सामग्री पर जाएँ

शब्दकल्पद्रुमः/सनपर्णी

विकिस्रोतः तः
पृष्ठ ५/२३८

सनपर्णी, स्त्री, (सनस्य पर्णमिव पर्णमस्याः ।

पाककर्णेति ङीष् ।) असनपर्णी । इति शब्द-
रत्नावली ॥

सनसूत्रं, क्ली, (सनस्य सूत्रम् ।) पवित्रकम् । द्वे

शणसूत्रजाले । शणस्य सूत्रं शणसूत्रं शणति
ददाति सूत्रं शणः । शण श्रन्म दाने अन् शण-
स्तालव्यादिमूर्द्धन्यणान्तः । इति बहवः । सनो
दन्त्यसादिर्दन्त्यनान्तः । इति केचित् । तन्मते
षन दु ञ दाने इत्यस्य रूपम् । सणो दन्त्य-
सादिर्मूर्द्धन्यणान्त इत्यपरे । सण किण मणि
काकण कोण काणा इति मूईन्यणान्ते विद्या-
भरणः ।
“कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत् ।
सनसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥”
इति मनुवचनात् पवित्रकमपि तदुच्यते । इत्य-
मरटीकायां भरतः ॥

सना, व्य नित्यम् । इत्यमरः ॥ (यथा, ऋग्वेदे ।

३ । ५४ । ९ ।
“सना पुराणमध्ये म्यारात् ॥”)

सनात्, व्य, नित्यम् । इत्यमरटीकायां रामाश्रमः ॥

(चिरात् । यथा, ऋग्वेदे । ४ । २० । ६ ।
“सनादेव सहसे जात उग्रः ॥”
“सनादेव चिरादेव जात उत्पन्नः ॥” इति तद्
भाव्ये सायणः ॥) विष्णुः । इति तस्य सहस्र-
नामस्तोत्रम् ॥

सनातनः, पुं, (सना भवः । “सायञ्चिरंप्राह्ले

प्रगे इति ।” ४ । ३ । २३ । इति ट्युट्युलौ तुट्
च ।) विष्णुः । शिवः । ब्रह्मा । पितॄणामतिथिः ।
इति हेमचन्द्रः ॥ दिव्यमनुष्यः । अस्य प्रमाणं
सनन्दशब्दे द्रष्टव्यम् । स च ब्रह्मणः पुत्त्रः ।
यथा, --
“सनत्कुमारो धर्म्मश्च सनकश्च सनातनः ।
सनन्दश्चापि सूर्य्यश्च येऽन्ये वा ब्रह्मणः सुताः ॥
विचक्षणा न यद्वक्तुं के वान्ये जडबुद्धयः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३१ अध्यायः ॥
स तु जनलोकवासी । इति काशीखण्डम् ॥
वह्निपुराणमते तु तपोलोकस्थ इति भेदः ।
वैष्णवराजः । इति मत्स्यपुराणम् ॥

सनातनः, त्रि, (सनाभवः । सायञ्चिरमिति ट्युट्युलौ

तुट् च ।) नित्यम् । इत्यमरः ॥ सुनिश्चलः ।
इति विश्वः ॥ (यथा, मनुः । ७ । ९८ ।
“एषोऽनुपस्कृतः प्रोक्तो योधधर्म्मः सनातनः ।
अस्माद्धर्म्मान्न च्यवेत क्षत्त्रियो घ्नन् रने
रिपून् ॥”)

सनातनतमः, पुं, (अयमेषामतिशयेन सनातनः ।

तमप् ।) विष्णुः । इति महाभारते तस्य
सहस्रनामस्तोत्रे । १३ । १४९ । १०९ ॥

सनातनी, स्त्री, (सनतन + टित्वात् ङीष् ।)

दुर्गा । लक्ष्मीः । सरस्वती । इति शब्दरत्ना-
वली ॥ तस्या व्युत्पत्तिर्यथा, --
“सर्व्वकाले सना प्रोक्ता विद्यमाने तनीति च ।
सर्व्वत्र सर्व्वकालेषु विद्यमाना सनातनी ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥
अपि च ।
“निर्गुणस्य च नित्यस्य बाचकश्च सनातनः ।
सदा नित्या निर्गुणा या कीर्त्तिता सा सना-
तनी ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २७ अध्यायः ॥
अन्यच्च ।
“स्थितिं करोति भूतानां सैव काले सनतनी ।”
इति देवीमाहात्म्यम् ॥

सनाथा, स्त्री, (नाथेन सह वर्त्तमाना ।) जीवद्-

भर्त्तृका । इति जटाधरः ॥ (प्रभुविशेष्टे, त्रि ।
यथा, भागवते । १ । ११ । ८ ।
“अहो सनाथा भवता स्म यद्वयं
त्रैपिष्टपानामपि दूरदर्शनम् ।
प्रेमस्मितस्मिग्धनिरीक्षणाननं
पश्येम रूपं तव सर्व्वसौभगम् ॥”)

सनाभिः, पुं, (समानो नाभिर्गोत्रमस्य । “ज्योति-

र्जनपदेति ।” ६ । ३ । ८५ । इति समानस्य
सः ।) सपिण्डः । ज्ञातिः । इत्यमरमेदिनीकरौ ॥
(यथा, मनुः । ५ । ७२ ।
“यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥”)

सनाभिः, त्रि, (समानो नाभिर्यस्येति । समानस्य

सः ।) तुल्यः । इति मेदिनी ॥ स्नेहयुक्तः । इति
शब्दरत्नावली ॥

सनामकः, पुं, शोभाञ्जनः । इति शब्दचन्द्रिका ॥

(समानं नाम यस्य ।) समाननामयुक्ते, त्रि ॥
(यथा, हरिवंशे । ३१ । १४ ।
“स तासु जनयामास पुत्त्रिकासु सनामकान् ।
दश पुत्त्रान् महात्मासौ तपस्युग्रे रतान् सदा ॥”)

सनिः, पुं, (सन + “खनिकष्यञ्जीति ।” उणा०

४ । १३९ । इति इः ।) पूजा । दानम् । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे ।
१ । १०० । १३ ।
“तं सचन्ते सनयस्तं धनानि ॥”
“सनयो धनस्य दानानि सचन्ते सेवन्ते ।” इति
तद्भाष्ये सायणः ॥)

सनिः, पुं, स्त्री, (सन + “खनिकष्यञ्जीति ।” उणा०

४ । १३९ । इति इः ।) अध्येषणा । इत्यमरः ॥
गुर्व्वादेः सत्कारपूर्व्वकं क्वचिदर्थे नियोजनम् ।
तच्च हे गुरो अस्माकं कर्म्म कुर्व्वि त्यादिरूपम् ।
सायते दीयते पुष्पादिकमत्र सनिः षन दु ञ
दाने नाम्नीति इः पाच्छोणादीति ईपि सनी
च । अन्वेषणादिवदध्येषणा । इति भरतः ॥
दिक् । इति शब्दमाला ॥

सनितः, त्रि, प्रतिपन्नः । इति हेमचन्द्रः ॥

सनिष्ठीवं, क्ली, (निष्ठीवेन सह वर्त्तमानम् ।)

सनिष्ठेवम् । इत्यमरटीकायां भरतः ॥

सनिष्ठेवं, क्ली, अम्बुकृतम् । इत्यमरः ॥ निष्ठेवो

मुखवारिबिन्दुः तेन सह वर्त्तते इति सनिष्ठेवं
निपूर्व्वष्ठिवेर्घञ् गुणः सनिष्ठीवमिति क्वचित्
पाठो लिपिकरप्रमादादिति मुकुटः । इत्यमर-
टीकायां भरतः ॥

सनी, स्त्री, (सन + इः । वा ङीष् ।) सनिः ।

इत्यमरटीकायां भरतः ॥ हस्तिकर्णास्फालः ।
इति शब्दरत्नावली ॥

सनीडः, त्रि, (नीडेन वासस्थानेन सह वर्त्तमानः ।)

निकटः । इत्यमरः ॥ (यथा, भट्टिः । ५ । ३१ ।
“सम्पत्य तत्सनीडेऽसौ तं वृत्तान्तमशिश्रवत् ॥”)
नीडयुक्तश्च ॥

सन्तः, पुं, संहतलः । इति शब्दचन्द्रिका ॥ सच्छ-

ब्दस्य प्रथमाबहुवचनान्तरूपञ्च ॥ (यथा,
रघुः । १ । १० ।
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि
वा ॥”)

सन्त्रतं, क्ली, (सम् + तन + क्तः । समो वा हित-

ततयोः इति पक्षे मलोपाभावः ।) सततम् ।
तद्वति, त्रि । इत्यमरः ॥

सन्तताभ्यासः, पुं, (सन्ततं यथा तथा अभ्यासः ।)

निरन्तराभ्यासः । यथा । स्वाध्यायः सन्तता-
भ्यासः । इति भूरिप्रयोगः ॥

सन्ततिः, स्त्री, (सम् + तन + क्तिन् ।) गोत्रम् ।

इत्यमरः ॥ (यथा, रघुः । १ । ६९ ।
“सन्ततिः शुद्धवंश्याहि परत्रेह च शर्म्मणे ॥”)
पंक्तिः । (यथा, कथासरित्सागरे । ११ । ५१ ।
“तत् श्रुत्वा नेत्रयुगलात् सरागादश्रुसन्ततिम् ।
हृदयाद्धीरताञ्चापि समं कन्या मुमोच सा ॥”)
विस्तारः । (यथा, भागवते । १ । ४ । १९ ।
“व्यदधात् यज्ञसन्तत्यै वेदमेकं चतुर्व्विधम् ॥”)
परस्पराभवः । पुत्त्रः । कन्या । इति विश्वः ॥
(यथा, स्मृतिः ।
“सन्तत्या पितॄणन्तु शोधयित्वा परिव्रजेत् ॥”)

सन्तप्तः, त्रि, (सम् + तप + क्तः ।) अध्वगमना-

दिना श्रान्तः । तत्पर्य्यायः । सन्तापितः २
धूपितः ३ धूपायितः ४ दूनः ५ । इत्यमरः ॥
तप्तः ६ । इति शब्दरत्नावली ॥ अग्निजताप-
युक्तः । यथा, --
“आदिक्षदादीप्तकृशानुकल्पं
सिंहासनं तस्य सपादपीठम् ।
सन्तप्तचामीकरवल्गुवज्रं
विभागविन्यस्तमहार्घरत्नम् ॥”
इति भट्टिकाव्ये ३ सर्गः ॥

सन्तमसं, क्ली, (समन्तात् तमः । “अवसमन्धेभ्य-

स्तमसः ।” ५ । ४ । ७९ । इति अच् । विश्वक्-
तमः । व्यापकान्धकारः । इत्यमरः ॥ (यथा,
माघे । ९ । २२ ।
“अवधार्य्य कार्य्यगुरुतामभव-
न्न भयाय सान्द्रतमसन्तेमसम् ॥”)
मोहः । यथा, --
पृष्ठ ५/२३९
“ममापि किं नो दयसे दयाधन
त्वदङ्घ्रिमग्नं यदि वेत्थ मे मनः ।
निमज्जयन् सन्तमसे पराशयं
विधिस्तु वाच्यः क्व तवागसः कथा ॥”
इति नैषधे ९ सर्गः ॥

सन्तर्पणं, क्ली, (सन्तर्पयति इन्द्रियाणीति । सं +

तृप् + णिच् + ल्युः ।) द्राक्षादाडिमखर्ज्जुरी-
कदलीशर्करालाजाचूर्णमध्वाज्य-संमिलितम् ।
इति राजनिर्घण्टः ॥ तृप्तिकारके, त्रि । यथा,
“पुण्यो महाब्रह्मसमूहजुष्टः
सन्तर्पणो नांकसदां वरेण्यः ।
जज्वाल लोकस्थितये स राजा
यथाध्वरे वह्निरभिप्रणीतः ॥”
इति भट्टिकाव्ये १ सर्गः ॥

सन्तानः, पुं, (सन्तनोति विस्तारयति पत्रपुष्पादी-

निति । सम् + तन विस्तारे + “तनोतेरुप-
संख्यानम् ।” ३ । १ । १४० । इत्यस्य वार्त्ति-
कोक्त्या णः ।) कल्पवृक्षः । (संतन्यते इति ।
तन + घञ् ।) वंशः । इत्यमरः ॥ विस्तारः ।
(यथा, महाभारते । १ । १०३ । १० ।
“तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः ।
मन्नियोगात् महाबाहो धर्म्मं कर्त्तुमिहार्हसि ॥”)
अपत्यम् । इति मेदिनी ॥ (यथा, मनुः । ९ । ५९ ।
“देवराद्वा सपिण्डाद्वा स्त्रिया सम्यक् नियुक्तया
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥”)
तद्वैदिकपर्य्यायः । तुक् १ तोकम् २ तनयः ३
तोक्म ४ तक्म ५ शेषः ६ अप्नः ७ गयः ८ जाः
९ अपत्यम् १० यहुः ११ सूनुः १२ नपात् १३
प्रजा १४ बीजम् १५ । इति पञ्चदशापत्य-
नामानि । इति वेदनिघण्टौ । २ । २ ॥ (अस्त्र-
विशेषे, क्ली । यथा, महाभारते । ५ । ९६ । ४० ।
“सन्तानं नर्त्तकं घोरमास्यमोदकमष्टमम् ।
एतैर्विद्धाः सर्व्व एव मरणं यान्ति मानवाः ॥”

सन्तानिका, स्त्री, (सन्तानो विस्तारोऽस्त्यस्या

इति । सन्तान + ठन् ।) क्षीरसरः । मर्कट-
जालकः । छुरिकाफलम् । फेनः । इति हारा-
वली ॥ आद्यस्य गुणाः ।
“सन्तानिकागुरुः शीता वृष्या पित्तास्रवातजित्”
इति राजनिर्घण्टः ॥
मिष्टान्नविशेषः । सरभाजा इति भाषा । तत्-
करणप्रकारो यथा । दुग्धं शरावचतुष्टयं शर्क्क-
रार्द्धशरावपरिमिताघृतं शरावपादैकञ्च गृहीत्वा
तद्दुग्धे आवर्त्तनेन घनीभूते उष्णेस्थिते मन्थान-
दण्डेन मथनेन बहुतरफेनो भविष्यति । तत्फेन
सहितदुग्धस्य तप्ताङ्गारपरिरक्षणात् सरो
जायते । तं सरमस्त्रेण चतुष्कोणाकृतिं निर्म्माय
घृतेन भृष्ट्वा एकतारवद्धशर्क्करारसेमग्नं कुर्य्यात्
किन्तु तत्राधिकक्षणं न रक्षेत् । इति पाक-
राजेश्वरः ॥ (जालकरज्जुः । यथा, सुश्रुते । १ । १ । ८
“अत ऊर्द्धं व्रणबन्धनद्रव्याण्युपदेक्ष्यामः । तद्-
यथा क्षौमकार्प्पास-* * विदलरज्जुतूलफल-
सन्तानिकालौहानीति ॥”)

सन्तापः, पुं, (सं + तप + धञ् ।) अग्निज-

तापः । तत्पर्य्यायः । संज्वरः २ । इत्यमरः ॥
तापः ३ प्रोषः ४ उष्णा ५ । इति राजनिर्घण्ढः ॥
सम्यक् तापनञ्च ॥ (यथा, कथासरित्सागरे ।
१५ । ७५ ।
“जन्मना ज्वरसन्तापपीडा गाढमवाप सः ॥”
दुःखम् । यथा, भागवते । ६ । १४ । ४१ ।
“दासीनां कोऽनुसन्तापः स्वामिनः परि-
चर्य्यया ।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥”

सन्तापनः, पुं, (सन्तापयतीति । सं + तप +

णिच् + ल्युः ।) कामदेवस्य पञ्चबाणान्तर्गत-
बाणविशेषः । इति त्रिकाण्डशेषः ॥ सम्यक्-
तापकारके, त्रि ॥ (यथा, भागवते । ७ । १० । २६ ।
“दिष्ट्या ते निहतः पापो लोकसन्तापनो-
ऽसुरः ॥”)

सन्तापितः, त्रि, (सं + तप + णिच् + क्तः ।

अध्वादिना श्रान्तः । इत्यमर-भरतौ ॥ अस्य
पर्य्यायः सन्तप्तशब्दे द्रष्टव्यः ॥

सन्तिः, स्त्री, (सनु दाने + क्तिच् । “सनः क्तिचि

लोपश्चास्यान्यतरस्याम् ।” ६ । ४ । ४५ । इति
नलोपाभावः ।) दानम् । अवसानम् । इत्य-
मरे सातिशब्दटीकायां नीलकण्ठः ॥ सतिश्च
सातिश्च सतिसाती । सनोतेराशिषि तिगन्तस्य
एतौ निपात्यौ । पक्षे सनुतात् इति वाक्ये
तिकिकृते हवत्रतेरिति इम्निषेधे वनतनेत्यत्र
तिकिवर्ज्जनात् नलोपाभावे सन्तिः । इति
मुग्धबोधटीकायां दुर्गादासः ॥ सन्तिशब्दो
निर्विसर्गश्चेत् अस ल भावे इत्यस्मात् अन्ति-
प्रत्ययेन निष्पन्नः । यथा, --
“सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् ।”
इति महाभारते विराटपर्व्व ॥

सन्तुष्टः, त्रि, (सं + तुष + क्तः ।) सन्तोषयुक्तः ।

यथा, --
“गच्छध्वममराः सर्व्वे गृहीत्वार्च्चां स्वमालयम्
सन्तुष्टा वरमस्माकं दत्त्वेदानीं सुपूजिताः ॥”
इति छन्दोगवृषोत्सर्गतत्त्वम् ॥

सन्तोषः, पुं, (सं + तुष + घञ् ।) सन्तुष्टिः । तत्-

पर्य्यायः । धृतिः २ स्वास्व्यम् ३ । इति हेम-
चन्द्रः ॥ (यथा, हितोपदेशे ।
“सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम्
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥”)

सन्दंशः, पुं, (सन्दशतीवेति । सं + दन्श + अच् ।)

कङ्कमुखः । इति हेमचन्द्रः ॥ साँडासी इति
भाषा ॥ (यथा, मार्कण्डेये । २४ । ६३ ।
“निपातितानां भूपृष्ठे उद्वॄत्याक्षि निरीक्षताम्
सन्दंशैः पश्य कृष्यन्ते नरैर्याम्यैर्मुखात्ततः ॥”
वैद्यशास्त्रोक्तयन्त्रविशेषः । यथा, सुश्रुते । १ । ७ ।
“तत्र मनःशरीरावाधकराणि शल्यानि तेषा-
माहरणोपायो यन्त्राणि । तानि षट्प्रकाराणि ।
तद्यथा । स्वस्तिकयन्त्राणि । सन्दंशयन्त्राणि ।
      • द्वे सन्दंशयन्त्रे *** सनिग्रहोऽनिग्रश्च
सन्दंशौ षोडशाङ्गुलौ भवतस्त्वग्मांसशिरास्नायु-
गतशल्योद्धरणार्थमुपदिश्येते ॥”)

सन्दंशिका, स्त्री, (सन्दं शतीवेति । सं + दंश +

ण्वुल् । टापि अत इत्वम् ।) सुचुटी । साँडासी
इति चिम्टा इति च भाषा । लौहयन्त्रविशेषः ॥
कातारि इति भाषा । इति मेदिनी ॥

सन्दर्भः, पुं, (सं + दृभ ग्रन्थने + घञ् ।) रचना ।

इति हलायुधः ॥ (यथा, आर्य्यासप्तशत्याम् ।
७०० ।
“कविसमरसिंहनादः स्वरानुवादः सुधैक-
संवादः ।
विद्वद्विनोदकन्दः सन्दर्भोऽयं मया सृष्टः ॥”)
प्रबन्धः । इति त्रिकाण्डशेषः ॥ ग्रन्थनम् ।
यथा, --
“सन्दर्भो रसना गुम्फः श्रन्थनं ग्रन्थनं समाः ।”
इति हेमचन्द्रः ॥
तस्य लक्षणं यथा, --
“गूढार्थस्य प्रकाशश्च सारोक्तिः श्रेष्ठता तथा ।
नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते बुधैः ॥”
इति रूपसनातनगोस्वामिकृतश्रीभागवतीय-
षट्सन्दर्भस्य प्रथमसन्दर्भकारिका ॥

सन्दर्शनं, क्ली, (सं + दृश + ल्युट् ।) सम्यक्-

प्रकारेण दनर्शम् । यथा, --
“सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः ।
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
(सं + दृश + णिच् + ल्युट् । कारितदर्शनम् ।
यथा, महाभारते । १ । २ । १८० ।
“अस्त्रसन्दर्शदारम्भो धर्म्मराजस्य सन्निधौ ॥”)

सन्दानं, क्ली, (सं + दा + ल्युट् ।) दाम । इत्य-

मरः ॥ सम्यग्दानञ्च ॥

सन्दानः, पुं, गजस्याष्ठीवतोरधोभागः । इति

त्रिकाण्डशेषः ॥

सन्दानिका, स्त्री, अरिखदिरः । इति राज-

निर्घण्टः ॥

सन्दानितः, त्रि, (सन्दानं जातमस्येति । सन्दानं +

इतच् ।) बद्धः । इत्यमरः ॥

सन्दानिनी, स्त्री, गोगृहम् । इति हेमचन्द्रः ॥

गोयालि इति भाषा ॥

सन्दावः, पुं, (सं + दु + “समि युद्रुदुवः ।” ३ ।

३ । २३ । इति घञ् ।) पलायनम् । इत्यभरः ॥

सन्दाहः, पुं, (सं + दह + घञ् ।) मुखताल्वोष्ठ-

दाहः । इति राजनिर्घण्टः ॥

सन्दिग्धः, त्रि, (सं + दिह + क्तः ।) सन्देहयुक्तः ।

यथा, --
“न तावत् सन्दिग्धसाध्यधर्म्मत्वं पक्षत्वमिति
पक्षतामूलम् ॥”

सन्दिग्धमतिः, त्रि, सन्देहविषयीभूतबुद्धियुक्तः ।

सन्दिग्धा मतिर्यस्य इति बहुब्रीहिसमास-
निष्पन्नः ॥

सन्दिग्धार्थः, पुं, (सन्दिग्धोऽर्थः ।) सन्देहविषयी-

भूतार्थः । (सन्दिग्धोऽर्थो यस्य ।) तद्विशिष्टे त्रि ॥
पृष्ठ ५/२४०

सन्दितः, त्रि, (सं + दो अवखण्डने + क्तः ।) बद्धः ।

इत्यमरः ॥

सन्दिष्टं, क्ली, (सं + दिश + क्तः ।) वार्त्ता । इति

शब्दरत्नावली ॥ कथिते, त्रि ॥

सन्दिष्टार्थः, पुं, (सन्दिष्टोऽर्थो यस्य ।) सन्देश-

हरः । इति केचित् ॥

सन्दिहानः, त्रि, (सं + दिह + शानच् ।) सन्दिग्धः ।

यथा, जटाधरः ।
“सन्दिहानः सांशयिकः संशयापन्नमानसः ॥”

सन्दी, स्त्री, खट्टा । यथा । निषद्या खट्टिका

सन्दी । इति त्रिकाण्डशेषः ॥

सन्दीप्यः, पुं, मयूरशिखावृक्षः । इति शब्द-

चन्द्रिका ॥

सन्देशः, पुं, (सं + दिश + घञ् ।) संवादः !

इति शब्दरत्नावली ॥ (यथा, मेघदूते । ७ ।
“सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् ॥”)
स्वनामख्यातमिष्टान्नविशेषश्च ॥

सन्देशवाक्, [च्] स्त्री, (सन्देश एव वाक् ।)

संवादः । तत्पर्य्यायः । वाचिकम् २ । इत्यमरः ॥

सन्देशहरः, पुं, (हरतीति । हृ + अच् । सन्दे-

शस्य हरः ।) दूतः । इत्यमरः ॥ (यथा,
रघुः । ३ । ६६ ।
“तवैव सन्देशहरात् विशांपतिः ।
शृणोति लोकेश ! तथा विधीयताम् ॥”)

सन्देशहारकः, पुं, (सन्देशं संवादं हरतीति ।

हृ + ण्वुल् ।) दूतः । इति हेमचन्द्रः ॥

सन्देहः, पुं, (सं + दिह + घञ् ।) एकधर्म्मिक-

विरुद्धभावाभावप्रकारकं ज्ञानम् । इति सिद्धा-
न्तमुक्तावली ॥ तत्पर्य्यायः । विचिकित्सा २
संशयः ३ द्वापरः ४ । इत्यमरः ॥ (यथा,
महाभारते । ३ । ५७ । ११ ।
“तान् समीक्ष्य ततः सर्व्वान् निर्विशेषाकृतीन्
स्थितान् ।
सन्देहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ॥”)

सन्दोहः, पुं, (सं + दुह + घञ् ।) समूहः । इत्य-

मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ५८९ ।
“स्तननूतननखलेखालम्बी तव घर्म्मबिन्दु-
सन्दोहः ।
आभाति पट्टसूत्रे प्रविशन्निव मौक्तिक-
प्रसरः ॥”)

सन्द्रावः, पुं, (सं + द्रु + “समि युद्रुदुवः ।” ३ । ३ ।

२३ । इति घञ् ।) पलायनम् । इत्यमरः ॥

सन्धा, स्त्री, (सं + धा + अङ् ।) स्थितिः । प्रतिज्ञा ।

इति मेदिनी ॥ (यथा, रघुः । १४ । ५२ ।
“गङ्गां निषादाहृतनौविशेष-
स्ततार सन्धामिव सत्यसन्धः ॥”)
सन्धानम् । इति शब्दरत्नावली ॥ सन्ध्या ।
यथा । सन्धा द्बिजमैत्री पितृप्रसूः । इति
भरतधृतवाचस्पतिः ॥

सन्धानं, क्ली, (सन्धीयते यदिति । सं + धा + ल्युट् ।)

मद्यसज्जीकरणम् । इति नयनानन्दः ॥ तत्-
पर्य्यायः । अभिषवः २ । इत्यमरः ॥ सन्धानी ३
सन्धिका ४ । इति शब्दरत्नावली ॥ सन्धीयते
सन्धानं वंशाङ्कुरफलादीन् बहुकालं सन्धाय,
यत् क्रियते । इति भरतः ॥ सङ्घट्टनम् । इति
मेदिनी ॥ (यथा, कुमारे । ५ । २७ ।
“मुखेन सा पद्मसुगन्धिना निशि
प्रवेपमानाधरपत्रशोभिना ।
तुषारवृष्टिक्षतपद्मसम्पदां
सरोजसन्धानमिवाकरोदपाम् ॥”)
काञ्जिकम् । इति हलायुधः ॥ मदिरा । अव-
दंशः । सौराष्ट्रम् । इति राजनिर्घण्टः ॥
धनुषि बाणयोजनम् । यथा, --
“तदाशु कृतसन्धानं प्रतिसंहर शायकम् ।
आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि ॥”
इत्यभिज्ञानशकुन्तलायाम् १ अङ्कः ॥
अन्वेषणम् । इति लोकप्रसिद्धम् ॥ (सन्धिः ।
यथा महाभारते । ५ । १० । ३३ ।
“एवं कृते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ।
यत्तः समभवच्चापि शक्रो हर्षसमन्वितः ॥”)
सन्दधातीति । सं + धा + ल्युः । धारके, त्रि ।
यथा, सुश्रुते । १ । ४५ ।
“मधु तु मधुरं कषायानुरसं * * हृद्यं सन्धानं
शोधनं रोपणमिति ॥”)

सन्धानिका, स्त्री, (सन्धानमस्त्यस्या इति सन्धान

+ ठन् ।) खाद्यद्रव्यविशेषः । आचार इति
भाषा । तत्करणप्रकारको यथा । अपक्वाम्र-
फलानि विंशतिः राजिका शरावषोडशैकभाग-
मिता मरिचं तोलकद्वयं लवणं षट्तोलकं
मेथिकाद्वितोलकं जीरकं तोलकद्वयं हरिद्रा-
तोलकैकं नागरमुस्तकमेकतोलकं कृष्णजीरकं
तोलकैकं गृतीत्वा आम्रभिन्नं सकलद्रव्यं चूर्ण-
यित्वा एकत्रीकुर्य्यात् । आम्रन्तु दीर्घं द्विखण्डं
चतुष्खण्डं वा कृत्वा अष्ठीं दूरीकृत्य तदभ्यन्तरे
पूर्व्वोक्तचूर्णं पूरयित्या शलाकया विद्धाखण्डा-
म्रवत् कुर्य्यात् । ततस्तैले निमज्जयेत् । इति
पाकराजेश्वरः ॥

सन्धानितः, त्रि, सन्धानविशिष्टः । सङ्घट्टितः ।

सन्धानशब्दादितप्रत्ययेन निष्पन्नः ॥

सन्धानिनी, स्त्री, गोगृहम् । इति केचित् ॥

सन्धानी, स्त्री, (सन्धीयते यस्यामिति । सं + धा +

ल्युट् । ङीप् ।) कुप्यशाला । इति हेमचन्द्रः ॥
सन्धानम् । इति शब्दरत्नावली ॥

सन्धिः, पुं, (सन्धानमिति । सं + धा + किः ।)

राजादीनां षड्गुणान्तर्गतगुणविशेषः । स तु
स्वर्णादिदानेन बन्धुभिः प्रीत्युत्पादनात् मित्री-
करणम् । मेल इति ऐक्य इति च भाषा ।
तद्विवरणं यथा, --
“पनबद्धो भवेत् सन्धिः स्वयं हीनस्तमाचरेत् ।
मर्य्यादोल्लङ्घनं नास्ति यदि शत्रोरिति स्थितिः ॥
मर्य्यादोल्लङ्घनं यत्र शत्रौ संशयितं भवेत् ।
न तं संशयितं कुर्य्यादित्युवाच बृहस्पतिः ॥
बलवद्विगृहीतः सन् नृपोऽनन्यप्रतिश्रयः ।
आपन्नः सन्धिभावेन विदध्यात् कालयाप-
नाम् ॥
ये च दैवेनोपहता राष्ट्रं येषाञ्च दुर्गतम् ।
बहवो रिपवो येषां तेषां सन्धिर्विधीयते ॥
दुर्म्मन्त्रो भिन्नमन्त्रश्च नीचधर्म्मरतश्च यः ।
एतैः सन्धिं न कुर्व्वीत विशेषात् पूर्वपीडितैः ।
सन्धिं हि तादृशैः कुर्व्वन् प्राणैरपि हि हीयते ॥”
इति भोजराजकृतयुक्तिकल्पतरुः ॥ * ॥
षोडशविधसन्धिर्यथा, --
“बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः ।
आपन्नः सन्धिमन्विच्छेत् कुर्व्वाणः कालयापनम्
कपाल १ उपहारश्च २ सन्तानः ३ सङ्गत-४
स्तथा ।
उपन्यासः ५ प्रतीकारः ६ संयोगः ७ पुरुषा-
न्तरः ८ ॥
अदृष्टनर ९ आदिष्ट १० आत्मादिष्ट ११
उपग्रहः १२ ।
परिक्रय-१३ स्तथोच्छिन्न-१४ स्तथा च
परभूषणः १५ ॥
स्कन्धोपनेयः १६ सन्धिश्च षोडशैते प्रकीर्त्तिताः
इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥”
तेषां लक्षणानि । यथा, --
“कपालसन्धिर्विज्ञेयः केवलं समसन्धितः । १ ।
सम्प्रदानाद्भवति य उपहारः स उच्यते ॥ २ ॥
सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्व्वकः । ३
सद्भिस्तु सङ्गतः सन्धिर्म्मैत्रीपूर्व्वं उदाहृतः ॥
यावदायुःप्रमाणस्तु समानार्थप्रयोजनम् ।
सम्पत्तौ वा विपत्तौ वा कारणैर्यो त भिद्यते ॥
सङ्गतः सन्धिरेवायं प्रकृष्टत्वात् सुवर्णवत् ।
तथान्यैः सन्धिकुशलैः काञ्चनः स उदाहृतः ॥ ४ ॥
द्रव्यात्मा कार्य्यसिद्धिस्तु समुदिश्य क्रियेत यः ।
स उपन्यासकुशलैरुपन्यास उदाहृतः ॥ ५ ॥
मयास्योपकृतं पूर्व्वं ममाप्येष करिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥”
अन्यच्च ।
“उपकारं करोम्यस्य ममाप्येष करिष्यति ।
अयञ्चापि प्रतीकारो रामसुग्रीवयोरिव ॥ ६ ॥
एकार्थां सम्यगुद्दिश्य क्रियां यत्र हि गच्छति ।
समं हि तत्प्रमाणेन स च संयोग उच्यते ॥ ७ ॥
आवयोर्य्योधमुख्यैस्तु मदर्थः साध्यतामिति ।
यस्मिन् पणस्तु क्रियते स सन्धिः पुरुषान्तरः ॥ ८
त्वयैकेन मदीयोऽर्थः संप्रसाध्यस्त्वसाविति ।
यत्र शत्रुः पणं कुर्य्यात् सोऽदृष्टपुरुषः स्मृतः ॥ ९ ॥
यत्र भूम्येकदेशेन पणेन रिपुवर्ज्जितः ।
सन्धीयते सन्धिविद्भिः स चादिष्ट उदाहृतः ॥ १० ॥
स्वसैन्येन तु सन्धानमात्मादिष्ट उदाहृतः । ११ ।
क्रियते प्राणरक्षार्थं सर्व्वदानादुपग्रहः ॥ १२ ॥
कोषांशेनार्द्धकोषेण सर्व्वकोषेण वा पुनः ।
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ १३ ॥
भुवां सारवतीनान्तु दानादुच्छिन्न उच्यते । १४ ।
भूम्युत्थफलदानेन सर्व्वेण परभूषणः ॥ १५ ॥
प्रतिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते ।
पृष्ठ ५/२४१
स्कन्धौपनेयं तं प्राहुः सन्धिं सन्धिविच-
क्षणाः ॥ १६ ॥
परस्परोपकारस्तु मैत्रीसम्बन्धकस्तथा ।
उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः ॥”
इति विण्षुशर्म्मकृतहितोपशे सन्धिर्नाम चतुर्थ-
कथासंग्रहः ॥ संयोगः । तत्पर्य्यायः । श्लेषः २ ।
इत्यमरभरतौ ॥ (यथा, मनुः । ८ । २४८ ।
“तडागान्यु दपानानि वाप्यः प्रस्रवणानि च ।
सीमासन्धिषु कार्य्याणि देवतायतनानि च ॥”)
सुरुङ्गा । भगम् । सङ्घट्टनम् । रूपकाणां
सुखाद्यङ्गम् । सावकाशः । इति मेदिनी ॥ भेदः ।
इति विश्वः ॥ (साधनम् । यथा, रघुः । १९ । १६ ।
“तस्य सावरणदृष्टसन्धयः
काम्यवस्तुषु नरेषु सङ्गिनः ।
वल्लभामिरुपसृत्य चक्रिरे
साभिमुक्तविषयाः समागमाः ॥”)
व्याकरणमते वर्णद्वयस्य मेलनम् । (यथा,
कथासरित्सागरे । ६ । ११३ -- ११७ ।
“अथैका तस्य महिषी राज्ञः स्तनभरालसा ।
शिरीषसुकुमाराङ्गी क्रीडन्ती क्लममभ्यगात् ॥
सा जलैरभिषिञ्चन्तं राजानमसहा सती ।
अब्रवीन्मोदकैर्देव परिताडय मामिति ॥
तच्छ्रुत्वा मोदकान् राजा द्रुतमानाययन् बहून्
ततो विहस्य सा राज्ञी पुनरेवमभाषत ॥
राजन्नवसरः कोऽत्र मोदकानां जलान्तरे ।
उदकैः सिञ्च मा त्वं मामित्यक्तं हि मया तव ॥
सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः ।
न च प्रकरणं वेत्सि मूर्खस्त्वं कथमीदृशः ॥”)
तस्य लक्षणादिर्यथा । अर्द्धमात्रोच्चारणकालेना-
व्यवहितयोर्व्वर्णयोर्द्रुततरोच्चारणं सन्धिः । अत
एव श्लोकार्द्ध्वयोर्मन्त्रार्द्धयोर्व्वा न सन्धिः । तत्र
अर्द्धमात्रोच्चारणकालव्यवधानस्योचितत्वादिति
प्राञ्चः । स्वमते तु सन्ध्यध्यायसूत्रविहितकार्य्यं
सन्धिरिति सन्धिलक्षणम् । तेन पिपक्षादि-
शब्दानां संयोगान्तलुपि लुपि न सन्ध्याद्यविधी
इति निषेधेऽपि सन्धिग्रहणात् सन्धिलुप्येव न
सन्धिरिति नियमात् झपझसोरित्यनेन चप-
जपौ पिपक् पिपग् इति । भिन्नपदे तु सन्धि-
र्व्विभाषयेति बोध्यम् । तथा च ।
“सन्धिरेकपदे नित्यो नित्यो धातूपसर्गयोः ।
सूत्रेषु च भवेन्नित्यः सैवान्यत्र विभाषया ॥”
इति प्राञ्चः ।
एकपदे इति स्वभावादेकपदे समासेऽपि ।
यथादानं भवेत् नद्यौ इत्यादि । समासे मुरारिः
हृषीकेशः त्र्यम्बकः गवीशः इत्यादि । धातू-
पसर्गयोस्तु अधीते उपेत्य इत्यादि । अन्यत्र
अत्र अम्भः अत्राम्भः इह इन्दुः इहेन्दुः
इत्यादि । धातूपसर्गयोः समासस्य नित्यत्वादेक-
पदग्रहणेनैवेष्टसिद्धौ तयोः पुनरुपादानं अनित्य-
समासे कदाचिदेकपदेऽपि सन्धिर्विभाष्यते इति
ज्ञापनार्थम् । तेन उच्चारितरुचिरऋचां चान-
नानां चतुर्णां इत्यादि सिद्धिः । इति मुग्ध-
बोधव्याकरणटीकायां दुर्गादासः ॥ * ॥ सर्व्वा-
ङ्कुरसन्धिर्म्मासत्रयेण भवति । गात्रसन्धिः सप्त-
मासैर्भवति । इति सुखबोधः ॥ युगसन्धिर्युग-
शब्दे देहसन्धिर्म्मर्म्मशब्दे च द्रष्टव्यः ॥

