सामग्री पर जाएँ

शब्दकल्पद्रुमः/समूहनी

विकिस्रोतः तः
पृष्ठ ५/२८१

समूहनी, स्त्री, (समूह्यतेऽनयेति । सम् + ऊह +

ल्युट् । स्त्रियां ङीप् ।) सम्मार्ज्जनी । इति हेमचन्द्रः ॥

समूह्यः, पुं, (समूह्यते इति । सम् + ऊह + ण्यत् ।)

यज्ञाग्निः । तत्पर्य्यायः । परिचाय्यः २ उप-
चाय्यः ३ । इत्यमरः । २ । ७ । २० ॥ सम्यगूहयोग्ये,
त्रि । निर्विसर्गश्चेदानन्तर्य्यार्थः । यथा, --
“प्रागुदक्प्लवनं देशं समं वा परिसमूह्य ॥”
इति गोभिलसूत्रम् ॥

समृद्धः, त्रि, (सम् + ऋधु वृद्धौ + क्तः ।) समृद्धि-

युक्तः । तत्पर्य्यायः । अधिकर्द्धिः २ । इत्यमरः ।
३ । १ । ११ ॥ अधिसम्पत्तिशाली ३ । इति शब्द-
रत्नावली ॥ (यथा, रामायणे । २ । १४ । २७ ॥
“संहृष्टमनुजोपेतां समृद्धविपणापणाम् ॥”
नागविशेषे, पुं । इति महाभारतम् । १ ।
५७ । १७ ॥)

समृद्धिः, स्त्री, (सम् + ऋध् + क्तिन् ।) सम्यग्-

वृद्धिः । अतिशयसम्पत्तिः । तत्पर्य्यायः । एधा
२ । इत्यमरः । ३ । २ । १० ॥ विधा ३ । इति
जटाधरः ॥ (यथा, रघुः । ९ । १३ ।
“चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् ॥”)

समेतः, त्रि, (सम् + आ + इण् + क्तः ।) सम्यक्-

प्राप्तः । संयुक्तः । यथा, --
“नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम् ।
बहु मनुते तनुते तनुसङ्गतपवनचलितमपि रेणुम् ॥”
इति श्रीजयदेवः ॥

समेधितः, त्रि, सम्यग्वर्द्धितः । संपूर्व्वैधधातोः

क्तप्रत्ययेन निष्पन्नः ॥

समोदकं, क्ली, (समं उदकं यत्र ।) मथितार्द्धाम्बु-

दधि । अर्द्धजलयुक्तघोलम् । इति हेमचन्द्रः ॥
तत्पर्य्यायः । उदश्वित् २ । इत्यमरः । २ । ७ ।
१३९ ॥

सम्पः, पुं, पतनम् । इति भूरिप्रयोगः ॥

सम्पत्तिः, स्त्री, (सं + पद् + क्तिन् ।) विभवोत्-

कर्षः । तत्पर्य्यायः । श्रीः २ लक्ष्मीः ३ सम्पद् ४ ।
इत्यमरः । २ । ८ । ८२ ॥ ऋद्धिः ५ । इति जटाधरः ॥
भूतिः ६ । इति मेदिनी ॥ (यथा, कथासरित्-
सागरे । २४ । १६१ ।
“तदैव च ददौ तस्मै सुतां क्लेशविवर्द्धिताम् ।
निजां शिवाय सम्पत्तिमिव मूढत्वहारिताम् ॥”)

सम्पत्, [द्] स्त्री, (सं + पद् + क्विप् ।) सम्पत्तिः ।

इत्यमरः । २ । ८ । ८१ ॥ (यथा, रघुः । १ । ६४ ।
“त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥”)
गुणोत्कर्षः । (यथा, किराते । ५ । २४ ।
“गुणसम्पदा समधिगम्य परं
महिमानमत्र महिते जगताम् ।
नयशालिनि श्रिय इवाधिपतौ
विरमन्ति न ज्वलितुमौषधयः ॥”)
हारभेदः । इति मेदिनी ॥

सम्पदं, क्ली, (सम्यक् पदं यत्र ।) समं पदयुगम् ।

इति शब्दमाला ॥

सम्पद्वरः, पुं, (सं + पद + ष्वरच् । इति पुरुषो-

त्तमदेवः । इत्युणादिटीकायामुज्ज्वलदत्तः ।)
राजा । इति सिद्धान्तकौमुदी ॥

सम्पन्नः, त्रि, (सं + पद + क्तः ।) साधितः ।

(यथा, पञ्चदशी । ८ । ८१ ।
“लौकिकं वचनं सार्थं सम्पन्नं त्वत्प्रसादतः ॥”)
सम्पत्तियुक्तः । इति मेदिनी ॥

सम्परायः, पुं, (सम्यक् परे काले ईयते इति ।

इण् + घञ् ।) आपत् । युद्धम् । उत्तरकालः ।
इत्यमरः । ३ । ३ । १५० ॥

सम्परायकं, क्ली, युद्धम् । इत्यमरटीकायां भरतः ।

२ । ८ । १०४ ॥

सम्परायिकं, क्ली, युद्धम् । इत्यमरटीकायां स्वामी ।

२ । ८ । १०४ ॥

सम्पर्कः, पुं, (सम् + पृच् + घञ् ।) मेलकः ।

रतिः । इति मेदिनी ॥ संसर्गः । यथा, --
“सम्पर्काद्दष्यते विप्रो जनने मरणेऽपि वा ।
सम्पर्कविनिवर्त्तानां न प्रेतं नैव सूतकम् ॥”
इति शुद्धितत्त्वम् ॥

सम्पर्की, [न्] त्रि, (सं + पृची सम्पर्के + “संपृ-

चेति ।” ३ । २ । १४२ । इति घिनुण् ।) सम्पर्क-
विशिष्टः । सम्पर्कशब्दादिन्प्रत्ययेन निष्पन्नः ।
इति केचित् ॥

सम्पर्कीयः, त्रि, सम्पर्कयुक्तः । सम्बन्धीयः ।

सम्पर्कशब्दात् णीयप्रत्ययेन निष्पन्नः ॥

सम्पा, स्त्री, (संपततीति । सं + पत + डः । टाप् ।)

विद्युत् । यथाह कश्चित् ।
“रागान्धा तमसो विसारिविरहज्वालातिवृष्टेः
स्मरा-
विष्ठा भूतगणात् पथोऽतिविषमाद्भ्रष्टा बधूः
सत्पथात् ।
पङ्कादेन मदेन पङ्किलतनुः सम्पाति सम्पाततः
सम्पाभानुभुजङ्गसद्म विजहौ यान्ती भुजङ्गा-
द्भयम् ॥”

सम्पाकः, पुं, (सम्यक् पाको यस्य ।) आरग्वध-

वृक्षः । इत्यमरः । २ । ४ । २३ ॥ (यथा, सुश्रुते
उत्तरतन्त्रे ६१ अध्याये ।
“सम्पाकश्रेयसीसप्तपर्ण्यपामार्गपीलुभिः ॥”)
सम्यक्पाकश्च ॥

सम्पाकः, त्रि, (सम्यक् पाको यस्य ।) तर्क्ककः ।

धृष्टः । इति मेदिनी ॥ अल्पः । लम्पटः । इति
धरणिः ॥

सम्पाटः, पुं, तर्कुः । इति शब्दमाला ॥

सम्पातः, पुं, (सम् + पत + घञ् ।) पतनम् ।

इति भूरिप्रयोगः ॥ (यथा, गीतायाम् । १ ।
२० ।
“प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ।
हृषीकेशं तदा वाक्यमिदमाह महीपते ! ॥”)
पक्षिणां गतिविशेषः । इति जटाधरः ॥

सम्पातिः, पुं, अरुणपुत्रः । स च जटायुषोऽग्रजो

भ्राता । यथा, रामायणे । ४ । ५६ । २ ।
“सम्पातिर्नाम नाम्ना तु चिरजीवी विहङ्गमः ।
भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः ॥”
(यथा च तत्रैव गरुडवाक्ये । ३ । १४ । ३२ ।
“द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ।
तस्माज्जातोऽहमरुणात् सम्पातिश्च ममाग्रजः ॥”
यथाच महाभारते । १ । ६६ । ७० ।
“अरुणस्य भार्य्या श्येनी तु वीर्य्यवन्तौ महा-
बलौ ।
सम्पातिं जनयामास वीर्य्यवन्तं जटायुषम् ॥”
तथा तत्रैव । ३ । २७८ । १ ।
“सखा दशरथस्यासीत् जटायुररुणात्मजः ।
गृध्रराजो महावीरः सम्पातिर्यस्य सोदरः ॥”
अस्य पक्षदहन-विररणम् । यथा, रामायणे ।
४ । ५८ । ४ -- ७ ।
“पुरा वृत्रवधे वृत्ते स चाहञ्च जयैषिणौ ।
आदित्यमुपयातौ खे ज्वलन्तं रश्मिमालिनम् ॥
आवृत्याकाशमार्गेण जवेन स्वर्गतौ भृशम् ।
मध्यं प्राप्ते तु सूर्य्ये तु जटायुरवसीदति ॥
तमहं भ्रातरं दृष्ट्वा सूर्य्यरश्मिभिरर्द्दितम् ।
पक्षाभ्यां छादयामास स्नेहात् परमविक्लवम् ॥
निर्दग्धपक्षः पतितो बिन्ध्येऽहं वानरर्षभाः ।
अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये ।
जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा ॥”)

सम्पातिकः, पुं, (सम्पातिरेव । स्वार्थे कन् ।)

गरुडज्येष्ठपुत्त्रः । इति शब्दमाला (अरुणस्य
ज्येष्ठपुत्त्रः । इति पुराणम् ॥)

सम्पादकः, पुं, (सम्पादयतीति । सं + पद् + णिच्

+ ण्वुल् ।) निष्पादकः । सम्पन्नकर्त्ता ॥

सम्पादनं, क्ली, निष्पादनम् । संपूर्व्वकञ्यन्त-

पदधातोरनट्-(ल्युट्) प्रत्ययेन निष्पन्नम् ॥
(यथा, कथासरित्सागरे । १५ । १४९
“संभाव्य सिद्ध्युदयमात्मचिकीर्षितस्य
सम्पादनाय सुतरां जगृहुः प्रयत्नम् ॥”)

सम्पादितः, त्रि, निष्पादितः । संपूर्व्वञ्यन्त-

पदधातोः क्तप्रत्ययेन निष्पन्नः ॥

सम्पीडनं, क्ली, सम्यक्प्रकारेण व्यथनम् । सं-

पूर्व्वपीडधातोरनट् (ल्युट्) प्रत्ययेन निष्पन्नम् ॥

सम्पीतिः, स्त्री, सम्यक्पानम् । संपूर्व्वपाधातोः

क्तिन्प्रत्ययेन निष्पन्नम् ॥

सम्पुटः, पुं, (सं + पुट् + कः ।) कुरुवकः ।

इत्यजयः ॥ पेटा । इति हेमचन्द्रः ॥ एकजा-
तीयोभयमध्यवर्त्ती । यथा, तन्त्रसारः ।
“सकामः संपुटो जप्यो निष्कामः संपुटंविना ।”
तथा च तत्रैव ।
“केवलां मातृकां कृत्वा मातृका तारसंपुटा ।
मातृकापुटितं तारं न्यसेत् साधकसत्तमः ॥”
रतिबन्धविशेषः । तल्लक्षणं यथा, --
“संप्रसार्य्योभयोः पादौ शय्यागतकपोलकः ।
पृष्ठ ५/२८२
भगलिङ्गस्य संयोगात् रमते संपुटो हि सः ॥”
इति रतिमञ्जरी ॥

सम्पुटकः, पुं, (सम्पुट्यते इति । सं + पुट +

क्वुन् ।) आधारविशेषः । साँपुडा इति ख्यातः ।
इति भरतः ॥ तत्पर्य्यायः । समुद्गकः २ । इत्य-
मरः । २ । ६ । १३९ ॥ समुद्गः २ सम्पुटः ४ ।
इति हेमचन्द्रः ॥

सम्पूर्णं, त्रि, (सं + पॄ + क्तः ।) समग्रम् । परि-

पूर्णम् । साङ्गम् । यथा, --
“गृहीतेऽस्मिन् व्रते देव ! यद्यपूर्णे त्वहं म्रिये ।
तन्मे भवतु संपूर्णं त्वत्प्रसादाज्जनार्द्दन ! ॥”
इति तिथ्यादितत्त्वम् ॥

सम्पूर्णः, पुं, (सं + पॄ + क्तः ।) रागस्य जाति-

विशेषः । स तु सप्तस्वरमिश्रितरागिण्यः । यथा,
“औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु
षाडवः ।
सम्पूर्णः सप्तभिः प्रोक्तो रागजातिस्त्रिधा मता ॥”
इति सङ्गीतरत्नाकरः ॥
अपि च । सम्पूर्णस्वराः सा ऋ ग म प ध नि ।
सम्पूर्णरागाः सप्तभिः स्वरैर्यथा । नाट-
वसन्तादयः । इति सङ्गीतदामोदरः ॥

सम्पूर्णा, स्त्री, (सम्पूर्ण + टाप् ।) एकादशी-

विशेषः । सा तु पूर्व्वारुणोदयव्यापिनी सती
षष्टिदण्डात्मिका । यथा, --
“आदित्योदयवेलायाः प्राङ्मुहूर्त्तद्बयान्विता ।
सैकादशी हि संपूर्णा विद्धान्या परिकीर्त्तिता ॥”
इति तिथ्यादितत्त्वम् ॥

सम्पृक्तः, त्रि, (सं + पृच् + क्तः ।) मिश्रितः ।

तत्पर्य्यायः । करम्बः २ कवरः ३ मिश्रः ४ खचितः
५ । इति हेमचन्द्रः ॥

सम्प्रति, व्य, (सम् च प्रति च द्वयोः समाहारः ।)

अस्मिन् काले । तत्पर्य्यायः । एतर्हि २ इदानीं
३ अधुना ४ सांप्रतम् ५ । इत्यमरः । ३ । ४ । २३ ॥
(यथा, भागवते । ७ । १ । १७ ।
“सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्म्मतिः ॥”)

सम्प्रतिः, पुं, अतीतकल्पीयार्हद्भेदः । इति हेम-

चन्द्रः ॥

सम्प्रतिपत्तिः, स्त्री, (सं + प्रति + पद् + क्तिन् ।)

उत्तरविशेषः । यथा, --
“मिथ्यासंप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा ।
प्राङ्न्यायाश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्र-
वेदिभिः ॥
श्रुत्वाभियोगं प्रत्यर्थी यदि तं प्रतिपद्यते ।
सा तु संप्रतिपत्तिः स्याच्छास्त्रविद्भिरुदाहृता ॥”
अभियुज्यते अभियोगः । प्रतिपद्यते अङ्गी-
करोति । तं साध्यार्थम् । इति व्यवहारतत्त्वम् ॥
(सौमनस्यम् । यथा, माघे । १९ । ३८ ।
“न तस्थौ भर्त्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥”)

सम्प्रतिरोधकं, त्रि, (सम्यक्पकारेण प्रतिरुण-

द्वीति । सं + प्रति + रुध + ण्वुल् ।) प्रतिबन्ध-
कम् । सम्प्र तिपूर्व्वरुधधातोर्णकप्रत्ययेन निष्पन्नम् ॥

सम्प्रतीतिः, स्त्री, सम्यक्ख्यातिः । सम्यग्ज्ञानम् ।

संप्रतिपूर्व्वेनधातोः क्तिन्प्रत्ययेन निष्पन्नम् ॥

सम्प्रदाता, [ऋ] त्रि, (सं + प्र + दा + तृच् ।)

संप्रदानकर्त्ता । यथा, शुद्धितत्त्वे कात्यायन-
वचनम् ।
“त्रयाणामुदकं कार्य्यं त्रिषु पिण्डः प्रवर्त्तते ।
चतुर्थं संप्रदातैषां पञ्चमो नोपपद्यते ॥”

सम्प्रदानं, क्ली, (सं + प्र + दा + ल्युट् ।) सम्य-

क्प्रकारेण दानम् । षट्कारकान्तर्गतकारक-
विशेषः । स च दित्सासूयाक्रोधेर्षारुचिद्रोह-
स्थाह्नुश्लाघस्पृहिशप्राधीक्षाप्रतिश्रुप्रत्यनुगृधार्य्य-
र्थानां विषयः । तत्र चतुर्थी विभक्तिः स्यात् ।
मुख्यसंप्रदानन्तु प्रकृष्टं दानं यो लभते सः ।
तथा चोक्तम् ।
“सम्प्रदानं तदेव स्यात् पूजानुग्रहकाम्यया ।
दीयमानेन संयोगात् स्वामित्वं लभते यदि ॥”
इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥
अपि च ।
“गत्यादिभिन्ने धात्वर्थे चतुर्थ्या विग्रहस्थया ।
यः स्वार्थो बोधनीयस्तत् संप्रदानत्वमीरितम् ॥”
गत्यादिभिन्ने यद्धातूपस्थाप्य यादृशार्थे विग्रहस्थ-
चतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धा-
तूपस्थाप्य तादृशक्रियायां संप्रदानत्वमुच्यते ।
ब्राह्मणाय दानं धनस्य इत्यादौ ददातेः स्वत्व-
जनकस्त्यागोऽर्थः तन्निविष्टे च स्वत्वे ब्राह्मणादेः
प्रतियोगित्वं निरूपितत्वं वा चतुर्थ्या बोध्यते इति
तदेव तत्र संप्रदानत्वं ब्राह्मणादिप्रतियोगिकं
यद्धनवृत्तिस्वत्वं तज्जनकस्त्याग इत्येवं तत्र प्रत्य-
यात् धात्वर्थतावच्छेदकीभूतस्वत्वाख्यफलवत्तया
धनादेर्दानकर्म्मत्वात् । न चैवं पशुकामनया
यागकरणदशायां चैत्रः स्वात्मने पशुं ददातीत्यपि
प्रयोगापत्तिः तादृशयागस्य चैत्रीयं यत् पशु-
निष्टं स्वत्वं तज्जनकत्यागत्वादिति वाच्यं स्वत्व-
ध्वंसजनकक्रियापर्य्यवसन्नस्य त्यागस्यैकदेशे स्वत्व-
ध्वंसेऽपि द्वितीयाद्यर्थस्यान्वयेन पशुफलकयागे
पशुनिष्ठस्य स्वत्वध्वंसस्य जनकत्वविरहादेत-
द्बाक्यस्याप्रमाणत्वात् । ग्रामाय गत इत्यादौ
विग्रहस्थचतुर्थ्या धात्वर्थे बोध्यमपि कर्म्मत्वं न
गत्यादिभिन्ने । वृक्षाय सेचक इत्यादौ गत्यादि-
भिन्ने चतुर्थ्या बोधनीयोऽपि संवर्द्धयितुमित्यादि
तुमर्थो न विग्रहस्थयेति न तत्र प्रसङ्गः ।
संप्रदानशब्दस्तु स्वाश्रयगोचरत्यागजन्यस्वत्वस्य
प्रतियोगिन्येव शक्त इति स्वत्वप्रतियोगित्वं संप्र-
दानमित्यादिको न प्रयोगः । न च दानस्य
स्वत्वहेतुत्वे प्रमाणाभावः ।
‘सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो
जयः ।
प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥’
इत्यादि मन्वादिवचनैस्तस्य स्वत्वहेतुत्वाप्रति-
पादनादिति वाच्यम् । ब्राह्मणाय त्यक्तायां गवि
गौरियं ब्राह्मणस्य न तु ममेत्यादि सार्व्वजनीन-
प्रतीतेरेव तत्र प्रमाणत्वात् प्रदानं स्वाम्य-
कारणमिति वचनाच्च अतएव विदेशस्थं पात्र-
मुद्दिश्य त्यक्तधने स्वीकारमन्तरेणैव पात्रस्य
मरणस्थले पितृदायत्वेन तद्धनं पुत्त्रादिभिर्विभज्य
गृह्यते अन्यथा तैरिव उदासीनैरपि तद्धन-
स्यारण्यकुशादेरिवोपादाने यथेष्टनियोगे च
प्रत्यवायो न स्यात् नन्वेवं दानादेव स्वत्वसिद्धे-
र्दत्तवस्तुनि स्वीकारो व्यर्थ इति चेन्न लब्ध्वा
चाष्टगुणं फलमित्यादि स्मृतेः प्रतिगृहीतद्रव्य-
दानस्य फलविशेषं प्रति हेतुत्वेन तादृशफल-
सम्पत्त्यर्थमेव प्रतिग्रहस्योपयोगात् याजना-
ध्यापनप्रतिग्रहैर्द्विजो धनमर्जयेदित्यादिश्रुत्या
प्रागुक्तस्मृत्या च प्रतिग्रहस्यापि स्वत्वहेतुत्व-
बोधनाच्च । स्वत्वजनकव्यापारस्यैवार्ज्जनपदार्थ-
त्वात् । दासाय भक्ष्यं ददाति भृतकाय वेतनं
ददातीत्यादावपि स्वत्वजनकत्यागं प्रतिपादयन्
ददातिर्मुख्य एव पुण्यजनकन्तु न तादृशं
दानमवैधत्वात् । यत्तु स्वीकारजन्यस्य स्वत्वस्य
जनकस्त्यागो दानं मनसा पात्रमुद्दिश्य धनत्या-
गन्तु न दानं किन्तूत्सर्गमात्रं प्रतिग्रहजन्यस्वत्वं
प्रति हेतुभूतवैधत्यागस्यैव तथात्वात् उपेक्षा तु
स्वत्वध्वंसमात्रजनकस्त्यागो न तु तत्र स्वत्व-
जनकस्यान्तर्भाव इति मैथिलैरुक्तं तन्न युक्तं
लाघवेन स्वत्वजनकत्यागस्यैव ददात्यर्थत्वात् ।
तिलानस्मै प्रतियच्छति तुरगमस्मै विक्रीणीते
इत्यादौ द्रव्यान्तरग्रहणपूर्ब्बक दानमव प्रति-
दानम् । मूल्यग्रहणपूर्व्वकं दानमेव विक्रय इति
तत्रापि मुख्यमेव संप्रदानत्वं चतुर्थ्या बोध्यते ।
तिलादिकञ्च न मृल्यं पणपुराणादेरेव शास्त्रे
तथात्वोपदेशात् । अदृष्टार्थं दत्तस्यैव च
स्वीकारः प्रतिग्रह इति परेण प्रतिदत्तस्य
विक्रीतस्य वा तिलतुरगादेः स्वीकारो न
दोषावहः । मैत्राय रोचते मोदक इत्यत्र
चतुर्थ्या धात्वर्थान्वितं आधेयत्वं धातुना च
भक्ष्यत्वप्रकारकेच्छोपस्थाप्यते तिङा तु प्रकाशत
इत्यादाविव विषयत्वलक्षणं कर्त्तृत्वं तथा च
मैत्रनिष्ठायाः भक्ष्यत्वप्रकारकेच्छाया विषयता-
वान् मोदकः इत्याकारकस्तत्र बोधः । गुरवे
गां धारयते इत्यत्र धृङा गृहावस्थितिः द्विती-
यया तदन्वितं कर्त्तृत्वं चतुर्थ्या च तन्निविष्ट-
गृहान्वितं सम्बन्धित्वमुपस्थाप्यते तेन गोकर्त्तृ-
काया गुरुसम्बन्धिगृहावस्थितेरनुकूलव्यापार-
वान् इत्याकारकस्तत्र बोधः । धातूत्तरणिचा
व्यापारबोधनादिति कालापाः । पाणिनीयास्तु
धारेरुत्तमर्णे इति सूत्रानुसारेण चैत्राय शतं
धारयते इत्यादाविव गुरवे गां धारयते इत्या-
दावपि ऋणग्रहणं धारणं दत्तत्वञ्च चतुर्थ्यर्थः
तथा च गुरुदत्तां गां ऋणत्वेन गृह्णाति इत्या-
कारस्तत्र वाक्यार्थः पश्चात् शोध्यत्वेनाङ्गीकृत्य
गृहीतञ्च द्रव्यमृणमित्याहुः । पुत्त्राय राध्यति
पुत्त्रायेक्षत इत्यादौ दैवनिरूपणं धात्वर्थः तन्नि-
विष्टे च दैव सुबर्थस्य सम्बन्धस्यान्वयस्तेन पुत्त्रस्य
दैवं निरूपयति इत्येवं तत्र बोधः । गुरवे गां
पृष्ठ ५/२८३
प्रतिशृणोति आशृणोति इत्यादौ देयत्वे नाभ्यु-
पगमः शृणोतेरर्थस्तत्र गोर्विशिष्यत्वेन तदेक-
देशे च दाने गुरोरुद्दिश्यत्वेनान्वयस्तेन गुरू-
द्दश्यकदानकर्म्मत्वेन गामभ्युपगच्छतीत्येवं तत्र
बोधः । होत्रे प्रतिगृणातीत्यादौ हर्षानुकूल-
व्यापारलक्षणं प्रोत्साहनं गृणातेरर्थस्तदेक-
देशे च हर्षे होत्रादेरन्वयः तेन होतृनिष्ठ-
हर्षानुकूलव्यापारवान् इत्याकारकस्तत्र बोधः ।
चैत्राय कुप्यतीत्यादौ धात्वर्थ उत्कटद्बेषस्तत्र
विषयित्वलक्षणं संप्रदानत्वं चतुर्थ्या बोध्यते तेन
चैत्रविषयकोत्कटद्बेषवान् इत्याकारकस्तत्र
बोधः । पुत्त्रे कोपो न युज्यते इत्यत्र कृदन्तस्य
कोपपदस्यैवार्थे पुत्त्र इत्यस्यान्वयो न तु धात्वर्थे ।
पटाय यतते इत्यादावपि धात्वर्थकृतौ सुपा
पटस्य विषयित्वं बोध्यते तत्र उद्देश्यत्वमेव चतु-
र्थ्यर्थः कथमन्यथा पटेच्छया तन्तुनिर्म्माण-
दशायां पटाय यतते इत्यादिकः प्रयोग इत्यपि
वदन्ति । मित्राय द्रुह्यति इत्यत्र द्बिष्टाचरणं
द्रोहस्तेन मित्रस्य द्विष्टमाचरतीत्यर्थः । शिष्याय
ईर्ष्यति इत्यत्र अनिष्टानुपेक्षणमीर्षा तथा च
शिष्यानिष्टं नोपेक्षत इत्यर्थः । पुत्त्रायासूयति
इत्यत्रासूया गुणद्वेषस्तेन पुत्त्रस्य गुणं द्बेष्टि
इत्याकारकस्तत्र बोधः । मित्रं द्रुह्यति शिष्य-
मीर्ष्यति पुत्त्रमसूयतीत्यपि प्रयोगात् द्रुहादि-
कर्म्मणः संप्रदानत्वं वैकल्पिकमित्युन्नीयते ।
कोपपूर्व्वकस्य द्रोहादेर्द्रुहादिधातुवाच्यत्वे तत्-
कर्म्मणः संप्रदानत्वं द्रोहादिमात्रस्य तथात्वे
तु कर्म्मत्वमेवेति पुनः कौमाराः । सोपसर्गयोस्तु
क्रुधद्रुहोः कर्म्मणः कर्म्मतैव न तु संप्रदानता
अतएव शिष्यस्याभिक्रोद्धा मित्रस्याभिद्रोढे-
त्यादौ कृद्योगे कर्म्मणि षष्ठ्येव प्रमाणम् ।”
इति शब्दशक्तिप्रकाशिका ॥

सम्प्रदायः, पुं, (सं + प्र + दा + घञ् । “आतो

युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।)
गुरुपरम्परागतसदुपदेशः । शिष्टपरम्परा-
वतीर्णोपदेशः । इति भरतः ॥ तत्पर्य्यायः ।
आम्नायः २ । इत्यमरः । ३ । २ । ७ ॥ (यथा, माघे ।
१४ । ७९ ।
“सम्प्रदायविगमादुपेयुषी-
रेष नाशमविनाशिविग्रहः ।
स्मर्त्तुमप्रतिहतस्मृतिः श्रुती-
र्द्दत्त इत्यभवदत्रिगोत्रजः ॥”)
गुरुपरम्परागतसदुपदिष्टव्यक्तिसमूहः । यथा,
“संप्रदायानुरोधेन पौर्व्वापर्य्यानुसारतः ।
श्रीभागवतभावार्थदीपिकेयं प्रतन्यते ॥”
इति श्रीधरस्वामी ॥
तद्भेदा यथा, श्रीपद्मपुराणे ।
“श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च ।
श्रीलमध्वः पद्मनाभो नृहरिर्माधवस्तथा ॥
अक्षोभो जयतीर्थश्च ज्ञानसिन्धुर्महानिधिः ।
विद्यानिधिश्च राजेन्द्रो जयधर्म्ममुनिस्तथा ॥
पुरुषोत्तमो ब्रह्मण्यो व्यासतीर्थमुनिस्तथा ।
श्रीमाल्लक्ष्मीपतिः श्रीमान्माधवेन्द्रपुरिस्तथा ॥
संप्रदायविहीना ये मन्त्रास्ते निष्फला मताः ।
अतः कलौ भविष्यन्ति चत्वारः संप्रदायिनः ।
श्रीमाध्विरुद्रसनका वैष्णवाः क्षितिपावनाः ॥”
तन्त्रीक्तवैष्णवसंप्रदाया यथा, --
श्रीशिव उवाच ।
“वैखानः सामवेदादौ श्रीराधावल्लभी तथा ।
गोकुलेशो महेशानि ! तथा वृन्दावनी भवेत् ॥
पाञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः ।
रामानन्दी हविष्याशी निम्बार्कश्च महेश्वरि ॥
ततो भागवतो देवि दश भेदाः प्रकीर्त्तिताः ।
शिखी मुण्डी जटी चैव द्बित्रिदण्डी क्रमेण च ॥
एकदण्डी महेशानि वीरशवस्तथव च ।
सप्त पाशुपताः प्रोक्ता दशधा वष्णवा मताः ॥
एतेषां वासनं देवि ! शृणु यत्नेन शाम्भवि ।
वेवेष्टि सव्वं संव्याप्य यस्तिष्ठति स वैष्णवः ॥
वैखानसादिदक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः ।
श्रीराधावल्लभं देवि शृणु यत्नेन शाम्भवि ॥
वैष्णवाचारनिरतो विष्णुतन्त्रैकपारगः ।
अनन्यचेताः शान्तात्मा विष्णुचिन्तापरायणः ॥
श्रीराधावल्लभी देवि गोकुलेशं शृणु प्रिये ।
नानाभूषणसम्पन्नो नानासुगन्धिभूषितः ॥
गवां कुलं प्रीणयिता केलिकृष्णस्वरूपधृक् ।
शरीरमर्थं प्राणांश्च तन्निवेदनकारकम् ॥
अन्तःशक्तिपरो देवि वहिर्वैष्णवरूपधृक् ।
गन्धर्व्वाचारनिरतो लतावेष्टनतत्परः ॥
संप्रदायो गोकुलेशः सर्व्वसिद्धिकरो भुवि ।
वृन्दावनाख्यं देवेशि शृणु यत्नेन सांप्रतम् ॥
विगताशः प्रसन्नात्मा विष्णुभक्तिपरायणः ।
कामिनीसङ्गचपलो वनक्रीडाविनोदधृक् ॥
सौगन्धभूषिततनुः स्त्रीध्यानैकपरायणः ।
विष्णुसारूष्यतत्त्वज्ञः प्रोक्तो वृन्दावनी शिवे ॥
पाञ्चरात्रो महेणानि तथैव वीरवैष्णवः ।
पूर्ब्बमेव महेशानि कीर्त्तितः परमेश्वरि ॥
राशक्तिरिति विख्याता म शिवः परिकीर्त्तितः ।
तदानन्दी शान्तचित्ती प्रसन्नात्मा विचारधृक् ॥
सर्व्वत्र समरूपश्च रामानन्दी प्रकीर्त्तितः ।
हविष्याशं महेशानि यथावदवधारय ।
पापसंहरणाशक्तो विष्णुभक्तो जितेन्द्रियः ॥
यमादिनियमैर्युक्तो भक्ताचारपरायणः ।
स्वोपयोगफलाग्राही परकार्य्यपरायणः ॥
हविष्याशी महेशानि शिवभक्तिस्वरूपधृक् ।
निम्बार्काख्यं संप्रदायं शृणु यत्नेन सांप्रतम् ॥
नित्यार्च्चनक्रमासक्तः स्वतन्त्रैकपरायणः ।
बाह्यपूजादिनिरतो नान्यभक्तः प्रसन्नधीः ॥
आर्य्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः ।
स्वतन्त्रः स्मार्त्तविद्बेषी निम्बार्को भगवान् हरिः ॥
अथ भागवतं देवि कथ्यते शृणु सांप्रतम् ॥
विष्णुभक्तैकनिपुणो विजातात्मा प्रसन्नधीः ।
स्मार्त्तगर्व्वान्वितो देवि तदन्याचारतत्परः ॥
आर्य्यपक्षान्वितो देवि तथा स्वरूपवेशधृक् ।
शैवद्बेषी तस्य सङ्गात् पुनः स्नानपरायणः ।
केवलं विष्णुतत्त्वज्ञः प्रोक्तो भागवतः शिवे ॥”
इति शक्तिसङ्गमतन्त्रे १ खण्डे ८ पटलः ॥

