् ।
क्रतुयाजी नाकपृष्ठमग्निहोत्री च निर्वृतिम् ॥
तडागकूपकर्त्ता च लभते पौष्टिकं द्विज ।
सौवर्णदायी सौभाग्यं लभेत् स्वर्गं महातपाः ॥
शीतकाले महावह्निं प्रज्वालयति यो नरः ।
सर्व्वसत्त्वहितार्थाय स्वर्गं चाप्सरसं लभेत् ॥
हिरण्यगोप्रदानेन निरहङ्कारमाप्नु यात् ।
भूमिदानेन शुद्धेन लभते शान्तिकं पदम् ॥
रौप्यदानेन शुद्धेन स्वर्गं गच्छति निर्म्मलम् ।
अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥
द्विजेभ्यस्तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः ।
श्वेतन्तु लभते स्वर्गं यत्र गत्वा न शोचति ॥
कपिलागोप्रदानेन परार्द्ध ञ्चानुभूयते ।
गोवृषस्य प्रदानेन स्वर्गं मन्मथमश्नुते ॥
स पुमान् स सरित्स्नायी तिलधेनुप्रदस्तथा ।
छत्रोपानहदाता च स्वर्गं तत्फलशोभनम् ॥
देवायतनकर्त्तारो शुश्रू षणपरस्तथा ।
तीर्थयात्रापरश्चैव स्वर्गराजे महीयते ॥
एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः
उपवासी त्रिरात्राद्यैः शान्तस्वर्गं शुभं लभेत् ॥
सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः ।
निर्म्मलं स्वर्गमाप्नोति तथा भूतहिते रतः ।
विद्यादानेन मेधावी निरहङ्कारमाप्नु यात् ॥
येन येन हि भावेन यद्यद्दानं प्रयच्छति ।
तत्तत् स्वर्गमवाप्नोति यद्यदिच्छति मानवः ॥
यस्तु सर्व्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति ।
संप्राप्य न निवर्त्तेत दिवं शान्तमनामयम् ॥
शृङ्गन्तु पश्चिमं यच्च ब्रह्मा तत्र स्थितः स्वयम् ।
पूर्व्वशृङ्गे स्वयं विष्णुर्मध्ये चैव शिवः स्थितः ॥”
इति नारसिंहे । ३० । १४ -- ४५ ॥
अन्यत् कौर्म्मे ४२ । ४३ अध्याययोः वाराहे-
रुद्रगीतासु च द्रष्टव्यम् ।

सुम्पलुण्ठः, पुं, कर्पूरकः । इति शब्दचान्द्रका ॥

सुम्भः, पुं, देशविशेषः । इति शब्दरत्नावली ॥

सुयामुनः, पुं, (शोभनं अतिप्रियं यामुनं यमुना-

सम्बन्धि जलं यस्य ।) विष्णुः । वत्सराजः ।
प्रासादः । अद्रिविशेषः । इति हेमचन्द्रः ॥
मेघविशेषः । इति मेदिनी ॥

सुयोधनः, पुं, (सुखेन युध्यतेऽसौ । सु + युव +

युच् ।) दुर्य्योधनराजः । इति त्रिकाण्डशेषः ॥
यथा, महाभारते । १ । १५५ । ३५ ।
“शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयो-
धनः ॥”)

सुर, श भैश्ययोः । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-अक०-सेट् ।) दन्त्यादिः । श, सुरति
सोरिता सुषोर सुसोर । भा, दीप्तिः । ऐश्यं
ऐश्वर्य्यम् । इति दुर्गादासः ॥

सुरः, पुं, (सुष्ठु राति ददात्यभीष्टमिति । रा +

कः । यद्वा, सुरति शोभते इति । सुर + इगुपधेति
कः । यद्वा, सुनोतीति । षुञ् अभिषवे +
“सुसूधाञ् गृधिभ्यः क्रन् ।” उणा० २ । २४ । क्रन् ।)
देवः । इत्यमरः । १ । १ । ७ ॥ (यथा, रघुः । ३ । ५६ ।
“चुकोप तस्मै स भृशं सुरश्रियः
प्रसह्य केशव्यपरोपणादिव ॥”
सूर्य्यः । पण्डितः । इति केचित् ॥ (स्वरः ।
यथा, महाभारते । १३ । ८५ । ९१ ।
“लक्षणानि सुरास्तोमा निरुक्तं सुरपङ्क्तयः ॥”)

सुरकरीन्द्रदर्पापहा, स्त्री, (सुरकरीन्द्रस्य ऐरा-

वतस्य दर्पं हन्तीति । हन + डः । टाप् ।)
गङ्गा । यथा, --
“भगीरथपथानुगा सुरकरीन्द्रदर्पापहा
महेशमुकुटप्रभा गिरिशिरःपताका सिता ।
सुरासुरनरोरगैरजभवाच्युतैः संस्तुता
विमुक्तिफलदायिनी भगवती स्वयं राजते ॥”
इति कल्किपुराणे ३४ अध्यायः ॥

सुरकारुः, पुं, विश्वकर्म्मा । सुराणां कारुः

शिल्पीति बहुव्रीहिसमासनिष्पन्नः ॥

सुरकृता, स्त्री, (सुरेण कृता ।) गुडची । इति

राजनिर्घण्टः ॥

सुरक्तः, त्रि, (सु + रञ्ज + क्तः ।) शोभनराग-

युक्तः । अतिशयरक्तविशिष्टः । अत्यनुरक्तः ।
इति केचित् ॥

सुरक्तकः, पुं, (सुरक्त + संज्ञायां स्वार्थे वा कन् ।)

