शब्दकल्पद्रुमः/ष

विकिस्रोतः तः
पृष्ठ ५/१८४

, मूद्ध न्यषकारः । स तु एकपञ्चाशद्वर्णान्तर्गत-

सप्तचत्वारिंशद्वर्णः । चतुस्त्रिंशद्व्यञ्जनान्त-
र्गतैकत्रिंशत्तमव्यञ्जनञ्च । अस्योच्चारणस्थानं
मूर्द्धा । इति व्याकरणम् ॥ (यथा, शिक्षायाम् । १७ ।
स्युर्मूर्द्धन्या ऋटुरसा दन्त्या लूतुलसाः स्मृताः ॥”)
तत्पर्य्यायः ।
“षः श्वेतो १ वासुदेवश्च २
पीता ३ प्राज्ञा ४ विनायकः ५ ।
परमेष्ठी ६ वामबाहुः ७
श्रेष्ठो ८ गर्भविमोचनः ९ ॥
लम्बोदरो १० यमौजेशः ११
कामधुक् १२ कामधूमकः १३ ।
सुश्रीः १४ उश्ना १५ वृषो १६ लज्जा १७
मरुद्भक्ष्यः १८ प्रियः १९ शिवः २० ॥
सूर्य्यात्मा २१ जठरः २२ कोषो २३
मत्ता २४ वक्षो २५ विदारिणी २६ ।
कलकण्ठो २७ मध्यभिन्ना २८
युद्धात्मा २९ मलपूः ३० शिरः ३१ ॥”
इति तन्त्रम् ॥ * ॥
अपि च ।
“षकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः ।
पित्तं शिक्तिश्च माया च महायोनिः स्वबिन्दुमत् ॥”
इति मन्त्राभिधानम् ॥
अस्य स्वरूपं यथा, --
“षकारं शृणु चार्व्वङ्गि ! अष्टकोणमयं सदा ।
रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली ॥
चतुर्वर्गमयं वर्णं सुधानिर्म्मितविग्रहम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥
रजःसत्त्वतमोयुक्तं त्रिशक्तिसहितं सदा ।
त्रिबिन्दुसहितं वर्णं आत्मादितत्त्वसंयुतम् ॥
सर्व्वदेवमयं वर्णं हृदि भावय पार्व्वति ॥”
इति कामधेनुतन्त्रम् ॥
अस्य लेखनप्रकारो यथा, --
“चतुष्कोणात्मिका रेखा वामदक्षिणतः क्रमात्
वह्नीन्द्रविष्णवस्तासु तिष्ठन्ति क्रमतः सदा ॥
ऊर्द्ध्वमात्रा शक्तिरूपा महालक्ष्मीसमा स्मृता ।
मात्रा मध्यगता या तु वाग्देवी सा परा
स्मृता ॥”
अस्य ध्यानं यथा, --
“चतुर्भुजां चकोराक्षीं चारुचन्दनचर्च्चिताम् ।
शुक्लवर्णां त्रिनयनां वरदाञ्च शुचिस्मिताम् ॥
रत्नालङ्कारभूषाठ्यां श्वेतमाल्योपशोभिताम् ।
देववृन्दैरभिवन्द्यां सेवितां मोक्षकाङ्क्षिभिः ॥
एवं ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् ॥
इति च वर्णोद्धारतन्त्रम् ॥
(धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमे ।
“शिः कुटादिः षः कृदङ्वान् क्षो जक्षादी र
वैदिकः ॥”
“आख्यातिकस्याङोऽप्राप्त्यर्थं कृदिति विशे-
षणम् । स्वमते तूभयत्र ङ एव । डु ञौ ष पच
पाके । भीषिचिन्तीति पचा ।” इति तट्टीका ॥)

षः, पुं, कचः । इति मेदिनी ॥ मानवः । सर्व्वः ।

श्रेष्ठः । गर्भविमोचनः । इति कश्चिदेकाक्षरकोषः ॥

षः, त्रि, विज्ञः । श्रेष्ठः । इति मेदिनी ॥

षग, म ए सवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) म, सिषगयिषति । ए,
असगीत् । इति दुर्गादासः ॥

षघ, न हिंसे । इति कविकल्पद्रुमः ॥ (स्वा०-पर०-

सक०-सेट् ।) न, सघ्नोति । असीषघत् । इति
दुर्गादासः ॥
पृष्ठ ५/१८५

षच, सम्बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०

सक०-सेट् ।) सचति । इति दुर्गादासः ॥

षच, ङ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-मक०-सेट् ।) ङ, सचते जलं मेघः ।
इति दुर्गादासः ॥

षट, अंशके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) अंशके अवयवे । सटति पटः
अवयवी स्वादित्यर्थः । इति दुर्गादासः ॥

षट्, [ष] त्रि, संख्याविशेषः । छय इति भाषा ।

तद्वाचकानि यथा, । वज्रकोणः १ त्रिशिरो-
नेत्रम् २ तर्कः ३ अङ्गम् ४ दर्शनम् ५ चक्र-
वर्त्ती ६ कार्त्तिकेयमुखम् ७ गुणः ८ रसः ९
ऋतुः १० ज्वरबाहुः ११ रूपम् १२ । इति
कविकल्पलता ॥

षट्कर्म्म, [न्] क्ली, (षट्प्रकारं कर्म्म ।) षट्-

प्रकारशान्त्यादिकर्म्म । यथा, शारदायाम् ।
“अथाभिधास्ये तन्त्रेऽस्मिन् सम्यक् षट्कर्म्म-
लक्षणम् ।
सर्व्वतन्त्रानुसारेण प्रयोगः फलसिद्धिदः ॥
शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः ।
मारणान्तानि शंसन्ति षट्कर्म्माणि मनीषिणः ॥
रोगकृत्या ग्रहादीनां निराशः शान्तिरीरिता ।
वश्यं जनानां सर्व्वेषां विधेयत्वमुदीरितम् ॥
प्रवृत्तिरोधः सर्व्वेषां स्तम्भनं तदुदाहृतम् ।
स्निंग्धानां क्लेशजननं मिथोविद्वेषणं मतम् ॥
उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम् ।
प्राणिनां प्राणहरणं मारणं तदुदाहृतम् ॥
स्वदेवतादिक्कालादोन् ज्ञात्वा कर्म्माणि साधयेत्
रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमम् ।
षट्कर्म्मदेवताः प्रोक्ताः कर्म्मादौ ताः प्रपूजयेत् ॥
ईशचन्द्रेन्द्रनिरृतिवाय्वग्नीनान्दिशो मताः ।
सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् ॥
ऋतवः स्युर्व्वसन्ताद्याः अहोरात्रं दिने दिने ।
वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः ॥”
यद्वा, --
“अर्द्धरात्रं शरत्कालो हेमन्तश्च प्रभातकः ।
पूर्व्वाह्णश्च वसन्तः स्यात् मध्याह्नो ग्रीष्म एव च ॥
प्रावृडरूपोऽपराह्णः स्यात् प्रदोषः शिशिरः
स्मृतः ॥”
अथवा, --
“ऊषोयोगे च हेमन्तः प्रभाते शिशिरागमः ।
प्रहरार्द्धे वसन्तः स्यात् ग्रीष्मो मध्यन्दिनागमे ।
तुर्य्ययामे च वर्षाख्यः शरदस्तं गते रवौ ॥” * ॥
अथ कालनियमः ।
“हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि ।
शिशिरं स्तम्भने प्रोक्तो विद्वेषे ग्रीष्म एव च ।
प्रावृडुच्चाटने ज्ञेया शरन्मारणकर्म्मणि ॥” * ॥
अथ तिथिनियमः ।
“ग्रञ्चमो च द्वितीया च तृतीया सप्तमी तथा ।
बुधेज्यबारसंयुक्ता विज्ञेया द्वेषकर्म्मणि ॥
कृष्णा चतुर्द्दशी तद्वदष्टमी मन्दवारकाः ।
उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः ॥
चतुर्द्दश्यष्टमी कृष्णा अमावास्या तथैव च ।
मन्दभौमदिनोपेता शस्ता मारणकर्म्मणि ॥
बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा ।
पौर्णमासी तु विज्ञेया तिथिः स्तम्भनकर्म्मणि ॥
शुभग्रहोदये कुर्य्यात् शुभानि च शुभोदये ।
रौद्रकर्म्माणि रिक्तार्के मृत्युयोगे च मारणम् ॥ *
जपेत् पूर्व्वमुखो वश्ये दक्षिणञ्चाभिचारके ।
पश्चिमे स्तम्मनं विद्यात् उत्तरे शान्तिकं भवेत् ॥
आकर्षणमथाग्नेये नैरृते मारणं तथा ।
उच्चाटनन्तु वायव्ये ऐशान्यां मोक्षदायकम् ॥ * ॥
अथाभिचारे कार्य्या च दक्षिणाप्लवना मही ।
वसनं लोहितं प्रोक्तं उष्णीषं लोहितं स्मृतम् ॥
भूषणं लौहद्रव्येण वामेन पूजनादिकम् ।
नरस्नायुविशेषेण मारणे रज्जुरीरिता
मृतस्य युद्धशून्यस्य दन्तस्य गर्द्दभस्य वा ।
कृत्वाक्षमालां जप्तव्यं शत्रूणां वधमिच्छता ॥
भग्नेभदन्तमणिभिर्जपेदाकर्षकर्म्मणि ।
साध्यकेशसूत्रप्रोतस्तुरङ्गदशदनोद्भवैः ।
अक्षमालां समालोक्य विद्वेषोच्चाटने जपेत् ॥ *
पद्माक्षं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः ।
वज्रं भद्रकमित्याहुरासनानि मनीषिणः ॥
पद्मासनन्तु संयोज्य जानूर्वोरन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥
अन्यानि वक्तव्यानि ॥ * ॥
“षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः ।
मुषलाशनिखङ्गाख्याः शान्तिकादिषु कर्म्मसु ॥
जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः ।
स्तम्भने पृथिवी शस्ता विद्वेषे व्योम कोर्त्तितम् ॥
उच्चाटने स्मृतो वायुर्भूयोऽग्निर्न्मारणे स्मृतः ।
तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुतम् ।
तत्तत् कर्म्म विधातव्यं मन्त्रिणा निश्चितात्मना ॥ *
शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम् ।
वर्णः स्युर्म्मन्त्रबीजानि षट्कर्म्मसु यथाक्रमम् ॥
ग्रन्थनञ्च विदर्भश्च संपुटो रोधनं तथा ।
योगः पल्लव इत्येते विन्यास्याः षट्सु कर्म्मसु ॥
मन्त्रार्णान्तरितान् कुर्य्यात् साध्यवर्णान् यथा-
व्रिधि ।
ग्रन्थतं तद्विजानीयात् प्रशस्तं शान्तिकर्म्मणि ॥
मन्त्राणद्वयमध्यस्तं साध्यानामाक्षरं लिखेत् ॥
विदर्भ एष विज्ञेयो मन्त्रिभिर्व्वश्यकर्म्मणि ॥
आदायन्ते च मन्त्रः स्यान्नाम्नासौ संपुटः स्मृतः ।
एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः ॥
नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं मतम् ।
विद्वेषणविधानेषु प्रशस्तमिदमीरितम् ॥
मन्त्रस्यान्ते भवेन्नामयोगः प्रोच्चाटने मतः ।
अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे मतः ॥
सितरक्तपोतमिश्रकृष्णधूम्राः प्रकीर्त्तिताः ।
वर्णतो मन्त्रसंप्रोक्ता देवताः षट्सु कर्म्मसु ॥ * ॥
मन्त्राणां लिखनद्रव्यं चन्दनं रोचनं निशा ।
गृहधूमचिताङ्गारौ मारणेऽष्ट विषाणि च ॥
श्येनाग्निलोलपित्तानि धुस्तूरकरसस्ततः ।
गृहधूमस्त्रिकटुकं विषाष्टकमितीरितम् ॥
देवताकालमुद्रादीन् सम्यक् ज्ञात्वा विचक्षणः ।
षट्कर्म्माणि प्रयुञ्जीत यथोक्तफलसिद्धये ॥ * ॥
उच्चाटने वषट् प्रोक्तं हूँ फडन्तश्च मारणे ।
स्तन्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके ॥
होमतर्पणयोः स्वाहा न्यासपूजनयोर्न्नमः ।
मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थिति ॥”
अस्यार्थः एतानि तत्तत्कर्म्मणि जपकाले
मन्त्रान्ते योजयित्वा मन्त्रं जपेत् । होमादिषु
नायं नियमः । होम इति कश्चित् तन्न ।
“अग्निकार्य्ये जपेत् स्वाहा नमः सर्व्वत्र चार्च्चने
शान्तिपुष्टिवशद्वेषाकर्षोच्चाटनमारणे ॥
स्वाहा-स्वधा-वषट्-हूञ्च वौषट् फट् योजयेत्
क्रमात् ।
वश्याकर्षणसन्तापज्वरे स्वाहा प्रकीर्त्तिता ॥
क्रोधोपशमने शान्तौ प्रीतौ योज्यं नमो बुधैः ।
वौषट् सम्मोहनोद्दीपपुष्टिमृत्युञ्जयेषु च ॥
हूङ्कारं प्रीतिनाशे च मारणे च्छेदने तथा ।
उच्चाटने च विद्वेषे वषट् पङ्गुकृतौ वषट् ।
मन्त्रोद्दीपनकार्य्येषु लाभालाभे वषट् स्मृतः ॥”
इति विशेषवचनाद्धोमे नायं विधिः ॥ * ॥
शान्तिकादौ मन्त्रलिखनपत्रादिनियमस्तत्र एव
“शान्तिके राजतं ताम्रं भूर्ज्जपत्रञ्च वश्यके ।
सर्व्वकार्य्यैषु सौवर्णं क्रूरे स्यात् प्रेतकर्पटम् ॥
त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धन्तु वश्यके ।
सर्व्वकार्य्येऽष्टगन्धः स्यात् क्रूरे चाष्टविषाणि च
शान्तिके लेखनी दूर्व्वा वश्यादौ शिखि-
पुच्छिका ॥
हेम्रा सर्व्वाणि कार्य्याणि क्रूरे स्यात् काक-
पुच्छिका ॥
गृहेषु शान्तिकर्म्म स्यात् वश्यञ्च चण्डिकागृहे
देवालये च सर्व्वाणि श्मशाने क्रूरकर्म्म च ॥” * ॥
अथ भूतानामुदयः ।
“दण्डाकारा गतिर्भूमेः पुटयोरुभयोरपि ।
तोयस्य पावकस्योर्द्धे गतिस्तिर्य्यक् नभस्वतः ॥
गतिर्व्योम्नो भवेन्मध्ये मूतानामुदयः स्मृतः ।
धरणेरुदये कुर्य्यात् स्तम्भनं वश्यमात्मवित् ॥
शान्तिकं पौष्टिकं कर्म्म तोयस्य समये वसोः ।
मारणादीनि मरुतो विपक्षोच्चाटनादिके ।
क्ष्वेडादिनाशने शस्तमुदये च विहायसः ॥” * ॥
अथ भूतानां मण्डलानि ।
“वृत्तंदिवस्तत् षड्बिन्दुलाञ्छितं मातरिश्वनः
त्रिकोणं स्वस्तिकोपेतं वह्नेरर्द्धेन्दुसंयुतम् ॥
अम्भोजसन्भसो भूमेश्चतुरस्रं सवज्रकम् ।
तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः ॥
वर्णैः स्वे रञ्जितान्याहुः स्वस्वनामावृतान्यपि ।
स्वयं वियत् मरुत् कृष्णो रक्तोऽग्निविषदं पयः ॥”
पीडाभूतादिप्रयोगानन्तरं कुलार्णवे ।
“एकलक्षं जपेन्मन्त्रं ध्यानन्याससमन्वितम् ।
प्रयोगदोषशान्त्यर्थमात्मरक्षार्थकारणम्
न चेत् फलञ्च नाप्नोति देवताशापमाप्नुयात् ॥”
यत्तु ।
“न शस्तं मारणं कर्म्म कुर्य्याच्चेदयुतं जपेत् ।”
पृष्ठ ५/१८६
तत् प्रायश्चित्तपरम् । इति तन्त्रसारः ॥ * ॥
योगाङ्गषट्प्रकारक्रिया । तद्यथा, --
“धौतिर्वस्तिस्तथा नेतिर्नौलिकी त्राटकस्तथा ।
कपालभातिश्चैतानि षटकर्म्माणि समाचरेत् ॥
अन्तधौतिर्द्दन्तर्धौतिहृ द्धौतिर्मलशोधनम् ।
धौत्यश्चतुर्विधाः प्रोक्ता घटं कुर्व्वन्ति निर्म्म-
लम् ॥
वातसारं वारिसारं वह्रिसारं बहिष्कृतम् ।
घटस्य निर्म्मलार्थाय अन्तर्धौतिश्चतुर्विधा ॥” * ॥
प्रयोगः ।
“काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः ।
चालयेदुदरं पश्चाद्वर्त्मना रेचयेत् शनैः ॥
वातसारं परं गोप्यं देहनिर्म्मलकारकम् ।
सर्व्वरोगक्षयकरं देहानलविवर्द्धकम् ॥ १ ॥
आकण्ठं पुरयेद्वारि वक्त्रेण च पिबेत् शनैः ।
चालयेदुदरेणैव चोदराद्रेचयेदधः ॥
वारिसारं परं धौतं देहनिर्म्मलकारकम् ।
साधयेद्यः प्रयत्नेन देवदेहं प्रपद्यते ॥ २ ॥
नाभिग्रन्थिं मेरुपृष्ठं शतवारञ्च कारयेत् ।
उदरामयजां त्यक्त्वा जठराग्निं विवर्द्धयेत् ।
वह्निसारमिदं धौतं योगिनां योगसिद्धिदम् ॥ ३ ॥
काकीमुद्रां साधयित्वा पुरयेदुदरं मरुत् ।
धारयेदर्द्धयामन्तु चालयेदधवर्त्मना ॥
इदं धौतं परं गोप्यं न प्रकाश्यं कदाचन ।
नाभिमग्नजले स्थित्वा शक्तिनाडीं विसर्ज्जयेत् ॥
कराभ्यां क्षालयेन्नाडीं यावन्मलविसर्ज्जनम् ।
तावत् प्रक्षाल्य नाडीञ्च उदरे वेशयेत् पुनः ॥
इदं प्रक्षालनं गोप्यं देवानामपि दुर्ल्लभम् ।
केवलं धौतिमात्रेण देवदेहो भवेत् ध्रुवम् ॥
यामार्द्धधारणात् शक्तिं यावन्न साधयेन्नरः ।
वहिष्कृतमहद्धौतिस्तावन्नैव न जायते ॥ ४ ॥
दन्तमूलं जिह्वामूलं रन्ध्रे च कर्णयुग्भयोः ।
कपालरन्ध्रं पञ्चैते दन्तधौतिर्विधीयते । ॥ *” ॥
प्रयोगः
“खादिरेण रसेनाथ मृत्तिकाभिश्च शुद्धिभिः ।
मार्ज्जयेद्दन्तमूलञ्च यावत् किल्विषमाहरेत् ॥
दन्तमूलं परं धौतिर्योगिनां योगसाधने ।
नित्यं कुर्य्यात् प्रभाते च दन्तरक्षाय योगवित् ॥
दन्तमूलं धारणादिकार्य्येषु योगिनां यतः । १ ।
अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् ॥
जरामरणरोगादि नाशयेत् दीर्घलम्बिका ।
तर्ज्जनी मध्यमानामा अङ्गुलित्रययोगतः ॥
वेशयेद्गलमध्ये तु मार्ज्जयेल्लम्बिकामलम् ।
शनैः शनैर्म्मार्ज्जयित्वा कफदोषं निवारयेत् ॥
मार्ज्जयेन्नवनीतेन दोहयेच्च पुनः पुनः ।
तदग्रं लोहयन्त्रेण घर्षयित्वा पुनः पुनः ॥
नित्यं कुर्य्यात् प्रयत्नेन रवेरुदयकेऽस्तके ।
एवं कृते तु नित्ये च लम्बिका दीर्घतां गता ॥ २
तर्ज्जन्यङ्गुल्यकाग्रेण मार्ज्जयेत् कर्णरन्ध्रयोः ।
नित्यमभ्यासयोगेन नादान्तरप्रकाशनम् ॥ ३ ॥ ४ ॥
वृद्धाङ्गुष्ठेन दक्षेण मार्ज्जयेद्भालरन्ध्रकम् ।
एवमभ्यासयोगेन कफदोषं निवारयेत् ॥
नाडीनिर्म्मलतां याति दिव्यदृष्टिः प्रजायते ।
निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने ॥ ५
हृद्धौतिं त्रिविधां कुर्य्यात् दण्डवज्जलवाससा ।
रम्भादण्डं हरिद्दण्डं वेत्रदण्डन्तथैव च ॥
हृमध्ये चालयित्वा तु पुनः प्रत्याहरेत् शनैः ।
कफपित्तं तथा क्लेदं रेचयेदूर्द्धवर्त्मना ।
दण्डधौतिविधानेन हृद्रोगं नाशयेत् ध्रुवम् ॥”
हरिद्दण्डं वटझुरि ॥ १ ॥
“भोजनान्ते पिबेद्वारि आकण्ठं पूर्णितं सुधीः ।
ऊर्द्ध्वदृष्टिं क्षणं कृत्वा तज्जलं वमयेत् पुनः ।
नित्यमभ्यासयोगोऽयं कफपित्तं निवारयेत् ॥ २
चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत् ।
पुनः प्रत्याहरेदेतत् प्रोच्यते धौतकर्म्मकम् ॥
गुल्मज्वरप्लीहकुष्ठं कफपित्तं विनश्यति ।
आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने ॥ ३ ॥
अपानक्रूरतां तावन्मलं यावन्न शोधयेत् ।
तस्मात् सर्व्वप्रयत्नेन मलशोधनमाचरेत् ॥
पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा ।
यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः ॥
वारयेत् कोष्ठकाठिन्यमामाजीर्णं निवारयेत् ।
कारणं कान्तिपुष्ट्योश्च दीपनं वह्निमण्डलम् ॥ * ॥
जलवस्तिः शुष्कवस्तिर्वस्ती च द्विविधौ स्मृतौ ।
जलवस्तिं जले कुर्य्यात् शुष्कवस्तिं क्षितौ सदा ॥
नाभिमग्नजले पायुं न्यस्तनालोत्कटासनम् ।
आकुञ्चनं प्रकाशञ्च जलवस्तिं समाचरेत् ॥
प्रमेहञ्च गुदावर्त्तं क्रूरवायुं निवारयेत् ।
भवेत् स्वच्छन्ददेहश्च कामदेवसमो भवेत् ॥”
न्यस्तनालोत्कटासनं ऊरुद्वये हस्त दत्त्वा
शारङ्गवदुदरं कुर्य्यादित्यर्थः । १ ।
“वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः ।
अश्विनीमुद्रया पायुं आकुञ्चयेत् प्रकाशयेत् ॥
एवमभ्यासयोगेन कोष्ठदोषो न विद्यते ।
विवर्द्धयेत् जाठराग्निं आमवातं विनाशयेत् ॥ २
वितस्तिमानं सूक्ष्मसूत्रं नाशानाले प्रवेशयेत् ।
मुखान्निर्ममयेत् पश्चात् प्रोच्यते नेतिकर्म्मकम् ॥
साधनान्नेतिकर्म्मापि खेचरीसिद्धिमाप्नुयात् ।
कफदोषा विनश्यन्ति दिव्यदृष्टिश्च जायते ॥ * ॥
अमन्दवेगे तुन्दञ्च भ्रामयेदुभपार्श्वयोः ।
सर्व्वरोगान्निहन्तीह देहानलविवर्द्धनम् ॥”
इति नौलिकी ॥ * ॥
“निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् ।
यावदश्रु निपतति त्राटकं प्रोच्यते बुधैः ॥
एवमभ्यासयोगेन शाम्भवी जायते ध्रुवम् ।
न जायते नेत्ररोगो दिव्यदृष्टिप्रदायकम् ॥ * ॥
सीत्कृत्य पीत्वा वक्त्रेण नासानालैर्विरेचयेत् ।
व्युत्क्रमेण व्युत्क्रमेण सीत्क्रमेण विशेषतः ॥
भालभातिं त्रिधा कुर्य्यात् कफदोषं निवारयेत् ॥
ईडया पूरयेद्वायुं रेचयेत् पिङ्गलया पुनः ।
पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत् ॥
पूरकं रेचकं कृत्वा वेगेन न तु धारयेत् ।
एवमभ्यासयोगेन कफदोषं निवारयेत् ॥ * ॥
नासाभ्यां जलमाकृष्य वक्त्रेण रेचयेत् पुनः ।
पायं पायं प्रकुर्व्वंश्चेत् श्लेष्मदोषं निवारयेत् ॥
न जायते वार्द्धकञ्च ज्वरी नैव प्रजायते ॥”
इति घेरण्डसंहितायां षट्कर्म्मशोधनं प्रथमो-
ऽध्यायः ॥