सम्प्रधारणा, स्त्री, (सम् + प्र + धृ + णिच् +

युच् । टाप् ।) उचितानुचितनिश्चयः । तत्-
पर्य्यायः । समर्थनम् २ । इत्यमरः । २ । ८ । २५ ॥

सम्प्रपदं, क्ली, (सं + प्र + पद गतौ + कः ।)

भ्रमणम् । पर्य्यटनम् । इति केचित् ॥ (यथा,
याज्ञवल्के । ३ । ५१ ।
“स्वप्याद् भूमौ शुचौ रात्रौ दिवासंप्रपदैर्नयेत् ।
स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥”)

सम्प्रयोगः, पुं, (सं + प्र + युज + घञ् ।) निधु-

वनम् । रतम् । अन्वितिः । सम्बन्धः । (यथा,
रघुः । ५ । ५४ ।
“उष्णत्वमग्न्यातपसंप्रयोगात्
शैत्यं हि यत् सा प्रकृतिर्जलस्य ॥”)
कार्म्मणम् । वशीकरणादिकर्म्म । इति मेदिनी
करहेमचन्द्रौ ॥ अर्थिते, त्रि । इत्यजयः ॥

सम्प्रयोगी, [न्] पुं, (संप्रयोगोऽस्यास्तीति । इनिः ।)

कलाकेलिः । कामुकः । संप्रयोजकः । इति
मेदिनी ॥

सम्प्रसारणं, क्ली, (सं + प्र + सृ + णिच् + ल्युट् ।)

व्य करणस्य संज्ञाविशेषः । यथा । इग्यणः
संप्रसारणम् । यणस्थाने प्रयुज्यमानो य इक्
स संप्रसारणसंज्ञः स्यात् । इति सिद्धान्तकी-
मुदी ॥

सम्प्रहारः, पुं, (सम्यक्प्रकारेण प्रह्नीयतेऽत्रेति ।

सं + प्र + हृ + घञ् ।) युद्धम् । इत्यमरः । २ ।
८ । १०५ ॥ (यथा, रघुः । ७ । ५२ ।
“व्यश्वौ गदाव्यायतसंप्रहारौ
भग्नायुधौ बाहुविमर्द्दनिष्ठौ ॥”)
गमनम् । इति मेदिनी ॥ हननम् । इति
धरणिः ॥

सम्प्राप्तः, त्रि, (सं + प्र + आप् + क्तः ।) सम्यक्-

प्रकारेण प्राप्तः । यथा । स्कन्दपुराणम् ।
“संप्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे सदा ।
कर्त्तयो नियमः कश्चिद्ब्रतरूपी नरोत्तमैः ॥”
इति तिथ्यादितत्त्वम् ॥

सम्प्राप्तिः, स्त्री, (सं + प्र + आप् + क्तिन् ।)

सम्यक्प्रापणम् । यथा, --
“आत्मनेपदसंप्राप्तौ परस्मै कुत्रचिद्भवेत् ॥”
इति संक्षिप्तसारव्याकरणम् ॥

सम्प्रैषः, पुं, (सं + प्र + इष + घञ् ।) नियोगः ।

विधिः । इति हेमचन्द्रः ॥

सम्फालः, पुं, (सम्यक् फालो गमनं यस्य ।) मेषः ।

इति हेमचन्द्रः ॥

सम्फुल्लः, त्रि, (सं + फल + क्तः । “उत्फुल्लसंफु-

ल्लयोरिति वक्तव्यम् ।” ८ । २ । ५५ । इत्यस्य
वार्त्तिकोक्त्या निपातितः ।) विकसितः । प्रफुल्लः ।
इत्यमरः । २ । ४ । ७ ॥

सम्ब, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) दन्त्यादिः । ओष्ठ्यवर्गशेषोपधः ।
सम्बति । सिसम्बयिषति । इति दुर्गादासः ॥
पृष्ठ ५/२८४

सम्ब, क, सम्बन्ध । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) ओष्ठ्यवर्गशेषोपधः । क,
सम्बयति धनं लोकः संबध्नातीत्यर्थः । ताल-
व्यादिरयमिति धातुप्रदीपः । मूर्द्धन्यादिरित्य-
प्येके । इति दुर्गादासः ॥

सम्बं, क्ली, (सम्बति सर्पतीति । सम्ब + अच् ।)

जलम् । इति जटाधरः ॥ वारद्वयकर्षणम् ।
इति सम्बाकृतशब्ददर्शनात् ॥

सम्बद्धः, त्रि, (सं + बन्ध + क्तः ।) सम्बन्धयुक्तः ।

यथा सुमन्तुः । मातृपितृसम्बद्धा आसप्तमाद-
विवाह्याः कन्या भवन्ति । इत्युद्वाहतत्त्वम् ॥
(यथा च भागवते । २ । ९ । १ ।
“आत्ममायामृते राजन् परस्यानुभवात्मनः ।
न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥”)
बन्धनविशिष्टः । (यथा, रामायणे । ५ । ५६ । २७ ।
“दन्तौष्ठपुटसंबद्धं वक्त्रं सापि तदाकरोत् ॥”)

सम्बन्धः, पुं, (सम्बध्यते इति । सं + बन्ध +

घञ् ।) ममृद्धिः । न्यायः । इत्यजपः ॥ (सख्यम् ।
इति मल्लिनाथः ॥ यथा, रघुः । २ । ५८ ।
“सम्बन्धमाभाषणपूर्व्वमाहु-
र्वृत्तः स नौ सङ्गतयोर्व्वनान्ते ॥”)
संसर्गः । यथा । एकपदार्थे अपरपदार्थसंसर्गः
संसर्गमर्य्यादया भासते स च प्रतियोग्यनुयोग्या-
धाराधेयविषयविषयिभावादिः । इति प्रथमव्युत्-
पत्तिवादीयगादाधरी ॥ सम्पर्कः । स च त्रिविधः ।
विद्याजः १ योनिजः २ प्रीतिजः ३ । तद्विवरणं
यथा, --
“सम्बन्धो येषु येषां यः सर्व्वजातिषु सर्व्वतः ।
तं त्वां ब्रवीमि वेदोक्तं ब्रह्मणा कथितं पुरा ॥
पिता तातस्तु जनको जन्मदातरि वर्त्तते ।
अम्बा माता च लननी गर्भधात्र्यां प्रसूरिति ॥
पितामहः पितृपिता तत्पिता प्रपितामहः ।
अत ऊर्द्ध्वं ज्ञातयश्च सगोत्राः परिकीर्त्तिताः ॥
मातामहः पिता मातुः प्रमातामह एव च ।
मातामहस्य जनकस्तत्पिता वृद्धपूर्व्वकः ॥
पितामही पितुर्म्माता तत्श्वश्रूः प्रपितामही ।
मातामही मातृमाता मातृतुल्या च पूजिता ॥
प्रमातामहीति विख्याता प्रमातामहकामिनी ॥
वृद्धप्रमातामही ज्ञेया तत्पितुः कामिनी तथा ।
पितृभ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ।
पितुः स्वसा पितुर्भग्नी मातुर्भग्नी च मासुरी ॥
सूनुश्च तनयः पुत्त्रो दायादश्चात्मजस्तथा ।
धनभाक् वीर्य्यजश्चैव पुंसि जन्ये च वर्त्तते ॥
जन्यायां दुहिता कन्या चात्मजा परिकीर्त्तिता ।
पूत्त्रपत्नी बधूर्ज्ञेया जामाता दुहितुः पतिः ॥
पतिः प्रियश्च भर्त्ता च स्वामी कान्ते च वर्त्तते ।
पत्नीभ्राता श्यालकश्च पत्नीभग्नी च श्यालिका ॥
देवरः स्वामिनो भ्राता ननन्दा स्वामिनः स्वसा ।
श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः ॥
भार्य्या जाया प्रिया कान्ता स्त्री च पत्न्याञ्च
वर्त्तते ।
पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ॥
सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता ।
भग्नीपुत्त्रो भागिनेयो भ्रातृपुत्त्रश्च भ्रातृजः ॥
श्यालस्तु भगिनीकान्तो भगिनीपतिरेव च ।
श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना ।
श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने ॥
अन्नदाता भयत्राता पत्नीतातस्तथैव च ।
विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी ।
माता च तत्सपत्नी च कन्या पुत्त्रप्रिया तथा ॥
मातुर्म्माता पितुर्म्माता श्वश्रूः पित्रोः स्वसा
सुता ।
पितृव्याणी मातुलानी मातरश्च चतुर्द्दश ॥
पौत्त्रस्तु पुत्त्रपुत्त्रे च प्रपौत्त्रस्तत्सुतोऽपि च ।
तत्पुत्त्राद्याश्च ये वंशा कुलजाताश्च कीर्त्तिताः ॥
कन्यापुत्त्रश्च दौहित्रस्तत्पुत्त्राद्याश्च बान्धवाः ।
भागिनेयसुताद्याश्च पुरुषा बान्धवाः स्मृताः ॥
भ्रातृपुत्त्राश्च पुत्त्राद्यास्ते पुनर्ज्ञातयः स्मृताः ॥
गुरुपुत्त्रस्तथा भ्राता पोष्यः परमबान्धवः ।
गुरुकन्या च भगिनी पोष्या मातृसमा मुने ॥
पुत्त्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः ।
पुत्त्रस्य श्वशुरभ्राता बन्धुर्वैवाहिकः स्मृतः ॥
कन्यायाश्च श्वशुरे तत्सम्बन्धः परिकीर्त्तितः ।
गुरुश्च कन्यकायाश्च पुरुषा बान्धवाः स्मृताः ॥”
पुरुषा बान्धवाः स्मृता इत्यत्र भ्राता सुस्निग्ध-
बान्धवा इत्यपि क्वचित् पाठः ।
“गुरुः श्वशुरभ्रातॄणां गुरुतुल्यश्च पूजितः ।
बन्धुता येन सार्द्धञ्च तन्मित्रं परिकीर्त्तितम् ।
मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते ।
बान्धवो दुःखदो दैवात् निःसम्बन्धी सुखप्रदः ॥
सम्बन्धस्त्रिविधः पुंसां विप्रेन्द्र ! जगतीतले ।
विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्त्तितः ॥
मित्रन्तु प्रीतिजं ज्ञेयं स सम्बन्धः सुदुर्ल्लभः ।
मित्रमाता मित्रभार्य्या मातृतुल्या न संशयः ॥
मित्रभ्राता मित्रपिता भ्रातृपितृसमो नृणाम् ।
चतुर्थं नाम सम्बन्धमित्याह कमलोद्भवः ॥
जारश्चोपरतिर्बन्धुर्द्दुष्टासंभोगकर्त्तरि ।
उपपत्न्यां नवङ्गी च प्रेयसी चित्तहारिणी ॥
स्वामितुल्यश्च जारश्च नवङ्गी गृहिणीसमा ।
सम्बन्धो देशभेदे च सर्व्वदेशे विगर्हितः ॥
अवैदिको निन्दितस्तु विश्वामित्रेण निर्म्मितः ।
दुस्त्याज्यस्तु महद्भिश्च देशभेदे च सञ्चरेत् ॥
अकीर्त्तिजनकः पुंसां योषिताश्च विशेषतः ।
तेजीयसां न दोषाय विद्यमानो युगे युगे ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे सम्बन्धजातिनिर्णयो
नाम १० अध्यायः ॥ * ॥ कूर्म्मपुराणे ।
“एकोदकानां मरणे सूतकं चैतदेव हि ।
पक्षिणीं योनिसम्बन्धे बान्धवेषु तथैव च ॥”
योनिसम्बन्धे मातृस्वसीयभागीनेयेषु ॥ अपि च ।
“असम्बन्धिनो द्बिजान् दहित्वा वहित्वा सद्यः-
शौचं सम्बन्धे तु त्रिरात्रम् । इति शुद्धितत्त्वम् ॥
शब्दव्याकरणयोर्व्युत्पाद्यव्यत्पादकभावः सम्बन्धः ।
ग्रन्थादौ तस्य वक्तव्यता यथा, --
“सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते ।
ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥”
सप्रयोजन इत्यत्र क्वचित् पुस्तके साभिधेयक
इति पाठः । इति मुग्धबोधटीकायां दुर्गादासः ॥

सम्बन्धः, त्रि, (सम्बध्यते इति । सं + बन्ध + घञ् ।)

शक्तः । हितः । इत्यजयः ॥

सम्बन्धी, [न्] त्रि, (सम्बन्धोऽस्यास्तीति । इनिः ।)

सम्बन्धविशिष्टः । तत्पर्य्यायः । गुणवान् २ संयुक्
३ । इति त्रिकाण्डशेषः ॥ (यथा, मनुः । ८ । ६४ ।
“नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्त्तव्या न व्याध्यार्त्ता न दूषिताः ॥”
पुं, मातृपक्षीयः । श्वशुरादिः । जामाता ।
श्यालकादिः । यथा, मनुः । २ । १३२ ।
“विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः ॥”
“ज्ञातयः पितृपक्षाः पितृव्यादयः । सम्बन्धिनो
मातृपक्षाः श्वशुरादयश्च तेषां ज्येष्ठानां या
स्त्रियः ।” इति कुल्लूकभट्टः ॥ * ॥ तथाच
मनुः । ४ । १७९ ।
“बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः ॥”
“ज्ञातयः पितृपक्षाः । सम्बन्धिनो जामातृश्याल-
कादयः ।” इति तट्टीकायां कुल्लूकः ॥ * ॥
वैवाहिकः । यथा, उत्तरचरिते । ४ अङ्के ।
“स सम्बन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयं
स चानन्दः साक्षादपिच निखिलं जीवितपदम् ॥”
मित्रम् । इति मल्लिनाथः ॥ यथा, रघुः । २ । ५८ ।
“तद्भूतनाथानुग नार्हसि त्वं
सम्बन्धिनो मे प्रणयं विहन्तुम् ॥”)

सम्बाकृतं, त्रि, (सम्बं कृतम् । डाच् ।) वारद्वय-

कृष्टक्षेत्रम् । इत्यमरः । २ । ९ । ९ ॥ तालव्य-
शादि च ॥

सम्बाधः, पुं, (सम्यक् बाधा यत्र ।) सङ्कटः ।

(यथा, माघः । ८ । २ ।
“संसक्तैर्विपुलतया मिथो नितम्बैः
सम्बाधं बृहदपि तद्बभूव वर्त्म ॥”)
भगम् । इति मेदिनी ॥ भयम् । (यथा, महा-
भारते । ४ । ३८ । ७ ।
“व्यायामसहमत्यर्थं तृणराजसमं महत् ।
सर्व्वायुधमहामात्रं शत्रुसम्बाधकारकम् ॥”)
नरकवर्त्म । इति शब्दरत्नावली ॥

सम्बाधनं, क्ली, (सम्यक् बाधनं यत्र ।) मद-

नस्य द्बारम् । शूलाग्रम् । द्बारपालः । इति
मेदिनी ॥

सम्बुद्धः, पुं, (सं + बुध + क्तः ।) बुद्धावतारः ।

इति त्रिकाण्डशेषः ॥ सम्यग् बोधाश्रये, त्रि ॥

सम्बुद्धिः, स्त्री, (सं + बुध + क्तिन् ।) सम्बोधनम् ।

यथा । ल्यर्थसम्बुद्ध्युक्तार्थे प्री । इति मुग्धबोध-
व्याकरणम् ॥

सम्बोधः, पुं, (सं + बुध + घञ् ।) बोधनम् ।

(यथा, महाभारते । ३ । ३१२ । ८५ ।
“ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता ।
दयासर्व्वसुखैषित्वमार्ज्जवं समचित्तता ॥”)
क्षेपः । इति मेदिनी ॥ नाशः । इत्यजयपालः ॥
पृष्ठ ५/२८५

सम्बोधनं, क्ली, (सं + बुध + ल्युट् ।) अन्यत्र

व्यासक्तस्य कार्य्यान्तरे नियोजनार्थमाभिमुख्य-
विधानम् । यथा हे विष्णो । इति व्याकरणम् ॥
हे वृक्ष हे लते हे फल इत्यादावचेतने तूप-
चारः । इति दुर्गादासः ॥ तत्पर्य्यायः । आम-
न्त्रणम् २ । इति हेमचन्द्रः ॥ सम्बुद्धिः ३ । इति
मुग्धबोधः ॥ (यथा, साहित्यदर्पणे । ६ । ५१३ ।
“सम्बोधनोक्तिप्रत्युक्ती कुर्य्यादाकाशभाषितैः ॥”)

सम्भली, स्त्री, कुट्टनी । इत्यमरः । २ । ६ । १९ ॥

“द्वेपरपुरुषेण सह परनारीं योजयन्त्यां कुट्टनी
इति ख्यातायाम् । कुट्टयति छिनत्ति स्त्रीपुरुष-
वैमत्य कुट्टनी नन्द्यादिः । शं कल्याणं भलते
निरूपयति शम्भली भल ङ निरूपणे पचा-
दित्वादन् नदादित्वादीप् शम्भली तालव्यादिः ।
सम्यक् भलते सम्भली दन्त्यादिरित्यन्ये ।” इति
भरतः ॥

सम्भवः, पुं, (सं + भू + अप् ।) हेतुः । उत्पत्तिः ।

(यथा, आर्य्यासप्तशत्याम् । ४५८ ।
“महता प्रियेण निर्म्मितमप्रियमपि सुभग !
सह्यतां याति ।
सुतसम्भवेन यौवनविनाशनं न खलु खेदाय ॥”)
मेलकः । आधेयस्य आधारानतिरिक्तत्वम् ।
इति मेदिनी ॥ सङ्केतः । अपायः । इत्यजयः ॥
वर्त्तमानकल्पीयार्हद्भेदः । इति हेमचन्द्रः ॥

सम्भव्यः, पुं, (सं + भू + यत् ।) कपित्थः । इति

शब्दचन्द्रिका ॥ सम्भवनीये, त्रि ॥

सम्भारः, पुं, (सं + भृ + घञ् ।) सम्भूतिः ।

समूहः । इति मेदिनी ॥ सर्व्वपूर्णत्वम् । इति
त्रिकाण्डशेषः ॥ (यज्ञादिकार्य्योपकरणद्रव्यम् ।
यथा, देवीभागवते । १ । १९ । २३ ।
“कृत्वा तस्य मखं पूर्णं करिष्याभि तवापि वै ।
तावत् कुरुष्व राजेन्द्र सम्भारन्तु शनैः शनैः ॥”
तथा तत्रैव । २ । ९ । ४ ।
“विवाहार्थञ्च सम्भारं रचयामासतुर्व्वने ॥”
संग्रहः । इति मल्लिनाथः ॥ यथा, कुमारे ।
२ । ३६ ।
“पर्य्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः ।
उद्यानपालसामान्यमृतवस्तमुपासते ॥”)

सम्भावनं, क्ली, (सम्भावयत्यनेनेति । सं + भू +

णिच् + ल्युट् ।) अलङ्कारविशेषः । यथा, --
“सम्भावनं यदीदं स्यादित्यूहोऽन्यस्य सिद्धये ।
यदि शेषो भवेद्बक्ता कथिताः स्युर्गुणास्तव ॥”
इति चन्द्रालोकः ॥
सम्भावनं क्रियासु योग्यताध्यवसायः । इति
मुग्धबोधव्याकरणम् ॥ (सम्भावके, त्रि । यथा,
भागवते । ४ । १७ । २६ ।
“पुमान् योषिदुत क्लीव आत्मसम्भावनोऽधमः ।
भूतेषु निरनुक्रोशो नृपाणां तद्बधोऽवधः ॥”)

सम्भावना, स्त्री, (सं + भू + णिच् + युच् । टाप् ।)

उत्कटकोटिकसंशयः । संपूर्व्वकात् भू क शुद्धि-
चिन्तयोरित्यस्मात् ञीषिश्रन्थीत्यादिसूत्रेणान-
प्रत्ययनिष्पन्ना । यथा, “एवं कोठ्यंशे औत्कट्य-
रूपं सम्भावनात्वमपि विषयताविशेषः । इति
ध्येयम् ।” इति सत्प्रतिपक्षचिन्तामणिदीधिति-
गादाधरी ॥ धूमदर्शनानन्तरं वह्न्यादिव्यवहा-
रस्तु सम्भावनामात्रादिति कुसुमाञ्जलिटीकायां
हरिदासः । पौराणिकास्तु सम्भवनामकं प्रमा-
णान्तरं मन्यन्ते तत्प्रमाणजन्या प्रमितिः
सम्भावना इति वदन्ति । तन्मतन्तु न चतुष्टय-
मैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् इति
सूत्रेणोपन्यस्य शब्द ऐतिह्यानर्थान्तरभावादनु-
मानेऽर्थापत्तिसम्भवाभावानामनर्थान्तरभावा-
च्चाप्रतिर्षेध इति सूत्रेण भगवदक्षपादपादै-
र्निराकृतम् । निश्चित्येति उत्कटकोटिकसम्भा-
वनोपलक्षणं इति तिथ्यादितत्त्वे स्मार्त्तभट्टा-
चार्य्यलिखनन्तु सम्भावनाशब्दस्य संशयमात्र-
परतया सङ्गमनीयम् । इति नानाग्रन्थेभ्यः
संगृहीतम् ॥

सम्भावितः, त्रि, (सं + भू + णिच् + क्तः ।) सम्भा-

वनाविशिष्टः । सम्भवनयोग्यः । बहुमतः ।
यथा, भगवद्गीतायाम् । २ । ३४ ।
“अकीर्त्तिं चापि भूतानि कथयिष्यन्ति तेऽव्य-
याम् ।
सम्भावितस्य चाकीर्त्तिर्म्मरणादतिरिच्यते ॥”
“सम्भावितस्य बहुमतस्य ।” इति तट्टीकायां
श्रीधरस्वामी ॥

सम्भाषणं, क्ली, (सं + भाष + ल्युट् ।) कथनम् ।

आलापनम् । यथा, --
“कृते सम्भाषणादेव त्रेतायां स्पर्शनेन तु ।
द्बापरे त्वर्थमादाय कलौ पतति कर्म्मणा ॥”
इत्युद्वाहतत्त्वम् ॥

सम्भाषा, स्त्री, (सं + भाष + अङ् । टाप् ।)

सम्भाषणम् ॥

सम्भिन्नः, त्रि, (सं + भिद् + क्तः ।) सम्यग्भेद-

विशिष्टः । यथा, --
“सम्भिन्नकांस्यवद्घोषो निरेति वदनादयम् ।
कास इत्यच्यते लोके तालव्यान्तो न कीर्त्तितः ॥”
इति प्राचीनकारिका ॥

सम्भुः, त्रि, (सं + भू + “विप्रसंभ्यो ड्वसंज्ञायाम् ।”

३ । २ । १८० । इति डुः ।) सम्भवति यः ।
इति मुग्धबोधव्याकरणम् ॥

सम्भूतः, त्रि, (सं + भू + क्तः ।) उत्पन्नः । यथा,

मार्कण्डेयपुराणे । ८४ । ३४ ।
“इत्येतत् कथितं भूप सम्भूता सा यथा पुरा ।
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥”

सम्भूतविजयः, पुं, (सम्भूतो विजयो यस्य ।) श्रुत-

केवलिसंज्ञकबौद्धविशेषः । इति हेमचन्द्रः ॥

सम्भूयसमुत्थानं, क्ली, (सम्भूय मिलित्वा समुत्थानं

कर्म्मकरणं यत्र ।) मिलित्वैकमत्या बणिजां
कर्म्मकरणम् । तत्तु विवादपदविशेषः । यथा,
सम्भूयसमुत्थानं नाम विवादपदमिदानीमभि-
दधाति ।
“समवायेन बणिजां लाभार्थं कर्म्म कुर्व्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥”
सर्व्वे वयमिदं कर्म्म मिलिताः कुर्म्म इत्येवंरूपा
सम्प्रतिपत्तिः समवायस्तेन ये बणिङ्नटनर्त्तक-
प्रभृतयो लाभलिप्सवो भूत्वा प्रातिस्विकं कर्म्म
कुर्व्वते तेषां लाभालाभावुपचयौ यथाद्रव्यं येन
यावद्धनं पण्यग्रहणाद्यर्थं दत्तं तदनुसारेणाव-
सेयौ । यद्बा । प्रधानगुणभावपर्य्यालोचनयास्य
भागद्बयमस्यैको भाग इत्येवंरूपया संविदा सम-
येन यथा संप्रतिपत्तौ तथा वेदितव्यां । किञ्च ।
“प्रतिषिद्धमनादिष्टं प्रमादात् यच्च नाशितम् ।
स तद्दद्याद्विप्लवाच्च रक्षिताद्दशमांशभाक् ॥”
तेषां सम्भूय प्रचरतां मध्ये पण्यमिदमित्थं न
व्यवहर्त्तव्यमिति प्रतिषिद्धमाचरता यन्नाशितं
अनादिष्टमननुज्ञातं वा कुर्व्वाणेन तथा प्रमा-
दात् प्रज्ञाहीनतया वा येन यन्नाशितं स तत्-
पण्यं बणिग्भ्यो दद्यात् । यः पुनस्तेषां मध्ये
चौरराजादिजनितात् व्यसनात् पण्यं पालयति
स तस्माद्रक्षितात् पण्यात् दशममंशं लभते ।
“अर्घप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत् ॥”
इह यतः पण्यस्येयन्मूल्यं इत्यर्घस्तस्य प्रक्षेपणात्
राजनिरूपणाद्धेतोरसौ मूल्याद्विंशतितममंशं
शुल्कार्थं गृह्णीयात् । यत् पुनर्व्यासिद्धमन्यत्र न
विक्रेयमिति राज्ञा प्रतिषिद्धम् । यच्च राजयोग्यं
माणिक्याद्यप्रतिषिद्धमपि तद्राज्ञे अनिवेद्य लाभ-
लोभेन विक्रीतञ्चेद्राजगाभिमूल्यदाननिरपेक्षं
तत् सर्व्वं पण्यं राजापहरेदित्यर्थः ।
“मिथ्या वदन् परीमाणं शुल्कस्थानादपासरत् ।
दाप्यस्त्वष्टगुणं पञ्च सव्याजक्रयविक्रयी ॥”
यः पुनर्ब्बणिक् शुल्कवञ्चनार्थं परीमाणं निह्नुते
शुल्कग्रहणस्थानाद्वापसरति यश्चास्येदमस्य
वेत्येवं विदादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते
वा ते सर्व्वे पण्याष्टगुणं दण्डनीयाः । अपि च ।
“तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश ।
ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ॥”
शुल्कं हि द्बिविधं स्थलजं जलजञ्च । तत्र स्थल-
जमर्घप्रक्षेपणाद्बिंशं भागं शुल्कं नृपो हरे-
दित्युक्तम् । जलजन्तु मानवेऽभिहितम् ।
“पणं यानं तरे दाप्यं पुरुषोऽर्द्धपणन्तरे ।
पादं पशुश्च योषिच्च पादार्द्धं रिक्तकः पुमान् ॥
भाण्डपूर्णानि यानानि तार्य्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत्किञ्चित् पुमांसञ्चापरिच्छदाः ॥”
शुल्कद्बयेऽप्ययमपरो विशेषः ।
“न भिन्नकार्षापणमस्ति शुल्कं
न शिल्पवृत्तौ न शिशौ न दूते ।
न भैक्ष्यलब्धे न हृतावशेषे
न श्रोत्रिये प्रव्रजिते न यज्ञे ॥” इति ।
तीर्य्यतेऽनेनेति तरो नावादिस्तज्जन्यशुल्केऽधि-
कृतस्तरिकः स यदा स्थलोद्भवं शुल्कं गृह्णाति
तदा दशपणान् दण्डनीयः । वेशो वेश्म प्रति-
वेश इति स्ववेश्मामिमुखं स्ववेश्मपार्श्वस्थं चोच्यते
तत्र भवाः प्रतिवेश्याः । ब्राह्मणाश्च ते प्राति-
वेश्याश्च ब्राह्मणप्रातिवेश्यास्तेषां श्रुतवृत्तसम्प
पृष्ठ ५/२८६
न्नानां श्राद्धादिषु विभवे सत्यनिमन्त्रणे एतदेव
दशपणात्मकं दण्डनं वेदितव्यम् ॥ * ॥ देशा-
न्तरमृतबणिग्रिक्थं प्रत्याह ।
“देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।
ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ॥”
यदा सम्भूयकारिणां मध्ये यः कश्चिद्देशान्तरं
गतो मृतस्तदा तदीयमंशं दायादः पुत्त्राद्यपत्य-
वर्गः बान्धवाः मातृपक्षीयाः मातुलाद्याः
ज्ञातयोऽपत्यवर्गव्यतिरिक्ताः सपिण्डा वा आ-
गताः सम्भूयव्यवहारिणो ये देशान्तरादाग-
तास्ते वा गृह्णीयुस्तैर्विना दायाद्यभावे राजा
गृह्णीयात् । वाशब्देन च दायादीनां वैकल्पिकं
अधिकारं दर्शयति । पौर्व्वापर्य्यनियमस्तु पत्नी
दुहितर इत्यादि प्रतिपादित एवात्रापि
विज्ञेयः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो बणिक्-
प्राप्तिश्च वचनप्रयोजनम् । बणिजामपि मध्ये
यः पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् ।
सामर्थ्याविशेषे पुनः सर्व्वे बणिजः संसृष्टिनो
विभज्य गृह्णीयुस्तेषामभावे दशवर्षं दायाद्या-
गमनं प्रतीक्ष्यानागतेषु स्वयमेव राजा गृह्णी-
यात् तदिदं नारदेन स्पष्टमुक्तम् ।
“एकस्य चेत् स्यात् मरणं दायादोऽस्य तदाप्नुयात् ।
अन्यो वासति दायादे शक्तश्चेत् सर्व एव ते ॥
तदभावे तु गुप्तं तत् कारयेद्दशवत्सरात् ।
अस्वामिकमदायाद दशवर्षस्थितं ततः ॥
राजा तदात्मसात् कुर्य्यात् एवं धर्म्मो न हीयते ॥”
किश्च ।
“जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्येन कारयेत् ।”
जिह्मो वञ्चकः तं निर्लाभं निर्गतलाभं लाभमा-
च्छिद्य त्यजेयुः बहिष्कुर्य्युः । यश्च सम्भूयकारिणां
मध्ये भाण्डप्रत्यवेक्षणादिकं कर्त्तुमसमर्थोऽसाव-
न्येन स्वं कर्म्म भाण्डभारवाहनं तदायव्ययपरी-
क्षणादिकं कारयेत् । इति मिताक्षरा ॥