कोष म्रः । स्वर्णगैरिकम् । इति राजनिर्घण्टः ।

सुरखण्डनिका, स्त्री, बीणाभेदः । इति शब्दरत्ना-

वली ॥ सुरमण्डलिका इति पाठान्तरम् ॥

सुरगण्डः, पुं, रोगविशेषः । इति भूरिप्रयोगः ॥

राजगाँड इति भाषा ॥

सुरगुरुः, पुं, (सुराणां गुरुः ।) बृहस्पतिः । इति

त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे ।
११५ । ७२ ।
“ततो मुक्त्वा रणं देवसैन्ये ऽपीन्द्रमनुद्रुते ।
निनाय ब्रह्मभवनं भीतः सुरगुरुः शचीम् ॥”
देवपूज्ये, त्रि । यथा, महाभारते । १ । १ । ३२ ।
“यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्म्मनुः कः परमेष्ठ्यथ ॥”)

सुरग्रामणीः, पुं, (सुराणां ग्रामणीर्नेता ।) इन्द्रः ।

इति त्रिकाण्डशेषः ॥

सुरङ्गं, क्ली, (सुष्ठु रङ्गो यस्मात् ।) हिङ्गुलम् ।

पत्तङ्गम् । इति राजनिर्घण्टः ॥

सुरङ्गः, पुं, (सुष्ठु रङ्गो यस्मात् ।) नागरङ्गः । इति

राजनिर्घण्टः ॥ गर्त्तविशेषः । इति सुरङ्गयुक्-
शब्ददर्शनात् ॥

सुरङ्गदं, क्ली, (सुष्ठुरङ्गं ददातीति । दा + कः ।)

पत्तङ्गम् । इति राजनिर्घण्टः ॥

सुरङ्गधातुः, पुं, (सुष्ठु रङ्गो यस्मात् तादृशो

धातुः ।) गैरिकम् । इति राजनिर्घण्टः ॥

सुरङ्गयुक्, [ज्] पुं, (सुरङ्गं युनक्तीति । युज् +

क्विप् ।) सुरङ्गं कृत्वा अपहरति यः । यथा, --
“कुजम्भिलः सुरङ्गाहिरधश्चीरः सुरङ्गयुक् ॥”
इति शब्दरत्नावली ।)

सुरङ्गा, स्त्री, सन्धिः । सीँघ इति भाषा । इति

हलायुधः ॥ कैवर्त्तिका । इति राजनिर्घण्टः ॥

सुरङ्गिका, स्त्री, मूर्व्वा । इति राजनिर्घण्टः ॥

सुरङ्गी, स्त्री, (सुष्ठु रङ्गो यस्याः । ङीष् ।) काक-

नाशा । इति राजनिर्घण्टः ॥ रक्तशाभाञ्जनः ।
इति रत्नमाला ॥

सुरजःफलः, पुं, (सुष्ठुरजो यत्र तादृशं फलं

यस्य ।) पनसवृक्षः । इति भूरिप्रयोगः ॥

सुरजनी, स्त्री, (सुशोभना रजनी ।) रात्रिः ।

इति शब्दचन्द्रिका ॥

सुरज्येष्ठः, पुं, (सुरेषु ज्येष्ठः । ब्रह्मा । इत्यमरः ।

१ । १ । १६ ॥

सुरञ्जनः, पुं, (सुष्ठु रञ्जयतीति । रञ्ज + णिच् +

ल्युः ।) गुवाकवृक्षः । इति त्रिकाण्डशेषः ॥

सुरतं, क्ली, (सुष्ठु रतं रमणं यत्र ।) निधुवनम् ।

इति मेदिनी ॥ (यथा, कुमारे । १ । १० ।
“भवन्ति यत्रौषधयो रजन्या-
मतैलपूराः सुरतप्रदीपाः ॥”)
सुरते वर्णनीयानि । यथा, --
सुरते सात्त्विका भावाः शीत्काराः कुट्म-
लाक्षता ।
काञ्चीकङ्कणसञ्जीररवाधरनखक्षतिः ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥
दयालौ, त्रि । इत्यमरटीका सारसुन्दरी । ३ ।
१ । १५ ॥ अत्रार्थे सूरतः इति पाठः साधुः ॥
क्रीडायुक्तः । इति उणादिवृत्तौ उज्जलदत्तः ।
५ । १४ ॥)

सुरतताली, स्त्री, (सुरतं तालयतीति । तल +

णिच् + अण् । गौरादित्वात् ङीष् ।) दूती ।
शिरस्रक् । इति मेदिनी ॥

सुरता, स्त्री, (सुराणां भावः समूहो वा । सुर +

तल् ।) देवत्वम् । इति मेदिनी ॥ (यथा,
महाभारते । ५ । ९८ । १४ ।
“भवनं पश्य वारुण्यं यदेतत् सर्व्वकाञ्चनम् ।
यत् प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥”)
सुरसमूहः । इति व्याकरणम् ॥ (सुष्ठु रता ।
अप्सरोविशेषः । यथा, महाभारते । १ । ६५ । ५१ ।
“केशिनी च सुवाहुश्च सुरता सुरजा तथा ॥”)