षट्कर्म्मा, [न्] पुं, (षट् कम्माणि यजनादीनि

यस्य । यागादिभिर्युतो ब्राह्मणः । इत्यमरः ।
तथा च ।
“इज्याध्ययनदानानि याजनाध्यापने तथा ।
प्रतिग्रहश्च तैर्युक्तः षट्कर्म्मा विप्र उच्यते ॥”
षट् कर्म्माण्यस्य इति बहुब्रीहिः । इति भरतः ।

षट्कूटा, स्त्री, भैरवीविशेषः । यथा, --

अथ षट्कूटा भैरवी ।
“डाकिनी राकिनी बीजे लाकिनी काकिनी-
युगम् ।
साकिनो हाकिनी बीजे आहृत्य सुरसुन्दरि ॥
आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् ।
शक्रस्वरान्वितं देवि तार्त्तीयं बीजमालिखेत् ।
बिन्दुनादकलाक्रान्तं त्रितयं शैलसम्भवे ॥”
तृतीयबीजं सविसर्गं इत्यपि केचित् । तन्त्रा-
न्तरे ।
“ऊरौ क्ष्मामादनं जीवं शिवमत्र त्रिधा लिखेत्
अर्केण मायाशक्राभ्यां क्रमात्तं मण्डितं कुरु ॥
बिन्दुनादान्वितं चाद्यद्वयमन्त्यं विसर्गवत् ।
ध्यानमस्याः प्रवक्ष्यामि सर्व्वभूतनिकृन्तनम् ॥
बालसूर्य्यप्रभां देवीं जवाकुसुमसन्निभाम् ।
मुण्डमालावलीरम्यां बालसूर्य्यसमांशुकाम् ॥
सुवर्णकलसाकारपीनोन्नतपयोधराम् ।
पाशाङ्कुशौ पुस्तकञ्च तथा च जपमालिकाम् ॥”
दधतीमिति शेषः ।
“द्विरावृत्त्या षडङ्गानि विधाय परमेश्वरि ।
यन्त्रमस्या वरारोहे त्रिकोणं तत्पुटं लिखेत् ॥
वहिरष्टदलं पद्मं रविपत्रं ततो लिखेत् ।
चतुरस्रं चतुर्द्द्वारमेवं मण्डलमालिखेत् ॥
षडङ्गावरणं देवि ! पूजयेत् पूर्व्ववच्छिवे ।
रत्यादि त्रितयं देवि त्रिकोणे परिपूजयेत् ॥
डाकिन्याद्याश्च षट्कोणे वसुपत्रे ततः परम् ।
ब्राह्म्यादि युगलं पश्चाद्रविपत्रे ततः परम् ॥
बालायाः पीठशक्तीस्तु वामाद्याः पूजयेत्
क्रमात् ।
चतुरस्रे लोकपालान् सायुधान् परमेश्वरि ।
अनेनैव विधानेन नित्याख्यां भेरवीं यजेत् ॥”
इति तन्त्रसारः ॥

षट्कोणं, क्ली, लग्नात् षष्ठगृहम् । तत्तु रिपु-

स्थानम् । यथा, --
“पातालं हिबुकं चैव सुहृदम्भश्चतुर्थकम् ।
त्रित्रिकोणञ्च नवमं दुश्चिक्यं स्यात् तृतीयकम् ॥
धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् ।
द्युनं द्युनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
(षट् कोणा यस्य ।) वज्रम् । इति राज-
निर्घण्टः ॥ षडस्रन्तन्त्रोक्तो यन्त्रभेदः । यथा,
गणेशयन्त्रम् ।
पृष्ठ ५/१८७
“वीजं षट्कोणमध्यं स्फु रदनलपुरे तारगं दिक्षु
लक्ष्मीः
माया कन्दर्पभूमिस्तदनु रसपुटेष्वालिखेद्बीज-
षट्कम् ।”
इति तन्त्रसारः ॥

षट्चक्रं, क्ली, (षण्णां चक्राणां समाहारः ।)

शरीरस्थपद्माकारषट्प्रकारचक्रम् । यथा, --
“सप्तपद्मानि तत्रैव सन्ति लोका इव प्रभो ।
गुदे पृथ्वीसमं चक्रं हरिद्वर्णं चतुर्द्दलम् ॥
लिङ्गेतु षड्दलं चक्रं स्वाधिष्ठानमिति स्मृतम् ।
त्रिलोकवह्निनिलयं तप्तचामीकरप्रभम् ॥
नाभौ दशदलं चक्रं कुण्डलिन्या समन्वितम् ।
नीलाञ्जननिभं ब्रह्मस्थानं पूर्व्वकमन्दिरम् ॥
मणिपूराभिधं स्वच्छं जलस्थानं प्रकीर्त्तितम् ।
उद्यदादित्यसंकाशं हृदि चक्रमनाहतम् ॥
कुम्भकाख्यं द्बादशारं वैष्णवं वायुमन्दिरम् ।
कण्ठे विशुद्धशरणं षोडशारं पुरोदयम् ॥
शाम्भवीवरचक्राख्यं चन्द्रबिन्दुविभूषितम् ।
षष्ठमाज्ञालयं चक्रं द्विदलं श्वेतमुत्तमम् ॥
राधाचक्रंमिति ख्यातं मनःस्थानं प्रकीर्त्तितम् ।
सहस्रदलमेकार्णं परमात्मप्रकाशकम् ॥
नित्यज्ञानमयं सत्यं सहस्रादित्यसन्निभम् ।
षट् चक्राणीह भेद्यानि नैतद्भेद्यं कथञ्चन ॥”
इति पाद्मे स्वर्गखण्डे २७ अध्यायः ॥ * ॥
अन्यच्च ।
“तत्त्वस्वरूपमेकं तत् षट्चक्रं प्रतिलक्षयेत् ।
षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः ॥
लम्बयेन्मूलमन्त्रेण आदिषोडशचक्रकम् ।
आदिषोडशचक्रस्थां साधकानन्दकारिणीम् ॥
चिन्तयन् साधको देवीं जपकर्म्म सभारभेत् ।
भ्रुवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते ।
तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् ॥
रक्तवर्णन्तु योगज्ञैराज्ञाचक्रमितीरितम् ॥
कण्ठे त्रयाणां नाडीनां वेष्टनं विद्यते नृणाम् ।
सुषुम्नेडापिङ्गलानां षट्कोणं तत् षडङ्ग्रुलम् ॥
तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्य-
गम् ।
त्रयाणामथ नाडीनां हृदये चैकता भवेत् ॥
तत्स्थानं षोडशास्रं स्यात् सप्ताङ्गुलप्रमाणतः ।
तत् पीतमुक्तं योगज्ञैरादिषोडशचक्रकम् ॥
ध्यानानामथ मन्त्राणां चिन्तनस्य जपस्य च ।
यस्मादाद्यञ्च हृदयं तस्मादादीति गद्यते ॥”
इति कालिकापुराणे ५४ अध्यायः ॥ * ॥
अपरञ्च ।
“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके
मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥
तदूर्द्धे कामबीजन्तु क-ल-शान्तीन्दूनादकम् ।
तदूर्द्धे तु शिखाकारा कुण्डली ब्रह्मविग्रहा ॥
तद्धाह्ये हेमवर्णाभं व-स-वर्णचतुर्द्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥
तदूर्द्धेऽग्निसमप्रख्य षड्दलं हीरकप्रभम् ।
वादिलान्तषडर्णेन युक्ताधिष्ठानसंज्ञकम् ॥
मूलमाधारषट्कानां मूलाधारं ततो विदुः !
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥
तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् ।
मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ।
मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ॥
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ।
शिवेनाधिष्ठितं पद्मं विश्वलोकैककारणम् ॥
तदूर्द्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ।
कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम् ॥
तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् ।
शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते ॥
तेनाहताख्यं पद्मं तत् मुनिभिः परिकीर्त्त्यते ।
आनन्दसदनं तक्षु पुरुषाधिष्ठितं परम् ॥
तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ।
स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम् ॥
विशुद्धिं तनुते यस्मात् जीवस्य हंसलोकनात् ।
विशुद्धं पद्ममाख्यातं आकाशाख्यं महत् परम्
आज्ञाचक्रं तदूर्द्ध्वे तु आत्मनाधिष्ठितं परम् ।
आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम् ॥
कैलासाख्यं तदूर्द्धे तु बोधनीन्तु तदूर्द्धतः ।
एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत ॥
सहस्राराम्बुजं बिन्दुस्थानं तदूर्द्ध्वमीरितम् ।
इत्येतत् कथितं सर्वं योगमार्गमनुत्तमम् ॥”
इति तन्त्रसारः ॥

षट्चरणः, पुं, (षट् चरणा यस्य ।) भ्रमरः ।

इति हलायुधः ॥ (यथा, आर्य्यासप्तशत्याम् ।
५८७ ।
“षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं
त्यक्त्वा ।
त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो
वहति ॥”)
यूका । इति राजनिर्घण्टः ॥ षट्पादश्च ॥

षट्टः, क निकेतने । हिंसे । दाने । बले । इति

कविकल्पद्रुमः ॥ (चुरा०-पर० वासे बले च
अक०-हिंसे दाने च सक०-सेट् ।) मूर्द्धन्यादि-
ष्टद्वयान्तः । क, षट्टयति लोकः । निवसति
हन्ति बली स्यात् ददाति वा इत्यर्थः । इति
दुर्गादासः ॥

षट्तिली, [न्] त्रि, (उद्वर्त्तनादिभदेन षट्प्रकारा-

स्तिलाः सन्त्यस्येति । षट्तिल + इनिः ।) जन्म-
तिथ्यादौ तिलकरणकषट्कर्म्मकारी । यथा, --
“तिलोद्वर्त्तो तिलस्नायी तिलहोमी तिलप्रदः ।
तिलभुक् तिलवापी च षट्तिली नावसीदति ॥”
इति तिथ्यादितत्त्वम् ॥

षट्त्रिंशत्, स्त्री, (षडधिका त्रिशत् । मध्यपद-

लोपि समासः ।) संख्याविशेषः । छत्रिश इति
भाषा । यथा, आह्निकचिन्तामणौ ।
“आसनाभ्यञ्जने तद्वदुद्बर्त्तनविरूक्षणे ।
सन्मार्जनं सर्पिरादिस्नपनावाहने तथा ॥
पाद्यार्घ्याचमनीयञ्च स्नानीयमधुपर्क्ककौ ।
पुनराचमनीयञ्च वस्त्रयज्ञोपवीतके ॥
अलङ्कारो गन्धपुष्पधूपदीपौ तथैव च ।
ताम्बूलादिकनैवेद्यं पुष्पमालां तथैव च ॥
अनुलेपश्च शय्या च चामरव्यजनं तथा ।
आदर्शदर्शनञ्चैव नमस्कारोऽथ नर्त्तनम् ॥
गोतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम् ।
दन्तकाष्ठप्रदानञ्च ततो देवविसर्ज्जनम् ॥
उपचारा इमे ज्ञेयाः षट्त्रिंशत् सुरपूजने ॥”
इत्येकादशीतत्त्वम् ॥

षट्त्रिंशन्मतं क्ली, (षट्त्रिं शतस्तत्संख्यकधर्म्म-

शास्त्रकारिणां मुनीनां मतम् ।) षडधिकत्रिंश-
त्सङ्ख्यकधर्म्मशास्त्रप्रयोजकमुनीनामभिप्रायः ।
यथा । तथा च षट्त्रिंशन्मतम् । इति तिथि
स्वरूपकथने तिथ्यादितत्त्वम् । तेषां नामानि
यथा, --
“मनुर्विष्णुर्यमो दक्षः अङ्गिरोऽत्रिबृहस्पती ।
आपस्तम्बश्चोशना च कात्यायनपराशरौ ॥
वशिष्ठव्याससंवर्त्ता हारीतगोतमावपि ।
प्रचेताः शङ्खलिखितौ याज्ञवल्क्यश्च काश्यपः ॥
शातातपो लोमशश्च जमदग्निः प्रजापतिः ।
विश्वामित्रपैठीनसी बौधायनपितामहौ ॥
छागलेयश्च जावालो मरीचिश्च्यवनो भृगुः ।
ऋष्यशृङ्गो नारदश्च षट्त्रिंशत् स्मृति-
कारकाः ॥
एतेषान्तु मतं यत्तु षट्त्रिंशन्मतमुच्यते ॥”
इति शङ्खलिखितौ ॥

षट्पदः पुं, (षट् पदानि यस्य ।) भ्रमरः । इत्य-

मरः ॥ (यथा, रघुः । ६ । ६९ ।
“न हि प्रफुल्लं सहकारमेत्य
वृक्षान्तरं काङ्क्षति षट्पदाली ॥”)
तच्छकुनानि यथा, --
“ये षट्पदाद्याः शकुनानि तेषा-
माश्चर्य्यरूपाणि निरूपयामः ।
श्रयेत वामो यदि मञ्जु गुञ्जन्
पश्येत वा वामदिशं प्रसर्पन् ।
आस्वादयेद्वा कुसुमं प्रशस्तं
भृङ्गस्तदा स्यात् सुमहान् प्रमोदः ।
अत्रापरे सन्ति च षट्पदा ये
यात्रासु ते वामगताः प्रशस्ताः ॥”
इति वसन्तराजशाकुने षट्पदादयः १५ वर्गः ॥ *
यूका । इति राजनिर्घण्टः ॥ षट्चरणे, त्रि ॥
(षट्पदविशेष्टे च त्रि । यथा, महाभारते ।
१४ । ५ । १६ ।
“पुरञ्च ते सुगुप्तं स्यात् दृढप्राकारतोरणम् ।
अदृआट्टालकसंवाधं षट्पदं सर्व्वतोदिशम् ॥”)

षट्पदप्रियः, पुं, (षट्पदानां भ्रमराणां प्रियः ।)

नागकेशरवृक्षः । इति शब्दमाला ॥

षट्पदातिथिः, पुं, (षट्पदः अतिथिरिव यत्र ।

आम्रवृक्षः । इति त्रिकाण्डशेषः ॥

षट्पदानन्दवर्द्धनः, पुं, (षट्पदानामानन्दं वर्द्धय-

तीति । वृध + ल्युः ।) किंकिरातवृक्षः । इति
राजनिर्घण्टः ॥

षट्पदी, स्त्री, (षट्पदानि यस्याः । ङीष् ।)

यूका । इति हेमचन्द्रः ॥ भ्रमरपत्नी च ॥
पृष्ठ ५/१८८

षट्प्रज्ञः, पुं, (षट्सु रसेषु प्रज्ञा यस्य ।)

कामुकः । यथा, --
“षिड्गौ व्यलीकः षट्पज्ञः कामकेलिर्व्विदूषकः
पीठकेलिः पीठमर्द्दो भविलश्छिदुरो विटः ॥”
इति त्रिकाण्डशेषः ॥
(षट्सु धर्म्मादिषु प्रज्ञा यस्य ।) धर्म्मादि-
शास्त्रविज्ञः । यथा, --
“धर्म्मार्थकाममोक्षेषु लोकतत्त्वार्थयोरपि ।
षट्सु प्रज्ञास्ति यस्योच्चैः स षट्प्रज्ञ इति स्मृतः ॥”
इति च त्रिकाण्डशेषः ॥

षडक्षीणः, पुं, (षट्सु रसेषु अक्षीणः ।) मत्स्यः ।

इति केचित् ॥

षडङ्गं, क्ली, (षणां अङ्गानां समाहारः । शरी-

रस्य षडवयवम् । यथा, --
“जङ्घे बाहू शिरो मध्यं षडङ्गमिदमुच्यते ॥”
इति शब्दचन्द्रिका ॥
वेदाङ्गषट्शास्त्राणि । यथा, --
“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा
छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः ॥”
इति शब्दरत्नावली ॥ * ॥
अपि च । अङ्गान्याह शिक्षापद्यम् ।
“छन्दःपादौ तु वेदस्य हस्तौ कल्पोऽथ कथ्यते ।
ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते ॥
शिक्षाघ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साङ्गमधीत्यैव ब्रह्ललोके महीयते ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
आद्यश्राद्धीयदानाङ्गपीठादिकम् । इति लोक-
प्रसिद्धम् ॥ * ॥ षट्प्रकारगव्यविशेषः । यथा, --
“गोमूत्रं गोमयं क्षीरं सर्पिर्दधि च रोचना ।
षडङ्गमेतन्माङ्गल्यं पवित्रं सर्व्वदा गवाम् ॥
इति स्मृतिः ॥ * ॥
हृदयादिषडवयवम् । तत्प्रमाणं न्यासशब्दे
द्रष्टव्यम् ॥