सम्भृतः, त्रि, (सं + भृ + क्त ।) सम्यक्पुष्टः । सम्यग्-

भृतः । सम्यक्प्रकारेण धृतः ।

सम्भृतिः, स्त्री, (सं + भृ + क्तिन् ।) सम्यकपोषणम् ।

सम्यग्भरणम् । सम्यग्धारणम् । (सम्भारः ।
यथा, कथासरित्सागरे । १०३ । १७१ ।
“अन्येद्युर्गणकैः सूनोर्लग्नाहे निश्चिते नृपः ।
चकारामरदत्तोऽत्र तद्विवाहाय सम्भृतिम् ॥”)

सम्भेदः, पुं, (सं + भिद् + घञ् ।) सिन्धुनद्योः

सङ्गमः । इत्यमरः । १ । १० । ३५ ॥ (यथा,
मनुः । ८ । ३५६ ।
“परस्त्रियं योऽभिवदेत् तीर्थेऽरण्ये वनेऽपि वा ।
नदीनां वापि सम्भेदे स संग्रहणमाप्नुयात् ॥”)
स्फुटनम् । (यथा, सुश्रुते । २ । ५ ।
“कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् ॥”)
मेलनम् । इति मेदिनी ॥

सम्भोगः, पुं, (सं + भुज् + घञ् ।) भोगः । (यथा,

मनुः । ८ । २०० ।
“सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न सम्भोग इति स्थितिः ॥”)
सुरतम् । (यथा, महाभारते । ४ । १३ । २८ ।
“रत्युन्मादसमारम्भाः साक्षात्कारकरा मम ।
आत्मप्रदानसम्भोगात् मामुद्धर्त्तुं त्वमर्हसि ॥”)
जिनशासनम् । इति मेदिनी ॥ हर्षः । इति शब्द-
रत्नावली ॥ केलिनागरः । इति जटाधरः ॥
शृङ्गारभेदः । इति त्रिकाण्डशेषः ॥ तस्य लक्षणं
यथा, साहित्यदर्पणे ३ परिच्छेदे ।
“दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्तावन्योऽन्यं सम्भोगः समुदाहृतः ॥”

सम्भोगी, [न्] पुं, (सम्भोगोऽस्यास्तीति । इनिः ।)

केलिनागरः । इति भूरिप्रयोगः ॥ सम्भोग-
विशिष्टे, त्रि ॥

सम्भ्रमः, पुं, (सं + भ्रम + घञ् ।) भयादिजनित-

त्वरा । (यथा, रघुः । ११ । २५ ।
“वीक्ष्य वेदिमथ रक्तबिन्दुभि-
बन्धुजीवपृथभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्म्मणां
ऋत्विजां च्युतविकङ्कतस्रुचाम् ॥”)
तत्पर्य्यायः । संवेगः २ । इत्यमरः । १ । ७ । ३४ ॥
आवेगः ३ । इति तट्टीका ॥ प्रवेगः ४ त्वरा ५
त्वरिः ६ । इति वाचस्पतिः ॥ भयम् । (यथा,
रामायणे । ४ । २ । १४ ।
“सम्भ्रमस्तज्यतामेष सर्व्वर्वालिकृते महान् ॥”)
आदरः । इति मेदिनी ॥ महाभ्रमः । सूत्रम् ।
इत्यजयपालः ॥

सम्मतिः, स्त्री, (सं + मन + क्तिन् ।) अभिलाषः ।

अनुज्ञा । इति मेदिनी ॥ (यथा, किराते ।
१० । ३६ ।
“कथमिव तव सम्मतिर्भवित्री
सममृतुभिर्मुनिनावधीरितस्य ॥”)
आत्मज्ञानम् । इत्यजयपालः ॥

सम्मदः, पुं, (सम् + मद् + “प्रमदसंमदौ हर्षे ।”

३ । ३ । ६८ । इति अप् ।) हर्षः । (यथा,
साहित्यदर्पणे । ३ । १६७ ।
“मदसम्मदपीडाद्यैर्वैस्वर्य्यं गद्गदं विदुः ॥”)
मत्स्यविशेषः । यथा, विष्णुपुराणे । ४ । २ । १९ ।
“बह्वृचश्च सौभरिर्नाम महर्षिरन्तर्ज्जले द्वाद-
शाब्दं कालमुवास । तत्र चान्तर्ज्जले मत्स्यः
सम्मदो नामातिबहुप्रजोऽतिप्रमाणो मीनाधि-
पतिरासीत् ॥” तद्वति, त्रि । इत्यमरः । १ । ४ । २४ ॥

सम्मर्द्दः, पुं, (संमृद्यतेऽत्रेति । सं + मृद् + घञ् ।)

युद्धम् । इति केचित् ॥ (यथा, महाभारते ।
५ । १६८ । १० ।
“जवे प्रहारे संमर्द्द सर्व्व एवातिमानुषाः ।
सर्व्वैर्जिता महीपाला दिग्जये भतरर्षभ ॥” * ॥
परस्परविमर्द्दः । यथा, रघुः । १५ । १०१ ।
“यद्गोप्रतरकल्पोऽभूत् संमर्द्दस्तत्र मज्जताम् ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥”)

सम्मादः, पुं, (सं + मद् + घञ् ।) सम्यक्प्रकारेण

मत्तता ॥

सम्मानः, पुं, (सम् + मन + घञ् ।) समादरः ।

यथा, तिथ्यादितत्त्वे ।
“जन्मर्क्षयुक्ता यदि जन्ममासे
यस्य ध्रुवं जन्मतिथिर्भवेच्च ।
भवन्ति तद्वत्सरमेव याव-
न्नैरुज्यसम्मानसुखानि तस्य ॥”

सम्मानितः, त्रि, (सम्मानोऽस्य जातः । सम्मान +

इतच् ।) समादृतः । गौरवितः । यथा, मार्क-
ण्डेयपुराणे । ८२ । ७० ।
“अन्यैरपि सुरैर्द्देवी भूषणैरायुधैस्तथा ।
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्म्मुहुः ॥”

सम्मार्ज्जकः, पुं, (सम्मार्ज्जयतीति । सं + मृज् +

ण्वुल् ।) सम्मार्जनी । इति शब्दरत्नावली ॥
सम्यङ्मार्ज्जनकर्त्तरि, त्रि ॥

सम्मार्ज्जनं, क्ली, (सं + मृज + ल्युट् ।) संशोधनम् ।

यथा, रत्नमालायाम् ।
“सम्मार्ज्जनञ्च संशुद्धिः संशोधनविशधिने ॥”

सम्मार्ज्जनी, स्त्री, (संमृज्यतेऽनयेति । सं + मृज् +

ल्युट् । ङीप् ।) धूल्यादिमार्जनसाधनी ।
कोँस्ता इति झाँटा इति च भाषा । तत्-
पर्य्यायः । शोधनी २ । इत्यमरः । २ । २ । १८ ॥
ऊहनी ३ समूहनी ४ । इति शब्दरत्नावली ॥
बहुकरी ५ वर्द्धनी ६ । इति हेमचन्द्रः ॥

सम्मितः, त्रि, (सं + मा + क्तः ।) समानपरि-

माणः । सदृशः । इति जटाधरः ॥

सम्मिश्रः, त्रि, (सम्यक् प्रकारेण मिश्रयतीति ।

मिश्र मिश्रणे + अच् ।) संयुक्तः । मिश्रितः ।
यथा, तिथ्यादितत्त्वे ।
“सम्मिश्रा या चतुर्द्दश्या अमावस्या भवेत्
क्वचित् ।
खर्व्वितां तां विदुः केचिदुपेध्वमिति चापरे ॥”

सम्मुखः, त्रि, (सम्यक् मुखं यस्य ।) अभिमुखा-

गतः । तत्पर्य्यायः । भग्नपृष्ठः २ । इति त्रिकाण्ड-
शेषः ॥ (यथा, कथासरित्सागरे । २७ । १३८ ।
“तस्यां विक्रमसिंहाख्यो बभूवान्वर्थयाख्यया ।
राजा वैरिमृगा यस्य नैवासन् सम्मुखाः
क्वचित् ॥”
अभिमुखे, क्ली । सुमुख इति भाषा ॥ यथा,
कथासरित्सागरे । ४ । ७० ।
“नाशकत् सम्मुखे स्थातुं कष्टो ह्यविनयक्रमः ॥”
तथा च साहित्यदर्पणे । ३ । १५४ ।
“दृष्टा दर्शयति व्रीडां सम्मुखं नैव पश्यति ॥”
सर्व्वं मुखमिति निपातनात् अन्तलोपे सम्मुख-
मिति सिद्धम् । इति शब्दार्थचिन्तामणिः ॥
समस्तमुखे च क्ली । इति काशिका । ५ । २ । ६ ॥)

सम्मुखी, [न्] पुं, (सम्मुखमस्यास्तीति । इनिः ।)

दर्पणम् । इति केचित् ॥

सम्मुखीनः, त्रि, (सर्व्वस्य मुखस्य दर्शनः ।

सम्मुख + “यथामुखसम्मुखस्य दर्शनः खः ।”
५ । २ । ६ । इति खः ।) अभिमुखः । इति
हेमचन्द्रः । ६ । ७३ ॥ (यथा, रघुः । १५ । १७ ।
“अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
रुरोधसम्मुखीनो हि जयो रन्ध्रप्रहारि-
णाम् ॥”)
पृष्ठ ५/२८७

सम्मूढः, त्रि, (सं + मुह + क्तः ।) सम्यङ्मोहयुक्तः ।

मुग्धः । यथा, शुद्धितत्त्वे ।
“मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम् ।
यः करोति स सम्मूढो जलवुद्वुदसन्निभे ॥”

सम्मूर्च्छजः, पुं, (सम्यक्प्रकारेण मूर्च्छति व्याप्नो-

तीति । मूर्च्छ व्याप्तौ + अच् । तथाविधः सन्
जायत्रे इति । जन + डः ।) तृणादिः । इति
हेमचन्द्रः ॥

सम्मूर्च्छनं, क्ली, (सं + मूर्च्छ व्याप्तौ मोहे च +

ल्युट् ।) सर्व्वयो व्याप्तिः । तत्पर्य्यायः । अभि-
व्याप्तिः २ । इत्यमरः । ३ । २ । ६ ॥ उच्छ्रायः ।
मोहः । इति मेदिनी ॥

सम्मूर्च्छनोद्भवः, पुं, (संमूर्च्छनादुद्भवतीति ।

उत् + भू + अच् ।) मत्स्यादिः । इति हेम-
चन्द्रः ॥

सम्मृष्टः, त्रि, (सं + मृज + क्तः ।) संशोधितः ।

इत्यमरः । २ । ९ । ४६ ॥ द्वे मक्षिकाद्यपनयनेन
शोधिते व्यञ्जनादौ । इति भरतः ॥

सम्मोदः, पुं, (सं + मुद् + घञ् ।) प्रीतिः । हर्षः ।

इति शब्दरत्नावली ॥

सम्यक्, व्य, समुदयः । इति केचित् ॥ यथा, --

“सम्यक् संसाधनं कर्म्म कर्त्तव्यमधिकारिणा ।
निष्कामेण सदा पार्थ काम्यं कामान्वितेन च ॥”
इति प्रायश्चित्ततत्त्वम् ॥

सम्यक्, [च्] त्रि, (सं + अञ्च + ऋत्विगादिना

क्विन् । “समः समि ।” ६ । ३ । ९३ । इति
सम्यादेशः ।) सत्यवचनम् । अर्थेन सह सम-
ञ्चति सङ्गच्छते । इत्यमरभरतौ ॥ मनोज्ञः ।
सङ्गतः । इति मेदिनी ॥ (यथा, ऋग्वेदे । २ । ३ । ६ ।
“तन्तुं ततं संवयन्ती समीची
यज्ञस्य पेशः सुदुघे पयस्वती ॥”)

सम्राट्, [ज्] पुं, (सम्यक् राजते इति । सं +

राज + क्विप् । “मो राजि समः क्वौ ।” ८ ।
३ । २५ । इति समो मकारस्य मादेशस्तेन
नानुस्वारः ।) येन राजसूयेन इष्टम् । यो
मण्डलस्येश्वरः । आज्ञया राज्ञः शास्ति यः ।
इत्यमरः ॥ राजसूयश्चक्रवर्त्तिसाध्यो याग-
विशेषः । तेन येन इष्टं यागः कृतः । यो मण्ड-
लस्य द्बादशराजमण्डलस्य ईश्वरः । यश्च राज्ञो
नृपान् आज्ञया शास्ति भृत्यवद्व्यापारेषु नियो-
जयति स सम्राडुच्यते । केचित्तु समुच्चयेन
त्रीण्येतान्याहुः । राजसूययाजी यः स सम्राट्
चतुरब्धिसीमावच्छिन्नाया भूमेर्य ईश्वरः
सोऽपि । यश्च कियत्परिमाणाया भूमेः पती-
नाज्ञया शास्ति सोऽपि । इह परत्र च सम्यक्
राजते इति क्विप् सम्राट् दान्ते म इत्यत्र
सम्राड्वर्ज्जनान्नानुस्वारः । इति भरतः ॥ (यथा,
रघुः । २ । ५ ।
“आम्वादयद्भिः कवलैस्तृणानां
कण्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः
सम्राट् समाराधनतत्परोऽभूत् ॥”)

सयोनिः, पुं, (योनिभिः सह वर्त्तमानः ।) इन्द्रः ।

इति केचित् ॥ योन्या सह वर्त्तमाने समानोत्-
पत्तिस्थानके च, त्रि ॥ (यथा ऋग्वेदे । ३ । १ । ६ ।
“सना अत्र युवतयः सयोनी-
रेकं गर्भं दधिरे सप्तवाणीः ॥”
“समानमन्तरिक्षं योनिस्थानं यासां ताः ।”
इति तद्भाष्ये सायणः ॥)

सरं, क्ली, (सरतीति । सृ + अच् ।) सरोवरः ।

इति शब्दरत्नावली ॥ जलम् । इति जटाधरः ॥

सरः, पुं, (सृ गतौ + पचाद्यच् ।) दध्यग्रम् ।

तत्पर्य्यायः ।
“सरश्च दध्युत्तरगं दधिस्नेहस्तु कट्वरम् ।”
इति रत्नमाला ॥
गतिः । इति मेदिनी ॥ बाणः । लवणः । इति
हेमचन्द्रः ॥ निर्झरे, पुं स्त्री । इति भरत-
द्विरूपकोषः ॥

सरः, त्रि, (सृ + अच् ।) सारकः । भेदकः ।

यथा, राजवल्लभः ।
“पिप्पली मधुरा वृष्या कटुका दीपनी सरा ॥”
गमनकर्त्तरि, त्रि ॥

सरः, [स्] क्ली, (सरतीति । सृ + “सर्व्वधातुभ्यो-

ऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।)
सरोवरः । इत्यमरः । १ । १० । २६ ॥ (यथा,
महाभारते । १ । १५६ । २४ ।
“तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु ।
सरःसु रमणीयेषु पद्योत्पलयुतेषु च ॥”)
अस्य विवरणं तडागपद्माकरशब्दयोर्द्रष्टव्यम् ॥
अस्य जलगुणाः । यथा, राजवल्लभः ।
“सारसं लघु तृष्णाघ्नं बल्यं स्वादु कषायवत् ॥”
नीरम् । यथा । सरो नीरे तडागे च । इति
रुद्रः । इत्यमरटीकायां भरतः ॥

सरःकाकः, पुं, (सरसः काकः ।) हंसः । इति

शब्दरत्नावली ॥

सरःकाकी, स्त्री, (सरसः काकी ।) हंसी । इति

शब्दरत्नावली ॥

सरकं, क्ली, (सरमेव । स्वार्थे कन् ।) सरोवरः ।

इति शब्दरत्नावली ॥ आकाशम् । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

सरकः, पुं, क्ली, (सरतीति । सृ + वुन् ।) शीधु-

पात्रम् । शीधुपानम् । इक्षुशीघु । अच्छि-
न्नाध्वगपङ्क्तिः । इति मेदिनी ॥ मद्यपरिवेश-
नम् । इत्यमरटीकायां भरतः ॥ (यथा, कथा-
सरित्मागरे । ५४ । १९९ ।
“प्राप्तायां निशि पप्रच्छ निजं परिजनञ्च सः ।
किमद्य रात्रिपर्य्याप्तमस्ति नः सरकं न वा ॥”)

सरकः, त्रि, (सुष्टु सरतीति । सृ + “प्रसृल्वः

समभिहारे वुन् ।” ३ । १ । १४९ । इति वुन् ।)
गतिशीलः । इति शब्दरत्नावली ॥

सरघा, स्त्री, (सरं मधुविशेषं हन्तीति । हन +

डः । निपातनात् साधुः ।) मधुमक्षिका ।
इत्यमरः । २ । ५ । २६ ॥ (यथा, रघुः । ४ ।
६३ ।
“भल्लापवर्ज्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः सक्षौद्रपटलैरिव ॥”)

सरङ्गः, पुं, (सरतीति । सृ + अङ्गच् ।) चतुष्पात् ।

पक्षी । इति संक्षिप्तसारोणादिवृत्तिः ॥

सरजं, क्ली, (सरात् जायते इति । जन + डः ।)

नवनीतम् । हैयङ्गवीनम् । इति हारावली ॥
(मलिनम् । यथा, भागवते । ३ । २३ । २३ ।
“सा तद्भर्त्तुः समादाय वचः कुवलयेक्षणा ।
सरजं बिभ्रती वासो वेणीभूतान् स्वमूर्द्धजान् ॥”)

सरजाः, [स्] स्त्री, (रजसा सह वर्त्तमाना ।)

ऋतुमती स्त्री । तत्पर्य्यायः । मलिष्ठा २ ।
इति त्रिकाण्डशेषः ॥ (पङ्कजे, क्ली । इति
काशिका । ५ । ४ । ७७ ॥)

सरट्, पुं, (सरतीति । सृ गतौ + “सर्त्तेरटिः ।”

उणा० १ । १३३ । इति अटिः ।) वायुः ।
मेघः । इत्युणादिकोष ॥ मधुमक्षिका । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ कृकलासः ।
इत्यमरटीका ॥

सरटः, पुं, (सरतीति । सृ गतौ + शकादित्वादटन् ।)

कृकलासः । इत्यमरः । २ । ५ । १२ ॥ गिरगिट्
इति काँकलोस इति च भाषा ॥ तत्पतनादि-
फलं यथा, --
“वल्ल्याः प्रपाते च फलं सरटस्य प्ररोहणे ।
शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव च ॥
कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनम् ।
नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनम् ॥
कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् ।
धनलाभो बाहुमूले करयोर्धनवृद्धयः ॥
स्तनमूले च सौभाग्यं हृदि सौख्यविवर्द्धनम् ।
पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम् ॥
कटिद्बये वस्त्रलाभो गुह्ये मृत्युसमागमः ।
जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत् ॥
ऊर्व्वोश्च वाहनावाप्तिर्जानुजङ्घऽर्थसंक्षयः ।
वामदक्षिणयोः पादोर्भ्रमणं नियतं भवेत् ॥
वल्ल्याः प्ररोहणे चैव पतने सरटस्य च ।
व्यत्यासाच्च फलं चैव तद्वदेवं प्रजायते ॥
वल्ल्याः प्ररोहणं रात्रौ सरटस्य प्रपातनम् ।
निधनार्थाय भवति व्याधिपीडाविपर्य्ययौ ॥
पतनानन्तरं चैवारोहणं यदि जायते ।
पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत् ॥
आरोहणञ्चोर्द्ध्ववक्त्रे अधोवक्त्रे च पातनम् ।
भवेदिष्टफलं तस्य तत्फलं जायते ध्रुवम् ॥
स्पृष्टमात्रेण यः सद्यः सचेलं जलमाविशेत् ।
पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनम् ॥
वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् ।
पूजयेत् गन्धपुष्पाद्यैस्तदग्र पूर्णकुम्भके ॥
पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम् ।
पञ्चवृक्षकषायञ्च निःक्षिप्यावाहयेत्ततः ॥
पूजयेद्गन्धपूष्पाद्यैर्लोकपालांस्तथा क्रमात् ।
मृत्युञ्जयेन मन्त्रण सभिद्भिः खादिरैः शुभैः ॥
तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम् ॥”
वल्ली गृहगोषिका । मृत्युञ्जयमन्त्रस्त्र्यम्बकमन्त्रः ।
पृष्ठ ५/२८८
इति विद्याकरः इति ज्योतिस्तत्त्वम् ॥ (वातः ।
इत्युणादिटीकायामुज्ज्वलदत्तः । ४ । १०५ ॥)

सरटिः, पुं, (सरतीति + सृ + अटिन् ।) वायुः ।

मेघः । इत्युणादिकोषः ॥

सरटुः, पुं, (सृ + अटुः ।) कृकलासः । इत्युणादि-

कोषः ॥

सरणं, क्ली, (सरतीति । सृ गतौ + “जुचङ्क्रम्य-

दन्द्रम्यसृगृधीति ।” ३ । २ । १५० । इति युच् ।)
लोहमलम् । इति हेमचन्द्रः ॥ (सृ + ल्युट् ।)
गमनम् ॥ (यथा, महाभरते । १ । २३१ । ५ ।
“अजातपक्षाश्च सुता न शक्ताः सरणे मम ॥”)

सरणा, स्त्री, (सरतीति + सृ + युच् ।) प्रसारणी ।

इत्यमरः । २ । ४ । १५२ ॥ गन्धभादालि इति
भाषा ॥ त्रिवृता । इति शब्दमाला ॥ तेउडी
इति भाषा ॥ गमनकर्त्तरि, त्रि ॥

सरणिः, स्त्री, (सरन्त्यनयेति । सृ गतौ + “अर्त्ति-

सृधृधमीति ।” उणा० २ । १०३ । इति अनिः ।)
पङ्क्तिः । पन्थाः । इति मेदिनी ॥ (यथा,
राजतरङ्गिण्याम् । ३ । ४०१ ।
“सरलां सरणिं त्यक्त्वा जीवितस्पृहया समम् ।
गुहा तेन ततः सान्द्रतमोभीमा व्यगाह्यत ॥”)
प्रसारणी । इत्यमरटीकायां भरतः ॥

सरणी, स्त्री, (सरणि + वा ङीष् ।) पङ्क्तिः ।

पन्थाः । इति मेदिनी ॥ प्रसारणी । इत्यमर-
टीकायां भरतः । २ । ४ । १५ ॥

सरण्डः, पुं, (सरतीति । सृ + “अण्डन् कृसृभृ-

वृञः ।” उणा० १ । १२८ । इति अण्डन् ।)
धूर्त्तः । सरटः । भूषणभेदः । इति मेदिनी ॥
कामुकः । पक्षी । इति शब्दरत्नावली ॥

सरण्यं, त्रि, (सरण + ष्यञ् ।) गम्यम् । गन्तव्यम् ।

सरणशब्दात् ष्ण्यप्रत्ययेन निष्पन्नम् ॥

सरण्युः, पुं, (सरतीति । सृ गतौ + “सृयुवचि-

भ्योऽन्युजागजक्नुचः ।” उणा० ३ । ८१ । इति
अन्युच् ।) मेघः । वायुः । जलम् । इति शब्द-
रत्नावली ॥ वसन्तः । अग्निः । इत्युणादिकोषः ॥

सरत्, क्ली, (सृ + शतृ ।) सूत्रम् । इति शब्द-

माला ॥ (गन्तरि, त्रि ॥)

सरत्निः, पुं स्त्री, रत्निः । इति केचित् ॥

सरद्वान्, [त्] पुं, गौतममुनिः । गोतममुनिपुत्त्रः ।

इति पुराणम् ॥ तालव्यशादिश्च ॥

सरपत्रिका, स्त्री, (सरपत्रं जलस्थपत्रमस्त्यस्या

इति । ठन् । टापि अत इत्वम् ।) पद्मम् ।
पद्मपत्रम् । इति शब्दरत्नावली ॥

सरमा, स्त्री, (रमया शोभया सह वर्त्तमाना ।)

राक्षसीभेदः । सा च विभीषणपत्नी । (इयं
लङ्कावाससमये सीतायाः प्रणयिनी आसीत् ।
एतद्बृत्तान्तस्तु रामायणे लङ्काकाण्डे । ३३ ।
३४ । अध्याययोर्द्रष्टव्यः ॥) कुक्कुरी । देवशुनी ।
इति मेदिनी ॥ (यथा, महाभारते । १ । ३ । ११ ।
“जनमेजय एवमुक्तो देवशुन्या सरमया भृशं
सम्भ्रान्तो विषण्णश्चासीत् ॥”) कश्यपपत्नी-
विशेषः । तदपत्यानि भ्रमरादयः । यथा, --
“गोलाङ्गुलश्चकोरश्च चैत्यापत्यं तथैव च ।
अपत्यं सरमायाश्च गणो वै भ्रमरादयः ॥”
इति वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥

सरयुः, पुं, (सरतीति । सृ गतौ + “सर्त्तेरयुः ।”

उणा० ३ । २२ । इति अयुः ।) वायुः । इति
त्रिकाण्डशेषः ॥

सरयुः स्त्री, (सरतीति । सृ गतौ + “सर्त्ते-

रयुः ।” उणा० ३ । २२ । इति अयुः ।
“सर्त्तेरयूः ।” इति केचित् ।) नदीविशेषः ।
इत्युणादिकोषः । अस्या जलगुणाः ।
“सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् ।”
इति राजनिर्घण्टः ॥
तस्या उत्पत्तिर्यथा, --

सरयूः स्त्री, (सरतीति । सृ गतौ + “सर्त्ते-

रयुः ।” उणा० ३ । २२ । इति अयुः ।
“सर्त्तेरयूः ।” इति केचित् ।) नदीविशेषः ।
इत्युणादिकोषः । अस्या जलगुणाः ।
“सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् ।”
इति राजनिर्घण्टः ॥
तस्या उत्पत्तिर्यथा, --
“एवं विवाह्य विधिवत् सौवर्णे मानसाचले ।
अरुन्धतीं वशिष्ठस्तु मोदमाप तया सह ॥
तत्र यत् पतितं तोयं मानसाचलकन्दरे ।
तत्तोयं सप्तधा भूत्वा मानसाचलकन्दरात् ॥
हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् ।
यत्तोयं सङ्गतं कुर्य्याद्धंसा वडवसन्निधौ ।
तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा शुभा ॥”
इति कालिकापुराणे २३ अध्यायः ॥

सरलः, पुं, (सरतीति । सृ + “वृषादिभ्यश्चित् ।”

उणा० १ । १०८ । इति कलच् । बाहुलकात् गुणः ।
इत्युज्ज्वलदत्तः ।) वृक्षविशेषः । (यथा, कुमारे ।
१ । ९ ।
“कपोलकण्डूः करिभिर्विनेतुं
विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्रुतक्षीरतया प्रसूतः
सानूनि गन्धः सुरभीकरोति ॥”)
तत्पर्य्यायः । पीतद्रुः २ पूतिकाष्ठम् ३ । इत्य-
मरः । २ । ४ । ६० ॥ धूपवृक्षकः ४ । इति शब्द-
रत्नावली ॥ पीतदारुः ५ भद्रदारुः ३ मनोज्ञः ७ ।
इति रत्नमाला ॥ पीतः ८ स्निग्धदारुसंज्ञः ९
स्निग्धः १० मरिचपत्रकः ११ पीतवृक्षः १२
सुरभिदारुः १३ । अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । उष्णत्वम् । कफवातत्वग्दोषशोफ-
कण्डूतिव्रणनाशित्वम् । कोष्ठशुद्धिदातृत्वम् । इति
राजनिर्घण्टः ॥ अन्यच्च भावप्रकाशे ।
“सरलः पीतवृक्षः स्यात् तथा सुरभिदारुकः ।
सरलो मधुकस्तिक्तः कटुपाकरसो लघुः ॥
स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः ।
कफानिलस्वदयूककामलाक्षिव्रणापहः ॥”
बुद्धः । अग्निः । इति धरणिः ॥

सरलः, त्रि, (सृ + कलच् । बाहुलकात् गुणः ।)

उदारः । अवक्रः । इति मेदिनी ॥ (यथा,
कथासरित्सागरे । ४ ।
“आदिश्यानाययामास गणकान् सरलाशयः ॥”)

सरलद्रवः, पुं, (सरलस्य द्रवः ।) सरलवृक्षरसः ।

टारपीन इति भाषा । तत्पर्य्यायः । पायसः २
श्रीवासः ३ वृकधूपः ४ श्रीवष्टः ४ । इत्यमरः ।
२ । ६ । १२९ ॥ तैलपर्णी ६ श्रीपिष्टः ७ । इति
जटाधरः ॥ श्रीवशः ८ यासः ९ यवासः १०
घृताह्वयः ११ दध्याह्वयः १२ क्षीराह्वयः १३
अवक्रः १४ क्षीरश्रीः १५ वायसः १६ । इति शब्द-
रत्नावली ॥ अस्य गुणाः श्रीवेष्टशब्दे द्रष्टव्याः ॥

सरला, स्त्री, (सरल + टाप् ।) त्रिपुटा । इत्य-

मरः । २ । ४ । १०८ ॥ नदीभेदः । इति भूरिप्रयोगः ॥

सरलाङ्गः, पुं, (सरलः पीतद्रुरङ्गमस्य ।) श्रीवेष्टः ।

इति राजनिर्घण्टः ॥

सरव्यं, क्ली, (सरं रागं व्ययतीति । व्ये + डः ।)