सन्धिका, स्त्री, (सन्धा एव । स्वार्थे कन् ।) मद्य-

सन्धानम् । इति शब्दरत्नावली ॥

सन्धिचौरः, पुं, (सन्धिकृत् सुरुङ्गाकारी चौरः ।

सन्धिना चौर इति वा ।) चौरविशेषः ।
सिँधाल चोर इति भाषा । यथा । सन्धिचौरस्तु
हारकः । इति शब्दमाला ॥

सन्धिजं, क्ली, (सन्धेर्जायते यदिति । जन + डः ।)

आसवादि । यथा, काशीखण्डे ।
“कार्त्तिके वर्ज्जयेत्तैलं कार्त्तिके वर्ज्जयेन्मधु ।
कार्त्तिके वर्ज्जयेत् कांस्यं कार्त्तिके मासि सन्धि-
जम् ॥”
सन्धिजमासवादि । इति तिथ्यादितत्त्वम् ॥
(सन्धिसमुत्पन्ने, त्रि । यथा, सुश्रुते । ६ । २ ।
“पक्वः शोफः सन्धिजः संस्रवेद्यः
सान्द्रं पूयं पूति पूयालसः सः ॥”)

सन्धिजीवकः, त्रि, (सन्धिना अभिसन्धिना जीव-

तीति । जीव + ण्वुल् ।) कुसृत्या विभवान्वेषी ।
तत्पर्य्यायः । पार्श्वकः २ । इति त्रिकाण्डशेषः ।

सन्धितः, त्रि, (सन्धा जातास्येति । सन्धा +

इतच् ।) सन्धियुक्तः । मिलितः । यथा, --
“अस्मद्वराद्दिव्यवपुः सन्धितः सन्धिमानसौ ।
आर्य्यत्वादार्य्यराजाख्यः ख्यातो भुवि भवि-
ष्यति ॥”
इति राजतरङ्गिण्याम् २ तरङ्गः ॥
आसवादि । यथा, --
“कार्त्तिके वर्ज्जयेत् कांस्यं कार्त्तिके शुक्लसन्धि-
तम् ।”
इति श्रीहरिभक्तिविलासे १६ विलासः ॥
शुक्लं काञ्जिकादिपर्य्युषितद्रव्यं सन्धितञ्च वर्ज्ज-
येत् । इति तट्टीका ॥

सन्धिनी, स्त्री, (सन्धास्त्यस्या इति । इनिः ।

ङीप् ।) वृषभेणाक्रान्ता गौः । इत्यमरः ॥ या
ऋतुमती वृषभेण आक्रान्ता निष्पादितमैथुना
सा सन्धिनी । गर्भेण सन्धानं सन्धा सा विद्यते
अस्याः सन्धिनी इन् । इति भरतः ॥ अकाल-
दुग्धा गौः । इति मेदिनी शब्दरत्नावली च ॥
(यथा, याज्ञवल्क्यः । १ । १७० ।
“सन्धिन्यनिर्द्दशावत्सागोपयः परिवर्ज्जयेत् ॥”)

सन्धिपूजा, स्त्री, (सन्धौ अष्टमीनवमीसन्धिक्षणे

पूजा ।) शारदीयमहापूजान्तर्गततृतीया
पूजा । यथा कालिकापुराणवचनान्तरम् ।
“अष्टमीनवमीसन्धौ तृतीया खलु कथ्यते ।
तत्र पूज्या त्वहं पुत्त्र योगिनीगणसंयुता ॥”
ज्योतिशे ।
“अष्टम्यां सन्धियोगे सकलपरिजनैः पूजयेत्
सत्त्वभावै, ।”
सप्तमीपूजावत्महाष्टम्यादिकृत्यमपि षष्टिद-
ण्डात्मिकायाभेव न तु परदिवसीयखण्डतिथौ
किन्तु पूर्व्वोक्तसन्ध्यनुरोधान्निशादाविव खण्ड-
तिथावपि सन्धिपूजा । एवञ्च पूर्णाष्टम्यां महा-
ष्टमीपूजा तत्परदिने अष्टमीनवम्योः सन्धिपूजा
तत्परदिने महानवमीपूजा प्रागुक्तनन्दिकेश्वर-
पुराणाद्युक्तोदयगामितिथ्यनुरोधात् । तत्पर-
दिने दशम्यां विसर्जनं पूजानुरोधेनाधिकदिन-
लाभात् । अन्यत् दुर्गाशब्दे द्रष्टव्यम् ॥

सन्धिबन्धः, पुं, (सन्धिं बध्नातीति । बन्ध +

अच् ।) भूमिचम्पकः । इति शब्दचन्द्रिका ॥

सन्धिबन्धनं, क्ली, (सन्धेर्बन्धनं यस्मात् ।) शिरा ।

इति केचित् ॥

सन्धिमतिः, पुं, काश्मीरदेशीयजयेन्द्रराजमभ्त्री ।

स च परे राजा बभूव । यथा, --
“सुतो महीमहेन्द्रस्य जयेन्द्रस्तस्य भूपतेः ।
क्ष्मामाजानुभुजो राजा बुभोजाथ प्रथुप्रथः ॥
तस्याभूदद्भु तोदन्तभवभक्तिविभूषितः ।
राज्ञः सन्धिमतिर्नाम मन्त्री मतिमतांवरः ॥
अस्मद्वराद्दिव्यवपुः सन्धितः सन्धिमानसौ ।
आर्य्यत्वादार्य्यराजाख्यः ख्यातो भुवि भवि-
ष्यति ॥”
इति राजतरङ्गिण्याम् २ तरङ्गः ॥

सन्धिरन्ध्रका, स्त्री, (सन्धिरन्ध्रेण कायतीति ।

कै + कः । टाप् ।) सुरुङ्गा । इति केचित् ॥

सन्धिला, स्त्री, (सन्धिं लातीति । ला + कः ।)

सुरुङ्गा । नदी । मदिरा । इति मेदिनी ॥

सन्धिवेला, स्त्री, (सन्धिरूपा वेला ।) काल-

विशेषः । स तु अहोरात्रादिमेलनकालरूपः ।
यथा । व्यासः ।
“उपास्ते सन्धिवेलायां निशाया दिवसस्य च ।
ताभेव सन्ध्यां तस्मात्तु प्रवदन्ति मनीषिणः ॥”
इत्याह्निकतत्त्वम् ॥

सन्धिहारकः, पुं, (सन्धिना हरतीति । हृ +

ण्वुल् ।) सन्धिचौरः । यथा, --
“वन्दिचौरो माचलः स्यात् कुम्भिलः सन्धि-
हारकः ।”
इति हारावली ॥

सन्ध्या, स्त्री, (सं सम्यक् ध्यायत्यस्यामिति स +

ध्यै चिन्तने + “आतश्चोपसर्गे । इत्यङ् । यद्बा,
सन्दधातीति । सं + धा + “अघ्न्यादयश्च ।”
उणा० ४ । ११२ । इति यक्प्रत्ययेन निपा-
तितः ।) कालविशेषः । स तु दिवारात्रि-
सम्बन्धिदण्डद्वयरूपः । तत्पर्य्यायः । पितृप्रसूः २ ।
इत्यमरः ॥ सन्धा ३ द्विजमैत्री ४ । इति भरत-
धृतवाचस्पतिः । सायम् ५ दिनान्तम् ६
निशादि ७ दिवसात्ययम् ८ । इति राज-
निर्घण्टः ॥ सायाह्नः ९ विकालः १० ब्रह्म-
भूतिः ११ सायः १२ । इति शब्दरत्नावली ॥
सा च कालस्य भार्य्या । यथा, --
“कालस्य तिस्रो भार्य्याश्च सन्ध्यारात्रिदिनानि च
याभिर्विना विधात्रा च संख्यां कर्त्तुं न शक्यते ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥ * ॥
रात्रेराद्यन्तदण्डचतुष्टयात्मककालः । यथा, --
पृष्ठ ५/२४२
“त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् ।
नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते ॥”
इति प्रायश्चित्ततत्त्वम् ॥
तत्सार्थक्यं यथा, --
“समुद्रे हिमवत्पार्श्वे नद्यामस्याञ्च दुर्म्मते ।
रात्रावहनि सन्ध्यायां कस्य गुप्तः परिग्रहः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
त्रिसन्ध्याकालीनोपासना । तत्कालोपास्या
देवता । यथा । अथ सन्ध्योपासनम् । तत्र
छन्दोगपरिशिष्टम् ।
“अत ऊर्द्ध्वं प्रवक्ष्यामि सन्ध्योपासनिकं विधिम्
अनर्हः कर्म्मणां विप्रः सन्ध्याहीनो यतः
स्मृतः ॥”
अतः प्रातःस्नानानन्तरम् । तथा, --
“एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥”
शातातपः ।
“अब्राह्मणास्तु षट् प्रोक्ता ऋषिणा तत्त्व-
वादिना ।
आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रयी ॥
तृतीयो बहुयाज्यः स्याच्चतुर्थो ग्रामयाजकः ।
पञ्चमस्तु भृतस्तेषां ग्रामस्य नगरस्य च ॥
अनागतान्तु यः पूर्व्वां सादित्याञ्चैव पश्चिमाम् ।
नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः
स्मृतः ॥”
राजभृतो राजसेवकः । ग्रामादेर्भृतो भर-
णीयः । ग्रामलक्षणमाह मार्कण्डेयपुराणम् ।
तथा शूद्रजनप्रायाः सुसमृद्धकृषीबलाः ।
क्षेत्रोपयोगभूमध्ये वसतिर्ग्रामसंज्ञिका ॥”
अत्र सन्ध्यात्रयस्य नित्यत्वाभिधानात् ।
“सर्व्वकालमुपस्थानं सन्ध्यायाः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥”
इति विष्णुपुराणीये सन्ध्याया इत्येकवचनान्त-
पाठो धर्म्मकोषोक्तो युक्तः । एवमेव नव्यवर्द्ध-
मानः । सर्व्वकालं प्रातर्म्मध्याह्नसायंरूपकाल-
त्रये । अन्यथा तदुपादानं व्यर्थंस्यात् । विभ्रम-
श्चित्तविक्षेपः । तेन क्षतादावपि सन्ध्यामाच-
रन्ति । अतएव याज्ञवल्क्यः ।
“सर्व्वावस्थोऽपि यो विप्रः सन्ध्योपासनतत्परः ।
ब्राह्मण्याच्च न हीयेत अन्त्यजन्मगतोऽपि सन् ॥”
सर्व्वावस्थोऽपि नित्यं सेवकादिकर्म्मरतोऽपि ।
यथोचितशौचेऽप्यशक्तोऽपि इति रत्नाकरः ॥
अन्धाद्यवस्थापन्नोऽपीति युक्तम् ॥ * ॥ सन्ध्या-
त्रयसाधारणलक्षणमाह योगियाज्ञवल्ग्यः ।
“त्रयाणाञ्चैव वेदानां ब्रह्मादीनां समागमः ।
सन्धिः सर्व्वसुराणाञ्च तेन सन्ध्या प्रकीर्त्तिता ॥”
सन्ध्याद्वयकालस्तु अहोरात्रसम्बन्धिमुहूर्त्ता-
त्मकः । तथा च दक्षः ।
“अहोरात्रस्य यः सन्धिः सूर्य्यनक्षत्रवर्ज्जितः ।
सा च सन्ध्या समाख्याता मुनिभिस्तत्त्व-
वादिभिः ॥”
सूर्य्यनक्षत्रवर्ज्जितः । अर्द्धास्तमितार्द्धोदितसूर्य्य-
मण्डलप्रकृष्टतेजोनक्षत्रवर्ज्जितः । तथा च
वराहः ।
“अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका
यावत् ।
तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत् ॥”
अत्र आद्यन्तता उक्ता । परिमाणमाह दक्षः ।
“रात्र्यन्तकाले नाड्यौ द्वे सन्ध्यादिः काल
उच्यते ।
दर्शनाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः ॥”
नाडीदण्डः । योगी याज्ञवल्कः ।
“ह्रासवृद्धी च सततं दिनरात्र्योर्यथाक्रमम् ।
सन्ध्या मुहूर्त्तमाख्याता ह्रासे वृद्धौ समा स्मृता ॥”
अत्रोपासनाया अपि सन्ध्यात्वमाह व्यासः ।
“उपास्ते सन्धिवेलायां निशाया दिवस्य च ।
तामेव सन्ध्यां तस्मात्तु प्रवदन्ति मनीषिणः ॥”
उपास्ते यद्वक्ष्यमाणप्राणायामादिक्रिययेति
यावत् ॥ * ॥ तत्काले उपास्या अपि देवता
सन्ध्या । तथा च याज्ञवल्क्यः ।
“सन्धौ सन्ध्यामुपासीत नास्तगे नोद्गते रवौ ॥”
उपासनोपक्रममाह संवर्त्तः ।
“प्रातःसन्ध्यां सनक्षत्रामुपासीत यथाविधि ।
सादित्यां पश्चिमां सन्ध्यां अर्द्धास्तमितभास्क-
राम् ॥”
सनक्षत्रामित्यनेन तद्युक्तकाले उपक्रम्य प्रातः
सन्ध्यामुपासीत । एवमेवार्द्धास्तमितभास्करा-
रब्धां पश्चिमां सादित्यामित्यनेन तद्युक्तकाले
उपक्रम्य उपासीतेत्यर्थः ॥ * ॥ मध्याह्नसन्ध्याया
अष्टममुहूर्त्तं कालमाह स्मृतिः ॥
“पूर्व्वापरे तथा सन्ध्ये सनक्षत्रे प्रकीर्त्तिते ।
समसूर्य्येऽपि मध्याह्ने मुहूर्त्तसप्तमोपरि ॥”
सांख्यायनगृह्यम् । अरण्ये समित्पाणिः सन्ध्या-
मुपास्ते नित्यं वाग्यत उत्तरापराभिमुखो-
ऽन्वष्टमदिशमानक्षत्रदर्शनात् । अतिक्रान्तायां
महाव्याहृतीः सावित्रीं स्वस्त्ययनादि जप्त्वा एवं
प्रातः प्राङ्मुखस्तिष्ठन् आमण्डलदर्शनादिति ।
उत्तरापराभिमुखो वायुकोणाभिमुखः । कोणं
विवृणोति अन्वष्टमदिशमिति । उभयदिगष्टम-
भागमिति यावत् । व्यासः ।
“गायत्री नाम पूर्व्वाह्णे सावित्री मध्यमे दिने
सरस्वती च सायाह्ने सैव सन्ध्या त्रिषु स्मृता ॥
प्रतिग्रहान्न दोषाच्च पातकादुपपातकात् ।
गायत्री प्रोच्यते तस्मात् गायन्तं त्रायते यतः ॥
सवितृद्योतनात् सैव सावित्री परिकीर्त्तिता ।
जगतः प्रसवित्रीत्वात् वाग्रूपत्वात् सरस्वती ॥”
तैत्तिरीयब्राह्मणम् । उद्यन्तमस्तं यान्तं आदित्य-
मभिध्यायन् कुर्व्वन् ब्राह्मणो विद्वान् सकलं
भद्रमश्नुते । असावादित्यो ब्रह्मा इति ब्रह्मेव
सन् ब्रह्माभ्येति य एवं वेदेत्ययमर्थः । वक्ष्यमाण-
प्रकारेण प्राणायामादिकं कुर्व्वन् यथोक्तनाम-
रूपोपेतं सन्ध्याशब्दस्य वाच्यमादित्यं ब्रह्मेति
ध्यायन् ऐहिकमामुत्रिकञ्च सकलभद्रमश्नुते ।
य एवमुक्तध्यानेन शुद्धान्तःकरणो ब्रह्मसाक्षात्
कुरुते स पूर्व्वमपि ब्रह्मैव सन् प्रज्ञावान् चिर-
जीवित्वं प्राप्तो यथोक्तज्ञानेनाज्ञानोपसमे ब्रह्मैव
प्राप्नोति । इति पराशरभाष्ये माधवाचार्य्यः ॥
अतएव व्यासः ।
“न भिन्नां प्रतिपद्येत गायत्त्रीं ब्रह्मणा सह ।
सोऽहमस्मीत्युपासीत विधिना येन केन-
चित् ॥” * ॥
गायत्तीस्थभर्गपदप्रतिपाद्य ईश्वरः । अहं जीव-
रूपोऽस्मि भवामि इति । अजहत्स्वार्थलक्ष-
णया जीवेश्वरयोरहंकारप्रतिफलितत्वोपाधि-
रहितेन चिद्रूपेणैक्यम् । घटाकाशगृहाकाशयो-
रुपाधिरित्यवगमात् । ऐक्यमिव भावयन् उपा-
सीत । याज्ञवल्क्योऽपि ।
“या सन्ध्या सा तु गायत्त्री द्विधा भूत्वा प्रति-
ष्ठिता ।
सन्ध्या उपासिता येन विष्णुस्तेन उपासितः ॥” *
उपासनायाः फलमाह स एव ।
“गवां सर्पिः शरीरस्थं न करोत्यङ्गपोषणम् ।
निःसृतं कर्म्मसंयुक्तं पुनस्तासां तदौषधम् ॥
एवं स हि शरीरस्थः सर्पिर्वत् परमेश्वरः ।
विना चोपासनादेव न करोति हितं नृषु ॥
प्रणवव्याहृतिभ्याञ्च गायत्त्र्या त्रितयेन च ।
उपास्यं परमं ब्रह्म आत्मा यत्र प्रतिष्ठितः ॥”
त्रितयेन प्रणवादित्रितयेन ब्रह्मप्रतिपादकेनो-
च्चारितेन तदर्थावगमेन उपास्यं प्रसादनीयम् ।
तदाह स एव ।
“वाच्यः स ईश्वरः प्रोक्तो वाचकः प्रणवः स्मृतः
वाचकेऽपि च विज्ञाते वाच्य एव प्रसीदति ॥
भूर्भुवःस्वस्तथा पूर्व्वं स्वयमेव स्वयम्भुवा ।
व्याहृता ज्ञानदेहेन तस्मात् व्याहृतयः स्मृताः ॥”
ज्ञानदेहेन तत्त्वज्ञानस्य चिद्रूपेश्वरस्य देहेन
शरीररूपेण व्याहृता उक्ताः । तेन तद्वाच्यो-
ऽपीश्वरः । कूर्म्मपुराणम् ।
“प्रधानं पुरुषः कालो ब्रह्मविष्णुमहेश्वराः ।
सत्त्वं रजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥”
एतद्रूपेणापि भावनीयाः । इत्याह्निकाचार-
तत्त्वम् ॥ * ॥ अपि च ।
“दिनान्तसन्ध्यां सूर्य्येण पूर्व्वामृक्षैर्युतां बुधः ।
उपतिष्ठेत् यथान्यायं सम्यगाचम्य पार्थिव ॥
सर्व्वकालमुपस्थानं सन्ध्यायाः पार्थिवेष्यते ।
अन्यत्र सूतकाशौचविभ्रमातुरभीतितः ॥
सूर्य्येणाभ्युदितो यस्तु त्यक्तः सूर्य्येण यः स्वपन्
अन्यत्रातुरभावाच्च प्रायश्चित्तीयते नरः ॥
तस्मादनुदिते सूर्य्ये समुत्थाय महीपते ।
उपतिष्ठेन्नरः सन्ध्यां ससूर्य्याञ्च दिनान्तजाम् ॥
उपतिष्ठन्ति वै सन्ध्यां ये न पूर्व्वां न पश्चिमाम्
व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप ॥”
इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥ * ॥
दीक्षितविशेषस्य सन्ध्याविशेषा यथा, --
भूमिरुवाच ।
“देवदेव कथं सन्ध्यां दीक्षितः कुरुते वद ।
केन मन्त्रेण वा भक्तस्तव कर्म्मपरायणः ॥
पृष्ठ ५/२४३
वराह उवाच ।
शृणु माधवि तत्त्वेन सन्ध्यामन्त्रमनुत्तमम् ।
यथा वदन्ति वै सूर्य्यं सन्ध्यां पूर्व्वं चिरां तथा ॥
जलाञ्जलिं गृहीत्वा च मम भक्त्या व्यवस्थितः ।
मुहूत्तं ध्यानमास्थाय इमं मन्त्रमुदाहरेत् ॥
मन्त्रः । भवोद्भवमादिं व्यक्तमद्वयमादित्यं सर्व्वे
देवा ब्रह्मरुद्रेन्द्रास्ताञ्च कृष्णो यथासीत् ध्यान-
योगस्थिता ते सन्ध्या संज्ञा वासुदेवं नमन्ति
वयं देवमादि व्यक्तरूपं कृत्वा चात्मनि देवसंस्था
तथापि संसारार्थं कर्म्म तत्कारणमेव सन्ध्या
संस्था वासुदेव नमो नमः ।
अनेनैव तु मन्त्रेण सन्ध्यां कुर्य्यात्तु दीक्षितः ॥”
इति वाराहे चतुर्व्वर्णदीक्षानामाध्यायः ॥ * ॥
सन्ध्याप्रशंसा यथा, --
मुनयः ऊचुः ।
“कथं मुने दिवं याति ब्राह्मणो दग्धकिल्विषः ।
अनग्निको हि मे ब्रूहि यदुक्तं वह्निना पुरा ॥
सूत उवाच ।
सायं प्रातश्च यः सन्ध्यामुपास्तेऽस्कन्नमानसः ।
जपन् हि पावनीं देवीं गायत्त्रीं वेदमातरम् ॥
तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः ।
न सीदेत् प्रतिगृह्णानो अपि पृथ्वीं ससागराम् ॥
ये चान्ये दारुणाः केचित् ग्रहाः सूर्य्यादयो
दिवि ।
ते चास्य सौम्यतां यान्ति शिवाः शिवतरास्तथा ॥
यत्र तत्र गतं चैनं दारुणाः पिशिताशनाः ।
घोररूपा महाकायाः प्रभवन्ति न राक्षसाः ॥”
इति वह्निपुराणे आश्वमेधिकनामाध्यायः ॥ * ॥
अपि च ।
“नित्यं नित्यं त्रिसन्ध्याञ्च करिष्यसि दिने दिने ।
मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु ।
यदह्ना कुरुते कर्म्म न तस्य फलभाग्भवेत् ॥
नोपतिष्ठति यः पूर्व्वां नोपास्ते यस्तु पश्चिमाम् ।
स शूद्रवद्वहिः कार्य्यः सर्व्वस्मात् द्विजकर्म्मणः ॥
यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति च ।
स च सूर्य्यसमो विप्रस्तेजसा तपसा सदा ॥
तत्पादपद्मरजसा सद्यःपूता वसुन्धरा ।
जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः ॥
तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः ।
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥
न गृह्णन्ति सुरास्तेषां पितरः पिण्डतर्पणम् ।
स्वेच्छया च द्विजातिश्च त्रिसन्ध्यरहितस्य च ॥
विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः ।
एकादशीविहीनश्च विषहीनो यथोरगः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥
अन्यत् कौर्म्मे १७ अध्याये गारुडे २१५ । २२०
अध्याययोर्द्रष्टव्यम् ॥ * ॥ जननमरणाशौचे तन्नि-
षोधो यथा, --
“सन्ध्यां पञ्चमहायज्ञं नैत्यिकं स्मृतिकर्म्म च ।
तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया ॥”
इति शुद्धितत्त्वम् ॥ * ॥
सायंसन्ध्यानिषेधकाला यथा । कर्म्मोपदेशिन्यां
व्यासः ।
“संक्रान्त्यां पक्षयोरन्ते द्वादश्यां श्राद्धवासरे ।
सायंसन्ध्यां न कुर्व्वीत कृते च पितृहा भवेत् ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
तत्काले शयनादिनिषेधो यथा, --
“स्वप्नमध्ययनं स्नानमुद्वर्त्तं भोजनं गतिः ।
उभयोः सन्ध्ययोर्नित्यं मध्याह्ने चैव वर्ज्जयेत् ॥”
इति कौर्म्मे १५ अध्यायः ॥
नदीविशेषः । युगसन्धिः । इति मेदिनी ॥
चिन्ता । संश्रवः । सीमा । सन्धानम् । कुसुम-
विशेषः । इति हेमचन्द्रः ॥

सन्ध्यांशः, पुं, (सन्ध्याया अंशः ।) युगसन्धिः ।

यथा, --
“चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥”
इति मानवे । १ । ६९-७० ॥
चत्वार्य्याहुरिति । चत्वारि वर्षसहस्राणि कृत-
युगं कालं मन्वादंयो वदन्ति तस्य तावद्वर्ष-
शतानि सन्ध्या सन्ध्यांशश्च भवति युगस्य पूर्व्वा
सन्ध्या उत्तरश्च सन्ध्यांशः । तदुक्तं विष्णुपुराणे ।
“तत्प्रमाणैः शतैः सन्ध्यां पूर्व्वां तत्राभिधीयते ।
सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि यः ॥
सन्ध्यासन्ध्यांशयोरन्तर्यः कालो मुनिसत्तम ।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥”
वर्षसंख्या चेयं दिव्यमानेन तस्यैवानन्तरप्रकृत-
त्वात ।
“दिव्यैर्व्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥”
इति विष्णुपुराणवचनाच्च ।
इतरेष्विति अन्येषु त्रेताद्वापरकलियुगेषु सन्ध्या
सन्ध्यांशसहितेषु एकहान्या सहस्राणि शतानि
च भवन्ति । तेनेदं सम्पद्यते । त्रीणि वर्षसह-
स्राणि त्रेतायुगं तस्य त्रीणि वर्षशतानि सन्ध्या
सन्ध्यांशश्च । एवं द्वे वर्षसहस्रे द्वापरः तस्य द्बे
वर्षशते सन्ध्या सन्ध्यांशश्च । एवं वर्षसहस्रं
कलिः । तस्यैकवर्षशतं सन्ध्या सन्ध्यांशश्च । इति
कुल्लूकभट्टः ॥

सन्ध्याचलः, पुं, (सन्ध्याया अचलः ।) पर्व्वत-

विशेषः यथा, --
“आराधनोपदेशाय कापोतस्य वचः स्मरन् ।
जग्मतुर्द्दक्षिणां काष्ठां यत्र सन्ध्याचलः स्थितः ॥
कान्ता नाम नदी तत्र वशिष्ठे नावतारिता ।
तस्यास्तीरे महाशैले स्निग्धच्छाया लता तदा ।
सन्ध्यां वशिष्ठः कृतवान् तत्र यस्माद्विधेः सुतः ।
अतः सन्ध्याचलं नाम तस्य गायन्ति देवताः ॥”
इति कालिकापुराणे ५० अध्यायः ॥ * ॥
अपि च ।
“क्षोभकाख्यान्महाशैलादैशान्यां पर्व्वतोत्तमः ।
तुङ्गः सन्ध्याचलो नाम वशिष्ठो यत्र शप्तवान् ॥
निमेर्नाम्ना तु राजर्षेः शापाद्ब्रह्मसुतः पुरा ।
वशिष्ठो ह्यशरीरोऽभूत्तच्छापाच्च निमिस्तथा ॥
ततो ब्रह्मोपदेशेन निर्जने कामरूपके ।
सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत्तदा ॥
प्रत्यक्षस्तस्य देवस्य वरदानान्महामुनिः ।
अमृतान्यवतार्य्यर्थे कुण्डं कृत्वा गिरिस्तटे ॥
तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् ।
तस्मादमृतकुण्डात्तु सन्ध्या नाम नदीवरा ।
निःस्मृता तत्र चाप्लुत्य चिरायुरगदो भवेत् ॥”
इति च कालिकापुराणे ८१ अध्यायः ॥

सन्ध्यानाटी, [न्] पुं, (सन्ध्यायां नटतीति ।

नट + इनिः ।) शिवः । इति शब्दरत्नावली-
त्रिकाण्डशेषौ ॥

सन्ध्यापुष्पी, स्त्री, (सन्ध्यायां पुष्पं यस्याः । ङीष् ।)

जाती । इति राजनिर्घण्टः ॥

सन्ध्याबलः, पुं, (सन्ध्यायां बलं यस्य ।) राक्षसः ।

इति त्रिकाण्डशेषः ॥

सन्ध्याबलिः, पुं, शिवालयस्थितमृत्काष्ठादि-

र्म्मितवृषः । यथा, --
“ये शिवायतनोत्सृष्टास्ते सन्ध्याबलयो वृषाः ।”
इति हारावली ॥

सन्ध्याभ्रं क्ली, (सन्ध्याया अभ्रमिव तद्वर्णत्वात् ।)

सुवर्णगैरिकम् । इति राजनिर्घण्टः ॥ (सन्ध्या-
कालीनमेघः । यथा, रघुः । १२ । २८ ।
“सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥”)

सन्ध्यारागं, क्ली, (सन्ध्याया राग इव रागो यस्य ।)

सिन्दूरम् । इति राजनिर्घण्टः ॥ (यथा, आर्य्या-
सप्तशत्याम् । ३९२ ।
“प्राचीरान्तरितयं प्रियस्य वदनेऽधरं सम-
र्पयति ।
प्राग्गिरिपिहिता रात्रिः सन्ध्यारागं दिन-
स्येव ॥”)

सन्ध्यारामः, (सन्ध्यायां रामो रमणं यस्य ।)

ब्रह्मा । इति शब्दरत्नावली ॥

सन्नः, पुं, (सद + क्तः ।) पियालवृक्षः । इत्यमर-

टीकायां भरतः ॥ अवसन्ने, त्रि ॥ (यथा,
रामायणे । ६ । ११३ । ८७ ।
“कश्मलाभिहिता सन्ना बभौ सा रावणोरसि ॥”

सन्नकः, पुं, (सीदति स्मेति । सद + क्तः । ततः

स्वार्थे कन् ।) खर्व्वः । इति सन्नकद्रुशब्द-
टीकायां भरतः ॥

सन्नकद्रुः, पुं, पियालवृक्षः । इत्यमरः ॥ सन्नकः

खर्व्वो द्रुः स्कन्धोऽस्येति सन्नकद्रुरिति स्वामी ।
सन्नको द्रुश्चेति द्वे नामनी इति सोमनन्दी ।
इति भरतः ॥

सन्नतिः, स्त्री, (सं + नम + क्तिन् ।) प्रणतिः ।

(यथा, भागवते । १० । ७० । २४ ।
“ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः ।
प्रसह्य रुद्धास्ते नासन्नयुते द्वे गिरिव्रजे ॥”)
ध्वनिः । इति मेदिनी ॥ नम्रता यथा, हरि-
वंशे ।
पृष्ठ ५/२४४
“यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस्त त्रसन्नतिः
सन्नतिर्ह्रीस्तथाश्रीश्च नित्यं कृष्णे महात्मनि ॥”
इति तिथ्यादितत्त्वम् ॥
(तथा च रामायणे । ५ । ६४ । २० ।
“तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥”

सन्नध्वः, त्रि, (सं + नह + क्तः) वर्म्मितः ।

कृतसन्नाहः । (यथा, भागवते । ७ । १० । ६६ ।
सन्नद्धो रथमास्थाय शरं धनुरुपाददे ॥”)
व्यूढः । व्यूहविन्यासयुक्तः । इति मेदिनी ॥
आततायी । वधोद्यतः । इत्यमरटीकायां राय-
मुकुटः ॥ मन्त्रादिसंयुतः । इति शब्दरत्नावली ॥
(आबद्धः । यथा, अभिज्ञानशकुन्तले १ अङ्के ।
“कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥”
सञ्जातः । इति मल्लिनाथः ॥ यथा, रघुः । ३ । ७ ।
“पुराणपत्रापगमादनन्तरं
लतेव सन्नद्धमनोज्ञपल्लुवा ॥”)

सन्नयः, पुं, (सं + नी + अच् ।) समूहः । यथा,

महाभारते । १ । १९० । ६ ।
“अस्मिन् राजसमावाये देवानामिव सन्नये ।
किमयं सदृशं कञ्चित् नृपतिं नैव दृष्टवान् ॥”
पृष्ठस्थायिबलः । इत्यमरमेदिनीकरौ ॥

सन्नाहः, युं, (संनह्यतेऽसौ इति । सं + नह +

घञ् ।) अङ्गत्राणम् । साँजोया इति भाषा ।
तत्पर्य्यायः । वर्म्म २ कङ्कटः ३ जगरः ४ कव-
चम् ५ दंशः ६ तनुत्रम् ७ मायी ८ उर-
च्छदः ९ । इति हेमचन्द्रः ॥ (यथा, महा-
भारते । ४ । ३० । १७ ।
“पृथक् काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ॥”
उद्योगः । इति रामानुजः ॥ यथा, रामा-
यणे । ६ । ७५ । ४० ।
“ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च ।
सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥”)

सन्नाह्यः, पुं, (संनह्यते इति । सं + नह + ण्यत् ।)

युद्धयोग्यगजः । यथा, --
“राजवाह्यस्तू पवाह्यः सन्नाह्यः समरोचितः ।”
इति हेमचन्द्रः ॥