षडङ्गः, पुं, (षट् अङ्गानि यस्य ।) क्षुद्रगोक्षुरकः ।

इति राजनिर्घण्टः ॥ (वेदः । यथा, --
“शिक्षाकल्पो व्याकरणं निरुक्तं छन्दसाञ्चयः ।
ज्योतिषामयनञ्चैव षडङ्गो वेद उच्यते ॥”)

षडङ्गजित्, पुं, (षडङ्गं जितवानिति । जि + क्विप् ।

विष्णुः । इति शब्दमाला ॥ षडङ्गजेतरि, त्रि ॥

षडभिज्ञः, पुं, (षट्षु धर्म्मार्थकाममोक्षलोकत-

त्त्वार्थेषु अभिज्ञा यस्य । बुद्धः ॥ इत्यमरः ॥

षडशीतिः, स्त्री, रविसंक्रान्तिविशेषः । सा तु

मिथुनकन्याधनुर्म्मीनराशिषु भवति । यथा,
भविष्यमात्स्यज्योतिषेषु ।
“मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।
विषुवती तुलामेषे गोलमध्ये तथापराः ॥
धनुर्म्मिथुनकन्यासु मीने च षडशीतयः ।
वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता ॥”
इति तिथ्यादितत्त्वम् ॥
अस्याः पुण्यकालः संक्रान्तिशब्दे द्रष्टव्यः ॥ * ॥
षडधिकाशीतिसंख्या । इत्यङ्कशास्त्रम् ॥ छेयाशी
इति भाषा ॥

षडशीतिचक्रं, क्ली, (षडशीतेश्चक्रम् ।) मिथुन

कन्याधनुर्म्मीनराशिस्थरवेः शुभाशुभफलज्ञानार्थं
नक्षत्राङ्गनराकारचक्रम् । यथा, --
“मुखे चैकं करे वेदाः पादयुग्मे द्वयं द्वयम् ।
क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च ॥
द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा ।
द्वयञ्चैय तथा गुह्ये षडशीत्यां स्वभे स्थिते ॥
मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि ।
कान्ता स्याद्बन्धनं वामे हस्ते स्यात् स्वीयभे
नृणाम् ॥
सम्मानं नेत्रयोश्चैव अपमानञ्च मस्तके ।
गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः ॥”
इति ज्योतिस्तत्त्वम् ॥

षडष्टकं, क्ली, योगविशेषः । स तु वरकन्ययोः

स्वस्वराश्यपेक्षया परस्परषष्ठाष्टमराशिसम्बन्धः
स च मित्रारिभेदेन द्विविधः । तत्र मित्रषड-
ष्टकं यथा । श्रीपतिरत्नमालायाम् ।
“मकरसमेतं मिथुनं कन्याकलसौ मृगेन्द्र-
मीनौ च ।
वृषभतुले अलिमेषौ कर्क्कष्टधनुषी च मित्र-
विधौ ॥”
षडष्टकाविति शेषः ॥ * ॥ अरिषडष्टकमाह ।
“मकरः करिकुलरिपुना
कन्या मेषेण मह झषस्तुलया ।
कर्किघटौ वृषधनुषी
वृश्चिकमिथुने चारिविधौ ॥
यदि कन्याष्टमे भर्त्ता भर्त्तुः षष्ठे च कन्यका ।
षडष्टकं विजानीयात् वर्ज्जितं त्रिद्रशैरपि ॥” *
षडष्टकादौ तारानियममाह । भीमपराक्रमः ।
“सीहृद्ये ह्युभयोर्द्वयोरपि तयोरैकाधिपत्येऽपिवा
ताराषट् च सुमित्रमित्रजननक्षेमार्थसम्पद्यदि
षट्काष्टे नव पञ्चके व्यथधने योगे च युंयोषितोः
प्रीत्थायुःसुखवृद्धिपुष्टिजनकः कार्य्यो विवाह-
स्तदा ॥”
गर्गः ।
“मरणं तारविरोधे ग्रहरिपुभाबे चिरेण ।
रोगादि नरनार्व्योः षट्काष्टे वैरं भवेदाशु ॥”
व्यासः ।
“मैत्रादियोगेऽपि षडष्टकादौ
तारा विपत्प्रत्यरिनैधनाख्याः ।
वर्ज्या विवाहे पुरुषोडुतो हि
प्रीतिः परा जन्मसु तारकासु ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
मतान्तरं यथा, --
“सिंहेन मकरः श्रेष्ठो कन्यया मेष उत्तमः ।
तुलया सह मीनस्तु कुम्भेन सह कर्क्कटः ॥
धनुषा वृषभः श्रेष्ठो मिथुनेन च वृश्चिकः ।
एतत् षडष्टकं प्रीत्यै भवत्यव न संशयः ॥”
इति गारुडे ६१ अध्याथः ॥

षडाननः, पुं, (कृत्तिकादीनां षण्णां स्तनपानार्थे

षट् आननानि यस्य ।) कार्त्तिकेयः । इत्यमरः ॥
(यथा, महाभारते । ३ । २३१ । २० ।
“स्तोष्यामि देवैरृषिभिश्च जुष्टं
भक्त्या गुहं नामभिरप्रमेयम् ।
षडाननं शक्तिधरं सुवीरं
निबोध चैतानि कुरुप्रवीर ! ॥”)
तस्य कार्त्तिकेयनामकारणं यथा, --
“अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत ।
तस्य साखो विशाखश्च नैगमेयश्च पृष्ठजः ॥
अपत्यं कृत्तिकानाञ्च कार्त्तिकेयस्ततः स्मृतः ॥”
इति मात्स्ये ५ अध्यायः ॥
(षट्सु वदनेषु, क्ली । यथा, रघः । १४ । २२ ।
“सर्व्वासु मातृष्वपि वत्सलत्वात्
स निर्व्विशेषप्रतिपत्तिरासीत् ।
षडाननापीतपयोधरासु
नेता चमूनामिव कृत्तिकासु ॥”)

षडाम्नायाः, पुं, (षट् आम्नायाः ।) शिवस्य

षड्वक्त्रविनिर्गतषट्प्रकारतन्त्रशास्त्रम् । यथा,
श्रीशिव उवाच ।
“अथेदानीं प्रवक्ष्यामि आम्नायकथनं पृथक् ।
पूर्व्वाम्नायो यदा मन्त्रस्तदा प्राचीदिशि स्थित
सदाशिवोऽहं भगवानाचारः परिकीर्त्तितः ।
एवं वै दक्षिणाम्नायो दक्षिणस्यां दिशि स्थित
एवं हि पश्चिमाम्नायः पश्चिमायां दिशि स्थित
एवमेवोत्तराम्नाय उत्तरस्यां दिशि स्थितः ॥
मुखमूर्द्धकृतं देवि ! यत् प्रोक्तं तव सन्निधौ ।
ऊर्द्धाम्नायश्च कथितो देवानामपि दुर्ल्लभः ॥
यदा चाधोमुखं देवि यत् प्रोक्तं गिरिजे प्रिये ।
अध आम्नाय इत्युक्तः सत्यं सत्यं सुमध्यमे ।
षडाम्नायाश्चं कथिताश्चोत्पत्तिक्रमनामतः ॥ * ॥
यस्मिन् यस्मिंश्च ये देवाः कथिताश्च वरानने ।
तान्देवांश्च प्रवक्ष्यामि साधकानां हिताय बै ॥
श्रीविद्याभेदसहिता तारा च त्रिपुरा तथा ।
भुवनेशी चान्नपूर्णा पूर्व्वाम्नाये प्रकीर्त्तिताः ॥
वगलामुखी च वशिनी त्वरिता धनदा तथा ।
वशिनी बालभैरवोत्यर्थः ।
महिषघ्नी महालक्ष्मीर्द्दक्षिणाम्नायकीर्त्तिताः ॥
महास्वरस्वती विद्या तथा वाग्वादिनी परा ।
प्रत्यङ्गिरा भवानी च पश्चिमाम्नायकीर्त्तिताः ॥
कालिका भेदसहिता ताराभेदैश्च संयुता ।
मातङ्गी भैरवी च्छिन्ना तथा धूमावती परा ।
उत्तराम्रायकथिताः कलौ शीघ्रफलप्रदाः ॥
समस्तभेदसहिताः कालिकायाः प्रकीर्त्तिताः ।
द्वाविंशत्यक्षरी तासां दक्षिणास्नायकीर्त्तिता ॥
एकजटा षडाम्नाये महामोक्षप्रदायिनी ।
तत्परा परमा विद्या न विद्यान्तरगोपिता ॥
परप्रसादमन्त्रश्च ऊर्द्ध्वाम्नाये प्रकीर्त्तितः ।
वागीश्वरादयो देवा अध आम्नायकीर्त्तिताः ॥
ऊर्द्ध्वाम्नायो अधश्चैव केवलं मोक्षदो भवेत् ।
धर्म्मार्थकाममोक्षार्थे आम्नायान्ये प्रकीर्त्तिताः ॥
यथोक्तविधिना भद्रे कृत्वा फलमवाप्नुयात् ॥ * ॥
पूर्व्वाम्नायादिसर्व्वासां विधानं शृणु सुन्दरि ।
कृत्वा येनाशु लभते फलं यदुत्तमोत्तमम् ॥
षट्कर्म्मफलदा नॄणां षडाम्नायाः प्रकीर्त्तिताः ।
पृष्ठ ५/१८९
उत्तराम्रायो देवेशि तेषामाशु फलप्रदः ॥”
इति समयाचारतन्त्रे २ पटलः ॥ * ॥
तत्र आम्रायभेदेनाचारभेद उक्तः । यथा, --
“पूर्व्वाम्नायोदितं कर्म्म पाशवं कथितं प्रिये ।
यदुक्तं दक्षिणाम्राये तदेव पाशवं स्मृतम् ॥
पश्चिमाम्नायजं कर्म्म पशुवीरसमाश्रितम् ।
उत्तराम्नायजं कर्म्म दिव्यवीराश्रितं प्रिये ॥
दिव्योऽपि वीरभावेन साधयेत् पितृकानने ।
वीरासनं विना दिव्यः पूजयेत् पितृकानने ।
ऊर्द्ध्वाम्नायोदितं कर्म्म दिष्यभावाश्रितं प्रिये ॥”
इति निरुत्तरतन्त्रे १ पटलः ॥

षडूषणं, क्ली, (षण्णामूषणानां समाहारः ।)

मिश्रितषट्कटुद्रव्यम् । यथा --
“पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् ।
त्रिकटु त्र्युषणं व्योषं कटुत्रिकमथोच्यते ।
ग्रन्थिकानलचव्यैस्तु चतुः पञ्च षडूषणम् ॥”
इति शब्दचन्द्रिका ॥
अपि च ।
“पञ्चकोलं समरिचं षडूषणमुदाहृतम् ।
पञ्चकोलगुणं तत्तु रूक्षमुष्णं विषापहम् ॥”
इति भावप्रकाशः ॥

षड्गया, स्त्री, षड्विधगया । यथा, --

“गयागजो गयादित्यो गायत्त्री च गदाधरः ।
गया गयासुरश्चैव षड्गया मुक्तिदायिका ॥”
इति वायुपुराणे गयापद्धतिः ॥

षड्गवं, त्रि, (षट् गावो यत्र । सम्यसे अच् ।)

गोषट्कयुक्तहलादि । यथा, --
“अष्टागवं धर्म्म्यहलं षड्गवं जीविकार्थिनाम् ।
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥”
इत्याह्निकाचारतत्त्वम् ॥ * ॥
प्रत्ययविशेषः । (सतु । “प्रकृत्यर्थस्य षट्त्वे
षड्गवच् ।” ५ । २ । २९ । इत्यस्य वार्त्तिकोक्त्या
भवति ॥) यथा, --
“पशुभ्यो गोयुगं युग्मे परं षट्त्वे तु षड्गवम् ॥”
इति हेमचन्द्रः ॥
(यथा च महाभारते । ८ । ३८ । ६ ।
“अन्यं तस्मै वरं दद्यां सौवर्णं हस्तिषड्गवम् ॥”)
षण्णां गवां समाहारः । इति द्विगुसमासनिष्प-
न्नम् । तत्र, क्ली ॥

षड्ग्रन्था, (षट् ग्रन्था यस्याः सा ।) वचा ।

इति भावप्रकाशः ॥ श्वतवचा । शटी । महा-
करञ्जः । इति राजनिर्घण्टः ॥

षड्ग्रन्थि, क्ली, (षट् ग्रन्थयो यस्य) पिप्पली-

मूलम् । इति वैद्यकम् ॥ षट्पर्व्वणि, पुं,
भूम्नि ॥

षड्ग्रन्थिका, स्त्री, (षड्ग्रन्था एव । स्वार्थे कन् ।

टापि अत इत्वम् ।) शटी । इत्यमरः ॥

षड्ग्रन्थी, स्त्री, (षट् ग्रन्था यस्याः । ङीष् ।)

वचा । इति शब्दरत्नावली ॥

षड्जः, पुं, (षड्भ्यः स्थानेभ्यः जायते इति ।

जन + डः ।) तन्त्रीकण्ठोत्थितस्वरविशेषः ।
इत्यमरः ॥ अस्य व्युत्पत्तिर्यथा, --
“नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः ।
षड्भ्यः संजायते यस्मात् तस्मात् षड्ज इति
स्मृतः ॥”
स च मयूरस्वरतुल्यस्वरः । यथा, --
“षड्जं रौति मयूरो हि गावो नर्द्दन्ति
चर्षभम् ।
अजा विरौतिगान्धारं क्लौञ्चो नदति मध्यमम् ॥”
इति भरतः ॥
(अस्मिन् चतस्रः श्रुतयो वसन्ति । यथा, सङ्गीत-
दपणे । ५३ ।
‘तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः ॥’)
तानसेनमते सप्तस्वराणां मध्ये प्रथमस्वरोऽयम् ।
स्वरज् इति लोके ख्यातः । अस्योच्चारणस्थानं
कण्ठः । अयं विप्रवर्णः । अस्यार्च्चिकं नाम ।
अर्थात् एकस्वरमिलितः । सर्व्वस्वरापेक्षया
क्षुद्रस्वरोऽयम् । अस्य ताल एकः । अस्याष्टौ
भेदा भवन्ति । इति सङ्गीतशास्त्रम् ॥

षड्दुर्गं, क्ली, (षट् प्रकारं दुर्गम् ।) षट्प्रकार-

कोट्टम् । तद्यथा । धन्वदुर्गम् १ महीदुर्गम् २
गिरिदुर्गम् ३ मनुष्यदुर्गम् ४ मृद्दर्गम् ५ वन-
दुर्गञ्च ६ । इति महाभारते राजधर्म्मः ।

षड्धा, व्य, (षष् + धाच् ।) षट्प्रकारम् । इति

व्याकरणम् ॥

षड्बिन्दुः, पुं, विष्णुः । इति त्रिकाण्डशेषः । कीट-

भेदः । इति मेदिनी । शिरोरोगस्य पक्वतैल-
विशेषः । यथा, --
“एरण्डमूलं तगरं शताह्वा
जीवन्तिका सैन्धवराम्निके च ।
भृङ्गं विडङ्गं मधुयष्टिका च
विश्वौषधं कृष्णतिलस्य तैलम् ॥
अजापयस्तैलविमिश्रितञ्च
चतुर्गुणे भृङ्गरसे विपक्वम् ।
षड्बिन्दवो नासिकयोः प्रदेयाः
सर्व्वान्निहन्यु शिरसो विकारान् ॥
च्युतांश्च केशान् पलितांश्च दन्तान्
निर्वध्य मूलान् सुदृढीकरोति
सुपर्णगृध्रप्रतिमञ्च चक्षुः
कुव्वन्ति बाह्वोरधिकं बलञ्च ॥”
जीवन्तिकात्र हरीतकीशाकविशेषः । इति
भावप्रकाशः ॥

षड्भुजः, त्रि, (षट् भुजा यस्य ।) षढस्तयुक्तः ।

यथा, --
“भीमस्त्रिपादस्त्रिशिराः षड् भुजो नवलोचनः ।
भग्नप्रहरणो रौद्रः कालान्तकयमोपमः ॥”
इति ब्रह्मवैवर्त्तपुराणे माहेश्वरज्वररूपम् ॥
(यथा च महानिर्व्वाणतन्त्रे । ४ । १७ ।
“चतुर्भुजा त्वं द्विभुजा षड्भुजाष्टभुजा
तथा ।
त्वमेव विश्वरक्षार्थं नानाशस्त्रार्थधारिणी ॥”)
चैतन्यदेवे, पुं, । स तु पुरुषोत्तमक्षेत्रे षड्भुजो
भूत्वा श्रीजगन्नाथदेवशरीरे लीनोऽभूत् । इति
लोकप्रसिद्धिः ॥

षड्भुजा, स्त्री, (षट् भुजा इव रेखा यस्याम् ।)

फललताविशेषः । खरवुजा इति भाषा । (अस्मि-
न्नर्थे क्लीवलिङ्गेऽपि दृश्यते ॥) तत्पर्य्यायः । मधु
फला २ षड्रेखा ३ वृत्तकर्कटी ४ तिक्ता ५
तिक्तफला ६ मधुपाका ७ वृत्तेर्व्वारुः ८
षण्मुखा ९ । अस्याः फलगुणाः ।
“तिक्तं बाल्ये तदनु मधुरं किञ्चिदम्लञ्च पाके
निष्पक्वञ्चेत् तदमृतसमं तर्पणं पुष्टिदायि ।
वृष्यं दाहश्रमविशमनं मूत्रशुद्धं विधत्ते
पित्तोन्मादापहरकफदं षड्भुजं वीर्य्यकारि ॥”
इति राजनिर्घण्टः ॥ * ॥
चण्डिका । यथा । पूर्व्वदले चण्डिकां पीन-
वक्षःस्थलरुहां अग्निप्रभां षड्भुजां दक्षिणे
गदाभयवज्रधरां वामे शक्तिशूलपरशुधरां देवी-
मिती ॥ * ॥ रुद्रचण्डा । यथा । दक्षिणदले रुद्र-
चण्डां कृष्णवर्णां दिव्याभरणभूषितां प्रसन्नवदनां
षड्भुजा दक्षिणे वज्रशूलपरशुधरां वामे पाशा-
ङ्कुशकेशधरां देवीमिति ॥ * ॥ चण्डवती । यथा ।
वायुदले चण्डवतीं धूम्रवर्णां प्रसन्नवदनां सर्व्वा-
लङ्कारभूषितां षड्भुजां दक्षिणे अङ्कुशपाशाक्ष-
सूत्रधरां वामे दण्डशूलडमरुधरां देवीमिति ॥
इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥

षड्रसः, पुं, (षट्प्रकारो रसः ।) मधुरादि-

षट्प्रकाररसः । यथा, --
“मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।
सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥”
एषां नामलक्षणे ।
“मधुरं गौल्यमित्याहुरिक्ष्वादौ स च लक्ष्यते ।
लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥
तिक्तस्तु पिचुमर्द्दादौ व्यक्तमासाद्यते रसः ।
कषायस्तुवरस्तूक्तः स च पूगीफलादिषु ।
कटुस्तु क्षारसंज्ञः स्यान्मरीचादौ स चेष्यते ॥”
इति राजनिर्घण्टः ॥
एषां गुणास्तत्तच्छब्दे द्रष्टव्याः ॥

षड्रात्रं, क्ली, (षण्णां रात्रीणां समाहारः ।)

षडहः । यथा, --
सद्यःशौचं भवेद्विद्वन् तथा चोक्तं चतुर्व्विधम् ।
गर्भस्रावे च वेदोक्तं पूर्व्वकाले त्वचेतसः ॥
ब्राह्मणानामहोरात्रं क्षत्त्रियाणां दिनत्रयम् ।
षड्रात्रञ्चैव वैश्याणां शूद्राणां द्वादशा-
ह्निकम् ॥”
इति वामने १४ अध्यायः ॥

षड्रेखा, स्त्री, (षट्रेखा यत्र ।) षड्भुजा ।

इति राजनिर्घण्टः ॥ षड्राजी च ॥

षड्लवणं, क्ली, (षट्गुणितं लवणम् ।) मृज्जो-

पेतं पञ्चलवणम् । इति राजनिर्घण्टः ॥

षड्वक्त्रः, पुं, (षट्वक्त्राणि यस्य ।) कार्त्तिकेयः ।

यथा, --
“यतस्ततो विशाखोऽसौ ख्यातो लोकेषु षण्मुखः ।
स्कन्दो विशाखः षड्वक्तः कार्त्तिकेयश्च
विश्रुतः ॥”
इति मत्स्यपुराण १३४ अध्यायः
पृष्ठ ५/१९०

