सामग्री पर जाएँ

शब्दकल्पद्रुमः/श्रु

विकिस्रोतः तः
पृष्ठ ५/१७०

श्रु, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-अनिट् ।) श्रवति । रेफरहितोऽप्यय-
मिति केचित् । शवति । इति दुर्गादासः ॥

श्रु, न गतौ । श्रुतौ । इति कविकल्पद्रुमः ॥

(स्वा०-पर०-सक०-अनिट् । न, शृणोति ।
रक्षांसीति पुरापि संशृणुमहे । इति मुरारौ
व्यतीहारादात्मनेपदम् । संशृणुष्व मयाख्या-
तम् । इति गणकृतानित्यत्वात् । आख्यात-
शब्दस्य क्रियाविशेषणतयाकर्म्मकत्वे समो
गमृच्छेत्यादिना म वा । इति दुर्गादासः ॥

श्रुग्वारुः, पुं, विकङ्कतवृक्षः । इति रत्नमाला ॥

श्रुघ्निका, स्त्री, सर्ज्जिकाक्षारः । इति रत्नमाला ॥

श्रुतं, क्ली, (श्रुयते स्म यदिति । श्रु + क्तः ।) शास्त्रम् ।

इत्यमरः ॥ (यथा, रघुः । २ । २१ ।
“श्रुतस्य यायादयमन्तमर्भक-
स्तथा परेषां युधि चेति पार्थिवः ।
अवेक्ष्य धातोर्गमनार्थमर्थवित्
चकार नाम्ना रघुमात्मसम्भवम् ॥”)
श्रवणगोचरः । इति शब्दरत्नावली ॥ (यथा,
माण्डूक्योपनिषदि । ३ । २ । ३ ।
“नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुधा श्रुतेन ॥”
पुं, कालिन्दीगर्भजातः कृष्णस्य पुत्त्रविशेषः ।
यथा, भागवते । १० । ६१ । १४ ।
“श्रुतः कविर्वृषो वीरः मुबाहुर्भद्र एकलः ।
शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमको-
ऽवरः ॥”)

श्रुतः, त्रि, (श्रु + क्तः ।) अवधृतः । इत्यमरः ॥ आक-

र्णितः । इति मेदिनी ॥ (यथा, रघुः । १ । ७८ ।
“स शापो न त्वया राजन् न च सारथिना
श्रुतः ॥”)

श्रुतकीर्त्तिः, स्त्री, (श्रुता कीर्त्तिर्यस्याः ।) जनक-

भ्रातृकुशध्वजराजकन्या । सा शत्रुघ्नपत्नी । यथा
“शत्रुघ्नञ्चापि धर्म्मात्मा अब्रवीन्मिथिलेश्वरः ।
श्रुतकीर्त्तेर्महाबाहो पाणिं गृह्णीष्व पाणिना ॥”
इति वाल्मीकीये रामायणे बालकाण्डे ७३ सर्गः ॥
अपि च ।
“एवं भवत् भद्रं ते कुशध्वजसुते इमे ।
पत्न्यौ भजेतां सहितौ शत्रु घ्नभरतावुभौ ॥
इति तत्रैव ७२ सर्गः ॥
देवर्षौ, पुं, । (द्रौपदीगर्भजाते अर्ज्जुनस्य पुत्त्रे च
पुं । यथा, महाभारते । १ । ६३ । १२० ।
“अर्ज्जुनात् श्रुतकीर्त्तिश्च शतानीकश्च
नाकुलिः ॥”)
कीर्त्तियुक्ते, त्रि । इति केचित् ॥

श्रुतदेवी, स्त्री, (त्रुतस्य शास्त्रस्व देवी ।) सर-

स्वती । इति हेमचन्द्रः ॥

श्रुतबोधः, पुं, (श्रुतस्य बोधो यस्मात् । श्रुतमात्रं

बोधयतीति वा । बुध + णिच् + अच् ।) कालि-
दासकृतच्छन्दोग्रन्थविशेषः । यथा, --
छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ।
तदहं कथयिष्यामि श्रुतबोधमविस्तरम् ॥”
इति तद्ग्रन्थस्याद्यश्लोकः ॥

श्रुतर्षिः, पुं, (श्रुतप्रधान ऋषिः ।) ऋषिविशेषः ।

सतु सुश्रुतादिः । इति त्रिकाण्डशेषः । यथा, --
“संहिता ऋग्यजुःसाम्नां सहितास्तैः श्रुत-
र्षिभिः ।
सामान्याद्वै कृताश्चैव दृश्यन्ते द्वापरे त्विह ॥”
इति मात्स्ये १२० अध्यायः ॥

श्रुतश्रवोऽनुजः, पुं, (श्रुतश्रवसोऽनुजः ।) शनैश्चर-

ग्रहः । इति हारावली ॥

श्रुतश्रोणी, स्त्री, द्रवन्ती । इति भावप्रकाशः ॥

श्रुतादानं, क्ली, (श्रुतस्यादानम् ।) ब्रह्मयादः ।

इति हारावली ॥

श्रुताध्ययनसम्पन्नः, त्रि, (श्रुतस्य शास्त्रस्य अध्य-

यने सम्पन्नः युक्तः ।) धर्म्मशास्त्रज्ञः । यथा,
याज्ञवल्क्यः ।
श्रुताध्यायनसम्पन्नाः कुलीनाः सत्यवादिनः ।
राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च ये
समाः ॥”
इति व्यवहारतत्त्वम् ॥

श्रुतान्वितः, त्रि, (श्रुतेन श्रुशास्त्रेण अन्वितः ।)

शास्त्रज्ञः । यथा, --
“अभून्नृपो विबुधसखः परन्तपः
श्रुतान्नितो दशरथ इत्युदाहृतः ।
गुणैर्व्वरं भुवनहितच्छलेन यं
सनातनः पितरमुपागमत् स्वयम् ॥”
इति भट्टिः । १ । १ ॥

श्रुतार्थः, पुं, (श्रुतोऽर्थः ।) शाब्दबोधविषयी-

भूतार्थः । श्रवणमात्रबोध्योऽर्थः । यथा, --
“श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् ।
प्राप्तस्य वाधादित्येवं परिसङ्ख्या त्रिदोषिका ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(त्रि, श्रुतोऽर्थो येन सः । यथा, हरिवंशे ।
११५ । २७ ।
“श्रुतार्थो देव गुह्यस्य भवान् यत्र वयं
स्थिताः ॥”)

श्रुतायुः, पुं, सूर्य्यवंशीयराजविशेषः । स तु कुशस्य

चतुर्द्दशपुरुषः । यथा, --
“नाभागस्याम्बरीषोऽभूत् सिन्धुद्वीपस्ततोऽभवत्
ततः श्रुतायुः पुत्त्रोऽभूत ऋतुपालस्ततोऽभवत् ॥”
इति मात्स्ये १३ अध्यायः ॥

श्रुतिः, स्त्री, (श्रूयतेऽनयेति । श्रु + “श्रुयजिस्तुभ्यः

करणे ।” ३ । ३ । ९४ । इत्यस्य वार्त्तिकोक्त्या
करणे ।” क्तिन् ।) वेदः । (यथा, मनुः । २ । १० ।
“श्रुतिस्तु वेदो विज्ञेयो धर्म्मशास्त्रन्तु वै स्मृतिः ॥”)
कर्णः । इत्यमरः ॥ (यथा, भागवते । ९ । ४ । १८ ।
“करौ हरेर्मन्दिरमार्ज्जनादिषु
श्रुतिं चकाराच्यु तसत्कथोदये ॥”)
गर्भस्थस्य पञ्चमासैः श्रुतिर्भवति । इति सुख-
बोधः ॥ श्रुतोन्द्रियग्राह्यः शब्दः शब्दत्वादिः ।
यथा, --
“घ्राणस्य नोचरो गन्धो गन्धत्वादिरपि स्मृतः ।
तथा रसो रसज्ञायास्तथा शब्दोऽपि च
श्रुतेः ॥”
इति भाषापरिच्छेद ॥
कर्णस्य शुभाशुभलक्षणमाह ।
“रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः ।
निर्म्मांसैश्चिपिटैर्भोगाः कृपणा ह्रस्वकर्णका ।
शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः ।
बृहत्कर्णाश्च राजानो धनिनः परिकीर्त्तिताः ॥”
इति गारुडे ६६ अध्यायः ॥
(श्रु + भावे क्तिन् ।) श्रोत्रकर्म्म । (यथा, भाग-
वते । ९ । ५ । १६ ।
“यन्नामश्रुतिमात्रेण पुमान् भवति निर्म्मलः
तस्य तीर्थपदः किंवा दासानामवशिष्यते ॥”)
वार्त्ता । इति मेदिनी ॥ (यथा, रघुः । १ । २७ ।
“व्यावृत्ता यत्परस्वे भ्यः श्रुतौ तस्करता
स्थिता ॥”)
श्रवणानक्षत्रम् । इति शब्दरत्नावली ॥ षड्-
जाद्यारम्भिका । इति हेमचन्द्रः ॥ शोरत् इति
भाषा । (यथा, शिशुपालवधे । १ । १० ।
“रणद्भिराघट्टनया नभस्वतः
पृथक्विभिन्नश्रुतिमण्डलैः स्वरैः ॥)
सा च द्वाविंशतिप्रकारा यथा, --
“नान्दी चालनिका रसा च सुमुखी चित्रा
विचित्रा घना
मातङ्गी सरसामृता मधुकरी मैत्री शिवा
माधवी ।
बाला शार्ङ्गरवी कला कलरवा माला विशाला
जया
मात्रेति श्रुतयः पुराणकविभिर्द्वाविंशतिः
कीर्त्तिताः ॥
नान्दी-विशाला-सुमुखी-विचित्रासम्भवः सदा ।
षड्जो मतो मुनीन्द्रेण भरतेन शिवेन च ॥
चित्रा घना चालनिका निवेशात्
संजायतेऽसौ ऋषभस्तथैव ।
स्वरोऽपि माला सरसानिवेशात्
गान्धारनामा प्रथितः पृथिव्याम् ॥
मातङ्गी माधवी मैत्री शिवाजातस्तु पञ्चमः ।
कला कलरवा बाला शार्ङ्गरव्यास्तु पञ्चमः ॥
जायामृतारसानान्तु संयोगाद्धैवतस्वरः ।
मात्रा मधुकरी योगात् निषादः संप्रजायते ॥
श्रुतिस्थाने स्वरान् वक्तुं नालं ब्रह्मापि तत्त्वतः
जले च सुतरां मार्गो मीनानां नोपलक्ष्यते ॥
गगने पक्षिणां यद्वत् तद्वत् स्वरगता श्रुतिः ।
श्रुतिर्नादवशा प्रोक्ता तथाढ्या च कला
मता ।
यथा तैलगतं सर्पिर्यथा काष्ठगतोऽनलः ।
ज्ञायतेऽत्रोपदेशेन यथा स्वरगता श्रुतिः ॥
वीणादेस्तु श्रुतिज्ञानं स्वरज्ञानन्तु वंशजम् ।
अश्विनौ वसवो रुद्राः सहैणाङ्केन शुश्रुवुः ।
प्रशशंसुर्हरेर्नादमतो द्वाविंशतिः श्रुतिः ॥”
इति सङ्गीतदामोदरः ।
पृष्ठ ५/१७१
अन्यच्च ।
“तीव्राकुमुद्वतीमन्दाछन्दोवत्यस्तु षड्जगाः ।
दयावती रञ्जनी च रतिका ऋषभे स्थिताः ॥
रीद्री क्रोधा च गान्धारे वज्जिकाथ प्रसा-
रिणी ।
प्रोतिश्च मार्ज्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥
क्षिती रक्ता च सन्दीपन्यालापिन्यपि पञ्चमे ।
मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः ।
उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥”
इति सङ्गीतरत्नाकरः ॥

श्रुतिकटः, पुं, (श्रुतिं कटतीति । कट् + अच् ।)

प्राञ्चल्लोहः । अहिः । पापशोधनम् । इति
मेदिनी ॥

श्रुतिकटुः, पुं, (श्रुतौ कटुः ।) कठोरशब्दः ।

अलङ्कारस्य दोषविशेषः । यथा, --
“श्रुतिकटुश्च्यतसंस्कृतिरक्रमोक्त्यनृचिताकवि-
जुष्टविमन्धिकाः ।” उदाहरणम् ।
“वाचा मधुरया तन्वि स्मितापाङ्गतरङ्गया ।
मनाग्वदनमुत्तोल्य कार्त्तार्थ्यं कुरु मादृशाम् ॥”
इति काव्यचन्द्रिका ॥

श्रुतिकथितः, त्रि, (श्रुतौ कथितः ।) श्रुत्युक्तः ।

वेदोक्तः । इति लोकप्रसिद्धिः ॥

श्रुतिजीविका, स्त्री, (श्रुतिरेव जीविका यस्याः ।)

धर्म्मशास्त्रम् । यथा, --
“स्मृतिर्धर्म्मसंहिता च संहिता श्रुतिजीविका ।”
इति शब्दरत्नावली ॥
वेदजीवनोपायश्च ॥

श्रुतितत्परः, त्रि, (श्रुतौ तत्परः ।) सकर्णः । इति

जटाधरः ॥ वेदाभ्यासरतश्च ॥

श्रुतिधरः, त्रि, (श्रुत्या श्रवणमात्रेण धरतीति ।

धृ + अच् । श्रुतिमात्रधारकः । श्रवणमात्रे-
णाभ्यासकर्त्ता । (यथा, गीतगोविन्दे । १ । ४ ।
“स्पर्द्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविः
क्ष्मापतिः ॥”)
तदौषधं यथा, --
हरिरुवाच ।
“हस्तिकर्णस्य वै मूलं गृहीत्वा चूर्णयेद्धर ।
सर्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव ॥
सक्षीरं भक्षितं कुर्य्यात् सप्ताहेन वृषध्वज ।
नरं श्रुतिधरं शूरं मृगेन्द्रगतिविक्रमम् ॥
पद्मगौरप्रतीकाशं युक्तं दशशतायुषा ।
षोडशाब्दाकृतिं विप्र सततं दुग्धभोजितम् ॥
मधुसर्पिःसमायुक्तं जग्धमायुष्करं भवेत् ।
तज्जग्धं मधुना सार्द्धं दशवर्षसहस्रिणम् ।
कुर्य्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम् ॥”
इति गारुडे १९१ अध्यायः ॥

श्रुतिवर्ज्जितः, त्रि, (श्रुत्या वर्जितः ।) वधिरः ।

इति जटाधरः ॥ वेदरहितश्च ॥

श्रुतिवेधः, पुं, (श्रुतेः कर्णस्य वेधो यत्र ।) कर्ण-

वेधः । तस्य विहितकालो यथा दीपिकायाम् ।
“नो जन्मेन्दुममाससूर्य्यरविजक्ष्माजाहसुप्ताच्युते
शस्तेऽर्के लघुयुग्मविष्णुमृदुभे स्वात्युत्तरादित्यभे
सौम्यैस्त्र्यायत्रिकोणकण्टकगतैः पापैस्त्रिलाभा-
रिगै-
रोजोऽब्दे श्रुतिवेध इत्यसितभे लग्ने तु काले
शुभे ॥”
इति ज्योतिस्तत्त्वम् ॥
अन्यच्च । तत्र तिथयः रिक्ताभिन्नाः प्रशस्ताः ।
वाराः बृहस्पतिबुधशुक्राणां प्रशस्ताः । नक्ष-
त्राणि अश्विनी रेवती हस्ता चित्रा पुनर्व्वसु-
धनिष्ठा मृगशिरः पुष्यः श्रवणानुराधा उत्तर-
फल्गुनी उत्तराषाढा उत्तरभाद्रपत्स्वाती ।
लग्नानि वृषतुलाधनुर्मीनसंज्ञकानि । अयुग्म-
वर्षे । जन्ममासचैत्रपौषाग्रहायणभिन्नमासाः
प्रशस्ताः । शुक्लपक्षे चन्द्रतारादिशुद्धौ हरि-
शयनभिन्नकाले कालशुद्धौ श्रुतिवेधः कार्य्यः ।
इति ज्योतिषम् ॥