सन्निकर्षः, पुं, (सं + नि + कृष + घञ् ।) सान्नि-

ध्यम् । तत्पर्य्यायः । पार्श्वम् २ समीपम् ३ सवि-
धम् ४ समीपाभ्यासम् ५ सवेशः ६ अन्तिकः ७
सदेशम् ८ अभ्यग्रम् ९ सनीडम् १० सन्नि-
धानम् ११ उपान्तम् १२ निकटम् १३ उप-
कण्ठम् १४ सन्निकृष्टम् १५ समर्य्यादम् १६
अभ्यर्णम् १७ आसन्नः १८ सन्निधिः १९ । इति
हेमचन्द्रः (यथा, कुमारे । ३ । ७४ ।
“स्त्रीसन्निकषं परिहर्त्तुमिच्छन्
अन्तर्दधे भूतपतिः सभूतः ॥”)
न्यायमते विषयेन्द्रियसम्बन्धः । स च ज्ञानस्य
कारणम् । स तु द्विविधः । लौकिकसन्निकर्षः
अलौकिकसन्निकर्षश्च । लौकिकसन्निकर्षश्च षड्-
विधः । इन्द्रियसंयोगः १ इन्द्रियसंयुक्तसमवायः
२ इन्द्रियसंयुक्तसमवेतसमवायः ३ श्रोत्रादि-
समवायः ४ श्रोत्रादिसमवेतसमवायः ५ तदादि-
विशेषणता ६ ॥ अलीकिकसन्निकर्षस्तु त्रिविधः ।
सामान्यलक्षणा १ ज्ञानलक्षणा २ योगजः ३ ।
यथा, --
“महत्त्वं षड्विधे हेतुरिन्द्रिथं करणं मतम ।
विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः
द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः ।
द्रव्येषु समवेतानां तथा तत्समवायतः ॥
तत्रापि समवेतानां शब्दस्य ससवायतः ।
तद्वृत्तीनां सममेतसमवायेन तद्ग्रहः ॥
विशेषणतया तद्वदभावानां ग्रहो भवेत् ।
यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥
प्रत्यक्षं समवायस्य विशेषणतया भवेत् ।
अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः ॥
सामान्यलक्षणा ज्ञानलक्षणा योगजस्तथा ।
आसत्तिराश्रयाणान्तु सासान्यज्ञानमिष्यते ॥
तदिन्द्रियजतद्धर्म्मबोधसामग्य्र पेक्ष्यते ।
विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः ॥
योगजो द्विविधः प्रोक्तो यक्तयुञ्जानभेदतः ।
युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥”
इति भाषापरिच्छेदः ॥

सन्निकर्षणं, क्ली, (सं + नि + कृष + ल्युट् ।) सन्नि-

धानम् । तत्पर्य्यायः । सन्निधिः २ । इति सङ्कीर्ण-
वर्गे अमरः ॥ सन्निधम् ३ । इति भरतः ॥
(सम्बन्धः । यथा, भागवते । ११ । २८ । १२ ।
“यावद्देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् ।
संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥”)

सन्निकृष्टः, त्रि, (सं + नि + कृष + क्तः ।) सन्नि-

कर्षविशिष्टः । निकटः । इति विशेष्यनिघ्नवर्गे
अमरः ॥ अस्य पर्य्यायः समीपशब्दे द्रष्टव्यः ॥

सन्निधं, क्ली, (सं + नि + धा + कः ।) सन्निधानम् ।

इति भरतधृतवोपालितः ॥

सन्निधानं, क्ली, (सं + नि + धा + ल्युट् ।) निक-

टम् । इति हेमचन्द्रः ॥ (यथा, रामायणे ।
२ । २१ । ५३ ।
“श्रेयो मुहूर्त्तं तव सन्निधानं
ममैव कृस्नादपि जीवलोकात् ॥” * ॥
सम्यङ्निधीयतेऽस्मिन्निति ।) आश्रयः । यथा,
“आरम्भः संशयानामविनयभवनं पत्तनं साह-
सानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्यया-
नाम् ।
दुस्त्याज्यं यन्महद्भिः सुरनरवृषभैः सर्व्वमाया-
करण्डं
स्त्रीरूपं केन लोके विषममृतमयं धर्म्मनाशाय
सृष्टम् ॥”
इति शान्तिशतकम् ॥
(अवस्थानम् । यथा, मार्कण्डेये । ९७ । ३५ ।
“यस्मिन् गेहे च लिखितमेतत् तिष्ठति नित्यदा
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ॥”)

सन्निधिः, स्त्री, (सं + नि + धा + किः ।) सन्नि-

कर्षः । इत्यमरः ॥ (यथा, मनुः । २ । १९४ ।
“हीनान्नवस्त्रवेशः स्यात् सर्व्वदा गुरुसन्निधौ ॥”
इन्द्रियगोचरः । इति मेदिनी ॥ (अवस्थानम् ।
यथा, जलशुद्धिप्रकरणे ।
“गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्म्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥

सन्निपतितः, त्रि, एकत्रीकृतः । मिश्रितः । संनि-

पूर्व्वकपतधातोः क्तप्रत्ययेन निष्पन्नः ॥

सन्निपातः, पुं, (सम्यक् निपातो पतनं यत्र ।)

तालभेदः । यथा, --
“एक एव गुरुर्यत्र सन्निपातः स उच्यते ।”
इति सङ्गीत्दामोदरः ॥
(सम्यक् निपातो यस्मात् ।) विकारोत्पादक-
मिलितदोषत्रयम् । अस्य त्रयोदश नामलक्ष-
णानि यथा, --
“शीघ्रगस्तान्त्रिकश्चैवमसाध्यश्चित्तविभ्रमः ।
कष्टसाध्यः कण्ठकुब्जः कर्णिको जिम्भगस्तथा ॥
कष्टात् कष्टतमो ज्ञेयो रुग्दाहो हन्ति
मानवम् ।
अन्तको भग्ननेत्रश्च रक्तष्ठीवी निपातकः ॥
शीताङ्गश्च प्रलापश्च अभिन्यासोऽतिमारकः ।
ज्ञातव्याः सर्व्वदा वैद्यैः सन्निपातास्त्रयोदश ॥”
माण्डवीये ।
“शीघ्रगस्तान्त्रिकश्चित्तविभ्रमः कण्ठकुब्जकः ।
कर्णिको जिम्भकश्चैव जग्राहश्चान्तकस्तथा ॥
भग्ननेत्रो विलापश्च प्रलापः शीतलाङ्गकः ।
अभिन्यासश्चेति विद्यात् सन्निपातास्त्रयोदश ॥ *
सदास्यं श्लेष्मणा पूर्णं शूलं कासोऽतिवेदना ।
शोथश्च लक्षणान्येवं शीघ्रगे सान्निपातिके ॥ १ ॥
अतितन्द्रा ज्वरः श्वासकासस्तापोऽतिसारकः ।
स्थूलकण्ठः सिता श्यामा जिह्वा कण्ठे च
कूजति ॥
श्रुतिरल्पा चेति विद्यात् तान्त्रिके सान्नि-
पातिके ॥ २ ॥
मदो मोहो भ्रमस्तापो हास्यशीतप्रलापनम् ।
नित्यं वैकल्पिता पीडा विकटाक्षनिरीक्षणम् ।
लक्षणैः सन्निपातोऽयं ज्ञातव्यश्चित्तविभ्रमः ॥ ३
कण्ठग्रहो ज्वरो मूर्च्छा दाहः कम्पविलापनम्
मोहस्तापः शिरोऽर्त्तिश्च वातार्त्तः प्रलयं गतः ॥
कण्ठकुब्जं सन्निपातं कष्टसाध्यं विनिर्द्दिशेत् ॥ ४
ज्वरः कर्णान्तशोथश्च श्वासः कम्पः प्रलापनः ॥
स्वेदः कण्ठग्रहस्तापस्तृण्मोहो भयमेव च ।
कर्णिके सन्निपाते च लक्षणानि भवन्तिहि । ५ ॥
सङ्कटा कठिना जिह्वा कासः श्वासोंऽति-
विह्वलः ।
मूको वधिरता तापो बलहानिश्च लक्षणम् ॥
जिम्भगः सन्निपातोऽयं कष्टात् कष्टतरः परः ॥ ६ ॥
मोहस्तापः प्रलापश्च व्यथा कण्ठे भ्रमः श्रमः ॥
वेदना च तृषा जाड्यं श्वासश्च लक्षणैरिभैः ।
कष्टात् कष्टतरो ज्ञेयः कग्राहः सान्निपातिकः ॥
दाहो मोहः शिरःकम्पो हिक्का श्वासाङ्ग-
मद्द नम् ।
सन्तापश्चान्तको ज्ञेयः सन्निपातोऽतिमारकः ॥ ८
पृष्ठ ५/२४५
श्वसनं लोचने भुग्ने स्मृतिः स्थूला ज्वरोऽधिकः ।
मोहः प्रलापनं कम्पो भ्रमो निद्रा च लक्षणैः ॥
ज्ञातव्यो भुग्ननेत्रोऽयं सन्निपातः क्षयंकरः ॥ ९ ॥
रक्तनिष्ठीवनं मूर्च्छा ज्वरो मोहस्तृषा भ्रमः ।
वान्तिर्हिक्कातिसारश्च संज्ञानाशो हृदि व्यथा ॥
मण्डलं श्यावरक्तञ्च देहेषु लक्षणैरिमैः ।
ज्ञातव्यः सन्निपातोऽयं रक्तष्ठीवी निपातकः ॥ १०
प्रलापतापकर्णार्त्तिः प्रज्ञानाशोऽतितापवान् ।
ज्ञेयः प्रलापकश्चिह्नैः सन्निपातोऽतिमारकः ॥ ११
शरीरं हिमवत् शीतमतिसारश्च कम्पनम् ।
कर्णनादो हस्ततापो हिक्का श्वासः क्रमो-
त्तरम् ।
सर्व्वाङ्गशीतलो हन्ति शीताङ्गः सन्निपातकः ॥
१२ ॥
त्रिदोषञ्च मुखं शुष्कं निद्रावैकल्यकष्टवाक् ।
निश्चेतनमतिश्वासो मन्दाग्निर्बलहीनता ॥
मृत्युतुल्यमभिन्यासं सन्निपातञ्च लक्षयेत् ॥ १३ ॥
इति चक्रपाणिदत्तः ॥ * ॥
यं दृष्ट्वा यस्य सम्भवः स तस्य सन्निपातः । सन्नि-
पातविधिरनिमित्तं तद्विघाताय । इति कलाप-
व्याकरणे ४ वृत्तौ २ प्रकरणम् ॥ समूहः ।
यथा, --
“धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सु क्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥”
इति मेघदूतम् ॥
सम्यक्प्रकारेण पतनं मरणञ्च ॥