षड्विधं, त्रि, (षट् विधाः प्रकारा यत्र ।)

षट् प्रकारम् । यथा, --
“संज्ञा च परिभाषा च विधिर्नियम एव च ।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥”
इति सुग्धबोधटीकायां दुर्गादासः ॥
अपि च ।
“तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता ।
षड्विधस्तु रसस्त्रत्र गन्धोऽपि द्विविधो मतः ॥”
इति भाषापरिच्छेदः ॥

षण्डः, पुं, (षणु दाने + “ञमन्तात् डः ।” उणा०

१ । ११३ । इति डः । बहुलवचनात् सत्वाभावः ।)
वृषभः । षाँड इति भाषा । तत्पर्य्यायः ।
गोपतिः २ इट्चरः ३ । इत्यमरः ॥ षण्टः ४
शण्डः ५ शण्टः ६ । इति शब्दरत्नावली ॥
क्लीवम् । इति जटाधरामरटीके ॥ समूहः ।
इति वृद्धाः ॥ (यथा, हरिवंशे । ३३ । ३२ ।
“नता निश्चलमूर्द्धानो बभूवुस्ते महोरगाः ।
सायाह्ने कदलीषण्डे कम्पितास्तस्य वायुना ॥”)

षण्डः, पुं, क्ली, (षणु दाने + डः ।) अब्जादिकदम्बम् ।

पद्मकुसुदादिसमूहः । इत्यमरः । (यथा, माघे ।
११ । १५
“कलरवमुपगीते षट् पदौघेन धत्तः
कुमुदकमलषण्डे तुल्यरूपामवस्थाम् ॥”
चिह्नम् । यथा, भागवते । ४ । १९ । २३ ।
“यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।
नगते पापस्य षण्डानि लिङ्गं षण्डमिहोच्यते ॥”)

षण्डाली, स्त्री, तैलमानम् छटाक् इति भाषा ।

सरसी । (षण्डेन वृषभवत् कामुकपुरुवेण अलति
पर्य्याप्नोतीति । अल + अच् । गौरादिलात्
ङाष् । कामुकस्त्री । इति मेदिनी ॥ मुद्रा-
ङ्कितमेदिन्य । दन्त्यसकारादौ लिखिता ॥

षण्ढः, पुं, (शाम्यति शिश्रामावात् । शम +

“शमेर्ढः ।” उणा० १ । १०१ । इति ढप्रत्ययेन
साधूः ।) नपुंसकः । इति राजनिर्घण्टः हेम-
चन्द्रश्च ॥ स च चतुर्द्दशविधः विशतिविधश्च ।
यथा नारदः ।
“परीक्ष्यः पुरुषः पुंस्त्वे निजैरेवाङ्गलक्षणैः ।
चतुर्द्दशविधः शास्त्रे षण्ढो दृष्टो मनीषिभिः ॥
चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः
क्रमात् ।
निसर्गषण्ढो वद्धश्च पक्षषण्डस्तथैव च ॥
प्रतिशापाद्गुरो रोगात् देवक्रोधात्तथैव च ।
ईर्ष्याषण्डश्च सेव्यश्च वातरेता मुखेभगः ॥
आक्षिप्तमोघबीजौ च शालिनोऽन्यापतिस्तथा ॥”
१४ ॥
कामतन्त्रे तु ।
“निसर्गषण्ढो बद्धश्च पक्षषण्डश्च कीलकः ।
शापादिषण्ढस्तब्धश्च ईर्षकः सेव्यकस्तथा ॥
आक्षिप्तमोघबीजौ च शालीनोऽन्यापतिस्तथा ।
मखेभगो वातरेताः कुम्भीकः पण्डनष्टकौ ॥
आसेव्यश्च सुगन्धी च षण्ढः क्लीवानि विंशतिः ॥”
२० ॥
तेषां लक्षणानि यथा, --
“ध्वजादिरहितोत्पन्नो निसर्गषण्ढ उच्यते । १ ।
गलिताण्डो भवेद्बद्धः २ पक्षान्तरितशक्तिमान् ॥
पक्षषण्ढः ३ कीलकस्तु यः क्लैव्यादात्मनः स्त्रियम्
परेण सह संयोज्य पश्चात्तामेव सेवते ॥ ४ ॥
शापादिषण्ढो गुर्व्वादिशापादेवाप्रहर्षणः । ५ ।
सदा स्तम्भितरेतास्तु रतिस्तब्धः ६ स ईर्षकः ॥
दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते । ७ ।
बहुस्त्रीसेवनाज्जातविरसः सेव्यकः स्मृतः ॥ ८ ॥
प्रत्यक्प्रवृत्तवीर्य्यो यो विसर्गसमये भवेत् ।
आक्षिप्तबीजः स ज्ञेयो ९ मोघबीजस्तु स
स्मृतः ॥
धृष्टस्त्रीसन्निधानादेर्य्यो भवेत् पतिध्वजः । १० ।
अत्र शालीनलक्षणं पतितम् ॥ ११ ॥
परस्यामेव यस्यास्तिपुंस्त्वं सोऽन्यापतिर्म्मतः १२
वक्त्र एव तु यः कुर्य्यान्मैथुनं स मुखेभगः ॥ १३ ॥
वातरेता विसर्गे यो वातं लिङ्गेन मुञ्चति । १४
कुम्भीकः स तु वो नार्य्याः पाणावेव प्रवर्त्तते ॥
१५ ॥
अविकारिध्वजः पण्डो १६ नष्टो रोगादशुक्रकः ।
१७ ।
शुक्रप्राण्यध्वजोच्छ्रायी आसेव्यः १८ ससुगन्धिकः ॥
यो योनिसेफसोर्गन्धमाघ्राय लभते बलम् । १०
षण्ढः स्त्रीतुल्यवाक्चेष्टः स्त्रीधर्म्मा छिन्नलि-
ङ्गकः ॥” २० ॥
इति वाचस्पतिकृतस्मृतिरत्नावख्यामुद्वाह-
रहस्यविकाशः ॥ तद्दर्शनस्पर्शनयोः प्रायश्चित्तं
यथा, --
“नालपेज्जनविद्विष्टान् वीरहीनां तथा स्त्रियम्
देवतापितृसच्छास्त्रयज्ञसत्रादिनिन्दकैः ॥
कृत्वा तु स्पर्शनालापं शुद्धेतार्कावलोकनात् ।
अवलोक्य तथोदक्यामन्त्यजं पतितं शवम् ॥
विधर्म्मिसूतिकाषण्ढविवस्त्रान्तावसायिनः ।
मृतनिर्य्यातकांश्चैव परदाररताश्च ये ॥
एतदेव हि कर्त्तव्यं प्राज्ञैः शोधनमात्मनः ।
अभोज्यसूतिकाषण्ढमार्ज्जाराखूश्च कुक्कुटान् ॥
पतितापविद्धचाण्डालमृतहारांश्च धर्म्मवित् ।
संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥”
इति मार्मार्कण्डेये सदाचाराध्यायः ॥

षण्णाडीचक्रं, क्ली, (षड्विधं नाडीचक्रम् ।)

नराणां जन्मादिषण्णक्षत्रघटितचक्रविशेषः ।
यथा, --
“जन्माद्यं कर्म्म ततोऽपि दशमं सांहातिकं
षोडषभम् ।
समुदायमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥
आद्यात्तु पञ्चविंशं मानसमेवं नरः षडृक्षः
स्यात् ॥” * ॥
तेषां फलम् ।
“इहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते ।
कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे ॥
मूर्त्तिद्रविणबन्धूनां हानिः सांहातिके तथा ॥
सन्तप्ते सामुदयिके मित्रभृत्यार्थसङ्क्षयः ।
वैनासिके विनाशः स्याद्देहद्रविणसम्पदाम् ॥”
इति ज्योतिस्तत्त्वम् ॥

षण्मास्यः, त्रि, (षण्मासे भवः । षण्मास + “षण्मा

सात् ण्यच्च ।” ५ । १ । ८३ । इति यत् ।) षाण्मास्यः ।
इति सिद्धान्तकौमुदी ॥

षण्मुखः, पुं, (षट् मुखानि यस्य ।) कार्त्तिकेयः ।

इति हलायुधः ॥ (यथा, महाभारते । ३ । २३१ ।
१६ ।
“त्वं क्रीडसे षण्मुख कुक्कुटेन
यथेष्टनानाविधकामरूपी ॥”)
षट् संख्यकवदने, क्ली । तद्वति, त्रि ॥

षण्मुखा, स्त्री, (षट् मुखानीव रेखा यस्याम् ।)

षड्भुजा । इति राजनिर्घण्टः ॥

षत्वं, क्ली, (षस्य भावः । ष + त्व ।) मूर्द्धन्यषका-

रस्य भावः । यथा । एत्वषत्वे । इति मुग्धबोध-
व्याकरणम् ॥

षद, ऌ ज औ श विषादे । शरणे । गतौ । इति

कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-विषादे
अक०-अनिट् ।) ऌ, असदत् । ज, सादः सदः ।
औ असात्सीत् । श, सीदती सीदन्ती । विषाद
आकुलीभावः । सीदति राधा रासगृहे । शरणं
हिंसा । इति दुर्गादासः ।

षद, क गतौ । आङ्पूर्व्वोऽयम् । इति कविकल्प-

द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) मूर्द्धन्यादि ।
क, आसादयति । इति दुर्गादासः ॥

षन, सम्भक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सम्भक्तिः सेवनम् । सनति गुरुं
लोकः । इति दुर्गादासः ।

षन, द ञ उ दाने । इति कविकल्पद्रुमः ॥ (तना०-

उभ०-सक०-सेट् । क्त्वावेट् ।) द ञ, सनोति
सनुते । उ सनित्वा सत्वा । इति दुर्गादासः ॥

षन्च, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सञ्चति । इति दुर्गादासः ॥

षन्ज, औ ञि सङ्ग्रे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-अनिट् ।) औ, असाङ्क्षीत् । ञि,
सक्तोऽस्ति । सजति वपुषि वासः । इति दुर्गा-
दासः ॥

षप, सम्बे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) सपति । असीषपत् । सम्बः
सम्बन्धः । इति दुर्गादासः ॥

षम, वैक्लव्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) वैक्लव्यं विह्वलीभावः ।
“समन्ति यद्वियोगेन सीमन्तिन्यः स्मरातुराः ।”
इति दुर्गादासः ॥

षम, त् क वैक्लव्ये । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-अक०-सेट् ।) सिषमयिषति । इति
दुर्गादासः ॥

षम्ब, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सम्बति । इति दुर्गादासः ॥

षर्ज्ज, अर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सिषर्ज्जयिषति । सर्ज्जति धनं
लोकः । इति दुर्गादासः ॥
पृष्ठ ५/१९१

षर्व्व, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सर्व्वति । इति दुर्गादासः ॥

षर्षपी, स्त्री, पक्षिविशेषः । यथा, --

“हापुत्त्रिका खञ्जनिकाषर्षपी खञ्जनाकृतौ ।”
इति शब्दरत्नावली ॥

षल, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सलति । सिषालयिषति । इति
दुर्गादासः ॥

षष्टिः, स्त्री, (षड् दशतः परिमाणमस्य । “पङ्क्ति-

विंशतित्रिंशदिति ।” ५ । १ । ५९ । इति निपा-
तनात् साधुः ।) संख्याविशेषः । षाट इति
भाषा । इति ज्योतिषम् ॥ (यथा, मनुः । ३ ।
१७७ ।
“वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य
तु ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”)

षष्टिकः, पुं, (षष्टिरात्रेण पच्यन्ते इति । “षष्टिकाः

षष्टिरात्रेण पच्यन्ते ।” ५ । १ । ९० । इति कन्-
प्रत्ययेन निपातितः ।) धान्यविशेषः । षष्टि-
रात्रेण पच्यते षाटिया इति स्वामिसुभूती ।
इत्यमरभरतौ ॥ तत्पर्य्यायः । षष्टिशलिः २
षष्टिजः ३ स्निग्धतण्डुलः ४ षष्टिवासरजः ५ ।
अस्या गुणाः ।
“गौरो नीलः षष्टिकोऽयं द्विधा स्या-
दाद्यो रुच्यः शीतलो दोषहारी ।
बल्यः पथ्यो दीपनो वीर्य्यवृद्धिं
दत्ते तस्मात् किञ्चिदूनो द्वितीयः ॥”
इति राजनिर्घण्टः ॥
षष्टिसंख्याक्रीते, त्रि ॥

षष्टिका, स्त्री, (षष्टिक + स्त्रियां टाप् ।) षष्टिक-

धान्यम् । यथा, --
“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः
कलायकङ्गनीवारा बास्तूकं हिलमोचिका ।
षष्टिका कालशाकञ्च मूलकं केमुकेतरत् ॥”
इति तिथ्यादितत्त्वे हविष्यान्नप्रकरणीयस्मृति-
वचनम् ॥ किञ्च । शरदि षष्टिकाभिः पार्वणं
नित्यमिति वाचस्पतिमिश्राः ॥

षष्टिक्यं, त्रि, (षष्टिकानां भवनं क्षेत्रम् । षष्टिक +

“यवयवकषष्टिकात् यत्” ५ । २ । ३ । इति
यत् ।) षष्टिकधान्योपयुक्तक्षेत्रादि । इत्यमरः ।
२ । ९ । ७ ॥

षष्टितमः, त्रि,) षष्टि + “षष्ठ्यादेश्चासंख्यादेः ।”

५ । २ । ५८ । इति तमट् ।) षष्टेः पूरणः ।
इति मुग्धबोधव्याकरणम् ॥

षष्टिधा, व्य, षष्टिप्रकारम् । षष्टिशब्दात् धाच्-

प्रत्ययेन निष्पन्नम् ॥

षष्टिमत्तः, पुं, (षष्ट्या वर्षैर्मत्तः ।) हस्ती । षष्टि-

वर्षपर्य्यन्तं वयःपूर्व्वार्द्धस्थित्या षष्टिमत्तः । इति
सारस्वताभिधानं शब्दमाला च ॥

षष्टिलता, स्त्री, भ्रमरमारी । इति राजनिर्घण्टः ॥

षष्टिसंवत्सराः, पुं, (षष्टिगुणिताः संवत्सराः ।)