लक्ष्यम् । इत्यमरटीका ॥ तालव्यशादिश्च ॥

सरसं, क्ली, (रसेन जलेन सह वर्त्तमानम् ।)

सरोवरः । इति शब्दरत्नावली ॥ रसयुक्ते, त्रि ।
यथा, --
“कविता कोमलवनिता आयाता सुखदायिका ।
बलादानीयमाना सा सरसा विरसा भवेत् ॥”
इत्युद्भटः ॥

सरसम्प्रतं, क्ली, त्रिकण्टवृक्षः । तेकाँटासिज् इति

भाषा ॥ यथा, शब्दचन्द्रिकायाम् ।
“त्रिकण्टः पत्रगुप्तश्च पेषणः सरसम्प्रतम् ॥”

सरसा, स्त्री, (रसेन सह वर्त्तमाना ।) श्वेत-

त्रिवृता । इत्यमरटीकायां रायमुकुटः ॥

सरसिजं, क्ली, (सरसि जायते इति । जन + डः ।

सप्तम्या अलुक् ।) पद्मम् । इति राजनिर्घण्टः ॥
(यथा, शाकुन्तले १ अङ्के ।
“सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥”
सरोवरजाते, त्रि । यथा, सुश्रुते । १ । ४६ ।
“अधस्ताद्गुरवो ज्ञेया मत्स्याः सरसिजाः
स्मृताः ॥”)

सरसी, स्त्री, (सृ + असुन् । गौरादित्वात् ङीष् ।)

सरोवरः । इत्यमरः । १ । १० । २८ ॥ (यथा,
रघुः । १ । ४३ ।
“सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिध्रन्तौ स्वनिश्वासानुकारिणम् ॥”)

सरसीकः, पुं, (सरस्यां कायति शब्दायते इति ।

कै + कः ।) सारसपक्षी । इति शब्दरत्ना-
वली ॥

सरसीरुहं, क्ली, (सरस्यां रोहतीति । रुह +

कः ।) पद्मम् । इत्यमरः । १ । १० । ४० ॥
(यथा, गीतगोविन्दे । ८ । २ ।
“तामनुसर सरसीरुहलोचन या तव हरति
विषादम् ॥”)

सरस्वती, स्त्री, (सरो नीरं तद्बत् रसो वास्त्यस्या

इति । सरस् + मतुप् । मस्य वः । तसौ मत्वर्थ
इति भत्वान्न वदकार्य्यम् ।) नदी । (यथा,
महाभारते । १ । २१४ । ३ ।
“ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः ।
बभूव परमप्रीता नागैरिव सरस्वती ॥”)
बाणी । (यथा, रघुः । १५ । ४६ ।
“उच्चचार पुरस्तस्य गूढरूपा सरस्वती ॥”)
स्त्रीरत्नम् । गौः । नदीभेदः । मनुपत्नी । इति
पृष्ठ ५/२८९
मेदिनी ॥ ज्योतिष्मती । ब्राह्मी । इति राज-
निर्घण्टः ॥ सोमलता । इति शब्दचन्द्रिका ॥
बुद्धशक्तिविशेषः । इति त्रिकाण्डशेषः ॥ दुर्गा ।
यथा, देवीपुराणे ४५ अध्याये ।
“स्वराः स्वरणशीलत्वात् गेयाख्याः सप्त
कीर्त्तिताः ।
अतिप्रापणदाने वा तेन देवी सरस्वती ॥”
वाग्देवता । तत्पर्य्यायः । ब्राह्मी २ भारती ३
भाषा ४ गीः ५ वाक् ६ बाणी ७ । इत्यमरः ॥
इरा ८ सारदा ९ गिरा १० गिरांदेवी ११
गीर्द्देवी १२ ईश्वरी १३ वाचा १४ वचसा-
मीशा १५ वाग्देवी १६ वर्णमातृका १७ ।
इति शब्दरत्नावली ॥ गौः १८ श्रीः १९ । इति
जटाधरः ॥ वाक्येश्वरी २० अन्त्यसन्ध्येश्वरी २१
सायंसन्ध्यादेवता २२ । इति कविकल्पलता ॥ *
तस्या उत्पत्त्यादि यथा, ब्रह्मवैवर्त्ते ब्रह्मखण्डे ।
३ । ५२ -- ६३ ।
सौतिरुवाच ।
“आविर्ब्बभूव कन्यैका धर्म्मस्य वामपार्श्वतः ।
मुक्तिर्मूर्त्तिमती साक्षात् द्बितीया कमलालया ॥
आविर्ब्बभूव तत्पश्चान्मुखतः परमात्मनः ।
एका देवी शुक्लवर्णा वीणापुस्तकधारिणी ॥
कोटिपूर्णेन्दुशोभाढ्या शरत्पङ्कजलोचना ।
वह्निशुद्धांशुकाधाना रत्नाभरणभूषिता ॥
सस्मिता सुदती वामा सुन्दरीणाञ्च सुन्दरी ।
श्रेष्ठा श्रुतीनां शास्त्राणां विदुषां जननी परा ॥
वागधिष्ठातृदेवी सा कवीनामिष्टदेवता ।
शुद्धसत्त्वस्वरूपा च शान्तरूपा सरस्वती ॥
गोविन्दपुरतः स्थित्वा जगौ प्रथमतः सुखम् ।
तन्नामगुणकीर्त्तिञ्च वीणया सा ननर्त्त च ॥
कृतानि यानि कर्म्माणि कल्पे कल्पे युगे युगे ।
तानि सर्व्वाणि हरिणा तुष्टाव संपुटाञ्जलिः ॥
सरस्वत्युवाच ।
रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ।
रत्नसिंहासनस्थञ्च रत्नभूषणभूषितम् ॥
रासेश्वरं रासकरं वरं रासेश्वरीश्वरम् ।
रासाधिष्ठातृदेवञ्च वन्दे रासविनोदिनम् ॥
रासायासपरिश्रान्तं रासे राजविहारिणम् ।
रासोत्सुकानां गोपीनां कान्तं शान्तं मनो-
हरम् ॥
प्रणम्य तं यामीत्युक्त्वा प्रहृष्टवदना सती ।
उवास सा सकामा च रत्नसिंहासने वरे ॥
इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
बुद्धिमान् सोऽपि विद्यावान् लक्ष्मीवान् पुत्त्र-
वान् सदा ॥”
अपि च तत्रैव गणेशखण्डे । ४० । ६१ -- ६७ ।
“सा च शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया ।
राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ॥
प्राणाधिष्ठात्री या देवी कृष्णस्य परमात्मनः ।
प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता ॥
ऐश्वर्य्याधिष्ठातृदेवी सर्व्वमङ्गलकारिणी ।
परमानन्दरूपा च सा लक्ष्मीः परिकीर्त्तिता ॥
विद्याधिष्ठात्री या देवी परमेशस्य दुर्लभा ।
वेदशास्त्रयोगमाता सा सावित्री प्रकीर्त्तिता ॥
बुद्ध्यधिष्ठात्री या देवी सर्व्वशक्तिस्वरूपिणी ।
सर्व्वज्ञानात्मिका सर्व्वा सा दुर्गा दुर्गनाशिनी ॥
वागधिष्ठात्री या देवी शास्त्रज्ञानप्रदा सदा ।
कृष्णकण्ठोद्भवा या च सा च देवी सरस्वती ॥
पञ्चधादौ स्वयं देवी मूलप्रकृतिरीश्वरी ।
ततः सृष्टिक्रमेणैव बहुधा कलया च सा ॥” * ॥
तस्याः पूजादिर्यथा, --
श्रीनारायण उवाच ।
“आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्म्मिता ।
यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥
आविर्भूता यदा देवी वक्त्रतः कृष्णयोषितः ।
इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥
स च विज्ञाय तद्भावं सर्व्वज्ञः सर्व्वमातरम् ।
तामुवाच हितं सत्यं परिणामसुखावहम् ॥
श्रीकृष्ण उवाच ।
भज नारायणं साध्वी मदंशं तं चतुर्भुजम् ।
युवानं सुन्दरं सर्व्वगुणयुक्तञ्च मत्समम् ॥
कामज्ञं कामिनीनाञ्च तासाञ्च कामपूरकम् ।
कोटिकन्दर्पलावण्यलीलान्यक्कृतमीश्वरम् ॥
कान्ते कान्तञ्च मां कृत्वा यदि स्थातुमिहेच्छसि ।
त्वत्तो बलवती राधा न ते भद्रं भविष्यति ॥
यो यस्मात् बलवान् वाणि ततोऽन्यं रक्षितुं
क्षमः ।
कथं परान् साधयति यदि स्वयमनीश्वरः ॥
सर्व्वेशः सर्व्वशास्ताहं राधां वाधितुमक्षमः ।
तेजसा मत्समा सा च रूपेण च गुणेन च ॥
प्राणाधिष्ठात्री देवी सा प्राणांस्त्यक्तुञ्च कः क्षमः ।
प्राणतोऽपि प्रियः कुत्र केषां वास्ति च कश्चन ॥
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।
पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥
लोभमोहकामकोपमानहिंसाविवर्जिता ।
तेजसा तत्समा लक्ष्मी रूपेण च गुणेन च ॥
तया सार्द्धं तव प्रीत्या शश्वत्कालं प्रयास्यति ।
गौरवं मद्बरात्तुल्यं करिष्यति पतिर्द्वयोः ॥
प्रतिविश्वेषु ते पूजां महतीं ते मुदान्विताः ।
माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि ॥
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।
सन्तश्च योगिनः सिद्धा नागगन्धर्व्वराक्षसाः ॥
मद्बरेण करिष्यन्ति कल्पे कल्पे लयावधि ।
भक्तियुक्ताश्च दत्त्वा चैवोपचाराणि षोडश ।
काण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ॥
जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च ।
कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्च्चिताम् ॥
कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ।
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ॥
इत्युक्त्वा पूजयामास तां देवीं सर्व्वपूजितः ।
ततस्तत्पूजनञ्चक्रुर्ब्रह्मविष्णुमहेश्वराः ॥
अनन्तश्चापि धर्म्मश्च मुनीन्द्राः सनकादयः ।
सर्व्वे देवाश्च मनवो नृपाश्च मानवादयः ।
बभूव पूजिता नित्या सर्व्वलोकैः सरस्वती ॥
नारद उवाच ।
पूजाविधानं स्तवनं ध्यानं कवचमीप्सितम् ।
पूजोपयुक्तनैवेद्यं पुष्पञ्च चन्दनादिकम् ॥
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ।
वर्द्धते साम्प्रतं शश्वत् किमिदं श्रुतिसुन्दरम् ॥
श्रीनारायण उवाच ।
शृणु नारद वक्ष्यामि काण्वशाखोक्तपद्धतिम् ।
जगन्मातुः सरस्वत्याः पूजां विधिसमन्विताम् ॥
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च ।
पूर्व्वेऽह्नि संयमं कृत्वा तत्राह्नि संयतः शुचिः ॥
स्नात्वा नित्यक्रियां कृत्वा घटं संस्थाप्य भक्तितः ।
संपूज्य देवषट्कञ्च नैवेद्यादिभिरेव च ॥
गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् ।
संपूज्य संयतो गेही ततोऽभीष्टं प्रपूजयेत् ॥
ध्यानेन वक्ष्यमाणेन ध्यात्वावाह्य घटे बुधः ।
ध्यात्वा पुनः षोडशोपचारेण पूजयेद्व्रती ॥
पूजोपयुक्तं नैवेद्यं यद्यद्वेदे निरूपितम् ।
वक्ष्यामि सांप्रतं किञ्चित् यथाधीतं यथा-
गमम् ॥
नवनीतं दधि क्षीरं लाजञ्च तिललड्डुकम् ।
इक्षुमिक्षुरसं शुक्लवर्णपक्वगुडं मधु ॥
स्वस्तिकं शर्करा शुक्लधान्यस्याक्षतमक्षतम् ।
अस्विन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ॥
घृतसैन्धवसंस्कारैर्हविष्यान्नञ्च व्यञ्जनैः ।
यवगोधूमचूर्णानां पिष्टकं घृतसंस्कृतम् ॥
पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ।
परमान्नञ्च सघृतं पिष्टान्नञ्च सुधोपमम् ॥
नारिकेलं तदुदकं केशरं मूलमार्द्रकम् ।
पक्वरम्भाफलं चारु श्रीफलं वदरं फलम् ॥
कालदेशोद्भवं पक्वफलं शुक्लं सुसंस्कृतम् ।
सुगन्धि शुक्लपुष्पञ्च सुगन्धि शुक्लचन्दनम् ॥
नवीनशुक्लवस्त्रञ्च शङ्खञ्च सुन्दरं मुने ।
माल्यञ्च शुक्लपुष्पाणि शुक्लहारञ्च भूषणम् ॥
यद्दृष्टञ्च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुन्दरम् ।
तन्निबोध महाभाग भयभञ्जनकारणम् ॥
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ।
कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् ॥
बह्निशुद्धांशुकाधानां सस्मितां सुमनोहराम् ॥
रत्नसारेन्द्रनिर्म्माणवरभूषणभूषिताम् ।
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥
वन्दे भक्त्या च वन्द्यां तां मुनीन्द्रमनुमानवैः ।
एवं ध्यात्वा च मूलेन सर्व्वं दत्त्वा विचक्षणः ॥
संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि ।
येषां येषामिष्टदेवी तेषां नित्या क्रिया मुने ॥
विद्यारम्भे च वर्षान्ते सर्व्वेषां पञ्चमीदिने ।
सर्व्वोपयुक्तो मूलश्च वैदिकाष्टाक्षरं परम् ॥
येषां येनोपदेशो वा तेषां स मूल एव च ।
सरस्वतीचतुर्थ्यन्तो वह्निजायान्त एव च ॥
लक्ष्मीर्मायादिकश्चैव मन्त्रोऽयं कल्पपादपः ।
पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ॥
प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते ।
भृगुर्ददौ च शुक्राय पुष्करे सूर्य्यपर्व्वणि ॥
पृष्ठ ५/२९०
चन्द्रपर्व्वणि मारीचो ददौ वाक्पतये मुदा ।
भृगवे च ददौ तुष्टो ब्रह्मा वदरिकाश्रमे ॥
आस्तीकाय जरत्कारुर्ददौ क्षोरोदसन्निधौ ।
विभाण्डको ददौ मेरौ ऋष्यशृङ्गाय धीमते ॥
शिवः कणादमुनये गोतमाय ददौ मुदा ।
सूर्य्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥
शेषः पाणिनये चैव भरद्वाजाय धीमते ।
ददौ शाकटायनाय सुतले बलिसंसदि ॥
चतुर्लक्षजपेनैव मन्त्रः सिद्धो भवेन्नृणाम् ।
यदि स्यात् सिद्धमन्त्रोऽपि बृहस्पतिसमो भवेत् ॥
कवचं शृणु विप्रेन्द्र यद्दत्तं विधिना पुरा ।
विश्वश्रेष्ठं विश्वजयं भृगवे गन्धमादने ॥
भृगुरुवाच ।
ब्रह्मन् ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद ।
सर्व्वज्ञ सर्व्वजनक सर्व्वेश सर्व्वपूजित ॥
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।
अयातयाममन्त्राणां समूहसंयुतं परम् ॥
ब्रह्मोवाच ।
शृणु वत्स प्रवक्ष्यामि कवचं सर्व्वकामदम् ।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।
रासेश्वरेण विभुना रासे च रासमण्डले ॥
अतीवगोपनीयञ्च कल्पवृक्षपरं वरम् ।
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥
यद्धृत्वा पठनाद्ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ।
यद्धृत्वा भगवान् शुक्रः सर्व्वदैत्येषु पूजितः ॥
पठनाद्धारणाद्बाग्मी कवीन्द्रो वाल्मिको मुनिः ।
सायम्भुवो मनुश्चैव यद्धृत्वा सर्व्वपूजितः ॥
कणादो गोतमः कण्वः पाणिनिः शाकटायनः ।
ग्रन्थञ्चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥
धृत्वा वेदविभागञ्च पुराणान्यखिलानि च ।
चकार लीलामात्रेण कृष्णद्बैपायनः स्वयम् ॥
शातातपश्च संवर्त्तो वशिष्ठश्च पराशरः ।
यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ॥
ऋष्यशृङ्गो भरद्बाजश्चास्तीको देवलस्तथा ।
जैगीषव्यो याजलिश्च यद्धृत्वा सर्व्वपूजितः ॥
कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः ।
स्वयं छन्दश्च बृहती देवो रासेश्वरः प्रभुः ॥
सर्व्वतत्त्वपरिज्ञानसर्व्वार्थसाधनेषु च ।
कवितासु च सर्व्वासु विनियोगः प्रकीर्त्तितः ॥
श्रीँ ह्रीँ सरस्वत्यै स्वाहा शिरो मे पातु सर्व्वतः ।
श्रीँ वाग्देवतायै स्वाहा भालं मे सर्व्वदावतु ॥
ॐ सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् ।
ॐ श्रीँ ह्रीँ भारत्यै स्वाहा नेत्रयुग्मं सदावतु ।
ॐ ह्रीँ वाग्वादिन्यै स्वाहा नासां मे सर्व्वतो-
ऽवतु ॥
ह्रीँ विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु ॥
ॐ श्रीँ ह्रीँ ब्राह्म्यै स्वाहेति दन्तपक्तिं सदावतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु ॥
ॐ श्रीँ ह्रीँ पातु मे ग्रीवां स्कन्धं मे श्रीँ सदा-
वतु ।
ॐ वागधिष्ठातृदेव्यै स्वाहा सर्व्वं सदावतु ॥
ॐ सर्व्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु ।
ॐ सर्व्वजिह्वावासिन्यै स्वाहाग्निदिशि रक्षतु ॥
ॐ ऐँ ह्रीँ श्रीँ क्लीँ सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ॥
ऐँ ह्रीँ श्रीँ त्र्यक्षरो मन्त्रो नैरृत्यां सर्व्वदावतु ॥
ॐ ऐँ कविजिह्वाग्रवासिन्य स्वाहा मां वारुणे-
ऽवतु ॥
सदम्बिकायै स्वाहा च वायव्ये मां सदावतु ।
ॐ गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥
ऐँ सर्व्वशास्त्रवासिन्यै स्वाहैशान्ये सदावतु ।
ॐ ह्रीँ सर्व्वपूजितायै स्वाहा चोर्ङ्घे सदावतु ॥
ऐँ ह्रीँ पुस्तकवासिन्यै स्वाहाधो मां सदावतु ।
ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्व्वतोऽवतु ॥
इति ते कथितं विप्र सर्व्वमन्त्रौघविग्रहम् ।
इदं विश्वजयं नाम कवचं ब्रह्मरूपिणम् ॥
पुरा श्रुतं धर्म्मवक्त्रात् पर्व्वते गन्धमादेने ।
तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥
गुरुमभ्यर्च्च्य विधिवत् वस्त्रालङ्कारचन्दनैः ।
प्रणम्य दण्डवद्भूमौ कवचं धारयेत् सुधीः ॥
पञ्चलक्षजपेनैव सिद्धन्तु कवचं भवेत् ।
यदि स्यात् सिद्धकवचो बृहस्पतिसमो भवेत् ॥
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।
शक्नोति सर्व्वं जेतुञ्च कवचस्य प्रसादतः ॥
इदञ्च काण्वशाखोक्तं कवचं कथितं मुने ।
स्तोत्रं पूजाविधानञ्च ध्यानञ्च वन्दनं तथा ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे सरस्वतीकवचम् ।
४ । ५९ -- ९१ ॥ * ॥
श्रीनारायण उवाच ।
“वाग्देवतायाः स्तवनं श्रूयतां सर्व्वकामदम् ।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥
गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।
तदा जगाम दुःखार्त्तो रविस्थानञ्च पुण्यदम् ॥
स प्राप तपसा सूर्य्यं लोलार्के दृष्टिगोचरे ।
तुष्टाव सूर्य्यं शोकेन रुरोद च मुहुर्मुहुः ॥
सूर्य्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः ।
उवाच स्तुहि वाग्देवीं भक्त्या च स्मृतिहेतवे ।
तमित्युक्त्वा दीननाथोऽप्यन्तर्द्धानं चकार सः ।
मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥
याज्ञवल्क्य उवाच ।
कृपां कुरु जगन्मातर्म्मामेव हततेजसम् ।
गुरुशापात् नष्टस्मृतिं विद्याहीनञ्च दुःखितम् ॥
ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदैवते ।
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम् ॥
ग्रन्थकर्त्तृत्वशक्तिञ्च सच्छिष्यं सुप्रतिष्ठितम् ।
प्रतिभां सत्सभायाञ्च विचारक्षमतां शुभाम् ॥
लुप्तं सर्व्वं दैवदोषात् दूरीभूतं पुनः पुनः ।
यथाङ्कुरं भस्मनि च करोति देवता पुनः ॥
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ।
सर्व्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥
यया विना जगत् सर्व्वं शश्वज्जीवन्मृतं परम् ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥
यया विना जगत् सर्व्वं मूकमुन्मत्तवत् सदा ।
वागधिष्ठातृदेवी या तस्यै नित्यं नमो नमः ॥
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ।
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥
विसर्गबिन्दुमात्रासु यदधिष्ठानमेव च ।
तदधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥
यया विनात्र संख्यावान् संख्यां कर्त्तुं न शक्यते ।
कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृ-
देवता ।
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥
स्मृतिशक्तिर्ज्ञानशक्तिर्ब्बुद्धिशक्तिस्वरूपिणी ।
प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः ॥
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।
बभूव जडवत् सोऽपि सिद्धान्तं कर्त्तुमक्षमः ॥
तदाजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।
उवाच सततं स्तौहि वाणीमिति प्रजापते ॥
स च तुष्टाव त्वां ब्रह्मा चाज्ञया परमात्मनः ।
चकार त्वत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ।
बभूव मूकवत् सोऽपि सिद्धान्तं कर्त्तुमक्षमः ॥
तदा त्वां स च तुष्टाव संत्रस्तः कश्यपाज्ञया ।
ततश्चकार सिद्धान्तं निर्म्मलं भ्रमभञ्जनम् ॥
व्यासः पुराणसूत्रञ्च पप्रच्छ वाल्मिकं यदा ।
मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ।
संप्राप निर्म्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् ॥
पुराणसूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ।
त्वां सिषेवे च दध्यौ च शतवर्षञ्च पुष्करे ॥
तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ।
तदा वेदविभागञ्च पुराणञ्च चकार सः ॥
तदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं शिवाशिवम् ।
क्षणं त्वामेव संचिन्त्य तस्मै ज्ञानं ददौ विभुः ॥
पप्रच्छ शब्दशास्त्रञ्च महेन्द्रश्च बृहस्पतिम् ।
दिव्यं वर्षसहस्रञ्च स त्वां दध्यौ च पुष्करे ॥
तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।
उवाच शब्दशास्त्रञ्च तदर्थञ्च सुरेश्वरम् ॥
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ।
ते च त्वां परिसंचिन्त्य प्रवर्त्तन्ते सुरेश्वरि ॥
त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः ।
दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्म्मुखः ।
यां स्तोतुं किमहं स्तामि त्वामेकास्येन मानवः ॥
इत्युक्त्रा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ।
प्रणनाम निराहारो रुरोद च मुहुर्म्मुहुः ॥
तदा ज्योतिःस्वरूपा सा तेनादृष्टाप्युवाच तम् ।
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठञ्च जगाम ह ॥
याज्ञवल्क्यकृतं वाणीस्तोत्रं यः संयतः पठेत् ।
सुकवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ॥
महामूर्खश्च दुर्म्मेधा वर्षमेकं वदा जपेत् ।
स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे सरस्वत्युपाख्यानम् ।
५ । १ -- ३५ ॥ * ॥
पृष्ठ ५/२९१
अपि च । “संवत्सरप्रदीपे ।
‘पञ्चम्यां पूजयेल्लक्ष्मीं पुष्पधूपान्नवारिभिः ।
मस्याधारं लेखनीञ्च पूजयेन्न लिखेत्ततः ॥
माघे मासि सिते पक्षे पञ्चमी या श्रियः प्रिया ।
तम्याः पूर्व्वाह्ण एवेह कार्य्यः सारस्वतोत्सवः ॥’
सारस्वत इत्युपादानात् श्रियः सरस्वत्याः ।
तथा च व्याडिः ।
‘लक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु ।
उपकरणवेशरचनाविधासु च श्रीरिति प्रथिता ॥’
तथा चोक्तं गां दद्यादित्यादौ नानार्थशब्दस्यापि
प्रसिद्धार्थत्वेन व्यवहारः विपरीतार्थग्राहक-
वाक्यशेषसत्त्व तु अप्रसिद्धार्थत्वेन च व्यवह्रियते
सर्व्वदा नानार्थानां व्यवहारस्तु श्लेषकाव्यादा-
विति ।
‘तरुणशकलमिन्दोर्ब्बिभ्रती शुभ्रकान्तिः
कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ।
निजकरकमलोद्यल्लेखनीपुस्तकश्रीः
सकलविभवसिद्ध्यै पातु वाग्देवता नः ॥’
इति शारदोक्तं ध्यायेत् ॥
पाद्यादिभिः पूजयित्वा ।
‘भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः ।
वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च स्वाहा ॥’
इति ब्रह्मपुराणीयेन त्रिः पूजयेत् ॥
मत्स्यसूक्ते ।
‘बन्धुजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् ॥’
सरस्वतीं संपूज्य ।
‘यथा न देवो भगवान् ब्रह्मा लोकपितामहः ।
त्वां परित्यज्य सन्तिष्ठेत्तथा भव वरप्रदा ॥
वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत् ।
न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः ॥
लक्ष्मीर्म्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः ।
एताभिः पाहि तनुभिरष्टाभिर्म्मां सरस्वति ॥’
इति मत्स्यपुराणीयैः प्रार्थयेत् ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥ अथ सरस्वती-
मन्त्रादि ।
“अद्रिर्व्वरुणसंरुद्धो दवाग्वादिनिठद्वयम् ।
सरस्वत्या दशार्णोऽयं वागैश्वर्य्यफलप्रदः ॥”
मन्त्रो यथा । वद वद वाग्वादिनि वह्निवल्लभेति
दशाक्षरः । तथा निबन्धे ।
‘भुवनेश्वरीसंपुटोऽयं महासारस्वतप्रदः ॥’ * ॥
अस्य यन्त्रम् ।
“व्योमेन्द्बौ रसनार्णकर्णिकमचां द्बन्द्बैः स्फुरत्-
केशरं
पत्रान्तर्गतपञ्चवर्गयशला वर्णादिवर्गं क्रमात् ।
आसास्वश्रिषु लान्तलाङ्गलियुजा क्षौणी-
पुरेणावृतं
यन्त्रं कल्पितमत्र पूजयतु तां वर्णात्मिकां
देवताम् ॥”
गोतमीये ।
“कर्णिकायां प्रेतबीजं विधिना विलिखेत् गुरुः ।
ततः षोडशकेशरेषु विलिखेत् षोडश स्वरान् ॥
तथाष्टदलमध्ये च वर्गाष्टकं यथाविधि ।
कादिमान्ताः पञ्च पञ्च वर्गाः स्युर्मातृकोदिताः ॥
यादिवान्ताः शादिहान्ता ळ-क्षमीशे प्रवि-
न्यसेत् ।
चतुरस्रं चतुर्द्बारं दिक्षु वं ठं विदिक्षु च ॥” * ॥
अस्य पूजाप्रयोगः । प्रातःकृत्यादिपीठन्यासान्तं
कर्म्म विधाय केशरेषु मध्ये च पीठशक्तीर्न्यसेत् ।
यथा, ‘ॐ मेधायै नमः । ॐ प्रज्ञायै समः ।
ॐ प्रभायै नमः । ॐ विद्यायै नमः । ॐ धियै
नमः । ॐ धृत्यै नमः । ॐ स्मृत्यै नमः । ॐ
बुद्ध्यै नमः । ॐ विद्येश्वर्य्यै नमः । मध्ये तदुपरि
ॐ पद्मासनाय नमः ।’ प्रणवादिनमोऽन्तेन
पूजयेत् । तथा च सारदातिलके ।
“आधारशक्तिमारभ्य पीठशक्त्यन्तमर्च्चयेत् ।
मेधाप्रज्ञाप्रभाविद्याधीधृतिस्मृतिबुद्धयः ॥
विद्येश्वरी च सम्प्रोक्ता ताराद्या नव शक्तयः ।
वर्णाब्जेनासनं दद्यात् मूर्त्तिं मूलेन कल्पयेत् ॥”
तत ऋष्यादिन्यासः । तद्यथा । शिरसि ॐ
कण्वऋषये नमः । मायापुटितश्चेत् ॐ बृहस्प-
तये ऋषये नमः । मुखे विराट्छन्दसे नमः ।
हृदि वागीश्वर्य्यै देवतायै नमः ॥ * ॥ अत्र
मन्त्रन्यासः । शिरसि वं नमः । श्रवणयोर्दं नमः
वं नमः । चक्षुषोर्दं नमः वां नमः । नासि-
कयोर्वां नमः दिं नमः । वदने निं नमः ।
लिङ्गे स्वां नमः । गुह्ये हां नमः ॥ * ॥
ततो मातृकायाः कराङ्गन्यासौ कृत्वा ध्यायेत् ।
तथाच निबन्धे ।
“शिरःश्रवणदृङ्नासावदनान्धुगुदेष्विमान् ।
न्यस्य वर्णान् षडङ्गानि मातृकोक्तानि कल्प-
येत् ॥”
ततो ध्यानम् ।
“तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः
कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ।
निजकरकमलोद्यल्लेखनीपुस्तकश्रीः
सकलविभवसिद्ध्यै फतु वाग्देवता नः ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।
ततः पीठपूजां कृत्वा केशरेषु मध्ये दिक्षु च
मेधादिपीठमन्वन्तं संपूज्य पुनर्ध्यात्वावाहनादि-
पञ्चपुष्पाञ्जलिदानपर्य्यन्तं कर्म्म विधाय आव-
रणपूजां कुर्य्यात् । अग्निकोणे अं कं खं गं घं
ङं आं हृदयाय नमः । एवं नैरृते इं चं छं जं
झं ञं ईं शिरसे स्वाहा । वायुकोणे उं टं ठं
डं ढं णं ऊं शिखायै वषट् । ईशाने एं तं थं
दं धं नं ऐं कवचाय हुं । मध्ये ओं पं फं बं
भं मं औं नेत्रत्राय वौषट् । दिक्षु अं यं रं लं
वं शं षं सं हं ळं क्षं अः करतलपृष्ठाभ्यां
अस्त्राय फट् । ततः पत्रेषु पूर्ब्बादिषु ॐ योगायै
नमः । ॐ सत्यायै नमः । ॐ विमलायै नमः ।
ॐ ज्ञानायै नमः । ॐ बुद्ध्यै नमः । ॐ स्मृत्यै
नमः । ॐ मेधायै नमः । ॐ प्रज्ञायै नमः ।
दलाग्रेषु । ब्राह्माद्या मातरः पूज्याः प्रणवादि-
नमोऽन्तिकाः । तद्वहिरिन्द्रादीन् वज्रादींश्च
पूजयेत् । ततो धूपादिविसर्ज्जनान्तं कर्म्म समा-
पयेत् ॥ * ॥ अस्य पूरश्चरणं दशलक्षजपः ।
तथा च ।
“दशलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ।
पुण्डरीकैः पयोऽभ्यक्तैस्तिलैस्त्रिमधुरान्वितः ॥”
इति ॥ * ॥
मन्त्रान्तरम् ।
“हृदयान्ते भगवति वदशब्दयुगं ततः ।
वाग्देविवह्निजायान्तं वाग्भवाद्यं समुच्चरेत् ॥”
अस्य पूजाप्रयोगः । प्रातःकृत्यादिपीठन्यासान्तं
कर्म्म विधाय केशरेषु मध्ये च पूर्व्वोक्तमेधादि-
पीठशक्तीः पीठमनुञ्च न्यसेत् । ततः पूर्व्वोक्त-
मृष्यादिन्यासं कृत्वा कराङ्गन्यासौ कुर्य्यात् । तद्-
यथा । ऐं अङ्गुष्ठाभ्यां नमः । नमस्तर्जनीभ्यां
स्वाहा । भगवति मध्यमाभ्यां वषट् । वद वद
अनामिकाभ्यां हुँ । वाग्देवि कनिष्ठाभ्यां
वौषट् । स्वाहा करतलपृष्ठाभ्यां फट् । एवं
हृदयादिषु । तथा च निबन्धे ।
“मनोः षड्भिः पदैः कुर्य्यात् जातियुक्तं षड-
ङ्गकम् ॥” * ॥
ततो ध्यानम् ।
“शुभ्रां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डो-
ज्ज्वलां
व्याख्यामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ता-
म्बुजैः ।
बिभ्राणां कमलासनां कुचनतां वाग्देवतां
सस्मितां
वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत्-
करीम् ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।
ततः पूर्व्वोक्तक्रमेण पूजयेत् । किन्त्वङ्गमन्त्रे
विशेषः । अस्य पुरश्चरणमष्टलक्षजपः । तथा च ।
“हविष्याशी जपेन्मन्त्रं वसुलक्षमनन्यधीः ।
दशांशं जुहुयादन्ते तिलैराज्यपरिप्लुतैः ॥
तारो मायाधरो बिन्दुः शक्तिस्तारः सरस्वती ।
ङेऽन्तो नमोऽन्तको मन्त्रः प्रोक्त एकादशा-
क्षरः ॥” * ॥
अस्याः पूजाप्रयोगः । प्रातःकृत्यादिपूर्व्वोक्त-
पीठमन्वन्तं विन्यस्य पूर्व्वोक्तं ऋष्यादिन्यासं
कुर्य्यात् । ततो मन्त्रन्यासः । ॐ नमो ब्रह्म-
रन्ध्रे । ह्रीँ नमो भ्रूमध्ये । ऐं नमः ह्रीँ नम-
श्चक्षुषोः । ॐ नमः सं नमः कर्णयोः । रं नमः
स्वं नमो नासिकयोः । त्यैं नमो मुखे । नं नमो
लिङ्गे । मं नमो गुह्ये । ततः कराङ्गन्यासौ ।
ऐं अङ्गुष्ठाभ्यां नमः । ऐं तर्ज्जनीभ्यां स्वाहा ।
इत्यादि । एवं हृदयादिषु । तथा च निबन्धे ।
“मन्त्रवर्णान् न्यसेन्मन्त्री वाग्भवेनाङ्गकल्पना ।”
इत्यादि ॥ * ॥
ततो ध्यानम् ।
“वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्द-
प्रभा-
ञ्चन्द्रार्द्धाङ्कितमस्तकां निजकरैः संबिभ्रती-
मादरात् ।
पृष्ठ ५/२९२
वीणामक्षगुणं सुधाढ्यकलसं विद्याञ्च तुङ्गस्तनीं
दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।
ततः पीठपूजां विधाय केशरेषु मध्ये च पूर्व्वोक्त-
पीठशक्तीः पीठमनुञ्च यजेत् । ततः पुनर्ध्यात्वा
आवाहनादि पञ्चपुष्पाञ्जलिदानपर्य्यन्तं कर्म्म
समाप्य आवरणपूजां कुर्य्यात् । देव्या दक्षिणे
ॐ संस्कृतायै वाङ्मय्यै नमः । वामे ॐ प्राकृ-
तायै वाङ्मय्यै नमः । ततः केशरेषु अग्नि-
कोणे ऐं हृदयाय नमः । नैरृते ऐं शिरसे
स्वाहा । वायव्ये ऐं शिखायै वषट् । ईशाने
ऐं कवचाय हुँ । मध्ये ऐं नेत्रत्रयाय वौषट् ।
दिक्षु ऐं अस्त्राय फट् । ततः पूर्व्वादिपत्रेषु ॐ
प्रज्ञायै नमः एवं मेधायै श्रुत्यै शक्त्यै स्मृत्यै
वागीश्वर्य्यै मत्यै स्वस्त्यै । ततः पत्राग्रेषु
ब्राह्म्याद्याः पूजयेत् । तथा च निबन्धे ।
“देव्या दक्षिणतः पूज्या संस्कृता वाङ्मयी शुभा ।
प्राकृता वाङ्मयी पूज्या वामतः सर्व्वदा शुभा ॥
इष्ट्वा पूर्ब्बवदङ्गानि प्रज्ञाद्याः पूजयेत् पुनः ।
प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्व्वागीश्वरी
मतिः ।
स्वस्तिश्चेति समाख्याता ब्राह्म्याद्यास्तदनन्त-
रम् ॥”
तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् । ततो
धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् । अस्य
पुरश्चरणं द्वादशलक्षजपः । तथा च ।
“जपेत् द्बादशलक्षाणि तत्सहस्रं सिताम्बुजैः ।
नागचम्पकपुष्पैर्व्वा जुहुयात् साधकोत्तमः ॥” * ॥
मन्त्रान्तरं शारदायाम् ।
“वाचस्पतेऽमृते भूयः प्लुवप्लुरिति कीर्त्तयेत् ।
वागाद्यो मनुराख्यातो रुद्रसंख्याक्षरोऽपरः ॥”
अस्य पूजादिकं पूर्व्ववत् । कराङ्गन्यासन्तु ऐं
अङ्गुष्ठाभ्यां नमः । वाचस्पते तर्ज्जनीभ्यां
स्वाहा । अमृते मध्यमाभ्यां वषट् । प्लुव
अनामिकाभ्यां हुँ । प्लुः कनिष्ठाभ्यां फट् ।
एवं हृदयादिषु । तथा च निबन्धे ।
‘कुर्य्यादङ्गानि विधिवत् वागाद्यैः पञ्चभिः पदैः ॥”
ध्यानन्तु ।
“आसीना कमले करैर्जषवटीं पद्मद्वयं पुस्तकं
बिभ्राणा तरुणेन्दुबद्धमुकुटा मुक्तेन्दुकुन्दप्रभा ।
भालोन्मीलितलोचना कुचभराक्रान्ताभव-
द्भूतये
भूयाद्बागधिदेवता मुनिगणैरासेव्यमाना-
निशम् ॥”
एवं ध्यात्वा पूर्ब्बवत् पूजादिकं कुर्य्यात् । अस्य
पूरश्चरणमेकादशलक्षजपः । तथा च ।
“रुद्रलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ॥” *
मन्त्रान्तरं शारदायाम् ।
“तोपस्थं शयनं विष्णोः सकेवलचतुमुखम् ।
अघोंशेन्दुयुतो वह्निर्बिन्दुमत्याम्बुमान् भृगुः ।
उक्तानि त्रोणि बीजानि सद्भिः सारस्वता-
र्थिनाम् ॥”
तोयं वकारः विष्णोः शयनमाकारः केवलेन
आकाररहितेन ककारेण सहितः तेन वागिति
सिद्धं वाग्भवमित्यर्थः । केचित्तु लक्षितलक्षणा-
भयादेवं वदन्ति आकारयुक्तो वकारः के
मस्तके वलते केवलोऽनुस्वारः तद्युक्तेन कका-
रेण सह वर्त्तते तेन क्वामिति । तन्न । निरूढ-
लक्षणायाः शक्तितुल्यत्वात् । वाक् वाग्भवं
इति पर्य्यायः । वस्तुतस्तु ऐं रुं स्वोम् ।
“द्वादशस्वरमुद्धृत्य बिन्दुनादविभूषितम् ।
बिन्दुनादसमायुक्तं वह्निबीजं समुद्धरेत् ॥
षष्ठस्वरसमायुक्तं द्वितीयं बीजमुद्धरेत् ।
चन्द्रबीजं समुद्धृत्य वरुणं योजयेत्ततः ।
त्रयोदशस्वरारूढं बिन्दुनादविभूषितम् ॥”
इति विश्वसारवचनात् वाग्भवबीजमेव । अस्य
पूजादिकं पूर्ब्बवत् । कराङ्गन्यासस्तु द्विरुक्तै-
स्त्रिभिर्ब्बीजैर्विधेयः । तथा च निबन्धे ।
“अङ्गानि कल्पयेन्मन्त्री द्विरुक्तैर्जातिसंयुतैः ॥”
ध्यानन्तु ।
“मुक्ताहारावदातां शिरसि शशिकलालङ्कृतां
बाहुभिः स्वै-
र्व्याख्यां वर्णाक्षमालां मणिमयकलसं पुस्तक-
ञ्चोद्वहन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहभरविलसन्मध्यदेशा-
मधीशां
वाचामीडे चिराय त्रिभुवननमितां पुण्डरीके
निषण्णाम् ॥”
एवं ध्यात्वा पूर्ब्बवत् पूजादिकं कुर्य्यात् । अस्य
पुरश्चरणं त्रिलक्षजपः । तथा च ।
“त्रिलक्षं प्रजपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
पायसैराज्यसंसिक्तैः संस्कृते हव्यवाहने ॥” * ॥
अथ पारिजातसरस्वतीमन्त्राः । मन्त्रदेवप्रका-
शिकायाम् । स च प्रणवहृल्लेखा संपुटित-
हकारसकारौकारबिन्दुयुक्तः सरस्वती ङेऽन्ता
नतिश्च । अस्य पूजा । प्रातःकृत्यादिपीठमन्वन्तं
विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । शिरसि कण्व-
ऋषये नमः । मुखे तृष्णुप्छन्दसे नमः । हृदि
पारिजातसरस्वत्यै देवतातै नमः । ततो मातृ-
कोक्तकराङ्गन्यासौ कुर्य्यात् । मूर्द्ध्नि भ्रूमध्यनेत्र-
कर्णनासापुटद्वयजिह्वालिङ्गपायुषु एकादशा-
क्षरन्यासः । ततो ह्सां अङ्गुष्ठाभ्यां नम इत्या-
दिना कराङ्गन्यासौ कुर्य्यात् । अन्यत् सर्व्वं पूर्व्व-
वत् । दक्षिणामूर्त्तिसंहितायान्तु ।
“सम्पत्प्रदाया भैरव्या वाग्भवं बीजमालिखेत् ।
तारेण परया देवि संपुटीकृत्य मन्त्रवित् ।
सरस्वत्यै हृदन्तोऽयं रुद्रार्णो मनुरीरितः ॥”
तथाच प्रपञ्चसारे ।
“आद्यन्तप्रणवशक्तिमध्यसंस्था
वाक् भूयो भवति च सरस्वती ङेऽन्ता ।
नत्यन्तो मनुरयमीशसंख्यवर्णः
संप्रोक्तो भजमानः पारिजातः ॥
दक्षिणामूर्त्तिरृषिः प्रोक्तो गायत्त्री च्छन्द
ईरितम् ।
पारिजातेश्वरी वाणी देवता परिकीर्त्तिता ॥
तृतीयञ्च द्वितीयञ्च बीजशक्ती च तारकम् ।
कीलकं परमेशानि महासारस्वतप्रदम् ॥
षड्दीर्घस्वरसंभिन्नबीजेनाङ्गानि विन्यसेत् ॥”
ततो ध्यानम् ।
“हंसारूढा हरहसितहारेन्दुकुन्दावदाता
वाणी मन्दस्मिततरमुखी मौलिबद्धेन्दुरेखा ।
विद्यावीणामृतमयघटाक्षस्रजा दीप्तहस्ता
शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥”
अस्य पूजादिकं पूर्ब्बोक्तैकादशाक्षरीवत् । पुर-
श्चरणन्तु द्बादशलक्षजपः । सितपद्मैर्नागचम्पकैर्वा
जुहुयाद्द्वादशसहस्रमिति । इति तन्त्रसारः ॥ * ॥
नदीविशेषस्य पर्य्यायः । प्लक्षसमुद्भवा २ वाक्-
प्रदा ३ ब्रह्मसुता ४ भारती ५ वेदाग्रणीः ६
पयोष्णिजाता ७ वाणी ८ विशाला ९ कुटिला
१० । तज्जलगुणाः । स्वादुत्वम् । पूतत्वम् । सर्व्व-
रुजापहत्वम् । रुच्यत्वम् । दीपनत्वम् । पथ्यत्वम् ।
देहकान्तिकरत्वम् । लघुत्वञ्च । इति राज-
निर्घण्टः ॥ * ॥ सा तु देशभेदे सप्तनाम्नी यथा ।
पुष्करे पितामहयज्ञे आहूता सुप्रभा १ नैमि-
षारण्ये सत्रयाजिभिरृषिभिराहूता काञ्चनाक्षी
२ गयदेशे गयराजयज्ञे आहूता विशाला ३
उत्तरकोशलायां औद्दालकमुनियज्ञे समा-
हूता मनोरमा ४ ऋषभद्वीपे कुरुक्षेत्रे कुरुराज-
यज्ञे समाहूता ओघवती ५ गङ्गाद्वारे दक्ष-
प्रजापतियज्ञे समाहूता सुरेणुः ६ हिमालय-
पर्व्वते ब्रह्मणः पुनर्यज्ञे समाहूता विमलोदा ७ ।
तत्र सप्तसरस्वत्यः समागताः । अतएव तत्
तीर्थं सप्तसारस्वतनाम्ना ख्यातम् । इति महा-
भारते शल्यपर्व्व ॥ * ॥
तस्या उत्पत्तिर्ब्रह्मपत्नीत्वकारणञ्च यथा, --
नारायण उवाच
“सरस्वती सा वैकुण्ठे स्वयं नारायणान्तिके ।
गङ्गाशापेन कलया कलहाद्भारते सरित् ॥
पुण्यदा पुण्यजननी पुण्यतीर्थस्वरूपिणी ।
पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने ॥
तपस्विनां तपोरूपा तपस्याकररूपिणी ।
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥
ज्ञाने सरस्वतीतोये मग्नं यैर्म्मानवैर्भुवि ।
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ॥
भारते कृतपापी च स्नात्वा तत्रावलीलया ।
मुच्यते सर्व्वपापेभ्यो विष्णुलोके वसेच्चिरम् ॥
चातुर्म्मास्यां पौर्णमास्यामक्षयायां दिनक्षये ।
व्यतीपाते च ग्रहणेऽन्यस्मिन् पुण्यदिनेऽपि च ॥
आनुषङ्गेण यः स्नाति हेलया श्रद्धयापि वा ।
सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ॥
सरस्वतीमनुं तत्र मासमेकञ्च यो जपेत् ।
महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः ॥
नित्यं सरस्वतीतोये यः स्नाति मुण्डयेन्नरः ।
न गर्भवासं कुरुते पुनरेव स मानवः ॥
इत्येवं कथितं किञ्चित् भारतीगुणकीर्त्तनम् ।
सुखदं पुण्यदं सारं किं भूयः श्रोतुमिच्छसि ॥ * ॥
पृष्ठ ५/२९३
नारद उवाच ।
कथं सरस्वती देवी गङ्गाशापेन भारते ।
कलया कलहेनैव बभूव पुण्यदा सरित् ॥
नारायण उवाच ।
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ।
यस्याः श्रवणमात्रेण सर्व्वपापैः प्रमुच्यते ॥
लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्य्या हरेरपि ।
प्रेम्णा समास्तास्तिष्टन्ति सन्ततं हरिसन्निधौ ॥
चकार सैकदा गङ्गा विष्णोर्म्मुखनिरीक्षणम् ॥
सस्मिता च सकामा च सकटाक्षं पुनः पुनः ।
विभुर्ज्जहास तद्वक्त्रं निरीक्ष्य च क्षणं मुदा ।
क्षमां चकार तद्दृष्ट्वा लक्ष्मीर्नैव सरस्वती ॥
बोधयामास तां पद्मा सत्त्वरूपा च सस्मिता ।
क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह ॥
उवाच गङ्गां भर्त्तारं रक्तास्या रक्तलोचना ।
कम्पिता कीपवेगेन शश्वत्प्रस्फुरिताधरा ॥
सरस्वत्युवाच ।
सर्व्वत्र समताबुद्धिः सद्भर्त्तुः कामिनीं प्रति ।
धर्म्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ॥
ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर ।
कमलायाञ्च तत्तुल्यं न च किञ्चिन्मयि प्रभो ॥
गङ्गायाः पद्मया सार्द्धं प्रीतिश्चास्ति सुसम्मता ।
क्षमां चकार तेनेदं विपरीतं हरिप्रिया ॥
किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् ।
निष्फलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ॥
त्वां सर्व्वेशं सत्त्वरूपं ये वदन्ति मनीषिणः ।
ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव ॥
सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् ।
मनसा स समालोच्य प्रजगाम बहिःसभाम् ॥
गते नारायणे गङ्गामुवाच निर्भयं रुषा ।
वागधिष्ठातृदेवी सा वाक्यं श्रवणदुष्करम् ॥
हे निर्लज्जे हे सकामे स्वामिगर्व्वं करोषि किम् ।
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ॥
मानचूर्णं करिष्यामि तवाद्य हरिसन्निधौ ।
किं करिष्यति ते कान्तो ममैव कान्तवल्लभे ॥
इत्येवमुक्त्वा गङ्गायाः केशं ग्रहीतुमुद्यता ।
वारयामास तां पद्मा मध्यदेशे स्थिता सती ॥
शशाप वाणी तां पद्मां महाकोपवती सती ।
वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः ॥
अत्युन्नताञ्च तां दृष्ट्वा कोपप्रस्फुरिताधरा ।
उवाच गङ्गा तां देवीं पद्माञ्च रक्तलोचना ॥
गङ्गोवाच ।
त्वमुत्सृज महोग्राञ्च पद्मे किं मे करिष्यति ।
वाग्दुष्टा वागधिष्ठात्री देवीयं कलहप्रिया ॥
इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति ।
सरित्स्वरूपा भवतु सा या त्वाञ्च शशाप ह ॥
अधोमर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ।
कलौ तेषाञ्च पापांशं लभिष्यसि न संशयः ॥
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ।
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि ॥
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ।
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः ॥
सरस्वतीं करे धृत्वा वासयामास वक्षसि ।
बोधयामास सर्व्वज्ञः सर्व्वज्ञानं पुरातनम् ॥
श्रीनारायण उवाच ।
लक्ष्मि त्वं कलया गच्छ धर्म्मध्वजगृहं शुभे ।
अयोनिसम्भवा योनौ तस्य कन्या भविष्यसि ॥
तत्रैव दैवदोषेण वृक्षत्वञ्च लभिष्यसि ।
मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी ॥
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ।
त्रैलोक्यपावनी नाम्ना तुलसीति च भारते ॥
कलया च सरिद्भूत्वा शीघ्रं गच्छ वरानने ।
भारते भांरतीशापात् नाम्ना पद्मावती भव ॥
गङ्गे यास्यसि पश्चात्त्वमंशेन विश्वपावनी ।
भारतं भारतीशापात् पापदाहाय पापिनाम् ॥
भगीरथस्य तपसा तेन नीता सुदुष्करात् ।
नाम्ना भागीरथी पूता भविष्यसि महीतले ॥
मदंशस्थ समुद्रस्य जाया भव ममाज्ञया ।
मत्कलांशस्य तस्यैव शान्तनोश्च सुरेश्वरि ॥ * ॥
गङ्गाशापेन कलया भारतं गच्छ भारति ।
कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते ॥
स्वयञ्च ब्रह्मसदनं ब्रह्मणः काभिनी भव ।
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु ॥
शान्ता च क्रोधरहिता मद्भक्ता सत्त्वरूपिणी ।
महासाध्वी महाभागा सुशीला धर्म्मचारिणी ॥
यदंशकलया सर्व्वा धर्म्मिष्ठाश्च पतिव्रताः ।
शान्तरूपाः सुशीलाश्च प्रतिविश्वेषु योषितः ॥
तिस्रो भार्य्यास्त्रिशालाश्च त्रयो भृत्याश्च
बान्धवाः ।
ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः ॥
गच्छ गङ्गे शिवस्थानं ब्रह्मस्थानं सरस्वती ।
अत्र तिष्ठतु मद्गेहे सुशीला कमलालया ॥
इत्युक्त्वा जगतां नाथो विरराम च नारद ।
अत्युच्चै रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥
ताश्च सर्व्वाः समालोच्य क्रमेणोचुः सदीश्वरम् ।
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥
सरस्वत्युवाच ।
विदायं देहि मे नाथ दुष्टाया जन्मशोधनम् ।
सत्स्वामिना परित्यक्ता कुतो जीवन्ति काः
स्त्रियः ॥
देहत्यागं करिष्यामि योगेन भारते ध्रुवम् ।
अत्युच्छ्रितो निपतनं प्राप्तुमर्हति निश्चितम् ॥
गङ्गोवाच ।
अह केनापराधेन त्वया त्यक्ता जगतपते ।
देहत्यागं करिष्यामि निर्दोषाया वधं लभ ॥
निर्दोषां कामिनीं त्यागं करोति यो जनो भवे ।
स याति नरकं कल्पं किं ते सर्वेश्वरस्य वा ॥
महालक्ष्मीरुवाच ।
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ।
प्रसादं कुरु भार्य्ये द्वे सदीशस्य क्षमा वरम् ॥
भारतं भारतीशापात् यास्यामि कलया विभो ।
कतिकालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ॥
दास्यन्ति पापिनः पापं मह्यं स्नानावगाहनात् ।
केन तेन विमुक्ताहमागमिष्यामि त्वत्पदम् ॥
कलया तुलसीरूपा धर्म्मध्वजसुता सती ।
भूत्वा कदा लमिष्यामि त्वत् पादाम्बुजमच्युत ॥
वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता ।
मामुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥
गङ्गा सरस्वतीशापात् यदि यास्यति भारतम् ।
सा केन मुक्ता पापाच्च कदा त्वां वा लभि-
ष्यति ॥
गङ्गाशापेन सा वाणी यदि यास्यति भारतम् ।
कदा शापाद्बिनिर्मुच्य लभिष्यति पदं तव ॥
तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् ।
गन्तुं वदसि हे नाथ तत् क्षमस्व च ते वचः ॥
इत्युक्त्वा कमला कान्तपदं धृत्वा ननाम च ।
स्वकेशैर्वेष्टनं कृत्वा रुरोद च पुनः पुनः ॥
उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि ।
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥
श्रीनारायण उवाच ।
त्वद्बाक्यमाचरिष्यामि स्ववाक्यञ्च सुरेश्वरि ।
शमताञ्च करिष्यामि शृणु तत्क्रममेव च ॥
भारती यातु कलया सरिद्रूपा च भारतम् ।
अर्द्धांशा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ॥
भगीरथेन नीता सा गङ्गा यास्यति भारतम् ।
पूतं कर्त्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ॥
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ।
ततः स्वभावतः पूताप्यतिपूता भविष्यति ॥
कलांशांशेन त्वं गच्छ भारतं कमले भव ।
पद्मावती सरिद्रूपा तुलसी वृक्षरूपिणी ॥
कलेः पञ्चसहस्रे च गते वर्षे च मोक्षणम् ।
युष्माकं सरिताञ्चैव मद्गृहञ्चागमिष्यति ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ६ । १ -- ८९ ॥