सन्निपातज्वरः, पुं, (सम्यक् निपातो नाशो यस्मात्

तादृशो ज्वरः ।) त्रिदोषजज्वरः । स तु अष्ट-
प्रकारज्वरान्तर्गतज्वरविशेषः । अष्टत्वं विवृ-
णोति । वातिकः पैत्तिकः श्लैष्मिकश्चेति त्रयः ।
द्वन्द्वजाश्च त्रयः । वातपैत्तिकः वातश्लैष्मिकः
पित्तश्लैष्मिकश्चेति । संघातनः सन्निपातिक एकः
“द्व्युल्वणैकोल्वणैः षट् स्युर्हीनमध्यादिकैश्च षट्
समैश्चैको विकारास्ते सन्निपातास्त्रयोदश ॥”
इति चरकेण त्रयोदश सन्निपाता उक्ताः ॥
ते यथा । वातोल्वणः १ पित्तोल्वणः २ कफो-
ल्वणः ३ । वातपित्तोल्वणः ४ वातश्लेष्मोल्वणः ५
पित्तश्लेष्मोल्वणः ६ एवं षट् । अधिकवातो
मध्यपित्तो हीनकफः १ अधिकवातो मध्यकफो
हीनपित्तः २ अधिकपित्तो मध्यवातो हीन-
कफः ३ अधिकपित्तो मध्यमकफो हीनवातः ४
अधिककफो मध्यवातो हीनपित्तः ५ अधिक-
कफो मध्यपित्तो हीनवातश्चेति ६ षट् । त्र्युल्वण
एकः १ । एवं त्रयोदश । अत्र तु त्रिदोषज-
त्वेन साम्यात् सान्निपातिक एक एव गणितः ।
आगन्तुजोऽपि एक एव । अत्र आगन्तुज-
शब्देन अभिघातादयो हेतव उच्यन्ते । कुत्र-
चिद्व्याधयः कार्य्यकारणयोरभेदोपचारात् । इति
ज्वराधिकारे भावप्रकाशः ॥ * ॥ अथ सन्नि-
पातज्वराधिकारमाह । तत्र सन्निपातज्वरस्य
विप्रकृष्टसन्निकृष्टकारणकथनपूर्व्विकां सम्प्राप्ति-
माह ।
“त्रिदोषजनकैर्व्वातपित्तश्लेष्मामगेहगाः ।
बहिर्निरस्य कोष्ठाग्निं रसगा ज्वरकारिणः ॥”
पूर्व्वरूपमाह ।
“प्राग्रूपाणि त्रिदोषाणां स्युस्त्रिदोषज्वरे
नृणाम् ।”
सन्निपातज्वरस्य सामान्यानि लक्षणान्याह ।
“क्षणे दाहः क्षणे शीतमस्थि सन्धिशिरोरुजा ।
सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ॥
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः ।
तन्द्रा मोहः प्रलापश्च कासश्वासोऽरुचिर्भ्रमः ॥
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परा ।
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च ॥
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा ।
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः ॥
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् ।
कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम् ॥
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च ।
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः ॥”
लोचने सास्रावे साश्रुणी । कलुषेऽस्वच्छे ।
निर्भुग्ने निर्गते कूटिले च । कण्ठः शूकैरिव
धान्याग्रैरिवावृतः । जिह्वा परिदग्धा परि-
दग्धेव ज्ञायते । अथवा परिदग्धेव कृष्णा
दृश्यते । स्रस्ताङ्गता शिथिलगात्रता । परा
अतिशयिता । ष्ठीवनमित्यादि कफसंयुक्तस्य
रक्तस्य पित्तस्य च ष्ठीवनम् । शिरसो लोठन-
मितस्ततः शिरश्चालनम् । कृशत्वं नातिगात्राणां
गात्राणामतिशयितं कार्य्यं न व्याधिप्रभवात् ।
प्रततं निरन्तम् । कोठः वरटीदष्टसंस्थानः
कोठ इत्यभिधीयते । श्यावः कपिशो वर्णः ।
मूकत्वमवचनत्वमल्पवचनत्वं वा । स्रोतसां
कर्णनासादीनाम् ॥ * ॥ ननु वातादयः पर-
स्परविरुद्धगुणास्तेषां सम्भूयैककार्य्यारम्भकत्वं
नोपपद्यते परस्परोपघातात् दहनसलिलयोरिव
तत् कथं वातपित्तकफा मिलित्वा विकारोत्-
पादकाः । अत्र समाधानमुक्तं दृढबलेन ।
“विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम् ।
दोषाः सहजसात्म्यत्वाद्विषं घोरमहीनिव ॥”
गदाधरस्तु हेत्वन्तरमुक्तवान् ।
“दैवाद्दोषस्वभावाद्वा दोषाणां सान्निपातिके ।
विरुद्धैश्च गुणैः कश्चिन्नोपघातः परस्परम् ॥” इति
ननु भिन्नचयप्रकोपकालानां वातपित्तकफानां
युगपदुत्थानाभावात् कथं सम्भूय सन्निपात-
ज्वरारम्भकत्वमुपपद्यते । उच्यते । त्रिदोष-
जनकनिदानबलेन युगपदेषां प्रकोपादिति
सिद्धान्तः ॥ * ॥ अथ सामान्यसन्निपातजवरस्य
त्रयोदश विशेषानाह ।
“एकोल्वणस्त्रयस्ते स्युर्द्व्युल्वणश्च तथेति षट् ।
त्र्युल्वणश्च भवेदेको विज्ञेयः स तु सप्तमः ॥
प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च षट् ।
सन्निपातज्वरस्यैवं स्युर्व्विशेषास्त्रयोदश ॥”
तत्र प्रवृद्धवातो मध्यपित्तो हीनकफः १ मध्य-
वातः प्रवृद्धपित्तो हीनकफः २ हीनवातः
प्रवृद्धपित्तो मध्यकफः ३ प्रवृद्धवातो हीनपित्तो
मध्यकफः ४ मध्यवातो हीनपित्तः प्रवृद्धकफः ५
हीनवातो मध्यपित्तः प्रवृद्धकफश्चेति षट् ६ ।
तेषां नामानि क्रमादाह ।
“विस्फारकश्चाशुकारी कम्पनो वभ्रु संज्ञकः ।
शीघ्रकारी तथा भल्लुः सप्तमः कूटपाकलः ॥
सम्मोहकः पाकलश्च याम्यः क्रकच इत्यपि ।
तद्वत् कर्क्कटकः प्रोक्तस्ततो वैदारिकाभिधः ॥”
तन्त्रान्तरे विस्फारक इत्यत्र विस्फुरक इति
पाठः । बभ्रुस्थाने विभुरिति पाठः । कुत्रापि
विद्ध इत्यपि पाठः । भल्लुरित्यत्र फल्गुरिति
पाठः । याम्य इत्यत्र संग्राम इति पाठः ।
कर्क्कटक इत्यत्र कर्क्कोटक इति पाठः ॥ * ॥ तत्र
वातोल्वणस्य लक्षणमाह ।
“श्वासः कासो भ्रमो मूर्च्छा प्रलापो मोह-
वेपथुः ।
पार्श्वस्य वेदना जृम्भा कषायत्वं मुखस्य च ॥
वातोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत् ।
एष विस्फारको नाम्ना सन्निपातः सुदारुणः ॥” १
अथ पित्तोल्वणस्य लक्षणमाह ।
अतिसारो भ्रमो मूर्च्छा मुखपाकस्तथैव च ।
गात्रे च बिन्दवो रक्ता दाहोऽतीव प्रजायते ।
पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत् ।
भिषग्भिः सन्निपातोऽयमाशुकारी प्रकी-
र्त्तितः ॥” २ ॥ * ॥
अथ कपोल्वणस्य लक्षणमाह ।
“जडता गद्गदा वाणी रात्रौ निद्रा भवत्यपि ।
प्रस्तब्धे नयने चैव मुखमाधूर्य्यमेव च ॥
कफोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत् ।
मुनिभिः सन्निपातोऽयमुक्तः कम्पनसंज्ञकः ॥” ३ ॥
अथ वातपित्तोल्वणस्य लक्षणमाह ।
“वातपित्ताधिको यस्य सन्निपातः प्रकुप्यति ।
तस्य ज्वरो मदस्तृष्णा मुखशोषप्रमीलकाः ।
आध्मानारुचितन्द्राश्च कासश्वासभ्रमश्रमाः ।
मुनिभिर्बभ्रुनामायं सन्निपात उदाहृतः ॥” ४ ॥ *
अथ वातश्लेष्मोल्वणस्य लक्षणमाह ।
“वातश्ले ष्माधिको यस्य सन्निपातः प्रकुप्यति ।
तस्य शीतज्वरो मुर्च्छा क्षुत्तृष्णा पार्श्वनिग्रहः ॥
शूलमस्विद्यमानस्य हिक्का श्वासश्च जायते ।
असाध्यः सन्निपातोऽयं शीघ्रकारीति कथ्यते ॥
न हि जीवत्यहोरात्रमनेनाविष्टविग्रहः ॥” ५ ॥
अथ पित्तश्लेष्मोल्वणस्य लक्षणमाह ।
“पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति ।
अन्तर्द्दाहो बहिः शीतं तस्य तृष्णा प्रवर्द्धते ॥
तुद्यते दक्षिणं पार्श्वमुरःशीर्षगलग्रहाः ।
ष्ठीवति श्लेष्मपित्तञ्च कृच्छ्रात् कण्टश्च दूयते ॥
विड्भेदः श्वासहिक्काश्च वर्द्धन्ते सप्रमीलकाः ।
ऋषिभिर्भल्लु नामायं सन्निपात उदाहृतः ॥” ६ ॥
अथ वातपित्तश्लेष्मोल्वणस्य लक्षणमाह ।
“सर्व्वदोषोल्वणे यस्य सन्निपातः प्रकुप्यति ।
पृष्ठ ५/२४६
त्रयाणामपि दोषाणां तस्य रूपाणि लक्षयेत् ॥
व्याधिभ्यो दारुणश्चैव वज्रशस्त्राग्निसन्निभः ।
केवलोच्छासपरमस्तब्धाङ्गस्तब्धलोचनः ॥
त्रिरात्रोपरमे तस्य जन्तोर्हरति जीवितम् ।
तदवस्थन्तु तं दृष्ट्वा मूढो व्याहरते जनः ॥
धर्षितो राक्षसैर्न्यूनमवेलायां चरन्ति ये ।
अम्बया ब्रुवते केचित् यक्षिण्या ब्रह्मराक्षसैः ॥
पिशाचैर्गुह्यकैश्चैव तथान्यैर्म्मस्तके हतम् ।
कुलदेवार्च्चनाहीनं धर्षितं कुलदैवतैः ॥
नक्षत्रपीडामपरे गरकर्म्मेति चापरे ।
सन्निपातमिमं प्राहुर्भिषजः कूटपाकलम् ॥” ७ ॥
अथ प्रवृद्धमध्यहीनवातादिजनितसन्निपातज्व-
राणां लक्षणान्याह ।
“प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः ।
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ॥
प्रलापायाससम्मोहकम्पमूर्च्छारतिभ्रमाः ।
एकपक्षाभिघातश्च तत्राप्येतद्विशेषतः ।
एष सम्मोहको नाम्ना सन्निपातः सुदारुणः ॥”
रोगास्त एवोक्ता उक्ता एव ते रोगाः व्यथा-
वेपथुनिद्रानाशविष्टम्भादयो वातजाः । दाह-
तृष्णोष्णता स्वेदादयः पित्तजाः । गौरवाग्नि-
मान्द्योत्कासिका मुखप्रसेकादयः कफजाः ।
तत्रापि प्रलापादयः पक्षाघातान्ता विशेषाद्-
भवन्ति ॥ * ॥ ननु वातः प्रवृद्धः सन् ज्वरं
करिव्यति पित्तन्तु मध्यं सममिति यावत् तत्
कथं ज्वरं करिष्यति । यत आह ।
“धातवस्तन्मला दोषा नाशयन्त्यसमास्तनुम् ।
समाः सुखाय विज्ञेया बलायोपचराय च ॥”
इति ।
उच्यते । अत्र पित्तं मध्यमपि अप्रकृतमेव यतो-
ऽप्रकृतयोर्वातश्ले ष्मणोरपेक्षया मध्यं तेन मध्यं
मध्यकुपितमित्यर्थः ॥ * ॥ ननु कफः क्षीणः स कथं
ज्वरं करिष्यति हीनशक्तिकत्वात् । उच्यते ।
दोषाः क्षीणा अपि व्याधीन् कुर्व्वन्त्येव । यत
आह ।
“वातक्षयेऽल्पचेष्टत्वं मन्दवाक्त्वं विसंज्ञता ।
पित्तक्षयेऽधिकश्लेष्मा वह्निर्मन्दः प्रभाक्षयः ॥
शिथिलाः सन्धयो मूर्च्छा रौक्ष्यं दाहो कफ-
क्षयः ॥”
इत्याशङ्का सिद्धान्तश्चापरत्रापि ॥ ८ ॥ * ॥
“मध्यप्रवृद्धहीनैस्तु वातपित्तकफैश्च यः ।
तेन रोगास्त एबोक्ता यथादोषबलाश्रयाः ॥
मोहप्रलापमूर्च्छाः स्युर्म्मन्यास्तम्भः शिरोग्रहः ॥
कास श्वासो भ्रमस्तन्द्रा संज्ञानाशो हृदिग्रहः ॥
खेभ्यो रक्तं विसृजति तन्द्रा स्यात् स्तब्धनेत्रता ।
तत्राप्येते विशेषाः स्युर्म्मृत्युरर्व्वाक् त्रिवासरात्
भिषग्भिः सन्निपातोऽयं कथितः पाकला-
भिधः ॥ ९ ॥
हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः ।
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ॥
हृदयं दह्यते चास्य यकृत्प्लीहान्त्रफुप्फुसाः ।
पच्यन्तेऽत्यर्थमूर्द्ध्वाधः पूयशोणितनिगमः ॥
शीर्णदन्तश्च मृत्युश्च तत्राप्येतद्विशेषतः ।
भिषग्भिः सन्निपातोऽयं याम्यनामा प्रकी-
र्त्तितः ॥ १० ॥ * ॥
अथ प्रवृद्धवातमध्यपित्तहीनकस्य सन्निपातस्य
लक्षणमाह ।
“प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः ।
तेन रोगास्त एवोक्ता यथादोषाबलाश्रयाः ॥
प्रलापायाससंमोहकम्पमूर्च्छारतिभ्रमाः ।
मन्यास्तम्भेन मृत्युश्च तत्राप्येतद्विशेषतः ।
उक्तः क्रकचनामायं सन्निपातो भिष-
ग्वरैः ॥ ११ ॥ * ॥
मन्यहीनप्रवृद्धैस्तु वातपित्तकफैश्च यः ।
तेन रोगास्तथैवोक्ता यथादोषबलाश्रयाः ॥
अन्तर्द्दाहो विशेषोऽत्र न च वक्तुं स शक्यते ।
रक्तमालक्तकेनेव लक्ष्यते मुखमण्डलम् ॥
यत्नेनाकर्षितः श्लेष्मा हृदयान्न प्रसिच्यते ।
इषुणेवाहतं पार्श्वं तुद्यन्ते खन्यते हृदि ॥
प्रमीलकश्वासहिक्का वर्द्धते तु दिनं दिनम् ।
जिह्वा दग्धा खरस्पर्शा गलः शूकैरिवावृतः ॥
विसर्गं नाभिजानाति कूजेच्चापि कपोतवत् ।
अतीवश्ले ष्मणा पूर्णः शुष्कवक्त्रोष्ठतालुकः ॥
तन्द्रानिद्रातियोगार्त्तो हतवाणिर्हतद्युतिः ।
न चातिलभते ग्लानिं विपरीतानि चेच्छति ॥
आयम्यते च बहुशो रक्तं ष्ठीवति चाल्पशः ।
एष कर्क्कटको नाम्ना सन्निपातः सुदा-
रुणः ॥ १२ ॥ * ॥
हीनमध्यप्रवृद्धैस्तु वातपित्तकफैश्च यः ।
तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः ॥
अल्पं शूलं कटीतोदो मध्यो दाहो रुजा भ्रमः
भृशं क्लमः शिरो वक्त्रमन्या हृदयवाग्रुजः ॥
प्रमीलकः श्वासहिक्काकाशजाड्यविसंज्ञताः ।
प्रथमोत्पन्नमेतन्तु साधयन्ति कदाचन ॥
एतस्मिन् सन्निवृत्ते तु कर्णमूले सुदारुणा ।
पिडका जायते जन्तोर्यया कृच्छ्रेण जीवति ॥
स वैदारिकसंज्ञोऽयं सन्निपातः सुदारुणः ।
त्रिरात्रोपरमे तस्य व्यर्थमौषधकल्पनम् ॥” १३ ॥
अथ तन्त्रान्तरे । वातोल्वणादीनां सन्निपात-
ज्वरविशेषाणां त्रयोदशानां शीताङ्गादीनि
त्रयोदश नामान्तराणि लक्षणान्तराणि चाह ।
“शीताङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री प्रलापी ततो
रक्तष्ठीवयिता च तत्र गणितः सम्भुग्ननेत्रस्तथा
साभिन्यासकजिह्वकश्च कथितः प्राकसन्धिगो-
ऽथान्तको
रुग्दाहः सहचित्तविभ्रम इह द्वौ कर्णकण्ठ-
ग्रहौ ॥”
तन्द्री तन्द्रिकः । प्रलापी प्रलापकः । रक्तष्ठीव-
यिता रक्तष्ठीवी । सम्भुग्ननेत्रो भुग्ननेत्रः । अभि-
न्यासकः अभिन्यासः । कर्णकण्ठग्रहौ कर्णग्रहः
कर्णकः । कण्ठग्रहः कण्ठकुब्जकः ॥ * ॥
अथ तेषां प्रत्येकलक्षणानि ।
“हिमशिशिरशरीरः सन्निपातज्वरी यः
श्वसनकसनहिक्कामोहकम्पप्रलापैः ।
क्लमबहुकफतान्तर्द्दाहवम्यङ्गपीडा-
स्वरविकृतिभिरार्त्तः शीतगात्रः स उक्तः ॥ १ ॥
तन्द्रातीव ततस्तृषातिसरणं श्वासोऽधिकः
कासरुक्
सन्तप्तातितनुर्गले श्वयथुना सार्द्धञ्च कण्डूः कफः ।
सुश्यामा रसना क्लमः श्रवणयोर्म्माद्यञ्च दाह-
स्तथा
यत्र स्यात् स हि तन्द्रिको निगदितो दोष-
त्रयोत्थो ज्वरः ॥ २ ॥
यत्र ज्वरे निखिलदोषनितान्तदोष-
जाते प्रलापबहुला सहसोत्थिताश्च ।
कम्पव्यथापतनदाहविसंज्ञताः स्यु-
र्न्नाम्ना प्रलापक इति प्रथितः पृथिव्याम् ॥ ३ ॥
निष्ठीवो रुधिरस्य रक्तसदृशं कृष्णं तनौ मण्डलं
लौहित्यं नयने तृषारुचिवमिश्वासातिसारभ्रमाः
आध्मानञ्च विसंज्ञता च तपनं हिक्वाङ्गपीडा भृशं
रक्तष्ठीविनि सन्निपातजनिते लिङ्गं ज्वरे
जायते ॥ ४ ॥
भृशं नयनरक्तताश्वसनकासतन्द्राभ्रमाः
प्रलापमदवेपथुश्रवणहानिमोहास्तथा ।
अदो निखिलदोषजे भवति यत्र लिङ्गं ज्वरे
पुरातनचिकित्सकैः स इह भुग्ननेत्रो
मतः ॥ ५ ॥
दोषास्तीव्रतरा भवन्ति बलिनः सर्व्वेऽपि यत्र
ज्वरे
मोहोऽतीव विचेष्टता विकलता श्वासो भृशं
मूकता ।
दाहश्चिक्कणमाननञ्च दहनो मन्दो बलस्य
क्षयः
सोऽभिन्यास इति प्रकीर्त्तित इह प्राज्ञै-
र्भिषग्भिः पुरा ॥ ६ ॥
त्रिदोषजनिते ज्वरे भवति यत्र जिह्वा भृशं
वृता कठिनकण्टकैस्तदनु मूकता मूढता ।
श्रुतिक्षतिबलक्षती श्वसनकाससन्तप्तयः
पुरातनभिषग् वरास्तमिह जिह्वकं चक्षते ॥ ७ ॥
व्यथातिशयिता भवेच्छ्र्वयथुसंयुता सन्धिषु
प्रभूतकफता मुखे विगतनिद्रता कासरुक् ।
समस्तमिति कीर्त्तितं भवति लक्ष्म यत्र ज्वरे
त्रिदोषजनिते बुधैः स हि निगद्यते सन्धिगः ॥ ८ ॥
यस्मिन् लक्षणमेतदस्ति सकलैर्द्दोषैरुदीते ज्वरे-
ऽजस्रंमूर्द्धविधूननं सकसनं सर्व्वाङ्गपीडाधिका ।
हिक्काश्वाससदाहमोहसहिता देहेऽतिसन्तप्तता
वैकल्यञ्च वृथावचांसि मुनिभिः सङ्कीर्त्तितः
सोऽन्तकः ॥ ९ ॥
दाहोऽधिको भवति यत्र तृषा च तीव्रा
श्वासप्रलापविरुचिभ्रममोहपीडाः ।
मन्या हनुव्यथनकण्ठरुजा श्रमाश्च
रुग् दाहसंज्ञ उदितस्त्रिभवो ज्वरोऽयम् ॥ १० ॥
गायति नृत्यति हसति प्रलपति विकृतं निरी
क्षते मुह्येत् ।
दाहव्यथाभयार्त्तो दोषत्रयचित्तविभ्रमो ज्वर-
वान् ॥ ११ ॥
पृष्ठ ५/२४७
निःशेषदोषजनितज्वरशेषजन्मा
स्यात् कर्णमूलविषये श्वयथुर्व्यथा च ।
कण्ठग्रहो वधिरताश्वसनप्रलाप-
प्रस्वेदमोहदहनानि च कर्णकाख्ये ॥ १२ ॥
कण्ठः शूकशताबरुद्धवदति श्वासःप्रलापोऽरुचि-
र्दाहो देहरुजा तृषापि च हनुस्तम्भः शिरो-
ऽर्त्तिस्तथा ।
मोहो वेपथुना सहेति सकलं लिङ्गं त्रिदोषज्वरे
यत्र स्यात् स हि कण्ठकुब्ज उदितः प्राज्ञै-
श्चिकित्साबुधैः ॥ १३ ॥ * ॥
स्न्धिगस्तेषु साध्यः स्यात्तन्द्रिकश्चित्तविभ्रमः ।
कर्णको जिह्वकः कण्ठकुब्जः पञ्चापि कष्टकाः ॥
रुग्दाहस्त्वतिकष्टेन संसाध्यस्तेषु भाषितः ।
रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः ।
अभिन्यासोऽन्तकश्चैते षडसाध्याः प्रकी-
र्त्तिताः ॥” * ॥
अथ तन्त्रान्तरे । वातोल्वणादीनां सन्निपात-
ज्वरविशेषाणां त्रयोदशानां कुम्भीपाकादीनि
त्रयोदश नामान्तराणि लक्षणान्तराणि चाह ।
“कुम्भीपाकः प्रोर्णुनावः प्रलापी
ह्यन्तर्द्दाहो दण्डपातोऽन्तकश्च ।
एणीदाहश्चाथ हारिद्रसंज्ञो
भेदा एते सन्निपातज्वरस्य ॥
अजघोषभूतहासौ यन्त्रापीडश्च संन्यासः ।
संशोषी च विशेषास्तस्यैवोक्तास्त्रयोदश च ॥”
अथैषां लक्षणानि ।
“घोनाविवरझरद्वहुशोणासितनीललोहितं
सार्त्ति ।
विलुठन् मस्तकमभितः कुम्भीपाकेन पीडितं
विद्यात् ॥
उत्क्षिप्य यः स्वमङ्गं क्षिपत्यधस्तान्नितान्त-
मुच्छसिति ।
तं प्रोर्णुनावजुष्टं विचित्रकष्टं विजानीयात् ॥
स्वेदभ्रमाङ्गपीडा कम्पो दवथुर्वमी व्यथा कण्ठे
गात्रञ्च गुर्व्वतीदं प्रलापिजुष्टस्य जायते
लिङ्गम् ॥
अन्तर्द्दाहः शैत्यं बहिंश्च यस्या विशेषतः श्वासः
अङ्गमिव दग्धकल्पं सोऽन्तर्द्दाहार्द्दितः कथितः ॥
नक्तं दिवा न निद्रामुपैति गृह्णाति मूढधी-
र्न्नभसः ।
उत्थाय दण्डपाते भ्रमातुरः सर्वतो भ्रमति ॥”
नभसो गृह्णाति आकाशात् किञ्चिद्ग्रहीतुं
करौ प्रसारयति इत्यर्थः ।
“संपूर्य्यते शरीरं ग्रन्थिभिरभितस्तथोदरं मरुता
श्वासातुरस्य सततं विचेतनस्यान्तकार्त्तस्य ॥
परिधावतीव गात्रे रुक्पात्रे भुजगपतग-
हरिणगणः ।
वेपथुमतः सदाहस्यैणीदाहज्वरार्त्तस्य ॥”
रुक्पात्रे पीडाभाजने । गात्रस्य विशेषणमेतत्
“यस्यातिपीतमङ्गनयने सुतरामलं ततोऽप्यं-
धिकम् ।
दाहोऽतिशीतता बहिरस्य स हारिद्रको ज्ञेयः ॥
छगलकशरीरगन्धः स्कन्धरुजावान्निरुद्धगल-
रन्ध्रः ।
अजघोषसन्निपातादाताम्राक्षः पुमान् भवति ॥
शब्दादीनधिगच्छति न स्वान्विषयान् यदी-
न्द्रियग्रामः ।
हसति प्रलपति परुषं स ज्ञेयो भूतहासार्त्तः ॥
येन मुहुर्ज्वरवेगाद्यन्त्रेणेवावपीड्यते गात्रम् ।
रक्तं पीतञ्च वमेत् यन्त्रापीडः स विज्ञेयः ॥
अतिसरति वमति कूजति गात्राण्यभितश्चिरं
नरः क्षिपति ।
स न्याससन्निपाते प्रलपति भुग्नाक्षिमण्डलो
भवति ॥
मेचकवपुरतिमेचकलोचनयुगलोऽबलो मलोत्-
सर्गात् ।
संशोषिणि सितपिडकामण्डलयुक्तो ज्वरे भवति
नारायण एव भिषग्भेषजमेतेषु जाह्नवीनीरम् ।
नैरुज्यहेतुरेको नित्यं मृत्युञ्जयोऽध्येयः ॥” * ॥
अथासाध्यसन्निपातज्वरस्य लक्षणमाह ।
“सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः ।
शोथः संजायते तेन कश्चिदेव प्रमुच्यते ॥”
सुदारुणः मारकत्वात् यतस्तेन शोथेन कश्चि-
देव प्रमुच्यते । कोऽपि जीवितं त्यजति इत्यर्थः ।
“सन्निपातज्वरान् कष्टानसाध्यानपरे जगुः ।
दोषे विबद्धे नष्टेऽग्नौ सर्व्वसम्पूर्णलक्षणः ।
सन्निपातज्वरोऽसाध्यः कष्टसाध्यस्ततोऽन्यथा ॥”
दोषे पित्तकफे । विबद्धे अपक्वे सर्व्वसम्पूर्ण-
लक्षणः सर्व्वाणि दाहशीतादीनि सम्पूर्णानि
अन्यूनानि प्रौढानीति यावत् लक्षणानि यस्य
सः । ततोऽन्यथा दोषे पक्वे अग्नौ दीप्ते स्वल्प-
लक्षणकः कष्टसाध्य इत्यर्थः ॥ * ॥ * ॥
अथ सामान्यसन्निपातज्वरस्य चिकित्सा ।
“सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम् ।
कस्तेन न कृतो धर्म्मः काञ्च पूजां न सोऽर्हति ॥
मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता ।
यश्च तत्र भवेज्जेता स जेतामयसङ्कुले ॥
श्लेष्मनिग्रहमेवादौ कुर्य्याद्ब्याधौ त्रिदोषजे ।
निरस्ते श्लेष्मणि ह्यस्य स्रोतःसूद्द्वाटितेषु च ।
लाघवं जायते सद्यस्तृष्णा चैवोपशाम्यति ॥” * ॥
भेडोऽप्याह ।
“सन्निपातज्वरे पूर्व्वं कुर्य्यादामकफापहम् ।
पश्चात् श्लेष्मणि संक्षीणे शमयेत् पित्तमारुतौ ॥”
इति ॥ * ॥
ननु तन्त्रान्तरे प्रथमंपित्तस्य प्रतिक्रिया प्रोक्ता
यथा, --
“शमयेत् पित्तमेवादौ ज्वरेषु समवायिषु ।
दुर्न्निवारतरं तद्धि ज्वरार्त्तेषु विशेषतः ॥” इति
अन्यत्रापि ।
“समवाये त्रिदोषाणां पूर्वं पित्तमुपाचरेत् ।
ज्वरे चैयातिसारे च सर्व्व त्रान्यत्र मारुतः ॥”
इति ॥
तथान्यत्र प्रथमं वायोः प्रतिक्रिया प्रोक्ता ।
यथा, --
“वातस्यानुजयेत् पित्तं पित्तस्यानुजयेत् कफम् ।”
इति ॥ * ॥
तत्र व्यवस्थामाह तन्त्रान्तरे ।
“ज्वरे त्रिदोषजे सामे शमयेत् प्रथमं कफम् ।
जीर्य्यत्यामे जयेत् पित्तं निरामे त्वनिलं जयेत् ॥
इति । प्रथममिति स्थानत्रयेऽपि सम्बध्यते ।
अन्ये त्विति समादधते ।
“त्रयाणां वा जयेत् पूर्व्वं तं यः स्याद्वलवत्तरः ।”
इति ।
तथा च ।
“संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत्
शेषदोषाविरोधेन सन्निपाते तथैव च ॥” इति ॥
संसर्गे दोषद्वयसंसर्गे । गरीयान् बलवत्त्वरः ।
“अंशांशं यत्र दोषाणां विवेक्तुं नैव शक्नु यात् ॥
क्रियां साधारणीं तत्र विदधीत् चिकित्सकः ॥
लङ्घनं वालुकास्वेदो नस्यं निष्ठीवनं तथा ।
अवलेहोऽञ्जनञ्चैव प्राक् प्रयोज्यं त्रिदोषजे ॥”
ज्वर इति शेषः ॥ * ॥ ननु ।
“क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्
पूर्व्वस्यां शान्तवेगायां न क्रियासङ्करो हितः ॥”
इति वचनेन क्रियासङ्करस्य निषिद्धत्वात् कथ-
मत्र नस्यनिष्ठीवनावलेहाञ्जनानि युगपद्विधी-
यन्ते इत्याशङ्खायामाह ।
“क्रियाभिस्तुल्यरूपाभिः क्रियासाङ्कर्य्यमिष्यते ।
भिन्नरूपतयैतास्तु नहि कुर्व्वन्ति दूषणम् ॥” * ॥
तत्र लङ्घनस्य अवधिमाह ।
“त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा ।
लङ्घनं सन्निपातेषु कुर्य्याद्वारोग्यदर्शनात् ॥”
लङ्घने त्रिरात्रादिविकल्प उल्वणवाताद्यपेक्षया
दोषाणां शीघ्रमध्यमन्दशक्तिकत्वात् व्याधिस्व-
भावाच्च । आरोग्यदर्शनात् इति यावदरोगता-
दर्शनं स्यात्तावद्वा लङ्घन कुर्य्यात् । एतेन
त्रिरात्राद्यवधेरनियतत्वं सूचितम् । अतएव
सुश्रुतः प्राह ।
“सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ।
पुनर्घोरतरो भूत्वा प्रशमं यान्ति हन्ति वा ॥”
घोरतर इति घोरः स्वभावादेव तदा घोरतरो
भूत्वेति ॥ * ॥ हननप्रशमनयोः कारणमाह ।
“पित्तकफानिलवृद्ध्या दशदिवसद्वादशाह-
सप्ताहात् ।
हन्ति विमुञ्चत्यथवा त्रिदोषजो धातुमलपा-
कात् ॥”
त्रिदोषजो ज्वर इति शेषः । धातुमलपाकात्
धातुपाकाद्धन्ति मलपाकाद्विमुञ्चतीत्यर्थः ।
धातुमलपाके प्राक्तनकर्म्मैव हेतुः । तत्र यदि
जीवनसंवर्द्धकं कर्म्मास्ति तदा मलपाकोऽन्यथा
धातुपाकः । स च रसादिशुक्रान्तधातूनां पाको
बोद्धव्यः ॥ * ॥ तत्र धातुपाकस्य लक्षणमाह ।
“निद्रानाशो हृदि स्तम्भो विष्टम्भो गौरवा-
रुची ।
अरतिर्बलहानिश्च धातूनां पाकलक्षणम् ॥”
विष्टम्भ उदरस्य । गौरवं गात्राणाम् । अन्यच्च ।
पृष्ठ ५/२४८
“संवाध्यमानो हृदि नाभिदेशे
गात्रेषु वा पाकरुजायुतेषु ।
पीडाज्वरार्त्तोऽङ्गुलिभिश्च गच्छेत्
स धातुपाकी कथितो भिषग्भिः ॥”
अपरञ्च ।
“नाभेरूर्द्धं हृदोऽधस्तात् पीड्यते व्यथया यदि
धातोः पाकं विजानीयादन्यथा तु मलस्य च ॥”
मलपाकलक्षणमाह ।
“दोषप्रकृतिवैकृत्यं लघुता ज्वरदेहयोः ।
इन्द्रियाणाञ्च वैमल्यं मलानां पाकलक्षणम् ॥”
दोषप्रकृतिवैकृत्यं दोषा वातादयस्तेषां प्रकृति-
र्वेपथुदाहगौरवादिकरणं तस्य वैकृत्यं वैप-
रीत्यम् । वेमल्यं मलराहित्यम् । मलानां
दोषाणाम् । अन्यच्च ।
“शश्वद्धीन्द्रियपञ्चकस्य पटुता वह्नेश्च यत्र क्रमात्
तृष्णादिप्रशमो ज्वरस्य मृदुता तं दोषपाकं
वदेत् ।
हृन्नाभ्योरतिवेदनातिसरणं तीव्रो ज्वरस्तृण्मद
श्वासाधिक्यमरोचको रतिरिति स्याद्धातु-
पाकाकृतिः ॥” * ॥
आमस्याधिक्येन सप्तमदिवसाद्यवध्यतिक्रमे पर-
मावधिमाह । हारीतः ।
“सप्तमी द्विगुणा यावन्नवम्येकादशी तथा ।
एषा त्रिदोषमर्य्यादा मोक्षाय च वधाय च ॥”
नवम्येकादशी चागमनदिवसं संविहाय बोद्धव्या
तेनागमनदिवसं नीत्वा दशमी द्वादशी च अत्र
रात्रिरित्यध्याह्रियते ।
“सन्निपातज्वरी पूर्वं सम्यग्लङ्घनमाचरेत् ।
शृतं शीतं पिबेदम्भः समये भेषजं भवेत् ॥
सन्निपातेन तृष्यन्तं पार्श्वरुक् तालुशोषितम् ।
यः पाययेज्जलं शीतं स मृत्युर्नरविग्रहः ॥”
शीतं अक्वथितम् । शृतं तु शीतं विहितमेव
इति लङ्घनम् ॥ * ॥ अथ वालुकास्वेदः ।
“वातश्ले ष्मकृते स्वेदात् कारयेद्रू क्षनिर्म्मितात्
स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजान्
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तवालुकास्वेदः
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन् ॥
श्रोतसामार्द्रवं कृत्वा नीत्वा पावकमाशयम् ।
हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति ॥”
इति वालुकास्वेदः ॥ * ॥
अथ नस्यम् ।
“सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च ।
वस्तमूत्रेण संपिष्टं नस्यं तन्द्रानिवारणम् ॥”
श्वेतमरिचं शिग्रु बीजम् । सैन्धवादिनस्यम् ॥
“मधूकसारसिन्धूत्थवचोषणकणाः समाः ।
श्लक्ष्णं पिष्ट्वाम्भसा नस्य दद्यात् संज्ञाप्रबोध-
नम् ॥”
इति मधूकसारादिनस्यम् ॥
“मातुलुङ्गार्द्रकरसं कोष्णं त्रिलवणान्वितम् ।
अन्यद्वा सिद्धविहितं नस्यं तीक्ष्णं प्रयोजयेत् ॥
तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिव्यते ।
शिरोहृदयकण्ठास्यपार्श्वरुक् चोपशाम्यति ॥
मोहामयेन मुग्धं बोधयितुं यादृशः शक्तः ।
कल्पतरुनामधेयो रसो न तादृक् परं
किञ्चित् ॥”
इति नस्यम् ॥ * ॥
अथ निष्ठीवनम् ।
“जिह्वातालुगलक्लोम मरुत्पित्तेन चोच्छ्रितः ।
तदा स चारयेच्छोषं जिह्वायाः खरतां तथा ॥
स्फुटनञ्च तदा जिह्वां लेपयेन्मधुपिष्टया ।
द्राक्षया साज्यपातेन जिह्वा स्यात् सरसा
मृदुः ॥
आर्द्रकस्य रसोपेतं सैन्धवं कटुकत्रयम् ।
आकण्ठाद्धारयेदास्ये निष्ठीवेच्च पुनः पुनः ॥
तेनास्य हृदयक्लोममन्यापार्श्वशिरोगलात् ।
नीलोऽप्याकृष्यते श्लेष्मा लाघवं चास्य जायते ॥
पर्व्वभेदो ज्वरो मूर्च्छा निद्राश्वासगलामयाः ।
मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति ॥
सकृत् द्विस्त्रिश्चतुः कुर्य्याद्दॄष्ट्वा दोषबलाबलम् ।
एतद्धि परमं प्राहुर्भेषजं सन्निपातिनाम् ॥”
इति कवलग्रहः ॥ * ॥
अथावलेहः ।
“कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी
श्लक्ष्णचूर्णीकृतं चैतत् मधुना सह लेहयेत् ॥
एषावलेहिका हन्ति सन्निपातं सुदारुणम् ।
हिक्कां श्वासञ्च कासञ्च कण्ठरोगञ्च नाशयेत् ।
एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः ॥”
तन्त्रान्तरे च उक्तम् ।
“अष्टाङ्गं मधुना लिह्यादार्द्र कस्य रसेन वा ।
संमोहं दारुणं हन्यात्तन्द्राकाससमन्वितम् ॥”
इति ।
“सर्वेषु सन्निपातेषु न क्षौद्रमवचारयेत् ।
शीतोपचारि क्षौद्रं स्याच्छीतञ्चात्र विरुध्यते ॥
अयमभिप्रायः । सन्निपातज्वरेषु श्लेष्मनिग्र-
हार्थं सर्व्वदा स्वेदो हित उक्तः । अत्राग्नि-
सम्बन्धाद्देहस्योष्णता तिष्ठेदेव । उष्णेन मधुना
विरोधः । उक्तञ्च सुश्रुतेन ।
“उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु ।
उष्णार्त्तमुष्णैरुष्णञ्च तन्निहन्ति यथा विषम् ॥”
इति ॥
शीतोपचारि क्षौद्रमिति । शीतेनोपचारोऽस्या-
स्तीति शीतोपचारि । शीतञ्चात्र सन्निपाते
विरुध्यते । अयमवलेहः प्रायेणोर्द्ध्वजत्रुजरोग-
हरत्वात् सायमुपयुज्यते । यत उक्तं चरकेण ।
“ऊर्द्ध्वजत्रु गदघ्नी या सा सायमवलेहिका ।
अधोरोगहरी या सा भोजनात् प्राक् प्रयु-
ज्यते ॥”
पौष्करं पुष्करमूलं तदलाभे कुष्ठं देयम् ।
शृङ्गी कर्क्कटशृङ्गी । व्योषं शुण्ठीपिप्पलीमरि-
चानि । यासो यवासः । केचिद्यासस्थाने
यवानीं प्रक्षिपन्ति । कारवी मगरैला इति
लोके । अष्टाङ्गावलेहिका ॥ * ॥
“स्विन्नमामलकं पिष्ट्वा द्राक्षया सह मेलयेत् ।
विश्वभेषजसंयुक्तं मधुना सह लेहयेत् ।
तेनाशु शाम्यति श्वासः कासो मूर्च्छारुचि-
स्तथा ॥”
इत्यवलेहः ॥ * ॥
अथाञ्जनम् ।
“शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः ।
अञ्जनं स्यात् प्रबोधाय सरसोनशिलावचैः ॥”
इति शिरीषबीजाद्यञ्जनम् ॥ * ॥
“अयोरजः श्वेतलोध्रमञ्जनं मरिचं तथा ।
गोपित्तेन समायुक्तं तन्द्रानाशनमुत्तमम् ॥”
गोपित्तं गोरोचना । लौहचूर्णाद्यञ्जनम् ॥ * ॥
“अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः ।
प्रमोहद्रोहि भवति भाषितं भिषजां वरैः ॥”
शिला मनःशिला । उषणं मरिचम् । इत्य-
ञ्जनम् ॥ * ॥ अथ क्वाथः ।
“सूतं विषञ्च मरिचं तुत्थकं नवसादरम् ।
चूर्णितं स्वरसैर्म्मद्यं धूर्त्तपत्ररसोनयोः ॥
सन्निपातकृते मोहे मूर्द्ध्नि लिम्पेत् पदोपरि ।
अस्थिव्यथास्वनेनैव लेपं कुर्य्यात् पदोपरि ॥”
पदं पीछ इति लोके ।
“विल्वश्योनाकगम्भारीपाटलागणिकारिकाः ।
पाचनं वातकफहृत् पञ्चमूलमिदं महत् ॥
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका ।
गोक्षुरो वातपित्तघ्नं कनीयः पञ्चमूलकम् ॥
उभयं दशमूलं तत् पिप्पलीचूर्णसंयुतम् ।
सन्निपातज्वरं हन्ति हृत्कण्ठग्रहनाशनम् ॥
तन्द्रावातकफातङ्कश्वासपार्श्वार्त्तिकासनुत् ।
महान्ति यानि मूलानि काष्ठगर्भाणि यानि
च ।
तेषान्तु वल्कलं ग्राह्यं ह्रस्वमूलानि कृत्स्नशः ॥”
अत्र विल्वादीनां पञ्चानां मूलस्य वल्कलं
ग्राह्यम् । दशमूलक्वाथः ॥ * ॥
“दशमूलीकषायस्तु स पौष्करकणान्वितः ।
सन्निपातज्वरे देयः श्वासकाससमन्विते ॥”
इति द्वादशाङ्गक्वाथः ॥ * ॥
“चिरज्वरे वातकफोल्वणे वा
त्रिदोषजे वा दशमूलमिश्रः ।
किराततिक्तादिगणः प्रयोज्यः
शुद्ध्यर्थिने वा त्रिवृता विमिश्रः ॥”
किराततिक्तादिर्यथा, --
किराततिक्तको मुस्तं गुडूची विश्वभेषजम् ।
किरातादिगणो ह्येष चातुर्भद्रकमित्यपि ॥”
इति चतुर्द्दशाङ्गक्वाथः ॥ * ॥
“दशमूली शठी शृङ्गी पौष्करं सदुरालभम् ।
भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी ॥ ॥
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः ।
कासहृद्ग्रहपार्श्वार्त्ति श्वासहिक्कावमीहरः ॥”
इत्यष्टादशाङ्गक्वाथः ॥ * ॥
“भूनिम्बदारुदशमूलमहौषधाब्द-
तिक्तेन्द्रबीजधनिकेभकणाकषायः ।
तन्द्राप्रलापकसनारुचिदाहमोह-
श्वासत्रिदोषजनितज्वरनाशनः स्यात् ॥”
इति द्वितीयोऽष्टादशाङ्गक्वाथः ॥
पृष्ठ ५/२४९
एतस्यैव गुण उक्तो वङ्गसेनेन ।
“अष्टादशाङ्गमित्येष मृत्युकल्पं ज्वरं जयेत् ॥”
इति ॥ * ॥
अथ सन्निपातज्वरे रसाः ।
“विषं त्रिकटुकं गन्धं टङ्कणं मृतशुल्वकम् ।
धुस्तूरस्य च बीजानि हिङ्गुलं नवमं स्मृतम् ॥
एतानि समभागानि दिनैकं विजयाद्रवैः ।
मर्द्दयेच्चणकाकारा कर्त्तव्या वटिकाथ सा ॥
भक्षणीया तु पातव्योरविमूलकषायकः ।
मृतसंजीवती नाम्ना सन्निपातज्वरान्तकृत् ॥”
इति मृतसञ्जीवनी वटिका ॥ * ॥
सन्निपातज्वरे रसप्रदीपे ।
“शुद्धसूतसमं गन्धं सूतांशं मृतताम्रकम् ।
त्रिभिस्तुल्यैर्गवां क्षीरैर्म्मर्द्दयेदातपे खरे ॥
मर्द्दयेद्दिनमेकन्तु निर्गुण्डीशिग्रजद्रवैः ।
विधाय गोलं तं गोलमन्धमूषागतं पचेत् ॥
त्रियामान् वालुकायन्त्रे ततः खल्ले विचूर्णयेत् ।
अष्टमांशं विषं तत्र क्षिपेत्तेनापि मर्द्दयेत् ॥
त्रिनेत्राख्यो रसो ह्येष ज्ञेयो गुञ्जाद्वयोन्मितः ।
पञ्चकोलकषायेण छागीदुग्धेन वा सह ॥
रसेनानेन भुक्तेन सन्निपातज्वरो महान् ।
संक्षयं व्रजति क्षिप्रं कर्त्तव्यो नात्र संशयः ॥”
इति त्रिनेत्रो रसः ॥ * ॥
सन्निपातज्वरे रसप्रदीपे ।
“भस्म षोडशनिष्कं स्यादारण्योपलसम्भवम् ।
मरिचं निष्कमात्नञ्च विषं निष्कं विचूर्णयेत् ॥
रसो भस्मेश्वरो नाम्ना सन्निपातज्वरान्तकृत् ।
एकगुञ्जामितो भक्ष्य आर्द्रकस्य द्रवेण हि ॥”
इति भस्मेश्वरो रसः ॥ * ॥
सन्निपातज्वरे रसेन्द्रचिन्तामणौ ।
“द्वौ कर्षौ सूतकाद्ग्राह्यौ गन्धकाद्द्वौ तथैव च ।
यत्नतस्तूभयं मर्द्यं दिनं हंसपदीरसैः ॥
कल्कस्य वटिकां कृत्वा निःक्षेत् काचभाजने ।
कर्षैकममृतं तत्र क्षिप्त्वा वक्त्रं निरोधयेत् ॥
कुपिकायाः परौ भागौ वालुकाभिश्च पूरयेत् ।
सार्द्धं यावदहोरात्रं तावत्तत्र पचेद्रसम् ॥
दीपमात्रोऽनलो देयः साङ्गशीतं तमुद्धरेत् ।
तोलार्द्धममृतं तत्रक्षिपेत्तावत्तथोषणम् ॥
भक्षितो रक्तिकामात्रो रसस्त्वग्निकुमारकः ।
सन्निपातज्वरं हन्याद्वातं मन्दाग्नितामपि ॥
शूलं संग्रहणीं गुल्मं क्षयं पाण्डुगदं तथा ।
श्वासकासादिकान् सर्व्वान् गदानेष विना-
शयेत् ॥”
इति अग्निकुमारो रसः ॥ * ॥
सन्निपातज्वरादिषु रसेन्दचिन्तामणौ ।
“गन्धेशटङ्कमरिचं विषं धर्त्तूरजैर्द्रवैः ।
दिनसंमर्द्दितं शुष्कं पञ्चवक्त्रो रसो भवेत् ॥
आर्द्रकस्य द्रवेणैष दातव्यो रक्तिकामतः ।
सन्निपातज्वरं घोरं नाशयेन्नात्र संशयः ॥”
ईशः पारदः । टङ्कः टङ्कणः । षञ्चवक्तो रसः ॥ * ॥
सन्निपातज्वरे रसेन्द्रचिन्तामणौ । अथ शीत-
ज्वरे रसाः ।
“सूतकं गन्धकञ्चैव हरितालं मनःशिलाम् ।
एकनिष्कं द्विनिष्कञ्च चतुर्निष्कं तथैव च ॥
पञ्चनिष्करसैः कारवेल्ल्याः कल्क प्रकल्पयेत् ।
ताम्रपत्राणि तुल्यानि तेन कल्केन लेपयेत् ॥
सरावसंपुटे तानि कृत्वा तेषामुपर्य्यपि ।
दद्यात्तां पिष्टिकां पश्चात् पुटपाकेन पाचयेत् ॥
ततः संचूर्णयेदेव रसः क्षौद्रेण भक्षितः ।
यवैकमात्रया हन्ति घोरं शीतज्वरं ध्रुवम् ॥”
पाराटङ्कः १ गन्धकटङ्कः २ हरितालटङ्कः ४
मनःशिलाटङ्कः ५ ताम्रपत्रटङ्कः १२ । इति
शीतज्वरारिरसः ॥ * ॥ रसप्रदीपे ।
“पारदं गन्धकं तुत्थं दरदञ्च विषं समम् ।
विषादष्टगुणं योज्यं मरिचं विश्वभेषजम् ॥
अश्वगन्धा तु विजया कासमर्दकठिल्लकः ।
चतुर्णाञ्च रसैरेतच्चूर्णं यत्नेन मर्दयेत् ॥
तुलस्यास्तु दलैः सार्द्धं भक्षितो रक्तिकामितः ।
हन्ति शीतज्वरं घोरं नाम्रायं शीतकेशरी ॥”
इति शीतकेशरीरसः ॥ * ॥
रसप्रदीपे ।
“तालकं शूक्तिकाचूर्णं तुल्यं तत्रोभयोपरि ।
नवमांशञ्च तुत्थं स्यात् मर्दयेत् कन्यकाद्रवैः ॥
तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत् ।
शीतं तच्चूर्णयेदर्द्धं गुञ्जामात्रं शितायुतम् ॥
प्रभाते भक्षयेत्तेन याति शीतज्वरक्षयम् ।
वान्तिर्भवति कस्यापि कस्यापि न भवत्यपि ॥”
इति शीतभञ्जी ॥ * ॥
“रसकं पारदं तुत्थं तालकं गन्धटङ्कणम् ।
सर्व्वमेतत् समं चूर्णं कारवेल्लीरसैर्दिनम् ॥
मर्दयेत्तेन शुद्धस्य रसकादिसमस्य तु ।
ताम्रस्य भाजनस्यान्तर्लिम्पेदर्द्धाङ्गु लोन्मितम् ॥
तत् पचेद्वालुकायन्त्रे यवा यावत् स्फुटन्ति हि ।
शीतलं तद्धि गृह्णीयात्ताम्रपात्रोदराद्भिषक् ॥
शीतभञ्जी रसो माषमात्रो मरिचसंयुतः ।
भक्षितः पर्णखण्डेन नाशयेद्विषमज्वरान् ॥”
इति शीतभञ्जी रसः ॥ * ॥
शीतज्वरादिविषमज्वरेषु रसेन्द्रचिन्तामणौ ।
“तालको दरदोद्भू तपारदो गन्धकः शिला ।
क्रमाद्भागार्द्धरहितं कारवेल्ल्यम्बुमर्दितम् ॥
अनेनास्य प्रमाणेन ताम्रपात्रीं प्रलेपयेत् ।
अधोमुखीं दृढे भाण्डे तान्निरुध्याथ पूरयेत् ॥
चुल्ल्यां वालुकया घस्रमग्निं प्रज्वालयेदृढम् ।
शीतं संचूर्ण्य माषोऽस्य नागवल्लीदले स्थितः ॥
भक्षितो मरिचैः सार्द्धं समस्तान् विषमज्वरान्
शीतदाहादिकान् हन्ति पथ्यं शाल्यौदनं
पयः ॥”
इति शीतभञ्जीरसः ॥ * ॥
रसरत्नप्रदीपे ।
“रसं गन्धं विषञ्चैव समं शुद्धञ्च टङ्कणम् ।
मर्दयेत् खल्लमध्ये तु यावत् कज्जलसन्निभम् ॥
नकुलस्य मुखे क्षिप्त्वा मृदा संवेष्टयेद्दृढम् ।
स्थापयेत् मृण्मये पात्रे अधोऽर्द्धलवणं न्यसेत् ॥
मुखे भाण्डं संनिरुध्य चतुर्यामं दृढाग्निना ।
साङ्गशीतं समुद्धृत्य कृत्वा खल्लेषु कज्जलीम् ।
गुञ्जाद्वयप्रमाणेन नस्यकर्म्मणि योजयेत् ।
वामभागे ज्वरं हन्ति तत्क्षणात् कौतुकं महत्
योजयेद्दक्षिणे भागे आरोग्यं निश्चितं भवेत् ॥”
इत्यर्द्धनारीनाटेश्वरो रसः ॥ * ॥
शीतज्वरादिविषमज्वरेषु रसरत्नप्रदीपे ।
“कट्फलं त्रिफलादारुचन्दनं सपरूषकम् ।
कटुकापद्मकोशीरं विपचेत् कर्षकं जले ॥
त्रिदोषदाहतृष्णाघ्नं पानमात्रेयपूजितम् ।
दीर्घकालज्वरार्त्तानामेतत् स्यादमृतोमम् ॥”
कर्षं कट्फलाद्युशीरान्तानां समुदितानां जले
प्रस्थमिते विपचेत् अर्द्धशेषम् । कट्फलादिपानं
तृष्णायां दाहे च ।
“सन्निपाते तु दाहार्त्तं यः सिञ्चेच्छीतवारिणा
आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत् ॥”
एष सन्निपातिनो दाहे शीताम्बुसेकनिषेधो रुग्-
दाहान्यत्र तत्र व्याप्याद्यवगाहनस्योक्तत्वात् ॥ * ॥
अथान्नमाह ।
“दुःस्पर्शगोक्षुरक्षुदासिद्धमाहारमर्पयेत् ।
दोषशान्तिबलाग्न्यर्थं त्रिदोषज्वरिणे भिषक् ॥”
दुःस्पर्शो यवासः । आहारमुचितमन्नम् ॥
“लाजशक्तून् समश्नीयात् सैन्धवेन समन्वितान्
ते चेज्जीर्य्यन्त्यविघ्नेन ज्वरी जीवेत्तदा ध्रुवम् ॥”
इति केचित् ॥
रक्तपित्ते हितत्वेन तृष्णादाहज्वरेषु च ।
लाजानां शक्तवः शीता न च तेऽत्र हिता
मताः ॥
पाचनो दीपनः सोष्णो लाजमण्डो यतः स्मृतः ।
दशमूलादिसंसिद्धः सन्निपातज्वरे हितः ॥
सन्निपातज्वरी यस्तु कम्पते प्रलपत्यपि ।
किञ्चिदेव न जानाति चिकित्सा तस्य कथ्यते ॥
अभ्यञ्जयेत् पुराणेन सर्पिषा पूर्व्वमेव तम् ।
बलारास्नागुडूच्याद्यैस्तैलैश्च परिषेचयेत् ॥
वर्त्तको वर्त्तका लावो वार्त्ताकस्तित्तिरिः शशः ।
कुलिङ्गश्च रसेनैषां तर्पयेत यथानलम् ॥”
वर्त्तकः वटेर इति लोके । वर्त्तका बटई इति
लोके । वार्त्ताको वातचटक इति निर्घण्टः ॥
वगेरा इति लोके । कुलिङ्गो गरगरैया इति
लोके ।
“सन्निपाते क्षुधार्त्तं यो भोजयेत् पिशितौदनम्
स कथं भिषगाख्यान्तु लभते मनुजाधमः ॥” * ॥
अथ वातोल्वणसन्निपातज्वरस्य चिकित्सा ।
“पञ्चमूलीकषायन्तु दद्याद् वातोत्तरे ज्वरे ।
भृशोष्णं वा सुखोष्णं वा दृष्ट्वा दोषबलाबलम् ॥”
पञ्चमूली महती प्रथमं प्राप्तायास्त्यागे वचना-
भावात् ॥ * ॥ अथ पित्तोल्वणसन्निपातज्वरस्य
चिकित्सा ।
“परूषकाणि त्रिफला देवदारु च कट्फलम् ।
चन्दनं प्रद्मकं चैव तथा कटुकरोहिणी ॥
पृश्नीपर्णी शृतं त्वेभिरुषितं शीतलं जलम् ।
पित्तोत्तरे नृणामेतत् सन्निपाते चिकित्सितम् ॥”
इति परूषकादिक्वाथः ॥ * ॥
पृष्ठ ५/२५०
“किराततिक्तकं मुस्तं गुडूची विश्वभेषजम् ।
पाठोदीप्यं मृणालञ्च शृतं पित्ताधिके पिबेत् ॥”
इति किरातादिसप्तकम् ॥ * ॥
अथ कफोल्वणसन्निपातज्वरस्य चिकित्सा ।
“बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरा-
लभा ।
वत्सकस्य तु वीजानि पटोलं कटुरोहिणी ॥
बृहत्यादिर्गणः शस्तः सन्निपाते कफोत्तरे ।
श्वासादिषु च सर्व्वेषु हितः सोपद्रवेष्वपि ॥”
इति बृहत्यादिक्वाथः ॥ * ॥
अथ वातपित्तोल्वणसन्निपातज्वरस्य चिकित्सा
“वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ।
तत्क्वाथो मधुना हन्ति वातपित्तोत्तरं ज्वरम् ॥”
इति लघुपञ्चमूलम् ॥ * ॥
अथ वातश्लेष्मोल्वणसन्निपातज्वरचिकित्सा ।
किराततिक्तकं मुस्तं गुडूची विश्वभेषजम् ।
चातुर्भद्रकमित्याहुर्व्वातश्लेष्मोल्वणे ज्वरे ॥”
इति चातुर्भद्रकक्वाथः ॥ * ॥
अथ पित्तश्लेष्मोल्वणसन्निपातज्वरचिकित्सा ।
“पर्पटः कट्फलं कुष्ठमुशीरं चन्दनं जलम् ।
नागरं मुस्तकं शृङ्गी पिप्पल्येषां शृतं हितम् ।
तृष्णादाहाग्निमान्द्येषु पित्तश्लेष्मोल्वणे ज्वरे ॥”
इति पर्पटादिक्वाथः ॥ * ॥
अथ वातपित्तश्लेष्मोल्वणसन्निपातज्वरचिकित्सा ।
“नागरं धान्यकं भार्गी पद्मकं रक्तचन्दनम् ।
पटोलं पिचुमर्दश्च त्रिफला मधुकं बला ॥
शर्करा कटुका मुस्ता गजाह्वा व्याधिघातकः ।
किराततिक्तममृता दशमूली निदिग्धिका ॥
योगराजो निहन्त्येष सन्निपातत्रिकोल्वणम् ।
सन्निपातसमुत्थानं मृत्युमप्यागतं जयेत् ॥”
गजाह्वा गजपिप्पली । व्याधिघातकः आरम्वधः ।
निदिग्धिका द्वैगुण्यार्थं पृथक् पठिता । इति
योगराजक्वाथः ॥ * ॥ अथ प्रवृद्धमध्यहीनवा-
तादिजनितसन्निपातज्वराणां षण्मां तन्त्रेण
चिकित्सामाह ।
“प्रवृद्धं कर्षयेद्दोषं क्षीणं संवर्द्धयेद्भिषक् ।
चिकित्सेयं विधातव्या दोषयोर्व्वृद्धहीनयोः ॥”
अस्यायमर्थः । प्रवृद्धं दोषं कर्षयेत् तत्क्षैण्य-
हेतुभिरौषधान्नविहारैः कृशीकृत्य समीकुर्य्यात्
क्षोणं दोषं संवर्द्धयेत् । तद्वृद्धिहेतुभिरौषधान्न-
विहारैर्वर्द्ध यित्वा समीकुर्य्यादित्यर्थः ।
“प्रवृद्धे समिते दोषे मध्यमः स्वयमेव हि ।
शान्तिं याति समं नीते त्वनुबन्ध्येऽनुबन्धवत् ॥”
अभ्यायमर्थः । वर्षासु वायुरनुबन्ध्यः सेव्यः ।
प्रधानमिति यावत् । पित्तश्लेष्माणावनुबन्धौ
वायोरनुचरौ शरदि पित्तमनुबन्ध्यं कफोऽनु-
बन्धः । वसन्ते कफोऽनुबन्ध्यो वातपित्ते अनुबन्धौ
तत्र यथानुबन्ध्ये प्रशमं नीतेऽनुबन्धः स्वयमेव
गान्तिं याति । तथा प्रवृद्धे दोषे शमिते ह्रास-
यित्वा समीकृते मध्यमो दोषो हि निश्चयेन
स्वयमेव गान्तिं याति प्रकृतो भवतीत्यर्थः ॥ * ॥
अथ गोताङ्गादीनां सन्निपातज्वराणां त्रयो-
दशानां विशिष्टा चिकित्सा । तत्र शीताङ्गस्य
चिकित्सामाह ।
“भास्वन्मूलं जीरकं व्योषभार्गी-
व्याघ्रीशुण्ठीपुष्करं गोजलेन ।
सिद्धं सद्यः शीतगात्रादिमोह-
श्वासश्लेष्मोद्रेककासान्निहन्ति ॥”
भास्वन्मूलं अर्कमूलम् ।
“कर्क्कोटिकाकन्दरजः कुलत्थ-
कृष्णावचाकट्फलकृष्णजीरैः ।
किराततिक्तानलकट्वलावु-
पथ्याभिरुद्वर्त्तनमत्र शस्तम् ॥”
कर्क्कोटिकाकन्दरजः खखसामूलरजः ।
“रसविषमरिचमहेशप्रियफलभस्सैकभूचतुर्व-
सुभिः ।
भागैर्म्मितमुद्धूननमिदममितस्वेदशैत्यहरम् ॥” *
अथ तन्त्रिकस्य चिकित्सा ।
“क्षुद्रामृतानागरपौष्कराणि
शृतानि पीतानि शिवायुतानि ।
शुण्ठीकणागस्तिरसोषणानि
नस्येन तन्द्राविजयोल्वणानि ॥
मरिचकचपञ्चपचा वचा रुक्
कृमिहंरनागरशर्व्वरीगवाक्ष्यः ।
छगलकजलकल्किता नितान्तं
नसि निहिता ननु तन्त्रिकं जयन्ति ॥”
कचः बालकः । पञ्चपचा दारुहरिद्रा । रुक्
कुष्ठम् । कृमिहरो विडङ्गः । शर्व्वरी हरिद्रा ।
गवाक्षी इद्रवारुणी । नसि नासिकायाम् ।
“तुरङ्गलालालवणोत्तमेन्द्रः
मनःशिलामागधिकामधूनि ।
नियोजितान्यक्षिणि निश्चितं द्राक्
तन्द्रां सनिद्रां विनिवारयन्ति ॥”
लवणोत्तमं सैन्धवम् । इन्द्रः कर्पूरः । निद्रा
अतिनिद्रा ॥ * ॥ अथ प्रलापकस्य चिकित्सा ।
“सतगरवरतिक्तो रेवताम्भोदतिक्ता-
नलदतुरगगन्धाभारतीहारहूराः ।
मलयजदशमूलीशङ्खपुष्पीसुपक्वाः
प्रलपनमपहन्युः पानतो नातिदूरात् ॥”
वरतिक्तोऽत्र पर्पटो न तु महानिम्बस्तन्त्रा-
न्तरानुरोधात् । नलदं लामज्जकम् । तदलाभा-
दुशीरं ग्राह्यम् भारती ब्राह्मी । वरम्भी
इति लोके । हारहूरा द्राक्षा ।
“सान्त्वनैरञ्जनैर्नस्यैस्तीक्ष्णैस्तिमितसेवनैः ।
सर्व्वतो विकृतं चित्तमस्य प्रकृतिमानयेत् ॥” * ॥
अथ रक्तष्ठीविनश्चिकित्सा ।
“रौहिषधन्वयवासकवासा-
पर्पटगन्धलताकटुकाभिः ।
शर्करया सममेष कषायः
क्षतजष्ठीविन उदित उपायः ॥”
रौहिषं सुगन्धतृणविशेषः । रोहित इति
लोके । गन्धलता प्रियङ्गुः ।
पद्मकचन्दनपर्पटमुस्ता
जातिवरारुणचन्दनवारि ।
क्लीतकनिम्बयुतं परिपक्वं
वारि भवेदिह शोणितहारि ॥”
क्लीतकं यष्टीमधुकम् । इह रक्तष्ठीविनि ।
“मधुकमधूकपरूषकषाय-
श्चन्दनपल्लवदारुसनाथः ।
श्रीपर्णीफलशीतकषायः
सशित इह स्यादस्रजयाय ॥”
पल्लवं पत्रकम् । पाथः बालः । सनाथः सप्र-
धानः । श्रीपर्णी गम्भारी ॥ * ॥ अथ भुम्न-
नेत्रस्य चिकित्सा ।
“तुरङ्गगन्धालवणोग्रगन्धा-
मधूकसारोषणमागधीभिः ।
वस्ताम्बुशुण्ठीलसुनान्विताभि-
र्न्नस्यं त्वसम्भुग्नदृशं करोति ॥” * ॥
अथाभिन्यासस्य चिकित्सा ।
“शृङ्गीभार्ग्य भयाजाजीकणाभूनिम्बपर्पटैः ।
देवदारुवचाकुष्ठयासकट्फलनागरैः ॥
मुस्तधान्याकतिक्तेन्द्रयवपाठाहरेणुभिः ।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकैः ॥
विशलारग्वधारिष्टशटीवाकुचिकाफलैः ।
विडङ्गरजनीदार्व्वीयवानीद्वयसंयुतैः ॥
समांशैर्व्विहितः क्वाथो हिङ्ग्वार्द्रकरसान्वितः ।
अभिन्यासज्वरं घोरं हन्ति तन्द्राञ्च तत्क्षणात्
प्रमोहं कर्णशूलञ्च सन्निपातांस्त्रयोदश ।
हिक्कां श्वासञ्च कासञ्च तथा सर्व्वानुपद्रवान् ॥”
इति शृङ्ग्यादिक्वाथः ॥ * ॥
अथ जिह्वकस्य चिकित्सा ।
“किराततिक्ताकुलकृत्कलिञ्ज-
कर्च्चूरकृष्णाकटुतैलयुक्तः ।
अम्लद्रवः संशमयेद्रसज्ञा
दोषांस्तुतो दाशरथिर्यथाब्धिम् ॥”
आकुलकृत् अकरकरहा इति लोके । कलिञ्जं
कुलिञ्जन इति लोके । अम्लद्रवः वीजपुरादि-
रसः । इति किरातादिकवलः ॥ * ॥
“शालूरपर्णी मालूरमूलामयमधुप्लुता ।
शम्बूकपुष्पी सहिता सेव्या वाचां विशुद्धये ॥”
शालूरपर्णी ब्राह्मी । मालूरमूलं विल्वमूलम् ॥
आमयः कुष्ठम् । शम्बूकपुष्पी शङ्कपुष्पी । शालूर-
पर्ण्यादिरवलेहः ॥ * ॥
“क्षुद्रा नागरपुष्करामृतलता ब्राह्मी वचा-
सुव्रता ।
भार्गी वासकया सतोयसुरसा क्वाथो जये-
ज्जिह्वकम् ।
विश्वावर्म्मविभावरीयुगवरावत्सादनीवारिद-
व्याघ्रीनिम्बपटोलपुष्करजटारुग्दारुभिर्व्वा
कृतः ॥”
पुष्करं पुष्करमूलम् । तथा चामरसिंहः ।
“मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ।”
सुव्रता गन्धपलाशी काश्मीरे प्रसिद्धा । सुरसा
तुलसी । विश्वादिर्योगान्तरम् । वर्म्म पर्प्पटः ॥
विभावरीयुगं हरिद्रा दारुहरिद्रा च । वरा
त्रिफला । वत्सादनी गुडूची । व्याघ्री कण्ट-
पृष्ठ ५/२५१
कारिका । रुक् कुष्ठम् ॥ * ॥ अथ सन्धिनस्य
चिकित्सा ।
“शटीसुरतरूत्तमाः स्थविरदारुरास्नाः समाः
सनागरसुधान्विताः पिब शतावरीसंयुताः ।
मृदुज्वलनपाचिताः सह पुरेण सन्धिग्रह-
व्यथापहतये वृथा शिशिरसेवनं मा कृथाः ॥”
उत्तमा त्रिफला । स्थविरदारु विघारा इति
लोके । सुधा गुडूची । पुरो गुग्गुलुः ।
“वचाकवचकच्छुरासहचरामृताभङ्गुरा-
सुराह्वघननागरातरुणदारुरास्नापुराः ।
वृषातरुणभीरुभिः सह भवन्ति सन्धिग्रह-
व्यथोरुजडिमक्लमभ्रमणपक्षघातद्रुहः ॥”
कवचः पर्प्पटकः । कच्छुरा यवासः । भङ्गुरा
अतिषिषा । सुराह्वं देवदारु । अतरुणदारु
वृद्धदारु । पुरो गुग्गुलुः । वृषा बृहद्दन्ती
एरण्डवत् पत्रविटपा तदलाभे दन्ती च ग्राह्या
समानगुणत्वात् । तरुण एरण्डः । भीरुः शता-
वरी ।
“सुरदारु शटी सुधालता
सुवहा शुण्ठियुता शृता जले ।
सपुराः शमयन्ति सेविताः
सततं सन्धिगतं सदागतिम् ॥”
सुवहा राम्ना ।
“मुस्तैरण्डप्राणदावाणदारु-
च्छिन्नारास्नाभीरुकर्च्चूरतिक्ता ।
वासा विश्वा पञ्चमूलीयुगाढ्या
हन्यान्मन्यास्तम्भसन्धिग्रहार्त्तीः ॥”
प्राणदा हरितकी । बाणः नीलपुष्पसहचरः ।
तिक्ता कटुका ॥ * ॥ अथान्तके विधिः ।
“इहापहाय व्रतमुष्णवारि
ज्वरारिपूयादिगदापहारि ।
ज्वरच्छिदं जीवितदञ्च नित्यं
मृत्युञ्जयं चेतसि चिन्तयस्व ॥”
इह अन्तके व्रतं लङ्घनादिनियमम् ।
“कर्पूरप्रकरावदातवपुषं सद्योगमुद्राजुषं
शश्वद्भक्तजनेषु भावुकजुषं भालस्फु रच्चक्षुषम् ।
संपूर्णामृतकुम्भसम्भृतकरं शुभ्राक्षमालाधरं
पिङ्गोत्तुङ्गजटाकलापरुचिरं चन्द्रार्द्धमौलिं
स्तुहि ॥
भिषग्भिरिति निर्णीतं सन्निपातेऽन्तकाभिधे ।
भेषजं जाह्नवीनीरं वैद्यो गोविन्द एव हि ॥” *
अथ रुग्दाहस्य चिकित्सा ।
“उशीरचन्दनोदीच्यद्राक्षामलकपर्प्पटैः ।
शृतं शीतं जलं दद्याद्दाहतृड्ज्वरशान्तये ॥”
इति षडङ्गपानम् ॥ * ॥
“सशितो निशि पर्य्युषितः प्रातर्धान्याक-
तण्डुल क्वाथः ।
पीतः शमयत्यचिरादन्तर्द्दाहं ज्वरं पत्तम् ॥”
धान्याकतण्डुलाः कण्डितधान्यकानि । इति
धान्याकक्वाथः ॥ * ॥
“पथ्यां तैलघृतक्षौद्रैर्लिहन् दाहज्वरापहाम् ।
कासासृक्पित्तवीसर्प श्वासान् हन्ति वमीमपि ॥”
तेलघृतक्षौद्रैरित्यत्र न समुच्चयः स्नेहेन केवलेन
मधुनापि लिह्यात् । इति पथ्यावलेहः ॥ * ॥
“प्रशमयति दाहमचिरात् दधियुक्कर्क्कन्धु-
पल्लवैर्लेपः ।
लेपो हिमकरमलयजनिम्बदलैस्तक्रपिष्टैर्व्वा ॥”
हिमकरः कर्पूरः । तथा च घनसारश्चन्द्रसंज्ञ
इत्यमरः ॥
“उत्तानसुप्तस्य गभीरताम्र-
कांस्यादिपात्रे निहिते च नाभौ ।
शीताम्बुधारा बहला पतन्ती
निहन्ति दाहं त्वरितं ज्वरञ्च ॥
शीताम्भसा तु शतशश्च विलोडितेन
गव्येन चन्दनयुतेन घृतेन दिग्धा ।
दाहज्वरी सकमलोत्पलमाल्यधारी
क्षिप्रं विशेत् सलिलकोष्ठमनल्पकालम् ॥
काञ्जिकार्द्रपटेनावगुण्ठनं दाहनाशनम् ।
अथ गोतक्रसंस्विन्नशीतलीकृतवाससा ॥” * ॥
अथान्नमाह ।
“दाहावमर्द्दितं क्षामं निरन्नं तृष्णयान्वितम् ।
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥”
लाजतर्पणं लाजशक्तुभिरुपतर्पणम् ।
“वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः ।
नार्य्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ॥
मुक्तावली चन्दनशीतलानां
सुगन्धपुष्पाम्बरभूषितानाम् ।
नितम्बिनीनां सुपयोधराणा-
मालिङ्गनान्याशु हरन्ति दाहम् ॥
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः ।
हितञ्च भोजयेदन्नं येनाप्नोति सुखं महत् ॥”
प्रह्लादकं कामकृतं हर्षम् ॥ * ॥ अथ चित्त-
भ्रमस्य चिकित्सा ।
“कणोषणोग्रालवणोत्तमानि
करञ्जबीजं क्षणदामलानि ।
पथ्याक्षसिद्धार्थकहिङ्गुशुण्ठी-
युतानि वस्ताम्बुविमिश्रितानि ॥
पिष्ट्वा गुटीयं नयने विधेया
प्रचेतनेति प्रथितान्वितार्था ।
चित्तभ्रमापस्मृतिभूतदोष-
शिरोऽक्षिरोगभ्रमनाशहेतुः ॥”
वस्ताम्बु छागमूत्रम् ।
“कुम्भोद्भवतरोरम्भोगुडविश्वाकणान्वितम् ।
निहितं नसि नूनं स्यात् चित्तभ्रमविनाशनम् ॥”
कुम्भोद्भवतरोरम्भः अगस्तिवृक्षत्वक्कल्करसः ।
“मुरामूर्द्ध जमेधाह्वामधूकमलयोद्भवैः ।
मरुत्तरुमधून्मिश्रैः पुरपाणिजपांशुभिः ॥
लोहलामज्जकैलाभिर्धूपश्चित्तभ्रमापहः ।
ग्रहदोषहरः श्रीदः सौभाग्यकर उत्तमः ॥”
मुरा एकाङ्गी । मूर्द्धजो बाला । मरुत्तरुः
देवदारुः । पुरः गुग्गुलुः । पाणिजः नखः ।
पांशुः पर्पटकः । लोहं अगुरुः । लामज्जकं
उशीरवत् पीतच्छवितृणविशेषः । तदलाभे
उशीरं ग्राह्यम् ।
“मृद्दीकामरदारुमत्स्यशकलामुस्तामलक्योऽमृता
पथ्यारेवतरामसेनकरजोराजीफलैः संयुताः ।
हन्युश्चित्तरुजोऽथ दर्द्दु रदला द्राक्षा पटोली
पयः
पथ्या पर्पटराजवृक्षकटुकाशम्बूकपुष्पः शृताः ॥”
मृद्दीका द्राक्षा । मत्स्यशकला कटुका । आरे-
वतः आरग्वधः । रामसेनकः किराततिक्तकः ।
रजः पर्पटकः । राजीफलः पटोलः । अथ
योगान्तरमाह । दर्दुलदला मण्डूकपर्णी ।
सा च त्र्यर्था ब्राह्मी मञ्जिष्ठा शोणकश्च ।
तथाप्यत्र ब्राह्मी ग्राह्या । यत उक्तं गुणग्रन्थे ।
ब्राह्मी मतिप्रदा मेध्या ज्वरहन्त्री रसायनीति
ब्राह्मी वरम्भी इति लोके । पयः बालकं राज-
वृक्ष आरग्वधः । शम्बूकपुष्पी शङ्खपुष्पी ॥ * ॥
अथ कर्णकस्य चिकित्सा ।
“प्रलेपः समस्तं नयत्यल्पमेकः
समुद्रिक्तशोथञ्च रक्तावसेकः ।
विपक्वञ्च शस्त्रक्रिया पूयजित् सा
व्रणत्वं गतञ्च द्रुतं तच्चिकित्सा ॥”
अयमर्थः । अल्पं तं कर्णकं एकः प्रलेपः अस्तं
नाशं नयति । तच्चिकित्सा व्रणचिकित्सा ।
“निशाविशालामयमाणिमन्थ-
दार्वीङ्गदीमूलकृतः प्रलेपः ।
प्रभाकरक्षीरयुतप्रभावाद्-
व्यस्तः समस्तोऽप्यथ कर्णकघ्नः ॥”
कुलत्थः कटफलं शुण्ठी कारवी च समांशकैः ।
सुखोष्णैर्लेपनं कार्य्यं कर्णमूले मुहुर्न्मुहुः ॥
गैरिकं कठिनीशुण्ठीकट्फलैः सवचैः समैः ।
उष्णैः काञ्जिकसंपिष्टैः प्रलेपः कर्णमूलनुत् ॥
शिग्रुराजिकयोः पिष्ट्वा कर्णमूलं प्रलेपयेत् ।
कर्णमूलभवः शोथस्तेन लेपेन शाम्यति ॥
अशिशिरजलपरिमृदितं मरिचकणाजीर-
सिन्धुजं त्वरितम् ।
नस्यविधिसेवितं ननु कर्णकरुक् नाशकृद्-
गदितम् ॥
भार्गीजयापौष्करकण्टकारी-
कट्त्रिकोग्राघनकुण्डलीभिः ।
कुलीरशृङ्गीकटुकारसाभिः
कृतः कषायः किल कर्णकघ्नः ॥”
भार्गी वभनेटी इति लोके । तदलाभे कण्ट-
कारीमूलं ग्राह्यम् । जया गणियार इति
लोके । पौष्करं पुष्करमूलम् । उग्रा वचा ।
कुण्डली गुडूची । कुलीरशृङ्गी कर्क्कटशृङ्गी ।
रसा रास्ना ।
“दशमूलमत्स्यशकलाचपला-
त्रिफलामहौषधिकिरातयुतम् ।
मरिचं परिक्वथितमाशु बला-
दपहन्ति कर्णरुजः सकला ॥”
चपला पिप्पली ॥ * ॥ अथ कण्ठकुब्जस्य
चिकित्सा ।
“फलत्रिकत्र्यूषणमुस्तकद्वि-
कलिङ्गसिंहाननशर्व्वरीभिः ।
पृष्ठ ५/२५२
काथः कृतः कृन्तति कण्ठकुब्जं
कण्ठीरवः कुञ्जरमाशु यद्वत् ॥”
सिंहाननो वासकः । शर्व्वरी हरिद्रा ।
“किरातकटुकाकणाकुटजकण्टकारीशटी-
कलिद्रुकिलिमाभयाकटुककट्फलाम्भोधरैः ।
विषामलकपुष्करानलकुलीरशृङ्गीवृषै-
र्म्महौषधसखैरयं जयति कण्ठकुब्जं गणः ॥”
शटी कच्चूरः । कलिद्रुः विभीतकः । किलिमं
देवदारुः । कटुकं मरिचम् । विषा अतिविषा ।
पुष्करं पुष्करमूलम् । वृषः वासकः । वृषा-
दिभिः किविशिष्टैः महौषधसखैः महौ-
षधस्य सखिभिः । तेन एतैः सहितेन महौ-
षधेन इत्यर्थः ॥ * ॥ अथोल्वणवातादिप्रवृद्ध-
मध्यक्षीणवातादिहेतुकानां कुम्भीपाकादिसन्नि-
पातज्वराणां त्रयोदशानां चिकित्साभिधीयते
सा च तुल्यहेतुकानां विस्फु रकादीनां त्रयो-
दशानामिव विधातव्या । इति सन्निपातज्वरा-
धिकारः । इति भावप्रकाशः ॥