श्रुतिस्फोटा, स्त्री, (श्रुतिं स्फोटयतीति । स्फुट् +

अच् । टाप् ।) कर्णस्फोटा लता । इति राज-
निर्घण्टः ॥

श्रुवः, पुं, (श्रु + कः ।) यागः । इति जटाधरः ॥

स्रुवे, क्ली । इति केचित् ॥

श्रुवा, स्त्री, मूर्व्वा । इति राजनिर्घण्टः ॥

श्रुवावृक्षः, पुं, विकङ्कतवृक्षः । इति राजनिर्घण्टः

श्रेढी, स्त्री, अङ्कविशेषः । भिन्नं भिन्नं यत्किञ्चिद्-

द्रव्यादिकमेकीक्रियते तद्गणनायाः श्रेढ्या मिश्र
प्रायत्वात्तद्गणनानन्तरमारब्धः श्रेढीव्यवहारः ।
इति मुनीश्वरगणककृतलीलावतीटीका ॥ अ-
स्याद्यसूत्रं यथा । अथ श्रेढीव्यवहारे करण-
सूत्रम् ।
“सैकपदघ्नपदार्द्ध मथैका
द्यङ्कयुतिः किल संकलिताख्या ।
सा द्वियुतेन पदेन विनिघ्नी
स्यात् त्रिहृता किल संकलितैक्यम् ॥”
उदाहरणम् ।
“एकादीनां नवान्तानां पृथक् संकलितानि मे
तेषां संकलितैक्यञ्च प्रचक्ष्व गणक द्रुतम् ॥”
न्यासः । १ । २ । ३ । ४ । ५ । ६ । ७ । ८ । ९ ।
लब्धान्ये तेषां संकलितानि । १ । ३ । ६ । १० ।
१५ । २१ । २८ । ३६ । ४५ । अथ तेषां संक-
लितैक्यानि । १ । ४ । १० । २० । ३५ । ५६ ।
८४ । १२० । १६५ । तस्य शेषसूत्रं यथा ।
करणसूत्रं सार्द्धमार्य्या ।
“पादाक्षरमिते गच्छे गुणवर्गफलञ्चये द्विगुणे ।
समवृत्तानां संख्या तद्वर्गो वर्गवर्गश्च । स्वस्व-
पदोनौ स्यातां अर्द्धसमानाञ्च विषमाणाम् ॥”
उदाहरणम् ।
“समानामर्द्धतुल्यानां विषमाणां पृथक् पृथक् ।
वृत्तानां वद मे संख्यामनुष्टु प्छन्दसां द्रुतम् ॥”
न्यासः उत्तरो द्वि २ गुणः गच्छः ८ लब्धा सम-
वृत्तानां संख्या २५६ । तथार्द्ध समानञ्च ६५२८०
विषमाणाञ्च ४२९४९०१७६० । इति लीलावती ॥

श्रेणिः, पुं, स्त्री, (श्रयति श्रीयते वा । श्रि +

“वर्हिश्रिश्रुयुद्विति ।” उणा० ४ । ५१ । इति
णिः ।) निश्छिद्रपंक्तिः । तत्पर्य्यायः । पंक्तिः २
श्रेणी ३ विञ्जोली ४ वीथी ५ आलिः ६
पालिः ७ आवलिः ८ आली ९ पाली १०
आवली ११ वीथिः १२ वीथिका १३ राजी १४
राजिः १५ रेखा १६ लेखा १७ । इति शब्द-
रत्नावली ॥ (यथा, कुमारे । ५ । ९ ।
“न षट्पदश्रेणिभिरेव पङ्कजं
सशैवलासङ्गमपि प्रकाशते ॥”)
समानशिल्पिसंहतिः । इति मेदिनी ॥ कोम्पानि
इति इङ्गरेजीयभाषा ॥ सेकपात्रम् । इति
विश्वः ॥

श्रेणिकः, पुं, मगधदेशीयराजविशेषः । इति

हेमचन्द्रः ॥

श्रेणी, स्त्री, (श्रेणि + कृदिकारादिति ङीष् ।)

श्रेणिः । इति शब्दरत्नावली ॥ (यथा, रघुः ।
१ । ४१ ।
“श्रेणीबन्धात् वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
सारसैः कलनिर्ह्रादैः कचिदुन्नमिताननौ ॥”

श्रेयः, [स] क्ली, (इदमनयोरतिशयेन प्रशस्यम् ।

प्रशस्य + ईयसुन् । “प्रशस्यस्य श्रः ।” ५ । ३ ।
६० । इति श्रः ।) धर्म्मम् । मुक्तिः । इत्यमरः ॥
(चतुर्व्वर्ग एव श्रेयः । यथा, मनुः । २ । २२४ ।
“धर्म्मार्थावुच्यते श्रेयः कामार्थो धर्म्म एव च ॥
अर्थ एवेह वाश्रेयस्त्रिवर्ग इति तु स्थितिः ॥”
“धर्म्मार्थकामात्मकः परप्सराविरुद्धस्त्रिवर्ग एव
पुरुषार्थतया श्रेय इति विनिश्चयः । एवञ्च
बुभुक्षून् प्रत्युपदेशो न मुमुक्षून् । मुमुक्षूणान्तु
मोक्ष एव श्रेयः इति षष्ठे वक्ष्यते ।” इति
तट्टीकायां कुल्लूकः ॥) शुभम् । इति मेदिनी ॥
(यथा, रघुः । १ । ७९ ।
“प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥”)

श्रेयसी, स्त्री, (इयमनयोरतिशयेन प्रशस्या ।

प्रशस्य + इयसुन् । प्रशस्यस्य श्रः । उगित्वात्
ङीप् ।) हरीतकी । पाठा । करिपिप्पली ।
इत्यमरः ॥ रास्ना । इति विश्वः ॥ शुभयुक्ता च ॥

श्रेयांसः, पुं, वृत्तार्हद्विशेषः । इति हेमचन्द्रः ॥

श्रेयान्, [स] त्रि, (अयमनयोरतिशयेन प्रशस्यः ।

प्रशस्य + इयसुन् । “प्रशस्यस्य श्रः ।” ५ । ३ । ६० ।
इति श्रः ।) श्रेष्ठः । इत्यमरः ॥ (यथा, मनुः ।
१० । ११२ ।
“प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥”
शुभयुक्तञ्च ॥

श्रेष्ठं, क्ली, (अयमेषामतिशयेन प्रशस्यः ।

प्रशस्य + इष्ठन् । प्रशस्यस्य श्रः ५ । ३ । ६० ।
इति श्रः ।) गोदुग्धम् । इति त्रिकाण्डशेषः ॥

श्रेष्ठः, पुं, (प्रशस्य + इष्ठन् ।) कुबेरः । नृपः ।

द्विजः । इति शब्दरत्नावली ॥ विष्णुः । इति
तस्य सहस्रनामस्तोत्रम् ॥ (महादेवः । यथा,
महाभारते तस्य सहस्रनामस्तोत्रे । १३ । १७ । ४० ।
“विश्वरूपः स्वयं श्रेष्ठो वलवीरो बलो गणः ॥”)

श्रेष्ठः, त्रि, (प्रशस्य + इष्ठन् ।) प्रशस्तः । वरः ।

(यथा, रामायणे । २ । १ । २० ।
पृष्ठ ५/१७२
“इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥”)
तत्पर्य्यायः । श्रेयान् २ पुष्कलः ३ सत्तमः ४
अतिशोभनः ५ । इत्यमरः ॥ मुख्यः ६ वरेण्यः ७
प्रमुखः ८ अग्रः ९ अग्रहरः १० उत्तमः ११
प्रग्रहः १२ अनुत्तमः १३ अग्रीयः १४ प्रवेकः १५
अग्र्यः १६ अग्रियः १७ । इति शब्दरत्नावली ॥
अनवरः १८ अग्रिमः १९ प्राग्रः २० प्राग्रहरः २१
प्रवर्हः २२ । इति जटाधरः ॥ वृद्धः । ज्येष्ठः ।
इति शब्दरत्नावली ॥

श्रेष्ठकाष्ठः, पुं, श्रेष्ठं काष्ठमस्य ।) शाकवृक्षः ।

इति राजनिर्घण्टः ॥
श्रेष्ठा, स्त्री, (इयमासामतिशयेन प्रशस्या । इष्ठन् ।
टाप् ।) स्थलपद्मिनी । इति राजनिर्घण्टः ॥
मेदा । इति केचित् ॥ उत्तमा नारी च ॥

श्रेष्ठाम्लं, क्ली, (श्रेष्ठं अस्तम् ।) वृक्षास्लम् । इति

राजनिर्घण्टः ॥

श्रेष्ठाश्रमः, पुं, (श्रेष्ठ आश्रमः ।) गृहस्थाश्रमः ।

आश्रमत्रयाणां पालकत्वात् ॥

श्रेष्ठी, [न्] पुं, (श्रेष्ठं धनादिकमस्त्यस्येति । इनिः ।)

कुलोत्तमशिल्पी । यथा, --
“कुलीकस्तु कुलीश्रेष्ठी कुलश्रेष्ठिनि शिल्पि-
नाम् ॥”
इति जटाधरः ॥
(यथा, बृहत्संहितायाम् । २९ । १० ।
“श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः
कुमुदैः ॥”)

श्रै, स्वेदे । इति कविकल्पद्रुमः ॥ (म्वा०-पर०-

अक०-अनिट् ।) श्रायति रौद्राल्लोकः । इति
दुर्गादासः ॥

श्रै म पचने । इति कल्पद्रुमः ॥ भ्वा०-पर०-

सक०-अनिट् ।) म, श्रपयति । इति दुर्गा-
दासः ॥

श्रोण, ऋ संघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ अशुश्रोणत् । संघातो
राशीकरणम् । इति दुर्गादासः ॥

श्रोणः, पुं, (श्रोणतीति । श्रोण संघाते + अच् ।

यद्वा शृणोतीति । श्रु श्रवणे बाहुलकात् नः ।
इत्युणादिटीकायां उज्ज्वलदत्तः । ३ । ६ ।) पङ्गः ।
इत्यमरः ॥

श्रोणा, स्त्री, (श्रोणसंघाते + अच् ।) श्रवणा-

नक्षत्रम् । (यथा, भागवते । ८ । १८ । ५ ।
“श्रोणायां श्रवणद्वादश्यां मुहूर्त्तेऽभिजिति प्रभुः
सर्व्वे नक्षत्रताराद्याश्चक्रु स्तज्जन्मदक्षिणम् ॥”)
काञ्जिकम् । पक्वे, त्रि । इति केचित् ॥

श्रोणिः, स्त्री, (श्रोण मंघाते + इन् । यद्वा, श्रु-

श्रवणे + “वहिश्रिश्रुष्विति ।” उणा० ४ । ५१ ।
इति निः ।) कटिः । इत्यमरः ॥ (यथा, बृहत्-
मंहितायाम् । ५६ । ७ ।
“फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिमण्डलाः ।
पुलिनाभ्यु न्नतोरस्या हंसहासाश्च निम्नगाः ॥”)
सा तु गर्भस्थस्य मासद्वयेन भवति । इति सुख-
बोधः ॥ पन्थाः । इति शब्दरत्नावली ॥

श्रोणिफलं, क्ली, (श्रोणिः फलं फलकमिव ।) कटिः

इति राजनिर्घण्टः ॥

श्रोणिफलकं, क्ली, (श्रोणिफल + स्वार्थे कन् ।)

कटिपार्श्वः । तत्पर्य्यायः । कटः २ । इत्य-
मरः ॥ फलकं चर्म्म तदाकारत्वात् श्रोणिः
फलकमिव श्रोणिफलकम् । कट्यते आव्रियते
कटः कटे वर्षावरणयोः अल् । कटिः । इति
केचित् । इति भरतः

श्रोणिबिम्बं, क्ली, कटिसूत्रम् । इति धनञ्जयः ॥

श्रोणिसूत्रं, क्ली, (श्रोणिस्थितं सूत्रम ।) खङ्ग-

बन्धनसूत्रम् । परतला इति हिन्दीभाषा ॥
कटिबन्धनसूत्रम् । इति केचित् ॥ घुन्शी इति
भाषा ॥

श्रोणी, स्त्री, (श्रोणि + वा ङीष् ।) कटिः । पन्थाः ।

इति भरतद्विरूपकोषः ॥

श्रोतः, [स्] क्ली, (श्रु + असुन् । तुट् च ।) कर्णः ।

नदीवेगः । इति जटाधरः ॥ इन्द्रियम् । यथा,
“हृषीकमक्षं करणं श्रोतः खं विषयीन्द्रियम् ॥”
इति हेमचन्द्रः ॥

श्रोतव्यं, त्रि, (श्रु + तव्य ।) श्रवणीयम् । यथा,

“अध्ये तव्यं न चान्येन ब्राह्मणं क्षत्त्रियं विना ।
श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन ॥”
इति तिथ्यादितत्त्वम् ॥

श्रोता, [ऋ] त्रि, (शृणोतीति । श्रु + तृच् ।)

श्रवणकर्त्ता । यथा, --
“अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥”
इति हितोपदेशः ॥
पुराणश्रोतृत्वे प्रमाणमाह ।
“पठेदर्थं बुध्यमानः श्रावयेद्वै नरोत्तमे ।
श्रोता तु प्राङ्मु खो भूत्वा शृणुयात् भक्ति-
तत्परः ॥”
इति पाद्मे पातालखण्डे ७१ अध्यायः ॥

श्रोत्रं, क्ली, (श्रू यतेऽनेनेति । श्रु + “हुयामाश्रु-

भसिभ्यस्त्रन् ।” उणा ०५ । १६७ । इति त्रन् ।)
कर्णम् । इत्यमरः ॥ (यथा, रघुः । ७ । १६ ।
“इत्युद्गताः पौरबधूमुखेभ्यः
शृण्वन् कथाः श्रोत्रसुखाः कुमारः ॥”)
श्रोत्रियता । इति त्रिकाण्डशेषः ॥

श्रोत्रियः, पुं, (छन्दोऽधीते इति । छन्दस् + श्रोत्रियं-

श्छन्दोऽधीते ।” ५ । २ । ८४ । इति घन्प्रत्ययेन
साधुः ।) वेदाध्येतृव्राह्मणः । तत्पर्य्यायः ।
छान्दसः २ । इत्यमरः ॥ श्रूयते धर्म्माधर्म्मावनेन
इति श्रोत्रो वेदः त्रासुसिति त्रः श्रोत्रं वेत्ति
अधीते वा श्रोत्रियः धघे कादिति इयः । छन्दो-
ऽधीते इत्यर्थे इये छन्दःशब्दस्य श्रोत्रादेशः ।
इति परे । छन्दो वेत्ति अधीते वा छान्दसः ।
इति पूर्वेण ष्णः । इति भरतः ॥ * ॥ तस्य लक्षणं
यथा, --
“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते
विद्याभ्यासी भवेद्विप्रः श्रोत्रियस्त्रिभिरेव हि ॥”
इति पाद्मे उत्तरखण्डे ११६ अध्यायः ॥
मानवे मार्कण्डेयपुराणे चाप्येवम् ॥ * ॥ अपिच ।
“एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च
षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥
इति दानकमलाकरः ॥

श्रोत्रियता, स्त्री, (श्रोत्रियस्य भावः । श्रोत्रिय +

तल् ।) श्रोत्रियधर्म्मः । तत्पर्य्यायः । श्रोत्रम् २ ।
इति त्रिकाण्डशेषः ॥

श्रौतं, क्ली, (श्रुतौ भवम् । श्रुति + अण् ।) गार्ह-

पत्याहवनीयदक्षिणाग्नयः । यथा, --
“त्रयो ये गार्हपत्याहवनीयदक्षिणाग्नयः ।
इदमग्नित्रिकं श्रौतं त्रेताग्निहोत्रमित्यपि ॥”
इति जटाधरः ॥