सरस्वान्, [त्] पुं, (सरो नीरमस्त्यस्येति

मतुप् । तसौ मत्वर्थे इति भत्वान्न पदकार्य्यम् ।)
समुद्रः । इत्यमरः । १ । १० । १ ॥ नदः । रसिके,
त्रि । इति मेदिनी ॥

सरा, स्त्री, (सरति गच्छतीति । सृ + अच् ।

टाप् ।) निर्झरः । इति भरतद्बिरूपकोषः ॥
प्रसारिणी । इति राजनिर्घण्टः ॥

सरावः, पुं, (सरात् सरणात् अवतीति । अव

रक्षणे + अच् ।) शरावः । इति भरतद्वि-
रूपकोषः ॥

सरिः, पुं, स्त्री, (सरतीति । सृ + इन् ।) निर्झरः ।

इति हेमचन्द्रः ॥

सरिका, स्त्री, हिङ्गुपत्री । इति शब्दचन्द्रिका ॥

गमनकर्त्री च ॥

सरित्, स्त्री, (सरतीति । सृ गतौ + “हृसृरुहि-

युषिभ्य इतिः ।” उणा० १ । ९९ । इति इतिः ।)
नदी । इत्यमरः । १ । १० । २९ ॥ (यथा,
देवीमाहात्म्ये ।
“सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥”)
सूत्रम् । इति शब्दमाला ॥ दुर्गा । यथा, --
“क्रिया कारणरूपत्वात् सरणाच्च सरिन्मता ।
सङ्गमाद्गमनाद्गङ्गा लोके देवी विभाव्यते ॥”
इति देवीपुराणे ४५ अध्यायः ॥
पृष्ठ ५/२९४

सरित्पतिः, पुं, (सरितां पतिः ।) समुद्रः ।

इत्यमरः । १ । १० । १ ॥ (यथा, भागवते । ५ । १७ । ७ ।
“एवं माल्यवच्छिखरान्निष्पतन्ती तत उपरत-
वेगा केतुमालमभि वंक्षुः प्रतीच्यां दिशि सरित्-
पतिं प्रविशति ॥”)

सरित्वान्, [त्] पुं, (सरितः सन्त्यस्येति । सरित् +

मतुप् । मस्य वः ।) समुद्रः । इति केचित् ॥

सरित्सुतः, पुं, (सरितो गङ्गायाः सुतः ।) भीष्मः ।

गङ्गापुत्रत्वात् ॥

सरितांनाथः, पुं, (सरितां नदीनां नाथः । अलुक्

समासः ।) समुद्रः । यथा, --
“त्वं देव सरितांनाथ ! त्वं देवि सरितां वरे ।
उभयोः सङ्गमे स्नात्वा मुञ्चामि दुरितानि वै ॥”
इति प्रायश्चित्ततत्त्वे गङ्गासागरस्नानमन्त्रः ॥

सरताम्पतिः, पुं, (सरितां पतिः । अलुक् समासः ।)

समुद्रः । इति शब्दरत्नावली ॥ (यथा, कुमारे ।
२ । ३७ ।
“तस्योपायनयोग्यानि रत्नानि सरिताम्पतिः ।
कथमप्यम्भसामन्तः आनिष्पत्तेः प्रतीक्षते ॥”)

सरिद्वरा, स्त्री, (सरित्सु वरा श्रेष्ठा ।) गङ्गा ।

इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । ९६ । ८ ।
“महाभिषस्तु तं दृष्ट्वा नदी धैर्य्याच्च्युतं नृपम् ।
तमेव मनसाध्यायन्त्युपावर्त्तत्सरिद्वरा ॥”
नदीश्रेष्ठे, त्रि । यथा, महाभारते । १ । ७८ । ९ ।
“सा तमग्निसमं विप्रमनुचिन्त्य सरिद्बरा ।
शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥”)

सरिन्नाथः, पुं, (सरितां नाथः ।) समुद्रः । इति

राजनिर्घण्टः ॥

सरिमा [न्] पुं, (सरतीति । सृ + “हृ-भृ-धृ-स्तृ-

शॄभ्य इमनिच् ।” उणा० ४ । १४७ । इति इम-
निच् ।) गमनम् । वायुः । इत्युणादिकोषः ॥

सरिलं, क्ली, (सलिलम् । रलयोरैक्यात् लस्य रः ।)

सलिलम् । इत्यमरटीकायां भरतः ॥

सरिषपः, पुं, (सृ गतौ + अपः युगागमश्च । ततः

पृषोदरादित्वात् साधुः । इत्युणादिटीकायां
उज्ज्वलदत्तः । ३ । १४१ ।) सर्षपः । इति त्रिका-
ण्डशेषः ॥

सरी, स्त्री, (सरि + कृदिकारादिति वा ङीष् ।)

निर्झरः । इति भरतद्बिरूपकोषः ॥

सरीसृपः, पुं, (कुटिलं सर्पतीति । सृप् + यड्

लुक् + पचाद्यच् ।) सर्पः । इत्यमरः । १ । ८ । ७ ॥
(यथा, महाभारते । ३ । २ । ३ ।
“वनञ्च दोषबहुलं बहुव्यालसरीसृपम् ।
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥” * ॥
जङ्गमे, त्रि । इति स्वामी ॥ यथा, भागवते ।
५ । १८ । २७ ।
“पातुं न शेकुर्द्बिपदश्चतुष्पदः ।
सरीसृपं स्थाणु यदत्र दृश्यते ॥”)

सरुः, पुं, (सृ + उन् ।) त्सरुः । खड्गमुष्टिः ।

इत्यमरटीकासारसुन्दरी ॥

सरुः, त्रि, (सृ + उन् ।) सूक्ष्मः । इति भूरि-

प्रयोगः ॥

सरूपः, त्रि, (समानं रूपं यस्य । “ज्योतिर्जन

पदेति ।” ६ । ३ । ८५ । इति समानस्य सः ।)
सदृशः । ससानरूपः । इति जटाधरः ॥ (यथा,
मुण्डकोपनिषदि । २ । १ । १ ।
“यथा सुदीप्तात् पावकात् विस्फुलिङ्गाः
सहस्रशः प्रभवन्ते सरूपाः ।
तथाक्षराद्विविधाः सोम्य भावाः
प्रजायन्ते तत्र चैवापि यन्ति ॥”)

सरूपता, स्त्री, (सरूपस्य भावः । तल् । टाप् ।)

समरूपत्वम् । तुल्यता । सरूपशब्दात् तप्रत्य-
येनापा निष्पन्ना ॥

सरोजं, क्ली, (सरसि जायते इति । जन + डः ।)

पद्मम् । इति हेमचन्द्रः ॥ (यथा, कुमारे ।
५ । २७ ।
“मुखेन सा पद्मसुगन्धिना निशि
प्रवेपमानाधरपत्रशोभिना ।
तुषारवृष्टिक्षतपद्मसम्पदां
सरोजसन्धानमिवाकरोदपाम् ॥”)
सरोवरजाते, त्रि ॥

सरोजन्म, [न्] क्ली, (सरसः जन्म उत्पत्तिर्यस्य ।)

पद्मम् । इति हेमचन्द्रः ॥

सरोजिनी, स्त्री, (सरोजानि सन्त्यस्यामिति ।

सरोज + “पुष्करादिभ्यो देशे ।” ५ । २ । १३५ ।
इति इनिः ।) कमलाकरः । पद्मम् । इति
मेदिनी ॥ पद्मसमूहः । इति रत्नमाला ॥
(यथा, साहित्यदर्पणे । १० । ७०३ ।
“निसर्गसौरभोद्भ्रान्तभृङ्गसङ्गीतशालिनी ।
उदिते वासराधीशे स्मेराजनि सरोजिनी ॥”)