सन्निपातनुत्, पुं, (सन्निपातं नुदतीति । नुद् +

क्विप् ।) नेपालनिम्बः । इति राजनिर्घण्ढः ॥

सन्निबद्धः, त्रि, सम्यग्बन्धनयुक्तः । संनिपूर्व्वबन्ध-

धातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नः ॥

सन्निबन्धनं, क्ली, सम्यङ्निश्चितबन्धनम् । सम्यग्

विबन्धनम् । संनिपूर्व्वकबन्धधातोरनट्प्रत्ययेन
निष्पन्नम् ॥

सन्निभः, त्रि, (सम्यक् निभातीसि । सं + नि +

भा + कः ।) सदृशः । इति जटाधरः ॥ (यथा,
भागवते । ३ । १३ । २२ ।
“भगवान् यज्ञपुरुषो जगर्ज्जागेन्द्रसन्निभः ॥”)

सन्निरुद्धगुदः, पुं, (संनिरुद्धं गुदं यस्मात् ।) गुह्य-

द्वारोद्भवरोगविशेषः । इति भावप्रकाशः ॥
(यथा, सुश्रुते । ४ । २० । ४२ ।
“संनिरुद्धगुदं रोगं वल्मीकं वद्गिरोहिणमि ।
प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत् ॥”
तन्निदानादि क्षुद्ररोगशब्दे द्रष्टव्यम् ॥

सन्निविष्टः, त्रि, (सं + नि + विश् + क्तः ।) उप-

विष्टः । यथा, --
“ध्येयः सदा सवितृमण्डलमध्यवर्त्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् कनककुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥”
इत्यादित्यहृदयम् ॥
निकटः । इति केचित् ॥

सन्निवृत्तिः, स्त्री, (सं + नि + वृ + क्तिन् ।) सम्यङ्

निवर्त्तनम् । (यथा, रघुः । १० । २७ ।
“गतिस्त्वं वीतरागाणामभूयः सन्निवृत्तये ॥”)

सन्निवेशः, पुं, (संनिविशन्ते अत्रेति । सं + नि +

विश + घञ् ।) पत्तनादिषु दिगादिपरिच्छिन्न-
प्रदेशः । पूर्व्वद्दिगाद्यवच्छिन्नगृहम् । इति
कलिङ्गः ॥ पुरादेर्बहिर्विहरणभूमिः । इति
स्वाम्यादयः ॥ तत्पर्य्यायः । निकर्षणम् २ । इत्य-
मरभरतौ ॥ किञ्च ।
“नगरादिबहिः स्वैरविहारचारुभूमिषु ।
तत्र द्वयं निगदितं सन्निवेशो निकर्षणम् ॥”
इति शब्दरत्नावली ॥
(यथा, रघुः । १४ । ७६ ।
अशून्यतीरां मुनिसन्निवेशै-
स्तमोऽपहन्त्रीं तमसां वगाह्य ॥”
संस्थानम् । यथा, कुमारे । ३ । ४५ ।
“उत्तानपानिद्वयसन्निवेशात्
प्रफुल्लराजीवमिवाङ्कमध्ये ॥”)

सन्निहितं, त्रि, (सं + नि + धा + क्तः ।) निकट-

स्थितम् । यथा । ब्रह्मपुराणे ।
“षष्ठ्यादौ कृष्णपक्षे तु भूमौ सन्निहिता भवेत्
यावत् पुण्यममावास्यां दिनानि दश पञ्च च ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(अग्निविशेषे, पुं, । यथा, महाभारते । ३ ।
२२० । १९ ।
“प्राणानाश्रित्य यो देहं प्रवर्त्तयति देहिनाम् ।
तस्य सन्निहितो नाम शब्दरूपस्य साधनः ॥”)

सन्न्यस्तः, त्रि, (सं + नि + अस् + क्तः ।) सम्यङ्

न्यासीकृतः । समर्पितः । यथा, --
“योगसन्न्यस्तकर्म्माणं ज्ञानसंछिन्नसंशयम् ।
आत्मवन्तं न कर्म्माणि निबध्नन्ति धनञ्जय ॥”
इति भगवद्गीतायाम् ४ अध्यायः ॥

सन्न्यासः, पुं, (सं + नि + अस् + घञ् ।) जटा-

मांसी । इति शब्दचन्द्रिका ॥ काम्यकर्म्मणां
न्यासः । हथा, --
“काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः
सर्व्वकर्म्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥”
इति श्रीभगवद्गीतायाम् १८ अध्यायः ॥
अपि च ।
“सन्न्यासः कर्म्मणां न्यासः कृतानामकृतेः सहा
कुशलाकुशलाभ्यान्तु प्रहाणं न्यास उच्यते ॥”
इति मात्स्ये १२० अध्यायः ॥ * ॥
चतुर्थाश्रमः । तदाश्रमधर्म्मा यथा, --
“सर्व्वसङ्गपरित्यागो ब्रह्मचर्य्यसमन्वितः ।
जितेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम् ॥
अनारम्भस्तथाहारे भिक्षा विप्रे ह्यनिन्दिते ।
आत्मज्ञानविवेकश्च तथा ह्यात्मावबोधनम् ॥
चतुर्थे चाश्रमे धर्म्मो ह्यस्माभिस्ते प्रकीर्त्तितः ॥”
इति वामने १४ अध्यायः ॥ * ॥
तदाश्रमकालादि यथा, --
“एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।
चतुर्थमायुषो भागं सन्न्यासेन नयेत् क्रमात् ॥
अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥
यदा मनसि सम्पन्नं वैतृष्णं सर्व्ववस्तुषु ।
तदा सन्न्यासमि च्छेत्तु पतितः स्याद्विपर्य्यये ॥
प्राजापत्यान्निरूप्येष्टिमाग्नेयीमथवा पुनः ।
दान्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥”
इति कौर्म्मे उपविभागे २७ अध्यायः ॥ * ॥
कलौ क्षत्त्रियबैश्ययोः सन्न्यासनिषेधो यथा, --
“अश्वमेधं गवालम्भं सन्न्यासं पलपैतृकम् ।
देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्ज्जयेत् ॥”
इति कलौ सन्न्यासनिषेधकं क्षत्त्रियवैश्य विष-
यकम् इति मलमासतत्त्वम् ॥ सर्न्न्यासप्रति-
षेधश्च कलौ क्षत्त्रविशीर्भवेत् । इति मलमास-
तत्त्वप्रतिज्ञायां श्रीरघुनन्दनभट्टाचार्य्यः ॥ * ॥
चैत्रमासे सन्न्यासकरणप्रमाणं यथा, --
“चैत्रे शिवोत्सवं कुर्य्यात् नृत्यगीतमहोत्सवेः ।
स्नायात् त्रिसन्ध्यं रात्रौ च हविष्याशी जिते-
न्द्रियः ।
शिवस्वरूपतां याति शिवप्रीतिकरः परः ॥
क्षत्त्रियादिषु यो मर्त्यो देहं संपीड्य भक्तितः ।
अश्वमेधफलं तस्य जायते च पदे पदे ॥
सर्व्वकर्म्मपरित्यागी शिवोत्सवपरायणः ।
भक्तैर्ज्जागरणं कुर्य्याद्रात्रौ नृत्यकुतूहलैः ॥
नानाविधैर्म्महावाद्यैन्नृत्यैश्च विविधैरपि ।
नानावेशधरैर्न्नृत्यैः प्रीयते शङ्करप्रभुः ॥
किमलभ्यं भगवति प्रसन्ने नीललोहिते ।
तस्मात् सर्व्वप्रयत्नेन तोषणीयो महेश्वरः ॥
शङ्खवाद्यं शङ्खतोयं वर्ज्जयेत शिवसन्निधौ ।
ग्रामाद्वहिरिमं शम्भोरुत्सवं कारयेन्मुदा ।
उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समापयेत् ॥”
इति बृहद्धर्म्मपुराणे उत्तरखण्डे ९ अध्यायः ॥