सुरतोषकः, पुं, (सुरान् तोषयतीति । तुष् + णिच्

+ ण्वुल् ।) कौस्तुभमणिः । इति शब्दरत्ना-
वली ॥ देवप्रीतिकारके, त्रि ॥

सुरथः, पुं, चन्द्रवंशीयचैत्रराजपुत्त्रः । यथा, --

श्रीनारायण उवाच ।
“अत्रिश्च ब्रह्मणः पुत्त्रस्तस्य पुत्त्रो निशाकरः ।
पृष्ठ ५/३८०
स च कृत्वा राजसूयं द्विजराजो बभूव ह ॥
गुरुपत्न्याञ्च तारायां तद्बु भूव बुधः सुतः ।
बुधपुत्त्रश्च चैत्त्रश्च तत्पुत्त्रः सुरथश्च सः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५८ । ४ -- ५ ॥
सच स्वारोचिषमन्वन्तरे कोलापुर्य्यधिपतिः ।
तेनादौ पृथिव्यां दुर्गापूजा कृता । तत्प्रसादेन
च असौ सावर्णिर्नाम मनुर्जातः । यथा, --
“कालान्तरे पूजिता सा सुरथेन महात्मना ।
राज्ञा मेधसशिष्येण मृण्मय्याञ्च सरित्तटे ॥
मेषादिभिश्च महिषैः कृष्णसारैश्च गण्डकैः ।
छागैर्मोनैश्च कुष्माण्डैः पक्षिभिर्बलिभिर्म्भुने ॥
वेदोक्तानि च दत्त्वैव उपचाराणि षोडश ।
धृत्वा च कवचं ध्यात्वा संपूज्य च विधानतः ॥
राजा कृत्वा परीहारं वरं प्राप यथेप्सितम् ।
मुक्तिं संप्राप वैश्यश्च संपूज्य च सरित्तटे ॥
तुष्टाव राजा वैश्यश्च साश्रुनेत्रः पुटाञ्जलिः ।
विससर्ज मृण्मयीं तां गभीरे निर्म्मले जले ॥
तृण्मयीं मृण्मयीं दृष्ट्वा जलधौतां नराधिपः ।
रुरोद तत्र वैश्यश्च ततः स्थानान्तरं ययौ ॥
त्यक्त्वा देहञ्च वैश्यश्च पुष्करे दुष्करं तपः ।
कृत्वा जगाम गोलोकं दुर्गादेवीवरेण च ॥
राजा ययौ स्वराज्यञ्च पूज्यो निष्कण्टकं बली
भोगञ्च बुभुजे भूपः षष्टिवर्षसहस्रकम् ॥
भार्य्यां स्वराज्यं संन्यस्य पुत्त्रे स कालयोगतः ।
मनुर्बभूव सावर्णिस्तप्त्वा च पुष्करे तपः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ * ॥
विस्तारस्तु दुर्गाशब्दे द्रष्टव्यः ॥

सुरदारु, क्ली, (सुरप्रियं दारु ।) देवदारु । इति

रत्नमाला ॥ (यथा, भागवते । ८ । २ । १३ ।
“पिचुमर्द्दैः कोविदारैः सरलै सुरदारुभिः ॥”)

सुरदीर्घिका, स्त्री, (सुराणां दीर्घिका ।) स्वर्ग-

गङ्गा । इत्यमरः । १ । १ । ५२ ॥

सुरदुन्दुभी, स्त्री, (सुराणां दुन्दुभीव आह्लाद-

कत्वात् ।) तुलसी । इति राजनिर्घण्टः ॥

सुरद्रुमः, पुं, (सुराणां द्रुमः ।) देवनलः । इति

राजनिर्घण्टः ॥ देवदारु च ॥ (कल्पवृक्षादिः ।
यथा, भागवते । १० । ३८ । २२ ।
“न तस्य कश्चिद्दयितः सुहृत्तमो
न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।
तथापि भक्तान् भजते यथा तथा
सुरद्रुमो यद्वदुपाश्रितोऽर्थदः ॥”)

सुरद्विट्, [ष्] पुं, सुरान् द्वेष्टीति । द्विष् +

क्विप् ।) असुरः । इत्यमरः । १ । १ । १२ ॥
(यथा, रघुः । १० । १५ ।
“प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ॥”
राहुः । यथा, तत्रैव । २ । ३९ ।
“उपस्थिता शोणितपारणा मे
सुरद्विषश्चान्द्रमसी सुधेव ॥”
तथाच बृहत्संहितायाम् । ९७ । २ ।
“पड्भिः सितस्य मासैरब्दन शनेः सुरद्विषो-
ऽब्दार्द्धात् ॥”)
देवद्वेषकः ॥ (यथा, भागवते । १ । ३ । २४ ।
“ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् ।
बुद्धो नामाञ्जनसुतः कीकटेषु भविष्यति ॥”)

सुरद्विपः, पुं, (सुराणां द्विपः ।) देवहस्ती । इति

केचित् ॥ (ऐरावतः । यथा, रघुः । ३ । ५५ ।
“हरेः कुमारोऽपि कुमारविक्रमः
सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्रविशेषकाङ्क्षिते
स्वनामचिह्नं निचखान सायकम् ॥”)

सुरधनुः, [स्] क्ली, (सुरस्य धनुः ।) इन्द्रधनुः ।

इति जटाधरः ॥ (यथा, किराते । ७ । १६ ।
“यातस्य ग्रथिततरङ्गसैकताभे
विच्छेदं विपयसि वारिवाहजाले ।
आतेनुस्त्रिदशबधूजनाङ्गभाजां
सन्धानं सुरधनुषः प्रभामणीनाम् ॥”)

सुरधूपः, पुं, (सुरप्रियो धूपः ।) रालः । इति

राजनिर्घण्टः ॥

सुरनदी, स्त्री, (सुराणां नदी ।) गङ्गा । इति

भूरिप्रयोगः ॥ (यथा, महाभारते । ६ । ८० । ५ ।
“गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् ।
महोदधिगुणाभ्यासात् लवणत्वं नियच्छति ॥”)

सुरनन्दा, स्त्री, (सुरान् नन्दयतीति । नन्द +

णिच् + अण् । टाप् ।) नदीविशेषः । इति
शब्दरत्नावली ॥

सुरनालः, पुं, (सुरप्रियं नालमस्य ।) देवनलः ।

इति राजनिर्घण्टः ॥

सुरनिम्नगा, स्त्री, सुराणां निम्नगा ।) गङ्गा ।

इत्यमरः । १ । १० । ३१ ॥ (यथा, कथा-
सरित्सागरे । ५२ । ३४२ ।
“त्यक्त्वा सर्व्वं तनुं त्यक्ष्यंस्तपसा सुरनिम्नगाम् ॥”)