सरोजी, [न्] पुं, (सरोजं उत्पत्तिस्थानत्वेनास्त्य-

स्येति । इनिः ।) ब्रह्मा । इति शब्दरत्नावली-
त्रिकाण्डशेषौ ॥

सरोत्सवः, पुं, (सरे सरोवरे उत्सवो यस्य ।)

सारसपक्षी । इति शब्दरत्नावली ॥

सरोधः, त्रि, रुद्धः । रोधेन सह वर्त्तमानः । इति

बहुव्रीहिसमासनिष्पन्नः ॥

सरोरुट्, [ह्] क्ली, (सरसि रोहतीति । रुह +

क्विप् ।) पद्मम् । इति हेमचन्द्रः ॥

सरोरुहं, क्ली, (सरसि रोहतीति । रुह + कः ।)

पद्मम् । इति रत्नमाला ॥ (यथा, भागवते ।
१ । १५ । २८ ।
“एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।
सौहार्द्देनातिगाढेन शान्तासीद्विमला मतिः ॥”)

सरोरुहासनः, पुं, (सरोरुहमासनं यस्य ।) ब्रह्मा ।

इति हेमचन्द्रः ॥

सरोवरः, पुं, (सरःसु वरः श्रेष्ठः पद्माकरत्वात् ।)

जलाशयविशेषः । (यथा, भागवते । ८ । २४ । २१ ।
“तत आदाय सा राज्ञा क्षिप्ता राजन्
सरोवरे ।
तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्द्धत ॥”)
तत्पर्य्यायः । पद्माकरः २ कासारः ३ तडागः ४
तडाकः ५ तटाकः ६ सरसः ७ सरसी ८
सरः ९ सरम् १० सरकम् ११ । इति शब्द-
रत्नावली ॥ तल्लक्षणादि पुष्करिणीशब्दे
द्रष्टव्यम् । तस्य जलगुणाः सरःशब्दे द्रष्टव्याः ॥

सर्कः, पुं, वायुः । मनः । प्रजापतिः । इति संक्षिप्त-

सारोणादिवृत्तिः ॥

सर्गः, पुं, (सृज् + घञ् ।) स्वभावः । निर्म्मोक्षः ।

(यथा, महाभारते । १३ । १६२ । ३५ ।
“राजमार्गे गवां मध्ये धान्यमध्ये च धर्म्मिणः ।
नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥”)
निश्चयः । (यथा, रघुः । ३ । ५१ ।
“गृहाण शस्त्रं यदि सर्ग एष ते
न खल्वनिर्जित्य रघुं कृती भवान् ॥”)
अध्यायः । (यथा, साहित्यदर्पणे । ६ । ५५९ ।
“नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका
इह ॥”)
सृष्टिः । इत्यमरः । ३ । ३ । २२ ॥ (यथा,
मनुः । १ । २९ ।
“हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते ।
यद्यस्य सोऽदधात् सर्गे तत्तस्य स्वयमाविशत् ॥”
संसारः । यथा, गीतायाम् । ५ । १९ ।
“इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ॥”)
मोहः । उत्साहः । इति मेदिनी ॥ अनुमतिः ।
इति हेमचन्द्रः ॥ * ॥ सर्गविवरणं यथा, --
“अव्याकृतगुणक्षोभात् महतस्त्रिवृतोऽहमः ।
भूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥”
इति श्रीभागवतम् ॥
नवधासर्गो यथा, --
“सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः ।
कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ॥
आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ।
द्बितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ॥
भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ।
चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ॥
वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ।
षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ॥
षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु ।
रजोभाजो भगवतो लीलेयं हरिमेधसः ॥
सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः ।
वनस्पत्योषधिलतात्वक्सारा वीरुधो द्रुमाः ।
उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ।
तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ॥
अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ।
गौरजो महिषः कृष्णः शूकरो गवयो रुरुः ॥
द्बिशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ।
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ॥
एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून् ।
श्वा शृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ॥
सिंहः कपिर्गजः कूर्म्मो गोधा च मकरादयः ।
कङ्कगृध्रवकश्येनभासभल्लकवर्हिणः ॥
हंससारसचक्राह्वकाकोलूकादयः खगाः ।
अर्व्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ॥
रजोऽधिकाः कर्म्मपरा दुःखे च सुखमानिनः ।
वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ॥
पृष्ठ ५/२९५
वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ।
देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ॥
गन्धर्व्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ।
भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ॥
दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ।
अतः परं प्रवक्ष्यामि वंशं मन्वन्तराणि च ॥
एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।
सृजत्यमोघसंकल्प आत्मैवात्मानमात्मना ॥”
इति च श्रीभागवते । ३ । १० । १४-२६ ॥
(विष्णुः । इति महाभारतम् । १३ । १४१ । ३० ॥
शिवः । इति च तत्रैव । १३ । १७ । १४८ ॥)

सर्गबन्धः, पुं, (सर्गैरध्यायैर्ब्बन्धो यस्य ।) महा-

काव्यम् । इति भूरिप्रयोगः ॥ तल्लक्षणं यथा, --
“सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् ।
आशीर्नमष्क्रिया वस्तुनिर्द्देशो वापि तन्मुखम् ॥
इतिहासकथोद्भूतमितरद्वा तदाश्रयम् ।
चतुर्व्वर्गफलायत्तं चतुरोदात्तनायकम् ॥
नगरार्णवशैलर्त्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् ।
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥
सर्व्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम् ।
काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति ॥”
इति दण्डी ॥

सर्ज्ज, अर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) सिसर्ज्जयिषति । सर्ज्जति
धनं लोकः । इति दुर्गादासः ॥

सर्ज्जः, पुं, (सृजति निर्य्यासादीनिति । सृज +

अच् ।) शालवृक्षः । इत्यमरः । ३ । ४ । ४४ ॥
सर्ज्जरसः । इति भरतः ॥ पीतशालः । इति
शब्दरत्नावली ॥ (यथा, ऋतुसंहारे । २ । १७ ।
“कदम्बसर्ज्जार्ज्जुननीपकेतकी-
र्विकम्पयं स्तत्कुसुमाधिवासितः ।
सशीकराम्भोधरसङ्गशीतलः
समीरणः कं न करोति सोत्सुकम् ॥”)

सर्ज्जकः, पुं, (सर्ज्ज एव । स्वार्थे कन् ।) पीत-

शालः । इत्यमरः । २ । ४ । ४४ ॥ (यथा,
भावप्रकाशे । १ । १ ।
“सर्जकोऽजककर्णः स्यात् शालो मरिच-
पत्रकः ॥”)
शालः । इति जटाधरः ॥

सर्ज्जगन्धा, स्त्री, (सर्ज्जस्येव गन्धो यस्याः ।)

रास्ना । इति रत्नमाला ॥

सर्ज्जनं, क्ली, (सृज + ल्युट् ।) सैन्यपश्चाद्भागः ।

इति शब्दरत्नावली ॥ विसर्ज्जनम् । सृष्टिः ।
इति सृजधात्वर्थदर्शनात् ॥ (यथा, सर्व्वदर्शन-
संग्रहे अक्षपाददर्शने ।
“तस्मादीश्वरस्य जगत्सर्ज्जणं न युज्यते ॥”)

सर्ज्जनिर्यासकः, पुं, (सर्ज्जस्य निर्य्यासः । स्वार्थे

कन् ।) रालः । इति राजनिर्घण्टः ॥

सर्ज्जमणिः, पुं, (सर्ज्जस्य मणिरिव ।) धूनकः ।

इति त्रिकाण्डशेषः ॥

सर्ज्जरसः, पुं, (सर्ज्जस्य रसः ।) शालवृक्षनिर्यासः ।

धूना इति भाषा । (यथा, महाभारते । १ ।
१४५ । ९ ।
“शणसर्ज्जरसादीनि यानि द्रव्याणि कानिचित् ।
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय ॥”)
तत्पर्य्यायः । यक्षधूपः २ अरालः ३ सर्व्वरसः ४
बहुरूपः ५ । इत्यमरः । २ । ६ । १२७ ॥ रालः ६
वह्निवल्लभः ७ । इति भरतधृतरभसः ॥ शालजः
८ शालनिर्यासः ९ सर्ज्ज्यः १० धूनकः ११ शाल-
सारः १२ । इति रत्नमाला ॥ विरूपः १३ ।
इति शब्दरत्नावली ॥ शालवेष्टः १४ अग्नि-
वल्लभः १५ सर्ज्जमणिः १६ । इति हेमचन्द्रः ॥
राजनिर्घण्टोक्तपर्य्यायगुणौ रालशब्दे द्रष्टव्यौ ॥

सर्ज्जिः, स्त्री, (सर्ज्ज अर्ज्जने + इन् ।) सर्ज्जिका-

क्षारः । इति रत्नमाला ॥

सर्ज्जिका, स्त्री, (सर्ज्जिरेव । स्वार्थे कन् । टाप् ।)

सर्ज्जिकाक्षारः । इति जटाधरः ॥ (नदी-
विशेषः । इति भरतः ॥)

सर्ज्जिकाक्षारः, पुं, (सर्ज्जिका एव क्षारः ।)

यद्बा, सर्ज्जिकाया नद्याः क्षारः । इति भरतः ॥
साचिक्षार इति साजिमाटि इति च भाषा ॥
तत्पर्य्यायः । कापोतः २ सुखवर्च्चकः ३ सौव-
र्च्चलम् ४ रुचकम् ५ । इत्यमरः । २ । ९ । १०९ ॥
सृजिकाक्षारः ६ सर्ज्जिका ७ क्षारः ८ । इति
तट्टीका । खर्ज्जका ९ स्वर्ज्जिका १० । इति
शब्दरत्नावली ॥ सुरवर्च्चकः ११ । इति जटा-
धरः ॥ सर्ज्जिक्षारः १२ सर्ज्जिकः १३ सर्ज्जी १४
सुखोर्ज्जिकः १५ सुवर्च्चिकः १६ सुवर्च्ची १७
सुखवर्च्चाः १९ । अस्य गुणाः । पटुत्वम् ।
कटुत्वम् । उष्णत्वम् । कफवातोदरार्त्तिनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“पाक्यक्षारो यवक्षारो यावशूको यवाग्रजः ।
सर्ज्जिकोऽपि स्मृतः क्षारः कापोतः सुखवर्च्चकः ॥
कथितः सर्ज्जिकाभेदो विशेषज्ञैः सुवर्च्चिका ।
यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदीपनः ॥
निहन्ति शूलं वातामश्लेष्मश्वासगलामयान् ।
पाण्ड्वर्शोग्रहणीगुल्मानाहप्लीहहृदामयान् ॥
सर्ज्जिकाल्पगुणा तस्माद्बिशेषाद्गुल्मशूलहृत् ।
सुवर्च्चिका सर्ज्जिकावद्बोद्धच्या गुणतो जनैः ॥”
इति भावप्रकाशः ॥

सर्ज्जिक्षारः, पुं, (सर्ज्जिरेव क्षारः ।) सर्ज्जिका-

क्षारः । इति राजनिर्घण्टः ॥

सर्ज्जी, स्त्री, (सर्ज्जि + वा ङीष् ।) सर्जिकाक्षारः ।

इति राजनिर्घण्टः ॥

सर्ज्जः, पुं, (सर्ज्जति उपार्ज्जयतीति । सर्ज्ज अर्ज्जने

+ अच् ।) बणिक् । इति मेदिन्युणादिकीषौ ॥

सर्ज्जूः, स्त्री, (सर्ज्जतीति । सर्ज्ज + “कृषिचमि-

तनिधनीति ।” उणा० १ । ८२ । इति ऊः ।)
विद्युत् । इति मेदिनी ॥ अभिसारः । हारः ।
इति शब्दरत्नावली ॥