सन्न्यासी, [न्] पुं, (संन्यासोऽस्यास्तीति । इनिः ।

सन्न्यासाश्रमविशिष्टः । चतुर्थाश्रमी । तत्पर्य्यायः
पाराशरी २ मस्करी ३ परिव्राट् ४ कर्म्मन्दी ५
श्रमणः ६ भिक्षुः ७ । इति जटाधरः ॥ तस्य
लक्षणादि यथा । सर्व्वं गृहादिकं त्यक्त्वा मुण्डित-
मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्च
बिभ्रत् भिक्षावृत्तिर्निर्ज्जने तीर्थे वा स्थित्वा
केवलमीश्वराराधनं करोति यः स सन्न्यासी ।
स तु सतुर्व्विधः । कुटीचरः १ बहूदकः २
हंसः ३ परमहंसः ४ । तस्य धर्म्मा यथा, --
“सदन्ने वा कदन्ने वा लोष्ट्रे वा काञ्चने तथा
समबुद्धिर्यस्य शश्वत् स सन्न्यासीति कीर्त्तितः ॥
दण्डं कमण्डलुं रक्तवस्त्रमात्रञ्च धारयेत् ।
नित्यं प्रवासी नेकत्र स सन्न्यासीति कीर्त्तितः ॥
शुद्धाचारद्विजान्नञ्च भुङ्क्ते लोभादिवर्ज्जितः ।
किन्तु किञ्चिन्न याचेत स सन्न्यासीति कीर्त्तितः
न व्यापारी नाश्रमी च सर्व्व कर्म्मविवर्ज्जितः ।
ध्यायेन्नारायणं शश्वत् स सन्न्यासीति कीर्त्तितः
शश्वन्मौनी ब्रह्मचारी सम्भाषालापवर्ज्जितः ।
सर्व्वं ब्रह्ममयं पश्येत् स सन्न्यासीति कीर्त्तितः ॥
सर्व्वत्र समबुद्धिश्च हिंसामायाविवर्ज्जितः ।
क्रोधाहङ्काररहितः स सन्न्यासीति कीर्त्तितः ॥
अयाचितोपस्थितञ्च मिष्टामिष्टञ्च भुक्तवान् ।
न याचेत भक्षणार्थी स सन्नासीति कीर्त्तितः ॥
न च पश्येत् मुखं स्त्रीणां न तिष्ठेत्तत्ममीपतः
दारवीमपि योषाञ्च न स्पृशेद् यः स भिक्षुकः ।
अयं सन्न्यासिनां धर्म्म इत्याह कमलोद्भवः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३३ अध्यायः ॥ * ॥
अपि च ।
“सर्व्वन्यासी हरौ भूप धर्म्मः सन्न्यासिनां ध्रुवम्
पृष्ठ ५/२५३
रक्तैकवासा दण्डी च बिभर्त्ति मृत्कमण्डलुम् ॥
सर्व्वत्र समदर्शी च स्मरेन्नारायणं सदा ।
करोति भ्रमणं नित्यं गेहे गेहे न तिष्ठति ॥
विद्यामन्त्रञ्च कस्मैचित् न ददाति च दैवतम् ।
करोति नाश्रमं भिक्षुः करोति नान्यवासनाम् ॥
करोति नान्यसङ्गञ्च निर्म्मोहः सङ्गवर्ज्जितः ।
न स्वादु भुङ्क्ते दैवाच्च स्त्रीमुखं न हि पश्यति ॥
न वाञ्छितं भक्ष्यवस्तु याचते गृहिणं व्रती ।
इति सन्न्यासिनां धर्म्ममित्याह कमलोद्भवः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९५ अध्यायः ॥
अन्यच्च ।
“तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सन्न्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥
योगाभ्यासरतो नित्यमारुरुक्षुर्ज्जितेन्द्रियः ।
ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यक् च दमसम्पन्नः स योगी भिक्षुरुच्यते ॥
भैक्ष्यं श्रुतञ्च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यक् च ज्ञानवैराग्यं धर्म्मोऽयं भिक्षुके मतः ॥
ज्ञानसन्न्यासिनः केचित् वेदसन्न्यासिनोऽपरे ।
कर्म्मसन्न्यासिनः केचित् त्रिविधः पारमेष्ठिकः ॥
योगी च त्रिविधो ज्ञेयो भौतिको मोक्ष एव
च ।
तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिसमाश्रितः ॥
प्रथमा भावना पूर्व्वे मोक्षे त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥
यतीनां यतचित्तानां न्यासिनामूर्द्ध्वरेतसाम् ।
आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्त्तते मुनिः ॥
योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् ।
आनन्दमैश्वरं यस्मान्मुक्तो नावर्त्तते नरः ॥”
इति गारुडे ४९ अध्यायः ॥ * ॥
अपरञ्च ।
“ज्ञानसन्न्यासिनः केचिद्वेदसन्न्यासिनोऽपरे ।
कर्म्मसन्न्यासिनस्त्वन्ये त्रिविधाः परिकीर्त्तिताः ॥
यः सर्व्वसङ्गनिर्म्मुक्तो निर्द्वन्द्वश्चापि निर्भयः ।
प्रोच्यते ज्ञानसन्न्यासी स्वात्मन्येव व्यवस्थितः ॥
वेदमेवाभ्यसेन्नित्यं निराशीर्निष्परिग्रहः ।
प्रोच्यते वेदसन्न्यासी मुमुक्षुर्व्विजितेन्द्रियः ॥
यस्त्वग्नीनात्ससात् कृत्वा ब्रह्मार्पणपरो द्विजः ।
ज्ञेयः स कर्म्मसन्न्यासी महायज्ञपरायणः ॥
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।
न तस्य विद्यते कर्म्म न लिङ्गाद्या विपश्चितः ॥
निर्म्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः ।
जीर्णकौपिनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥
ब्रह्मचारी मिताहारो ग्रामान्नान्नं समाहरेत् ।
अध्यात्मरतिरासीत निरपेक्षो निरामिषः ।
आत्मनैव सहायेन स्वर्गार्थं विचरेदिह ॥”
स्वर्गार्थमित्यत्र सुखार्थमिति च पाठः ।
“नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥
कालमेव प्रतीक्षेत निदेशं भृतको यथा ।
नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन ॥
एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ।
एकवासोऽथवा विद्वान् कौपीनाच्छादनोऽथवा
मुण्डः शिखी वाथ भवेत् त्रिदण्डी निष्परि-
प्रहः ।
कषायवासाः सततं ध्यानयोगपरायणः ॥
ग्रामान्ते वृक्षमूले वा वासं देवालयेऽपि वा ।
समः शत्रौ तथा मित्रे तथा मानापमानयोः ॥
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ।
यस्तु मोहेन चान्यस्मादेकान्नादी भवेद्यदि ॥
न तस्य निष्कृतिः काचिद्वर्म्मशास्त्रेषु कथ्यते ।
रागद्वेषविमुक्तात्मसमलोष्टाश्मकाञ्चनः ॥
प्राणिहिंसानिवृत्तश्च मौनी स्यात् सर्व्वनिष्पहः
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्बाणीं मनःपूतं समाचरेत् ॥
नैकत्र निवसेद्देशे वर्षाभ्योऽन्यत्र भिक्षुकः ।
स्नानशौचरतो तित्यं कमण्डलुकरः शुचिः ॥
ब्रह्मयज्ञरतो नित्यं वनवासरतो भवेत् ।
मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः ॥
दम्भाहङ्कारनिर्म्मुक्तो निन्दापैशुन्यवर्ज्जितः ।
आत्मज्ञानगुणोपेतो यतिर्म्मोक्षमवाप्नुयात् ॥ * ॥
अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् ।
स्नात्वाचम्य विधानेन शचिर्देवालयादिषु ॥
यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।
धौतकाषायवसनो भस्मच्छन्नतनूरुहः ॥
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।
आध्यात्सिकञ्च सततं वेदान्ताभिमतञ्च यत् ॥
पुत्त्रेषु वाथ निवसन् ब्रह्मचारी यतिर्मुनिः ।
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं तपः परम् ।
क्षमा दया च सन्तोषो व्रतान्यस्य विशेषतः ॥
वेदान्तज्ञाननिष्ठो वा पञ्चयज्ञान् समाहितः ।
कुर्य्यादहरहः स्नात्वा भैक्षान्नेनैव तेन हि ॥
होममन्त्रान् जपेन्नित्यं काले काले समाहितः ।
स्वाध्यायं चान्वहं कुर्य्यात् सावित्रीं सन्ध्ययो-
र्ज्जपेत् ॥
ध्यायीत सततं देवमेकान्ते परमेश्वरम् ।
एकान्नं वर्ज्जयेन्नित्यं कामं क्रोधं परिग्रहम् ।
एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।
कमण्डलुकरो विद्वांस्त्रिदण्डी याति तत्पदम् ॥”
इति कौर्मे उपविभागे २७ अध्यायः ॥ * ॥
व्यास उवाच ।
“एतत्त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।
भैक्षेन वर्त्तनं प्रोक्तं फलमूलैरथापि वा ॥
एककालं चरेद्भैक्षं न प्रसज्येत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥
सप्तागारं चरेद्वैक्षमलाभे द्वे पुनश्चरेत् ।
प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत्तु तत् ॥
अथवान्यदुपादाय पात्रं भुञ्जीत नित्यशः ।
भुक्त्वा च सन्त्यजेत् पात्रं यात्रामात्रमलोलुपः ॥
विधूमे सन्नमुषले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।
भिक्षेत्युक्त्वा सकृत्तूष्णीमश्नीयाद्वाग्यतः शुचिः ॥
प्रक्षास्थ पाणिपादौ च समाचम्य यथाविधि ।
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोऽत्वरः ॥
हुत्वा प्राणाहुतीः पञ्चग्रासानष्टौ समाहितः ।
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ॥
अलावुं दारुपात्रञ्च मृण्मयं वैणवं तथा ।
चत्वारि यतिपात्राणि ममुराह प्रजापतिः ॥
प्रदोषे पररात्रे च मध्यरात्रे तथैत च ।
सन्ध्यास्वह्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ॥
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसम्भवम् ।
आत्मानं सर्व्वभूतानां परत्वात्तमसः स्थितम् ॥
सर्व्व स्याधारमव्यक्तमानन्दं ज्योतिरव्ययम् ।
प्रधानपुरुषातीतमाकाशं दहनं परम् ॥
तदन्तः सर्व्वभावानामीश्वरं ब्रह्मरूपिणम् ।
ध्यायेदनादिमद्वैतमानन्दादिगुणालयम् ॥
महान्तं परमं ब्रह्म पुरुषं सत्यमव्ययम् ।
सितेतरारुणाकारं महेशं विश्वरूपिणम् ॥
ओङ्कारान्तेऽथवात्मानं संस्थाप्य परमात्मनि ।
आकाशे देवमीशानं ध्यायीताकाशमव्ययम् ॥
कारणं सर्व्वभूतानामानन्दैकसमाश्रयम् ।
पुराणं पुरुषं शम्भुं ध्यायन्मुच्येत बन्धनात् ॥
यद्वा गुहायां प्रकृतौ जगत्सम्मोहनालये ।
विचिन्त्य परमं व्योम सर्व्वभूतैककारणम् ॥
जीवनं सर्व्वभूतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ॥
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥
गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीश्वरम् ।
योऽनुतिष्ठेत सततं सोऽश्नुते योगमीश्वरम् ॥
तस्मात् ध्यानरतो नित्यमात्मविद्यापरायणः ।
ज्ञानं समभ्यसेद्ब्राह्म्यं मुच्येत भवबन्धनात् ॥
यद्वा पृथक्त्वमात्मानं सर्व्वस्मादेव केवलम् ।
आनन्दमक्षरं ज्ञानं ध्यायीत च पुनः परम् ॥
यस्माद्भवन्ति भूतानि यद्गत्वा नेह जायते ।
स तस्मादीश्वरो देवः परस्ताद्योऽधितिष्ठति ॥
यदन्तरे तदुगमनं शाश्वतं शिवमव्ययम् ।
यमाहुस्तत्परो यस्तु स देवः स्यान्महेश्वरः ॥
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥
उपेत्य च स्त्रियं कामात् प्रायश्चित्तंसमाहितः ।
प्राणायामसमायुक्तं कुर्य्यात् सान्तपनं शुचिः ॥
ततश्चरेत नियमान् कृत्स्नान् संयतमानसः ।
पुनराश्रममागत्य चरेद्गिक्षरतन्द्रितः ॥
न नर्म्मयुक्तमनृतं हिनस्तीति मनीषिणः ।
तथापि न च कर्त्तव्यः प्रसङ्गो ह्येष दारुणः ॥
एकरात्रोपवासश्च प्राणायामशतं तथा ।
उक्त्वानृतं प्रकर्त्तव्यं यतिना धर्म्मलिप्सुना ॥
परमापद्गतेनापि न कार्य्यं स्तेयमन्यतः ।
स्तेयादभ्यधिकः कश्चित् नास्त्यधर्म्म इति स्मृतिः ॥
हिंसा चैषा परा तृष्णाया चात्मज्ञाननाशिका ।
यदेतद्द्रविणं नाम प्राणास्ते तु बहिश्चराः ॥
स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तौ व्रतच्युतः ।
पृष्ठ ५/२५४
भूयो निर्व्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम् ॥
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।
भूयो निर्व्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः ॥
अकस्मादपि हिंसान्तु यदि भिक्षुः समाचरेत् ।
कुर्य्यात् कृच्छ्रातिकृच्छ्रन्तु चान्द्रायणमथापि वा
स्कन्देदिन्द्रियदौर्ब्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि
तेन धारयितव्या वै प्राणायामास्तु षोडष ॥
दिवा स्वप्ने त्रिरात्रं स्यात् प्राणायामशतं तथा
एकान्ने मधुमांसे च नवश्राद्धे तथैव च ॥
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ।
ध्याननिष्ठस्य सततं नश्यते सर्व्वपातकम् ॥
तस्मान्महेश्वरं ध्यात्वा तस्य ध्यानरतो भवेत् ।
यद्ब्रह्य परमं ज्योतिः प्रतिष्ठाक्षयमक्षयम् ।
योऽन्तरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः ॥
एष देवो महादेवः केवल परमेश्वरः ।
तदेवाक्षयमद्वैतं तदादित्यान्तरं परम् ॥
यस्मात् महीयते देव स्वधाम्नि ज्ञानसंज्ञिते ।
आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥
नान्य देवं महादेवाद्व्यतिरिक्त प्रपश्यति ।
तमेवान्मानमन्वेति यः स याति परं पटम् ॥
मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।
न ते पश्यन्ति तं देवं वृथ तेषां परिश्रमः ॥
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।
स देवरतु महादेवो नैतद्विज्ञाय वध्यते ॥
तस्माद्यत्नेन नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥
एष वः कथितो विप्रा यतीनामाश्रमः शुभः ।
पितामहेन प्रभुणा मुनीनां पूर्व्वमीरितः ॥
न पुत्त्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।
ज्ञानं स्वयम्भुवा प्रोक्तं यतिधर्म्माश्रमं शिवम् ॥
इति यतिनियमानामेतदुक्तं विधानं
पशुपतिपरितोषे यद्भवेदेकहेतुः ।
न भवति पुनरेषामुद्भवो वा विनाशः
प्रणिहितमनसा ये नित्यमेवाचरन्ति ॥”
इति कौर्मे उपविभागे यतिधर्म्मो नाम २८
अध्यायः ॥ * ॥ युगभेदे सन्न्यासिनां नामानि
उपाधयश्च यथा । आदौ वेदान्ताचार्य्यो ब्रह्मा ।
द्वितीयाचार्य्यो विष्णुः । तृतीयाचार्य्यो रुद्रः ।
चतुर्थाचार्य्यो वशिष्ठः । पञ्चमाचार्य्यः शक्त्रिः ।
षष्ठाचार्य्यः पराशरः । सप्तमाचार्य्यो व्यासः ।
अष्टमाचार्य्यः शुकः । नवमाचार्य्यो गौडः ।
दशमाचार्य्यो गोविन्दः । एकादशः श्रीशङ्करा-
चार्य्यः । सत्ययुगमध्ये आचार्य्यत्रयं ब्रह्मविष्णु-
रुदाः । त्रेतायुगे आचार्य्यत्रयं वशिष्टशक्त्रि-
परशराः । द्वापरे आचार्य्यद्वयं व्यासशुकौ ।
कलियुगे आचार्य्यत्रय गौडगोविन्दशङ्करा-
चार्य्याः । शङ्कराचार्य्यस्य चत्वारः शिष्याः
स्वरूपाचार्य्यः पद्माचार्य्यः त्रोटकाचार्य्यः पृथ्वी-
धराचार्य्यः इति ॥ * ॥ अथ दश नामानि ।
स्वरूपाचार्य्यस्य शिष्यः तीर्थ आश्रमश्च । पद्मा-
चार्य्यस्य शिष्यद्वयं वनः अरण्यश्च । त्रोटका-
चार्य्यस्य शिष्यत्रयं गिरिपर्व्वतसागरा इति ।
पृथ्वीधराचार्य्यस्य शिष्यत्रयम् । सरस्वती भारती
पुरी चेति । इति श्रीशङ्कराचार्य्यविरचितं सप्तम-
सूत्रम् ॥ * ॥ अपि च ।
“तीर्थाश्रमवनारण्यगिरिपर्व्वतसागराः ।
सरस्वती भारती च पुरीति दश कीर्त्तिताः ॥”
तेषां लक्षणानि यथा, --
“त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे ।
स्नायात्तत्त्वार्थभावेन तीर्थनामा स उच्यते ॥ १ ॥
आश्रमग्रहणे प्रौढ आशापाशविवर्ज्जितः ।
यातायातविनिर्मुक्त एतदाश्रमलक्षणम् ॥ २ ॥
सुरम्ये निर्झरे देशे वने वासं करोति यः ।
आशापाशविनिर्मुक्तो वननामा स उच्यते ॥ ३ ॥
अरण्ये संस्थितो नित्यमानन्दनन्दने वने ।
त्यक्त्वा सर्व्वमिदं विश्वमानन्दलक्षणं किल ॥ ४ ॥
वासो गिरिवरे नित्यं गीताभ्यासे हि तत्परः ।
गम्भीराचलबुद्धिश्च गिरिनामा स उच्यते ॥ ५ ॥
वसेत् पर्व्वतमूलेषु प्रौढो यो ध्यानधारणात् ।
सारात् सारं विजानाति पर्व्वतः परि-
कीर्त्तितः ॥ ६ ॥
वसेत् सागरगम्भीरो वनरत्नपरिग्रहः ।
मर्य्यादाश्च न लङ्घेत सागरः परिकीर्त्तितः ॥ ७ ॥
स्वरज्ञानवशो नित्यं स्वरवादी कवीश्वरः ।
संसारसागरे साराभिज्ञो यो हि सरस्वती ॥ ८ ॥
विद्याभारेण सम्पूर्णः सर्व्वभारं प्ररित्यजेत् ।
दुःखभारं न जानाति भारती परिकीर्त्तितः ॥ ९ ॥
ज्ञानतत्त्वेन संपूर्णः पूर्णतत्त्वपदे स्थितः ।
पदब्रह्मरतो नित्यं पुरीनामा स उच्यते ॥” १० ॥
इति बृहच्छङ्करविजये विद्यारण्यस्वामिधृतम् ॥
श्रीसदाशिव उवाच ।
“अवधूताश्रमो देवि कलौ सन्न्यास उच्यते ।
विधिना येन कर्त्तव्यं तत् सर्व्वं शृणु साम्प्रतम् ॥
ब्रह्मज्ञाने समुत्पन्ने विरते स्वर्गकर्म्मणि ।
अध्यात्मविद्यानिपुणः सन्न्यासाश्रममाचरेत् ॥
विहाय वृद्धौ पितरौ शिशुंभार्य्यां पतिव्रताम् ।
त्यक्त्रासमर्थान् बन्धूंश्च प्रव्रजन्नारकी भवेत् ॥
सम्पाद्य गृहकर्म्माणि परितोष्यागमानपि ।
निर्म्ममो निलयाद्गच्छेन्निष्कामो विजितेन्द्रियः ॥
आहूय स्वजनान् बन्धून ग्रामस्थान् प्रति-
वासिनः ।
प्रीत्यानुमतिमन्विच्छेद्गृहाज्जिगमिषुर्नरः ॥
तेषामनुज्ञामादाय प्रणम्य परदेवताम् ।
ग्रामं प्रदक्षिणीकृत्य निरपेक्षो गृहादियात् ॥
मुक्तः संसारपाशैर्य्यः परमानन्दवृंहितः ।
कुलावधूतं ब्रह्मज्ञं गत्वा संप्रार्थयेदिदम् ॥
गृहाश्रमे परं ब्रह्मन् ममैतद्विगतं वयः ।
प्रसादं कुरु मेनाथ सन्न्यासग्रहणं प्रति ॥
निवृत्तगृहकर्म्माणं विचार्य्य विधिवद्गुरुः ।
शान्तं विवेकिनं वीक्ष्य द्वितीयाश्रममादिशेत् ॥
ततः शिष्यः कृतस्नानो यतात्मा विहिताह्रिकः ।
ऋणत्रयविमुक्त्यर्थं देवर्षीं श्चार्च्चयेत् पितॄन् ॥
देवा ब्रह्मा च विष्णुश्च रुद्रश्च स्वगणैः सह ।
ऋषयः सनकाद्याश्चात्राद्या देवर्षयस्तथा ॥
अत्र ये पितरः पूज्या वक्ष्यामि शृणु तानपि ।
पिता पितामहश्चैव प्रपितामह एव च ॥
माता पितामही देवि तथैव प्रपितामही ।
मातामहादयोऽप्येवं मातामह्यादयोऽपि च ॥
प्राच्यामृषीन् यजेद्देवान् दक्षिणस्यां पितॄन्
यजेत् ।
मातामहान् प्रतीच्यान्तु पूजयेन्न्यासकर्म्मणि ॥
पूर्व्वादिक्रमतो दद्यादासनानां द्वयं द्वयम् ।
देवादीन् क्रमतस्तत्रावाह्य पूजां समाचरेत् ॥
समर्च्च्य विधिवत्तेभ्यः पिण्डान् दद्यात् पृथक्
पृथक् ।
पिण्डप्रदानविधिना दत्त्वा पिण्डं यथाक्रमम् ॥
कृताञ्जलीपुटो भूत्वा प्रार्थयेत् पितृदेवताः ।
तृप्यध्वं पितरो देवा देवर्षिमातृकागणाः ॥
गुणातीतपदे यूयमनृणीकुरुताचिरात् ॥
आनृण्यमर्थयित्वा तु प्रणण्य च पुनः पुनः ।
ऋणत्रयविनिर्म्मुक्तमात्मश्राद्धं प्रकल्पयेत् ॥
पिता ह्यात्मैव सर्व्वेषां तत्पिता प्रपितामहः ।
आत्मन्यात्मार्पणार्थाय कुर्य्यादात्मक्रियां सुधीः ॥
उत्तराभिमुखो भूत्वा पूर्व्ववत् कल्पितासने ।
आवाह्यात्मपितॄन् देवि दद्यात् पिण्डं समर्च्चयन् ॥
प्रागग्रान् दक्षिणाग्रांश्च पश्चिमाग्रान् यथा-
क्रमात् ।
पिण्डार्थमास्तरेद्दर्भानुदगग्रान् स्वकर्म्मणि ॥
समाप्य श्राद्धकर्म्माणि गुरुदर्शितवर्त्मना ।
मुमुक्षुश्चित्तशुद्ध्यर्थमिमं मन्त्रं शतं जपेत् ॥
ह्नीँ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्व्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मा मृतात्
उपासनानुसारेण विद्यामण्डलपूर्व्वकम् ।
संस्थाप्य कलसं तत्र मुरुः पूजां समारभेत् ॥
ततस्तु परमब्रह्म ध्यात्वा शाम्भववर्त्मना ।
विधाय पूजां ब्रह्मज्ञो ब्रह्मस्थापनमाचरेत् ॥
प्रागुक्तसंस्कृते वह्नौ सङ्कल्पोक्ताहुतिं गुरुः ।
दत्त्वा शिष्यं समाहूय साकल्यं हावयेत्तु तम् ।
आदौ व्याहृतिभिर्हुत्वा प्राणहोमं प्रकल्पयेत् ।
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥
तत्र होमं ततः कुर्य्याद्देहामेध्यत्वमुक्तये ।
पृथिवी सलिलं वह्निर्वायुराकाशमेव च ॥
गन्धो रसश्च रूपश्च सार्शः शब्दो यथाक्रमात् ।
ततो वाक्पाणिपादश्च पायूपस्थौ ततः परम् ॥
श्रोत्रं त्वक् नयनं जिह्वाघ्राणबुद्धीन्द्रियाणि च
एतानि मे पदान्ते च शुध्यन्ति पदमुच्चरेत् ॥
ह्रीं ज्योतिरहं विरजा विपाप्मा भूयासं द्विठ
इत्यपि ।
चतुर्विंशतितत्त्वानि कर्म्माणि वैदिकानि च ।
हुत्वाग्नौ निष्क्रियो देहं मृतवच्चिन्तयेत्ततः ॥
विभाव्य मृतवत् कायं रहितं सर्व्वकर्म्मणा ।
स्मरन् तत् परमं ब्रह्म यज्ञसूत्रं समुद्धरेत् ॥
ऐं क्लीं हुं इति मन्त्रेण स्कन्धादुच्चार्य्यं तत्त्ववित्
यज्ञसूत्रं करे धृत्वा पठित्वा व्याहृतित्रयम् ।
वह्निजायां समुच्चार्य्य घृताक्तमनले क्षिपेत् ॥
हुत्वैवमुपवीतञ्च कामबीजं समुच्चरन् ।
पृष्ठ ५/२५५
छित्त्वा शिखां करे कृत्वा घृतमध्ये नियोजयेत् ॥
ब्रह्मपुत्त्रि शिखे त्वं हि बाणीरूपा सनातनी ।
दीयते पावके स्थानं गच्छ देवि नमोऽस्तु ते ॥
कांमं मायां कूर्च्चमन्त्रं वह्निजायामुदीरयेत् ।
शिखामाश्रित्य पितरो देवो देवर्षयस्तथा ।
सर्व्वाण्याश्रमकर्म्माणि निवसन्ति शिखोपरि ॥
ततः सन्तर्प्य ताः सर्व्वाः देवर्षिपितृदेवताः ।
शिखासूत्रपरित्यागात् देही ब्रह्ममयो भवत् ॥
यज्ञसूत्रशिखात्यागात् सन्न्यासः स्याद्द्विजन्मनाम्
शूद्राणामितरेषाञ्च शिखां हुत्वैव संस्क्रिया ॥
ततो मुक्तशिखासूत्रः प्रणमेद्दण्डवद्गुरुम् ।
गुरुरुत्थाप्य तं शिष्यं दक्षकर्णे वदेदिमम् ॥
तत्त्वमसि महाप्राज्ञ हंसः सोऽहं विभावय ।
निर्म्ममो निरहङ्कारः स्वभावेन सुखं चर ॥
ततो घटञ्च वह्निञ्च विसृज्य ब्रह्मतत्त्ववित् ।
आत्मस्वरूपं तं मत्वा प्रणमेच्छिरसा गुरुम् ॥
नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमो नमः ।
त्वमेव त्वदहमेव विश्वरूपं नमोऽस्तु ते ॥
ब्रह्ममन्त्रोपासकानां तत्त्वज्ञानां जितात्मनाम् ।
स्वमन्त्रेण शिखाच्छेदात् सन्न्यासग्रहणं भवेत् ॥
ब्रह्मज्ञानविशुद्धानां किं यज्ञैः श्राद्धपूजनैः ।
स्वेच्छाचारपराणान्तु प्रत्यवायो न विद्यते ॥
ततो निर्द्वन्द्वरूपोऽसौ निष्कामः स्थिरमानसः ।
निर्म्ममो विहरेत् शिष्यः साक्षाद्ब्रह्ममयो भुवि ॥
मुक्तो विधिनिषेधाभ्यां निर्योगक्षेम आत्मवित् ।
सुखदुःखसमो धीरो जितात्मा विगतस्पृहः ॥
स्थिरात्मा प्राप्तदुःखोऽपि सुखे प्राप्तेऽपि निष्पृहः
सदानन्दः शुचिः शान्तो निरपेक्षो निराकुलः ॥
नोद्वेजकः स्याज्जीवानां सदा प्राणिहिते रतः ।
विगतामर्षभीर्दान्तो निःसङ्कल्पो निरुद्यमः ॥
शोकद्वेषविमुक्तः स्याच्छत्रौ मित्रे समो भवेत् ।
शीतवातातपसहः समो मानापमानयोः ॥
समः शुभाशुभे तुष्टो यदृच्छालाभवस्तुना ।
निस्त्रैगुण्यो निर्व्विकल्पो निर्लोभः स्यात्त्वसञ्चयी
यथासत्यनुपाश्रित्य मृषा विश्वं प्रतिष्ठते ।
आत्माश्रितस्तथा देहो जानन्नेवं सुखी भवेत् ॥
इन्द्रियाण्येव कुर्व्वन्ति स्वं स्वं कर्म्म पृथक् पृथक्
आत्मा साक्षी विनिर्लिप्तो ज्ञात्वैवं मोक्षभाग्-
भवेत् ॥
धातुप्रतिग्रहं निन्दामनृतं क्रीडनं स्त्रिया ।
रेतस्त्यागमसूयाञ्च सन्न्यासी परिवर्ज्जयेत् ॥
सर्व्वत्र समदृष्टिः स्यात् कीटे दैवे तथा नरे ।
सर्व्वं ब्रह्मेति जानीयात् परिव्राट् सर्व्वकर्म्मसु ।
विप्रान्नं श्वपचान्नं वा यस्मात्तस्मात् समागतम्
देशं कालं तथा चान्नमश्नीयादविचारयन् ।
अध्यात्मशास्त्राध्ययनैः सदा तत्त्वविचारणैः ॥
अवधूतो नयेत् कालं स्वेच्छाचारपरायणः ।
सन्न्यासिनां मृतं कायं दाहयेन्न कदाचन ॥
संपूज्य गन्धपुष्पाद्यैर्निखनेद्वाप्सु मज्जयेत् ।
अप्राप्तयोगमर्त्यानां सदा कामाभिलाषिणाम् ॥
प्रभावाज्जायते देवि प्रवृत्तिः कर्म्मसंकुले ।
अत्रापि ते सानुरक्ता ध्यानार्च्चाजपसाधने ॥
श्रेयस्तदेव जानन्तस्तत्रैव दृढनिश्चयाः ।
अतः कर्म्मविधानानि प्रोक्तानि चित्तशुद्धये ॥
नामरूपं बहुविधं तदर्थं कल्पितं मया ।
ब्रह्मज्ञानं विना देवि कर्म्मसंन्यसनं विना ॥
कुर्व्वन् कल्पशतं कर्म्म न भवेन्मुक्तिभाजनः ।
कुलावधूतस्तत्त्वज्ञो जीवन्मुक्तो नराकृतिः ॥
साक्षान्नारायणं मत्वा गृहस्थस्तं प्रपूजयेत् ।
यतेर्द्दर्शनमात्रेण विमुक्तः सर्व्वपातकात् ।
तीर्थव्रततपोदानसर्व्वयज्ञफलं लभेत् ॥”
इत्यवधूताश्रमः । इति महानिर्व्वाणतन्त्रे अष्ट-
मोल्लासः ॥

सप, सम्बन्धे । (भ्वा०-पर०-सक०-सेट् ।) असीस-

पत् । इति दुर्गादासः ॥ कविकल्पद्रुमे मूर्द्ध-
न्यादिरयम् ॥

सपत्त्राकरणं, क्ली, (सपत्त्र + कृ + ल्युट् । “सपत्त्र-

निष्पत्त्रादतिव्यथने ।” ५ । ४ । ६१ । इति डाच् ।)
अत्यन्तपीडनम् । इति हलायुधः ॥

सपत्त्राकृतः, पुं, (सपत्त्र + कृ + क्तः । डाच् ।)

क्षतमृगादिः । अत्यन्तपीडिते, त्रि । इति
केचित् ॥

सपत्त्राकृतिः, स्त्री, (सपत्त्र + कृ + क्तिन् । डाच् ।)

अत्यन्तपीडनम् । तत्पर्य्यायः । निष्पत्त्राकृतिः
२ । इति हेमचन्द्रः ॥

सपत्नः, पुं, (सह पतति एकार्थे इति । पत + नः ।

सहस्य सः ।) शत्रुः । इत्यमरः ॥ (यथा,
महाभारते । १ । १४५ । ५ ।
“संरक्ष तात मन्त्रञ्च सपत्नांश्च ममोद्धर ।
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ॥”)

सपत्नारिः, पुं, (सपत्नस्य शत्रोररिरिव दुर्गप्रभवा-

त्वात् ।) वंशविशेषः । वेयुड वाँश इति भाषा ।
यथा, --
“ब्रह्मयष्टिः सपत्नारिर्बहुसन्ततिराशुपः ।”
इति शब्दचन्द्रिका ॥

सपत्नी, स्त्री, (समानः एकः पतिर्यस्याः । “नित्यं

सपन्त्यादिषु ।” ४ । १ । ३५ । इति ङीप् ।
पत्युर्नकारादेशः समानस्य सभावोऽपि निपा-
त्यते ।) समानपतिका । सतीन इति भाषा ॥
(यथा, आर्य्यासप्तशत्याम् । ४६३ ।
“या नीयते सपत्न्या प्रविश्य या वर्ज्जिता
भुजङ्गेन ।
यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥
यथा च । दौहित्राभावे सपत्नीपुत्त्रः । तस्य
पुत्त्रत्वस्मरणात् । यथा मनुः ।
“सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत् ।
सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्रवतीर्म्मनुः ॥”
एकपत्नीनामिति एकः पतिर्य्यासामिति ।
अत्र सपत्नीपुत्त्रस्य पुत्त्रत्वातिदेशात् तत्सत्त्वे-
ऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्तम् । तन्न ।
“पुत्त्रेणेव तु कर्त्तव्यं सपिण्डीकरणं स्त्रियाः ।
पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्त्रादयोऽपि ये ॥”
इति लघुहारीतवचने एवकारेणातिदिष्टपुत्त्र-
निषेधात् । इति शुद्धितत्त्वम् ॥

सपदि, व्य, (संपद्यते इति । पद गतौ + इन् । पृषो-

दरादित्वात् मलोपः ।) द्रुतम् । तत्क्षणः ।
इत्यमरः ॥ (यथा, कुमारे । ३ । ७६ ।
“सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या
दुहितरमनुकम्पामद्रिरादाय दोर्भ्याम् ।
सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां
प्रतिपथगतिरासीत् वेगदीर्घीकृताङ्गः ॥”)

सपर्य्या, स्त्री, (सपर पूजायाम् + “कण्ड्वादिभ्यो

यक् ।” ३ । १ । २७ । इति यक् । “अ प्रत्ययात् ।”
३ । ३ । १०२ । इति अः । ततष्टाप् ।) पूजा ।
इत्यमरः ॥ (यथा, माघे । १ । १४ ।
“तमर्घ्यमर्घ्यादिकयादिपूरुषः
सपर्य्यया साधु स पर्य्यपूपुजत् ॥”)

सपादः, त्रि, पादेन सह वर्त्तमानः । स तु चरण-

युक्तश्चतुर्थभागसहितश्च । यथा, --
“सपादपलमानेन वेला त्रु ट्यति निश्चितम् ।”
इति सत्कृत्यमुक्तावली ॥

सपादपीठं, त्रि, (सपादं पादसहितं पीठं यत्र ।)

पादपीठयुक्तसिंहासनादि । यथा, --
“आदिक्षदादीप्तकृशानुकल्पं
सिंहासनं तस्य सपादपीठम् ।
सन्तप्तचामीकरवल्गुवज्रं
विभागविन्यस्तमहार्घरत्नम् ॥”
इति भट्टौ ३ सर्गः ॥