सुरनिर्गन्धं, क्ली, पत्रकम् । इति राजनिर्घण्टः ॥

सुरपतिः, पुं, (सुराणां पतिः ।) इन्द्रः । इत्यमरः

१ । १ । ४६ ॥ (यथा, महाभारते । ७ । १०१ । १८ ।
“पुनर्द्ददौ सुरपतिर्मह्यं वर्म्म सुसंग्रहम् ॥”)

सुरपथं, क्ली, (सुराणां पन्थाः । समासे अः ।)

आकाशम् । इति हेमचन्द्रः ॥

सुरपर्णं, क्ली, (सुरप्रियं पर्णमस्य ।) ओषधि-

विशेषः । माचीपत्री इति ख्यातः । तत्पर्य्यायः ।
देवपर्णम् २ वीरपर्णम् ३ सुगन्धिकम् ४ माची-
पत्रम् ५ सूक्ष्मपत्रम् ६ देवार्हम् ७ गन्धपत्र-
कम् ८ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
कृमिश्वासवलासकफकासनाशित्वम् । दीपनत्वम्
वर्ण्यत्वम् । बालहितत्वञ्च । इति राजनिर्घण्टः ॥

सुरपर्णिकः, पुं, (सुरप्रियं पर्णमस्त्यस्येति ।

ठन् ।) सुरपुन्नागः । इति राजनिर्घण्टः ॥

सुरपर्णिका, स्त्री, (सुरपर्णी । संज्ञायां कन् ।)

पुन्नागः । इति हेमचन्द्रः ॥

सुरपर्णी, स्त्री, (सुरप्रियं पर्णमस्याः । ङीष् ।)

पलाशी । इति राजनिर्घण्टः ।

सुरपादपः, पुं, (सुराणां पादपः ।) कल्पवृक्षः । देव-

तरुशब्दस्वरसात् ॥ (यथा, भागवते । ८ । ५ । १७ ।
“वेत्रकीचकवेणुनां गुल्मानि सुरपादपान् ॥”)

सुरपुन्नागः, पुं, (सुरप्रियः पुन्नागः । पुन्नाग-

वृक्षविशेषः । तत्पर्य्यायः । नमेरुः २ सुरेष्टः ३
सुरपर्णिकः ४ सुरताङ्गः ५ । अस्य गुणाः
पुन्नागवत् । इति राजनिर्घण्टः ॥

सुरपुरी, स्त्री, (सुरस्य पुरी ।) अमरावती ।

इति त्रिकाण्डशेषः ॥

सुरप्रियः, पुं, (सुराणां प्रियः । अगस्त्यपुष्प-

वृक्षः । इति राजनिर्घण्टः ॥ इन्द्रः । बृहस्पतिः ।
इति केचित् ॥ देवहृद्ये, त्रि ॥

सुरप्रिया, स्त्री, (सुराणां प्रिया ।) जाती । स्वर्ण-

रम्भा । इति राजनिर्घण्टः ॥ (अप्सराः । यथा,
भागवते । ८ । १५ । १९ ।
“हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना ।
पाण्डरेण प्रतिच्छन्नमार्गे यान्ति सुरप्रियाः ॥”)

सुरभि, क्ली, (सुष्ठु रभतेऽनेनेति । सु + रभ +

इन् ।) स्वर्णम् । गन्धाश्म । इति शब्दरत्ना-
वली ॥ सुन्दरः । साधुगन्धः । इति धरणिः ॥

सुरभिः, पुं, (सु + रभ + इन् ।) सुगन्धिः । इत्य-

मरः । १ । ५ । ११ ॥ चम्पकः । वसन्तर्त्तुः ।
जातीफलवृक्षः । इति मेदिनी ॥ शमीवृक्षः ।
कदम्बवृक्षः । कणगुग्गुलुः । गन्धतृणम् ।
वकुलवृक्षः । रालः । इति राजनिर्घण्टः ॥
चैत्रमासः । धीरः । इति धरणिः ॥ गन्धफलः ।
इति शब्दरत्नावली ॥