प्रभवादिषष्टिसंख्यकवर्षम् । यथा, --
अथ षष्टिसंवत्सरगणना ।
“शाकेन्द्रकालः पृथगाकृतिघ्नः २२
शशाङ्कनन्दाश्वियुगैः ४२९१ समेतः ।
शराद्रिवस्विन्दु १८७५ हृतः सलब्धः
षष्ट्यावशिष्टाः प्रभवादयोऽब्दाः ॥
वर्षवर्ज्जन्तुयच्छेषं सूर्य्यैः संपूर्य्य खोर्म्मिभिः ६० ।
हृतव्युत्क्रमतः खाग्निहृतेऽंशे मासकादयः ॥”
अस्यार्थः । शाकेन्द्रकालः शकराजाब्दकालः
पृथक् द्विष्ठः तत्रैव आकृतिघ्नः २२ द्वाविंशत्या
पूरितः शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशत-
द्वयाधिकचतुःसहस्रैः समेतोऽङ्कः । शराद्रिव-
स्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादशशतैर्यावत्सख्यं
हर्त्तुं शक्नोति तावता हृतः कर्त्तव्यः । सलब्धः
पूर्व्वशकाब्दः शरेत्यादिना लब्धसंख्यया युतः
कार्य्यः षष्ट्याप्तशेषे पश्चादेषोऽङ्कः पूर्ववत् षष्ट्या
हृते लब्धस्यावशिष्टे प्रभवादयः । एकावशेषे
प्रभवः द्व्याद्यवशिष्टे विभवादिः । वर्षवर्ज्जन्तु
यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृता-
वशिष्टं तत् सूर्य्यैर्द्वादशभिः संपूर्य्य खो-
र्म्मिभिः षष्ट्या हृते व्युत्क्रमत इत्यनेन पष्टि-
हृतावशिष्टाः अङ्का दण्डाः षष्टिहृतलब्धांशके
खाग्निहृते त्रिंशता हृते अवशिष्टा अंशका
लब्धा मासाः स्युरिति ॥ * ॥ प्रभवादिषष्टिवर्षा-
ण्युपक्रम्य ।
“आद्या तु विंशतिर्ब्राह्मी द्वितीया वैष्णवी
स्मृता ।
तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत् ॥”
भविष्यपुराणे ।
भरव उवाच ।
“षष्ट्यब्दं कथयाम्यत्र क्रूराः सौम्याश्च ये प्रिये ।
संवत्सरफलं मुख्यं प्रभवादौ वरानने ॥
बहुतोयास्तथा मेघाः सर्वशस्या च मेदिनी ।
बहुक्षीरास्तथा गावो व्याधिरोगविवर्ज्जिताः ।
प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिताः ॥ १
सुभिक्षं क्षेममारोग्यं सर्वे व्याधिविवर्ज्जिताः ।
प्रशान्ता मानवाः सर्वे बहुशस्या वसुन्धरा ।
हृष्टास्तुष्टा जनाः सर्वे विभवे च वरानने ॥ २ ॥
रोगा बहुविधाश्चैव मनुष्या वाजिकुञ्जराः ।
सर्व एव प्रणश्यन्ति शुक्रे वर्षे वरानने ॥ ३ ॥
उन्मत्तञ्च जगत् सर्वं धनधान्यसमाकुलम् ।
नित्योत्सवः प्रजावृद्धिः प्रमोदे जायते प्रिये ॥ ४
नीरोगाश्च निरावाधा मानवा विगतद्विषः ।
बहुक्षीरास्तथा गावः प्राजापत्ये वरानने ॥ ५ ॥
निरातङ्कं जगत् सर्व्वं धनयौवनगर्व्वितम् ।
अङ्गिरसि प्रजा सर्वा नित्योत्साहा वरानने ।
॥ ६ ॥
सुभिज्ञं क्षेममारोग्यं वर्षाकालं सुशोभनम् ।
शस्यवृद्धिं विजानीयात् श्रीमुखे सुरवन्दिते ॥ ७
बहुक्षीरास्तथा गावो धान्यञ्च बलवत्तरम् ।
जायन्ते सर्व्वशस्यानि भावे वर्षे वरानने ॥ ८ ॥
महार्घं जायते सर्वं घृततैलरसादिकम् ।
प्रजानाञ्च भवेद्वृद्धिर्यूनि संवत्सरे शुभे ॥ ९ ॥
निष्पत्तिः सर्वशस्यानां मध्या धातरि कीर्त्तिता
इक्षुक्षीरगुडादीनां प्रबलत्वं वरानने ॥ १० ॥
सुभिक्षं क्षेममारोग्यं कार्पासस्य महार्घता ।
लवणं मधु गव्यञ्च ईश्वरे दुर्ल्लभं प्रिये ॥ ११ ॥
सुभिक्षं क्षेममारोग्यं प्रशान्ताः पार्थिवाः
प्रिये ।
तस्करोपहतं वित्तं बहुधान्ये वरानने ॥ १२ ॥
राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैश्चोपपीडनम् ।
जानीयाद्विग्रहं घोरं प्रमाथिनि वरानने ॥ १३ ॥
जायन्ते सर्वशस्यानि मेदिनी निरुपद्रवा ।
लवणं मधु गव्यञ्च महार्घं विक्रमे प्रिये ॥ १४ ॥
कोद्रवाः शालिमुद्गाश्च शक्तुमाषास्तथैव च ।
महार्घं जायते सर्वं वृषे च सुरवन्दिते ॥ १५ ॥
चणका मुद्गभाषाश्च अन्यच्च विदलं प्रिये ॥
महार्घं जायते सर्व्वं चित्रभानौ वरानने ॥ १६ ॥
सुभिक्षं क्षेममारोग्यं विश्वञ्च निरुपद्रवम् ।
व्यवहारो भवेत् श्रेयान् स्वर्भानौ देवपूजिते ॥ १७
अतिवृष्टिश्च जायेत धान्यस्याथ प्रपीडनम् ।
शस्यं भवति सामान्यं दारुणे देववन्दिते ॥ १८ ॥
बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने ।
सौराष्ट्रे नाटदेशे च पार्थिवे नात्र संशयः ॥ १९ ॥
दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् ।
अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये ॥ २० ॥
उद्यतो वर्षणे मेघो जलं नैवोपयच्छति ।
महार्घं सर्व्वजिद्वर्षे सर्व्वमेव वरानने ॥ २१ ॥
कोद्रवाः शालिमुग्दाश्च कङ्गुमाषास्तथैव च ।
सुलभं जायते सुस्थं जगद्वै सर्व्वधारिणि ॥ २२ ॥
अनग्निप्रबला लोका धान्योषधिप्रपीडनम् ।
जायते मानुषे कष्टं विरोधिनि न संशयः ॥ २३ ॥
सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते
शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते
जनाः ॥ २४ ॥
उपद्रुतं जगत् सर्व्वं तस्करैर्मूषिकैः खगैः ।
पीडिताश्च प्रजाः सर्व्वाः देशभङ्गः खरे प्रिये ॥ २५
सुभिक्षं क्षेममारोग्यं शस्यं भवति शोभनम् ।
बहुक्षीरास्तथा गावो नन्दनं नन्दने प्रिये ॥ २६ ॥
अल्पतोयास्तथा मेघा वर्षन्ति खण्डमण्डले ।
नश्यन्ति सर्व्वशस्यानि विजये नात्र संशयः ॥ २७ ॥
क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः ।
पीडितास्ते वरारोहे जये सर्व्वे न संशयः ॥ २८ ॥
सरोगञ्च तथा देवि दाहज्वरसमन्वितम् ।
अभिभूतं जगत् सर्वं मन्मथे सुरवन्दिते ॥ २९ ॥
तुषधान्यक्षयो देवि सर्व्वशस्यमहार्घता ।
व्यवहाराश्च नश्यन्ति दुर्म्मुखे दुर्म्मुखाः प्रजाः ॥ ३०
पीड्यन्ते सर्व्वशस्यानि देशे देशे शुचिस्मिते ।
हेमलम्बेप्रजाः सर्व्वाः क्षीयन्ते नात्र सशयः ॥ ३१
तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् ।
अर्थो भवति सामान्यो विलम्बे तु भयं महत् ॥ ३२
विषमस्थं जगत् सर्व्वं विरोधे भवसंप्लवम् ।
विकारी सर्व्वतोऽपायो मम वाक्यन्तु नान्यथा ३३
क्वचिद्वर्षति पज्जन्यो देशे संछिन्नमण्डलः ।
दुर्भिक्षं सर्व्वरीवर्षे व्यवहारो विपर्य्ययः ॥ ३४ ॥
पृष्ठ ५/१९२
दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये ।
प्लेवे पवन्ति तोयानि मानवा दु खिता भुवि ॥ ३५
सुवर्णरूप्यधान्यानि जगत् सर्व्वं सुशोभनम् ।
ब्राह्मणा बणिजस्तुष्टाः सुभिक्षे शुभकृत् प्रिये ॥ ३६
सुभिक्षं क्षेममारोग्यं तृप्ता गोब्राह्मणाः प्रिये ।
सुस्थिताः शोभने वर्षे प्रजाः सर्व्वाः सुलोचने ॥ ३७
विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् ।
जनानां जायते भद्रे क्रोधे क्रोधः परस्परम् ॥ ३८
सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता ।
विश्वावसौ वरारोहे कार्पासस्य महार्घता ॥ ३९ ॥
पार्थिवैर्नृपसैन्यैश्च समस्तैः खण्डमण्डले ।
प्रपीड्यन्ते जनाः सर्व्वे भयभीताः पराभवे ॥ ४० ॥
तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः ।
प्लवङ्ग पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते ॥ ४१ ॥
जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् ।
सौम्यदृष्टिर्भवेद्राजा कालिके च शुभं वदेत् ॥ ४२
मुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् ।
सौम्यदृष्टिभवेद्राजा सौम्ये सौख्यं प्रकीर्त्तितम् ॥ ४३
तायपूर्णो भवेन्मेघो वर्वते च दिने दिने ।
निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये ॥ ४४
वासवो वर्षते देवि देशे चाखण्डमण्डले ।
अहिछत्रे कान्यकुब्जे विरोधि कृषिनाशकृत् ॥ ४५
अभिभूतं जगत् सर्व्वं क्लेशैर्बहुविधैः प्रिये ।
मारुतैः फलदाहैश्च परिवारिणि शोभने ॥ ४६ ॥
निष्पत्तिः सर्वशस्यानां सुभिक्षं भवति प्रिये ।
प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा ॥ ४७ ।
निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यामहार्घता ।
घृतं तैलसमं याति आनन्दे नन्दति प्रजा ॥ ४८ ॥
कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्निनि ।
सर्व्वौषधानि धान्यानि राक्षसे निष्ठुराः
प्रजाः ॥ ४९ ॥
दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् ।
अनले च समाख्यातं नात्र कार्य्या विचारणा ॥ ५०
देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् ।
पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्म्मदातटे ॥ ५१ ॥
गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः ।
वासवो वर्षते देवि शस्यञ्च नहि जायते ॥
तिलसर्षपमाषादिकार्पासानां महार्घता ।
गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः ॥
तत्सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ।
तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्दिनम् ।
पार्थिवांमोषकादीनाः कालयुक्ते प्रपीडिताः ॥ ५२
तोयपूर्णाः स्मृता मेघा बहुशस्या च मेदिनी ।
निष्ठुराः प्रार्थिवा देवि सिद्धार्थे च वरानने ॥ ५३
अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः ।
विरुद्धाः प्रार्थिवा देवि रौद्रे संवत्सरे प्रिये ॥ ५४
दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वचते ।
भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ ५५ ॥
दुर्भिक्षं जायते लोकाः सर्व्वे द्रविणवर्ज्जिताः ।
प्राणिनां जायतेऽहर्षो दुन्दुभौ बरवर्णिनि ॥ ५६ ॥
महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः ।
तत् सर्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ॥
रक्ते संवत्सरे देवि क्रूरबुद्धिर्नराधिपः ।
मानवाः क्रूरचेष्टाश्च सग्रामे रुधिरंभवेत् ॥ ५७ ॥
दुर्भिक्षं मरणं घोरं धान्यौषधिप्रपीडनम् ।
पापरोगो भवेद्देवि रक्ताख्येऽमरवन्दिनि ॥ ५८ ॥
रोगो मरणदुर्भिक्षं विरोधो बहुसङ्कुलम् ।
क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ॥ ५९
मेदिनी लभते देवि सर्व्वभूतं चराचरम् ।
देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा ॥
सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा ।
दर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ॥
कौमुदीनर्म्मदाद्याश्च यमुनानर्म्मदातटम् ।
विन्ध्यायां सैन्धवञ्चापि विनश्यति न संशयः ॥
सिंहलं मध्यदेशञ्च कालञ्जरं तथैव च ।
क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि ॥” ६०
इति ज्योतिस्तत्त्वम् ॥

षष्टिहायनः, पुं, (षष्टिर्हायना आयुःकालो यस्य ।)

गजः । धान्यविशेषः । इति मेदिनी राज-
निर्घण्टश्च ॥ षष्टिसख्यकवत्सरः । तत्संख्यवयो-
युते, त्रि, ॥ (यथा, महाभारते । १ । १५४ । ४४ ।
“वभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा ।
मत्ताविव च संरब्धौ वारुणौ षष्ठिहायनौ ॥”)

षष्ठः, त्रि, (षष् + तस्य पूरणे डट् । ५ । २ ।

४८ । डट् । षट्कतिकतिपयचतुरां थुक् । ५ ।
२ । ५१ । इति थुक् ।) षण्मां पूरणः । इति
मेदिनी ॥ (यथा, रघुः । १७ । ७८ ।
“पञ्चमं लोकपालानामूचुः साधर्म्मयोगतः ।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥”)

षष्ठकः, त्रि, षष्ठः । षष्ठशब्दात् स्वार्थे कन्प्रत्ययेन

निष्पन्नः ॥ (षष्ठो भागः । “मानपश्वङ्गयोः कन्-
लुकौ च ।” ५ । ३ । ५१ । इति कन् । “षष्ठको
भागो मानञ्चद्भवति ।” इति काशिका ॥)

षष्ठालुकालकं, क्ली, द्वित्र्यहानन्तरभुक्तम् । यथा

“द्व्यन्तरे त्र्यन्तरे भुक्तमाहुः षष्ठालुकालकम् ।”
इति त्रिकाण्डशेषः ॥

षष्ठिका, स्त्री, (षष्ठी + स्वार्थे कन् ।) यथा ।

चामुण्डत्यत्र षष्ठिकेत्यूह्यम् । इति दुर्गोत्सवीय-
बलिदानप्रकरणे तिथ्यादितत्त्वम् ॥

षष्ठी, स्त्री, (षष्ठ + ङीप् ।) कात्यायनी । इति

मेदिनी ॥ षोडशमातृकान्तर्गतमातृकाविशेषः ।
सा प्रकृतेः षष्ठीकला स्कन्दभार्य्या च । तस्याः
स्वरूपादिर्यथा, --
“प्रधानांशस्वरूपा या देवसेना च नारद ! ।
मातृकासु पूज्यतमा सा च षष्ठी प्रकीर्त्तिता ॥
शिशूनां प्रतिविश्वेषु प्रतिपालनकारिणी ।
तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी ॥
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्त्तिता ।
पुत्त्रपौत्त्रप्रदात्री च धात्री त्रिजगतां सती ॥
सुन्दरी युवती रम्या सन्ततं भर्त्तुरन्तिके ।
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ॥
पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् ।
पूजा च सूतिकागारे परा षष्ठदिने शिशोः ।
एकविंशतिमे चैव पूजा कल्याणहेतुकी ।
शश्वन्नियमिता चैषा नित्या काम्याहुतिः परा ॥
मातृरूपा दयारूपा शश्वद्रक्षणरूपिणी ।
जले स्थले चान्तरीक्षे शिशूनां स्वप्नगोचरे ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥ * ॥
अपि च ।
श्रीनारायण उवाच ।
“षष्ठांशा प्रकृतेर्या च सा तु षष्ठी प्रकीर्त्तिता ।
तस्याः पूजाविधौ ब्रह्मन् इतिहासमिमं शृणु ॥
राजा प्रियव्रतश्चासीत् स्वायम्भुवमनोः सुतः ।
योगीन्द्रो न वहेद्भार्य्यां तपस्यासु रतः सदा ॥
ब्रह्माज्ञया च यत्रेन कृतदारो बभूव सः ।
सुचिरं कृतदारश्च न लेभे तनयं ततः ॥
पुत्त्रेष्टियज्ञं तञ्चापि कारयामास कश्यपः ।
मानिन्यै तस्य कान्तायै मुनिर्यज्ञचरुं ददौ ॥
भुक्त्वा चरुञ्च तस्याश्च सद्यो गर्भो बभूव ह ।
दधार तञ्च सा देवी दैवं द्वादशवत्सरम् ॥
ततः सुषाव सा ब्रह्मन् कुमारं कनकप्रभम् ।
सर्व्वावयवसम्पन्नं मृतमुत्तानलोचनम् ॥
श्मशानञ्च ययौ राजा गृहीत्वा बालकं मुने ।
एतस्मिन्नन्तरे तत्र विमानञ्च ददर्श ह ॥
ददर्श तत्र देवीञ्च कमनीयां मनोहराम् ।
दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरम् ॥
पप्रच्छ राजा तां दृष्ट्वा ग्रीष्मसूर्य्यसमप्रभाम् ।
तेजसा ज्वलितां कान्तां शान्तां स्कन्दस्य नारद ॥
प्रियव्रत उवाच ।
का त्वं सुशोभने कस्य कान्ते कान्तासि सुव्रते ।
कस्य कन्या वरारोहा धन्या मान्या च योषि-
ताम् ॥
देवसेनोवाच ।
ब्रह्मणो मानसी कन्या देवसेनाहमीश्वरी ।
दृष्ट्वा मां मनसा धाता ददौ स्कन्दाय भूमिप ॥
मातृकासु च विख्याता स्कन्दभार्य्या च सुव्रता
बिश्वे षष्ठीति विख्याता षष्ठाशा प्रकृतेर्यतः ॥
इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने ।
महाज्ञानेन तपसा जीवयामास लीलया ॥
गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता ।
पुनस्तुष्टाव तां राजा शुष्ककण्ठौष्ठतालुकः ॥
नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह ।
उवाच तं नृपं ब्रह्मन् ! वेदोक्तं कर्म्मनिर्म्मितम् ॥
देवसेनोवाच ।
त्रिषु लोकेषु राजा त्वं स्वायम्भुवमनोः सुतः ।
मम पूजाञ्च सर्व्वत्र कारयित्वा स्वयं कुरु ॥
तदा दास्यामि पुत्त्रन्ते कुलपद्ममनोहरम् ।
इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ ॥
राजा चकार स्वीकारं तत्पूजार्थञ्च सुव्रतः ।
जगाम देवी स्वर्गञ्च दत्त्वा तस्मै शुभं वरम् ॥
आजगाम महाराजः स्वगृहं हृष्टमानसः ।
देवीं तां पूजयामास ब्राह्मणेभ्यो धनं ददौ ॥
राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम् ।
षष्ठ्या देव्याश्च यत्नेन कारयामास सर्व्वतः ॥
बालानां सूतिकागारे षष्ठाहे यत्नपूर्व्वकम् ।
तापूजां कारयामास चैकविंशतिवासरे ॥
पृष्ठ ५/१९३
बालानां शुभकार्य्ये च शुभान्नप्राशने तथा ।
सर्व्वत्र वर्द्धयामास स्वयमेव चकार ह ॥
ध्यानं पूजाविधानञ्च स्तीत्रं मत्तो निशामय ।
यत् श्रुतं धर्म्मवक्त्रेण कौथुमोक्तञ्च सुव्रत ॥
शालग्रामे घटे वाथ वटमूलेऽथवा मुने ।
भित्तौ पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः ॥
षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठाञ्च सुप्रभाम् ।
सुपुत्त्रदाञ्च शुभदां दयारूपां जगत्प्रसूम् ॥
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
पवित्ररूपां परमां देवसेनामहं भजे ॥
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः
पुनर्ध्यात्वा च मूलेन पूजयेत् सुव्रतां सतीम् ॥
पाद्यार्घ्याचमनीयैश्च गन्धधूपप्रदीपकैः ।
नैवेद्यैर्विविधैश्चापि फलेन शोभनेन च ॥
मूलेनौँ ह्रीँ षष्ठीदेव्यै स्वाहेति विधिपूर्व्वकम्
अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः ॥
ततः स्तुत्वा च प्रणमेद्भक्तियुक्तः समाहितः ।
स्तोत्रञ्च सामवेदोक्तं वरपुत्त्रफलप्रदम् ॥
अष्टाक्षरं महामन्त्रं लक्षधा यो जपेन्मुने ।
स पुत्त्रं लभते नूनमित्याह कमलोद्भवः ॥ * ॥
स्तोत्रं शृणु मुनिश्रेष्ठ सर्व्वकामशुभावहम् ।
आज्ञाप्रदञ्च सर्व्वेषां गूढं वेदेषु नारद ॥
प्रियव्रत उवाच ।
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः
शुभायै देवसेनायै षष्ठ्यै देव्यै नमो नमः ॥
वरदायै पुत्त्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥
शक्तिषष्ठांशरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥
सारायै सारदायै च पारायै सर्व्वकारिण्यै ।
बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः ॥
कल्याणदायै कल्याण्यै फलदायै च कर्म्मणाम् ।
प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ॥
पूज्यायै स्कन्दकान्तायै सर्व्वेषां सर्व्वकर्म्मसु ।
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।
हिंसाक्रोधवर्ज्जितायै षष्ठीदेव्यै नमो नमः ॥
धनं देहि प्रियां देहि पुत्त्रं देति सुरेश्वरि ।
धर्म्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥
देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते ।
कल्याणञ्च जयं देहि षष्ठीदेव्यै नमो नमः ॥
इति देवीञ्च संस्तूय लेभे पुत्त्रं प्रियव्रतः ।
यशस्विनञ्च राजेन्द्रं षष्ठीदेवीप्रसादतः ॥
षष्ठीस्तोत्रमिदं ब्रह्मन् यः शृणोति च वत्सरम् ।
अपुत्त्रो लभते पुत्त्रं वरं सुचिरजीविनम् ॥
वर्षमेकञ्च या भक्ता संस्तुत्येदं शृणोति च ।
सर्व्वपापविनिर्म्मुक्त्या महाबन्ध्या प्रसूयते ॥
वीरं पुत्त्रञ्च गुणिनं विद्यावन्तं यशस्विनम् ।
शुचिं चिरायुष्मन्तमेव षष्ठीदेवीपसादतः ॥
काकबन्ध्या च या नारी मृतापत्या च या भवेत्
वर्षं श्रुत्वा लभेत् पुत्त्रं षष्ठीदेवीप्रसादतः ॥
रोगयुक्ते च बाले च पिता माता शृणोति चेत्
मासञ्च मुच्यते बालः षष्ठीदेवीप्रसादतः ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४० अध्यायः ॥ * ॥
चन्द्रस्य षष्ठकलाक्रियारूपतिथिविशेषः । स तु
शुक्लकृष्णपक्षभेदेन द्विविधः । तत्र चन्द्रस्य
वृद्ध्यनुकूलषष्ठकलाक्रियारूपः शुक्लपक्षीयः । तस्य
ह्रासानुकूलषष्ठकलाक्रियारूपः कृष्णपक्षीयः । * ॥
वैशाखादिषु तस्या विशेषनामानि यथा, --
“प्रसूत्या द्वादशे मासि सम्पूज्यापत्यवृद्धये ।
सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी ॥
वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता ।
आषाढे कार्द्दमी ज्ञेया श्रावणे लुण्ठनी तथा ॥
भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा ।
नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी
पौषे मास्यन्नरूपा च शीतला तपसि स्मृता ।
गोरूपिणी फाल्गुने च चेत्रेऽशोका प्रकीर्त्तिता ॥”
इति स्कन्दपुराणम् ॥
तत्कृत्यादि यथा, --
अथ षष्ठी सा सप्तमीयुता ग्राह्या युग्मात् ।
राजमार्त्तण्डे ।
“ज्यैष्ठे मासि सिते पक्षे षष्ठी चारण्यसंज्ञिता
व्यजनैककरास्तस्यामटन्ति विपिने स्त्रियः ॥
तां विन्ध्यवासिनीं स्कन्दषष्ठीमाराधयन्ति च ।
कन्दमूलफलाहारा लभन्ते सन्ततिं शुभाम् ॥”
कन्दं सूरणादि । मूलं तदितरत् । भविष्ये ।
“येयं मार्गशिरे मासि षष्ठी भरतसत्तम ।
पुण्या पापहरा धन्या शिवा शान्तागुहप्रिया ॥”
देवीपुराणे चैत्रमधिकृत्य ।
“षष्ठ्यां स्कन्दस्य कर्त्तव्या पूजा सर्व्वोपचारिका
तहैव सुखसौभाग्यमन्ते विष्णुपुरं व्रजेत् ॥”
इयमेव स्कन्दषष्ठी पञ्चमीयुतैवोपोष्या ।
“कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी ।
एताः पूर्व्वयुताः कार्य्यास्तिथ्यन्ते पारणं भवेत् ॥”
इति ब्रह्मवैवर्त्तवचनात् ॥
विष्णुधर्म्मोत्तरे ।
“अष्टमीञ्च तथा षष्ठीं नवमीञ्च चतुर्दशीम् ।
शिरोऽभ्यङ्गं न कुर्व्वीत पर्व्वसन्धौ तथैव च ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
सा च कार्त्तिकेयाभिषेकतिथिः । यथा, --
“स्वयं स्कन्दो महादेवः सर्व्वपापप्रणाशनः ।
तस्य षष्ठीं तिथिं प्रादादभिषेके पितामहः ॥
अस्यां फलाशनो यस्तु यजेन्नियतमानसः ।
अपुत्त्रोऽपि लभेत् पुत्त्रान् अधनोऽपि लभेत् धनम्
यं यमिच्छेत मनसा तं तं लभति मानवः ॥
यश्चैतत् पठति स्तोत्रं कार्त्तिकेयस्य मानवः ।
तस्य गेहे कुमाराणां क्षेमारोग्यं भवेद्ध्रुवम् ॥”
इति वाराहे स्कन्दोत्पत्तिनामाध्यायः ॥ * ॥
तत्र जातफलम् ।
“विद्वान् वरिष्ठश्चतुरः सुकीर्त्तिः
प्रलम्बबाहुर्व्रणकीर्णगात्रः ।
सत्यप्रतिष्ठो धनपुत्त्रयुक्तः
षष्ठीप्रसूतो मनुजश्चिरायुः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
तत्र यात्राकरणदोषो यथा, --
“पञ्चम्यामीप्सितार्थः स्यात् षष्ठ्यां व्याधियुतो
भवेत् ।
सप्तम्यामर्थलाभः स्यादष्टम्यामस्त्रपीडनम् ।
षष्ठ्यष्टमीद्वादशीषु न गच्छेत्त्रिदिनस्पृशि ॥”
इति ज्योतिस्तत्त्वम् ॥