श्रौतः, त्रि, (श्रुतौ भवः । श्रुति + अण् ।) श्रुति-

विहितधर्म्मादिः । यथा, --
“धर्मज्ञैर्विहितो धर्म्मः श्रौतः स्मार्त्तो द्विधा द्विजैः
दानाग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम् ॥
स्मार्त्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः ।
पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयोऽब्रुवन् ॥
ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि सा श्रुतिः
मन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत् ॥
ततः स्मार्त्तः स्मृ तो धर्मो वर्णाश्रमविभागशः ।
एवं वै द्विविधो धर्म्मः शिष्टाचारः स उच्यते ॥
इज्यावेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः ॥
इति मात्स्ये १२० अध्यायः ॥
अपि च । अधिकरणमालाकृन्माधवाचार्य्य-
धृतपराशरभाष्ये शातातपः ।
“श्रौतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाचरेत्
अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः ॥”
इति तिथ्यादितत्त्वम् ॥

श्रौत्रं, क्ली, श्रोत्रमेव । प्रज्ञादित्वादण् ।) कर्णः ।

(श्रोत्रियस्य भावः कर्म्म वा । “हायनान्तयुवा-
दिभ्योऽण् ।” ५ । १ । १३० । इत्यण् । “श्रोत्रि-
यस्य यलोपश्च वाच्यः ।” इति यलोपः ।)
श्रोत्रियकर्म्म । तत्पर्य्यायः । श्रौत्रियता २ ।
इति शब्दरत्नावली ॥ (श्रोत्रस्य भावः कर्म्म
वा । अण् ।) श्रोत्रकर्म्म च ॥ (श्रोत्राणां समूहः
“भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ॥)

श्रौषट्, व्य, देवहविर्दानम् । इत्यमरः । देवहवि-

र्दानं इत्यनेनायं मन्त्रः सूचितः । इति भरत-
मतम् ॥

श्र्याह्वं, क्ली, श्रिय आह्वा आह्वा यस्य ।) पद्मम् ।

इति केचित् ॥

श्लक, इ ङ सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) अन्तःस्थतृतीयवर्ण-
युक्तादिः । इ, श्लङ्क्यते । ङ, श्लङ्कते । सर्पो गतिः
इति दुर्गादासः ॥

श्लक्ष्णं, त्रि, (श्लिष आलिङ्गने + “श्लिषेरच्चोप-

धायाः ।” उणा० ३ । १९ । इति क्स्नः अकार-
श्चोपधायाः ।) अल्पम् । इत्यमरः ॥ मनोहरम् ।
इत्युणादिकोषः ॥ (यथा, मनुः । २ । १५९ ।
“अहिंसयैव भूतानां कार्य्यं श्रेयोऽनुशासनम्
वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्म-
मिच्छता ॥”)
पृष्ठ ५/१७३

श्लक्ष्णकं, क्ली, पूगफलम् । इति राजनिर्घण्टः ॥

(त्रि, श्लक्ष्णमेव । स्वार्थे कन् ।) मनोहरञ्च ॥

श्लक्ष्णत्वक, [च्] पुं, (श्लक्ष्णा मनोहरा त्वक्

यस्य ।) अश्मन्तकवृक्षः । इति राजनिर्घण्टः ॥
सुन्दरवल्कलश्च ॥

श्लग, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) । अन्तःस्थतृतीयवर्णयुक्तताल-
व्यादिः । इ, श्लङ्यते । इति दुर्गादासः ॥

श्लथ, त् क दीर्ब्बल्ये । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-अक०-सेट् ।) अन्तस्थः-
तृतीययुक्तादिः । क, श्लथयति । इति दुर्गा-
दासः ॥

श्लथ, त्रि, (श्लथयतीति । श्लथ + अच् ।) शिथिलः ॥

यथा । “शिथिलः प्रश्लथः श्लथः ।” इति लटा-
धरः ॥ (यथा, माघे । ७ । ६२ ।]
“श्लथशिरसिजपातभारा-
दिव नितरां नतिमद्भिरंसभागैः ॥”)
दुर्ब्बलः । इति श्लथधात्वर्थदर्शनात् ॥

श्लाख, ऋ ष्याप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०

पर०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । ऋ,
अशश्लाखत् । इति दुर्गादासः ॥

श्लाघ, ऋ ङ कत्थने । इति कविकल्पद्रुमः ॥ (भ्वा०

आत्म०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः
तालव्यादिः । कत्थनं प्रशंसा । ऋ, अश्लाघत् ।
ङ, श्लाघते गुणिनं गुणी । इति दुर्गादामः ॥
श्लाधा, स्त्री, (श्लाघ कत्थने + अः । टाप् ।)
प्रशंमा । (यथा, रघुः । १ । २२ ।
“ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः ।
गुणा गुणानुवन्धित्वात् तस्य सप्रसवा इव ॥”)
परिचर्य्या । अभिलासः । इति मेदिनी ॥

श्लाघ्यः, त्रि, (श्लाघ + ण्यत् ।) श्लाघनीयः । प्रशंस्यः ।

यथा, --
“मौरवितास्त्वाचार्य्यमिश्राः श्लाघ्यास्तत्रभवन्-
मुखाः ॥”
इति त्रिकाण्डशेषः ॥
(यथा, रघुः । ११ । ८६ ।
“आहितो जयविपर्य्ययोऽपि मे
श्लाघ्य एव परमेष्ठिना त्वया ॥”)

श्लिकु, क्ली, (श्लिष्यति ग्रहादीनिति । श्लिष +

“श्लिषेः कश्च ।” उणा० १ । ३३ । इति कुः । कश्चा-
न्तादेशः ।) ज्योतिःशास्त्रम् । इत्यणादिकोषः ॥

श्लिकुः, पुं, (श्लिष आलिङ्गने + कुः ।) मृत्यः । इति

सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ षिङ्गः । इत्यु-
णादिकोषः ॥

श्लिष, उ दाहे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०

सक०-सेट् । क्त्वावेट् ।) अन्तःस्थतृतीययुक्तः ।
उ, श्लेषित्वा श्लिष्ट्वा । इति दुर्गादासः ॥

श्लिष, औ य ऌ ञि श्लषे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-अनिट् ।) अन्तःस्थतृतीय-
युक्तादिः । औ श्लेष्टा । य, श्लिष्यति । ऌ,
अश्लिषत् । आलिङ्गने तु अश्लिक्षत् । ञि श्लिष्टो-
ऽस्ति । श्लेष आलिङ्गनम् । तच्च बाहुभ्यामेव
रूढम् । श्लिष्यति कामपीति जयदेवः । प्राप्ता-
वप्ययम् । श्लिष्यति वृक्षं लता । इति दुर्गा-
दासः ॥

श्लिष, क श्लेषे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०

सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । क, श्लेष-
यति । इति दुर्गादासः ॥

श्लिषा, स्त्री, आलिङ्गनम् । त्रिकाण्डशेषः ॥

श्लिष्टः, त्रि, (श्लिष + क्तः ।) श्लेषयुक्तशब्दादिः ।

भिन्नार्थकैकरूपान्वितवाक्यम् । तस्य लक्षणं
यथा, --
“श्लिष्टमिष्टमविस्पष्टमेकरूपान्वितं वचः ।”
इति सरस्वतीकण्ठाभरणम् ॥

श्लीपदं, क्ली, (श्रीयुक्तं वृद्धिमत् पदमत्रेति । पृषो

दरादित्वात् साधु ।) स्फीतपादादि । गोद
इति भाषा । तत्पर्य्याय । पादवल्भीकम् २ ।
इति हेमचन्द्रः ॥ (यथा, आर्य्यासप्तशत्याम् ।
४८५ ।
“यन्नोपकारकं यन्न भूषणं यत् प्रकोपमातनुते ।
गुरुणापि तेन कार्य्यं पदेन किं श्लीपदेनेव ॥”)
अथ श्लीपदाधिकारः । तत्र श्लीपदस्य विप्रकृष्टं
निदानमाह ।
“पुराणोदकभूयिष्ठाः सर्व्वर्त्तुषु च शीतलाः ।
ये देशास्तेषु जायन्ते श्लोपदानि विशेषतः ॥”
विशेषत इति वचनेनान्यत्रापि श्लीपदं भवति
इति बोध्यते ॥ * ॥ सामान्यं लक्षणमाह ॥
“यः सज्वरो वंक्षणजो भृशार्त्तिः
शोथो नृणां पादगतः क्रमेण ।
तत् श्लीपदं स्यात् करनेत्रकर्ण-
शिश्नोष्ठनासास्वपि केचिदाहुः ॥”
तत् त्रिविधम् । वातिकं पैत्तिकं श्लैष्मिकञ्चेति ।
तेषां लक्षणमाह ।
“वातजं कृष्णरूक्षं हि स्फुटितं तीव्रवेदनम् ।
अनिमित्तरुजं चास्य बहुशो ज्वर एव च ॥
पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम् ।
श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुगुरु स्थिरम् ॥
त्रीस्यप्येतानि जानीयात् श्लीपदानि कफो-
च्छ्रयात् ।
मुरुत्वञ्च महत्त्वञ्च यस्मान्नास्ति विना कफात् ॥”
असाध्यमाह ।
“वल्मीकमिव संजातं कण्टकैरुपचीयते ।
सर्व्वात्मकं महत्त्वन्तु वर्ज्जनीयं विशेषतः ॥
यत् श्लेष्मलाहारविहारजातै-
र्जातं तथा भूरिकफस्य पुंसः ।
सास्रावमप्यत्र तु सर्व्वलिङ्गं
सकण्डुकं वापि विवर्ज्जनीयम् ॥” * ॥
श्लीपदस्य चिकित्सा ।
“लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः ।
प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत् ॥ १ ॥
सिद्धार्थशोभाञ्जनदेवदारु-
विश्वौषधैर्मूत्रयुतैः प्रलिम्पेत् ।
पुनर्नवानागरसर्षपाणां
कल्केन वा काञ्जिकमिश्रितेन ॥
श्लीपदमिति शेषः ॥ २ ॥
“धत्तूरैण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः ।
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥ ३ ॥
असाध्यमपि यात्यन्तं श्लीपदं चिरकालजम् ।
मूलेन सहचरायास्तालमिश्रेण लेपनात् ॥
तालस्य फलरसो ग्राह्यः ॥ ४ ॥
सप्तलास्थूलपत्राणां कल्कं तप्तेन वारिणा ।
संमृष्टं लवणोपेतं सेवितं श्लीपदं हरेत् ॥ ५ ॥
शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत् ।
श्लीपदानां विनाशाय मेदोदोषनिवृत्तये ॥ ६ ॥
रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः ।
वर्षोत्थं श्लीपदं हन्ति दद्रुकुष्ठं विशेषतः ॥ ७ ॥
वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम् ।
सक्षौद्रं श्लीपदं लिह्यात् चिरोत्थं श्लीपदं जयेत् ॥
गन्धर्व्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबति ।
श्लीपदविबन्धमुक्तो भवत्यसौ सप्तरात्रेण ॥”
गन्धर्व्वतैलं एरण्डतैलम् । गोऽम्बुना गोमूत्रेण ॥ ९
इति श्लीपदाधिकारः । इति भावप्रकाशः ॥ * ॥
तस्य कर्म्मविपाको यथा । गोतमोऽपि क्वचिद्-
विशेषमाह । अनृतवागुल्वणो मुहुर्मुहुः संलग्न-
वाक् जलोदरो दारत्यागी कूटसाक्षी श्लीपदी ॥
इति मिताक्षरायां प्रायश्चित्ताध्यायः ॥ कूटमा-
क्ष्यस्य सूरापानसमत्वे नानुपातकत्वात् तत्कर्म्म-
जन्यश्लीपदरोगयुक्तेन पराकव्रतं कर्त्तव्यम् । इति
मन्वादिमतम् ॥