सुरभिः, स्त्री, (सुर + रभ + इन् ।) शल्लकी ।

मातृभेदः । मुरा । गीः । इति मेदिनी ॥ पुस्त-
कान्तरे मुरास्थाने सुरा इति पाठः । रुद्रजष्टा ।
वनमालिका । तुलसी । पाची । इति राज-
निर्घण्टः ॥ पृथिवी । इति धरणिः ॥ गोमाता ।
(यथा, रघुः । १ । ८१ ।
“सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।
आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥”
तस्या उत्पत्त्यादिर्यथा, --
नारद उवाच ।
“सा का वा सुरभी देवी गोलोकादागता च या
तज्जन्मचरितं ब्रह्मन् श्रोतुमिच्छामि तत्त्वतः ॥
श्रीनारायण उवाच ।
गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ।
गवां प्रधाना सुरभी गोलोके सा समुद्भवा ॥
सर्व्वादिसृष्टिकथनं कथयामि निशामय ।
बभूव येन तज्जन्म पुरा वृन्दावने वने ॥
एकदा राधिकानाथो राधया सह कौतुकात् ।
गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ ॥
सहसा तत्र रहसि विजहार च कौतुकात् ।
बभूव क्षीरपानेच्छा तदा स्वेच्छामयस्य च ॥
ससृजे सुरभिं देवो लीलया वामपार्श्वतः ।
वत्सयुक्तां दुग्धवतीं वत्सो नाम्ना मनोरथः ॥
दृष्ट्वा सवत्सां मुदामा रत्नभाण्डे दुदोह च ।
क्षीरं सधातिरिक्तञ्च जन्ममृत्युजरापहम् ॥
तदुष्णञ्च पयः स्वादु पपौ गोपीपतिः स्वयम् ।
सरो बभूव पयस्रा भाण्डविस्रं शनेन च ॥
दैर्घे च विस्तृते चैव परितः शतयोजनम् ।
पृष्ठ ५/३८१
गोलोके सुप्रसिद्धश्च स च क्षीरसरोवरः ॥
गोपिकानाञ्च राधायाः क्रीडावापी बभूव सा ।
रत्नेन खचिता तूर्णं भूता वापीश्वरेच्छया ॥
बभूवुः कामधेनूनां सहसा लक्षकोटयः ।
तावन्तो हि च वत्माश्च सुरभीलोमकूपतः ।
तासां पुत्त्राः प्रपौत्त्राश्च सम्बभूवुरसंख्यकाः ।
कथिता च गवां सृष्टिस्तया च पूजितं जगत् ॥
पूजाञ्चकार भगवान् सुरभ्याश्च पुरा मुने ।
ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा ॥
दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः ।
बभूव सुरभीपूजा धर्म्मवक्त्रादिति श्रुतम् ॥
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत् पूजाविधिक्रमम् ।
वेदोक्तञ्च महाभाग निबोध कथयामि ते ॥
ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः ।
सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ॥
ध्यानं यजुर्व्वेदोक्तं तत् पूज्यञ्च सर्व्वसम्मतम् ।
ऋद्धिदं वृद्धिदञ्चैव मुक्तिदं सर्व्वकामदम् ॥
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ।
गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम् ॥
पवित्ररूप्रां पूज्याञ्च भक्तानां सर्व्वकामदाम् ।
यथा पूतं सर्व्वविश्वं तां देवीं सुरभीं भजे ॥
घटे वा धेनुशिरसि बद्धस्तम्भे गवामपि ।
शालग्रमे जले वाग्नौ सुरभों पूजयेद्द्विजः ।
दीपान्वितापरदिने पूर्व्वाह्ले भक्तिसंयुतः ।
यः पूजयेच्च सुरभिं स च पूज्यो भवेद्भुवि ॥
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ।
क्षीरं जहार सहसा चिन्तिताश्च सुरादयः ॥
ते गत्वा ब्रह्मलोकञ्च ब्रह्माणं तुष्टुवुस्तदा ।
तदाज्ञया च सुरसीं तुष्टाव पाकशासनः ॥
महेन्द्र उवाच ।
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।
गवां वीजस्वरूपायै नमस्ते जगदम्बिके ॥
नमो राधाप्रियायै च पद्मेशायै नमो नमः ।
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥
कल्पवृक्षस्वरूपायै सर्व्वेषां सन्ततं परम् ।
श्रीदामधनदायै च वृद्धिदायै नमो नमः ।
यशोदायै कीर्त्तिदायै धर्म्मदायै नमो नमः ॥
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ।
आविर्ब्बमूव तत्रैव ब्रह्मलोके सनातनी ॥
महेन्द्राय वरं दत्त्वा वाञ्छितञ्चातिदुर्लभम् ।
जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥
बभूव विश्वं सहसा दुग्धपूर्णञ्च नारद ।
दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।
स गोमान् धनवांश्चैव कीर्त्तिमान् पुण्यवान्
भवेत् ॥
स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।
इह लोके सुखं भुक्ता यात्यन्ते कृष्णमन्दिरम् ॥
सुचिरं निवसेत्तत्र करोति कृष्णसेवनम् ।
न पुनर्भव्रनं तस्य ब्रह्मपुत्त्र भवे भवेत् ॥”
इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे सुरभ्युपाख्यानं
नाम ४७ अध्यायः ॥

सुरभिः, त्रि, (सु + रभ + इन् ।) सुगन्धिः ।

(यथा, मनुः । ३ । २०९ ।
“उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् ।
गन्धमाल्यैः सुरभिभिरर्च्चयेद्देवपूर्व्वकम् ॥”)
कान्तम् । इति मेदिनी ॥ (यथा, रघुः । २ । २ ।
“निवर्त्त्य राजा दयितां दयालु-
स्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां
जुगोप गोरूपधरामिवोर्व्वीम् ॥”)
धीरः । विख्यातः । इति धरणिः ॥

सुरभिका, स्त्री, (सुरभि + स्वार्थे कन ।) स्वर्ण-

कदली । इति राजनिर्घण्टः ॥

सुरभिगन्धिः, त्रि, (सुरभिर्गन्धो यस्य । “गन्धस्ये-

दुत्पूतिसुसुरभिभ्यः ।” ५ । ४ । १३५ । इति
इकारः ।) शोभनगन्धयुक्तः । इति केचित् ॥

सुरभित्रिफला, स्त्री, (सुरभिः सुगन्धिस्त्रिफला ।)

सुगन्धत्रिफला । इति राजनिर्घण्टः ॥

सुरभित्वक्, [च्] स्त्री, (सुरभिः त्वक् यस्याः ।)