सपिण्डः, पुं, (समानः पिण्डो मूलपुरुषो निवापो

वा यस्य । समानस्य सः ।) सप्तपुरुषान्त-
र्गतज्ञातिः । तत्पर्य्यायः । सनाभिः २ । इत्य-
मरः ॥ स च अशौचविवाहदायभेदात् त्रिविधः ।
तत्राशौचसपिण्डस्य लक्षणं यथा । सप्तपुरु-
षान्तर्गतत्वे सति गोत्रैक्ये सति दातृत्वभोक्तृ-
त्वान्यतरसम्बन्धेन पिण्डलेपान्यतरवत्त्वम् । दत्त-
कन्यानान्तु भर्त्तृसापिण्ड्येन सापिण्ड्यम् । अद-
त्तानां पित्रवधित्रिपुरुषसापिण्डम् । विवाह-
सपिण्डास्तु । पितृपितृबन्ध्वपेक्षया सप्तमपुरुषा-
वधयः मातामहमातृबन्ध्वपेक्षया पञ्चमपु-
रुषावधयश्च । यथा, --
“पञ्चमात् सप्तमादूर्द्ध्वं मातृतः पितृतः क्रमात् ।
सपिण्डता निवर्त्तेत सर्व्ववर्णेष्वयं विधिः ॥”
इत्युद्वाहतत्त्वधृतनारदवचनम् ॥
दायसपिण्डास्तु । त्रिपुरुषावधयः । ते च पितृ-
पितामहप्रपितामहाः तेषां पुत्त्रपौत्त्रप्रपौत्त्र-
दौहित्राः । मातामहप्रमातामहवृद्धप्रमाता-
महाः । तत्पुत्त्रपौत्त्रप्रपौत्त्राश्च । इति दाय-
भागः ॥ * ॥ अथ सपिण्डादिविचारः । मत्स्य-
पुराणम् ।
“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः
पिण्डदः सप्तमस्तेषां सापिण्ड्ये साप्तपौरुषम् ॥”
नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपमोक्तृत्वा-
सम्भवात् कथं सपिण्डत्वमिति चेदुच्यते । तेषा-
मपि पिण्डलेपयोः सम्बन्धोऽस्ति । तथा च
बौधायनः । प्रपितामहः यितामहः पितः स्वयं
सोदर्य्यभ्रातरः । सवर्णायाः पुत्त्रः पौत्त्रः प्रपौत्त्रो
पृष्ठ ५/२५६
वा एतानविभक्तदायादान् सपिण्डानाचक्षते
विभक्तदायादान् सकुल्यानाचक्षते सत्स्वङ्गजेषु
तद्गामी ह्यर्थो भवति इति । अस्यार्थः । पित्रा-
दिपिण्डबयेषु सपिण्डनेन भोक्तृत्वात् । पुत्त्रा-
दिभिस्त्रिभिस्तत्पिण्डदानात् । यश्च जीवन् यस्य
पिण्डदाता स मृतः सन् सपिण्डनेन तत्पिण्ड-
भोक्ता एवं सति मध्यस्थितः पुरुषः पूर्व्वेषां
जीवन् पिण्डदाता मृतः सन् तत्पिण्डभोक्ता-
परेषां जीवतांपिण्डसम्प्रदानमूत आसीत् मृतैश्च
तैः सह दौहित्रादिदेयपिण्डभोक्ता । अतो
येषामयं पिण्डदाता ये चास्य पिण्डभोक्तारस्ते-
ऽविभक्तं पिण्डरूपं दायं अश्नन्तीति अविभक्त-
दायादाः सपिण्डा इति । इदञ्च सपिण्डत्वं
सकुल्यत्वञ्च दायग्रहणार्थम् । अशौचाद्यर्थन्तु
पिण्डलेपभुजामपि । लेपभाजश्चतुर्थाद्याः पि-
त्राद्याः पिण्डभागिनः ॥ इति प्रागुक्तमत्स्यपुरा-
णात् वक्ष्यमाणकूर्मपुराणशङ्खलिखितवचनाच्च
पिण्डे यथा परस्परं भोक्तृत्वं तथा लेपे तुल्य-
न्यायात् । हारलतायां कूर्म्मपुराणम् ।
“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम् ॥”
लेपभागिभ्यस्तूर्द्ध्वं यावज्जन्मनाम्नोरवेदनं याव-
दमुकनाम्नोऽस्मात् पूर्व्वपुरुषादयं जातः इति
विशेषः । अयमस्मत्कुले जात इति सामा-
न्यतो वा स्मर्य्यते तावत् समानोदकत्वमिति
हारलता ॥ अत्र परवचनेनैव सापिण्ड्यसिद्धौ
पूर्व्ववचनपूर्व्वार्द्धं जीवत्पितृकत्वादिना अधिक-
पुरुषेषु पिण्डलेपसम्बन्धेऽपि सपिण्डतानिवृत्ति-
ज्ञापनाय । सर्व्वदेशीयाचारोऽपि तथा । यथा
श्राद्धविवेकेऽपि पार्व्वणश्राद्धानन्तरं तित्यश्राद्धे
विकल्प उक्तः । मार्कण्डेयपुराणम् ।
“नित्यक्रियां पितॄणान्तु केचिदिच्छन्ति सत्तमाः
न पितॄणां तथैवान्ये शेषं पूर्व्ववदाचरेत् ॥”
अत्र पूर्व्वार्द्धात् पितॄणां प्राप्तौ न पितॄनामित्यत्र
पुनः पितॄणां ग्रहणं सनकादीनामन्नोत्सर्गा-
भ्यनुज्ञानाथ इति फलान्तरमुक्तम् । हरिशर्म्म-
णापि अन्यार्थं पुनर्व्वचनमिति लिखितम् । अथ
यः खलु पिण्डान् दत्त्वैव मृतः परतश्चाप्राप्त-
पितृभावः स कथं सपिण्डः एकपिण्डदातृत्व-
भोक्तृत्वलक्षणसम्बन्धाभावादिति चेत् तद्योग्य-
तयेति ब्रूमः । योग्यताप्रयोजकञ्च सामान्य-
शास्त्रविषयत्वम् । ततश्च अत्यतिवृद्धप्रपिता-
महावधिकाधस्तनानां षण्णां पुंसां प्रत्येकापेक्षया
सप्तानामेकगोत्राणां स्वावधिपरतनानां सप्ता-
नाञ्च सापिण्ड्यं पिण्डलेपयोर्दातृत्वभोक्तृत्वसम्ब-
न्धादिति । स्त्रीणान्तु भर्त्तृसापिण्ड्येन सापि-
ण्ड्यम् । प्रत्तानां भर्त्तृसापिण्ड्यमिति वचनात् ।
नन्वेवं कन्यायाः कथंसपिण्डतेति चेत् आदि-
पुराणवचनात् त्रैपुरुषं सापिण्डम् । यथा, --
“सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषी ।”
अत्र कन्यानामनूढानाम् । अप्रत्तानां त्रिपौ-
रुषमिति वशिष्ठवचनात् । तेन आत्मपञ्चमे
वृद्धप्रपितामहे सापिण्ड्यं निवर्त्तत इति प्रति-
पादितम् । अतएव कन्यायाः प्रपितामहभ्रात्रा
तत्सन्ततिभिश्च सह सापिण्ड्याभावात् कन्या-
मरणजननयोस्तेषां सपिण्डाशौचं नास्ति किन्तु
समानोदकनिमित्तमेवाशौचमिति । एवं तेषा-
मपि जननमरणयोः कन्यानामिति शूलपाणि-
महामहोपाध्यायाः ॥ यत्तु कूर्म्मपुराणम् ।
“अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्त-
पौरुषम् ।
प्रत्तानां भर्त्तृसापिण्ड्यं प्राह देवः पितामहः ॥”
इति रत्नाकरधृतं तद्विवाहे पितृपक्षविषयम् ।
यथा, विष्णुपुराणम् ।
“सप्तमीं पितृपक्षाच्च मातृपक्षाच्च पञ्चमीम् ।
उद्वहेत द्विजो भार्य्यां न्यायेन विधिना नृप ॥”
सप्तमीं पञ्चमीं हित्वा इति शेषः । भर्त्तृसापिण्ड्य-
मित्यत्र साप्तपौरुषमित्यनुषज्यते । तेन भर्त्तृ-
समानसापिण्ड्यमित्यर्थः । शङ्खलिखितौ ।
“सपिण्डता तु सर्व्वेषां गोत्रतः साप्तपौरुषी ।
पिण्डञ्चोदकदानञ्च शौचाशौचं तदानुगम् ॥”
गोत्रतः गौत्रैक्ये तेन मातामहकुले कदाचित्
षट्पुरुषपर्य्यन्तं पिण्डसम्बन्धेऽपि न सपिण्डता
तान् सप्तपुरुषान् आ समन्तात्कारेण पिण्डा-
दिकमनुगच्छतीति तदानुगम् । एतेन सपि-
ण्डता एकशरीरावयवान्वयेन भवति । तथा,
हि । पितुः शरीरावयवान्वयेन पित्रा
सह एव पितामहादिभिरपि पितृद्वारेण
तच्छरीरावयवान्वयात् । एवं मातृशरीरा-
वयवान्वयेन मात्रादिभिरपि । एवं पत्या सह
पत्न्या एकशरीरारम्भकतया सापिण्ड्यम् ।
तथा च गर्भोपनिषदि । एतत् षाट्कोषिकं
शरीरं त्रीणि पितृतः त्रीणि मातृतः अस्थि-
स्नायुमज्जानः पितृतः त्वङ्मांसरुधिराणि
मातृतश्चेति । तत्र तत्रावयवान्वयप्रतिपादनात्
निर्व्वाप्य पिण्डान्वये तु सापिण्ड्ये भ्रातृपितृ-
व्यादिसापिण्ड्यं न स्यात् । अतिप्रसङ्गस्तु सप्तान्य-
तमत्वेन प्रयोगोपाधिना निरसनीयः । यद्येवं
मातामहादीनामपि मरणे सपिण्डत्वेन दशा-
हाशौचं प्राप्नोति स्यादेतत् यदि मातामहानां
मरणे त्रिरात्रं स्यादशौचकं इत्यादिविशेष-
वचनं न स्यात् । यत्र तु विशेषवचनं नास्ति
तत्र दशाहमिति मिताक्षरारत्नाकरादिमतम-
पास्तम् । लेपभाज इत्यादिवाचनिकेऽर्थे सापिण्डे
एकशरीरावयवान्वयरूपस्वकपोलरचितार्थान-
वकाशात् । निर्व्वाप्यपिण्डसम्बन्धेनभ्रात्रादीनां
सापिण्ड्यस्य मत्स्यपुराणबौधायनाभ्यां पूर्वमुक्त-
त्वात् । कामधेनुहारलताकल्पतरुपारिजात-
कारादिभिस्तथैवव्याख्यातत्वाच्च । रेतःशोणित-
परिणामरूपत्वादपत्यशरीरस्य भवतु वा तथा ।
पत्या सह पत्न्या एकशरीरारम्भकतायाः प्रत्य-
क्षवाधितत्वात् कथं सापिण्ड्यं प्रमातामहा-
दीनां विशेषवचनाभावात् सपिण्डत्वेन दशा-
हाद्यशौचप्रसङ्गात् मातामहादौ सापिण्ड्यस्य
लोकविरुद्धत्वाच्च । भवतु वा तथा शरीरद्वारा
सापिण्ड्यं तथापि वचनात् यथा सप्तान्तर्गतत्वं
तन्त्रं तथा गोत्रतः साप्तपौरुषीति वचनात्
गोत्रैक्यमपि प्रागुक्तवचनात् । कन्यास्त्रियौ-
रुषं सापिण्ड्यं ऊढायाश्च भर्त्तृसापिण्ड्येन
सापिण्ड्यमिति चेत् तदेतन्मतेऽपि व्यवस्थायां न
क्षतिरिति । अतएव सुमन्तुवचनाभिहितं यद्द-
शमपुरुषपर्य्यन्तमशौचंतत्सप्तमपुरुषाभ्यन्तरा-
शौचान्न्यूनं त्रिरात्रम् । यथा ब्राह्मणानामेक-
पिण्डस्वधानामादशमात् धर्म्मविच्छित्तिर्भवति
आसप्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात्
स्वधाविच्छित्तिर्भवति अन्यथा पिण्डाशौचक्रि-
याद्युच्छेदात् ब्रह्मतुल्यो भवतीति । अस्यार्थः ।
एका समाना पिण्डस्वधा येषां ते तथा । यथा
एकोद्दिष्टस्य पिण्डे तु अनुशब्दो न युज्यते इत्य-
त्रानुशब्देनानुशब्दयुक्तो मन्त्रो लक्ष्यते अनुयुक्त-
मन्त्रस्तु ये चात्र त्वामनु यांश्च त्वमनु तस्मै ते
स्वधा इति तथापिण्डस्वधाशब्देन पिण्डसम्बन्धि-
स्वधाशब्दयुक्तमन्त्रकरणकदेयजलं लक्षितम् ।
तथा च । ऊर्ज्यं वहन्तीरमृतं घृतं पयः कीलालं
परिश्रुतं स्वधास्तर्पयत मे पितॄन् इत्यनेन
पिण्डान् सिञ्चेदित्युक्तम् । ततश्च एकपिण्डस्वधानां
समानोदकानामित्यर्थः । अतएत मनुः ।
“जन्मन्येकोदकानान्तु त्रिरात्रात् शुद्धिरिष्यते ।”
विष्णुपुराणम् ।
“मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा ।”
मातृपक्षस्य मातामहपक्षस्य पिण्डेन सम्बद्धाः
सपिण्डाः जलेन सम्बद्धाः समानोदका इति
श्राद्धविवेकेऽपि व्याख्यातम् ।
“असम्बन्धा भवेद्यातु पिण्डेनैवोदकेन वा ॥”
इति विवाहेऽप्युक्तम् । अत्र पुत्त्रिकायाः पार्व्वणे
पिण्डोदकयोः सम्बन्धात्कन्यामात्रेऽपि तद्योग्य-
तायाः सत्त्वात् कन्या पिण्डोदकसम्बन्धोच्यते ।
एतदनुसारादपि तस्याः सपिण्डता बोद्धव्या त-
स्मादेकपिण्डस्वधानामित्यनेन समानोदकभावः
समाख्यातः । न तु दशमपुरुषपर्य्यन्तं पित्रादि-
जीवनादिना पिण्डसम्बन्धेऽपि सापिण्ड्यं विहितं
प्रागुक्तयुक्तेः स्वधेत्यस्य तदनुपयुक्तत्वेन वैयर्य्या-
पत्तेः । अपुत्त्रधनाधिकारस्तु सन्निहिततराभावे
सप्तमपुरुषपर्य्यन्तम् । मृतपितृकस्य स्वधोप-
लक्षितश्राद्धाधिकारः पुरुषत्रयपर्य्यन्तमिति ।
अत्र स्वधाशब्दो मन्त्रपरः पितृभक्षपरोऽपि ।
तथा च गुणविष्णुधृता श्रुतिः । स्वधा वै पितॄ-
णामन्नमिति । दशमपुरुषानन्तरं समानोदक-
त्वेऽपि न त्रिरात्रं किन्तु पक्षिण्यादि । तथा
हि । उदकक्रियामघिकृत्य पारस्करः । सर्व्वे
ज्ञातयो भावयन्ति । आसप्तमाद्दशमाद्वा
समानग्रामवासेन यावत् सम्बन्धमनुस्मरेयुर्व्वा
इति । भावयन्ति निष्पादयन्ति । अत्र यावत्
सम्बन्धमनुस्मरेयुरेककुलजाता वयमिति स्मरणं
पृष्ठ ५/२५७
भवतीत्यननैव सर्व्वेषामुदकदाने प्राप्ते यदासप्त-
माद्दशमाद्वेत्युक्तं तत् सन्निकर्षतारतम्येना-
शौचभेदेऽप्युदककर्म्मसमानार्थमिति । अशौच-
मेदस्तु सप्तमपुरुषपर्य्यन्तं सपिण्डत्वाद्दशाहः ।
ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः । तथा च विष्णु-
बृहस्पती ।
“दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके ।
त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति
गोत्रजाः ॥”
ततश्चतुर्द्दशपुरुषपर्य्यन्तं पक्षिणी । ततश्च जन्म-
नामस्मृतिपर्य्यन्तमेकाहः । तथा च मिताक्षरा-
विवादचिन्तामण्योर्बृहन्मनुः ।
“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ॥
जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ॥”
अत्र समानोदकत्वे द्विविधे । पूर्व्वत्र गोतमः
पक्षिणीमसपिण्डे इति । परत्र हारीतः ।
“मातामहे त्रिरात्रं स्यादेकाहस्त्वसपिण्डके ॥”
अत्रैव गोत्रजानामहः स्मृतमिति जावाल-
वचनम् । ततः परं सर्व्वथा समानोदकतानि-
वृत्तेः स्नानमात्रमिति । स्नात्वा शुध्यन्ति गोत्रजा
इति बृहस्पत्युक्तत्वादिति । इति शुद्धितत्त्वम् ॥

सपिण्डीकरणं, क्ली, (सपिण्ड + कृ + ल्युट् । अभूत-

तद्भावे च्विः ।) पूर्णसंवत्सरक्रियमाणपार्व्वणैको-
द्दिष्टेतिकर्त्तव्यताकश्राद्धम् । यत्र प्रेतपिण्डस्य
पितृपिण्डेन सह मिश्रीकरणम् । यथा, --
“सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ।
कुर्य्याच्चत्वारि पात्राणि प्रेतादीनांद्विजोत्तमाः ॥
प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः ।
ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ॥
सपिण्डीकरणश्राद्धं देवपूर्व्वं विधीयते ।
पितॄनावाहयेद्यत्र पृथक् पिण्डञ्च निर्द्दिशेत् ॥
ये सपिण्डीकृताः प्रेता न तेषां स्यात् पृथक्
क्रिया ।
यस्तु कुर्य्यात् पृथक् पिण्डं पितृहा सोऽपि
जायते ॥”
इति कूर्म्मपुराणे उपविभागे २२ अध्यायः ॥ * ॥
अन्यच्च ।
“ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ।
सपिण्डीकरणादूर्द्ध्वं प्रेतः पार्व्वणभुग्यतः ॥
वृद्धिपूर्त्तेषु योग्यश्च गृहस्थश्च भवेत्ततः ।
सपिण्डीकरणं श्राद्धं देवपूर्व्वं निजोजयेत् ॥
पितॄनेवाशयेत्तत्र पृथक् प्रेतं विनिर्द्दिशेत् ।
गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥
तद्वत् सङ्कल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदा
ये समाना इति द्वाभ्यामाद्यन्तु विभजेत्त्रिधा ॥
चतुर्थस्य पुनः कार्य्यं न कदाचित् यतो भवेत्
ततः पितृत्वमापन्नः स चतुर्थस्तदा पुमान् ॥
अग्निस्वात्तादिमध्यन्तु प्राप्नोत्यमृतमुत्तमम् ।
सपिण्डीकरणादूर्द्ध्वं तस्मै तस्मान्न दीयते ॥”
इति मात्स्ये १८ अध्यायः ॥
अपरञ्च । अथ सपिण्डीकरणम् । तत्र गोभिलः ।
पूर्णे संवत्सरे षण्मासे त्रिपक्षे यदहर्व्वा वृद्धि-
रापद्येत तदहश्चत्वार्य्युदकपात्राणि सतिल-
गन्धपुष्पोदकानि पूरयित्वा त्रीणि पितॄणामेकं
प्रेतस्य प्रेतपात्रं पितृपात्रेष्वासिञ्चति । ये
समानाः समनसः पितरो यमराज्ये तेषां लोकः
स्वधा नमो यज्ञो देवेषु कल्पताम् ।
“ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः ॥”
इति ॥
एतेनैव पिण्डो व्याख्यात इति । पूर्णे संवत्सरे
इति मुख्यकल्पः । तदशक्तौ नवमो मासः ।
संवत्सरान्ते विसर्ज्जनं नवममास्यमित्येके । इति
पैठीनसिवचनात् । तदशक्तौ षष्ठो मासः ।
तत्राप्यशक्तौ त्रिपक्षः तत्राप्यशक्तौ अशौचाप-
गमे प्रथममासस्य द्वादशभिर्दिनैर्द्वादशमासि-
कानि श्राद्धानि निर्व्वर्त्य त्रयोदशाहः सपिण्डी-
करणकालः । शूद्रस्य द्वादशाहो न तु त्रयो-
दशाह एव मासिकार्थवत् द्वादशाहश्राद्धं कृत्वा
त्रयोदशेऽह्नि वा तत् कुर्य्यान्मन्त्रवर्ज्ज्यं हि
शूद्राणां द्वादशेऽह्नीति विष्णुवचनात् । मासि-
कार्थवदिति मासिकार्थो मासि मासि क्रिय-
माणश्राद्धप्रयोजनंप्रेताप्यायनादितद्युक्तं द्वाद-
शाहक्रियमाणश्राद्धमित्यर्थः ॥ * ॥ यत्र त्वेका-
दशमासाभ्यन्तरेऽधिमासपातः तत्र त्रयोदशसु
दिनेषु त्रयोदश मासिकानि कृत्वा चतुर्द्दशेऽह्नि
सपिण्डनं कार्य्यमिति । संवत्सराभ्यन्तरे यद्यधि-
मासो भवति तदा मासिकार्थं दिनमेकं वर्द्धयेत् ।
इति विष्णुवाक्यात् । शूद्रस्य त्रयोदशदिनेषु
त्रयोदशमासिकानि त्रयोदशेऽह्नि सपिण्डनं
दृष्टपरिकल्पनान्यायात् । एवञ्च श्राद्धवृद्धिमात्रं
न दिनवृद्धिरिति मिश्रोक्तं हेयम् । तद्धृतविष्णु-
सूत्रे दिनमेकं वर्द्धयेदिति श्रूतेः । श्राद्धाधिक्य-
माह सत्यव्रतः ।
“संवत्सरस्य मध्ये तु यदि स्यादधिमासकः ।
तदा त्रयोदशे श्राद्धं कार्य्यन्तदधिकं भवेत् ॥”
तत्राप्यशक्तौ प्रथममासस्यैकाह एव द्वादश-
मासिकसहितसपिण्डीकरणकालः ।
“मुख्यं श्राद्धं मासि मासि अपर्य्याप्तावृतुं प्रति ।
द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथवा ॥”
इति मरीचिवचनात् । अपर्य्याप्तौ अशक्तौ
ऋतुर्म्मासद्वयम् । अत्र कल्पे षष्ठमासिकदिने
पञ्चममासिकं कृत्वा प्रथमषाण्मासिकं कृत्वा
षष्ठमासिकं कार्य्यं तदाद्युत्कर्षन्यायात् । न तु
तत्पूर्व्वं षाण्मासिकं व्युत्क्रमापत्तेर्न च पञ्चम-
मासिकमपि पूर्व्वदिने मृततिथ्यभावात् एव-
मेव वाचस्पतिमिश्रः ॥ * ॥ अपकर्षनिभित्त-
माह व्याघ्रः ।
“आनन्त्यात् कुलधर्म्माणां पुंसाञ्चैवायुषः
क्षयात् ।
अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥”
एतञ्च द्वादशाहपदं शावाशौचान्ततृतीयदिन-
मात्रपरमिति प्राचीनमैथिलाः अजहत्स्वार्थ-
लक्षणया स्वजात्युक्ताशौचान्ततृतीयदिनमात्रो-
पलक्षकं इति श्राद्धप्रदीपश्राद्धचिन्तामणी ।
तद्धयमप्ययुक्तम् । द्वादशाहेन वा कुर्य्यात् इति
मरीचिवचनद्वादशाहश्राद्धं कृत्वा त्रयोदशेऽह्नि
वा कुर्य्यात् इति विष्णुवचनाभ्यामेकवाक्यतया
द्वादशाहमित्यस्य द्वादशदिनपरत्वात् । कुल-
धर्म्माणामिति कुलधर्म्मज्योतिरागमादिसिद्धा-
नन्तरभाविनाशपरचक्रभयोत्पन्नम्लेच्छदेशगम-
नादिभिर्निमित्तैः अशौचापगमे द्वादशदिनानि
षोडशश्राद्धापकर्षकाल इति शूलपाण्युपाध्याय-
व्याख्यानात् । मरीचिनैव एकाहे द्वादशाथवेति
सामान्यत एव एकाहविधानाच्च । अतएव
एकाहापेक्षया प्राशस्त्याभिधानमपि सङ्गच्छते
अतएव प्रथममासस्य एकाह एव द्वादश-
मासिकसहितसपिण्डीकरणकालः इति श्राद्ध-
विवेकः । अत्र यानि एकाहकर्त्तव्यतया द्वादश-
मासिकश्राद्धान्युक्तानि तानि शूद्रेणापि आद्य-
मासिकदिन एव कार्य्याणि । न त्वाद्यमासिकं
कृत्वा तत्परदिने एकादशमासिकानीति ज्ञेयम्
एवञ्च तेषामपकर्षे तन्मध्यतदन्तकालकर्त्तव्यतया
षाण्माषिकद्वयसपिण्डीकरणापकर्षः सिध्यतीति
सुधीभिर्विभाव्यम् ॥ * ॥ यदहर्व्वा वृद्धिरिति
वृद्धिराशास्यमानं पुंसवनादि । आपद्येत
आसन्ना भवति तद्दिने सपिण्डीकरणम् । तथा
हि प्रागावर्त्तनादह्नः कालं विद्यात् । इति
गोभिलसूत्रेण पुंसवनादिरूपवृद्धेर्यामद्वयाभ्य-
न्तरे विधानात् सपिण्डीकरणस्य चापराह्णे
विधानात्तयोः कालयोरवाधाय वृद्धिपूर्व्वदिने
अपकर्षः ॥ * ॥ ननु सपिण्डीकरणस्यापराह्णि-
कत्वे किं प्रमाणमिति चेत् अपराह्णे तु पैतृक-
मित्युत्सर्गवचनम् ।
किञ्च “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा
चरुम् ।
अग्नीन्द्रेश्वरसामान्यात्तण्डुलोऽत्र विधीयते ।”
इति छन्दोगपरिशिष्टवचने यथा बहूनामनु-
रोधात्तण्डुलचरुर्नैकानुरोधात् पैष्टचरुः । विरुद्ध-
धर्म्मसमवाये भूयसां स्यात् सधर्म्मकत्वम् । इति
जैमिनिसूत्रात् । तद्वदत्रापि बहुदेवताक-
पार्व्वणानुरोधादेकोद्दिष्टकालवाध इति । एवञ्च
संवत्सरं अधिकृत्य ।
“सपिण्डीकरणं तस्मिन् काले राजेन्द्र तत् शृणु
एकोद्दिष्टविधानेन कार्य्यं तदपि पार्थिव ॥”
इति विष्णुपुराणीयमेकोद्दिष्टांशे तदितिकर्त्तव्य-
तापरं न तु तत्कालपरम् । तथा च परिशिष्ट-
प्रकाशधृतम् ।
“श्राद्धद्वयमुपक्रम्य कुर्व्वीत सहपिण्डताम् ।
तयोः पार्व्वणवत् पूर्व्वमेकोद्दिष्टमथापरम् ॥”
इति ॥ * ॥
एवञ्च शुद्धितत्त्वलिखित-स्यमन्तकोपाख्यानवत्
वृद्धिं निश्चित्य कृतं सपिण्डीकरणं तदानीं
विघ्नेन वृद्ध्यभावेऽपि वृद्ध्यारम्भकालान्तरं पूर्ण-
पृष्ठ ५/२५८
संवत्सरं वा प्राप्य पितृत्वप्रापकं इति न
सपिण्डनान्तरम् । अत्र श्वः कर्त्तास्मीति निश्चित्य
दाता विप्रान्निमन्त्रयेत् । इतिवन्निश्चित्येति उत्-
कटकोटिकसम्भावनोपलक्षणम् । भविष्यन्निमि-
त्तस्य कर्म्मणः प्रत्यूहार्हत्वात् । एवञ्च वृद्धि-
श्राद्धं यदर्थं कृतं तत्कर्म्म चेत् विघ्नात्तद्दिने न
क्रियते तदा दिनान्तरे तत्कर्म्मणि क्रियमाने
तदङ्गत्वात् पुनर्वृद्धिश्राद्धं कर्त्तव्यमेव ।
“प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः ।
तदङ्गस्याक्रियायान्तु नावृत्तिर्न च तत् क्रिया ॥”
इति छन्दोगपरिशिष्टेन साङ्गकरणाभिधानात्
हेमाद्रिधृतम् ।
पूर्णे संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम् ।
तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते ॥”
अत्र पूर्णसंवत्सरक्रियमाणश्राद्धाद्यथोभय-
निर्व्वाहः । तथापकृष्टसपिण्डनादप्युभयनिर्व्वा-
हान्न पूर्णसंवत्सरे आब्दिकान्तरं कार्य्यम् ।
एवञ्च पञ्चदशश्राद्धे कृतेऽप्युन्नेयम् ॥ * ॥ उदक-
पात्राणि इति अर्घ्यार्थमुदकयुक्तपात्राणि । अत्र
त्रीणि पितॄणामेकं प्रेतस्येति पाठक्रमदर्श-
नात् सर्व्वत्र छन्दोगानां यजुर्वेदिनाञ्च गृह्यानु-
रोधात् सपिण्डीकरणे प्रेतकर्म्मकरणं पितृकर्म्म-
पूर्व्वकम् । तयोः पार्वणवत् पूर्व्वमेकोद्दिष्टमथा-
परम् । इति पूर्वलिखितवचने शाब्दक्रमदर्श-
नात् । देवकृत्यपितृकृत्ययोर्म्मध्ये प्रेतकृत्येन व्यव-
धानस्यायुक्तत्वाच्च । एतेन अथ सपिण्डीकरणं
संवत्सरमेकं पिण्डमुद्दिश्य संवत्सरान्ते चत्वार्य्यु-
दकपात्राणि प्रयुनक्ति तत्रैकं प्रेतस्य त्रीणि
इतरेभ्यः । इत्याश्वलायनदर्शनात् सर्व्वशाखिनां
सपिण्डीकरणे प्रेतादित्वं मैथिलोक्तं निरस्तम् ।
एतद्वचनस्य तच्छाखिमात्रपरत्वात् । किन्त्व-
र्घ्यदानमात्रे पाठक्रमाच्छाब्दक्रमस्य बलवत्त्वात्
ब्रह्मपुराणे प्रेतार्घ्यदानान्तरं ततः पितामहा-
दिभ्यः इति शब्दक्रमस्यावाधायार्घ्यपात्रेषु
गन्धपुष्पदानपर्य्यन्तं पितृपूर्व्वकता उत्सर्गे तु
प्रेतपूर्व्व कतेति । तथा ब्रह्मपुराणम् ।
“चतुर्भ्यश्चार्घ्यपात्रेभ्य एकं वामेन पाणिना ।
गृहीत्वा दक्षिणेनैव पाणिना च तिलोदकम् ॥
सम्मार्ज्जयित्वा पृथिवीं ये समाना इति स्मरन् ।
प्रेतविप्रस्य हस्ते तु चतुर्भागं जलं क्षिपेत् ॥
ततः पितामहादिभ्यस्तन्मन्त्रैश्च पृथक् पृथक् ।
ये समाना इति द्वाभ्यां तज्जलन्तु समर्पयेत् ॥
अर्घ्यं तेनैव विधिना प्रेतपात्राच्च पूर्व्ववत् ।
तेभ्यश्चार्घ्यं निवेद्येव पश्चाच्च स्वयमाचमेत् ॥”
एकं प्रेतपात्रं वामेन अनन्तरंदक्षिणेन गृहीत्वा
इति सम्बन्धः । ये समाना इति मन्त्रद्वयं पठन्
प्रेतपात्रस्थं उत्सृष्टजलं कुशरेखात्रयेण चतुर्धा
विभज्य भागमेकं प्रेतब्राह्मणहस्ते क्षिपेत्
दद्यात् । उत्सृष्टजलपिण्डयोर्व्विभागे मन्त्रस्य
करणत्वं व्यक्तमाह शातातपः ।
“निरूप्य चतुरः पिण्डान् पिण्डदः प्रतिनामतः ।
ये समाना इति द्वाभ्यामाद्यन्तु विभजेत् त्रिधा ।
एष एव विधिः पूर्व्वमर्घ्यपात्रचतुष्टये ॥”
ततस्तदनन्तरं तन्मन्त्रैः पितामहादिभेदेन त्रिरा-
वृत्तैर्या दिव्या इति मन्त्रैश्चकारात् पितामहा-
द्युत्सर्गवाक्यैरर्घ्यमुत्सृज्य ये समाना इति
द्वाभ्यां मन्त्राभ्यामर्घ्यं पुष्पोदक तज्जलं प्रेत-
पात्रस्थजलं तेनैव विधिना प्रत्येकेन पूर्व्ववत्
चतुर्भागरूपं प्रेतपात्रात् समर्पयेत् । तेभ्यः
पितामहादिभ्यस्त्रिभ्यस्तन्मिश्रितपुष्पतिलोदक-
रूपमर्घ्यं निवेद्य तत्तद्ब्राह्मणहस्ते प्रक्षिप्य
पश्चादाचमेदित्यर्थः । तेन प्रेतब्राह्मणहस्ते
उत्सृज्य दत्तस्यैवार्घ्यजलस्य तदवशिष्टजलस्य
भागत्रयं पितामहाद्युत्सृष्टार्घ्यजलेषु मिश्री-
कर्त्तव्यमिति प्रतीयते । अतएव दत्तस्यैव प्रेत
पिण्डस्य मिश्रीभाव इति श्राद्धविवेकः ॥ * ॥
यच्च न चात्र देवं भोजयेत् प्रागेव दैवे अर्घ्यं
मन्नाद्यञ्च दत्त्वा गन्धमाल्यैः पात्रमर्च्चयित्वा
हुतशेषं पितृभ्यः पात्रेषु दद्यात् इत्याश्वलायन-
वचने पितृपात्रे दैवं न मिश्रयेदिति कल्पतरु-
व्याख्यानुरोधेन मैथिलोक्तं सर्व्वशाखिनान्तथा-
चरणम् । तन्नयुक्तम् । आश्वलायनेन काण्डानु-
शयस्योक्तत्वात् बह्वृचानामेव तथा युक्तत्वात् ।
न सामगयजुर्व्वेदिनोः । तयोः पदार्थानुशय-
स्योक्तत्वात । अत्र सामयजुर्व्वेदिनोः श्राद्धसूत्रे
समन्वये मन्त्रदर्शनात्तत्रैव मन्त्रान्वयः पितृ-
दयितादावुक्तः । वस्तुतस्तु पौराणिकत्वात् देव-
ताभ्य इत्यस्य पाठवत् साधारणस्मृतिकार-
शातातपोक्तत्वाच्च विभागेऽपि मन्त्रान्वयो युक्तः
अतएव मैथिलैरपि तथा लिखितमिति ॥ * ॥
एवञ्च पार्व्वणे प्रागुक्तवचनेन शेषद्रव्येण पिण्ड-
दानविधानात् तद्विकृतावपि सपिण्डीकरणे
तन्नियमात् यद्यपि शेषाभावे पिण्डनिवृत्ति-
रायाति तथापि ।
“यथोक्तवस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत् ।
यवानामिव गोधूमा ब्रीहीणामिव शालयः ॥”
इति छन्दोगपरिशिष्टवचनात् मुख्याभावे प्रति-
निधिः शास्त्रार्थ इति न्यायाच्च मध्वाद्यभावे
गुडादिग्रहणवत् द्रव्यान्तरेणापि पिण्डदानम्
शेषद्रव्यनियमस्तु तत्सम्भवे द्रव्यान्तरत्यागाय ।
अन्यथा तदङ्गाभावे कर्म्मवैगुण्यं स्यात् । सह-
पिण्डक्रियायां इति मनूक्तेः प्रेतपिण्डस्य सह-
मिश्रीकरणं यत्रेति सपिण्डीकरणसमाख्या-
सिद्ध्यर्थं सुतरां तत्र तथाचरणम् । प्रतिपत्ति-
रूपकर्म्माङ्ग एव प्रतिपाद्याभावे तन्निवृत्तिः ।
पशुयागे लोहितं निरस्यति सकृन्निरस्यति
इत्यादावुक्ता । अतएव यज्ञवास्तुरूपप्रतिपत्ति-
यागेऽपि यज्ञो यत्र वसति इति यज्ञवास्तुसमा-
ख्यानुरोधेनास्तृतकुशविनाशेऽपि कुशान्तरप्रति
निधिर्भट्टनारायणैः गोभिलभाष्ये उक्तः । प्राक्
स्विष्टिकृत आवापः इति गोभिलसूत्रस्य
व्याख्यानेऽपि आ उच्यते इत्यावापः प्रधानहोमः
स तु स्विष्टिकृद्धोमात् प्राक् न पश्चादित्यर्थः ।
एवञ्च मुख्यहोमे त्वकृते यदि चरुर्नष्टो दुष्टो वा
भवति तदान्यः पाच्यः मुख्ये कृते चेन्नाशदुष्टी
स्यातां तदाज्येनैव स्विष्टिकृद्धोम इति शरला ।
एतेन शेषनाशे पिण्डनिवृत्तिरिति वाचस्पति-
मिश्रोक्तं हेयम् ॥ * ॥ एतेन पिण्ड इति ।
एतेनार्घ्यदानविधानेन । पिण्डः पिण्डमिश्रण-
प्रकारो व्याख्यातः । तथा च ब्रह्मपुराणम् ।
“अथ तेनैव विधिना दर्भमूलेऽवनेजनम् ।
पितुर्द्दत्त्वा तु पिण्डन्तु दद्याद्भक्त्या तु पूर्व्ववत् ॥
दत्त्वापिण्डान् पितृभ्यस्तु पश्चात् प्रेताय पार्श्वतः
तन्तु पिण्डं त्रिधा कृत्वा आनुपूर्व्व्या च सन्त-
तम् ॥
निदध्यात्त्रिषु पिण्डेषु एवं संसर्ज्जने विधिः ॥”
पितृभ्यः पितृपितामहादिभ्यः पिण्डान् दत्त्वा
पश्चात् प्रेताय पार्श्वतः पूर्व्वदेशे पिण्डं दद्यादि-
त्यर्थः । तं प्रेताय दत्तपिण्डम् । आनुपूर्व्व्या
पितामहादिक्रमेण । संसर्ज्जने प्रेतपिण्ड-
मिश्रणे । भविष्यपुराणम् ।
“गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥”
ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम् ।
नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि ॥”
नित्येनावश्यकेन ततश्च पार्व्वणांशे पार्व्वणेन
एकोद्दिष्टांशे एकोद्दिष्टेन शेषं अङ्गजातं
तुल्यम् । एकोद्दिष्टमिति एकोद्दिष्टं तद्धर्म्म-
ग्राहित्वात् सपिण्डीकरणञ्चेत्युभयपरम् । एतत्
सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि । इति
याज्ञवल्क्यवचनैकवाक्यत्वात् । तेन श्राद्धेषु
मध्ये एतच्छ्राद्धद्वयं स्त्रियाः कर्त्तव्यं न त्वाभ्यु-
दयिकश्राद्धादि । अत्र वा कर्त्तरि कृत्ये इति
कर्त्तरि षष्ठीति कर्त्तृत्वनियमः । वृद्धिश्राद्धादौ
स्त्रीणां भोजनदर्शनान्न भोक्तृत्वनियमः ॥ * ॥
पितरि पूर्व्वमृते तद्वर्षाभ्यन्तरे पितामहे
प्रपितामहे च मृते यथा कर्त्तव्यं तथाह छन्दोग-
परिशिष्टे कात्यायनः ।
“पितुः सपिण्डतां कृत्वा कुर्य्यान्मासानुमासिकम्
असंस्कृतौ न संस्कार्य्यौ पूर्व्वौ पौत्त्रप्रपौत्त्रकैः ।
पितरं तत्र संस्कुर्य्यादिति कात्यायनोऽब्रवीत् ॥
पापिष्ठमपि शुद्धेन शुद्धं पापकृतापि वा ।
पितामहेन पितरं संस्कुर्य्यादिति निश्चयः ॥”
पितुः सपिण्डतां कृत्वा प्रेतीभूतयोरपि पिता-
महप्रपितामहयोः सतोः प्रतिमासविहितं
पार्व्वणं पितृवृद्धप्रपितामहातिवृद्धप्रपिता-
महानां कर्त्तव्यं न तु तयोः सपिण्डीकरणापेक्षा
कार्य्या ॥ * ॥ नन् सपिण्डनेनासंस्कृताभ्यां
पितामहप्रपितामहाभ्यां सह पितुः कथं
सपिण्डनाख्यसंस्कारस्तस्मात् तदर्थं तयोः
सपिण्डीकरणमपकर्षणीयं पितुरेव वा सपिण्ड-
नमुत्कर्षणीयमित्यत आह असंस्कृताविति । उत्-
कर्षाप्रकर्षौ न कार्य्यावित्यनेन वचनेनोक्तम् ।
कथमसंस्कृतेन सह संस्कार इत्यत्र आह पापि-
ष्ठमपीति । पापिष्ठमकृतसपिण्डीकरणं शुद्धेन
कृतसपिण्डीकरणेन पितामहेन पापकृता वा
पृष्ठ ५/२५९
अकृतसपिण्डीकरणेनापि शुद्धं कुर्य्यादिति
शास्त्रनिश्चयः । अतो वचनबलाददोषः इति
तात्पर्य्यम् । अत्र तु प्रेतीभूतपितामहेन पितुः
संपिण्डने पितामहस्यैकोद्दिष्टमेव ।
“असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत् ॥”
इति प्रागुक्तजावालवचनात् । एवमन्यत्रापि
बोध्यम् । वृद्धप्रपितामहस्य प्रेतत्वे तेन सह न
कार्य्यमिति तात्पर्य्यम् ॥ * ॥ अत्र मातुः सपिण्डने
श्वशुरार्य्यश्वशुरयोः पिण्डौ कुशैराच्छाद्यौ ।
तथा च गार्ग्यः ।
“पतिनैकेन कर्त्तव्यं सपिण्डीकरणं स्त्रियाः ।
सा गता हि मृतैकत्वं कुशैरन्तरयन् पितॄन् ॥
श्वशुरस्याग्रतो यस्माच्छिरःप्रच्छादनक्रिया ।
पुत्त्रैर्दर्भेण सा कार्य्या मातुरभ्युदयार्थिभिः ॥”
अन्तरयन्तीत्यर्थे अन्तरयन्निति लिङ्गव्यत्ययेन
पुंस्त्यमिति हलायुधः । परवचनं गोभिलश्राद्ध-
सूत्रभाष्यकृतापि लिखितम् । अतएव प्रव्रजिते
पतिते वा पितरि मृते न पितामहादिभिर्मातुः
सपिण्डीकरणं किन्तु पितामह्यादिभिरेव ।
“स्वेन भत्रा सहैवास्याः सपिण्डीकरणं स्त्रियाः
एकत्वं सा गता यस्माच्चरुमन्त्राहुतिव्रतैः ।
तस्मिन् सति सुताः कुर्य्युः पितामह्या सहैव तु ॥”
इत्यत तस्मिन् सतीति श्राद्धानर्हभर्त्तुरुपलक्ष-
णम् । अतएव ।
“तस्याञ्चैव तु जीवन्त्यां तस्याः श्वश्वेति
निश्चयः ।”
इति लषुहारितेन श्वश्रुजीवने तस्या श्वश्रे-
त्युक्तं न तु श्वशुरेणेति क्वचिदप्युक्तम् ॥ * ॥ एवं
पितामह्यादिभिर्म्मातुः सपिण्डीकरणेऽपि साम-
गेन ये चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा
इति मन्त्रो न पाठ्यः मन्त्रलिङ्गविरोधात् । अत-
एव आभ्यु दयिके मातृपक्षे श्रीदत्तादिभिर्मन्त्रां
न्तरं लिखितं न तु ये चात्र त्वामिति । वस्तु-
तस्तु आभ्यु दयिके छन्दोगानां मातृपक्ष एव
नास्तीति वक्ष्यते । एवञ्च ।
“अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।
ये समाना इति द्वाभ्यां शेषं पूर्व्व वदाचरेत् ॥”
एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।
इति यात्तवल्क्येन पार्व्वणैकोद्दिष्टविकृतीभूत-
पुंसपिण्डनातिदेशात् तद्विकृतीभूतस्त्रीसपिण्डने
ऽपि ये समाना इति मन्त्रद्वयस्य पार्व्व णोक्तस्य
ये चात्र त्वामिति मन्त्रस्य च लिङ्गार्थासम-
वेतत्वेऽपि प्रकृत्यर्थस्य समवेतार्थत्वात् पाठः ।
“ततश्च मातामहानामप्येवं श्राद्धं कुर्य्याद्धिच-
क्षणः ।
मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्ज्जितम् ॥”
इत्यनेन यच्छेषाणां मन्त्रवर्ज्जनमित्युक्तं तत्
शुन्धञ्चां पितरः शुन्धन्तां पितामहाः इत्यादि
प्रकृत्यूहयोग्यमन्त्रवर्ज्जनपरमिति प्रागुक्तम् ।
मार्कण्डेयपुराणम् ।
“सर्व्वाभावे स्त्रियः कुर्य्युः स्वभर्त्तॄणाममन्त्रकम्
तद्भावे च नृपतिः कारयेत् स्वकुटुम्बवत् ॥
स्त्रीणामप्ये वमेवैतदेकोद्दिष्टमुदाहृतम् ।
मृताहनि यथान्यायं नॄणां यद्वदिहोदितम् ॥”
स्त्रियोऽत्र असवर्णोढा अपरिणीता वेति
श्राद्धविवेकः । सवर्णोढायाः पुत्त्रपौत्त्रप्रपौत्त्रा-
भाव एव विधानात् । तथा शङ्खः ।
“पितुः पुत्त्रेण कर्त्तव्या पिण्डदानोदकक्रिया ।
तदभावे तु पत्नी स्यात्तदभावे सहोदरः ॥”
स्त्रीणामिति तु सम्प्रदानपरम् । स्त्रीकर्त्तृक-
त्वस्य पूर्व्वार्द्ध एवोक्तत्वात् । एकमेवामन्त्रकमि-
त्यर्थः । इति श्राद्धविवेकः ॥ अत्र स्त्रिय इत्य-
स्यासवर्णोढा अपरिणीतापरत्वव्याख्यानात्
स्त्रीणां मन्त्रनिषेधोऽपि तत्सम्प्रदानकश्राद्ध
एवावगम्यते । न तु स्त्रीसम्प्रदानकमात्रे ।
कल्पतरौ तु स्त्रीणामप्येवमिति यादृशेन सम्ब-
न्धेन पितृव्यत्वादिना पुरुषाणामेकादशाहादि-
श्राद्धं तादृशेन सम्बन्धेनैव स्त्रीणामेतत् कर्त्तव्य-
मिति । एतद्व्याख्याने स्त्रीसम्प्रदानकश्राद्धे
सुतरां मन्त्राः पाठ्याः । याज्ञवल्क्येनापि
समन्त्रकमेकोद्दिष्टं सपिण्डीकरणञ्चोक्त्वा एतत्
सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपीत्यनेन
स्त्रिया अपि तथैवोक्तम् ।
“मातुः सपिण्डीकरणं पितामह्या सहोदितम् ।
यथोक्तेनैव कल्पेन पुत्त्रिकाया न चेत् सुतः ॥”
इति छन्दोगपरिशिष्टेनापि यथोक्तेनैव कल्पेन
इत्यनेन मन्त्रादिकसर्व्वमतिद्दिष्टं व्यवहारोऽपि
तथेति । अमन्त्रकं स्त्रीकर्त्तृ कमन्त्रपाठरहितम्
अमन्त्रा हि स्त्रियो मताः । इति बौधायनेन
सामान्यतोऽभिधानात् । न तु ब्राह्मणकर्त्तृक-
मन्त्रपाठरहितम् । तथा च वराहपुराणम् ।
“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्ज्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥”
अत्रामन्त्रस्येति विशेषणस्य यावदमन्त्रव्याप्त्यर्थ
त्वेन परिभाषारूपत्वान्न प्रेतश्राद्धमात्रविषयः
न वा शूद्रकर्त्तृ कश्राद्धमात्रविषयः । किन्तु स्त्रो-
कर्त्तृ कश्राद्धमप्यस्य विषयः । व्यक्तं ब्राह्मे ।
“स्त्रीभिश्चावरवर्णैश्च श्राद्धं विप्रानुशासनात् ।
मन्त्रवद्विधिपूर्व्वन्तु वह्निपाकविवर्ज्जितम् ॥”
विप्रानुशासनात् विप्रपाठनात् । मन्त्रवन्मन्त्र-
युक्तम् । वह्निपाकविवर्ज्जितमित्यसवर्णस्त्रीकर्त्तृक
श्राद्धपरम् । पतिकर्त्तृकश्राद्धेऽपि पत्न्याः पाका-
धिकारदर्शनात् । तथा च छन्दोगपरिशिष्टम् ।
शाकञ्च फाल्गुनाष्टम्यां स्वयं पत्न्यथवा पचेत् ।
पत्नीत्वञ्च सवर्णोढायाः । ज्येष्ठा पत्नीति वच-
नात् । ज्यैष्ठ्यमाह मनुः ।
“यदि स्वाश्च पराश्चैव विन्देरन् योषितो द्विजाः
तासां वर्णक्रमेणैव ज्यैष्ठ्यं पूजा च वेश्म च ॥”
कुबेरोपाध्यायधृतम् ।
“असंस्कृतप्रमीतानां पिता न श्रार्द्धमाचरेत् ।
यदि स्नेहेन कुर्व्वीत सपिण्डीकरणं विना ॥”
असंस्कृतप्रमीतानाम् अनुपनीतमृतानाम् ।
लघुहारीतः ।
“पुत्त्रेणैव तु कर्त्तव्यं सपिण्डीकरणं स्त्रियाः ।
पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्त्रादयोऽपि ये ॥”
आदिशब्दग्राह्यानाह स एव ।
“भ्राता वा भ्रातृपुत्त्रो वा सपिण्डः शिष्य एव
वा ।
सहपिण्डक्रियां कृत्वा कुर्य्यादभ्यु दयं ततः ॥”
भ्राता वा इति वा शब्दात् भ्रात्रपेक्षया प्रधान-
त्वेन पूर्व्वाधिकारिणां दौहित्रान्तानां समुच्चयः
अतएव सपिण्डत्वेनैव भ्रातृतत्पुत्त्रयोरधिकार्-
सिद्धौ पृथगुपादानं प्राधान्यज्ञापनार्थम् ॥ * ॥
“महागुरौ प्रेतीभूते वृद्धिकर्म्म न युज्यते ॥”
इति शूलपाणिलिखितवचनेन ।
“प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् ।
नापि दैवं न वा पैत्रं यावत् पूर्णो न वत्सरः ॥”
इति देवीपुराणवचनेन च प्रेतीभूतमातापितृ-
कस्य पितुः प्रेतीभूतमातापितृकस्य संस्कार्य्यस्य
प्रेतीभूतमातापितृकायाः अनूढायः कन्यायाश्च
वैदिककर्म्मकर्त्तृत्वकर्म्मत्वानर्हत्वेन तत्परीहा-
राय यदहर्व्वा वृद्धिरापद्येत इत्यनेन पूर्व्वदिने
सपिण्डनं कृत्वा पित्रादिः परदिने अभ्यु दयम्
नामकरणादिकं कुर्य्यात् । ऊढायास्तु पतिरेके
गुरुः स्त्रीणाम् । इति वचनोक्तैकपदेन पत्युरेव
महागुरुत्वाभिधानात् तत्प्रेतत्वमात्रे तस्याः
कर्म्मानधिकारः । एवञ्च पितृमात्रोर्म्महागुरुत्व-
व्यावृत्तेस्तयोर्म्मरणे ऊढाया न कर्म्मानधिकारः
अत्राभ्युदयसपिण्डनयोरानन्तर्य्यमात्रं क्त्वाप्रत्य-
यार्थः न त्वेककर्त्तृत्वमपि । अन्यथा सपिण्ड-
ताधिकारिण्याः पत्न्याः सत्त्वे अभुदयाधि-
कारिणो भ्रातुः सपिण्डनाधिकारापत्तेः ।
यथा, --
“नानिष्ट्वा तु पितॄन् श्राद्धैः कर्म्म वैदिक-
मारभेत् ॥”
इति शातातपवचने पितृकर्त्तृ कवृद्धिश्राद्धा-
नन्तरमेव पुत्त्रेण विवाहः क्रियते । न तु पुत्त्रेण
श्राद्धान्तरं क्रियते ॥ * ॥ अत्र पुरुषस्य पुनस्त्वन्ये
इत्यनेन पुत्त्रवत् शिष्यान्तस्य सपिण्डने सामान्य-
तोऽधिकारप्रतिपादनात् अभ्युदयं विनापि
पुरुषस्य सपिण्डनं प्रतीयते ।
“सह पिण्डक्रियां कृत्वा कुर्य्यादभ्युदयं ततः ।”
इति तु सपिण्डीकरणात् पूर्व्वमभ्युदयाभावार्थं
न त्वभ्युदयसत्त्व एव सपिण्डीकरणार्थमिति ॥ * ॥
यतु ।
“यानि पञ्चदशाद्यानि अपुत्त्रस्येतराण्यपि ।
एकस्यैव तु दातव्यमपुत्त्रायाश्च योषितः ॥”
इति छन्दोगपरिशिष्ठीयं सपिण्डीकरणेतरपञ्च-
दशश्राद्धविधायकं तच्छिष्यपर्य्यन्ताभावे पुरुषस्य
बोध्यम् । इतराणि एकोद्दिष्टविधानेनैव यानिं
प्राप्तानि प्रत्याब्दिकश्राद्धानि तान्येव दातव्यं
दातव्यानि इत्यर्थः । अपुत्त्रायाश्चेति चकारो-
ऽनुक्तसमुच्चायकः पतिरहिताया इति समु-
च्चिनोति ।
“अपुत्त्रायां मृतायान्तु पतिः कुर्य्यात् सपिण्ड-
ताम् ।
पृष्ठ ५/२६०
इति पैठीनसिवचनैकवाक्यत्वात् । अत्र छन्दोग-
परिशिष्टे अपुत्त्रायाः पञ्चदशश्राद्धविधानात् ।
“सपिण्डीकरणं तासां पुत्त्राभावे न विद्यते ।”
इति मार्कण्डेयपुराणाच्च बालकपुत्त्रसत्त्वे सपि-
ण्डीकरणं अन्येनापि कर्त्तव्यमिति प्रतीयते ।
एवं पतिः कुर्य्यादित्यत्राति पतिसत्त्वमात्रं विव-
ज्ञितम् । तेन ऊढया दुहित्रा सपिण्डनं
कार्य्यम् । अत्र ।
“सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत्
सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्रवतीर्म्मनुः ॥”
इति मनुवचने सपत्नीपुत्त्रस्य पुत्त्रत्वातिदेशात्
तत्सत्त्वेऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्तम् ।
तन्न । प्रागुक्तलघुहारीतवचने पुत्त्रेणैवेत्येव-
कारेणातिदिष्टपुत्त्रनिषेधात् । अतएव तदुत्त-
रार्द्धे भ्रातृपुत्त्रोपादानं सङ्गच्छते । अन्यथा
भ्रातृपुत्त्रसत्त्वे ।
“यद्येकजाता बहवो भ्रातरश्च सहोदराः ।
एकस्यापि सुते जाते सर्व्वे ते पुत्त्रिणो मताः ॥”
इति बृहस्पतिवचनेन पुत्त्रत्वातिदेशात् भ्रातृ-
पुत्त्रस्य पितृव्यश्राद्धाधिकारे प्राप्ते भ्रातृपुत्तो-
पादानं व्यर्थं स्यात् । पुत्त्रातिदेशफलन्तु तत्सत्त्वे
पुत्त्रान्तराकरणं पुन्नामनरकत्राणञ्च ॥ * ॥ लघु-
हारीतः ।
“सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश
पृथङ्नैव सुताःकुर्य्युः पृथग्द्रव्या अपि क्वचित् ॥
प्रेतसंस्कारकर्म्माणि यानि श्राद्धाणि षोडश ।
यथाकालन्तु कार्य्याणि नान्यथा मुच्यते ततः ॥”
पृथग्द्रव्या अपि विभक्तधना अपि पृथक् न
कुर्य्युः सुतरामपृथग्धनाः पृथक् न कुर्य्युः किन्त्व-
पृथक् कुर्य्युः । अत्र विशेषयति मरीचिः ।
“मृते पितरि पुत्त्रेण क्रिया कार्य्या विधानतः ।
बहवः स्युर्यदा पुत्त्राः पितुरेकत्र वासिनः ॥
सर्वेषान्तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।
द्रव्येण चाविभक्तेन सर्व्वैरेव कृतं भवेत् ॥”
पुत्त्रेणेत्यविशेषात् सर्वेषामधिकारे प्राप्ते ज्येष्ठस्य
साक्षात् कर्त्तव्यतामाह बहव इति । ज्येष्ठेनापि
सर्वेषां भ्रातॄणां मत्करणेनैव करणं भवतु इति
मतं ज्ञानं कृत्वाविभक्तत्वेन द्रव्यसंश्लेषेण च
कृतं कर्म्म सर्वैरेव कृतमेव भवेत् । तदानीं
द्रव्यासंश्लेषे च तस्मात् द्रव्यं प्राप्तव्यमिति कृत्वा
कर्त्तव्यम् । यदि तेन तन्न परिशुध्यते तदा स
ऋणी भवति प्रत्यवायी च भवति । न तु तेन
श्राद्धान्तरं कर्त्तव्यमिति श्राद्धविवेकोक्तं युक्तम् ।
पृथङ्नैव सुताः कुर्य्युरित्यनेन पृथक्करणस्य
पर्य्युदस्तत्वेनानधिकारात् । यथाकालमिति
अगौचान्तद्वितीयदिनद्वादशमासमृततिथ्येकाह-
न्यूनपण्मासद्वितयसंवत्सरेषु । न च विधानसाम-
र्थ्यादेव तत्तत्कालप्राप्तेरनर्थकमिदमिति वाच्यम्
तचत्कालानां द्वादशहाद्यपेक्षया प्राधान्यबोध-
नार्यत्वात् ॥ * ॥ अत्र ।
“आनन्त्यात् कुलधर्म्माणां पुंसाञ्चैवायुचः
क्षयात् ।
अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥”
इति व्याघ्रवचनोक्तप्रशस्यत इत्यनेन कुलाचार-
ज्योतिःशास्त्रादिज्ञानझटितिमरणराष्ट्रोपप्लवा-
दिम्लेच्छदेशादिगमनानुसारादेव सपिण्डीकर-
णापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासादि-
गौणकालपरिग्रहः । अथवा यथाकालमित्या-
देर्यदहर्व्वा वृद्धिरापद्येत इत्यनेनावश्यकनाम-
करणादिवृद्ध्यर्थमेवापकर्षो न त्वनावश्यक इष्टा
पूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम् । अतएव
लघुहारीतेन । तथैव काम्यं यत् कर्म्म वत्सरात्
प्रथमादृते इत्यनेन काम्यस्यापकर्षनिमित्तता
नास्तीत्युक्तम् । यदि त्वावश्यकवृद्धिनिमिक्षेनाप-
कर्षः कृतस्तदा इष्टापूर्त्तादिकाम्यं वत्सराभ्य-
न्तरेऽपि कर्त्तव्यमिति । श्राद्धयिवेकोऽप्येवम् ।
यद्यपि गोभिलसूत्रादौ सपिण्डीकरणस्यैवाप-
कर्षः प्रागुक्तस्तथापि सपिण्डीकरणापकर्षे तत्-
पूर्व्वकर्त्तव्यश्राद्धानामपि तदादितदन्तन्यायाद-
पकर्षा ।
“सपिण्डीकरणान्ता तु ज्ञेया प्रेतक्रिया बुधैः ।”
इति शातातपवचने प्रेतक्रियायाः सपिण्डीकर-
णान्तत्व प्रतीयते ॥ * ॥ अत्र कृद्धिनिनित्तं विनः
सपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य
प्रेतत्वपरिहारमाह विष्णुधर्म्मोत्तरम् ।
“कृते सपिण्डीकरणे नरः सवत्सरात् परम् ।
प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥”
वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्-
क्षणादेव प्रेतत्वपरीहारः । तदर्थ एवापकर्षात्
एवञ्चान्यनिमित्तकापकर्षेवृद्धिकालंप्राप्यप्रेतत्व-
परीहारः । तत्कालस्य पूर्णसंवत्सरकालतुल्य-
त्वात् ।
“अर्व्वाक् संवत्सराद्वृद्धौ पूर्णे संवत्सरेऽपि वा
ये सपिण्डीकृताः प्रेता न तेषान्तु पृथक्क्रिया ॥
इति शातातपवचनात् । इति श्राद्धतत्त्वम् ॥