षस, लु र स्वापे । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-अक०-सेट् ।) मूर्द्धन्यादिः । लु, सस्ति ।
र, वैदिकः । स्वापः शयनम् । इति दुर्गादासः ॥

षस्ज, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) दन्त्यसोपधः । क्विपि संयोगादि-
लोपे सक् । सज्जति । वचोऽपि परुषाक्षरं न च
पदेषु संसज्जते । इति शाकुन्तले गणकृता-
नित्यत्वात् । इति दुर्गादासः ॥

षस्त, इ लु र स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-अक०-सेट् ।) मूर्द्धन्यादिः दन्त्यसोपधः । इ,
संस्त्यते । नमध्यपाठेऽपि नस्योपधत्वाभावादेत
लोपाभावे इदनुबन्धो वेदेषूच्चारणभेदार्थः । लु,
संस्ति । र, वैदिकः । इति दुर्गादासः ॥

षह, ज ङ शक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) इहापि शक्तिः क्षमा ।
ज, साहः सहः । ङ, अन्यायं सहते नासौ ।
इति हलायुधः । इति दुर्गादासः ॥

षह, य कि शक्तौ । इति कविकल्पद्रुमः ॥ (दिवा०

चुरा०-भ्वा०-च-पर०-सक०-सेट् ।) शक्तिरिह
दैवादिकस्य शकधातो रूपंतेन क्षमा इत्यर्थः ।
य, सह्यति दुःखं लोकः सहत इत्यर्थः । कि,
साहयति । स एवायं नागः सहति कलभेभ्यः
परिभवम् । इति दुर्गादासः ॥

षहसानुः, पुं, क्षमावान् । यज्ञः । मयूरः । इति

संक्षिप्तसारोणादिवृत्तिः ॥

षाट्, व्य, सम्बोधनम् । इति केचित् ॥

षाडवः, पुं, गानम् । रसः । इति मेदिनी ॥ रागस्य

जातिविशेषः । स च षट्स्वरमिलितराग-
रागिण्यौ । यथा, --
“औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु
षाडवः ॥
सम्पूर्णः सप्तभिर्ज्ञेय एवं रागस्त्रिधा मतः ॥”
इति सङ्गीतदर्पणम् ॥

षाड्गुण्यं, क्ली, (षड्गुणा एव । “चातुर्वर्ण्या-

दीनां स्वार्थे ।” ५ । १ । १२४ । इत्यस्य वार्त्ति-
कोक्त्या ष्यञ् ।) राज्ञां राज्यरक्षणे उपायाः
षट् । यथा । सन्धानासनं सन्धिं कृत्वा अव
स्थानम् १ । यात्रासन्धानं युद्धार्थयानम् २ ।
विगृह्यासनं वैरं कृत्वावस्थानम् ३ । यात्रां
संपरिगृह्यासनं शत्रोर्भयप्रदर्शनार्थं यानं प्रदर्श्य
स्वस्थाने अवस्थानम् ४ । द्वैधीभावः उभयत्र
सन्धीकरणम् ५ । अन्येषां संश्रयः दुर्गादेर्म्महा-
राजस्य वा आश्रयः ६ । इति महाभारते
राजधर्म्मः ॥ (यथा, माघे । २ । ९३ ।
“षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम् ।
भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥”)
पृष्ठ ५/१९४
षाण्मातुरः, पुं, (षण्णां मातॄणामपत्यमिति ।
“मातुरुत्संख्यासंभद्रपूर्व्वायाः ।” ४ । १ । ११५ ।
इति अण् । उकारश्चान्तादेशः ।) कार्त्तिकेयः ।
इत्यमरः ॥

षात्वणत्विकः, त्रि, षत्वणत्वविधायकशास्त्रव्या-

ख्यानम् । तत्र भवः । यथा । षत्वणत्वयोर्विधा-
यकं शास्त्रं षात्वणत्वं तस्य व्याख्यानान्तत्र भवो
वा षात्वणत्विकः । इति सिद्धान्तकौमुदी ॥

षाध, ओ न य सिद्धौ । इति कविकल्पद्रुमः ॥

(स्वा०-दिवा० च-पर०-अक०-अनिट् ।) औ,
शिषात्सति । न, साध्नोति । य, साध्यति ।
सिद्धिर्निष्पत्तिः । इति दुर्गादासः ॥

षान्त्व, क सामयोगे । इतिकविकल्पद्रुमः ॥ (चुरा०

पर०-सक०-सेट् ।) क, सान्त्वयति शोकार्त्तं
दयालुः । सिषान्त्वयिषति । इति दुर्गादासः ॥

षाष्ठः, त्रि, षष्ठः । षष्ठशब्दात् स्वार्थे ष्ण (अण्)

प्रत्ययेन निष्पन्नः ॥ (पुं, षष्ठो भागः । “षष्ठाष्ट-
माभ्यां ञ च ।” ५ । ३ । ५० । इति ञः । इति
सिद्धान्त्रकौमुदी ॥)

षि, ग ञ न बन्धे । इति कविकल्पद्रुमः ॥ (क्र्या०-

स्वा०-च-उभ०-सक०-अनिट् ।) मूर्द्धन्यादिः ।
ग ञ, सिनाति सिनीते । न, सिनोति सिनुते ।
ईति दुर्गादासः ॥

षिच, प श ञ औ क्षरणे । इति कविकल्पद्रुमः ॥

(तुदा०-उभ०-सक०-अनिट् ।) प श ञ,
सिञ्चति सिञ्चते । औ, सेक्ता । सिषिचुरवनि-
मम्बुवहाः । इति भारविः । इति दुर्गादासः ॥
षिट, अनादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-
पर०-सक०-सेट् ।) मूर्द्ध्वन्यादिः । सेटति खलं
लोकः । इति दुर्गादासः ॥

षिङ्गः, पुं, (षिट् अनादरे + बाहुलकात् अतो-

ऽपि गन् सत्वाभावश्च । इत्यणादिटीकायां
उज्ज्वलः । १ । १२३ ।) कापुकः । लोच्चा इति
भाषा । तत्पर्य्यायः । विदग्धः २ नागरः ३
भविलः ४ छिदुरः ५ विटः ६ व्यलीकः ७ षट्-
प्रज्ञः ८ कामकेलिः ९ विदूषकः १० । इति
भूरिप्रयोगः ॥ पीठकेलिः ११ पीठमर्द्दः १२ ।
इति त्रिकाण्डशेषः ॥ पल्लविकः १३ । इति
हेमचन्द्रः ॥ (यथा, माघे । ५ । ३४ ।
“पन्थानमाशु विजहीहि पुरः स्तनौ ते
पश्यन् प्रतिद्विरदकुम्भविशङ्किचेताः ।
स्तम्बेरमः परिणिनं सुरसावुपैति
षिड्गैरगद्यत ससम्भ्रममेव काचित् ॥”)

षिध, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) सेधति । निष्ठायां सिधितः ।
इति दुर्गादासः ॥

षिध, उ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् । क्वा वेट् ।) सेधति । उ,
मेधित्वा सिद्ध्वा । क्वावेट्त्वान्नेम् ङीश्वीति इमो
निपेधे मिद्धः । इति दुर्गादासः ॥

षिध, उ य औ सिद्धौ । इति दुर्गादासः ॥

(दिवा०-पर०-अक०-अनिट् । क्वावेट् ।) उ,
सेधित्वा सिद्ध्वा । य, सिध्यति । औ, असैत्-
सीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये ।
सिद्धिर्निष्पत्तिः । सिध्यति घटो निष्पन्नः स्यात्
इत्यर्थः । इति दुर्गादासः ॥

षिध, ऊ शिवे । शास्त्रे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-शिवे अक०-अनुशासने सक०-
वेट् ।) मूर्द्धन्यादिः । ऊ, असेधीत् असैत्-
सीत् । शिवं मङ्गलम् । तदाकर्म्मकः । सिद्ध्वो
वर्णसमाम्नाय इति कातन्त्रस्याद्यसूत्रम् । शास्त्र-
मनुशासनम् । सेधति शिष्यं गुरुः । इति दुर्गा-
दासः ॥

षिन्भ, उ हिंसने । दीप्तौ । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-दीप्तौ अक०-सेट् । क्वावेट्
उ, सिम्भित्वा सिब्ध्वा । इति दुर्गादासः ॥

षिल, श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदा०

पर०-सक०-सेट् ।) उञ्छ उद्धृतशस्यशेषापह-
रणम् । श, सिलति धान्यं दीनः । सेलिता ।
इति दुर्गादासः ॥

षिव, य उ तन्तुततौ । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् । क्वावेट् ।) तन्तु-
ततिस्तन्तुभिर्ग्रन्थनम् । य, सीव्यति वस्त्रं
सौचिकः । उ, सेवित्वा स्यूत्वा । इति दुर्गा-
दासः ॥

षु, गतौ । ऐश्वर्य्यप्रसवयोश्च । इति कविकल्पद्रुमः

(भ्वा०-पर०-सक०-अनिट् ।) सवति । इति
दुर्गादासः ॥

षु, ञ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०

सक०-अनिट् ।) ञ, सुषाव सुषुवे । इति
दुर्गादासः ॥

षु, न ञ सन्धाक्लेदपीडमन्थे । इति कविकल्पद्रुमः ॥

(स्वा०-उभ०-सक०-अक० च-अनिट् ।) मूर्द्ध-
न्यादिः । न ञ, सुनोति सुनुते । सन्धा सन्धा-
नम् । क्लेद इह स्नानं मङ्गलस्नानं वा । तथाच
षु ञ अभिषवे । इति प्राञ्चः । अभिषवः पीडनं
मन्थनं वेति त्रिलोचनादयः । स्नानञ्चेति
दुर्गः । सन्धानं मङ्गलस्नानं वेति धातुप्रदीपः ।
इति दुर्गादासः ॥

षु, ल ऐश्वर्य्यप्रसवयोः । इति कविकल्पद्रुमः ॥

(अदा०-पर०-अक०-सक० चसेट् ।) ल,
सौति । इति दुर्गादासः ॥

षुः, पुं, गर्भविमोचनम् । इत्येकाक्षरकोषः ॥

षुट्ट, क तौच्छ्ये । अनादरे । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) पञ्चमस्वरी टद्व-
यान्तः । क, सुट्ठयति । दन्त्यादिरयमिति
भीमः । तौच्छ्यमल्पीभावः । इति दुर्गा-
दासः ॥

षुन्भ, दीपनहिंसयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-दीपने अक०-हिंसायां सक०-सेट् ।)
मूर्द्धन्यादिः । पञ्चमस्वरी । सुम्भति सुषुम्भ ।
इति दुर्गादासः ॥

षुर, श भेश्ययोः । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-अक०-सेट् ।) मूर्द्धन्यादिः । श, सुरति
सोरिता सुषोर । भा दीप्तिः । ऐश्यमैश्वर्य्यम् ।
इति दुर्गादासः ॥

षुह, ल य तृपि । शक्तौ । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) शक्तिः क्षमा ।
ऌ, असुहत् । य, सुह्यति दुःखं मुनिः सहत
इत्यर्थः । सुषोह । इति दुर्गादासः ॥

, ङ ल सूतौ । इति कविकल्पद्रुमः ॥ (अदा०

आत्म०-सक०-अनिट् ।) मूर्द्धन्यादिः । ङल,
सूते । इति दुर्गादासः ॥

षू, य ङ औ सूतौ । इति कविकल्पद्रुमः ॥ (दिवा०

आत्म०-सक० अनिट् ।) य ङ, सूयते । ओ,
सूनः । सूतिर्गर्भविमोचनम् । सूते पुत्त्रं नारी ।
अन्यत्रापि धर्म्मोऽर्थं प्रसूयते । इति दुर्गादासः ॥

षू, श क्षेपे । इति कविकल्पद्रुमः ॥ (तुदा०-पर०

सक०-अनिट् ।) मूर्द्धन्यादिः । श, सुवति ।
इति दुर्गादासः ॥

षूः, स्त्रो, गर्भविमोचनम् । इति कश्चिदेकाक्षर-

कोषः ॥

षूद, क्षणने । इति प्राञ्चः । (भ्वा०-पर०-सक०

सेट् ।) क्षणनमवदारणं हिंसोपलक्षणमिति
रमानाथेन व्याख्यातम् । इति दुर्गादासः ॥

षूद, क आश्रुतिहत्योः । निरासे । इति कविकल्प

द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) आश्रुति-
रङ्गीकारः । क, सूदयति धनं विप्राय दातुं
दाता । रमानाथस्तु आस्रवण इति दन्त्यसकारं
पठित्वा सूदयति मदिरा भाण्डात् क्षरति
इत्यर्थ इत्याह । इति दुर्गादासः ।

षूद, ङ निरासे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) षष्ठस्वरी । ङ, सूदते ।
निरासो निःक्षेपः । इति दुर्गादासः ॥

षूर, ङ य ई स्तम्भे । हिंसे इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-स्तम्भे अक०-हिंसे सक०-
सेट् । निष्ठायां अनिट् ।) ङ य, सूर्य्यते । ई,
सूर्णः । कैश्चिदयं न मन्यते । स्तम्भो जडी-
भावः । इति दुर्गादासः ॥

षूर्क्ष, नादरे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रेफयुक्तः । षष्ठस्वरी । सूर्क्षति
दुष्टं लोकः । इति दुर्गादासः ॥

षूर्क्ष्य, ईर्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) सूर्क्ष्यति सुषूर्क्ष्य । षद्वयान्तो-
ऽयमित्येके । इति दुर्गादासः ॥

षूष, प्रसवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) षष्ठस्वरी मूर्द्धन्यादिः । सूषति ।
इति दुर्गादासः ॥

षेक, ऋ ङ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०

आत्म०-सक०-सेट् ।) मूर्द्धन्यादिः । अस्य
षोपदेशविधौ वर्ज्जनेऽपीह पाठः कस्यचिदनु-
रोधात् । ऋ, असिषेकत् । ङ, षेकते । इति
दुर्गादासः ॥

षेल, ऋ चालगत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०

पर०-सक०-सेट् ।) मूर्द्ध्वन्यादिः । ऋ, असि-
षेलत् । इति दुर्गादासः ॥
पृष्ठ ५/१९५

षेव, ऋ ञ ङ सेवने । इतिकविकल्पद्रुमः ॥ (भ्वा०

उभ०-आत्म०-च-सक-सेट् ।) ऋ, असि-
षेवत् । ञ, सेवति सेवते । ङ, सेवते । सेवन-
माराधनमुपभोग आश्रयणञ्च । विष्णुं सेवते
सुस्वं सेवते तीर्थं सेवते साधुः । अन्ये त्वस्मात्
परस्मैपदममन्यमानाः नीचं समृद्धमपि सेवति
नीच एव । स्वाधीने विभवेऽप्यहो नरपतिं
सेवन्ति किं मानिन इत्यादौ गणकृतानित्यत्व-
माहुः । इति दुर्गादासः ॥

षै, क्षये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-अनिट् ।) मूर्द्धन्यादिः । सायति । इति
दुर्गादासः ॥

षो, य नाशे । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-अनिट् ।) मूर्द्धन्यादिः । नाश इह
नष्टीकरणम् । य, स्यति यमो जन्तून् । इति
दुर्गादासः ॥

षोडन्, [त्] पुं, (षट् दन्ता अस्य । “पृषोदरा-

दीनि यथोपदिष्टम् ।” ६ । ३ । १०९ । इति
षष उत्वं दतृदशधासूत्तरपदादेष्टुत्वञ्च ।) षड्-
दन्तयुक्तवृषः । इति हेमचन्द्रः ॥

षोडश, [न्] त्रि, (षट् च दश च । “पृषोदरा-

दीनि यथोपदिष्टम् ।” ६ । ३ । १०९ । इति
साधुः ।) संख्याविशेषः । षडधिका दश ।
षोल इति भाषा । तद्वाचकौ इन्दुकलामातृका-
शब्दौ । इति कविकल्पलता ॥ नित्यबहुवचना-
न्तोऽयम् ॥ (यथा, मनुः । ११ । २४९ ।
“सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ।
अपि भ्रूणहनं मासात् पुनन्त्यहरहःकृताः ॥”)

षोडशः, त्रि, षोडशानां पूरणः । षोडशन्शब्दात्

उट्प्रत्ययेन निष्पन्नः । इति सिद्धान्तकौसुदी ।
(यथा, भागवते । २ । ९ । ६ ।
“स्पर्शेषु यत् षौडशमेकविंशं
निष्कञ्चनानां नृप यद्धनं विदुः ॥”)

षोडशकलाः, स्त्री, (षोडशसंख्यान्विताः कलाः ।)

चन्द्रमण्डलस्य षडधिकदशभागाः । तासां
नामानि यथा । ततश्चन्द्रस्य अमृतादिषोडश-
कलाः पूर्व्ववत् प्राणप्रतिष्ठां कृत्वा पूजयेत् । अं
अमृतायै नमः १ । आं मानदायै २ । इं
पूषाये ३ । ईं तुष्ट्यै ४ । उं पुष्ट्यै ५ । ऊं रत्यै
६ । ऋं धृत्यै ७ । ॠं शशिन्यै ८ । ऌं
चन्द्रिकायै ९ । ॡं कान्त्यै । १० एं ज्योत्-
स्नायै ११ । ऐं श्रियै १२ । ओं प्रीत्यै १३ ।
औं अङ्गदायै १४ । अं पूर्णाय २५ । अः पूर्णा-
मृतायै १६ । नमः सर्व्वत्र । शक्तश्चेत् प्रत्येक-
मावाह्य गन्धादिभिः पूजयेत् । इति तन्त्रसारः ॥

षोडशदानं, क्ली, (षोडशप्रकारं दानम् ।)

श्राद्धादौ षोडशप्रकारदेयद्रव्यम् । तत्क्रममाहुः
साम्प्रदायिकाः ।
“भूभ्यामनं जलं वस्त्रं प्रदीपोऽन्नं ततः परम् ।
ताम्बलच्छत्रगन्धाश्च माल्यं फलमतः परम् ॥
शय्या च पादुका गावः काञ्चनं रजतं तथा ।
दानमेतत् षोडशकं प्रेतमुद्दिश्य दीयते ॥”
तत् षोडशषोडशकैरेको दानसागरो भवति ॥
तत्र भूमेः पूजायां दानवाक्ये च प्रियदत्तेति
विशेषणम् । भूमेर्द्देवता विष्णुः षष्ठिवर्षसह-
स्रावच्छिन्नस्वर्गवासः फलम् । प्रतिग्रहे तद्भूमेः
प्रदक्षिणीकरणम् । तद्भूमेरसन्निधाने तामुद्दिश्य
प्रदक्षिणम् ॥ १ ॥ आसनस्य उत्तानाङ्गिरसो
देवता राज्यस्थानानुत्तमस्वर्गप्राप्तिः फलम् ।
तत्र विशेषानुपदेशात् करमध्यात्माग्नेयेन
तीर्थेन प्रतिग्रहः । एवमन्यत्रापि आग्नेयं कर-
तलम् ॥ २ ॥ जलस्य वरुणो देवता तृप्तिप्राप्तिः
फलम् ॥ ३ ॥ वस्त्रस्य बृहस्पतिर्द्देवता चन्द्र-
सालोक्यप्राप्तिः फलम् । प्रतिग्रहे दशान्तग्रहण-
परिधाने ॥ ४ ॥ दीपस्य अग्निर्द्देवता उत्तमचक्षुः
प्राप्तिः फलम् ॥ ५ ॥ अन्नस्य प्रजापतिर्देवता
अक्षयसुखप्राप्तिः फलम् । प्रतिग्रहे मुष्टिग्रह-
णम् ॥ ६ ॥ ताम्बूलस्य वनस्पतिर्देवता मेधा-
वित्वसुभगत्वप्राज्ञत्वदर्शनीयत्वप्राप्तिः फलम् ॥ ७ ॥
छत्रस्य उत्तानाङ्गिरसो देवता सर्व्वव्याधिविनि-
र्मुक्तत्वश्रीमत्त्वबहुपुत्त्रत्वप्राप्तिः फलम् । प्रति-
ग्रहे दण्डधारणम् ॥ ८ ॥ गन्धस्य गन्धर्व्वो देवता
ब्रह्मपदप्रयाणं फलम् ॥ ९ ॥ माल्यस्य वनस्पति
र्देवता अत्यन्तसुखित्वभवनं फलम् ॥ १० फलस्य-
वनस्पतिर्देवता मुदा युक्तत्वं फलम् ॥ ११ ॥
शय्यायाः उत्तानाङ्गिरसो देवता अत्यन्तसुखित्व
भवनं फलम् । प्रतिग्रहे आरोहणम् ॥ १२ ॥
पादुकायुगलस्य उत्तानाङ्गिरसो देवता सर्व्व-
लोकसुखगमनं फलम् । प्रतिग्रहे आरोह-
णम् ॥ १३ ॥ धेनो रुद्रो देवता सूर्य्यलोकप्राप्तिः
फलम् । तत्र धेनुं प्राङ्मुखीमात्मसमीप-
मानीय ।
“ॐ या लक्ष्मीः सर्व्वभूतानां या च देवेष्वव-
स्थिता ।
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥
ॐ देवस्था या च रुद्राणी शङ्करस्य च या
प्रिया ।
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥
ॐ विष्णोर्वक्षसि या लक्ष्मीर्या लक्ष्मीर्धनदस्य
च ।
या लक्ष्मीः सर्व्वभूतानां सा धेनुर्वरदास्तु मे ॥
ॐ चतुर्मुखस्य या लक्ष्मीः स्वाहा चैव विभा-
वसोः ।
चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ॥
ॐ स्वधा त्वं पितृसंघानां स्वाहा यज्ञभूजां
यतः ।
सर्व्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे ॥
सर्व्वदेवमयीं देवीं सर्व्ववेदमयीन्तथा ।
सर्व्वलोकनिमित्ताय सर्व्वलोकमपि स्थिराम् ।
प्रयच्छामि महाभागामक्षयाय सुखाय च ॥”
इत्युच्चार्य्य उत्सृजेत् । प्रतिग्रहे पुच्छधार-
णम् ॥ १४ ॥ हिरण्यस्याग्निर्देवता दीर्घायुः-
प्राप्तिः फलम् ॥ १५ ॥ रजतस्य चन्द्रमा देवता
उत्तमरूपप्राप्तिः फलम् ॥ १६ ॥ इति शुद्धि-
तत्त्वम् ॥ * ॥ गयापद्धत्युक्तषोडशदादनं यथा,
“स्वर्णं रौप्यं तथा ताम्रं कांस्यं गावो गजा
हयाः ।
गृहं भूमिर्वृषो वस्त्रं शाय्या क्षेत्रमुपानहौ ॥
दास्यन्नं पितृयज्ञेषु दानं षोडशकं मतम् ॥”
इति वायुपुराणे गयामाहात्म्यम् ॥