श्लीपदप्रभवः, पुं, (श्लीपदवत प्रभवतीति । प्र +

भू + अच् ।) आम्रवृक्षः । इति शब्दमाला ॥

श्लीपदापहः, पुं, (श्लीपदं अपहन्तीति । हन

+ डः ।) पुत्त्रजीववृक्षः । इति त्रिकाण्ड
शेषः ॥

श्लीलः, त्रि, (श्रीर्विद्यतेऽस्येति । श्री + लच् ।

रस्य लः ।) लक्ष्मीवान् । इति श्रीलशब्द-
टीकायां स्वामी ॥

श्लेषः, पुं, (श्लिष + घञ् ।) संयोगः । तत्पर्य्यायः ॥

सन्धिः २ । इत्यमरः ॥ दाहः । आलिङ्गनम् ।
इति श्लिषधात्वर्थदर्शनात् ॥ * ॥ (यथा आर्य्या-
सप्तसत्याम् । ३८८ ।
“पुलकितकठोरपीवरकुचकलशश्लेषवेदना-
भिज्ञः ।
शम्भोरुपवीतफणी वाञ्छति मानग्रहं
देव्याः ॥” * ॥
श्लिष्यतीति । श्लिष + “श्याद्व्यधास्रुसंस्र्विति ।”
३ । १ । १४१ । इति णः ।) शब्दालङ्कारविशेषः ।
तस्य लक्षणादिर्यथा, --
“वाच्यभेदेन भिन्ना यद्युगपद्भाषणस्पृशः ।
श्लिष्यन्ति शब्दाः श्लेशोऽसावक्षरादिभिरष्टधा ॥”
अर्थभेदेन शब्दभेद इति दर्शने काव्यमार्गे स्वरो
न गण्यते इति च न ये वाक्यभेदेन भिन्ना अपि
शब्दा यद्युगपदुच्चारणेन श्लिष्यन्ति भिन्न-
स्वरूपमपह्नुवते स श्लेषः ॥ * ॥ स च वर्णपद-
लिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदा-
दष्टधा । क्रमेणोदाहरणम् ।
पृष्ठ ५/१७४
“अलङ्कारः शङ्काकरनरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्व्वामरगुरो-
र्विधौ वक्रे मूर्द्ध्नि स्थितवति वयं के पुनरमी ॥
पृयुकार्त्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्
भक्तिप्रह्वविलोकनप्रणयिणी नीलोत्पलस्पर्द्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।
लावण्यैकमहानिधी रसिकतां लक्ष्मीदृशो-
स्तन्वती
युष्माकं कुरुतां भवार्त्तिशमनं नेत्रे तनुर्व्वा
हरेः ॥”
एष एव वचनश्लेषोऽपि ।
“महदे सुर सन्धम्मे तमवसमासं गमागमा
हरणे ।
हर वहु शरणं तं चित्तमोहमबसर उमे
सहमा ॥
अयं सर्व्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति
सामर्थ्यकृदमित्राणां मित्राणाञ्च नृपात्मजः ॥
रजनिरमणमौलेः पादपद्मावलोक-
क्षणसमयपराप्ता पूर्व्वसम्पत्सहस्रम् ।
प्रथमनिवहमध्ये जातु चित्तप्रसादा-
दहमुचित्रुचिः स्यान्नन्दिता सा तथा मे ॥
सर्व्वस्वं हर सर्व्वस्य त्वं भवच्छेदतत्परः ।
नयोपकारसाम्मुख्यमायासि तनुवर्त्तनम् ॥”
‘भेदाभावात् । प्रकृत्यादेर्भेदोऽपि नवमो भवेत् ॥’
नवमोऽपीत्यपिर्भिन्नक्रमः । उदाहरणम् ।
“योऽसकृत् परगोत्राणां पक्षच्छेदक्षणक्षमः ।
शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ॥”
अत्र प्रकरणादिनियमाभावात् द्वावप्पर्थौ वाच्यौ
ननु स्वरितादिगुणभेदात् भिन्नप्रयत्नोच्चार्य्याणां
तदभेदादभिन्नप्रयत्नोच्चार्य्याणाञ्च शब्दानां बन्धे-
ऽनियमेनालङ्कारान्तरप्रतिभोत्पत्तिहेतुः । शब्द-
श्लेषोऽर्थश्लेषश्चेति द्विविधोऽप्ययमर्थालङ्कारमध्ये
गणितोऽन्यैरिति कथमयं शब्दालङ्कारः ।
उच्यते । इह दोषगुणालङ्काराणां शब्दार्थगत-
त्वेन यो विभागः सोऽन्वयव्यतिरेकाभ्यामेव
व्यवतिष्ठते । तथा हि कष्टत्वादिगाडत्वाद्यनुप्रा-
सादयो व्यर्थत्वादिप्रौढत्वाद्युपमादयः सद्भावत-
दभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यव-
प्यन्ते । तथाहि ।
“स्वयञ्च पल्लवाताम्रभास्वत्करविराजिता ।”
इत्यभङ्गश्लेषः ॥ प्रभातसन्ध्ये वा श्वापफललुब्धे
हितप्रदेति सभङ्गशब्दश्लेषश्चेति द्वावपि शब्दै-
कसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नम्
न त्वाद्यस्यार्थश्लेषत्वम् । अथेश्लेषस्यतु स विषयः
यत्र शब्दपरिवर्त्तनेऽपि न श्लेषत्वखण्डना ।
यथा,
“स्ताकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्
अहो स्वसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥”
न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः । अपि
तु श्लेषप्रतिमोत्पत्तिहेतुरुपमा । तथा हि ।
यथा कमलमिव मुखं मनोज्ञमेतत् कचतितरा-
मित्यादौ गुणसाम्ये क्रियासाम्ये उभयसाम्ये
वा उपमा तथा सकलकलं पुरमेतज्जातं संप्रति
च सितांशुविम्बमिवेत्यादौ शब्दमात्रसाम्ये-
ऽपि युक्तैव तथा ह्युक्तं रुद्रटेन । स्फुटं
अर्थालङ्कारावेतौ उपमासमुच्चयौ किन्तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवत
इति । न च कमलमिव मुख्यमित्यादि साधा-
रणधर्म्मप्रयोगशून्य उपमाविषय इति वक्तुं
युक्तं पूर्णोपमाया निर्विषयत्वापत्तेः । देवत्वमेव
पातालमाशानां त्वं निबन्धनम् । त्वञ्चामरमरुद्
भूमिरेको लोकत्रयात्मकः । इत्यादिश्लेषस्य
चोपमाद्यलङ्कारविविक्तोऽस्ति विषयः । इति
द्वयोर्योगे सङ्कर एव उपपत्तिपर्य्यालोचने तु
उपमाया एवायं युक्तो विपयः अन्यथा विष-
यापहार एव पूर्णोपमायाः स्यात् । न च
अबिन्दुसुन्दरी नित्यं गलल्लावण्यविन्दुकेत्यादौ
विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । अपि तु श्लेष-
प्रतिभोत्पत्तिहेतुर्विरोधः । न ह्यत्रार्थद्वयप्रति-
पादकः शब्दः श्लेषः द्वितीयार्थस्य प्रतिभात-
मात्रस्य प्ररोहाभावात् । न च विरोधाभारा
इव विरोधः । श्लेषाभास इव श्लेषस्तस्मादेव-
मादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारा-
न्तरमेव साधीयः । तथा च सद्वं शमुक्तामणि-
र्नान्यः कविरिव स्वल्पश्लोको देव महान् भवान्
“अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्चित्रा न तथापि समागमः ॥
आदाय चापमचलं कृत्वा हीनं गुणं विषम-
दृष्टिः ।
यश्चित्रमच्यु तशरो लक्षमभाङ्क्षीन्नमस्तस्मै ॥”
इत्यादावेकदेशविवर्त्तिरूपश्ले षव्यतिरेकसमासो
क्तिविरोधत्वमुचितं न तु श्ले षत्वं शब्दश्ले ष इति
चोच्यते । अर्थालङ्कारमध्ये च लक्षत इति
कोऽयं नयः किन्तु वैचित्र्यमलङ्कारः इतियत्रैव
कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रतेति
सैवालङ्कारभूमिः । अर्थमुखमपेक्षित्वमेतेषां
शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति
तेऽप्यर्थालङ्काराः किं नोच्यन्ते रसादिव्यञ्जक-
स्वरूपवाच्यविशेषव्यपेक्षेत्यनुप्रासादीनामल-
ङ्कारताशब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदो-
षता । अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव
ष्यवस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम् ।
विधौ वक्रे मूर्द्धि ख्यितवतीत्यादौ च वर्णादि-
श्लेषे एकप्रयत्नोच्चार्य्यत्वेऽर्थश्लेषत्वं शब्दभेदेऽपि
प्रसज्यतामित्येवमादि स्वयं विचार्य्यम् । इति
काव्यप्रकाशे शब्दालङ्कारनिर्णया नाम ९
उल्लासः ॥

श्लेष्मकः, पुं, (श्लेष्मा एव । स्वार्थे कन् ।) कफः ।

इति शब्दचन्द्रिका ॥

श्लेष्मघ्ना, स्त्री, (श्लेष्माणं हन्तीति । हन + टक्

अभिधानात् टाप् ।) मल्लिका । केतकौ । इति
विश्वमेदिन्यौ ॥ श्लेष्मनाशके, त्रि ॥
श्लेष्मघ्नी, स्त्री, (श्लेष्माणं हन्तीति । हन + टक् )
टित्वात् ङीष् ।) ज्योतिष्मती । इति जटा-
धरः ॥ मल्लिका । इति मेदिनी ॥ त्रिकटुः ।
इति शब्दरत्नावली ॥

श्लेष्मणः, त्रि, (श्लेष्मा अस्त्यस्येति श्लेष्मन् +

“लोमादिपामादिपिच्छादिभ्यः शनेलचः ।” ५
२ । १०० । इति नः ।) कफी । इत्यमरः ॥
श्लेष्मणा, स्त्री, (श्लेष्मन् + पामादित्वात् नः ।
टाप् ।) वृक्षविशेषः । यथा, --
“गुरुस्कन्धस्तर्पणी च श्लेष्मणा च वृषापि च ।”
इति शब्दमाला ॥

श्लेष्मलः, त्रि, (श्लेष्मास्त्यस्येति । श्लेष्मन् +

“सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।)
श्लेष्मयुक्तः । इत्यमरः ॥

श्लेष्मलः, पुं, श्लेष्मन् + लच ।) वृक्षविशेषः । वहु-

यार इति ख्यात्रः । इति शब्दचन्द्रिका ॥

श्लेष्महः, पुं, (श्लेष्माणं हन्तीति । हन + डः ।)

कट्फलवृक्षः । इति शब्दचन्द्रिका । कफ-
नाशके, त्रि ॥

श्लेष्मा, [न्] पुं, श्लिष + “सर्व्वधातुभ्यो मणिन् ।”

उणा० ४ । १४४ । इति मणिन् ।) कफः ।
इत्यमरः ॥ तस्य प्रकोपहेतुर्यथा, --
“गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्य-
द्रवदधिदिननिद्रापूपमर्पिःप्रपूरैः ।
तुहिनपतनकाले श्लेष्मणः संप्रकोपः
प्रभवति दिवसादौ भुक्तमात्रे वसन्ते ॥” * ॥
तस्य लक्षणं यथा,
“स्तैमित्यं मधुरास्यता शिशिरता शौक्ल्यं
प्रसेको मल-
प्राचुर्य्यं स्थिरता रसश्च लवणः कण्डूरतिस्वल्पता
आलस्यं चिरकारिता कठिनता शोथारुचिः
स्निग्धता
तन्द्रा तृप्त्युपदेहकासगुरुता एताः कफोक्ता
रुजः ॥” * ॥
अस्य प्रशमताकारणं यथा, --
“गुरुशीतमृदुस्निग्धं मधुरस्थिरपिच्छिलाः ।
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः ॥
रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन-
स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम्
धूमात्युष्णशिरीविरेकवमनस्वे दोपनाहादिकं
पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं
जयेत् ॥” * ॥
स च पञ्चविधो यथा, --
“अवलम्बक इत्येकः क्लेदकः श्लेष्मकोऽपरः ।
बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः ॥” *
एतेषां लक्षणानि यथा, --
“कफधाम्नान्तु शेषाणां यत् करोत्यवलम्बनम् ।
ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरःस्थितः ॥
आमाशयाश्रितः सोऽन्नक्ले दनात् क्लेदकः
स्मृतः ॥ २ ॥
श्लेष्मकः श्लेषणात् सन्धेः स च सन्ध्यां व्यव-
स्थितः ॥ ३ ॥
पृष्ठ ५/१७५
रसनावस्थितस्त्वेष बोधको रसबोधनात् । ४ ।
शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्पणात् ॥” ५ ॥
अस्य स्थानानि ।
“उरःकण्ठशिरःक्लोमपर्व्वाण्यामाशयो रसः ।
मेदो घ्राणञ्च जिह्वा च कफस्थानमुरः परम् ॥”
तत्प्रकृतिकलक्षणम् । यथा, --
“गम्भीरबुद्धिः स्थूलाङ्गः स्निग्धकेशो महाबलः ।
स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः ॥ * ॥
स्नेहो बन्धः स्थिरत्वञ्च गौरवं वृष्यता बलम् ।”
क्षमा धृतिरलोभश्च कफकर्म्माविकारजम् ॥”
इति सुखबोधः ॥ * ॥
श्लेष्मकरद्रव्याणि यथा, --
“भोजनानन्तरं स्नानं जलपानं विना तृषा ।
तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम् ॥
पर्य्युषितान्नं तक्रञ्च पक्वरम्भाफलं दधि ।
मायाम्बुशर्करातोयं सुस्निग्धस्थलसेवनम् ॥
नारिकेलोदकं रूक्षस्नानं पर्य्युषितं जलम् ।
तरुमुञ्जापक्वफलं सुपक्वकर्कटीफलम् ॥
खातस्नानञ्च वर्षाषु मूलकं श्लेष्मकारणम् ।
तज्जलत्वं ब्रह्मरन्ध्रे च महद्वीर्य्यविनाशनम् ॥” * ॥
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥
अपिच । एरण्डतैलम् १ अनूपदेशवारि २
वार्षिकपानीयम् ३ पाल्वलजलम् ४ सामान्य-
शालिधान्यम् ५ माषः ६ अतसी ७ नूतनधान्यम् ८
मधुरनारीचशाकम् ९ कञ्चटशाकम् १०
कलम्बीशाकम् ११ उत्पदिकाशाकम् १२
मध्यमकुष्माण्डफलम् १३ अलावुफलम् १४
शीर्णवृन्तफलम् १५ चेलानम् १६ दीर्घपटो-
लिका १७ अलावुनाडिका १८ पिण्डालुकम् १९
करीषपलालक्षितिवेणुभ्यो जातं छत्रिका-
शाकम् २० विशेषतः पलालजातसंस्वेदज-
शाकम् २१ मधुकुक्कुटिका २२ बहुवार-
फलम् २३ बालाम्लिकाफलम् २४ चीरुकम् २५
पक्वकण्टाफलम् २६ कण्टाफलास्थि २७ पक्व-
कदलम् २८ तावन्मत्स्यः २९ पाण्डरमत्स्यः ३०
क्वथितमत्स्यः ३१ लवणभावितमत्स्यः ३२ भाकुट-
मत्स्यः ३३ पाठीनमत्स्यः ३४ शिलिन्दमत्स्यः ३५
मेकलिमत्स्यः ३६ गरमत्स्यः ३७ कर्णफलमत्स्यः ३८
इल्लिशमत्स्यः ३९ शृङ्गीमत्स्यः ४० चिङ्गट-
मत्स्यः ४१ वाचमत्स्यः ४२ चिङ्गटीमत्स्यः ४३
गवाचीमत्स्यः अर्थात्पाँकालमत्स्यः ४४ कुलिङ्ग
पक्षिमासम् ४५ तावत्क्षीरम् ४६ आम-
दुग्धम् ४७ आविकदधि ४८ माहिषदधि ४९
स्वादुदधि ५० अत्यम्लदधि ५१ तावद्घृतम् ५२
माहिषघृतम् ५३ तावदिक्षुः ५४ विशेषतो
भीरुनामकेक्षुः ५५ कान्तारीक्षुः ५६ इक्षुः-
फाणितम् ५७ इक्षुखण्डः ५८ नवान्नम् ५९
चिपिटः ६० घृतपूरः ६१ पायसः ६२ शस्कुली ६३
सरसगुवाकफलम् ६४ मधुररसः ६५ अति-
शयाम्लभोजनम् ६६ लवणरसः ६७ शीतवीर्य्य-
द्रव्यम् ६८ कुन्दुकपुष्पम् ६९ यूथिकापुष्पम् ७०
वन्धूकपुष्पम् ७१ तावज्जन्तुरसः ७२ तावज्जन्तु-
मज्जा ७३ । इति द्रव्यगुणात् संगृहीतम् ॥
श्लेष्मनाशकद्रव्याणि यथा, --
“वह्निस्वेदं भृष्टभङ्गं पक्वतैलं विशोषकम् ।
भ्रमणं शुष्कभक्ष्यञ्च शुष्कपक्वहरीतकी ॥
पिण्डारकमपक्वञ्च रम्भाफलमपक्वकम् ।
वेशवारसिन्धुवारमनाहारमपानकम् ॥
सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् ।
मरीचं पिप्पलीं शुष्कमार्द्रकं जीरकं मधु ।
द्रव्याण्येतानि गन्धर्व्वि ! सद्यःश्लेष्महराणि च ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥ * ॥
अपि च । सार्षपतैलम् १ तैलाभ्यङ्गः २ उद्व-
र्त्तनम् ३ शैशिरजलम् ४ वाप्यजलम् ५ कौप-
जलम् ६ नैर्झरजलम् ७ नादेयजलम् ८
सामान्योष्णोदकम् ९ विशेषतः पादशेषोष्णो-
दकम् १० पेषितवचामुस्तकसंयुक्तजलस्नानम् ११
अगुरु १२ कुङ्कु मम् १३ पत्रकम् १४ कक्को-
लम् १५ शटी १६ दग्धभूमिजातशालि-
धान्यम् १७ अतिरोप्यधान्यम् १८ यवः १९
श्यामाकधान्यम् २० कोद्रवधान्यम् २१ कङ्गु-
धान्यम् २२ हस्तिश्यामाकधान्यम् २३ चीनक-
धान्यम् २४ मुद्गः २५ मुकुष्टम् २६ राजमाषः २७
मसूरः २८ चणकः २९ कुलत्थः ३० तुवरी ३१
नानाशिम्बा ३२ जलसंयोगिसामान्यशुष्क-
नारीचपत्रशाकम् ३३ हिलमोचीशाकत् ३४
शालञ्चीशाकम् ३५ ग्रीष्मसुन्दरशाकम् ३६
पूनर्नवाशाकम् ३७ कलायशाकम् ३८ ब्रह्मी-
शाकम् ३९ चाङ्गेरीशाकम् ४० पृक्काशाकम् ४१
पालङ्कीशाकम् ४२ चणकपत्रशाकम् ४३
कौसुम्भशाकम् ४४ ओषणीशाकम् ४५ महा-
राष्ट्रीशाकम् ४६ कदलीमोचकम् ४७ क्षुद्र-
वार्त्ताकुफलम् ४८ अङ्गारपक्ववार्त्ताकुः ४९
पाण्डुरङ्गफलम् ५० कारवेल्लफलम् ५१ कर्क्को-
टकफलम् ५२ पटोलनाडी ५३ कुष्माण्ड-
नाडिका ५४ वेत्राग्रम् ५५ शूरणः ५६ केचुक-
मूलम् ५७ घृततैलाभ्यां सिद्धं मूलम् ५८
मूलकपुष्पम् ५९ खण्डकर्णः ६० मूलकफलम् ६१
वाराहीकन्दमूलम् ६२ आम्रपेषी ६३ अम्लरस-
दाडिमम् ६४ मातुलुङ्गत्वक् ६५ लिम्पाकम् ६६
जम्बीरम् ६७ कर्कन्धुः ६८ शुष्कसमस्तकोल-
फलम् ६९ अञ्जीरम् ७० जवनालम् ७१
लवलीफलम् ७२ जाम्बवम् ७३ पक्वाम्लिका-
फलम् ७४ पक्वतिन्दुकम् ७५ अम्लवेतसम् ७६
महार्द्रम् ७७ करुणम् ७८ कोचाम्रफलम् ७९
तालास्थिमज्जा ८० बालविल्वम् ८१ विल्व-
पेषिका ८२ धात्री ८३ विभीतकम् ८४ विभीत-
मज्जा ८५ धात्रीमज्जा ८६ नन्द्यावर्त्तमत्स्यः ८७
कवयीमत्स्यः ८८ एलङ्गमत्स्यः ८९ दण्डिक-
मत्स्यः ९० त्रिकण्टमत्स्यः ९१ प्रोष्ठीमत्स्यः ९२
मत्स्याण्डम् ९३ कूर्म्माण्डम् ९४ खगाण्डम् ९५
एणमांसम् ९६ खङ्गिमांसम् ९७ कूर्म्मपादः ९८
कपिञ्जलमांसम् ९९ वर्त्तिकापक्षिमांसम् १००
प्रसन्नामद्यम् १०१ अरिष्टमद्यम् १०२ अर्घ्य-
मध् १०३ पुराणमधु १०४ नूतनमधु १०५
मेषोक्षीरम् १०६ उष्ट्रीक्षीरम् १०७ शृतोष्ण-
दुग्धम् १०८ छागदधि १०९ हास्तिनदधि ११०
दधिमस्तुः १११ दधिसरः ११२ मथिततक्रम ११३
आविकघृतम् ११४ औष्ट्रकघृतम् ११५ पक्वेक्षु-
रसः ११६ हिङ्गु ११७ जीरकम् ११८
वास्पिका ११९ शुष्कधन्याकम् १२० कासुन्दी-
वटिका १२१ हरिद्रा १२२ यमानी १२३
शुष्कपिप्पली १२४ आर्द्रपिप्पली १२५ शुण्ठी
१२६ आर्द्रकम १२७ सर्षपः १२८ सिद्धार्थः १२९
पलाण्डुः १३० गुडत्वक् १३१ पत्रम् १३२ यव-
क्षारः १३३ सर्ज्जिकाक्षारः १३४ टङ्कण-
क्षारः १३५ मण्डः १३६ भृष्टतण्डुलः १३७
लाजाः १३८ लाजमण्डः १३९ अपक्वयव-
शक्तुः १४० वाट्यमण्डः स तु भृष्टयवमण्डः १४१
मुद्गयूषः १४२ रागयूषः स च दाडिमद्राक्षा-
युक्तमु द्गयूषः १४३ मसूरयूषः १४४ कुलत्थ-
यूषः १४५ खडयूषः १४६ काम्बलिकयूषः स तु
लवणघृतादितिलमाषमिश्रितपक्वदधि १४७
पलालवेष्टित-कर्दम-लेपिताङ्गार-दग्धलवणवेश
वारपुरस्कृतसार्द्रककटुतैलसन्तोलितमत्स्यः १४८
प्रदिग्धम् १४९ शालिपिष्टकम् १५० ताम्बू-
लम् १५१ चूर्णम् १५२ खदिरः १५३ एला १५४
जातीफलम् १५५ कर्पूरम् १५६ कटुरसः १५७
तिक्तरसः १५८ कषायरसः १५९ उष्णस्वभाव-
द्रव्यम् १६० मालतीपुष्पम् १६१ मल्लिका-
पुष्पम् १६२ पद्मपुष्पम् १६३ वकुलपुष्पम् १६४
पुन्नागपुष्पम् १६५ कह्लारपुष्पम् १६६ उत्पेल-
पुष्पम् १६७ पाटलपुष्पम् १६८ चम्पकपुष्पम् १६९
रात्रिजागरणम् १७० विल्वमूलम् १७१
पाटला १७२ शालपर्णी १७३ पृश्निपर्णी १७४
एरण्डमूलम् १७५ कण्टकारिका १७६
विशाला १७७ लोध्रः १७८ भृङ्गराजः १७९
केशराजः १८० द्रोणपुष्पी १८१ झिण्डी १८२
वचा १८३ शक्राशनम् १८४ हरिद्रा १८५
दार्व्वो १८६ अवल्गुजः १८७ एडगजः १८८
रेणुका १८९ भूर्जः १९० आसना १९१ निम्ब-
पत्रम् १९२ भूनिम्बः १९३ कुटजः १९४
यासः १९५ दुरालमा १९६ कटुकी १९७
त्रायन्ती १९८ शृङ्गी १९९ कट्फलम् २००
कुष्ठम् २०१ पारिभद्रः २०२ वासकः २०३
मधुयुक्तगुडूची २०४ पिप्पलीमुलम् २०५
चविका २०६ गजपिप्पली २०७ अर्कः २०८
धुस्तूरः २०९ सामान्यगुल्गुलुः २१० नूतन-
पुरातनगुग्गुलुः २११ अरुणा त्रिवृता २१२
सिता त्रिवृता २१३ सिन्धुवारः २१४ मनो-
ऽङ्गा २१५ सौराष्ट्री २१६ ताम्रम् २१७
कांस्यम् २१८ ॥ इति द्रव्यगुणात् सगृहीतम् ॥