सर्ज्यः, पुं, (सर्ज्जस्येदमिति । यत् ।) सर्जरसः ।

इति रत्नमाला ॥ अर्जनीये, त्रि ॥

सर्पः, पुं, (सृप्यते इति । सृप + घञ् ।) नाग-

केशरः । इति रत्नमाला ॥ (सृप + भावे घञ् ।)
गमनम् । इति सृपधात्वर्थदर्शनात् । (सर्पति
इतस्ततो गच्छतीति । सृप + अच् ।) श्मश्रु-
धारी म्लेच्छजातिविशेषः । पुरा अयं क्षत्त्रिय
आसीत् । सगरराजेन अस्य वेदयागादौ अन-
धिकारित्वं कृत्वा वेशान्यत्वं धर्म्मनाशञ्च चकार ।
यथा, महाभारते हरिवंशे २४ अध्याये ।
“सगरः स्वां प्रतिज्ञान्तु गुरोर्व्वाक्यं निशम्य च ।
धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥
अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्व्वं काम्बोजानां तथैव च ॥
पारदान् मुक्तकेशांस्तु पह्नवान् श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥
शका यवनकाम्बोजाः पारदाः पह्नवास्तथा ।
कोलिसर्पा माहिषका दार्व्वाश्चोलाः सकेरलाः ॥
सर्व्वे ते क्षत्त्रियास्तात धर्म्मस्तेषां निराकृतः ।
वशिष्ठवचनाद्राजन् सगरेण महात्मना ॥”
हिंस्रजन्तुविशेषः । साप इति भाषा । तत्-
पर्य्यायः । पृदाकुः २ भुजगः ३ भुजङ्गः ४
अहिः ५ भुजङ्गमः ६ आशीविषः ७ विषधरः
८ चक्री ९ व्यालः १० सरीसृपः ११ कुण्डली
१२ गूढपात् १३ चक्षुःश्रवाः १४ काकोदरः १५
फणी १६ दर्व्वीकरः १७ दीर्घपृष्ठः १८ दन्द-
शूकः १९ विलेशयः २० उरगः २१ पन्नगः २२
भोगी २३ जिह्मगः २४ पवनाशनः २५ । इत्य-
मरः । १ । ८ । ३ ॥ विलशयः २६ कुम्भीनसः
२७ द्विरसनः २८ भेकभुक् २९ श्वसनोत्सुकः
३० फणाधरः ३१ फणधरः ३२ फणावान् ३३
फणवान् ३४ फणाकरः ३५ फणकरः ३६ सम-
कोलः ३७ व्याडः ३८ दंष्ट्री ३९ विषास्यः ४०
गोकर्णः ४१ उरङ्गमः ४२ गूढपादः ४३ विल-
वासी ४४ दर्व्विभृत् ४५ हरिः ४६ । इति शब्द-
रत्नावली ॥ प्रचलाकी ४७ द्बिजिह्वः ४८ जल-
रुण्डः ४९ कञ्चुकी ५० चिकुरः ५१ भुजः ५२ ।
इति जटाधरः ॥ अस्योत्पत्तिव्युत्पत्ती यथा,
“अप्रियेणास्य तान् दृष्ट्वा केशाः शीर्य्यन्त वेधसः ।
हीनाः स्वशिरसो भूयः समरोहन् ततः शिरः ।
सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ॥”
इति वह्निपुराणे सर्गकथननामाध्यायः ॥ * ॥
सर्पाणामुत्सवतिथिर्यथा, --
सुमन्तुरुवाच ।
“पञ्चमी दयिता राजन् नागानां नन्दिवर्द्धिनी ।
पञ्चम्यां किल नागानां भवतीत्युत्सवो महान् ॥
वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ।
ऐरावतो धृतराष्ट्रः कर्क्कोटकधनञ्जयौ ॥
एते प्रयच्छन्त्यभयं प्राणिनां प्राणजीविनाम् ।
पञ्चम्यां स्नापयन्तीह नागान् क्षीरेण ये नराः ॥
तेषां कुले प्रयच्छन्ति अभयं प्राणदक्षिणम् ।
शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम् ।
पृष्ठ ५/२९६
निर्व्वासयन्ति स्नपनर्गवां क्षीरेण मिश्रितैः ।
ये स्नापयन्ति वै नागान् भक्त्या श्रद्धासमन्विताः ॥
शतानीक उवाच ।
मात्रा शप्ताः कथं नागाः कारणं संवदस्व वै ।
कथं वानन्दकरणं कस्य वा संप्रसादजम् ॥
सुमन्तुरुवाच ।
उच्चैःश्रवा अश्वरत्नं श्वेतो जातोऽमृतोद्भवः ।
तं दृष्ट्वा चाब्रवीत् कद्रुर्नागानां जननी स्वसा ॥
अश्वरत्नमिदं श्वेतं संपश्येऽमृतसम्भवम् ।
कृष्णांश्च पश्यसे बालान् स वै श्वेतः सुता हयैः ॥
विनतोवाच ।
सर्व्वश्वेतो हयवरो नास्य कृष्णो न लोहितः ।
कथं त्वं पश्यसे कृष्णं विनतोवाच तां स्वसा ॥
कद्रुरुवाच ।
पश्येऽहमेकनयना कृष्णबालसमन्वितम् ।
द्विनेत्रा त्वन्तु विनते न पश्यसि पणं कुरु ॥
विनतोवाच ।
अहं दासी भवित्री ते कृष्णे केशे प्रदर्शिते ।
न चेद्दर्शनतो कद्रुर्मम दासी भविष्यसि ॥
एवं तेऽविनयं कृत्वा गते क्रोधसमन्विते ।
विनतास्वसा च शयने कद्रुर्जिह्ममचिन्तयत् ॥
आहूय पुत्त्रान् प्रोवाच बाला भूत्वा हयातने ।
तिष्ठध्वं विपणे जेष्ये विनतां जयगृद्धिनीम् ॥
प्रोचुस्तां जिह्मबुद्धिन्ते नागा मातां विगृह्य तु ।
अधर्म्ममेतन्मातोऽतो न करिष्याम ते वचः ॥
तान् शशाप रुषा कद्रुः पावको वः प्रधक्ष्यति ।
गते बहुतिथे काले पाण्डवो जनमेजयः ॥
सर्पसत्रं स कर्त्ता वै भुवि अन्यैः सुदुष्करम् ।
तस्मिन् सत्रे स तिग्मांशुः पावको वः प्रधक्ष्यति ॥
एवं शप्त्वा रुषा कद्रुः प्रोक्तवान्नैव किञ्चन ।
मात्रा शप्तास्तथा नागाः कर्त्तव्यं नान्वपद्यत ॥
वासुकिं दुःखितं ज्ञात्वा ब्रह्मा प्रोवाच सान्त्वयन्
मा शुचो वासुकेऽत्यर्थं शृणु मद्बचनं परम् ॥
पराशरकुले जातो जरत्कारुरिति द्विजः ।
भविष्यति महातेजास्तस्मिन् काले तपोनिधिः ॥
भगिनीञ्च जरत्कारुं तस्य त्वं प्रति दास्यति ।
भविता तस्य पुत्त्रोऽसौ आस्तीक इति विश्रुतः ॥
स तत् सत्रं प्रवृद्धं वै नागानां भयदं महत् ।
निषेधिष्यति स मुनिर्व्वाग्भिरग्र्याभिस्तोष्यति ॥
तदिमां भगिनीं राजन् तस्य त्वं प्रतिदास्थति ।
जरत्कन्यां जरत्कारोः प्रदद्यादविचारयन् ॥
यदासौ प्रार्थतेऽरण्ये यत्किञ्चिद्बिवदिष्यति ।
तत् कर्त्तव्यमशङ्केन यदीच्छेः श्रेय आत्मनः ॥
पितामहवचः श्रुत्वा वासुकिः प्रणिपत्य च ।
तथा करोद्यथा चोक्तं यत्नञ्च परमास्थितः ॥
तच्छ्रुत्वा पन्नगाः सर्व्वे प्रहर्षोत्फुल्ललोचनाः ।
पुनर्जातमिवात्मानं मेनिरे भुजगोत्तमाः ॥
तच्च मन्त्रं महाबाहो तव पित्रा प्रवर्त्तितम् ।
ऋत्विग्भिः सहितेनेह सर्व्वलोकेषु दुष्करम् ॥
प्रोक्तञ्च विष्णुना पूर्व्वं धर्म्मपुत्त्रस्य धीमतः ।
अवश्यं तस्य भविता नागानां भयकारकम् ॥
तस्मात् कालान्तराद्राजन् साग्रे वर्षशते गते ।
तत् सत्रं भविता घोरं नागानां क्षयकारकम् ॥
यास्यन्त्यधर्म्ममरितां दन्दशूका विषोल्वणाः ।
कोटिसंख्या महाराज निपतिष्यन्त्यहर्न्निशम् ॥
आप्लवे तु निमग्नानां घोरे रौद्राग्निसागरे ।
आस्तीकस्तत्र भविता तेषां नौर्वह्निसागरे ॥
स्तुत्वा स चाग्निं राजानमृत्विजस्तदनन्तरम् ।
निवर्त्तयिष्यति तद्यागं नागानां मोहनं परम् ॥
पञ्चम्यां तच्च भविता ब्रह्मा प्रोवाच लोहितान् ॥
तस्मादियं महाबाहो पञ्चमी दयिता सदा ।
नागानामानन्दकरी दत्ता वै ब्रह्मणा पुरा ॥
कृत्वा तु भोजनं पूर्व्वं ब्राह्मणानान्तु कामतः ।
विसृज्य नागाः प्रीयन्तां ये केचित् पृथिवीतले ॥
ये च हेलिमरीचिस्था येऽन्तरीक्षे दिवि स्थिताः ।
ये नदीषु महानागा ये सरस्वतिगामिनः ।
ये च वापीतडागेषु तेषु सर्व्वेषु वै नमः ॥
नागान् विप्रांश्च संपूज्य विसृज्य च यथार्थतः ।
ततः पश्चात्तु भुञ्जीयात् सह भृत्यैर्नराधिपः ॥
प्रथमं मधुरमश्नीयात् द्वितीयं भुज्य कामतः ।
एवं नियमयुक्तस्य यत् फलं तन्निबोध मे ॥
मृतो नागपुरं याति पूज्यमानोऽप्सरोगणैः ।
विमानवरमारूढो रमते कालमीप्सितम् ॥
इह चागत्य राजासौ अयुतानां वरो भवेत् ।
सर्व्वरत्नसमूहः स्यात् वाहनाठ्यश्च जायते ॥
पञ्चजन्मन्यसौ राजा द्बापरे द्बापरे भवेत् ।
आधिव्याधिविनिर्म्मुक्तः पत्नीपुत्त्रसहायवान् ।
तस्मात् पूज्याश्रमाणाञ्च घृतपायसगुग्गुलैः ॥ * ॥
शतानीक उवाच ।
दशन्ति यं नरं विप्र नागाः क्रोधसमन्विताः ।
भवेत् किं तस्य दष्टस्य विस्तरात् प्रब्रवीहि मे ॥
सुमन्तुरुवाच ।
दंष्ट्राशुक्ला च कृष्णा च रक्ता पीता च दक्षिणा ।
समासेन तु वक्ष्यामि यथा वै वर्णतः स्मृताः ॥
शुक्लातु ब्राह्मणी ज्ञेया रक्तातु क्षत्त्रिया स्मृता ।
वैश्या तु पीतिका ज्ञेया कृष्णा शूद्रा तु कथ्यते ॥ *
अतः परं प्रवक्ष्यामि दंष्ट्राणां विषलक्षणम् ।
दंष्ट्राणान्तु विषं नास्ति नित्यमेव भुजङ्गमे ॥
दक्षिणं नेत्रमासाद्य विषं सर्पस्य तिष्ठति ।
संक्रुद्धस्यैव सर्पस्य विषं गच्छति मस्तके ॥
मस्तकाद्धमनीं याति ततो नाडीषु तिष्ठति ।
नाडीभ्यां गच्छते दंष्ट्रे विषं तत्र प्रवर्त्तते ॥
तत् सर्व्वं कथयिष्यामि यथावदनुपूर्व्वशः ।
अष्टभिः कारणेः सर्पो दशते नात्र संशयः ॥ * ॥
आक्रान्तो दशते पूर्व्वं द्वितीयं पूर्व्ववैरिणम् ।
तृतीयं दशते भीतश्चतुर्थं मददर्पितः ॥
पञ्चमन्तु क्षुधाविष्टः षष्ठञ्चेह विषोल्वणः ।
सप्तमं पुत्त्ररक्षार्थं अष्टमं कालचोदितम् ॥
यस्तु सर्पो दशित्वा तु उदरं परिवर्त्तयेत् ।
बलभुग्नाकृतिर्दंष्ट्रा आक्रान्तं तं विनिर्द्दिशेत् ॥
यस्य सर्पेण दष्टस्य गम्भीरं दृश्यते व्रणम् ।
वैरदष्टं विजानीयात् कश्यपस्य वचो यथा ॥
एकदंष्ट्रा पदे यस्य अव्यक्तं न च कूपितम् ।
भीतदष्टं विजानीयात् यथोवाच प्रजापतिः ॥
यस्य सर्पेण दष्टस्य रेखा दन्तस्य जायते ।
मददष्टं विजानीयात् कश्यपस्य वचो यथा ॥
द्वे च दंष्ट्रे पदे यस्य दृश्येते च महाक्षतम् ।
क्षुधाविष्टं विजानीयात् यथोवाच प्रजापतिः ॥
द्वे दंष्ट्रे यस्य दृश्येते क्वचिद्रुधिरसंकुले ।
विषोल्वणं विजानीयाद्दशन्तं नात्र संशयः ।
अपत्यरक्षणार्थाय जानीयान्नात्र संशयः ॥
यत्तु काकपदाकारं त्रिभिर्द्दन्तैर्व्विच्छिद्रितम् ।
महानाग इति प्रोंक्तः कालदष्टं विनिर्द्दिशेत् ॥ * ॥
त्रिविधं दष्टजातेस्तु लक्षणं समुदाहृतम् ।
दृष्टं दष्ट्वा तु पीतञ्च दष्टोद्धृतं तथैव च ॥
यस्तु सर्पो दशित्वा तु पिबते तु विचक्षणः ।
दष्ट्वा तु पीतं विज्ञेयं कश्यपस्य वचो यथा ॥
विषभागौ तु सर्पस्य त्रिभागस्तत्र संक्रमेत् ।
उदरं दर्शयेद्यस्तु उद्धृतं तं विनिर्द्दिशेत् ॥
छर्द्दितं विषवेगेन निर्व्विषः पन्नगो भवेत् ।
असाध्यश्चापि विज्ञेयश्चतुर्द्दंष्ट्राभिपीडितः ॥
ग्रीवाभङ्गो भवेत् किञ्चित् संदष्टो विषयोगतः ।
आर्द्राश्लेषामघाभरणीकृत्तिकासु विशेषतः ॥
विशाखा त्रिषु पूर्व्वासु मूलास्वातिशतात्मके ।
सर्पदष्टा न जीवन्ति विषं पीतञ्च यैस्तथा ॥
शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च ।
न जीवन्ति नरा दष्टा नक्षत्रे तिथिसंयुते ।
हतो दंशस्ततः शुद्धव्यन्तरः परिकीर्त्तितः ॥”
इति भविष्यपुराणे शतसाहस्रार्द्धसंहितायां
पञ्चमीकल्पे ॥ * ॥
कश्यप डवाच ।
“ततः परं प्रवक्ष्यामि कालदष्टस्य लक्षणम् ।
शृणु गौतम तत्त्वेन यादृशो भवते नरः ॥
जिह्वाभङ्गो हृदि शूलं चक्षुर्भ्याञ्च न पश्यति ।
दंशञ्च दग्धसङ्काशं पक्वजम्बूफलोपमम् ॥
वैवर्णं चैव दन्तानां श्यामो भवति वर्णतः ।
सर्व्वेष्वङ्गेषु शैथिल्यं पुरीषस्य च भेदनम् ॥
भग्नस्कन्धकटिग्रीव ऊर्द्ध्वदृष्टिरधोमुखः ।
दह्यते वेपते चैव स्वपते च मुहुर्म्मुहुः ॥
शस्त्रेण छिद्यमानस्य रुधिरं न प्रवर्त्तते ।
दण्डेन ताड्यमानस्य दण्डराजी न जायते ॥
दंशे काकपदे सुनीलमसकृज्जम्बूफलाभं घनं
उच्छूनं रुधिराङ्गसेकबहुलं कृच्छ्रान्निरोधो
भवेत् ।
हिक्काश्वासगलग्रहश्च सुमहान् या दुस्त्वचा
दृश्यते
संस्थानं प्रवदन्ति शास्त्रनिपुणास्तत् कालदष्टं
विदुः ॥
दंशे यस्याथ शोथः प्रवलितवलितं मण्डलं वा
सुनीलं
प्रस्वेदो गात्रभेदः स्रवति च रुधिरं सानुनासञ्च
जल्पेत् ।
दन्तोष्ठाभ्यां वियोगो भ्रमति च हृदयं सन्नि-
रोधश्च तीव्रो
दिव्यानामेष दंशस्थलविपुलमयो विद्धि तं
कालदष्टम् ॥
पृष्ठ ५/२९७
दन्तैर्द्दन्तान् स्पृशति बहुशो दृष्टिरायासखिन्ना
स्थूलो दंष्ट्रः स्रवति रुधिरं केकरं चक्षुरेकम् ।
प्रत्यादिष्टः श्वसिति सततं सानुनासञ्च भाषेत्
यद्यद्ब्रूते सकलगदितं कालदष्टं तमाहुः ॥
वेपते वेदना तीव्रा रक्तनेत्रश्च जायते ।
ग्रीवाभङ्गश्च लालाभिः कालदष्टं विनिर्द्दिशेत् ॥
दर्पणे सलिले वापि आत्मच्छायां न पश्यति ।
मन्दरश्मिं तथा दीपं तेजोहीनं दिवाकरम् ॥
वेपते वेदनातस्तु रक्तनेत्रश्च जायते ।
स याति निधनं जन्तुः कालदष्टं विनिर्द्दिशेत् ॥
अष्टम्याञ्च नवम्याञ्च कृष्णपक्षे चतुर्द्दशीम् ।
नागपञ्चमीदष्टानां जीवितस्य च संशयः ।
आर्द्राश्लेषामघाभरणीकृत्तिकासु विशेषतः ।
विशाखा त्रिषु पूर्ब्बासु मूलास्वातिशतात्मके ॥
सर्पदष्टा न जीवन्ति विषं पीतञ्च यैस्तथा ।
शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च ।
न जीवन्ति नरा दष्टा नक्षत्रे तिथिसंयुते ॥
अष्टोत्तरं मर्म्मशतं प्राणिनां समुदाहृतम् ।
तेषां मध्ये तु मर्म्माणि दश द्वे चापि कीर्त्तिते ॥
शङ्खे नेत्रे भ्रुवोर्म्मध्ये वस्तिभ्यां वृषणान्तरे ।
कक्षे स्कन्धे हृदि मध्ये तालुके चिवुके गुदे ॥
एषु द्वादशमर्म्मेषु दष्टः शस्त्रेण वा हतः ।
न जीवन्ति नरा लोके कालदष्टं विनिर्द्दिशेत् ॥ *
अ-क-च-ट-त-प-म-य-शान् वदन्ति प्रोक्त्या न
जीवन्ति हृत्तस्य गतम् ।
ब्रूवात् यदि स्खलति गिरा तस्य संप्राप्तकालः ॥
भवति च यदि दूत उत्तमस्याधमो वा
यदि भवति च दूत उत्तमो वाधमस्य ॥
आदौ दष्टस्य नाम यदि वदति क्वचिद्वक्ति
तस्याथ पश्चात्
वर्णान्तं वर्णभेदो यदि भवति समः प्राप्तकालस्य
दूतः ॥
दूतो वा दण्डहस्तो भवति च युगलं पाश-
हस्तस्तथा वा
रक्तं वस्त्रञ्च कृष्णं अथ शिरसि गतं एक-
वस्त्रश्च दूतः ।
तैलाभ्यक्तश्च तद्बत् यदि त्वरितगतिर्मुक्तकेशश्च
याति
यः कुर्य्यात् घोरशब्दं करचरणयुगैः प्राप्त-
कालस्य दूतः ॥ * ॥
नागोदयं प्रवक्ष्यामि ईशानेन तु भाषितम् ।
ब्रह्मणा तु पुरा सृष्टा ग्रहा नागास्त्वनेकशः ॥
अनन्तं भास्करं विद्यात् सोमं विद्यात्तु वासुकिम् ।
तक्षकं भूमिपुत्त्रन्तु कर्क्कोटञ्च बुधं विदुः ॥
पद्मं बृहस्पतिं विद्यान्महापद्मञ्च भार्गवम् ।
कुलिकः शङ्खपालश्च द्बावेतौ तु शनैश्चरः ॥
पूर्ब्बपादः शङ्खपालो द्वितीयः कुलिकोऽस्य च ।
नेत्रभागे यमौ दिष्टौ दिनरात्री तथैव च ॥
शुक्रसोमौ च मध्याह्ने उदये तु क्षमासुतम् ।
प्राणः प्रागष्टमे भागे दिवासन्नाविहोच्यते ॥
ग्रहाश्च भुञ्जते राजन् पथि मृत्युं व्रजत्यधः ।
अधो गत्वा भवेत् सर्पो निर्व्विषो नात्र संशयः ॥
शतानीक उवाच ।
नागदष्टः पिता यस्य भ्राता वा दुहितापि वा ।
माता पुत्त्रोऽथवा भार्य्या किं कर्त्तव्यं वदस्व वै ॥
मोक्षाय तस्य विप्रेन्द्र दानं व्रतमुपोषितम् ।
ब्रूहि मे द्विजशार्द्दूल येन तद्वै करोम्यहम् ॥
सुमन्तुरुवाच ।
उपोष्या पञ्चमी राजन् नागानां पुष्टिवर्द्धिनी ।
शुभैकमेकं राजेन्द्र विधानं शृणु भारत ! ॥
मासि भाद्रपदे या तु शुक्लपक्षे महीपते ।
सा तु पुण्या महाप्रोक्ता ग्राह्यापि च महीपते ॥
ज्ञेया द्वादश संवर्त्ते पञ्चम्यां भरतर्षभ ।
चतुर्थ्यामेकभक्तन्तु तस्यां नक्तं प्रकीर्त्तितम् ॥
भूरिचन्द्रमयं नागमथवा कलधौतकम् ।
कृत्वा दारुमयं वापि अथवा मृण्मयं नृप ॥
पञ्चम्यामर्च्चयेद्भक्त्या नागं पञ्चफणं नृप ।
करवीरैः शतपत्रैर्जातिपुष्पैश्च सुव्रत ॥
तथा गन्धप्रधूपैश्च पूज्यं पन्नगमुत्तमम् ।
ब्राह्मणं भोजयेत् पश्चात् घृतपायसमोदकैः ॥
अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च ।
तथा कर्क्कोटकं नागं नागं वाश्वतरं नृप ॥
धृतराष्ट्रं शङ्खपालं कालियं तक्षकं तथा ।
पिङ्गलञ्च तथा नागं मासि मासि च कीर्त्तितम् ॥
संवर्त्तान्ते पारणं स्यान्महाब्राह्मणभोजनम् ।
इतिहासविदे नागं गैरिकेण कृतं नृप ॥
तथार्ज्जुनी प्रदातव्या वाचकस्य महीपते ।
एष पारणके वापि विधिः प्रोक्तो बुधैर्नृप ॥
तव पित्रा कृतश्चैव पितुर्मोक्षाय भारत ।
शुभात्मिकेयं वैधी च पञ्चमी भरतर्षभ ॥
सुवर्णभारनिष्पन्नं नागं दत्त्वा तथा च गाम् ।
व्याप्तस्य कुरुशार्द्दूल पितुरानृण्यमाप्नुयात् ॥
तव पित्रा कृतन्त्वेवं पञ्चम्योपासणं नृप ।
उत्सृज्य नागतां वीर तव पूर्व्वपितामहः ॥
पुष्पेतरसदो गत्वा तथा पुष्पसदो नृप ।
सुनासीरसदो गत्वा तथा भङ्गसदो गतः ॥
भूपसदस्ततो गत्वा कञ्जकस्य सदो गतः ।
अन्येऽपि ये करिष्यन्ति इदं व्रतमनुत्तमम् ।
दष्टकात् मोक्षते तेषां शुभं स्थानमवाप्स्यति ॥
यश्चेदं शृणुयान्नित्यं नरः श्रद्धासमन्वितः ।
कुले तस्य न नागेभ्यो भयं भवति कुत्रचित् ॥”
इति भविष्यपुराणे पञ्चमीकल्पे ॥ * ॥
शतानीक उवाच ।
“सर्पाणां कतिरूपाणि के वर्णाः किञ्च लक्षणम् ।
क जातिस्तु भवेत्तेषां केषु योनिः कुलेषु वा ॥
सुमन्तुरुवाच ।
अत्र ते वच्मि संवादं कश्यपस्य महात्मनः ।
यथासीद्गोतमेनेह शृणु पूर्व्वं हिमाचले ॥
हुताग्निहोत्रमासीनं कश्यपन्तु हिमाचले ।
प्रणम्य शिरसा भक्त्या गौतमो वाक्यमब्रवीत् ॥
सर्पाणां कतिरूपाणि किञ्चिह्नं किञ्च लक्षणम् ।
जातिं कुलं तथा वर्णान् ब्रूहि सर्व्वं प्रजापते ।
कथं वा जायते सर्पः कथं मुञ्चेद्विषं प्रभो ।
विषवेगाः कति प्रोक्ताः कत्येव विषनाडिकाः ॥
दंष्ट्राः कतिविधाः प्रोक्ताः किं प्रमाणं विषागमे
कदा तु गृह्णीते गर्भं कथं वेह प्रसूयते ॥
कीदृशी स्त्री पुमांश्चैव कीदृशञ्च नपुंसकम् ।
किं नाम दशनं चैव एतत् कथय सुव्रत ।
तस्य तद्बचनं श्रुत्वा कश्यपः प्रत्यभाषत ।
शृणु गौतम तत्त्वेन सर्पाणामिह लक्षणम् ॥ * ॥
मास्याषाढे तथा ज्यैष्ठे प्रमाद्यन्ति भुजङ्गमाः ।
ततो नागो नागिनी च मैथुनं संप्रपद्यते ॥
चतुरो वार्षिकान् मासान् नागी गर्भमधारयत् ।
ततः कार्त्तिकमासे तु अण्डकानि प्रसूयते ॥
अण्डकानान्तु विज्ञेयं द्बे शते द्बे च विंशती ।
तान्येव भक्षयेत् सा तु भागैकं घृणया त्यजेत् ॥
सुवर्णार्कवर्णनिभात् पुमान् संजायतेऽण्डकात् ।
तानेव खादते सर्पी अहोरात्राणि विंशतिम् ॥
अर्क्कोदकसुवर्णाभात् दीर्घराजीवसन्निभात् ।
तस्मादुत्पाद्यते स्त्री वै अण्डाद्ब्राह्मण-
सत्तम ॥
शिरीषपुष्पवर्णाभादण्डकात् स्यान्नपुंसकम् ।
ततो भिनत्ति चाण्डानि षण्मासेन तु गौतम ॥
ततस्ते प्रीतिसंबन्धात् स्नेहं बध्नन्ति बालकाः ।
ततोऽसौ सप्तरात्रेण कृष्णो भवति यत्नतः ॥ * ॥
आयुःप्रमाणं सर्पाणां शतं विंशोत्तरं स्मृतम् ।
मृत्युश्चाष्टविधो ज्ञेयः शृणुष्वात्र यथाक्रमम् ॥
मयूरात् मानुषाद्वापि चकोराद्गोखुरात्तथा ।
विडालान्नकुलाच्चैव वराहाद्वृश्चिकात्तथा ॥
एतेषां यदि मुच्येत जीवेद्विंशोत्तरं शतम् ।
सप्ताहे तु ततः पूर्णे दंष्ट्राणान्तु विरोहणम् ॥
विषस्यागमनं तत्र विक्षेपश्च पुनः पुनः ।
एवं ज्ञात्वा तु तत्त्वेन विषकर्म्म समारभेत् ॥
एकविंशतिरात्रेण विषं दंष्ट्रासु जायते ।
नागीपार्श्वसमावर्त्ती बालसर्पस्तु उच्यते ॥
पञ्चविंशतिरात्रस्तु सद्यः प्राणहरो भवेत् ।
षण्मासाज्जातमात्रस्तु कञ्चुकं वै प्रमुञ्चति ॥
पादानाञ्चापि विज्ञेया द्वे शते द्वे च विंशती ।
गोलोमसदृशाः पादाः प्रविशन्ति क्रमन्ति च ॥
सन्धीनां चास्य विज्ञेयं द्वे शते विंशती तथा ।
पांशुल्यश्चापि विज्ञेया द्बे शते विंशतिस्तथा ॥
अकालजाता ये सर्पा निर्व्विषास्ते प्रकीर्त्तिताः ।
पञ्चसप्ततिवर्षाणि आयुस्त्रेषां प्रकीर्त्तितम् ॥
रक्तपीतशुक्लदन्ता आनीला मन्दवेगिनः ।
एते चाल्पायुषो ज्ञेया अल्पाहाराश्च भीरवः ॥
एकञ्चास्य भवेद्बक्त्रं द्वे जिह्वे च प्रकीर्त्तिते ।
प्रथमा ब्रह्मदैवत्या द्बितीया विष्णुदैवता ॥
तृतीया रुद्रदैवत्या चतुर्थी यमदैवता ।
हीना प्रमाणतः सा तु वामनेत्रं समाश्रिता ॥
नास्यां मन्त्राः प्रयोक्तव्या नौषधं नैव भेषजम् ।
वैद्यः पराङ्मुखो याति मृत्युस्तस्या विलेखनात् ॥
चिकित्सा न बुधैः कार्य्या तदन्तं तस्य जीवितम् ।
मकरीं मासिकीं विद्यात् करालीञ्च द्विमा-
सिकीम् ।
कालरात्री भवेत् त्रीणि चतुरो यमदूतिका ॥
मकरीशस्त्रकं विद्यात् कराली काकपादिका ।
पृष्ठ ५/२९८
ढकाराकृतिः कालरात्री याम्या कूपाकृतिः
स्मृता ॥
मकरी वातुला ज्ञेया कराली पैत्तिकी स्मृता ।
कफात्मिका कालरात्री यमदूती सान्निपातिकी ॥
शुक्ला तु मकरी ज्ञेया कराली रक्तसन्निभा ।
कालरात्री भवेत् पीता कृष्णा च यमदूतिका ॥”
इति भविष्यपुराणे पञ्चमीकल्पे ॥ * ॥
कश्यप उवाच ।
“सविषा दंष्ट्रयोर्म्मध्ये यमदूती तु चेद्भवेत् ।
न चिकित्सा बुधैः कार्य्या तं गतायुं विनि-
र्द्दिशेत् ॥
प्रहरार्द्धं दिवारात्रौ रकैकं भुञ्जते अहिः ।
एकस्य च समानञ्च द्बितीयं षोडशं तथा ॥
नागोदये ययुद्दष्टो हतो विद्धो विदारितः ।
कालदष्टं विजानीयात् कश्यपस्य वचो यथा ॥
यन्मात्रे पतते बिन्दुर्ब्बालाग्रसलिलोद्धृतम् ।
तन्मात्रं स्रवते दंष्ट्राविषं सर्पस्य दारुणम् ॥
ज्वालाशते तु संपूर्णे देहे संक्रमते विषम् ।
यावत् संक्रामयेद्बाहुं कुञ्चितं वा प्रसारयेत् ॥
अनेन क्षणमात्रेण विषं गच्छति मस्तके ।
वेधते विषवेगस्तु शतशोऽथ सहस्रशः ॥
वर्द्धते रक्तमासाद्य ततो वाते शिखी यथा ।
तैलबिन्दुर्ज्जलं प्राप्य यथा वेगेन वर्द्धते ॥
शिखण्डी आश्रयं प्राप्य मारुतेन समीरितः ।
ततस्तालाशतं प्राप्य त्वचास्थानं विचेष्टितम् ॥
त्वचासु द्बिगुणं विद्याच्छोनितेषु चतुर्गुणम् ।
पित्ते तु त्रिगुणं याति श्लेष्मे वै षोडशं भवेत् ॥
वायौ त्रिंशद्गुणञ्चैव मज्जे षष्टिगुणं तथा ।
प्राणे चैकार्णवीभूते सर्व्वस्रोतान्निरोधयेत् ॥
स्रोतेन रुध्यमानेन याति साध्यमसाध्यताम् ।
ततोऽसौ म्रियते जन्तुर्निश्वासोच्छ्वासवर्ज्जितः ॥
निष्क्रान्ते तु ततो जीवे भूते पञ्चत्वमागते ।
तानि भूतानि गच्छन्ति यस्य यस्य यथालयम् ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
इत्येषामेव संघातः शरीरमभिधीयते ॥
पृथिवी पृथिवीं याति आपस्तोयेषु लीयते ।
तेजो गच्छति चादित्यं मारुतो मारुतं व्रजेत् ॥
आकाशञ्चैव आकाणे सह तेनैव गच्छति ।
स्वस्थानं ते प्रपद्यन्ते परस्परवियोजिताः ॥
न जीवेदागतः कश्चिदिह जन्मनि सुव्रत ।
विषार्थं न उपेक्षेत त्वरितं तु चिकित्सयेत् ॥ * ॥
एकमस्ति विषं लोके द्बितीयञ्चोपपद्यते ।
यथा चलविषञ्चैव स्थावरन्तु तथैव च ॥
प्रथमे विषवेगे तु रोमहर्षं प्रजायते ।
द्वितीये विषवेगे तु स्वेदो गात्रेषु जायते ॥
तृतीये विषवेगे तु कम्पो गात्रेषु जायते ।
चतुर्थे विषवेगे तु श्रोत्रान्तरनिरोधकृत् ॥
पञ्चमे विषवेगे तु हिक्का गात्रेषु जायते ।
षष्ठे तु विषवेगे तु ग्रीवाभङ्गस्तु जायते ॥
सप्तमे विषवेगे तु प्राणेभ्यो विप्रमुच्यते ।
सप्तधातुवहा ह्येते वैनतेयेन भाषिताः ॥ * ॥
त्वचस्थाने विषे प्राप्ते तस्य रूपाणि मे शृणु ।
अङ्गानि तिमिरायन्ते यतन्ते च मुहुर्म्मुहुः ॥
एतानि यस्य चिह्नानि तस्य त्वचगतं विषम् ।
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् ॥
अर्कमूलमपामार्गप्रियङ्गु तगरं तथा ॥
एतदालोड्य दातव्यं ततः सम्पद्यते सुखम् ॥
ततस्तस्मिन् कृते विप्रा न निवर्त्तेत चेद्विषम् ।
त्वचस्थानं ततो भित्त्वा रक्तस्थानं प्रधावति ॥ * ॥
विषे च रक्तसंप्राप्ते तस्य रूपानि मे शृणु ।
दह्यते मुह्यते चैव शीतलं बहु मन्यते ॥
एतानि यस्य रूपाणि तस्य रक्तं विषं गतम् ।
तत्रागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् ॥
उशीरं चन्दनं कुष्ठमुत्पलं तगरं तथा ।
महाकालस्य मूलानि सिन्धुवारमृगस्य च ॥
हिङ्गुञ्च मरिचञ्चैव पूर्व्ववेगे तु दापयेत् ।
वृहती वृश्चिकाली च इन्द्रबारुणिमृलकम् ॥
सर्पगन्धा घृतं चैव द्बितीये परिकीर्त्तितम् ।
सिन्दुवारं तथा हिङ्गु तृतीये कारयेद्बुधः ॥
नस्यं पानञ्च कुर्व्वीत अञ्जनं लेपनं तथा ।
एतेनैवोपचारेण ततः सम्पद्यते सुखम् ॥ * ॥
रक्तस्थानं ततो गत्वा पित्तख्यानं प्रधावति ।
पित्तस्थानगते विप्र विषे रूपाणि मे शृणु ॥
उत्तिष्ठते निपतते दह्यते मुह्यते तथा ।
गात्रतः पीतता स्याद्बै दिशः पश्यति पीतिकाः ॥
धवलाश्च भवेन्मूर्च्छा न चात्मानं विजानते ।
विषक्रियां तस्य कुर्य्यात् यथा सम्पद्यते
सुखम् ॥
पिप्पलं मधुकं चैव मधुखण्डघृतं तथा ।
मधुसारमलावुञ्च जातिशर्करवालुकाम् ॥
इन्द्रवारुणिमूलञ्च गवां मूत्रेण पेषयेत् ।
नस्यं तस्य प्रयुञ्जीत पानमालेपमार्ज्जनम् ॥
एतेनैवोपचारेण ततः सम्पद्यते सुखम् ।
पित्तस्थानमतिक्रम्य श्लेष्मस्थानञ्च गच्छति ॥ * ॥
श्लेष्मस्थाने ततः प्राप्ते तस्य रूपाणि मे शृणु ।
गात्राणि तस्य रुन्ध्यन्ते निश्वासश्च न जायते ॥
लाला च स्रवते तस्य कण्ठे घुरघुरायते ।
एतानि यस्य रूपाणि तस्य श्लेष्मगतं विषम् ॥
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् ।
त्रिकटुकञ्च कोशातकी लोध्रमधुसारकम् ॥
एतेषां सप्तभागानि गवां मूत्रेण पेषयेत् ।
नस्यं पानञ्च कुर्व्वीत अञ्जनं लेपनं तथा ॥
एतेनैवोपचारेण ततः सम्पद्यते सुखम् ।
श्लेष्मस्थनमतिक्रम्य वायुस्थानञ्च गच्छति ॥ * ॥
तत्र रूपाणि वक्ष्यामि वायुस्थानगते विषे ।
आध्मायते च जठरं यत्नवांश्च न पश्यति ॥
ईदृशं कुरुते रूपं दृष्टिभङ्गश्च जायते ।
एतानि यस्य रूपाणि तस्य वायुगतं विषम् ॥
तस्यगदं प्रवक्ष्यामि येन सम्पद्यते सुखम् ।
शोणमूलं पियालञ्च रक्ता च गजपिप्पली ॥
भार्गी वचा पिप्पलिदेवरारु-
मधूकसारं सह सिन्दुवारम् ।
हिङ्गुञ्च पिष्ट्वा गुडिकाञ्च कुर्य्या-
द्दद्याच्च तस्याञ्जनलेपनादीन् ॥
एषोऽगदः सर्व्वविषाणि हन्यात्
स्वयम्भुवा देववरेण सृष्टः ॥
अञ्जनञ्चैव नस्यञ्च क्षिप्रं दद्याद्विषान्विते ।
वायुस्थानं ततो मुक्त्वा मज्जस्थानं प्रधावति ॥ *
विषे मज्जगते विप्र तस्य रूपाणि मे शृणु ।
दृष्टिश्च हीयते तस्य भृशमङ्गानि मुञ्चति ॥
एतानि यस्य रूपाणि तस्य मज्जगतं विषम् ।
तस्यागदं प्रवक्ष्यामि येन सम्पद्यते सुखम् ॥
घृतं मधु शर्कराञ्च उशीरं चन्दनं तथा ।
एतदालोड्य दातव्यं पानं तस्य च सुव्रत ॥
ततः प्रणश्यते दुःखं ततः सम्पद्यते सुखम् ।
अथ तस्मिन् कृते योगे विषं तस्य निवर्त्तते ॥ * ॥
मज्जस्थानं ततो गत्वा नर्म्मस्थानं प्रधावति ।
विषे तु मर्म्मसंप्राप्ते शृणु रूपं यथा भवेत् ॥
निश्चेष्टः पतते भूमौ कर्णाभ्यां वधिरो भवेत् ।
करिणा सिच्यमानस्य रोमहर्षो न जायते ॥
दण्डेन हन्यमानस्य दण्डराजी न जायते ।
शस्त्रेण छिद्यमानस्य रुधिरं न प्रवर्त्तते ॥
केशेषु लुठ्यमानेषु नैव क्लेशप्रवेदने ।
यस्य कर्णौ च पार्श्वौ च हनू पादौ च सन्धयः ॥
शिथिलानि भवन्तीह स गतासुरिति श्रुतिः ।
एतानि यस्य रूपाणि विपरीतानि गौतम ॥
मृतन्तु तं विजानीयात् कश्यपस्य वचो यथा ।
वैद्यास्तस्य न पश्यन्ति ये पश्यन्ति कुशिक्षिताः ॥
विचक्षणास्तु पश्यन्ति मन्त्रौषधिसमन्विताः ।
तस्यागदं प्रवक्ष्यामि स्वयं रुद्रेण भाषितम् ॥
मयूरपित्तं मार्ज्जारपित्तं नकुलपित्तकम् ।
मत्स्यमाहिषपित्तञ्च धानालीमूलमेव च ॥
कुङ्कुमं भार्गवं कुष्ठं काश्मरी च त्वचं तथा ।
उत्पलस्य च किञ्जल्कं पद्मस्य कुमुदस्य च ॥
एतानि समभागानि गामूत्रेण तु शोषयेत् ।
एषोऽगदो यस्य हस्ते दष्टेन म्रियते न वै ।
कालाहिनापि दष्टोऽपि क्षिप्रं भवति निर्व्विषः ॥
क्षिप्रमेव प्रदातव्यं मृतसञ्जीवनौषधम् ।
अञ्जनञ्चैव नस्यञ्च क्षिप्रं दद्यात् विचक्षणः ॥”
इति भविष्यपुराणे ब्रह्मपर्व्वणि पञ्चमीधातुगत-
विषक्रिया ॥ * ॥
गौतम उवाच ।
“कीदृशं एतदाख्याहि सर्व्वं दष्टस्य लक्षणम् ॥
कश्यप उवाच ।
अतः परं प्रवक्ष्यामि नागानां रूपलक्षणम् ।
सर्पदष्टस्य च तथा समासाद्द्विजपुङ्गव ! ॥
अथ सर्पेण दष्टस्य ऊर्द्ध्वा दृष्टिः प्रजायते ।
सर्प्या दष्टस्य च तथा अधोदृष्टिः प्रजायते ॥
नपुंसकेन दष्टस्य अङ्गमर्द्दः प्रजायते ।
रुषा दष्टस्य वा साम्या दृष्टिर्द्बिजवरोत्तम ॥
कुमारेणापि दष्टस्य दक्षिणा एव जायते ।
गुर्व्विण्या वाथ दष्टस्य तया स्वेदश्च जायते ॥
रोमाञ्चः सूतिकायाश्च वेपथुश्चापि जायते ।
पन्नगी प्रभवेद्रात्रौ दिवा सर्पो विषाधिकः
नपुंसकन्तु सन्ध्यायां कश्यपेन तु भाषितम् ।
अन्धकारे तु दष्टानामुदके गहने वने ॥
पृष्ठ ५/२९९
सुप्तस्य वै प्रमत्तस्य पदे सर्पो न दृश्यते ।
दृष्टरूपाण्यजानन् वै कथं वैद्यश्चिकित्सति ॥
चतुर्व्विधा रहः प्रोक्ताः पन्नगास्तु महात्मना ।
दर्व्वीकरा मण्डलिनो राजिला व्यन्तरास्तथा ॥
दर्व्वीकरा वातविषा मण्डलाः पैत्तिकाः स्मृताः ।
श्लेष्मला राजिला ज्ञेया व्यन्तराः सान्निपातिकाः ॥
रक्तं परीक्षयेद्गाडं सर्पाणान्तु पृथक् पृथक् ।
कृष्णं दर्व्वीकराणान्तु जायते वातमुल्वणम् ॥
रक्तं घनञ्च बहुशः शोणितं मण्डलीकृते ।
पिच्छिलं राजिले स्वल्पं तद्वद्ब्यन्तरके तथा ॥ * ॥
ज्ञेवाः सर्पास्तु चत्वारः पञ्चमो नोपलभ्यते ।
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चैव चतुर्थकः ॥
ब्राह्मणे मधुरं दद्यात् तिक्तं दद्यात्तथोत्तरे ।
वैश्ये कर्षफलं दद्यात् शूद्रे त्रिफलमेव वा ॥
ब्राह्मणेन तु दष्टस्य दाहो गात्रेषु जायते ।
मूर्च्छा च प्रबला स्याद्वै न ज्ञानमभिजायते ॥
श्यामवर्णं मुखञ्च स्यान्मनस्तम्भश्च जायते ।
तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम् ॥
अश्वगन्धामपामार्गं सिन्दुवारं सुरालयम् ।
एतत् सर्पिःसमायुक्तं पानं नस्यञ्च दापयेत् ।
एतेनैवोपचारेण सुखी भवति मानवः ॥ * ॥
क्षत्त्रियेण तु दष्टस्य कम्पो गात्रेषु जायते ।
मूर्च्छा मोहस्तथा स्याद्वै न ज्ञानमभिजायते ॥
जायते वेदना तस्य ऊर्द्ध्वञ्चैव निरीक्षते ।
तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम् ॥
अर्कमूलमपामार्गं प्रियङ्गुमथ वारुणीम् ।
एतत् सर्पिःसमायुक्तं पानं तस्य प्रदापयेत् ।
एतेनैवोपचारेण सुखी भवति मानवः ॥ * ॥
वैश्येनापि हि दष्टस्य शृणु रूपाणि यानि तु ।
श्लेष्मप्रकोपो लाला च नवोद्वहति वेदना ॥
मूर्च्छा च प्रबला यस्य आत्मानं नाभिनन्दति ।
तस्य कुर्य्यात् प्रतीकारं येन सम्पद्यते सुखम् ॥
अश्वगन्धां सगोमूत्रां गृहधूमं सगुग्गुलुम् ।
शिरीषार्कपलाशञ्च श्वेतां च गिरिकर्णिकाम् ॥
गोमूत्रेण समायुक्तं पानं नस्यञ्च दापयेत् ।
एष वैश्येन दष्टानामगदः परिकीर्त्तितः ॥ * ॥
शूद्रेणापि हि दष्टस्य शृणु तत्त्वेन गौतम ।
कुप्यते वेपते चैव ज्वरः शीतञ्च जायते ॥
अङ्गानि चुलुचुलायन्ते शूद्रदष्टस्य लक्षणम् ।
तस्यागदं प्रवक्ष्यामि येन सम्प्द्यते सुखम् ॥
पद्मञ्च लोध्रकञ्चैव क्षौद्रं पद्मस्य केशरम् ।
मधु मधुकसारञ्च श्वेता च गिरिकर्णिका ॥
एतानि समभागानि पेषयेत् शीतवारिणा ।
पानं लेपाञ्जनं नस्यं सुखी भवति मानवः ॥ * ॥
पूर्व्वाह्णे चरते विप्रो मध्याह्ने क्षत्त्रियश्चरेत् ।
अपराह्णे चरेद्वैश्यः शूद्रः सन्ध्याचरो भवेत् ॥
आहारश्चात्र पुष्पाणि ब्राह्मणानां विदुर्ब्बुधाः ।
मूषिकाः क्षत्त्रियाणाञ्च आहारो द्बिजसत्तम ॥
वैश्या मण्डूकभक्ष्याश्च शूद्राः सर्व्वाशिनस्तथा ॥
अग्रतो दशते विप्रः क्षत्त्रियो दक्षिणेन तु ।
वामपार्श्वे सदा वैश्यः पश्चाद्वै शूद्र आदशेत् ॥
मदकाले तु संप्राप्ते पीड्यमाना महाविषाः ।
अवेलायां दशन्ते वै मैथुनार्त्ता भुजङ्गमाः ॥ * ॥
पुष्पगन्धाः स्मृता विप्राः क्षत्त्रियाश्चन्दनावहाः ।
वैश्याश्च घृतगन्धा वै शूद्राः शूर्म्मस्य गन्धिनः ॥ *
वासं तेषां प्रवक्ष्यामि यथावदनुपूर्व्वशः ।
नदीकूपतडागेषु गिरिप्रस्रवणेषु च ॥
आरामेषु पवित्रेषु शुचिष्वायतनेषु च ॥
वसन्ति ब्राह्मणाः सर्पाः ग्रामद्वारे चतुष्पथे ॥
क्षत्त्रियो वसते नित्यं तोरणेषु पुरेषु च ।
गोशालास्वश्वशालासु पलालेषु तटेषु च ॥
गोष्ठेषु पथि वृक्षेषु विप्र वैश्या वसन्ति च ।
अविविक्तेषु स्थानेषु निर्झरेषु वनेषु च ।
शून्यागारे श्मशाने च शूद्रा विप्र वसन्ति च ॥
श्वेताश्च कपिलाश्चैव ये सर्पास्त्वनलप्रभाः ।
सात्त्विका मनस्विनो विप्र ब्राह्मणास्ते बुधैः
स्मृताः ॥
रक्तवर्णसुवर्णाभप्रबालमणिसन्निभाः ।
सूर्य्यप्रभास्तथा विप्र क्षत्त्रियास्ते भुजङ्गमाः ॥
नानाविचित्रराजीभिरतसीवर्णसन्निभाः ।
वाणपुष्पसुवर्णाभा वैश्यास्ते च भुजङ्गमाः ॥
काकोदरनिभाः केचित् ये च अञ्जनसन्निभाः ।
काकवर्णा धूम्रवर्णास्ते शद्राः परिकीर्त्तिताः ॥ *
यस्य सर्पेण दष्टस्य दंशमङ्गुलमन्तरम् ।
बालदष्टं विजानीयात् कश्यपस्य वचो यथा ॥
यस्य सर्पेण दष्टस्य दंशं द्व्यङ्गुलमन्तरम् ।
यौवनस्थेन दष्टस्य एतद्भवति लक्षणम् ॥
यस्य सर्पेण दष्टस्य सार्द्धद्व्यङ्गुलमन्तरम् ।
वृद्धदष्टं विजानीयात् कश्यपस्य वचो यथा ॥ * ॥
अनन्तः प्रेक्षते पूर्व्वे वामपार्श्व तु वासुकिः ।
तक्षको दक्षिणे पार्श्वे कर्क्कोटः पृष्ठतस्तथा ॥
बलेन भ्रमते पद्मो महापद्मो निमज्जति ।
विमज्जंस्तिष्ठते चैव शङ्खपालो मुहुर्म्मुहुः ॥
सर्व्वेषां कुरुते रूपं कुलिकः पन्नगोत्तमः ।
अनन्तस्य दिशा पूर्व्वा वासुकेस्तु हुताशनः ॥
दक्षिणा तक्षकस्योक्ता कर्क्कोटस्य तु नैरृती ।
पश्चिमा पद्मनाभस्य महापद्मस्य वायुजा ॥
उत्तरा शङ्खपालस्य वैशानी कुलिकस्य तु ।
अनन्तस्य भवेत् पद्मं वासुकेः स्यात्तथोत्पलम् ॥
स्वस्तिकं तक्षकस्योक्तं कर्क्कोटस्य त्रिरेखकम् ।
पद्मस्य तु भवेत् पद्मं शूलमश्वतरस्य तु ॥
शङ्खजातेर्भवेच्छत्रं कुलिकस्यार्द्धचन्द्रकम् ।
अनन्तः कुलिको विप्रः क्षत्त्रियौ शङ्खवासुकी ॥
महापद्मस्तक्षकश्च वैश्यो विप्र प्रकीर्त्तितः ।
पद्मकर्क्कोटकौ शूद्रौ सदा ज्ञेयौ मनीषिभिः ॥
अनन्तकुलिकौ शुक्लौ वर्णतो ब्रह्मसम्भवौ ।
वासुकिः शङ्खपालश्च रक्तौ ह्यग्निसमुद्भवौ ॥
तक्षकश्च महापद्म इन्द्रात् पीतौ बभूवतुः ।
पद्मकर्क्कोटकौ विप्र सर्पौ कृष्णौ बभूवतुः ॥ * ॥
हयं यानं वृषं छत्रं राजानमथ पावकम् ।
धरणीमुत्पाद्य धृतानेतान् सिद्धिकरान् विदुः ॥
पूर्णकुम्भः पताका च काञ्चनं मणयस्तथा ।
शरसो मालिका कम्बूजीवञ्जीवेति सुव्रता ॥
एतेषां दर्शनं श्रेष्ठं कन्या च प्रातिसूतिका ।
चतुःषष्टिः समाख्याता भोगिनो मत्तपन्नगाः ॥
अदृश्यास्तेषु षड्विंशा अष्टत्रिंशा महीधराः ।
विंशास्तु कुलिताः प्रोक्ताः सप्त मण्डलिनस्तथा ।
राजीवास्तु दश प्रोक्ता दक्षाः षोडश पञ्च च ॥
इन्दुभो दुन्दुभिश्चैव चैडभः श्रेष्ठवाहनः ॥
नागपुष्पसुवर्णाख्या निर्व्विषा ये च पन्नगाः ।
एवमेवन्तु सर्पाणां शतद्बिनवति स्मृतम् ॥
वराहकर्णं गजपिप्पलिञ्च
गान्धारिका पिप्यलदेवदारु ।
मधूकसारं सह सिन्धुवारं
हिङ्गुञ्च पिष्ट्वा गुडिका च कार्य्या ॥ * ॥
सुमन्तुरुवाच ।
इत्युक्तवान् पुरा वीर गौतमस्य प्रजापतिः ।
लक्षणं सर्व्वनागानां रूपवर्णविषैस्तथा ॥
तस्मात् संपूजयेन्नागान् सदा भक्त्या समन्वितः ।
विशेषतस्तु पञ्चम्यां पयसा पायसेन च ॥
श्रावणे मासि पञ्चम्यां शुक्लपक्षे नराधिप ।
द्वारस्योभयतो लेख्या गोमयेन विषोल्वणाः ॥
पूजयेद्विधिवद्वीर दधिदूर्व्वाक्षतैः कुशैः ।
गन्धपुष्पोपहारैश्च ब्राह्मणानाञ्च तर्पणैः ॥
ये त्वस्यां पूजयन्तीह नागान् भक्तिपुरःसराः ।
न तेषां सर्पतो वीर भयं भवति कर्हिचित् ॥”
इति भविष्ये पञ्चमीकल्पे ॥ * ॥
सुमन्तुरुवाच ।
“तथा भाद्रपदे मासि पञ्चम्यां श्रद्धयान्वितः ।
तथालिख्य नरो नागान् कृष्णवर्णादिवर्णकैः ॥
पूजयेद्गन्धपुष्पैश्च सर्पिःपायसगुग्गुलैः ।
तस्य तुष्टिं समायान्ति पन्नगास्तक्षकादयः ॥
आसप्तमात् कुलात्तस्य न भयं नागतो भवेत् ।
तस्मात् सर्व्वप्रयत्नेन नागान् वै पूजयेद्बुधः ॥”
इति भविष्ये पञ्चमीकल्पे ॥ * ॥
सुमन्तुरुवाच ।
“तथा चाश्वयुजे मासि पञ्चम्यां कुरुनन्दन ।
कृत्वा कुशमयान्नागान् इन्द्राण्या सह पूजयेत् ॥
घृतोदकाभ्यां पयसा स्नापयित्वा विशाम्पते ।
गोधूमैः पयसा स्विन्नैर्भक्ष्यैश्च विविधैस्तथा ॥
यस्त्वस्यां विधिवन्नागान् शुचिर्भक्त्या समन्वितः ।
पूजयेत् कुरुशार्द्दूल तस्य शेषादयो नृप ॥
नागाः प्रीता भवन्तीह शान्तिमाप्नोति मानवः ।
सुशान्तिलोकमासाद्य मोदते शाश्वतीः समाः ॥
इत्येतत् कथितं विप्र पञ्चमीकल्पमुत्तमम् ।
पन्नगान्मुच्यते मन्त्रं सर्व्वसर्पनिषेधकम् ॥”
ॐ कुरु कुले नः फट् स्वाहा । इति भविष्य-
पुराणे शतसाहस्र्यां संहितायां पञ्चमीकल्पे ॥ *
अन्यच्च ।
सूत उवाच ।
“प्राणेश्वरं गारुडञ्च शिवोक्तं प्रवदाम्यहम् ।
स्थानान्यादौ प्रवक्ष्यामि नद्यां दष्टो न जीवति ॥
चितावल्मीकशैलादौ कूपे च विवरे तरोः ।
दंशे रेखात्रयं यस्य प्राच्छन्नं स न जीवति ॥
षष्ठ्याञ्च कर्क्कटे मेषे मूलाश्लेषामघादिषु ।
कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु ॥
पृष्ठ ५/३००
दण्डी शस्त्रधरो भिक्षुर्लग्नादिः कालदूतकः ।
वक्त्रे बाहौ च ग्रीवायां पृष्ठे च नहि जीवति ॥
पूर्व्वं दिनपतिर्भुङ्क्ते ह्यर्द्धयामन्ततोऽपरे ।
शेषा ग्रहाः प्रतिदिनं षट्सङ्ख्यापरिवर्त्तनैः ॥
नागभोगक्रमो ज्ञेयो रात्रौ वाणविवर्त्तनैः ।
शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः ॥
कर्क्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः ।
शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः ॥
रात्रौ दिवा सुरगुरोर्भोगे स्यादमरान्तकः ।
पङ्गोः कालो दिवा राहुः कुलिकेन सह
स्थितः ॥
यामार्द्धसन्धिसंस्थः स वेलां कालयतीञ्चरेत् ।
वाणद्बिषड्वह्निवाजियुगभूरेकभागतः ॥
दिवा षड्वेदनेत्रादिपञ्चत्रिवसुस्वांशकैः ।
पादाङ्गुष्ठे पादपृष्ठे गुल्फे जानुनि लिङ्गके ॥
नाभौ हृदि स्तनतटे कण्ठे नासापुटेक्षणे ।
कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत्क्रमात् ॥
तिष्ठेच्चन्द्रश्च जीवेन पुंसो दक्षिणभागके ।
कायस्य वामभागे तु स्त्रिया वायुवहात् करात् ॥
अमवत्त्वकृतो मोहो निवर्त्तेत च मर्द्दनात् ।
आत्मनः परमं बीजं हंसाख्यं स्फाटिकामलम् ॥
ज्ञातव्यं विषपापघ्नं बीजं तस्य चतुर्व्विधम् ।
बिन्दुपञ्चस्वरयुतमाद्यमुक्तं द्बितीयकम् ॥
षष्ठारूढं तृतीयं स्यात् सविसर्गं चतुर्व्विधम् ।
ॐ कुरु कुन्दे स्वाहा ॥
विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा ।
वधेप्सुना च नागानां मुखेऽथ प्रणवं न्यसेत् ॥
गले कुरु न्यसेत् पश्चात् हृदि चैव विशेषतः ।
कुन्दे स्वा गुह्ययोः पादयुगे हान्यास ईरितः ।
गृहेपि लिखिता यत्र तन्नागाः संत्यजन्ति च ॥
सहस्रमन्त्रजप्तन्तु सूत्रं कर्णे धृतं तथा ।
यद्गृहे शर्करा जप्ता क्षिपा नागास्त्यजन्ति च ।
सप्तलक्षस्य जप्याद्वै सिद्धिः प्राप्ता सुरासुरैः ॥
ॐ सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा ॥
एवञ्चाष्टदले पद्मे दले वर्णयुगं लिखेत् ।
नामैतत् वारिधाराभिः स्नातो दष्टो विषं
त्यजेत् ॥
ॐ पक्षि स्वाहा ।
अङ्गुष्ठादिकनिष्ठान्तं करे न्यस्याथ देहके ।
के वक्त्रे हृदि लिङ्गे च पादयोर्गरुडो हि सः ॥
नाक्रामन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः ।
यस्तु लक्षं जपेच्चास्याः स दृष्ट्वा नाशयेद्बिषम् ॥
ॐ ह्रौँ ह्रौँ ह्रीँ भिरुण्डायै नमः ॥
कर्णे जप्ता त्वियं विद्या दष्टकस्य विषं हरेत् ।
अ-आ न्यसेत्तु पादाग्रे इ-ई गुल्फेऽथ जानुनि ॥
उ-ऊ ए-ऐ कटितटे ओ नाभौ विन्यसेत्
सुधीः ।
हृदि औ वक्त्रदेशे च अङ्गे अः हंससंयुताः ॥
हंसो विषादि च हरेत् जप्तो ध्यातोऽथ पूजितः ।
गकडोऽहमिति ध्यात्वा कुर्य्याद्बिषहरां क्रियाम् ॥
हं मन्त्रं गात्रविन्यस्तं विषादिहरमीरितम् ।
न्यस्य हंसं वामकरे नासामुखनिरोधकृत् ॥
मन्त्रो हरेत् दष्टकस्य त्वङ्मांसादिगतं विषम् ।
स वायुना समाकृष्य दन्तानां गरलं हरे ।
तनौ न्यसेद्दष्टकेव नीलकण्ठादि संस्मरेत् ॥ * ॥
पीतं प्रत्यङ्गिरामूलं तण्डुलाद्भिर्व्विषापहम् ।
पुनर्नवाफलिनीनां मूलं चक्रजमीदृशम् ॥
मूलं शुक्लवृहत्यास्तु कर्क्कोट्या गैरिकर्णिकम् ।
अद्भिर्घृष्टघृतोपेतलेपोऽयं विषमर्द्दनः ॥
विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम् ।
पञ्चाङ्गन्तु शिरीषस्य मूलं गृञ्जनजन्तथा ।
सर्व्वाङ्गलेपतश्चापि पानाद्वा विषहृद्भवेत् ॥
ह्रीँ गोनसादिविषहृत् ॥
हृल्ललाटविसर्गान्तं ध्यातं वश्यादिकृद्भवेत् ।
न्यस्तं योनौ वशेत् कन्यां कुर्य्यान्मदजलाविलाम् ॥
जप्त्वा सप्ताष्टसाहस्रं गरुत्मानिव सर्व्वगः ।
कविः स्यात् श्रुतिधारी स्याद्वश्यस्त्रीश्चायुरा-
प्नुयात् ।
विषहृत् स्यात् कथा तद्बन्मुनिर्वा सम्मतो
ध्रुवम् ॥”
इति गारुडे प्राणेश्वरं गारुडं समाप्तं १९
अध्यायः ॥ * ॥ * ॥ अपरञ्च ।
अग्निरुवाच ।
“नागादयोऽथ तारादिदशस्थानानि मर्म्म च ।
सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते ॥
शेषवासुकितक्षाख्याः कर्क्कटोऽब्जो महाम्बुजः ।
शङ्खपालश्च कुलिक इत्यष्टौ नागवर्य्यकाः ॥
दशाष्टपञ्चत्रिगुणशतमूर्द्धान्विताः क्रमात् ।
विप्रौ नृपौ विशौ शूद्रौ द्बौ द्बौ नागेषु कीर्त्तितौ ॥
तदन्वयाः पञ्चशतं तेभ्यो जाता ह्यसङ्ख्यकाः ।
फणिमण्डलिराजीलवातपित्तकफात्मकाः ॥
व्यन्तरा दोषमिश्रास्ते सर्पा दर्वीकराः स्मृताः ।
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ॥
गोनसा मन्दगा दीर्घा मण्डलैर्व्विविधैः स्थिताः ।
राजीलाश्चित्रिताः स्निग्धास्तिर्य्यगूर्द्ध्वञ्च
राजिभिः ॥
व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेयवायवः ।
चतुर्व्विधास्ते षड् विंश भेदाः षोडश गोनसाः ॥
त्रयोदश च राजीला व्यन्तरा एकविंशतिः ।
येऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः ॥
आषाढादित्रिमासैः स्याद्गर्भो मासचतुष्टये ।
अण्डकानां शते द्वे च चत्वारिंशत् प्रसूयते ।
सर्पा ग्रसन्ति सूतौ तान् विना स्त्रीपुंनपुंसकान् ।
उन्मीलतेऽक्षि सप्ताहात् हृष्टो मासाद्भवेद्बहिः ॥
द्बादशाहात् स्वबोधः स्याद्दन्ताः स्युः सूर्य्य-
दर्शनात् ।
द्बात्रिंशद्दिनविंशत्याश्चतस्रस्तेषु दंष्ट्रिकाः ॥
कराली मकरी कालरात्री च यमदूतिकाः ।
एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः ॥
षण्मासान्मुञ्चते कृत्तिं जीवेत् षष्टिसमाद्बयम् ।
नागाः सूर्य्यादिवारेशाः सप्त उक्ता दिवानिशि ॥
तेषां षट् प्रतिवारेषु कुलिकः सर्व्वसन्धिषु ।
शङ्खेन वा महाब्जेन सह तस्योदयोऽथवा ॥
द्बयोर्व्वा नाडिकामन्त्रमन्तरं कुलिकोदयः ।
दुष्टः सकालः सर्व्वत्र सर्व्वदंशे विनिर्द्दिशेत् ॥
कृत्तिका भरणी स्वाती मूलं पूर्व्वात्रयाश्विनी ।
विशाखार्द्रा मघाश्लेषा चित्रा श्रवणरोहिणी ॥
हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः ।
षष्ठी रिक्ता शिवा निन्द्या पञ्चमी च चतुर्द्दशी ॥
सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः ।
एकद्बिबहवो दंशा दष्टविद्धञ्च खण्डितम् ॥
अदंशमवगुप्तं स्याद्दंशमेवं चतुर्व्विधम् ।
त्रयो द्व्येकक्षता दंशा वेदना रुधिरो नृणाम् ॥
नक्तं द्व्यैकाङ्घ्रिकूर्म्माभा दंशाश्च यमचोदिताः ॥
दाही पिपीलिकास्पर्शी कण्ठशोषरुजान्वितः ।
सतोदो ग्रन्थितो दंशः सविषो न्यस्तनिर्व्विषः ॥
देवालये शून्यगृहे वल्मीकोद्यानकोटरे ।
रथ्या सन्ध्या श्मशाने च श्मशाने सिन्धुसङ्गमे ॥
द्बीपे चतुष्पथे सौधे गृहेऽब्जे पर्व्वताग्रतः ।
विलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके ॥
शिग्रुश्लेष्मातकाक्षेषु जम्बूडुम्बरणेषु च ।
वटे च जीर्णप्राकारे खास्यहृतकक्षजत्रुणि ॥
तालौ शङ्खे गले मूर्द्ध्नि चिवुके नाभिपादयोः ।
दंशोऽशुभः शुभो भूतःपुष्पहस्तः सुवाक् सुधीः ॥
लिङ्गवर्णसमानश्च शुक्लवस्त्रोऽमलः शुचिः ।
अपद्बारागतः शस्त्री प्रमादी भूगतेक्षणः ॥
विवर्णवासाः पाशादिहस्तो गद्गदवर्णभाक् ।
शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः ॥
आर्द्रवासाः कृष्णरक्तपुष्पो हेमशिरोरुहः ।
कुचमर्द्दी नखच्छेदी गुदस्पृक् पादलेखकः ॥
केशलुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकलः ।
इडान्यावाहयद्द्वेधा यदि दूतस्य चात्मनः ॥
आभ्यां द्बाभ्यां पृष्टयान्यान् विद्यात् स्त्रीपुंनपुं-
सकान् ।
दूतः स्पृशति यद्गात्रं तस्मिन् दंशमुदाहरेत् ॥
दूताङ्घ्रिचलनं दुष्टं सुखिभिर्निश्चला शुभा ।
जीवपार्श्वे शुभो दूतो दुष्टोऽन्यत्र समागतः ॥
जीवो गतागते दुष्टः शुभो दूतनिवेदने ।
दूतस्य वाक् प्रदुष्टा सा पूर्व्वामजार्द्धनिन्दिता ॥
विभक्तैस्तस्य वाक्यान्तैर्व्विषनिर्व्विषकालता ।
आद्यैः स्वरैश्च काद्यैश्च वर्गैर्भिन्नलिपिर्द्बिधा ॥
स्वरजोवसुमान् वर्गी इति क्षेप्यश्च मातृकाः ।
वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् ॥
नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः ।
दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः ॥
प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ।
प्रस्थाने मङ्गलं वाक्यं गर्ज्जितं मेघहस्तिनोः ॥
प्रदक्षिणं फले वृक्षे चासस्य च रुतं जितम् ।
शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये ॥
अनर्थगीताथाक्रन्दो दक्षिणे विरुतं क्षुतम् ।
वेश्या विप्रो नृपः कन्या गौर्दन्ती मुरजध्वजौ ॥
क्षीराज्यदधिशङ्खाम्बुच्छत्रं भेरी फलं सुराः ।
तण्डुला हेमरूप्यञ्च सिद्धयेऽमिमुखा अमी ॥
सकाष्ठः सानलः कारुर्म्मलिनाम्बरभारभृत् ।
गलस्थटङ्को गोमायुर्गृध्रोलूककपर्द्दिकाः ॥
तैलं कपालकार्पासा निषेधो भस्मनष्टये ।
पृष्ठ ५/३०१
विषवेगाश्च सप्त स्युर्धातोर्द्धात्वन्तराप्तितः ॥
विषदंशो ललाटं यात्यतो नेत्रं ततो मुखम् ।
आस्याच्चरणनाभी द्बौ धातून् प्राप्नोति हि
क्रमात् ॥”
इत्याग्नेये २९४ अध्याये लक्षणानि ॥ * ॥
अग्निरुवाच ।
“मन्त्रध्यानौषधैर्दष्टचिकित्सां प्रवदामि ते ।
ॐ नमो भगवते नीलकण्ठायेति ॥
जपनाद्विषहानिः स्यादौषधं जीवरक्षणम् ।
साज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते ॥
जङ्गमं सर्पमूषादि शुङ्गादि स्थावरं विषम् ।
शान्तस्वरान्वितो ब्रह्मा लोहितं तारकः शिवः ॥
विषते नाम मन्त्रोऽयं तार्क्षः शब्दमयः स्मृतः ।
ज्वल महामते हृदयाय । गरुडविलासशिरसे ।
गरुडशिखायै । गरुडविषभञ्जन ३ प्रभेदन ३
वित्रासय ३ विमर्द्दय ३ कवचाय । अप्रति-
हतशासनं वँ ह्रूँ फट् अस्त्राय । उग्ररूप-
धारक सर्व्वभयङ्कर भीषय ३ सर्व्वं दह ३
भस्मीकुरु कुरु स्वाहा नेत्राय ।
सप्तवर्णान्तयुग्माष्टदिग्दलस्वरकेशरात् ।
वर्णरत्नं बहिश्चाभूत् कर्णिकं मातृकाम्बुजम् ।
कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् ॥
अङ्गुष्ठादौ न्यसेद्बर्णान् विषभेदोदिताः कलाः ।
पात्रं वज्रचतुष्कोणं पार्थिवं शक्रदैवतम् ॥
वृत्तार्द्धमाप्यं पद्मार्द्धं शुक्लं वरुणदैवतम् ।
त्र्यस्रं स्वस्तिकयुक्तञ्च भैषजं वह्निदैवतम् ॥
वृत्तबिन्दुवृतं वायुदैवतं कृष्णमानिलम् ।
अङ्गुष्ठाद्यङ्गुलीमध्ये पर्य्यास्तेषु स्ववेश्मसु ॥
सर्वर्णनागवाहनवेष्टितेषु न्यसेत् क्रमात् ।
विषते चतुरो वर्णान् स्वमण्डलसमत्विषः ।
अरूपे वरतन्मात्रे आकाशे शिवदैवते ॥
कनिष्ठामध्यपर्व्वान्ते न्यसेत्तस्याद्यमक्षरम् ।
नागानामादिवर्णांश्च स्वमण्डलगतान्न्यसेत् ॥
भूतादिवर्णान् विन्यस्य अङ्गुष्ठाद्यन्तपर्व्वसु ।
तन्मात्रादिगुणाद्यर्णानङ्गुलीषु न्यसेद्बुधः ॥
स्पर्शनादेव तार्क्ष्येण हस्ते हन्याद्विषद्बयम् ।
मण्डलादिषु तान् वर्णान् विषते करयोजितान् ॥
श्रेष्ठाद्यङ्गुलिभिर्देहनाभिस्थानेषु पर्व्वसु ।
स्रजोन्नतः सवर्णाभमानाभे स्तुहिनप्रभम् ॥
कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरम् ।
ब्रह्माण्डयापिनं तार्क्ष्यं चन्द्राख्यं नागभूषणम् ॥
नीलाग्रनासमात्मानं महापक्षं स्मरेद्बुधः ।
एवं तार्क्ष्यात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे ॥
स्वस्ति तार्क्ष्यकरस्यान्तः स्थिताङ्गुष्ठविषापहा ।
ताक्ष्यहस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात् ॥
कुर्य्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया ।
आकाशादेशभूबीजः पश्चाङ्गाधिपतिर्म्मनुः ॥
संस्तम्भयेति वीषातो भाषया स्तम्भयेद्विषम् ।
व्यत्यस्तभूषया बीजो मन्त्रोऽयं साधुसाधितः ॥
संप्लवः प्लावयशसः शब्दाद्यः संहरेद्विषम् ।
दष्टमुत्थापयेद्वैषं स्वजप्ताम्भोऽभिषेकतः ॥
स्वजप्तशङ्खभेर्य्यादिनिस्वनश्रवणेन वा ।
संददात्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः ॥
भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ ।
अन्तस्थो निजवेश्मस्थो बीजाग्नीन्दुजलाम्बुभिः ॥
एतत् कर्म्म नयेन्मन्त्री गरुडाकृतिविग्रहः ।
तार्क्ष्यवारणगेहस्थस्तर्जनान्नाशयेद्विषम् ॥
जानुदण्डीन्दुमुदितं स्वधाश्रीबीजलाञ्छितम् ।
स्नानपानात् सर्व्वविषजरारोगापमृत्युजित् ॥
पक्षि पक्षि महापक्षि महापक्षि विवि स्वाहा ।
पक्षि पक्षि महापक्षि महापक्षि क्षीक्षी स्वाहा ॥
द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात् ।
पक्षिराजाय विद्महे पक्षिदेवाय धीमहि तन्नो
गरुडः प्रचोदयात् ॥
वह्निस्थौ पार्श्वतत्पूर्व्वौ दन्तश्रीकौ च दन्तिनौ ।
सकलो लाङ्गली चेति नीलकण्ठाद्यमीरितः ॥
वक्षःकण्ठशिखाश्वेतं न्यसेत् स्तम्भे सुसंस्कृतौ ।
हर हर हृदयाय नमः कपर्द्दिने च शिरसे नील-
कण्ठाय वै शिखाम् ॥
कालकूटविषभक्षणाय स्वाहार्थर्व्व वर्म्म च ।
कण्ठिनेत्रं कृत्तिवासं नेत्रैः प्रत्येकशस्त्रिभिः ।
पूर्व्वाद्यैराननैर्युक्तं श्वेतपीतारुणासितैः ॥
अभयं वरदञ्चापं वासुकिञ्च दधद्भजः ।
यज्ञोपवीतपार्श्वन्तु गौरी रुद्रोऽस्य देवता ॥
पादजानुगुहानाभिहृत्कण्ठाननमूर्द्धसु ।
मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ॥
तर्ज्जन्यादितदन्तासु सर्व्वमङ्गुष्ठयोर्न्यसेत् ।
ध्यात्वैवं संहरेत् क्षिप्रं बद्धया मूलमुद्रया ॥
कनिष्ठा ज्येष्ठया बद्ध्वा तिस्रोऽन्याः प्रसृतिर्जवः ।
विषनाशो वामहस्तमन्यस्मिन् दक्षिणं करम् ॥
नमो भगवते नीलकण्ठाय चिः । अमलकण्ठाय
चिः सर्व्वज्ञकण्ठाय चिः क्षिप ओम् स्वाहा ॥
नमो नीलकण्ठाय नैकसर्व्वविषापहाय । नमस्ते
रुद्रमन्यव इति सम्मार्ज्जनाद्विषं विनश्यति ॥
न सन्देहः कर्णजाप्या उपनेत्रा विधानतः ।
यजेद्रुद्रविधानेन नीलग्रीवं महेश्वरम् ।
विषव्याधिविनाशः स्यात् कृत्वा रुद्र विधानतः ॥”
इत्याग्नेये महापुराणे दष्टचिकित्सा नाम २९५
अध्यायः ॥ * ॥ * ॥ यात्राकाले तस्य शुभा-
शुभसूचकत्वं यथा, --
“गोनासदर्व्वीकरराजिलाद्या
जात्यैव सर्व्वे भयदा भुजङ्गाः ।
विलोक्य सर्पं यदि निर्व्विकल्प्या
निवृत्तविप्रस्य शुभं विचिन्त्यम् ॥
पाषाणसंस्तम्भितकण्टकेषु
दत्त्वा पदं यान्ति विनण्टविघ्नाः ।
सर्पेच्छया पञ्चनखाभिधेयः
प्रयाणकाले स तु वामभागे ।
दृष्टः शुभैः सिद्धिकृदुन्नताग्र-
स्तिष्ठेत् पथार्द्ध यदि राज्यलाभः ॥”
इति सर्पः । इति वसन्तराजशाकुने १५ वर्गः ॥