षोडशभूजा, स्त्री, (षोडश भूजा यस्याः ।) षोड-

शहस्तयुक्ता दुर्गा । यथा, --
“यदा तु षोडशभुजां महामायां प्रपूजयेत् ।
दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु ॥
कन्यायां कृष्णपक्षस्य एकादश्यामुपोषितः ।
द्वादष्यामेकभक्तन्तु नक्तं कुर्य्यात् परेऽहनि ॥
चतुर्द्दश्यां महामायां बोधयित्वा विधानतः ।
गीतवादित्रनिर्षोषैर्नानानैवेद्यवेदनैः ॥
अयाचितं बुधः कुर्य्यात् उपवासं परेऽहनि ।
एवमेव व्रतं कुर्य्यात् यावद्वै नवमी भवेत् ॥
ज्येष्ठायान्तु समभ्यर्च्च्य मूलेन प्रतिपूजयेत् ।
उत्तरेणार्च्चनं कृत्वा श्रवणान्ते विसर्ज्जयेत् ॥”
इति कालिकापुराणे ५९ अध्यायः ॥

षोडशमातृकाः, स्त्री, (षोडशसंख्यकाः मातृकाः ।)

षोडशसंख्यकदेवोविशेषः । यथा । गौर्य्यादि-
षोडशमातृकाभ्यो नमः । इति दुर्गोत्सव-
पद्धतिः ॥ तासां नामानि यथा, श्राद्धतत्त्वे ।
“गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥
शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह ।
आदौ विनायकः पूज्यः अन्ते च कुलदेवता ॥”

षोडशर्त्विक्क्रतुः, पुं, (षोडश ऋत्विजो यत्र ।

तादृशः क्रतुः ।) षोडशपुरोहितसाध्ययाग-
विशेषः । स तु ज्योतिष्टोमयागः । द्वादशाह-
साध्यसत्रयागश्च । यथा । ज्योतिष्टोमे द्वादश-
शतगोदक्षिणाविभागः षोडशर्त्विजां तद्विकृती-
भूते सत्रात्मके द्वादशाहसाध्ये शतेनार्द्धिनो
दीक्षयन्तीत्यादिदर्शनेन निर्णीयते । तत्र विभारं
मनुरप्याह ।
“सर्व्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे ।
तृतीयिनस्तृतीयांशाश्चतुर्थाश्चैकपादिनः ॥”
दक्षिणा गोशतविभागाय श्रौतकात्यायनोऽपि ।
अथ द्वादश द्वादश आद्येभ्यः षट् षट् द्वितीयेभ्य-
श्चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्र इतरेभ्यः ।
इत्यत्र षोडशर्त्विजां चतुरश्चतुरः कृत्वा चत्वारो
वर्गाः । इति मलमासतत्त्वम् ॥ * ॥ एषां
ऋत्विजां नामानि यथा ब्रह्मा १ ब्राह्म-
णाच्छंसी २ आग्निध्रः ३ पोता ४ । एते सार्व्व-
वेदीयाः । होता ५ मैत्रावरुणः ६ अच्छावाक् ७
ग्रावस्तोता ८ । एते ऋग्वेदिनः । अधर्य्युः ९
प्रतिप्रस्थाता १० नेष्टा ११ उन्वेता १२ । एते
याजुषाः । उद्गाता १३ प्रस्तोता १४ प्रतिहर्त्ता
१५ सुब्रह्मण्यः १६ । एते सामगाः । इति महा-
भारते मोक्षधर्म्मे १०५ अध्याये नीलकण्ठटीका

षोडशाशुः, पुं, (षोडश अंशवो यस्य ।) शुक्रः ।

इति शब्दमाला ॥ षोडशकिरणयुक्ते, त्रि
पृष्ठ ५/१९६

षोडशाङ्गः, पुं, (षोडश द्रव्याणि अङ्गानि यस्य ।)

षोडशप्रकारसुगन्धिद्रव्यमिश्रितधूपः । यथा, --
“गुग्गुलुं सरलं दारु पत्रं मलयसम्भवम् ।
ह्रीवेरमगुरुं कुष्ठं गुडं सर्ज्जरसं घनम् ॥
हरीतकीं नखीं लाक्षां जटामांसीञ्च शैलजम् ।
षोडशाङ्गं विदुर्धूपं दैवे पैत्र्ये च कर्म्मणि ॥”
इति तन्त्रसारः ॥
षोडशावयवयुक्ते, त्रि ॥

षोडशाङ्घ्रिः, पुं, (षोडश अङ्घ्रयो यस्य ।) कर्कटः ।

इति हेमचन्द्रः ॥ षोडशचरणयुक्ते, त्रि ॥

षोडशारं, क्ली, (षोडश अराणि इव दलानि

यस्य ।) षोडशदलपद्मम् । यथा, तन्त्रे ।
“आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले
ललाटे
द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे
चतुष्के ।
वासान्ते वादिलान्ते ड-फ-क-ठ-सहिते कण्ट-
देशे स्वरणां
हक्षौ कोदण्डमध्ये सकलदलगतं वर्णरूपं
नमामि ॥”
जलाशयोत्सर्गीयवेदिकोपरिकर्त्तव्यचक्रम् । यथा,
मत्स्यपुराणे ।
“रजसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित् ।
षोडशारं भवेच्चक्रं पद्मगर्भं चतुर्म्मुखम् ॥
चतुरस्रन्तु परितो वृत्तं मध्ये गुणोत्तरम् ।
वेद्याश्चोपरि तत् कृत्वा ग्रहाल्लोकपतींस्तथा ।
विन्यसेन्मन्त्रतः सर्व्वान् प्रतिदिक्षु विचक्षणः ॥”
इति जलाशयोत्सर्गतत्त्वम् ॥

षोडशार्च्चिः, [स्] पुं, (षोडश अर्च्चींषि यस्य ।)

शुक्रग्रहः । इति भूरिप्रयोगः ॥ षोडशशिखा-
युक्ते, त्रि ॥

षोडशावर्त्तः, पुं, (षोडश आवर्त्ता यस्य ।) शङ्खः ।

इति हेमचन्द्रः ॥ षोडशावर्त्तनयुक्ते, त्रि ।

षोडशिकाम्रं, क्ली, पलपरिमाणम् । इति वैद्यक-

परिभाषा ॥

षोडशी, [न्] पुं, यज्ञपात्रविशेषः । यथा अति-

रात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं
गृह्णातीति । षोडशी ससोमकपात्रविशेषः ।
इति मलमासतत्त्वम् ॥

षोडशी, स्त्री, द्वादशमहाविद्यान्तर्गतविद्या-

विशेषः । यथा, --
“काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।
एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥”
तत्र पारिभाषिकीं षाडशीमाह ज्ञानार्णवे ।
“चन्द्रान्तं वारुणान्तञ्च शक्रादिमहितं पृथक् ।
वामाक्षिबिन्दुनादाढ्यं विश्वमातृकलात्मकम् ॥
विद्यादौ योजयेद्देवि साक्षात् जाग्रत्स्वरूपिणी ।
विकुटाः सकला भेदाः पञ्चकूटा भवन्ति हि ।
वैष्णवी वसुकूटा स्यात् षट्कूटा शाङ्करी
भवेत् ॥”
अस्यार्थः चन्द्रान्तं हकारः । वारुणान्तं
शकारः । शक्रादी रेफः । वामाक्षि ईकारः ।
विद्यादौ पुर्व्वोक्तद्वादशविद्यादौ ।
“वेदादिमण्डिता देवि शिवशक्तिमयी सदा ।
तदा भेदास्तु सकलाः षट्कूटा परमेश्वरि ।
वैष्णवी नवकूटा स्यात् सप्तकूटा च शाङ्करी ॥”
अस्यार्थः शिवशक्तिमयी पूर्व्वोक्ता बीजद्वय-
वती । वेदादिः प्रणवः । मण्डिता आदौ
भूषिता ॥ * ॥ अथ महाषोडशी ।
“आद्यवीजद्वयं भद्रे विपरीतक्रमेण हि ।
विलिख्य परमेशानि ततोऽन्यानि समुद्धरेत् ॥
अन्तर्म्मुखी वरारोहे कुमारी त्रिपुरेश्वरी ।
एभिस्तु पञ्चसंख्याकैर्बीजैः संपुटितां यजेत् ॥
षट्कूटां परमेशानि विद्येयं षोडशाक्षरी ।
त्रिकूटाः सफला भद्रे षोडशार्णा भवन्ति हि ।
वैष्णव्येकोनविंशार्णा शैवी सप्तदशाक्षरी ॥”
अस्यार्थः । आद्यबीजद्वयं मायारमात्मकम् ।
विपरीतक्रमः आदौ रमा पश्चान्माया ।
अन्तर्मध्य स्थितं कामबीजं मुखे आदौ यस्याः
कुमार्य्याः । एभिः पञ्चसंख्याकैर्बीजैः षट्कूटां
सप्तकूटां नवकूटां वा संपुटितां संपुटवत्
कृतां तेनांनुलोमविलोमतः संपुटितामित्यर्थः ।
योगिनीतन्त्रे ।
“श्रीबीजमायास्मरयोनिशक्ति-
स्तारञ्च माया कमलाथ विद्या ।
शक्त्यादिबीजैश्च विलोमतोक्त्या
श्रीषोडशीयञ्च शिवप्रदिष्टा ॥”
तथा च रुद्रयामले ।
“श्रीर्म्माया मदनो वाणी परा तारं शिवप्रिया ।
हरिप्रिया त्रिकूटा सा परा वाणी मनोभवः ।
मातालक्ष्मीर्म्महाविद्या श्रीबीजं षोडशी परा ॥”
अथ बीजावली षोडशी । रुद्रयामले ।
“श्रीबीजमाये संलिख्य तथैव च कुमारिकाम् ।
श्रीबीजमाये कामञ्च वाङ्माया कमला तथा ॥
परां कामञ्च वाग्बीजं माया श्रीबी जमेव च ।
बीजावली षोडशीयं सर्व्वतन्त्रेषु गोपिता ॥
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥” * ॥
तन्त्रान्तरे ।
“आद्या कुण्डलिनी शक्तिः शक्तिराद्या ततः परा
निवेशयेत्तयोर्म्मध्ये देवि गोविन्दवल्लभाम् ॥
ततस्तु मन्मथं बीजं श्रीबीजं तदनन्तरम् ।
हृल्लेखा रभयोर्वक्त्रे वेदवक्त्रं विनिःक्षिपेत् ॥
ततो लोपा न्यसेद्देवि त्रिकूटामथवा पराम् ।
आद्यानि पञ्चबीजानि पश्चाद्विन्यस्य सुन्दरि ।
षोडशीयं सुगोप्या हि स्नेहाद्देवि प्रकाशिता ॥
अस्या माहात्म्यमतुलं जिह्वाकोटिशतैरपि ।
वक्तुं न शक्यते देवि कि पुनः पञ्चभिर्मुखैः ॥
अपि प्रियतमं देयं सुतदारधनादिकम् ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥”
तन्त्रान्तरे ।
“सिन्दूररजसा वापि कुङ्कु मेन विलेपिते ।
लिखित्वा दर्शयेद्भूमौ न च कर्णे प्रकाशयेत् ॥
ततः स्वात्मविशुद्ध्यर्थं लक्षमेकं जपेद्गुरुः ॥” * ॥
बीजषोडशीमाह । सिद्धयामले ।
कामो माया रमा बाला त्रिकूटा स्त्री भगा-
ङ्कुशौ ।
काली कामकला कूर्च्चं सर्व्वादौ प्रणवः प्रिये ॥
श्रीमहाषोडशीयञ्च या ख्याता भुवनत्रये ।
ज्ञानेन मृत्युहा विद्या सर्व्वाम्नायैर्नमस्कृता ॥
सप्तलक्षमहाविद्यास्तन्त्रादौ कथिताः प्रिये ।
सारात्सारतरा भूता या या विद्याः सुगोपिताः ॥
बहुना किमिहोक्तेन तासां सारा तु षोडशी ।
प्रकाशिता महादेवी या पृष्टा ते पुनः पुनः ॥” *
शाक्तकामराजन्तु श्रीक्रमे ।
“मायाबीजं तथा झिण्टी कामं शक्रं वियत्
क्रमात् ।
जातवेदो मृगाङ्केन लाञ्छितं परमेश्वरी ॥
एतद्वाग्भवकूटञ्च पूर्व्ववत् कामराजकम् ।
तथैव शक्तिबीजन्तु सुन्दर्य्येषा प्रकीर्त्तिता ॥”
अत्रापि पूर्व्ववद्बीजसंयोगः । माया ईकारः ।
झिण्टी एकारः । पुनः शाक्तमाह ।
“एतद्भगं ततो माया ब्रह्मा शक्रो हरोऽग्निना
वामनेत्रेण संयुक्तो नादबिन्दुविभूषितः ।
एतद्वाग्भवमुद्दिष्टं पूर्व्ववत् कामशक्तिकम् ॥”
भग एकारः । अत्रापि पूर्व्ववद्बीजसंयोगः । अत्र
विशेषः ।
“ब्रह्मबीजं यदा दद्यात् त्रिकूटेषु वरानने ।
प्रथमा सुन्दरी देवी द्वितीया ब्रह्मसुन्दरी ॥
शक्तिकूटे महेशानि अनन्तसुन्दरी मता ।
एषा तु सुन्दरी विद्या मतभेदेन दर्शिता ॥
त्रिकूटान्ते हंसवीजं बिन्दुसर्गविभूषितम् ।
एषा श्रीप्राणसंयुक्ता दारिद्य्रदुःखमोचिनी ॥”
इति तन्त्रसारः ॥ * ॥
ऊनविंशतिपिण्डदानक्रिया । यथा, --
प्रेतशिलोक्तरीत्या द्वादशपिण्डान् षोडशी-
पिण्डांश्च दद्यात् । इति तीर्थयात्राप्रयोगतत्त्वम्
तद्विधानं यथा, --
“अमावस्यान्तु कन्यार्के तीर्थप्राप्तौ तथा नृप
कृत्वा श्राद्धं विधानेन दद्यात् षोडशपिण्डकम् ॥
वायुपुराणीयस्तत्प्रयोगो यथा । ऊनविंशति-
दास्यमानप्रिण्डस्थानानि यथादक्षिणं भाग-
चतुष्टयेन कृतानि तत्र दक्षिणाग्रान् कुशान्
आस्तीर्य्य ।
“अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
आवाहयिष्ये तान् सर्व्वान् दर्भपृष्ठे तिलोदकैः ॥
मातामहकुले ये च गतिर्येषां न विद्यते ।
आवाहयिष्ये तान् सर्व्वात् दर्भपृष्ठे तिलोदकैः
बन्धुवर्गकुले ये च गतिर्येयां न विद्यते ।
आवाहयिष्ये तान् सर्व्वान् दर्भपृष्ठे तिलोदकैः ॥”
इत्येतैस्तिलोदकैरावाह्य ।
“आब्रह्मस्तम्बपर्य्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम ।”
पृष्ठ ५/१९७
इत्येताभ्यां तिलोदकाञ्जलीन् दद्यात् । ततो मू-
लादितः पितृतीर्थेन पिण्डान् दद्यात् । तत्र क्रमः
“अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ १ ॥
मातामहकुले ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ २ ॥
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ३ ॥
अजातदन्ता ये केचित् ये च गर्भे प्रपीडिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४ ॥
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे ।
विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥ ५
दावदाहे मृता ये च मिंहव्याघ्रहताश्च ये ।
दष्ट्रिभिः शृङ्गिभिर्व्वापि तेभ्यः पिण्डं ददा-
म्यहम् ॥ ६ ॥
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये ।
आत्मापघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥ ७
अरण्ये वर्त्मनि वने क्षुधया तृषया हताः ।
भूतप्रतपिशाचाश्च तेभ्यः पिण्डं ददाम्यहम् ॥
वने जले ॥ ८ ॥
रौरवे चान्धतामिस्रे कालसूत्रे च ये स्थिताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ९ ॥
अनेकयातनासंस्थाः प्रेतलोके च ये गताः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ १० ॥
अनेकयातनासंस्था ये नीता यमकिङ्करैः ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ११ ॥
नरकेषु समस्तेषु यातनासु च ये स्थिताः ।
तेषामुद्धरणाथयि इमं पिण्डं ददाम्यहम् ॥ १२ ॥
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ।
अथवा वृक्षयोनिस्थास्तेभ्यः पिण्ड ददाम्य-
हम् ॥ १३ ॥
जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्म्मणा ।
मानुष्यं दुर्ल्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ १४
दिव्यन्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ।
मृता असंस्कृता ये च तेभ्यः पिण्डं ददाम्य-
हम् ॥ १५ ॥
ये केचित् प्रेतरूपेण वर्त्तन्ते पितरो मम ।
ते सर्व्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥ १६
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः ।
तेषां पिण्डो मया दत्तः अक्षय्यमुपतिष्ठताम् ॥ १७
पितृवंशे मृता ये च मातृवंशे च ये मृताः ।
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥
ये मे कुले लुप्तपिण्डाः पुत्तदारविवर्ज्जिताः ।
क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ॥
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ।
तेषां पिण्डो मया दत्तः अक्षय्यमुपतिष्ठताम् ॥ १८
आब्रह्मणो ये पितृवंशजाता
मातुस्तथा वंशभवा मदीयाः ।
कुलद्वये य मम दासभूता
भृत्यास्तयैवाश्रितसेवकाश्च ॥
मित्राणि सख्यः पशवश्च वृक्षा
दृष्टा ह्यदृष्टाश्च कृतोपकाराः ।
जन्मान्तरे ये मम दासभूता-
स्तेभ्यः स्वधा पिण्डमहं ददानि ॥ १९ ॥
अत्रोनविंशतिपिण्डे षोडशपिण्डत्वं पारिभाषिकं
पञ्चाम्रवत् । इति तिथ्यादितत्त्वम् ॥ * ॥ एतेषां
मन्त्राणां स्त्रीलिङ्गोहेन स्त्रीषोडशीत्वं भवति ॥ *
अथ मातृषोडशी ।
“गर्भादवगमे चैव विषमे भूमिवर्त्मनि ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
मासि मासि कृतं कष्टं वेदना प्रसवेषु च ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
शैथिल्ये प्रसवे चैव मातुरत्यन्तदुष्करम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पद्भ्यां जनयते मातुर्दुःखञ्चैव सुदुस्तरम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पद्भ्यामित्यत्र दद्भ्यामिति च पाठः ॥ ४ ॥
अग्निना शोषते देहं त्रिरात्रानशनेषु च ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पिबेच्च कटुद्रव्याणि क्लेशानि विविधानि च ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
दुर्ल्लभं भक्षद्रव्यस्य त्यागे विन्दति यत् फलम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
रात्रौ मूत्रपुरीषाभ्यां भिद्यते मातृकर्पटम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पुत्त्रं व्याधिसमायुक्तं मातृदुःखमहर्निशम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
यदा पुत्त्रो न लभते तदा मातुश्च शोचनम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
क्षुधयां विह्वले पुत्त्रे ददाति निर्भरं स्तनम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
दिवा रात्रौ यदा मातुः शोषणञ्च पुनः पुनः ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
पूर्णे तु दशमे मासि मातुरत्यन्तदुष्करम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
गात्रभङ्गो भवेन्मातुस्तृप्तिं नैव प्रयच्छति ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
अल्पाहारवती माता यावत् पुत्त्रोऽस्ति बालकः
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
यमद्वारे महाधीरे पथि मातुश्च शोचनम् ।
तस्या निष्क्रमणार्थाय मातृपिण्डं ददाम्यहम् ॥
इति गयायां प्रसिद्धिः ॥