श्लेष्मातः, पुं, श्लेष्माणमततीति । अत + अच ।)

श्लेष्मातकवृक्षः । इति शब्दरत्नावली ॥

श्लेष्मातकः, पुं, (श्लेष्मात एव । स्वार्थे कन् ।) नहु

वारकवृक्षः । इत्यमरः ॥ (यथा मनुः ६ । १४ ।
पृष्ठ ५/१७६
“वर्जयेत् मधुमांसञ्च भौमानि कवकानि च ।
भूस्तृ णं शिग्रुकञ्चैव श्ल ष्मातकफलानि च ॥”)

श्लेष्मान्तकः, पुं, (श्लेष्मणा स्वसेवनजनितकफेन

अन्तयति नाशयतीति । अन्त + णिच + ण्वुल ।)
वृक्षविशेषः । वहुयार इति वङ्गभाषा । लसोडा
इति हिन्दी भाषा । तत्पर्य्यायः । बहुवारः २
पिच्छिलः ३ द्विजकुत्सितः ४ शेलुः ५ शीत-
फलः ६ शोतः ७ शाकटः ८ कर्व्वुदारकः ९
भूतद्रुमः १० गन्धपुष्पः ११ । अस्य गुणाः ।
कटुत्वम् । हिमत्वम् मधुरत्वम् । कषायत्वम् ।
स्वादुत्वम् । पाचनत्वम् कृमिशूलहरत्वम् ।
आमास्रदोषमलरोधबहुव्रणार्त्तिविस्फोटशान्ति-
करत्वम् । कफकारकत्वञ्च । इति राजनिर्घण्टः ॥
अस्यामफलगुणाः । विष्टम्भित्वम् । रूक्षत्वम् ।
पित्तकफास्रनाशित्वञ्च । तत्पक्वफलगुणाः । मधु-
रत्वम् । स्निग्धत्वम् । श्लेष्मत्वम् । शीतलत्वम् ।
गुरुत्वञ्च । इति भावप्रकाशः ॥

श्लेष्मिकं, त्रि, (श्लेष्मणः शमनं कोपनं वा ।

श्लेष्मन् + “वातपित्तश्लेष्मभ्यः शमनकोपनयोः ।”
५ । १ । ३८ । इत्यस्य वार्त्तिकोक्त्या ठञ् ।
कफशमनम् । कफकोपनम् । इति व्याकरणम् ॥)
श्लेष्मोद्भवम् । श्लेष्ममम्बन्धोयम् । इति श्लेष्म-
शब्दात् ष्णिकप्रत्ययेन निष्पन्नम् ॥ (यथा,
सुश्रुते । १ । ३ ।
“चिकित्साप्रविभागीये वाताभिष्यन्दवराणः ।
पेत्तिकस्य श्लैष्मिकस्य रौधिरस्य तथैव च ॥”)

श्लोक, ऋ ङ संघाते । वर्ज्जने । सर्ज्जने । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक०-च-सेट् ।
मघात इह छन्दोविशिष्टवाक्यरचनम् । ऋ,
अशश्लोकत् । ङ, श्लोकते कविः । इति दुर्गा-
दासः ॥

श्लोकः, पुं, (श्लोक्यते इति । श्लोकसंघाते + घञ् ।)

पद्यम् । यशः । इत्यमरः ॥ * ॥ (वाक् । इति
निघण्टुः । १ । ११ ॥ “श्रुश्रवणे ‘इण् भीका-
पाशल्यतिमचिभ्यः कन्’ इति कन्प्रत्ययो
वाहुलकाद्भवति गुणः कविलकादित्वाल्लत्वम् ।
श्रूयते इति श्लोकः । यद्वा श्लोक संघाते ‘पुंसि
सज्ञायां घः ।’ श्लोक्यते पद्यते रूपेण संहन्यते
कविभिः श्लोकः ।” इति तट्टीका ॥) श्लोकनाम
कारणम् । यथा, --
“मा निपाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
वत्क्रौञ्चमिथुनादेकमवधोः काममोहितम् ॥
तस्येन्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।
गोकार्त्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥
चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् ।
शिष्यञ्जैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥
पादबन्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
गोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥”
इति रामायणे वाल्मीकीये बालकाण्डे २ स्वर्गः ॥

श्लोण, ऋ सहाते । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अशुश्लोणत् । संहातो
राशीकरणम् । इति दुर्गादासः ॥

श्वः, [स्] व्य, अनागताहः । इत्यमरः ॥ कालि

इति भाषा ॥ (यथा, रामायणे । २ । ६४ । ३६ ।
“श्वो मया सह गन्तासि जनन्या च समेधितः ॥”)

श्वःश्रेयसं, क्ली, (श्वः आगामिकाले श्रेयो यत्र ।

“श्वसी वसीयःश्रेयसः ।” ५ । ४ । ८० । इति
अच् ।) कल्याणम् । इत्यमरः ॥ (यथा,
भट्टिः । ४ । ३८ ।
“श्वःश्रेयसमवाप्तासि भ्रातृभ्यां प्रत्यभाणि सा ॥”)
परमात्मा । शर्म्म । इति मेदिनी ॥ कल्याण-
युक्ते, त्रि ॥

श्वक, इ ङ सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) वकारयुक्ताद्यः । इ,
शङ्क्यते । ङ श्वङ्कते । सर्पो गतिः । इति
दुर्गादासः ॥

श्वगणः, पुं, (शुनां गणः ।) कुक्वुरसमूहः । यथा ।

द्वारादेयवयोरिमुमौ स्यातां णित्तद्धिते परे ।
श्वापदन्यङ्कोस्तु वा । न तु श्वगणप्रभृतीनाम् ।
इति मुग्धबोधव्याकरणटीकायां दुर्गादासः ॥
(यथा, हरिवंशे भविष्यपर्व्वणि । ८ । १४ ।
“श्वगणा नात्र दृश्यन्ते पिशाचा मांम-
भोजनाः ॥”)

श्वच, ङ गत्याम् । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) द्वौ
वकारयुक्तादी । पुनःपाठादाद्यो नेदनुबन्धः ।
ङितौ तु द्वौ । एक एवेत्पाठबलाद्वाध्य इति
नियमात् । ङ, श्वचते । इ, श्वञ्च्यते । ङ,
श्वञ्चते । इति दुर्गादासः ॥

श्वच, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) द्वौ
वकारयुक्तादी । पुनःपाठादाद्यो नेदनुबन्धः ।
ङितौ तु द्वौ । एक एवेत्पाठबलाद्वाध्य इति
नियमात् । ङ, श्वचते । इ, श्वञ्च्यते । ङ,
श्वञ्चते । इति दुर्गादासः ॥

श्वठ, क गतौ । असंस्कृते । संस्कृते । इति

कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) द्वौ वकारयुक्तौ पुनःपाठादाद्यो
नेदनुबन्धः । त्रयः अर्थाः । क, श्वाठयति । इ क
श्वण्ठयति जनः । गच्छति किमपि संस्करोति
वा इत्यर्थः । संस्कारगत्योरिति केचित् । इति
दुर्गादासः ॥

श्वठ, इ क गतौ । असंस्कृते । संस्कृते । इति

कविकल्पद्रुमः ॥ (चुरा०-पर०-
सक०-सेट् ।) द्वौ वकारयुक्तौ पुनःपाठादाद्यो
नेदनुबन्धः । त्रयः अर्थाः । क, श्वाठयति । इ क
श्वण्ठयति जनः । गच्छति किमपि संस्करोति
वा इत्यर्थः । संस्कारगत्योरिति केचित् । इति
दुर्गादासः ॥

श्वठ, त् क दुर्व्वाचि । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।) वकारयुक्तः ।
श्वठयति नीचः । कुत्सितं वदतीत्यर्थः । रमा-
नाथस्तु सम्यग्भाषणे इति मत्वा श्वठयति
सम्यग्वदतीत्यर्थ इत्याह । सम्यग्भाग इत्यप्येके
इति दुर्गादासः ॥

श्वदंष्ट्रक, पुं, (शुनो दंष्ट्रेव कण्टकोऽस्य ।)

गोक्षुरः । इति राजनिर्घण्टः ॥

श्वदष्ट्रा, स्त्री, (शुनो दंष्ट्रेव कण्टकावृतत्वात् ।)

गोक्षुरकः । इत्यमरः ॥ (यथा, सुश्रुते । १ । ४६ ।
“पिप्पल्यादीनां श्वदंष्टावसुकामवः कुष्माण्डा-
दीनां दार्व्वीकरामवः ॥”)

श्वधूर्त्तः, पुं, (शुनि धूर्त्तस्तद्वञ्चकत्वात् ।) शृगालः ।

इति शब्दरत्नावली ॥

श्वनिशं, क्ली, (शुनां निशा । “सुरासेना-

च्छायाशालानिशा स्त्रियाञ्च ।”
इति लिङ्गानुशासनसूत्रेण विभागया क्लीव-
त्वम् ।) शुनां निशा । इत्यमरभरतौ ॥ मत्त-

श्वनिशा, स्त्री, (शुनां निशा । “सुरासेना-

च्छायाशालानिशा स्त्रियाञ्च ।”
इति लिङ्गानुशासनसूत्रेण विभागया क्लीव-
त्वम् ।) शुनां निशा । इत्यमरभरतौ ॥ मत्त-
कुक्करनिशा । यथा, --
कुक्करनिशा । यथा, --
“यस्यां मत्ता निशि श्वानः श्वनिशं श्वनिशा च
सा ॥”
इति जटाधरः ॥

श्वपक् [च] पुं, (श्वानं पचतीति । पच + क्विप् ।

चण्डालः । यथा । निषादः । श्वपचः श्वपक् ।
इति भरतधृतवोपालितः ॥ (यथा, मनुः । ३ । ९२
“शुनाञ्च पतितानाञ्च श्वपचां पापरोगिणाम् ।
वायसानां कृमीणाञ्च शनकैर्निर्व्वपेत् भुवि ॥”)

श्वपचः, पुं, (श्वानं पचतीति । पच + अच् ।)