वृहदेला । इति राजनिर्घण्टः ॥

सुरभिदारुः, पुं, (सुरभि सुगन्धि दारु यस्य ।

सरलवृक्षः । इति राजनिर्घण्टः ॥

सुरभिपत्रा, स्त्री, (सुरभि पत्रं यस्याः ।) जम्बू-

वृक्षः । राजजम्बूः । इति राजनिर्घण्टः ॥

सुरभिबाणः, पुं, (सुरभिः साधुगन्धः बकुलादि-

पुष्पं वा बाणो यस्य ।) कामदेवः । इति
केचित् ॥

सुरभिवल्कलं, क्ली, (सुरभि सुगन्धि वल्कलं

यस्य ।) गुडत्वक् । इति शब्दरत्नावली ॥

सुरभिस्रवा, स्त्री, (सुरभिः सुगन्धिः स्रवो निर्य्यासो

यस्याः ।) सल्लकी । इति राजनिर्घण्टः ॥

सुरभी, स्त्री, (सुरभि + वा ङीष् ।) सुगन्धिः ।

इत्यमरटीकायां भरतः । २ । ४ । १२३ ॥
शल्लकी । इति शब्दचन्द्रिका ॥ (यथा, --
“शल्लकी गजभक्ष्या च सुवहा सुरभी रसा ।
महेरुणा कुन्दरुकी वल्लकी च बहुस्रवा ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
ह्रस्वेकारान्तसुरभिशब्दार्थोऽप्यत्र ॥ गोमाता ।
यथा, --
“सा का वा सुरभी देवी गोलोकादागता च या ।
तज्जन्मचरितं ब्रह्मन् श्रोतुमिच्छामि तत्त्वतः ॥”
इति ब्रह्मबैवर्त्ते प्रकृतिखण्डे ४७ अध्यायः ॥
(ह्रस्वेकारान्तसुरभिशब्देऽस्याः विशेषविवरणं
ज्ञेयम् ॥) अथ गोयात्राप्रवेशविक्रयदिनम् ।
तत्र तिथय अमावस्याष्टमीचतुर्द्दशीविष्टिभिन्नाः
तत्र नक्षत्राणि रोहिणी पूर्व्वफल्गुनी पूर्व्वा-
षाढा पूर्व्वभाद्रपद् उत्तरफल्गुनी उत्तराषाढा
उत्तरभाद्रपत् श्रवणा भरणी चित्रा एतद्व्यति-
रिक्तानि । योगाः व्यतोपातवैधृतिभिन्नाः ।
तत्र वाराः क्रूरग्रहभिन्नाः । इति ज्योतिष-
तत्त्वम् ॥

सुरभीरसा, स्त्री, शल्लकीवृक्षः । इत्यमरटीकायां

मथुरेशः । २ । ४ । १२३ ॥

सुरभूरुहः, पुं, (सुराणां भूरुहः ।) देवदारुः ।

इति भावप्रकाशः ॥ (कल्पवृक्षादिश्च ॥)

सुरमृत्तिका, स्त्री, (सुरप्रिया मृत्तिका ।) तुवरी ।

इति राजनिर्घण्टः ॥

सुरमेदा, स्त्री, (सुरप्रियो मेदो यस्याः ।) महा-

मेदा । इति राजनिर्घण्टः ॥ (महामेदाशब्दे-
ऽस्या विशेषो ज्ञातव्यः ॥)

सुरर्षिः, पुं, (सुरश्चासौ ऋषिश्चेति ।) देवर्षिः ।

इत्यमरः । १ । १ । ५१ ॥ स तु नारदतुम्बु रु-
कोलाहलादिः । यथा । ब्रह्मर्षिदेवर्षिराजर्षि-
महर्षिपरमर्षिकाण्डर्षिश्रुतिभेदात् सप्तप्रकार-
ऋषयस्तत्र नारदाद्याः सुरर्षय उक्ता इति
भरतः ॥ (यथा, भागवते । ४ । २४ । ६३ ।
“महानहं खं मरुदग्निवार्धराः
सुरर्षयो भूतगणा इदं यतः ॥”
तथाच महारते । १ । १ । २२७ ।
“इति राज्ञां चतुर्व्विंशन्नारदेन सुरर्षिणा ।
पुत्त्रशोकाभितप्ताय पुरा शैव्याय कीर्त्तितम् ॥”)

सुरलता, स्त्री, (सुरप्रिया लता ।) महाज्योति-

ष्मती । इति राजनिर्घण्टः ॥

सुरला, स्त्री, (सुरान् लातीति । ला + कः ।)

गङ्गा । इति हारावली ॥ नदीविशेषः । इति
शब्दचन्द्रिका ॥

सुरलासिका, स्त्री, (सुरानपि लासयति आह्ना-

दयतीति । लस् + णिच् + ण्युल् । टापि अत
इत्त्वम् ।) वंशीवाद्यम् । यथा, --
“सालेयिका च सालेयी सालिका सुरलासिका ॥”
इति शब्दरत्नावलीति केचित् ॥

सुरलोकः, पुं, (सुराणां लोकः ।) स्वर्गः । इत्य-

मरः । १ । १ । ६ ॥ (यथा, भागवते । ७ । १० । १३ ।
“कौर्त्तिं विशुद्धां सुरलोकगीतां
विहाय मामेष्यति मुक्तबन्धः ॥”)