सर्पकङ्कालिका, स्त्री, (सर्पकङ्काली एव । स्वार्थे

कन् ।) वृक्षविशेषः । तत्पर्य्यायः । तीक्ष्णा २
विषदंष्ट्रा ३ विषापहा ४ । इति रत्नमाला ॥
सहा ५ सर्पकङ्काली ६ विषनाशिनी ७ । इति
शब्दचन्द्रिका ॥

सर्पकङ्काली, स्त्री, (सर्पस्य कङ्कालमिवाङ्गं यस्याः ।

ङीष् ।) सर्पकङ्कालिका । इति शब्दचन्द्रिका ॥

सर्पगन्धा, स्त्री, (सर्पं गन्धयते हिनस्तीति । गन्ध

हिंसने + अण् । टाप् ।) वृक्षवेशेषः । यथा,
“छत्राकी सर्पगन्धा च रसना च पलङ्कषा ॥”
इति जटाधरः ॥

सर्पघातिनी, स्त्री, (सर्पं हन्तीति । हन + णिनिः ।

ङीष् ।) सर्पकङ्कालीभेदः । यथा, --
“सर्पसहा सर्पनामा सर्पाङ्गी सर्पघातिनी ॥”
इति रत्नमाला ॥

सर्पतृणः, पुं, (सर्पस्तृणमिव च्छेद्यो यस्य ।)

नकुलः । इति हेमचन्द्रः ॥

सर्पदंष्ट्रः, पुं, (सर्पस्य द्रंष्ट्रेव पुष्पमस्य ।) दन्ती-

वृक्षः । इति शब्दचन्द्रिका ॥

सर्पदंष्ट्रा, स्त्री, (सर्पस्य द्रंष्ट्रेव ।) वृश्चिकाली ।

इति रत्नमाला ॥

सर्पदंष्ट्रिका, स्त्री, (सर्पदंष्ट्रा + स्वार्थे कन् । टापि

अत इत्वम् ।) अजशृङ्गी । इति राजनिर्घण्टः ॥

सर्पदण्डा, स्त्री, (सर्पं दण्डयतीति । दण्ड + अण् ।

टाप् ।) सैंहली । इति राजनिर्घण्टः ॥

सर्पदण्डी, स्त्री, (सर्पं दण्डयतीति । दण्ड + अण् ।

ङीष् ।) गोरक्षी । इति राजनिर्घण्टः ॥

सर्पदन्ती, स्त्री, (सर्पस्य दन्त इव पुष्पमस्याः ।

गौरादित्वात् ङीष् ।) नागदन्ती । इति राज-
निर्घण्टः ॥

सर्पदमनी, स्त्री, (सर्पस्य दमनमस्याः । ङीष् ।)

वन्ध्याकर्क्कोटकी । इति राजनिर्घण्टः ॥

सर्पनामा, स्त्री, (सर्पस्य नाम नाम यस्याः ।)

सर्पकङ्कालीभेदः । इति रत्नमाला ॥

सर्पपुष्पी, स्त्री, (सर्पस्य दन्त इव पुष्पमस्याः ।

ङीष् ।) नागदन्ती । इति राजनिर्घण्टः ॥

सर्पफणजः, पुं, (सर्पस्य फणात् जायते इति ।

जन + डः ।) सर्पफणजातमणिः । इति शब्द-
रत्नावली ॥

सर्पभुक्, [ज्] पुं, (सर्पं भुङ्क्ते इति । भुज + क्विप् ।)

मयूरः । इति हेमचन्द्रः ॥ सर्पभक्षके, त्रि ॥

सर्पमाला, स्त्री, (सर्पस्य मालेव ।) सर्पकङ्काली-

भेदः । इति काचित् रत्नमाला ॥ सर्पनामा
इति साधुपाठः ॥

सर्पराजः, पुं, (सर्पाणां राजा । समासे टच् ।)

वासुकिः । इत्यमरः । १ । ८ । ४ ॥ (सर्पश्रेष्ठे,
त्रि । यथा, हरिवंशे ६८ । १५ ।
“एष मोहं गतः कृष्णो मग्नो वैकालिये ह्रदे ।
भक्ष्यते सर्पराजेन तदागच्छत मारिचम् ॥”)

सर्पलता, स्त्री, (सर्प इव लता ।) नागवल्ली ।

इति राजनिर्घण्टः ॥