चण्डालः । इत्यमरः ॥ तस्य संज्ञा अन्त्याव-
सायी । तस्य धर्म्मो यथा, --
“चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः ।
अपपात्राश्च कर्त्तव्या धनं येषां श्वगर्द्दभम् ॥
वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायः समलङ्कारः परिव्रज्या च नित्यशः ॥
न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् ।
व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥
अन्नं येषां पराधीनं देयं स्याद्भिन्नभाजने ।
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥
दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः ।
अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥
बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ * ।
चाण्डालः श्वपचः क्षत्ता मृतो वैदेहकस्तथा ।
मागधायोगवौ चैव सप्तैतेऽन्त्यावसयिनः ॥”
तस्यान्नभक्षणे प्रायश्चित्तं यथा, --
“अन्त्यावसायिनामन्नमश्नीयाद्यस्तु कामतः ।
स तु चान्द्रायणं कुर्य्यात् तप्तकृच्छमथापि वा ॥”
इति प्रायश्चित्ततत्त्वधृताङ्गिरोवचनम् ॥

श्वपाकः, पुं, (शुनां पाकः कार्य्यवेन यस्य ।)

चण्डालः । इत्यमरः ॥ तस्योत्पत्तिर्यथा, --
“क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते ॥”
इति मानवे १० अध्यायः ॥ * ॥
रजस्वलायास्तस्य स्पर्शने प्रायश्चित्तं यथा, --
“चाण्डालेन श्वपाकेन संस्पृष्टा चेत् रजस्वला ।
अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत् ॥
त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति ।
तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्त कारयेत् ॥”
इति वचनान्तरदर्शनात् एतत् कामतः । अत्रा-
ज्ञाने बूहस्पतिः ।
“पतितान्त्यश्वपाकैस्तु संस्पृष्टा स्त्री रजस्वला ।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमेऽह्नि त्रिरात्रन्तु द्वितीये द्व्यहमाचरेत् ।
अहारात्रं तृतोयेऽह्नि चतुर्थे नक्तमाचरेत् ॥”
चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्व्वम् । इतिप्राय-
श्चित्ततत्त्वम् ॥

श्वफलः, पुं, (श्वप्रियं फलमस्य ।) बीतपुरः । इति

रत्नमाला ॥

श्वफल्कः, पुं, वृष्णिपुत्त्रः । म च अक्रूरपिता ।

यथा । अनमित्वस्यान्वयेऽन्या वृष्णिः । तस्मात्
श्वफल्कः । तत्प्रभावः कथितएव । श्वपल्वस्थान्यः
पृष्ठ ५/१७७
कनीयान् चित्रको नाम भाता । श्वफल्काद-
क्रूरो गान्दिन्यामभवत् । इति विष्णुपुराणे ४
अश १४ अध्यायः ॥

श्वभीरुः, पुं, (शुनः कुक्कुरात् भीरुर्भयशीलः ।)

शृगालः । इति शब्दमाला ॥

श्वभ्र, क विले । गती । तङ्के । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-तङ्के अक०-सेट् ।) विलं
रन्ध्रकरणम् । क, श्वभ्रयति भाण्डं बालकः ।
तङ्क इति तकि दौःस्थ्ये इत्यस्य रूपम् । श्वभ्र-
यति दीनः दुःखेन जीवतीत्यर्थः । तङ्कस्थाने
तन्त्र इत्यपपाठः । इति दुर्गादासः ॥

श्वभ्रं, क्ली, (श्वभ्र्यते यदिति । श्वभ्र विले +

कर्म्मणि घञ् ।) छिद्रम् । इत्यमरः ॥ (यथा,
मार्कण्डेये । ४३ । २९ ।
“पततो यस्य वै गर्त्ते स्वप्ने द्वारं पिधीयते ।
न चोत्तिष्ठति यः श्वभ्रात् तदन्तं तस्य जीवि-
तम् ॥”)

श्वयथुः, पुं, (टु ओ श्वि गतिवृद्ध्योः + “ट्वितोऽ-

थुच् ।” ३ । ३ । ८९ । अथुच् ।) शोथः । इत्य-
मरः ॥ (यथा, बृहत्संहितायाम् । ३२ । १० ।
“श्वयथुश्वासोन्मादज्वरकासभवा वणिक्-
पीडा ॥”)

श्वयीची, स्त्री, (श्वयतीति । श्वि गतिवृद्ध्योः +

“श्वयतेश्चित् ।” उणा० ४ । ७१ । इति ईचिः ।
वा ङीष् ।) पीडा । इति सिद्धान्तकौमुदी ॥

श्वल, वेगे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् । वकारयुक्तादिः । श्वलति । वेगः
शीघ्रगतिः । इति दुर्गादासः ॥

श्वल्क, क भाषे । इति कविकल्पद्रुमः । (चुरा०-

पर०-सक०-सेट् ।) वकारयुक्तस्तालव्यादिरन्तः-
स्थतृतीयोपधः । क, श्वल्कयति । भाषः कथ-
नम् । इति दुर्गादासः ॥

श्वल्ल वेगे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) वकारयुक्तादिः लद्वयान्तः ।
श्वल्लति । वेगः शीघ्रगतिः । इति दुर्गादासः ॥

श्ववृत्तिः, स्त्री, (शुनः कुक्कुरस्येव पराधोना वृत्तिः ।

सवा । इत्यमरः ॥ चाक्री इति भाषा । शुन
इव वृत्तिः परपिण्डोपजीवनात् । इति भरतः ॥
अपि च ।
“सत्यानृतन्तु वाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिराख्याता तस्मात्ता परिवर्जयेत् ॥”
इति मानवे ४ अध्याये ६ श्लोकः ॥
“सेवा तु दीनदृष्टिसन्दर्शनस्वामितर्ज्जननीच-
क्रियादिधर्म्मयोगात् शुन इव वृत्तिरतः श्ववृत्ति-
रुक्ता तस्मात्तां प्रकृतो ब्राह्मणस्त्यजेत् ।” इति
कुल्लूकभट्टः ॥

श्वव्याघ्रः, पुं, (शुनो व्याघ्रः ।) हिंस्रपशुः । यथा,

“शार्दून्तः पुण्डरीकश्च द्वीपी चाथ सृगादनः ।
श्वव्याघ्रश्च तरक्षुश्च व्याडश्च श्वापदः समौ ॥”
इति जटाधरः ॥

श्वशुरः, पुं, (शु आशु अश्यते व्याप्यते इति ।

अश + “शावशेराप्तौ ।” उणा० १ । ४५ । इति
उरन् । “शुशब्दोऽत्राशुशब्दाभिधायी । आशु
व्याप्तव्यः श्वशुर इति धातुपारायणम् ।” इति
तट्टीकायां उज्ज्वलदत्तः ॥) पतिपत्न्योः पिता ।
इत्यमरः ॥ (यथा, --
“मसारे खलु संसार सारः श्वशुरमन्दिरम् ।
हिमालये हरः शेते हरिः शेते महोदधौ ॥”
इत्युद्भटः ॥)
पूज्यः । इति मेदिनी ॥

श्वशुरौ, पुं, (श्वश्रूश्च श्वशुरश्च तौ । “श्वशुरः

श्वश्र्वा ।” १ । २ । ७१ । इति पाक्षिक एक-
शेषः ।) श्वश्रूश्वशुरौ । द्विवचनान्तोऽयम् ।
इत्यमरः ॥ श्वशुर शाशुडी इति भाषा ॥

श्वशुर्य्यः, पुं, (श्वशुरस्यापत्यमिति । श्वशुर +

“राजश्वशुरात् यत् ।” ४ । १ । १३७ । इति
यत् ।) देवरः । श्याराः । इत्यमरः ॥ (यथा,
कथासरित्सागरे । १९ । ५७ ।
ददौ वैदेहदेशे च राज्यं गोपालकाय सः ।
सत्कारहेतोर्नृपतिः श्वशुर्य्यायानुग्च्छते ॥”)

श्वश्रूः, स्त्री, (श्वशुरस्य स्त्री । श्वशुर + “श्वशुर-

स्योकारलोपश्च ।” ४ । १ । ६८ । इत्यस्य वार्त्ति-
कोक्त्या ऊङ् उकारलोपश्चं ।) पतिपत्न्योः प्रसूः ।
इत्यमरः ॥ शाशुडी इति भाषा ॥ * ॥ तस्याः
स्नुषाभिः सहाविश्वासकारणं यथा, --
धर्म्मव्याध उवाच ।
“मया ते दुहिता दत्ता पुत्त्रार्थे वरवर्णिनी ।
सा च त्वद्भार्य्यया प्रोक्ता दुहिता जन्तुघातिनः ॥
अतोऽर्थमागतोऽहं ते गृहं प्रति समीक्षितुम् ।
आचारं देवपूजाञ्च अतिथीनाञ्च तर्पणम् ॥
एतेषागेकमप्यत्र कुर्व्वन्नपि न दृश्यते ।
तद्गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ॥
स्वगृहे नैव भुञ्जामि पितॄणां कार्य्यमित्युत ।
अहं व्याधो जीवघाती न तु तल्लोकहिंसकः ॥
मत्सुता जीवघातस्य यदूढा त्वत्सुतेन च ।
त्वन्महत्वञ्च संप्राप्तं प्रायश्चित्तं तपोधन ॥
एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे ।
मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित्
मा च स्नुषा कदाचित् स्यात् या श्वश्रूं
जीवतीमिषेत् ।
एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ॥”
इति वाराहे आदिकृतवृत्तान्तनामाध्यायः ॥

श्वश्रूश्वशुरौ, पुं, (श्वश्रूश्च श्वशुरश्च तौ ।) श्वश्रू-

श्वशुरयोः सहोक्तिः । तत्पर्य्यायः । श्वशुरौ २ ।
इत्यमरः ॥

श्वस, घ लु प्राणने । इति कविकल्पद्रुमः ॥ (अदा०

पर०-अक०-सेट् ।) “वकारयुक्तादिः । घ लु,
श्वसिति लोकः जीवतीत्यर्थः । आश्वसेयुर्निशा-
चरान् । इति भट्टौ । न विश्वसेत् पूर्व्वविरो-
धितस्येति । पञ्चतन्त्रे ।
‘तविखसेदविश्वस्तं विश्वस्ते नातिविश्वसेत् ।’
इत्यादौ च गणकृतमनित्यमिति न्यायात् शपः
स्थितौ साध्यम् । अथवा हादेराकृतिगणत्वात्
तत्र दष्टव्यम् । वस्तुतस्तु “पचादित्वादनि श्वस
इवाचरतीति क्वौ साध्यम् ।” इति दुर्गादासः ॥

श्वस, लुर स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-अक०-सेट् ।) लु, श्वस्ति । र, वैदिकः ।
इति दुर्गादासः ॥

श्वसनं, क्ली, (श्वस + ल्युट् ।) श्वसितम् । निश्वासः ।

इति मेदिनी ॥ (यथा, किराते । १० । ३४ ।
“श्वसनचलितपल्लवाधरोष्ठे
नवनिहितेर्ष्यमिवावधूनयन्ती ॥” * ॥
स्पर्शनम् । इति श्रीधरस्वामी ॥ यथा, भागवते
२ । २ । २९ ।
“ध्राणेन गन्धं रमनेन वै रसं
रूपञ्च दृष्ट्या श्वसनं त्वचैव ॥”)

श्वसनः, पुं, श्वसितीति । श्वस + ल्युः ।) वायुः ।

(यथा, बृहत्संहितायाम् । ३४ । २ ।
“इन्द्रयमवरुणनिरृति-
श्वमनेशपितामहाग्निकृताः ॥”)
मदनवृक्षः । इत्यमरः ॥

श्वसनाशनः, पुं, (श्वसनो वायुरशनं भक्ष्यं यस्य ।

सर्पः । इति हारावली ॥ (यथा, राजतर-
ङ्गिण्याम् । १ । २२५ ।
“जगाद तं द्विजन्मानं निश्वस्य श्वसनाशनः ॥”)

श्वसनेश्वरः, पुं, (श्वसन ईश्वरो यस्य ॥) अर्ज्जुन-

वृक्षः । इति शब्दचन्द्रिका ॥

श्वसनोतसुकः, पुं, (श्वसनाय उत्सुकः । सर्पः ।

इति शब्दरत्नावली ॥

श्वसितं, क्ली, (श्वस + क्तः ।) श्वासः । यथा, --

“श्वासस्तु श्वसितं सोऽन्तर्मुखे उच्छास आहरः
आनो बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः ॥
इति हेमचन्द्रः ॥

श्वसुनः, पुं, (श्वस + बाहुलकात् उगन् ।) क्षतघ्न-

वृक्षः । इति शब्दचन्द्रिका ॥ कुकुरशोङ्गा
इति भाषा ॥

श्वस्तनं, त्रि, (श्वो भवम् । श्वस् + “एषमोह्यः

श्वसोऽन्यतरस्याम् ।” ४ । २ । १०५ । इति त्यब्-
भावे ट्युट्युलौ तुट् च ।) भविष्यद्वस्तु । इति
शब्दमाला ॥ (यथा, भागवते । ११ । ८ ।
१२ ।
“सायन्तनं श्वस्तनं वा न संगृह्णीत भिक्षुकः ।
मक्षिका इव संगृह्णन् सह तेन विनश्यति ॥”)
भविष्यत्काले, क्ली । इति राजनिर्घण्टः ॥

श्वस्त्यं त्रि, (श्वो भवमिति । श्वस् + “एषमोह्यः

श्वसोऽन्यतरस्याम् ।” ४ । २ । १०५ । इति त्यब् ।)
श्वोभववस्तु । इति शब्दमाला ॥

श्वा, [न्] पुं, (श्वयति गच्छतीति । श्विगतौ +

“श्वन् उक्षन् पूषन्निति ।” उणा० १ । १५८ ।
इति कनिन्प्रत्ययेन साधु ।) कुक्कुरः । तत्-
पर्य्यायः ।
“कुक्कुरः श्वा च भषकः शुनको मृगदंशकः ।
कौलेयको रन्तिदेवः सारमेयो रतव्रणः ॥
“कुक्कुरो दीर्घसुरतः श्वानो ग्राममृगोऽपि च ।
वक्रपुच्छः शयालुः स्यात् शरत्काम्यरतत्रपः ॥
औषधादियोगितः श्वा स्यादलर्क्कोऽप्यलर्क्ककः ।
पृष्ठ ५/१७८
मृगयाकुशलः श्वा तु विश्वकद्रुः पुमानयम् ॥”
इति शब्दरत्नावली ॥

श्वागणिकः, त्रि, श्वगणेन चरति यः । “श्वग-

णात् ठञ् च ।” ४ । ४ । ११ । इति ठञ् । श्वगणेन
चरति । श्वागणिकः श्वागणिकी श्वगणिकः
श्वगणिकी । इति सिद्ध्वान्तकौमुदी ॥

श्वादन्तः, पुं, (शुनो दन्त इव दन्तो यस्य । “शुनो

दन्तदंष्ट्रेति ।” ६ । ४ । १३७ । इत्यस्य वार्त्ति-
कोक्त्या दीर्घः ।) कुक्कुरदशनः । इति सिद्धान्त-
कौमुदी ॥

श्वानः, पुं, (श्वा एव । श्वन् + स्वार्थे अण् ।)

कुक्कुरः । इति शब्दरत्नावली ॥ (शुनां समूहः
सण्डिकादित्वात् अञ् । कुक्कुरसमूहे, क्ली ॥)

श्वानचिल्लिका, स्त्री, (श्वानप्रिया चिल्लिका ।)

शुनकचिल्ली । इति राजनिर्घण्टः ॥

श्वानी, स्त्री, (श्वान + स्त्रियां ङीष् ।) कुक्कुरी ।

इति शब्दरत्नावली ॥

श्वापदः, पुं, (शुन इव पदं यस्य । “शुनो दन्त-

दंष्ट्राकर्णकुन्दवराहपुच्छपदेषु ।” ६ । ४ । १३७ ।
इत्यस्य वार्त्तिकोक्त्या दीर्घः ।) हिंस्रपशुः । इति
हेमचाद्रः ॥ (यथा, विष्णुपुराणे । १ । ५ । ५१ ।
“श्वापदो द्विखुरो हस्ती वानरः पक्षिपञ्चमः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥”)
व्याघः । इति शब्दरत्नावली ॥