सुरवर्त्म, [न्] क्ली, (सुराणां वर्त्म ।) आकाशम् ।

इत्यमरः । १ । २ । १ ॥

सुरवल्लभा, स्त्री, (सुराणां वल्लभा ।) श्वेतदूर्व्वा ।

इति राजनिर्घण्टः ॥

सुरवल्ली, स्त्री, (सुराणां वल्ली ।) तुलसी । इति

राजनिर्घण्टः ॥

सुरवैरी, [न्] पुं, (सुराणां वैरी ।) असुरः ॥

इति शब्दरत्नावली ॥

सुरशत्रुः, पुं, (सुराणां शत्रुः ।) असुरः । इति हलायुधः ॥

सुरशाखी, [न्] पुं, (सुराणां शाखी ।) कल्पवृक्षः ।

इति जटाधरः ॥

सुरश्रेष्ठा, स्त्री, (सुरेषु श्रेष्ठा ।) ब्राह्मी । इति

राजनिर्घण्टः ॥

सुरसं, क्ली, (शोभनो रसो यस्य ।) वोलम् ।

त्वचम् । गन्धतृणम् इति राजनिर्घण्टः ॥
तुलसी । इति मेदिनी ॥

सुरसः, पुं, (शोभनो रसो यस्य ।) सिन्धुवारः ।

इति शब्दरत्नावली ॥ (अस्य पर्य्यायो यथा, --
“इन्द्राणी चेन्द्रः सुरसो निगुण्डी श्वेतवारकः ॥”
इति वैद्यकरत्नमालायाम् ॥)
पृष्ठ ५/३८२
मोचरसः । इति राजनिर्घण्टः ॥ (पीतशालः ।
अस्य पर्य्यायो यथा, --
“सुरसो बीजकश्चैव पीतशालोऽभिधीयते ॥”
इति गारुडे २०८ अध्यायः ॥
तुलसीविशेषः । अस्य गुणा यथा, --
“हिक्काकासविषश्वासपार्श्वशूलविनाशनः ।
पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धनुत् ॥”
इति चरके सूत्रस्थाने । २७ अध्यायः ॥
“कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ।
पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

सुरसः, त्रि, (शोभनो रसो यस्य ।) स्वादुः । इति

मेदिनी ॥ सुन्दररसयुक्तश्च । (यथा, बृहत्-
संहितायाम् । ५४ । १०३ ।
“तस्यां प्रभूतं सुरसञ्च तोयं
कृष्णाथवा यत्र च रक्तमृत् वा ॥”)

सुरसद्म, [न्] क्ली, (सुराणां सद्म ।) स्वर्गः । इति

हलायुधः ॥ (देवगृहम् । यथा, कथासरित्-
सागरे । ९३ । ८३ ।
“एत मोक्षं प्रयातेति वदन्त्यामिव दूरतः ।
वाताक्षिप्तसमुत्क्षिप्तैः सुरसद्मध्वजांशुकैः ॥”)

सुरसम्भवा, स्त्री, (सुरप्रियः सम्भवो यस्याः ।)

आदित्यभक्ता । इति राजनिर्घण्टः ॥

सुरसरित्, स्त्री, (सुराणां सरित् ।) गङ्गा । इति

हलायुधः ॥ (यथा, रघुः । २ । ७५ ।
“सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ॥”)

सुरसर्षपकः, पुं, (सुरप्रियः सर्षपः । ततः कम् ।)

देवसर्षपः । इति राजनिर्घण्टः ॥

सुरसा, स्त्री, (शोभनो रसो यस्याः ।) तुलसी ।

यथा । सुरसा स्त्री तु पर्णासे । इति शब्दरत्ना-
वली ॥ पर्णासे तु नपुंसकम् । इति मुद्राङ्कित-
मेदिनी ॥ पर्णासे पुंनपुंसकम् । इति हस्ताक्षर-
मेदिनी ॥ सुरसस्तु त्रिषु स्वादौ पर्णासे न नपुं-
सकम् । इति च कस्याञ्चिन्मेदिन्यां पाठः ॥ * ॥
रास्ना । इत्यमरः । २ । ४ । ११४ ॥ मिश्रेया ।
इति शब्दचन्द्रिका ॥ ब्राह्मी । इति रत्नमाला ॥
महाशतावरी । इति राजनिर्घण्टः ॥ दुर्गा ।
इति केचित् ॥ नागमाता । इति मेदिनी ॥
यथा, --
“ततो देवाः सगन्धर्व्वाः सिद्धाश्च परमर्षयः ।
अब्रुवन् सूर्य्यसङ्काशां सुरसां नागमातरम् ॥
अयं वातात्मजः श्रीमान् प्लवते सागरोपरि ।
हनूमान्नाम तस्य त्वं मुहूर्त्तं विघ्नमाचर ॥
राक्षसं रूपमास्थाय सुघोरं पर्व्वतोपमम् ।
दृष्ट्वा करालं पिङ्गाक्षं वक्त्रं कृत्वा नभस्पृशम् ॥
वलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥”
इति वाल्मोकीये रामायणे सुन्दराकाण्डे १ सर्गः ॥
नदीभेदः । इति श्रीभागवते ५ स्कन्धे १९
अध्यायः ॥ (अप्सरोविशेषः । यथा, महा-
भारते । १ । १२३ । ६० ।
“पुण्डरीका सगन्धा च सुरसा च प्रमाथिनी ॥”
राक्षसीविशेषः । तद्विषयको मन्त्रो यथा, --
“हिमवदुत्तरे कूले सुरसा नाम राक्षसी ।
तस्या नूपुरशब्देन विशल्या गुर्व्विणी भवेत् ॥”
इति हारीते चिकित्सितस्फाने ५१ अध्याये ॥)

सुरसाष्टः, पुं, वृक्षगणविशेषः । यथा, --

“निर्गुण्डी तुलसी ब्राह्मी बृहती कण्टकारिका
पुननवेति मनिभिः सुरसाष्टः प्रकीर्त्तितः ॥”
इति शब्दचन्द्रिका ॥

सुरसिन्धुः, पुं, (सुराणां सिन्धुः ।) गङ्गा । इति

केचित् ॥ (यथा, कथासरित्सागरे । १८ । ६२ ।
“निवसन्ति च देशेऽपि सुरसिन्धुसमाश्रिते ॥”)

सुरसुन्दरी, स्त्री, (सुराणां सुन्दरी रमणी सुरेषु

सुन्दरी इति वा ।) अप्सरसः । दुर्गा । इति
केचित् ॥ योगिनीविशेषः । तद्विवरणं योगिनी-
शब्दे द्रष्टव्यम् ॥ (सुरस्त्री । यथा, किराते । ५ । २८ ।
“अस्मिन् रतिश्रमनुदश्च सरोजवाताः
स्मर्त्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥”)