सपीतकः, पुं, राजकोषातकी । इति राज-

निर्घण्टः ॥

सपीतिः, स्त्री, (पा पाने + क्तिन् । “घुमास्था-

गेति ।” ६ । ४ । ६६ । इति ईत्वम् । सह एकत्र
पीतिः पानम् । सहस्य सः ।) आत्मीयजन-
सहमिलितैककालपानम् । तत्पर्य्यायः । तुल्य-
पानम् २ । इत्यमरः ॥ सहपीतिः ३ । इति
शब्दरत्नावली ॥ (यथा, वाजसनेयसहिता-
याम् । १८ । ९ ।
“सग्धिञ्च मे सपीतिश्च मे कृषिश्च मे * * *
यज्ञेन कल्पन्ताम् ॥”)

सपीतिका, स्त्री, हस्तिघोषा । इति राजनिर्घण्टः ॥

सप्त, [न्] त्रि, (सप् समवाये + कनिन् । तुट् च

इत्युज्ज्वलः । १ । १५६ ।) संख्याविशेषः । सात
इति भाषा । बहुवचनान्तोऽयम् । तद्वाचकानि
यथा । पातालम् १ भुवनम् २ मुनिः ३ द्वीपः ४
सूर्य्याश्वः ५ वारः ६ समुद्रः ७ स्वरः ८ राज्या-
ङ्गम् ९ व्रीहिः १० वह्निशिखा ११ पर्व्वतः १२ ।
इति कविकल्पलता ॥ सप्तसंख्याविशिष्टः । यथा,
“सप्त सप्त विलिखेत् प्ररेखिका-
स्तिर्य्यगूर्द्ध्वमथ कृत्तिकादिकम् ।
लेखयेदभिजिता समन्वितं
चैकरेखगखगेन विव्यगे ॥”
इति ज्योतिस्तत्त्वे दीपिका ॥
अपि च ।
“क्रमात् स्वराणां सप्तानामारोहश्चावरोहणम् ।
मूर्च्छनेत्युच्यते ग्रामत्रये ताः सप्त सप्त च ॥”
इति संगीतदर्पणम् ॥

सप्तकः, त्रि, (सप्तन् + कन् ।) सप्तानां पूरणः ।

यथा, --
“योटके सप्तके मेषतुले युग्महयी तथा ।
सिंहघटौ सदा वर्ज्यौ मृतिं तत्राब्रवीच्छिवः ॥”
इति ज्योतिस्तत्त्वम् ॥
सप्तसंख्यावशिष्टः । यथा, --
“यक्ष जगृ दरिद्रा च चकासृ शास्तिरेव च ।
दीधि वेवी च विज्ञेयो यक्षादिः सप्तको गणः ॥”
इति मुग्धबोधटीकायां दुर्गादासः ॥
सप्तसंख्या । सप्त एव सप्तकः स्वार्थे कप्रत्ययः ॥

सप्तकी, स्त्री, (सप्तमिः स्वरैरिव कायति शब्दायते

इति । कै + कः । गौरादित्वात् ङीष् ।) काञ्ची ।
इत्यमरः ॥

सप्तमगोदावरं, क्ली, सप्तानां नोदानरीणां समा-

हारः । इति मुग्धबोधव्याकरणम् ॥ (यथा,
महाभारते । ३ । ८५ । ४४ ।
“सप्तगोदावरे स्नात्वा नियतो नियताशनः ।
महत् पुण्यभवाप्नोति देवलोकञ्च गच्छति ॥”)

सप्तच्छदः, पुं, (सप्त सप्तच्छदा यस्य ।) वृक्षविशेषः ।

छातिम् इति भाषा ॥ (यथा, रघुः । ५ । ४८ ।
“सप्तच्छदक्षीरकटुप्रवाह-
मसह्यमाघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीवयत्नाः
सेनागजेन्द्रा विमुखा बभूवुः ॥”)
तत्पर्य्यायः । गुच्छपुष्पः २ युग्मपर्णः ३ मणि-
च्छदः ४ बृहत्त्वक् ५ बहुपर्णः ६ शाल्मलि-
पत्रकः ७ भदगन्धः ८ गन्धिपर्णः ९ । अस्य
गणाः । तिक्तत्वम् । उष्णत्वम् । त्रिदोषघ्रत्वम् ।
दीपनत्वम् । मदगन्धित्वम् । व्रणरक्तामयकृमिं
नाशित्वञ्च । इति राजनिर्घण्ढः ॥ अन्यत् सप्त-
पर्णशब्दे द्रष्टव्यम् ॥

सप्तजिह्वः, पुं, सप्तजिह्वा काल्यादयो आहुति-

ग्रसनार्था यस्य ।) अग्निः । इति त्रिकाण्डशेषः ॥
(यथा, बृहत्संहितायाम् । ७४ । १६ ।
“सुकृतज्ञतयाङ्गना गतासून्
अवगूह्य प्रविशन्ति सप्तजिह्वम् ॥”)
तस्य सप्तजिह्वानां नामानि यथा, --
“काली कराली च मनोजवा च
सुलोहिता चैव सुधूम्रवर्णा ।
उग्रा प्रदीप्ता च कृपीटयोनेः
सप्तैव कीलाः कथिताश्च जिह्वाः ॥”
टीकासर्व्वस्वे तु उग्राप्रदीप्तयोः स्थाने स्फुलि-
ङ्गिनी विश्वनदाख्येति नामद्वयम् । इत्यमर-
पृष्ठ ५/२६१
टीकासारमुन्दरी ॥ कर्म्मविशेषे तासां नामा-
न्तराणि यथा । हिरण्या १ कनका २ रक्ता ३
कृष्णा ४ सुप्रभा ५ बहुरूपा ६ अतिरक्ता ७
एताः सात्त्विक्यो यागकर्म्मणि । काम्यकर्म्मणि तु
पद्मरागा १ सुवर्णा २ भद्रलोहिता ३ लोहिता
४ श्वेता ५ धूमिनी ६ करालिका ७ एता
राज्यस्यः । क्रूरककर्म्मणि तु । विश्वमूर्त्तिः १
स्फुलिङ्गिनी २ धूम्रवर्णा ३ मनोजवा ४
लोहिता ५ कराला ६ काली ७ एतास्ता-
मस्यः ॥ * ॥ एतासामधिष्ठातृदेवता यथा, --
“अमर्त्यपितृगन्धर्वयक्षनागपिशाचकाः ।
राक्षसः सप्तजिह्वानामीरिता अधिदेवताः ॥”
एतासां वर्णदिङ्नियमौ यथा । गणेशविम-
र्षिण्याम् ।
“हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता ।
वैदूर्य्यवर्णा कनका प्राच्यां दिशि समाश्रिता ॥
तरुणादित्यसङ्काशा रक्ता जिह्वाग्निसंस्थिता ।
कृष्णा नीलाभ्रसङ्काशा नैरृत्यां दिशि संस्थिता
सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ।
अतिरक्ता जवाभासा वायव्यां दिशि संस्थिता ।
तद्दुरूपा यथा ख्याता दक्षिणोत्तरसंस्थिता ॥”
इति तन्त्रसारः ॥

सप्तज्वालः, पुं, (सप्त ज्वाला यस्य ।) अग्निः ।

इति हेमचन्द्रः ॥

सप्ततन्तुः, पुं, (सप्तभिर्भूरादिभिर्महाव्याहृतिभि-

रग्निजिह्वाभिर्वा तन्यते इति । तन विस्तारे +
“सितनिगमीति ।” उणा० १ । ७० । इति तुन् ।
सप्त तन्तवः संस्था यस्येति वा ।) यज्ञः । इत्य-
मरः ॥ (यथा, माघे । १४ । ६ ।
“सप्ततन्तुमधिगन्तुमिच्छतः
कुर्व्वनुग्रहमनुज्ञया मम ।
मूलतामुपगते खलु त्वयि
प्रापि धर्म्ममयवृक्षता मया ॥”)

सप्ततिः, स्त्री, (सप्त दशतः परिमाणमस्य । “पंक्ति-

विंशतित्रिंशदिति ।” ५ । १ । ५९ । इति निपा-
तनात् साधुः ।) सङ्ख्याविशेषः । सत्तोर इति
भाषा । यथा, --
“नवतिर्योजनानाञ्च सहस्राणाञ्च सप्ततिः ।
यावद्घटिकमात्रेण तावच्चलति भास्करः ॥”
इत्यादित्यहृदयम् ॥

सप्ततितमः, त्रि, (सप्तति “तस्य पूरणे डट् ।”

५ । २ । ४८ । इति डट् । “षष्ट्यादेश्चासंख्यादेः ।”
५ । २ । ५८ । इति डटस्तमडागमः ।) सप्ततेः
पूरणः । सप्ततिशब्दात् पूरणार्थे मयट्प्रत्यय-
निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥

सप्तदश, [न्] त्रि, (सप्ताधिका दश । सङ्ख्या-

विशेषः । सतरो इति भाषा । तत्संख्या-
विशिष्टः । यथा । एष वै सप्तदश प्रजापति-
यज्ञे यज्ञे अन्वायत्तः । इति मलमासतत्त्वम् ॥
बहुवचनान्तोऽयम् ॥

सप्तदशः, त्रि, (सप्तदशन् + “तस्य पूरणे डट् ।”

५ । २ । ४८ । इति डट् ।) सप्तदशानां पूरणः । यथा,
“ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥”
इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥

सप्तदीधितिः, पुं, सप्त दीधितयो यस्य ।) अग्निः ।

इति त्रिकाण्डशेषः ॥

सप्तद्वीपपतिः, पुं, (सप्तानां द्वीपानां पतिः ।)

सप्तद्वीपानामधिपतिः । यथा, --
“न मूल्यमादाद्वेश्यातः सभार्य्यऋद्धिसंयुतः ।
सप्तद्वीपपतिर्जातःः सूर्य्यायुतसमप्रभः ॥”
इति तिथ्यादितत्त्वधृतमत्स्यपुराणम् ॥

सप्तद्वीपा, स्त्री, (सप्तद्वीपा यस्याम् ।) पृथिवी । यथा,

“मनोः स्वायम्भुवस्यासन् दशपुत्त्रास्तु तत्समाः
यैरियं पृथिवी सर्व्वा सप्तदीपा सपत्तना ।
ससमुद्रः करवती प्रतिवर्षं विवेशिता ॥”
इति मार्कण्डेयपुराणम् ॥
तेषां नामादि द्वीपशब्दे द्रष्टव्यम् ॥

सप्तधा, व्य, (सप्तन् + धाप् ।) सप्तप्रकारम् । यथा,

सप्तवारानुपोथैव सप्तधा संयतेन्द्रियः ।
सप्तजन्मकृतात् पापात् मुच्यते नात्र संशयः ॥”
इति तिथ्यादितत्त्वम् ॥

सप्तधातवः, पुं, (सप्तगुणिता धातवः ।) शरीरस्थ-

सप्तसंख्यकधातवः । तद्यथा, --
“रसास्रमांसमेदोऽस्थिमज्जानः शुक्रसंयुताः ।
शरीरस्थैर्यदा सम्यक् विज्ञेयाः सप्तधातवः ॥”
इति राजनिर्घण्टः ॥

सप्तनाडीचक्रं, क्ली, (सप्तनाडीनां चक्रम् ।) वृष्टि-

ज्ञानार्थं ग्रहनक्षत्राङ्कितसप्तनाडिकसर्पाकार-
चक्रम् । यथा । अथ सप्तनाडीचक्रम् ।
“अथातः संप्रवक्ष्यामि यच्चक्रं सप्तनाडिकम् ।
येन विज्ञानमात्रेण वृष्टिं जानन्ति प्ताधकाः ॥
कृत्तिकादीनि ऋक्षाणि साभिजिद्वै क्रमेण च ।
सप्तनाडीव्यधस्तत्र कर्त्तव्यः पन्नगाकृतिः ॥
ताराचतुष्कवेधेन नाडिकैका प्रजायते ।
तासां नामान्यहं वक्ष्ये तथा चैव फलानि ह ॥
कृत्तिका च ३ विशाखा च १६ मैत्राख्या १७
भरणी २ तथा ।
ऊर्द्ध्वाद्या शनिनाडी स्याच्चण्डनाड्यभिधा मता ॥
रोहिणी ४ स्वाती १५ ज्येष्ठा १८ श्वि १ द्वितीया
नाडिका मता ।
आदित्यप्रभवा नाडी वायुनाडी तथैव च ॥
सौम्यम् ५ चित्रा १४ तथा मूलम् १९ पौष्ण-
र्क्षञ्च २७ चतुर्थकम् ।
तृतीयाङ्गारका नाडी दहनाख्या च सम्मता ॥
रौद्रम् ६ हस्तम् १३ तथा पूर्व्वाषाढा २०
भाद्रपदोत्तरा २६ ।
चतुर्थी जीवना नाडी सौम्यनाडी प्रकीर्त्तिता
पुनर्व्वसू-७ त्तरफल्गुन्यु-१२ त्तराषाढ-२१
तारकाः ।
पूर्व्वभाद्रा च २५ शुक्राख्या पञ्चमी नीर-
नाडिकाः ।
पुष्यर्क्षम् ८ फल्गुनी पूर्व्वा ११ अभिजित् ०
शततारकाः २४ ।
षष्ठी नाडी च विज्ञेया बुधाख्या जलनाडिका ॥
अश्लेषर्क्षम् ९ मघा १० विष्णु २२ र्धनिष्ठाभं २३
तथैव च ।
अमृताख्याहि सा आन्द्री सप्तमी चन्द्रनाडिका
मध्यनाडीस्थिता सौम्या नाडी तस्याग्रपृष्ठतः ।
सौम्ययाम्यगतं ज्ञेयं नाडिकानां त्रिकं मिकम् ॥
क्रूरा याम्यगता ज्ञेया सौम्या सौम्यदिशिस्थिता
मध्यनाडी च मध्यमा ग्रहरूपफलप्रदाः ॥
एकनाडीगता द्व्याद्या ग्रहाः क्रूराः शुभा यदि
ततो नाडीफलं वाच्यं शुभं वा यदि वाशुभम् ॥
ग्रहाः कुर्य्युर्म्महावातं गताश्चण्डाख्यनाडिकाम् ।
वायुनाडीनता वायुं दहनाश्चामिदाहकाः ॥
सौम्यनाडीगता मध्या नीरस्था मेधवाहकाः ।
जलायां वृष्टिदश्चन्द्रश्चन्द्रनाडीगतास्तथा ॥
एकोऽपि तत् फलं दत्ते स्वनाडीसंस्थितो ग्रहः
भूसुतः सर्व्व नाडीषु दत्ते नाडीसमं फलम् ॥
प्रावृट्काले तु संप्राप्ते रौद्रऋक्षगते रवौ ।
नाडीवेधसमायोगे जलयोगं वदाम्यहम् ॥
यत्र नाडीस्यितश्चन्द्रस्तत्र स्युः णेचरा यदि ।
क्रूराः सौम्या विमिश्राश्च तद्दिने वृष्टिरुत्तमा ॥
एकऋक्षसमायोगो जायते यादे खेवरैः ।
तत्काले च महावृष्टिर्यावदस्यांशके शशी ॥
केवलैः सौम्यैः पापैर्व्या ग्रहैर्व्विद्धो यदा शशी ।
तदा तु तुच्छपानीयं दुर्द्दिनञ्च भवेध्रुवम् ॥
यस्य ग्रहस्य नाडीस्थश्चन्द्रगास्तद्ग्रहेण च ।
दृष्टो युक्तः करोत्यम्भो यदि क्षीणो न जायते ॥
स्त्रियौ सितासितौ चैव सौरिसौम्यौ नपुंसकौ ।
पुरुषाः पुरुषैर्व्वायुः क्लीवौ तु बुधकारुणौ ॥
स्त्रीपुरुषसमायोगे वृष्टिस्तु प्रबला भवेत् ॥
पीयूषनाडीगश्चन्द्रस्तत्र खेटाः शुभाशुभाः ॥
द्विश्चतुःपञ्च पानीयं तिनान्येकत्रिसप्तकम् ।
एवं जलाख्यनाडीस्थे चन्द्रमिश्रग्रहान्विते ॥
दिनार्द्धं दिवसं पञ्च दिनानि जायते जलम् ।
नीरनाडीस्थिते चन्द्रे अत्रस्थैः पूर्व्ववद्ग्रहैः ॥
यामं दिनार्द्धकं त्रीणि दिनानि जायते जलम् ।
अमृतादि त्रिनाडीषु यदि स्युः सर्व्वखेचराः ॥
तत्र वृष्टिः क्रमाज्ज्ञेया धृत्यर्करसवासरान् ।
सौभ्यनाडीगताः सर्व्वे वृष्टिदास्ते दिनत्रयम् ॥
शेषानाड्यां महाराज दुष्टवृष्टिप्रदा ग्रहाः ।
निर्ज्जला जलदा नाडी भवेद्योगी शुभाधिकः ॥
क्रूराधिकसमायोगे जलदाश्चापि निर्ज्जलाः ।
याम्यनाडीगताः क्रूरा अनावृष्टिप्रसूचकाः ॥
शुभयुक्ता जलाशस्थाश्चातिवृष्टिः शुभा ग्रहाः ।
एकनाडीसमायुक्तौ चन्द्रमोधरणीसुतौ ॥
यदि तत्र भवेज्जीवस्तदा वारिमयी मही ।
बुधशुक्रौ यदैकत्र गुरुणा च समन्वितौ ॥
चन्द्रयोगे तदा काले जायते वृष्टिरुत्तमा ।
जलयोगगतौ स्यातां यदा चन्द्रसितौ ग्रहौ ॥
क्रूरदृष्टौ युतौ वापि तदा मेघोऽल्पवृष्टिदः ।
उदयास्तगते मार्गे वक्रयुक्ते च संक्रमौ ॥
जलनाडीगतास्ते तु महावृष्टिप्रदा ग्रहाः ॥”
इति स्वरोदये सप्तनाडीचक्रम् ॥
तच्चक्ररूपं यथा ।
सप्तनाडीचक्रं