श्वावित्, [ध्] पुं, (श्वानं विध्यतीति । व्यध +

क्किप् । “नहि वृतीति ।” ६ । ३ । ११६ । इति
दीर्घः ।) शल्यः । इत्यमरः ॥ सजारु इति
भार्षा ॥ (यथा, मनुः । ५ । १८ ।
“श्वाविधं शल्यकं गोधां खङ्गकूर्म्मशशांस्तथा ।
भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतो दतः ॥”)

श्वाविद्, (ध्) पुं, (श्वानं विध्यतीति । व्यध + क्विप् ।

“नहिवृताति ।” ६ । ३ । ११६ । इति दीर्घः ।)
शल्यः । इत्यमरः ॥ सजारु इति भाषा ॥

श्वाश्वाः, पुं, (श्वा कुक्कुरः अश्व इव वाहनं यस्य ।)

भैरव । कुक्कुरवाहनत्वात् । इति केचित् ॥

श्वासः, पुं, (श्वसित्यनेनेति । श्वस + करणे घञ् ।

यद्वा, श्वसितीति । श्वस + “श्याद्व्यधेति ।” ३ ।
१ । १४१ । इति णः ।) श्वसितम् । वायुः ।
इति हेमचन्द्रः ॥ तत्पर्य्यायः । प्राणः २ । इति
राजनिर्घण्टः ॥ (यथा, साहित्यदर्पणे । १ । १४७ ।
“श्वासान् मुञ्चति भूतले विलुठति त्वन्मार्ग-
मालोकते
दीर्घं रोदिति विक्षिपत्यत इतः क्षामां भुजा-
वल्लरीम् ॥”)
रोगविशेषः । स तु बलवान् महापातकजः ।
यथा, --
“उन्मादश्चत्वचां दोषो राजयक्ष्माश्मरी तथा ।
श्वासश्च मधुमेहौ द्वावुदरी पापसंज्ञकाः ॥
इति नारदोक्तम् ॥”
इति शुद्धितत्त्वम् । स च हीनबल उपपातकजः
यथा, --
जलोदस्यकतमीहशूलरोगव्रणानि च ।
श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः ।
रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥”
इति मलमासतत्त्वम् ॥ * ॥
अथ श्वासाधिकारः । तत्र निदानमाह ।
“यैरेव कारणैर्हिक्का देहिनां संप्रवर्त्तते ।
तैरेव बहुभिः श्वासो व्याधिर्घोरः प्रजायते ॥”
श्वासस्य भेदानाह ।
“महोर्द्धच्छिन्नतमक्षुद्रभेदैस्तु पञ्चधा ।
भिद्यते स महाव्याधिः श्वास एको विशेषतः ॥”
पूर्व्वरूपमाह ।
“प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च ।
आनाहो वक्त्रवैरस्यं शङ्खनिस्तोद एव च ॥” * ॥
मंप्राप्तिमाह ।
“यदा स्रोतांसि संरुध्य मारुतः कफपूर्त्तकः ।
विश्वग्व्रजतिसं रुद्धस्तदा श्वासं करोति सः ॥”
स्रोतांसि प्राणोदकान्नवहानि । कफपूर्व्वकःकफः
पूर्व्वः प्रधानं यस्य सः । विश्वग्व्रजति सर्व्वतो
विमार्गान् याति । संरुद्धः कफेन रुद्धमार्गः ॥ * ॥
महाश्वासस्य लक्षणमाह ।
“उद्धूयमानवातो यः शब्दवत् दुःखितो नरः ।
उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवानिशम् ॥
प्रनष्टज्ञानविंज्ञानस्तथा विभ्रान्तलोचनः ।
विवृताक्ष्याननो बद्धमूत्रवर्च्चा विशीर्णवाक् ॥
दीनः प्रश्वसितं चास्य दूरात् विज्ञायते भृशम् ।
महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ॥”
उद्धूयमानवातः ऊर्द्ध्वं नीयमानो वातो यस्य सः
शब्दवत् शब्दं यथा स्यात् कीदृक् स शब्दस्तद्-
बोधयितुमाह । मत्तर्षभ इव उच्चैः श्वसिती-
त्यन्वयः । सन्नद्धः आनद्धः आनाहयुक्त इति
यावत् । ज्ञानं शास्त्रम् । विज्ञानं तदर्थविनि-
श्चयः । विशीर्णवाक् स्खलितवचनः । दीनः
ग्लानः । मारकश्चाथं महाश्वासः ॥ * ॥ ऊर्द्ध-
श्वासमाह ।
“ऊर्द्ध्वं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः ।
श्लेष्मावृतमुखस्रोतः क्रुद्धगन्धवहार्द्दितः ।
ऊर्द्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः ।
प्रमुह्यन् वेदनार्त्तश्च शुष्कास्यो रतिपीडितः ॥
ऊर्द्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते ।
मुह्यतस्ताम्यतश्चोर्द्ध्वं श्वासस्तस्यैव हन्त्यसून् ॥”
सर्वेषु श्वासेषूर्द्धं श्वसते । अत्र अत्यर्थमिति
विशेषः । न च प्रत्याहरत्यधः न श्वासमधः
करोति । श्लेष्मावृतेत्यादि । श्वेष्मणा आवृतं
यन्मुखं स्रोतांसि च तैः क्रूद्धो यो गन्धवहस्ते
नार्द्दितः । विपश्यन् इतस्ततो विकृतं यथा
स्यादेवं पश्यन् । अधःश्वासो निरुध्यते श्वासो
नाधः प्रवर्त्तत इत्यर्थः ॥ * ॥ ऊर्द्धश्वासस्यारि-
ष्टस्य लक्षणमाह । मुह्यतो मोहं प्राप्नुवतः
ताम्यतो ग्लानिं प्राप्नुवतश्च ऊर्द्धश्वासः असून्
प्राणान् हन्ति । तस्यैवेति न तु मोहग्लानि-
रहितस्य ॥ * ॥ छिन्नश्वासमाह ।
“यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः ।
न चाश्वसिति दुःखार्त्तो मर्म्मच्छदरुजार्द्दितः ॥
आनाहस्वेदमूर्च्छार्त्तो दह्यमानेन वस्तिना ।
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ॥
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः ।
छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् ॥”
विच्छिन्नं सविच्छेदम् । सर्व्वप्रःणेन यावद्बलेन ।
मर्म्मच्छेदरुजार्द्दितः हृदयशिरश्छेदवेदनयेव
पीडितः । दह्यमानेन वस्तिना डपलक्षितः ।
विप्लुताक्षः अश्रुपूर्णनेत्रः । विचेता उद्विग्न-
चित्तः । छिन्नश्वासेन विच्छिन्नः सः । यस्तु
श्वसिति विच्छिन्नमित्यादिलक्षणयुक्तो यः स
नरश्छिन्नश्वासेन विच्छिन्नः पीडितो बोद्धव्य
इत्यर्थः । मारकश्चायं विच्छिन्नश्वासः ॥ * ॥
तमकश्वासमाह ।
“प्रतिलोमं यथा वायुः स्रोतांसि प्रतिपद्यते ।
ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य्य च ॥
करोति पीनसन्तेन कण्ठे घुर्घुरकं तथा ।
अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम् ॥
प्रताम्यति स वेगेन त्रस्यते संनिरुध्यते ।
प्रमोहं कासमानश्च स गच्छति मुहुर्म्मुहुः ॥
श्लेष्मणा मुच्यमानेन भृशं भवति दुःखितः ।
तस्यैव च विमोक्षान्ते मुहूर्त्तं लभते सुखम् ॥
तथास्योद्धंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्
न चापि निद्रां लभते शयानः श्वासपीडितः ॥
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः ।
आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति ॥
उच्छ्रिताक्षो ललाटेन क्लिद्यता भृशमार्त्तिमान्
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ॥
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते ।
स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवो-
त्थितः ॥”
संगृह्य व्यथया समुदीर्य्य वर्द्धयित्वा । पीनसं
नासास्रावम् । तेन श्लेष्मणा घुर्घुरकं घुर्घुर-
शब्दम् । प्राणप्रपीडकं प्राणाधिष्ठानहृदय-
प्रपीडकम् । प्रताम्यति तमसि प्रविशतीव ।
वेगेन श्वासवेगेन । संनिरुध्यते निश्चेष्टो भव
तीति चक्रः । संनिरुध्यते श्वास इति जेज्जटः ।
श्लेष्मणा अमुच्यमानेन । सुखं सुखमिव । उद्धं-
सते व्यथितो भवति । शयानः शय्यानिहिताङ्गः
अवगृह्लाति पीडयति । उष्णञ्चैवाभिनन्दति
इत्यनेन तमको वातकफारब्ध इति बोधव्यम् ।
उच्छ्रिताक्षः शूनाक्षः । ललाटेन स्विद्यता
उपलक्षितः । अवधम्यते गजारूढस्येव सर्वगात्र
चाल्यते ॥ * ॥ तमकस्यैव पित्तानुबन्धजनित-
ज्वरादियोगेन प्रतमकसंज्ञामाह ।
“ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तत् ।
उदावर्त्तरुजोऽजीर्णक्लिन्नकायनिरोधतः ॥
तमसा वर्द्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति ।
मज्जतस्तमसी चास्य विद्यात् प्रतमकं तु तत् ॥”
क्षुद्रश्वासमाह ।
“रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् ।
क्षुश्वद्रामेन सोऽत्यर्थं दुःखेनाङ्गप्रवाधकः ॥
हिनस्ति न च गात्राणि न च दुखो यथेतरे ।
पृष्ठ ५/१७९
न च भोजनपानानां निरुणद्ध्युचितां गतिम् ॥
नेन्द्रिमाणां व्यथाञ्चापि काञ्चिदुत्पादयेद्रुजम् ।
स साध्य उक्तो बलिनः सर्व्वे वा व्यक्तलक्षणाः ॥”
क्षुद्रः अल्पनिदानलिङ्गः । उदीरयन् ऊर्द्ध्वं-
गच्छन् । दुःखः दुःखप्रदः । सर्व्वे महाश्वासा-
दयोऽपि ॥ * ॥ श्वासानां साध्यत्वादिकमाह ।
“क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते ।
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ॥
कामं प्राणहरा रोगा बहवो न ज्वरादयः ।
तथा यथा श्वासहिक्के हरतो जीवमाशु ते ॥”
अथ श्वासस्य चिकित्सा ।
“श्वासहिक्कातुरं प्रायः स्निग्धैः स्वेदैरुपाचरेत् ।
युक्तैर्लवणतैलाभ्यां तैरस्य ग्रथितः कफः ॥
श्वासो विलयमायाति मारुतश्चोपशाम्यति ।
स्निग्धं ज्ञात्वा ततश्चैनं भोजयेच्च रसोदनम् ॥
स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम् ।
पाययेत् श्वासकासघ्नं प्रतिश्यायकफापहम् ॥”
शृङ्गवेरमार्द्रकम् ।
“प्रस्थं विभीतकानां अस्थि विना साधयेदजा-
मूत्रे ।
अयमवलेहो लीढो मधुसहितः श्वासकासघ्नः ॥
दशमूली शटी रास्ना पिप्पली विश्वपौष्करौ ॥
शृङ्गतामलकीभार्गीगुडूचीनागराग्निभिः ॥
यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः ।
श्वासहृद्ग्रहपार्श्वार्त्तिहिक्काकासप्रशान्तये ॥”
तामलकी भूम्यामलकी ।
“दशमूलस्य वा क्वाथः पौष्करेणावचूर्णितः ।
श्वासकासप्रशभनः पार्श्वशूलविनाशनः ॥
रम्भाकुन्दशिरीषाणां कुसुमं पिप्पलीयुतम् ।
पिष्ट्वा तण्डुलतोयेन पीत्वा श्वासमपोहति ॥
शृङ्गीमहौषधकणाघनपुष्कराणां
चूर्णं शटीमरिचयोश्च सिताविमिश्रम् ।
क्वाथेन पीतममृता वृषपञ्चमूल्या
श्वासं त्र्यहेन विनिहन्ति हि घोररूपम् ॥
पञ्चमूली तु सामान्यात् पित्ते योज्या कनीयसी
महती मारुते देया सैव देया कफेऽधिके ॥
कुष्माण्डकशिफाचूर्णं पीतं कोष्णेन वारिणा ।
शीघ्रं शमयति श्वासं कासञ्चापि सुदारुणम् ॥
हरिद्रां मरिचं द्राक्षां कणां रास्नां शटीं
गुडम् ।
कटुतैलं लिहन् हन्यात् श्वासान् प्राणहरानपि ॥
शतं संगृह्य भार्ग्यास्तु दशमूल्यास्तथापरम् ।
शतं हरीतकीनाञ्च पचेत्तोये चतुर्गुणे ॥
पादावशेषे तस्मिंस्तु रसे वस्त्रनिपीडिते ।
आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः ॥
पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमेति तत् ।
शीते च मधुनस्तत्र षट् फलानि विनिक्षिपेत् ॥
त्रिकटु त्रिसुगन्धश्च पलमात्रं पृथक् पृथक् ।
यवक्षारं कर्षयुग्मं संचूर्ण्य प्रक्षिपेत्ततः ॥
भक्षयेदभयामेकां लेहस्यार्द्धं पल तथा ।
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ॥
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा ।
स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः ।
नाम्ना भार्गीगुडख्यातो भिषग्भिः सकलैर्मतः ॥”
इति भार्गीगुडः ॥
“रसो गन्धो विषञ्चापि दङ्कणञ्च मनः शिला ।
एतानि कर्षमात्राणि मरिचं चाष्टकर्षकम् ॥
कटुत्रयं कर्षयुग्भं पृथगत्र विनिःक्षिपेत् ।
रसः श्वासकुठारोऽयं सर्व्वश्वासनिवारणः ॥”
श्वासकुठारो रसः । इति श्वासाधिकारः । इति
भावप्रकाशः ॥ * ॥ अन्यच्च ।
“विभीतकस्य वै चूर्णं समधु श्वामनाशनम् ।
पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुगम् ।
सर्व्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥”
इति गारुडे १८९ अध्यायः ॥ * ॥
तस्य पुराणोक्तनिदानं यथा, --
धन्वन्तरिरुवाच ।
“अथातः श्वासरोगस्य निदानं प्रवदाम्यहम् ।
कासवृद्ध्या भवेच्छ्वासः पूर्व्वो वा दोषकौपनैः ॥
आमातिसारवमथुविषपाण्डुज्वरैरपि ।
रजोधूमानिलैर्म्मर्म्मघातादपि हिमाम्बुना ॥
क्षुद्रकस्तमकश्छिन्नो महानूर्द्ध्वञ्च पञ्चमः ।
कफोपरुद्धगमनः पवनो विश्वमास्थितः ॥
प्राणोदकान्नवाहीनि दुष्टस्रोतांसि दूषयन् ।
उरःस्थः कुरुते श्वासमामाशयसमुद्भवम् ॥ * ॥
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता ।
आनाहः शङ्खभेदश्च तत्रापासीत भोजनैः ॥
प्रेरितः प्रेरयन् क्षुद्रं स्वयं ससमलं मरुत् ।
प्रतिलोमं शिरा गच्छेत् उदीर्य्य पवनः कफम् ॥
परिगृह्य शिरोग्रीवमूरःपार्श्वे च पीडयन् ।
कासं घुर्घुरकं मोहमरुचिं पीनसं भृशम् ॥
करोति तीव्रवेगञ्च श्वासं प्राणोपतापनम् ।
प्रभ्राम्येत्तस्य वेगेन निष्ठूतान्ते क्षणं सुखी ॥
कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्य-
मिच्छति ।
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्त्तिमान् ॥
विशुष्कास्यो मुहुः श्वासः कांक्षत्युष्णं सवेपथुम् ।
मेवाम्बु शीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते ॥
स याप्यस्तमकः साध्यो नरस्य बलिनो भवेत् ।
ज्वरमूर्च्छायुतः शीतैः शाम्येत् प्रतमकस्तु सः ॥
कासश्वसितविच्छिन्नमर्म्मच्छेदरुजार्द्दितः ।
सस्वेदमूर्च्छः सानाहो वस्तिदाहनिरोधवान् ॥
अधोदृष्टिः प्लुताक्षस्तु मुह्यन्रक्तकलोचनः ।
शुष्कास्यः प्रलपन् दीनो नष्टच्छायो विचेतनः ॥
महतामहता दीनो नादेन श्वसिति क्वथन् ।
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम् ॥
प्रनष्टज्ञानविज्ञानो विभ्रान्तनयनाननः ।
अक्ष समाक्षिपन्बद्धमूत्रवर्चा विशीर्णवाक् ॥
शुष्पकण्ठा मुहुर्म्मुहुः कर्णशङ्खशिरोऽभिरुक् ।
यो दीर्घमुच्छसित्यूर्द्ध्वं न च प्रत्याहरत्यधः ॥
श्लेष्मावृतमुखश्रोत्रः क्रुद्धगन्धवहार्द्दितः ।
ऊर्द्ध्वदृग्वीक्षते भ्रान्तमक्षिणी परितः क्षिपन् ॥
मर्म्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक् ।
एते सिद्धेयुरव्यक्ता व्यक्ताः प्राणहरा ध्नुवम् ॥”
इति गारुडे श्वासरोगनिदानं १५४ अध्यायः ॥
अथ श्वासरोगस्य कर्म्मविपाकः ।
“श्वासरोगो महानुग्रो देहिदेहावघातकः ।
कर्म्मणा येन भवति तन्मे निगदतः शृणु ।
महोर्द्ध्वच्छिन्नतमकक्षुद्राभेदोऽस्य पञ्चधा ॥
श्वासः संजायते नॄणां पृथक् कर्म्मानुसारता ॥
यस्तु यज्ञं समासाद्य पशुश्वासं निरुध्य च
हन्ति खादन्ति वातञ्च महाश्वासेन गृह्यते ॥ १ ॥
पौराणिककथामध्ये यस्तु वाचान्यथा भवेत् ।
स ऊर्द्ध्वश्वासमासाद्य दुनोत्यहरहर्निशम् ॥ २ ॥
निषिद्धदानग्रहणात् छिन्नश्वासेन गृह्यते । ३ ।
मर्त्यः शास्त्रार्थनिर्णीतवाक्यं यो दूषयत्यपि ॥
पीड्यते तमकश्वासैः क्षुद्रैः पाकस्य विघ्नतः । ४ । ५
परत्र कर्म्मतो देहि नरकेषु विपच्यते ॥
नरकान्ते पुनर्व्याघ्रयोनिं शूकरवायसीम् ।
पृथक्कर्म्मवशाद्योनिं गत्वा संप्राप्य तप्यते ॥
मानुषत्वमनुप्राप्य पूर्व्वोक्तेनोपगृह्यते ।
श्रुत्वा तूग्रन्तु कदनं श्वांसरोगसमुद्भवम् ।
प्रणम्य भरतः श्रीमान् भृगुं वाचमुवाचह ॥
राजोवाच ।
श्वासकर्म्मक्षयं येन दानेन नियमेन च ।
कृतेन मुक्तो भवति तन्मे वद प्रसादतः ॥
भृगुरुवाच ।
हाटकीं कारयेन्मूर्त्तिं भक्त्या वरुणवातयोः ।
ताम्रपात्रोपरि स्थाप्य तत्पात्रं कलसोपरि ।
राजतं कारयेत् पाशं ध्वजञ्चैव पलद्वयम् ।
वामदक्षिणतो मूर्त्तिं सपाशां गन्धदीपकेः ॥
वायोर्ध्वजसमायुक्तां गन्धमाल्यपरिष्कृताम् ।
वरुणस्यापसव्ये तु कुर्य्याद्वायोः प्रपूजनम् ॥
न च श्वासं विनाकासस्तच्छ्वासः कासतोऽपि वा
तस्मात् पूज्याविमौ सम्यक् वायुर्वरुण एव च ॥
वारुणं कारयेद्धोमं वरुणस्ये ति मन्त्रतः ।
घृतक्षौद्रतिलयवैः सहस्रं वा स्वशक्तितः ॥
वायोस्तिलयवैः कार्य्यं मनोवातेति मन्त्रतः ।
सादरं ब्राह्मणं पूज्य वस्त्रमाल्याक्षतादिभिः ॥
कर्म्मोपशमवाक्येन ब्राह्मणाय निवेदयेत् ।
सदक्षिणाञ्च तन्मूर्त्तिं दत्त्वा गाथां पठेन्नरः ।
ॐ नमः पाशभृते तुभ्यं ध्वजातिपतये नमः ।
जलाधिपतये तुभ्यं वायो सर्व्वजनप्रिय ॥
शुचये दीयते दानं ध्वजपाशौ तु राजतौ ।
श्वासकासौ हरेयातां प्रीतौ सर्व्वजनप्रियौ ॥
पूर्व्वजन्मविपाकोत्थौ श्वासकासौ च दारुणम् ।
सहिरण्यं प्रयच्छामि मुक्तोऽहं त्वत्प्रसादतः ॥
सादरं माधवं नत्वा दिग्देवान् भास्करं शिवम् ।
वस्त्रान्तरं कृतं विप्रं पुनर्भानुमुदीरयेत् ॥
अतः परं प्रकुर्व्वीत यदा सोऽद्भुतदुर्वहौ ।
श्वासकासौ ज्वरव्याधी दानं तस्योपशान्तये ॥
पशुघतोद्भवे श्वासे कुर्य्यादग्नेस्तु तप णम् ।
ॐ अग्ने मूर्द्धेति मन्त्रेण छागं दद्यात् सदक्षिणम्
कथाविघ्नोद्भवे रोगे कुर्य्यात् सारस्वतं नृप ।
दधिपात्रं सरजतं सरस्वत्यै निवेदयेत् ॥
निपिद्धदानग्रहणे गीदानन्तु समाचरेत् ।
पृष्ठ ५/१८०
इच्छाहारेण सन्तर्प्य द्विजञ्चापि प्रजापतिम् ॥
होमेनानेन दानेन मुक्तो भवति कर्म्मतः ।
मादरं माधवं नत्वा सन्तर्प्य द्विजपुङ्गवान् ॥
स्नात्वा कलसतोयेन मुक्तो भवति मानुषः ॥”
इति भृगुभरतोक्तश्वासकासकर्म्मविपाकः ॥
अपि च ।
“पिशुनो नरकस्यान्ते जायते श्वासकासवान् ।
घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ॥”
इति शातातपीयकर्म्मविपाकः ॥