सुरा, स्त्री, (सु अभिषवे + क्रन् । स्त्रियां टाप् ।

इत्युणादिवृत्तौ उज्ज्वलः । २ । २४ । यद्वा, सुष्ठु
रायन्त्यनयेति । सु + रै शब्दे + “आतश्चोप-
सर्गे । ३ । ३ । ११६ । इत्यङ् । टाप् ।)
चषकम् । मद्यम् । इति मेदिनी ॥ अस्याः
पर्य्यायगुणादि मदिराशब्दे मद्यशब्द च
द्रष्टव्यम् । सुराया विशेषगुणा यथा, --
“कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम्
सुरा प्रशस्ता वातघ्नी स्तन्यरक्तक्षयेषु च ॥”
इति राजवल्लभः ॥
तत्पानप्रायश्चित्तं यथा, --
“ब्रह्मघ्रश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
सेतु दृष्ट्वा विशुध्यन्ते तत्संयोगी च पञ्चमः ।
ततो धेनुशतं दद्यात् ब्राह्यणानान्तु भोजनम् ॥”
इति गारुडे २२६ अध्यायः ॥ * ॥
तत्पाने शुक्राचार्य्यशापो यथा, --
“सुरापानाद्वञ्चनां प्रापयित्वा
संज्ञानाशं चैनमस्यातिघोरम् ।
दृष्ट्वा कचञ्चापि तथापि रूपं
पीत तथा सुरया मोहितेन ॥
समन्युरुत्थाय महानुभाव-
स्तदोशना विप्रहितं चिकीर्षुः ।
काव्यः स्वयं वाक्यमिदं जगाद
सुरापानं प्रति वै जातशङ्कः ॥
यो ब्राह्मणोऽद्यप्रभृतीह कश्चित्
मोहात् सुरां पास्यति मन्दबुद्धिः ।
अपेतधर्म्मा ब्रह्महा चैव स स्यात्
अस्मिन् लोके गर्हितः स्यात् परे च ॥
मया चेमां विप्रधर्म्मोक्तसीमां
मर्य्यादां वै स्थापितां सर्व्वलोके ।
सन्तो विप्राः शुश्रुवांसो गुरूणां
देवा दैत्याश्चोपशृण्वन्तु सर्व्वे ॥”
इति महाभारते । १ । ७६ । ५९ -- ६२ ॥
ब्राह्मणक्षत्त्रियवैश्यानां त्रिविधसुरापानप्राय-
श्चित्तादि यथा, --
“सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां
पिबेत् ।
तथा स्वकाये निर्दग्धे मुच्यते किल्विषात्ततः ॥
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा ।
पयो घृतं वा मरणाद्गोसकृद्रसमेव वा ॥
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ।
सुरापानापनुत्त्यर्थं बालवासा जटी ध्वजी ॥
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्व्वा न पातव्या द्विजोत्तमैः ॥
यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥
अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् ।
अकार्य्यमन्यत् कुर्य्याद्वा ब्राह्मणो मदमोहितः ॥
यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वञ्च स गच्छति ॥
एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ॥
इति मानवे ११ । ९१ -- ९९ ॥
सौत्रामणियज्ञेऽपि तत्पाननिषेधो यथा, --
“यद्घ्राणमक्षो विहितः सुराया-
स्तथा पशोरालभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्यै
इमं विशुद्धं न विदुः स्वधर्म्मम् ॥”
इति श्रीभागवते । ११ । ५ । १३ ॥ * ॥
“यस्मात् सुराया घ्राणभक्षः अवघ्राणं स एव
विहितः न पानं तथा पशोरपि आलभनमेव
विहितं न तु हिंसा । अतो न यथेष्टभक्षणाभ्य-
नुज्ञेत्यर्थः । व्यवायोऽपि प्रजया निमित्तभूतया न
रत्यै । अतो मनोरथवादिन इमं विशुद्धं स्वधर्म्मं
न विदुरिति ।” इति तट्टीकायां श्रीधरस्वामी ॥
अन्यत् प्रायश्चित्तशब्दे द्रष्टव्यम् ॥ * ॥ सुरापाने
वर्णनीयानि यथा, --
सुरापाने विकलता स्खलनं वचने गतौ ।
लज्जा मानच्यु तिः प्रेमाधिक्यं रक्ताक्षता भ्रमः ॥”
इति कविकल्पतायां १ स्तवके ३ कुसुमम् ॥

सुराः, [रै] पुं स्त्री, धनवान् । सु शोभनो रा धनं

यस्येति बहुव्रौहौ कृते रैशब्दस्य रादेशेन
निष्पन्नः ॥

सुराकरः, पुं, (सुराया आकरः ।) नारिकेल-

वृक्षः । इति केचित् । मद्योत्पत्तिस्थानम् । यथा ।
“आकराः शुचयः सर्व्वे वर्जयित्वा सुराकरम् ।”
इति शुद्धितत्त्वे बौधायनवचनम् ॥

सुराङ्गना, स्त्री, (सुराणामङ्गना ।) देवपत्नी

अप्सरसः ॥ इति केचित् । यथा, --
“सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मिते
लसद्वितानभूषिते सलील-विभ्रमालसम् ।
सुराङ्गनाभवल्लवीकरप्रपञ्च चामर-
स्फुरत्स्मीर-वीजितं सदाच्युतं भजामि तम् ॥”
इति छन्दोमञ्जर्य्याम् २ स्तवकः ॥

सुराचार्य्यः, पुं, (सुराणामाचार्य्यः ।) बुहस्पतिः ।

इत्यमरः । १ । २ । २४ ॥

सुराजकः, पुं, सुष्ठु राजते इति । राज + ण्वल् ।)

भृङ्गराजः । इति शब्दमाला ॥