षोडशोपचारः, पुं, (षोडशप्रकार उपचारः ।)

षोडशप्रकारपूजाद्रव्यम् । यथा, --
“आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्काचमनस्नानवसनाभरणानि च ॥
सुगन्धिसुसनोधूपदीपनैवेद्यवन्दनम् ।
प्रयोजयेदर्च्चनायां उपचारांस्तु षोडश ॥”
इति तन्त्रसारः ॥

षोढा, व्य, (षष् + धाच् । पृषोदरादित्वात् साधु ।

षट्प्रकारम् । यथा, --
“सप्रसङ्ग उपोद्धातो हेतुतावसरस्तथा ।
निर्व्वाहकैककार्य्यत्वे षोढा सङ्गतिरिष्यते ॥”
इत्यनुमितौ जागदीशी टीका ॥
संख्याया धाच्प्रकारे । इति सूत्रेण षष्शब्दात्
धाच्प्रत्ययेन निपातनान्निष्पन्नम् । इति मुग्ध-
बोधव्याकरणम् ॥

षोढान्यासः, पुं, (षोढा षड्धा न्यासः ।) विधिना

शरीरे मन्त्रविन्यासः । यथा । अथ षोढान्यासः ।
तदुक्तं वीरतन्त्रे ।
“केवलां मातृकां कृत्वा मातृकां तारसंपुटाम् ।
मातृकापुटितं तारं न्यसेत् साधकसत्तमः ॥ १ ॥
श्रीबीजपुटितां तान्तु मात्कापुटितन्तु तत् ॥ २
कामेन पुटितां देवीं तत्पुटं काममेव च ॥ ३ ॥
शक्त्या च पुटितां देवीं शक्तिञ्च तत्पुटां न्यसेत्
क्रीं द्वन्द्वञ्च पुनर्न्यस्त्वा ऋ-ॠ-ऌ-ॡञ्च पूर्ववत् ॥ ५
मूलेन पुटितां देवीं तत्पुटं मन्त्रमेव च ॥ ६ ॥
अनुलोमविलोमेन न्यस्त्वा मन्त्रं यथाविधि ।
मूलेनाष्टशतं कुर्य्यात् व्यापकं तदनन्तरम् ॥”
यथा, प्रणवपुटितां मातृकाम् । एवं मातृका-
पुटितं तारम् । एवं श्रीबीजपुटितां ताम् । तत्-
पुटितं श्रीबीजम् । एवं कामेन पुटितां मातृ-
काम् । मातृकापुटितं कामम् । एवं शक्त्या
पुटितां मातृकाम् । मातृकापुटितां शक्तिं
न्यसेत् । तथा क्रीं द्वन्द्वञ्च ऋ-ॠ-ऌ-ॡञ्च पूर्व-
वत् । तत्पुटितां मातृकां न्यसेत् । मातृकापुटि
तञ्च तत् । मन्त्रपुटितां मातृकाम् । तत्पुटितं
मन्त्रम् । पुनरनुलोमविलोमेन केवलं मातृका-
स्थाने न्यस्य मूलेनाष्टशतेन व्यापकं कुर्य्यात् ।
अयं न्यासस्ताराया अपि कार्य्यः ।
“इति गुप्तेन दुर्गाया अङ्गषोढा प्रकीर्त्तिता ।
तारायाः कालिकायाश्च उन्मुख्याश्च तथा-
परे ।
एतस्मिन् न्यासवर्य्ये च सर्व्वं पापं प्रणश्यति ॥”
इति तन्त्रसारः ॥

ष्टक, म प्रतीघाते । इति कविकल्पद्रुमः ॥ (भ्वा०

पर०-सक०-सेट् ।) म, तिष्टकयिषति । इति
दुर्गादासः ॥

ष्टग, म ए संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) म, तिष्टगयिषति । दन्त्य-
वर्गद्वितीयोपध इति केचित् । इति दुर्गा-
दासः ॥

ष्टन, मि शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) मि, स्तनयति स्तानयति
अतिष्टनत् । इति दुर्गादासः ॥

ष्टभ, इ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सक०-चसेट् ।) इ, स्तम्भ्यते । ङ,
स्तम्भते । तिष्टम्भयिषति । इकारस्य पुनरुक्तिः
पूर्व्वत्र तत्सम्बन्धनिषेधायैव ङितस्तुसर्वे । एक
एवेत् पाठबलात् वाध्य इति वत् । स्तम्भो जडी
भावः जडीकरणञ्च । स्तम्भौ स्थूणाजडीभावौ
इत्यमरोक्तेः । शीतेनावस्तब्धः जडीकृत इत्यर्थः ।
इति क्रमदीश्वरोक्तेश्च । स्तम्भ इह क्रिया
निरोधः । इति भीमः । दीषवृद्धिरिति गोविन्द
भट्टः । स्तम्भो रुद्धीकरणञ्च । स्तम्भते कबाटेन
द्वारं लोकः । इति दुर्गादासः ॥
पृष्ठ ५/१९८

ष्टम, वैक्लव्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) वैक्लव्यं विह्वलीभावः । स्तमति ।
अतिष्टमत् । इति दुर्गादासः ॥

ष्टम, त् क वैक्लव्ये । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-अक०-सेट् ।) मूर्द्धन्यादिः । षोप-
देशपाठो भ्वाद्यादीति दन्त्यत्वे कृतसकारादि-
त्वात् षत्वार्थः । तिष्टमयिषति । एवं सर्वत्र ।
इति दुर्गादासः ॥

ष्टिघ, न ङ आस्कदि । इति कविकल्पद्रुमः ॥

(स्वा०-आत्म०-सक०-सेट् ।) आस्कत् आस्क-
न्दनम् । अभियोग इति भट्टमल्लः । न ङ,
स्तिघ्नुते नदीं पान्थः । तिष्टिघे । इति दुर्गा-
दासः ॥

ष्टिप, ऋ ङ श्च्युति । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ऋ, अतिष्टेपत् । ङ,
स्तेपते तिष्टेपे । श्च्युति क्षरणे । इति दुर्गादासः ॥

ष्टिम, य क्लेदे । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-अक०-सेट् ।) य, स्तिम्यति तिष्टेम । क्लेदः
आर्द्रभावः । इति दुर्गादासः ॥

ष्टीम, य क्लेदे । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-अक०-सेट् ।) य, ष्टीम्यति तिष्टीम । क्लेद
आर्द्रभावः । इति दुर्गादासः ॥

ष्टु, ञ ल स्तुतौ । इति कविकल्पद्रुमः ॥ अदा०-

उभ०-सक०-अनिट् ।) मूर्द्धन्यादिः । ञ ल,
स्तौति स्तवीति स्तुते । इति दुर्गादासः ॥

ष्टुच, ङ प्रसादे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) मूर्द्धन्यादिस्तमध्यः ।
प्रसादः प्रसन्नीभावः । ङ, स्तोचते जनं तोष्टु-
च्यते । षस्याधो मूर्द्धन्यण इति केचित् । स्नोचते
मोस्नुच्यते । इति दुर्गादासः ॥

ष्टुभ, उ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०

आत्म०-अक०-सक० च-सेट् । क्त्वावेट् ।) उ,
स्तोभित्वा । स्तुब्ध्वा । ङ, स्तोभते तुष्टोभयि-
षति । स्तम्भो जडीभावः तत्करणञ्च । स्तम्भौ
स्थूणाजडीभावावित्यमरोक्तेः । शीतेनावस्तब्धो
जडीकृत इत्यर्थः । इति क्रमदीश्वरोक्तेश्च ।
“शास्त्रेण स्तोभते भूयो लघुप्रकृतिको नरः ।”
इति हलायुधः ।
स्तोभते वृषं शीतो वायुः । इति चतुर्भुजः ।
स्तम्भ इह क्रियानिरोधः । इति भीमः । दोष-
वृद्धिरिति गोविन्दभट्टः । इति दुर्गादासः ।

ष्टूप, क उच्छ्राये । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) षष्ठस्वरी । उच्छ्रायो
राशीकरणम् । क, स्तूपयति धान्यं कृषकः ।
तुष्टूपयिषति । इति दुर्गादासः ॥

ष्टूप, य इर् उच्छ्राये । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) षष्ठस्वरी । य,
स्तूप्यति । इर्, अस्तूपत् अस्तूपीत् । पुषादित्वा-
न्नित्यं ङ इत्यन्ये । अतुष्टूपत् । इति दुर्गादासः ॥

ष्टृक्ष, गमने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०

सक०-सेट् ।) सप्तमस्वरयुक्तः तमध्यः । स्तृक्षति
तरीष्टृक्ष्यते । इति दुर्गादासः ॥

ष्टृह, ऊ श वधे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-वेट् ।) मूर्द्धन्यादिः तमध्यः । ऊ,
अस्तर्हीत् । अस्तृक्षत् । श, स्तृहती स्तृहन्ती ।
तिष्टर्हयिषति । इति दुर्गादासः ॥

ष्टॄह, ऊ श वधे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-वेट् ।) मूर्द्धन्यादिः तमध्यः । अष्ट-
मस्वरी । ऊ, अस्तॄहीत् अस्तॄक्षत् । श स्तॄहती
स्तॄहन्ती । तिष्टॄहयिषति । इति दुर्गादासः ॥

ष्टेप, ऋ ङ श्च्युति । इतिकविकल्पद्रुमः ॥ (भ्वा०

आत्म०-अक०-सेट् ।) ॠ, अतिष्टेपत् । ङ,
स्तेपते तिष्टेपे । श्च्युति क्षरणे । इति दुर्गा-
दासः ॥

ष्ट्यूमः, पुं, चन्द्रः । दीप्तिः । इति केचित् ॥

ष्ट्यै, संहतौ । ध्वनौ । इतिकविकल्पद्रुमः ॥ (भ्वा०

पर०-अक०-अनिट् ।) अन्तःस्थाद्ययुक्तदन्त्य-
वर्गाद्यमध्यः षयोगात् टः । तेन तष्ट्यौ । तष्ट्या-
सति । ताष्ट्यायते । संहतिः समूहः । ष्ट्यायति
लोकः एकत्र समूहायते शब्दायते वा इत्यर्थः ॥
दन्त्यविधौ ष्ट्यैष्वक्कष्ठिवां वर्ज्जनान्न दन्त्यः । इति
दुर्गादासः ॥

ष्ठग, म ए संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा

पर०-अक०-सेट् ।) मूर्द्धन्यादिस्थमध्यः षयोगात्
ठः । म, तिष्ठगयिषति । ए, अस्थगीत् । दन्त्य-
वर्गप्रथममध्यः इति केचित् । तिष्ठगयिषति
अतिष्ठगत् । इति दुर्गादासः ॥

ष्ठल, ज स्थितौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ज, स्थालः स्थलः । स्थलति
लोकस्तिष्ठतीत्यर्थः । इति दुर्गादासः ॥

ष्ठा, ञि स्थाने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-अनिट् ।) ञि, स्थितोऽस्ति । स्थानं
गतिनिवृत्तिः । तिष्ठति साधुर्धर्मे । पृष्ठतस्तिष्ठ-
मान इति वीरचरिते प्रकाशार्थे आत्मनेपद-
विधानात् शानः । अथवा ताच्छील्ये शतुः
शानः । इति दुर्गादासः ॥

ष्ठिव, उ निरासे । इति कविकल्पद्रुमः ॥ (भ्वा०

पर०-सक०-सेट् । क्त्वावेट् ।) उ, ष्ठेवित्वा
ष्ठ्युत्वा । अस्य नेम् ङीश्वी इत्यादिना इमो
निषेधे निष्ठायां ष्ठ्यूत इति भेदः । निरास इह
फुत्कार इति भट्टमल्लः । मुखेन श्लेष्मादेर्वमन-
मिति केचित् । इति दुर्गादासः ॥

ष्ठिव, य निरासे । इति कविकल्पद्रुमः ॥ (दिवा०

पर०-सक०-सेट् ।) य, ष्ठीव्यति । इति दुर्गा-
दासः ॥

ष्ठीव, निरासे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०-

सक०-सेट् ।) ष्ठीवति । यं ह्रस्विनं मत्वा
ष्ठिवुक्लमाचमोऽपीति दीर्घिणं विदधामः स
एवायं ष्ठीविष्यति इत्यादिसाधनाय दीर्घो
पठ्यते । तेन ह्रस्विनो ग्रहणेनास्मिन् गृहीते
भ्वाद्यादि ष्णः स्न इत्यादिना मूर्द्धन्यषस्य दन्त्य-
सो न स्यात् एवं ष्ठिवजाद्योः खेरित्यादिना खेष्ठ-
कारस्य तकारे तिष्ठीव टिष्ठीवैत्यपि स्यात् ।
यत्तु सत्यप्यस्मिन्ननटि ष्ठीवनमिति निपातनं
तदस्य सर्वसम्मतत्वाभावात् । निरास इह फुत-
कार इति भट्टमल्लः । मुखेन श्लेष्मादेर्वमन-
मिति केचित् । ष्ठीवत्यन्नं लोकः । ष्ठीवासि
शुष्केक्षुलतास्थिकल्पम् । इति दुर्गादासः ॥

ष्णस, य ऌ उ मि निवासे । इति कविकल्पद्रुमः ।

(दिवा०-पर०-अक०-सेट् । क्त्वावेट् ।) मूर्द्ध-
न्यादिर्दन्त्यनकारयुक्तः । ष, स्नस्यति । ऌ,
अस्नसत् । उ, स्नसिता स्नुस्त्वा । मि, स्नसयति
स्नासयति । इति दुर्गादासः ॥

ष्णा, ल शोधने । इति कविकल्पद्रुमः ॥ (अदा०

पर०-अक०-अनिट् ।) मूर्द्धन्यादिरयम् ।
दन्त्यादिरयमिति कश्चित् । ल, स्नाति गङ्गायां
धीरः । अनुपसर्गस्य ञौ ज्वलह्वलेत्यादिना
ह्रस्वो वा स्नपयति स्नापयति । सोपसर्गस्य तु
प्रस्नापयति । इति दुर्गादासः ॥

ष्णिह, ऊ य ऌ ञि प्रीतौ । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-वेट् ।) ऊ, स्नेहिष्यति
स्नेक्ष्यति । य, स्निह्यति बन्धुः । ऌ, अस्नि-
हत् । ञि, स्निग्धः स्नीढोऽस्ति । इति दुर्गा-
दासः ॥

ष्णिह, क स्रेहने । इति कविकल्पद्रुमः ॥ (चुरा०

पर-अक०-सेट् ।) स्नेहनं स्निग्धीभावः । क,
स्नेहयति वर्त्तिका तैलेन । इति दुर्गादासः ॥

ष्णु, ञ ल स्तुतौ । इति कविकल्पद्रुमः ॥ (अदा०

उभ०-सक०-अनिट् ।) ञ ल, स्तौति स्तवीति
स्तुते । इति दुर्गादासः ॥

ष्णुच, ङ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् । स्नोचते सुष्णुचे । इति
दुर्गादासः ॥

ष्णुम, य भक्षे । इति कविकल्पद्रुमः ॥ (दिवा०

पर०-सक०-सेट् ।) दन्त्यनकारयुक्तः । य,
स्नुम्यति सुष्णोम । इति दुर्गादासः ॥

ष्णुह, य ऊ ऌ उद्गारे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-वेट् ।) दन्त्यनकारयुक्तः ।
उद्गारो वान्तिः । य, स्नुह्यत्यन्नं लोकः । ऊ,
स्नोहिष्यति स्नोक्ष्यति । ऌ, अस्नुहत् । इति
दुर्गादासः ॥

ष्णै, वेष्टे । इति कविकल्पद्रुमः (भ्वा०-पर०-सक०

अनिट् ।) प्रकृत्या दन्त्यवर्गशेषोपधः । स्नायति
वृक्षं लता । अनुपसर्गस्य ञौ ज्वलह्वलेत्यादिना
ह्रस्वो वा । स्नपयति स्नापवति । सोपसर्गस्य
तु प्रस्नापयति । इति दुर्गादासः ॥

ष्मि, ङ स्मिते । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-अनिट् । स्मितमीषद्धास्यम् ।
ङ, स्मयते बधूः । विस्मापयते । इति दुर्गा-
दासः ॥

ष्वक्क, ङ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक-सेट् ।) वकारयुक्तादिः कोपधः ।
ङ, ष्वक्कते षिष्वक्किषते षाष्वक्क्यते । दन्त्य-
विधावस्य वर्ज्जनान्न दन्त्यः । चन्द्रोदयस्तु इमं
पञ्चमस्वरिणं मत्वा षुक्कते षुषुक्किषते षोषुक्क्यते
इत्याह ॥ इति दुर्गादासः ॥
पृष्ठ ५/१९९

ष्वद, क स्वादे । छेदे । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) स्वादो रसो-
पादानम् । क, स्वादयति क्षीरं लोकः । इति
दुर्गादासः ॥

ष्वद, ङ प्रीतिलिहोः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) प्रीतिः प्रीती-
करणम् । लिट् रसोपादानम् । ङ, अपां हि
तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते
तुषारा । इति श्रीहर्षः । इति दुर्गादासः ॥

ष्वन्ज, औ ञि ङ आलिङ्गे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-अनिट् ।) वकारयुक्तादिः ।
आलिङ्ग आलिङ्गनम् । औ, स्वङ्क्ता । ञि,
स्वक्तोऽस्ति । ङ, स्वजते युवतीं युवा । परि-
ष्वजति पाञ्चाली मध्यमं पाण्डुनन्दनमिति
गणकृतानित्यत्वात् । इति दुर्गादासः ॥

ष्वप, औ घ लु ञि शये । इति कविकल्पद्रुमः ॥

(अदा०-पर-अक०-अनिट् ।) वकारयुक्त-
मूर्द्धन्यादिः । औ, अस्वाप्सीत् । घ लु, स्वपिति ।
ञि, सुप्तोऽस्ति । शयः शयनम् । इति दुर्गादासः ॥

ष्वर्त्त, क गत्याम् । तङ्के । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-तङ्के अक०-सेट् ।) वकार-
युक्तमूर्द्धन्यादिः । तङ्को दुःखेन जीवनम् । क,
स्वर्त्तयति जनो गच्छति दुःखेन जीवति
वेत्यर्थः । असिष्वर्त्तत् । इति दुर्गादासः ॥

ष्विद, ऌ औ य आ ञि स्विदि । इति कविकल्प-

द्रुमः ॥ (दिवा०-पर०-अक०-अनिट् ।) ऌ,
अस्विदत् । औ, स्वेत्ता । य, स्विद्यति । आ,
स्वेदितं स्विन्नं तेन । ञि, स्विन्नोऽस्ति । स्विदीति
मोहस्नेहमोक्षेष्विति वोपदेवः । गात्रप्रक्षरणे
इति प्राञ्चः । न च स्विद्यति तस्याङ्गमिति
हलायुधः ॥ इति दुर्गादासः ॥

ष्विद, ञि आ ङ ऌ मोहस्नेहमोक्षेषु । इति कवि-

कल्पद्रुमः । (भ्वा०-आत्म०-अक०-सेट् ।) ञि,
स्विन्नोऽस्ति ॥ आ, स्वेदितं स्विन्नं तेन । ङ,
स्वेदते तिलः तैलं मुञ्चति इत्यर्थः । ऌ, अस्वि-
दत् स्नेहः स्निग्धीभावः । इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ष&oldid=44096" इत्यस्माद् प्रतिप्राप्तम्