श्वासकासः, पुं, (श्वासयुक्तः कासः ।) श्वासयुक्त-

कासरोगः । श्वासजनककासः । यथा, --
“कासवृद्ध्या भवेच्छ्वासः पूर्व्वो वा दोषकोपनैः ।”
इति गारुडे १५४ अध्यायः ॥
अन्यत् श्वासशब्दे द्रष्टव्यम् ॥

श्वासकुठारः, पुं, (श्वासस्य कुठार इव तन्नाशक-

त्वात् ।) श्वासरोगस्य औषधविशेषः । यथा, --
“रसो गन्धो विषञ्चापि टङ्कणञ्च मनःशिला ।
एतानि कर्षमात्राणि मरिचञ्चाष्टकर्षकम् ॥
कटुत्रयं कर्षयुग्मं पृथगत्र विनिःक्षिपेत् ।
रसः श्वासकुठारोऽयं सर्व्वश्वासनिवारणः ॥”
इति भावप्रकाशः ॥

श्वासप्रश्वासधारणं, क्ली, (श्वासप्रश्वासयोर्धारणं

यत्र ।) प्राणायामः । इति हेमचन्द्रः ॥

श्वासहेतिः, स्त्री, (श्वासस्य हेतिरिव ।) निद्रा ।

इति हेमचन्द्रः ॥

श्वासारिः, पुं, (श्वासस्य अरिः ।) पुष्करमूलम् ।

इति राजनिर्घण्टः ॥

श्वासी, [न्] पुं, (श्वासयतीति । श्वस + णिच् +

णिनिः ।) वायुः । इति शब्दरत्नावली ॥
(श्वासोऽस्यास्तीति । इनिः ।) श्वासयुक्ते, त्रि ॥
(यथा, सुश्रुते । १ । २९ ।
“वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः ।
याम्यां दिशं प्राञ्जलयो विषमैकपदे स्थिताः ।
वैदां य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥
श्वासरोगयुक्ते च त्रि । यथा, तत्रैव । ६ । ५१ ।
“स्नेहवस्तिं विना केचिदूर्द्धञ्चाधश्च शोधनम् ।
मृदुप्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि ॥”

श्वि, टु ऐ ओ इर् गतिवृद्ध्योः । इति कविकल्प-

द्रुमः ॥ भ्वा०-पर०-सक०-सेट् ।) तालव्यादिः ।
टु, श्वयथुः । ऐ, शूयात् । ओ, शूनः । इर्,
अश्वत अश्वयीत् । इति दुर्गादासः ॥

श्वित, ऌ आ ङ शौक्ल्ये । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) वकारयुक्तः ।
ऌ, अश्वितत् । आ, श्वितितं श्वित्तम् । ङ,
खतते प्रासादः । इति दुर्गादासः ॥

श्वित्रं, क्ली, (श्वेतते इति । श्वित शौक्ल्ये +

“स्फायितञ्चिवञ्चीति ।” उणा० २ । १३ । इति
रक् ।) श्वेतकुष्ठम् । तत्पर्य्यायः । कुष्ठम् २ ।
वत्यमरः ॥ श्वेतम् ३ श्वेत्रम् । इति तट्टीका ॥
(यथा, भागवते । ७ । १ । १८ ।
“शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् ।
श्विनं न जातं जिहायां नान्धं विविशतुस्तमः ॥”)
अथ त्वगृष्टिसाम्यात् कुष्ठभेदत्वच्चात्रैव श्वित्र-
माह ।
“कुष्ठैकसम्भवं श्वित्रं किलासञ्चारुणं भवेत् ।
निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥”
कुष्ठैकसम्भवं कुष्ठोन सह एकस्तुल्यः सम्भवो
निदानं यस्य तत् । श्वित्रस्य भेदानाह ।
किलासं चारुणं भवेत् । श्वित्रमेव रक्तमांसा-
श्रयात् किलासमरुणं भवेत् इत्यन्वयः । ननु
कुष्ठस्य श्वित्रस्य को भेदः इत्यत आह । निर्दिष्ट-
मपरिस्रावीति । श्वित्रमपरिस्रावि भवति
कुष्ठन्तु स्रावि अथच त्रिधातूद्भवसंश्रयमिति
त्रयो धातवो वातपित्तकफास्तेभ्यः पृथग्भूतेभ्य
उद्भवो यस्य तत् । अथ च त्रयो धातवो रक्त-
मांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत् । कुष्ठं
सान्निपातिकं सर्व्वधातुगतञ्च भवति इति
भेदः ॥ दोषभेदेन लक्षणभेदमाह ।
“वाताद्रूक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।
सदाहं रोमविध्वंसि कफाच्छेतं घनं गुरु ॥
सकण्डूकं क्रमात् रक्तं मांसमेदः स चादिशेत् ।
वर्णेनैवेदमुभयं कष्टं तच्चोत्तरोत्तरम् ॥”
अरुणमीषल्लोहितम् । कमलपत्रवत् इत्यनेन
मध्ये श्वेतभन्ते लोहितं बोधयति ।
“घनं पुष्टं क्रमाद्रक्तं मांसमेदासु चादिशेत् ।”
तथा च चरकः ।
“अरुणं रक्तगे वाते ताम्रं पित्ते पलङ्गते ।
श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परं परम् ॥”
इति ॥
उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव । अरुणं
ताम्रं श्वेतञ्च दोषभेदात् । द्विविधं दोषजं
व्रणजञ्च । तथा च भोजः ।
“श्वित्रञ्च द्विविधं विद्याद्दोषजं ब्रणजं तथेति ॥”
श्वित्रं साध्यमसाध्यमाह ।
“अशुक्लरोमावहलमसंसृष्टं मिथो नवम् ॥
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ॥”
अवहलं तनु । अन्यच्च ।
“गुह्यपाणितलौष्टेषु जातमप्यचिरन्तनम् ।
वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता ॥”
मुह्य मेहनं भगञ्च । तलमत्र पादतलम् ।
सुश्रुतेनान्ते जातमिति सामान्यतो निर्द्दिष्ट-
त्वात् ॥ * ॥ अथ श्वित्रस्य चिकित्सा ।
“विभीतकत्वङ् मलपूजटानां
क्वाथेन कृत्वा गुडसंयुतेन ।
अवल्गुजं बीजमपाकरोति
श्वित्राणि कृच्छ्राण्यपि पुण्डरीकम् ॥”
मलपूः कटुवरी । अवल्गुजः वाकुची ॥ १ ॥
“कुडवावल्गुजबीजं हरितालं तच्चतुर्थांशम् ।
मनःशिला तालकार्द्धा गुञ्चाफलमग्निमूलञ्च ॥
मूत्रेण गवां पिष्टं सवर्णताकारकं श्वित्रस्या ।” २ ।
“श्वित्रकुष्ठं व्रजत्यस्तं पक्षार्द्धेनाधिकेन वा ।
गिरिकर्ण्याः सितायाश्च मूलेन परिलेपितम् ॥”
गिरिकर्णी नीलापराजिता । धन्वन्तरौति
लोके ॥ ३ ॥
“काथः सवाकुचीचूर्णं धात्रीखदिरसारयोः ।
शङ्खेन्दुकुन्दधवलं श्वित्रं संसेवितो हन्ति ॥ ४ ॥
मथितेन पिबेच्चूर्णं काकोदुम्बरवल्गुर्जम् ।
तैलाक्तं घर्म्मसेवी स्यात्तक्राशी श्वित्रहृद्भवेत् ॥”
मथितं निर्जलं विलोडितं दधि । तक्रं चतुर्थांश
जलयुक्तं वस्त्रपुतं दधि ॥ ५ ॥
“खदिरस्य पलान्यष्टौ सोमराज्याः पलद्वयम् ।
त्रिफला पिचुमर्द्दश्च दारुदार्व्यथ पर्पटः ॥
पृथक् फलान् समुद्धृत्य सिंहिकायाः पलद्वयम्
जलाढकद्वये साध्यं यावत् पादावशेषितम् ॥
क्वाथ्यमानञ्च मृद्वग्नौ घृतप्रस्थं विपाचयेत् ।
चतुःपलं सोमराज्याः खदिरस्य पलं तथा ॥
पटोलमूलत्रिफलात्रायमाणा दुरालभा ।
कषार्द्धं कटुकञ्चापि कार्षिकान् सूक्ष्मपेवितान् ॥
पलद्वयं कौषिकस्य शुद्धस्यात्र प्रदापयेत ।
सिद्धं सर्पिरिदं श्वित्रं हन्यादम्भ इवानलम् ॥
अष्टादशानां कुष्ठानां परमं वै तथौषधम् ।
सोमराजीघृतं नाम निर्म्मितं ब्रह्मणा पुरा ॥
लोकानामुपकाराय श्वित्रकुष्ठादिरोगिणाम् ॥”
इति सोमराजीघृतम् ॥ ६ ॥
“महौषधं महामेदां निम्बपत्राणि सर्षपाः ।
मनःशिला च सिन्दूरं पद्मवारिण्यवल्गुजम् ॥
हरिद्रे हरितालञ्च त्रिफला पीतगन्धकान् ।
एतानि समभागानि विषार्द्धांशानि योजयेत् ॥
सर्पिषश्च पलान्य ष्टौ देवदारुरसं शुभम् ।
हिगुणं त्रिगुणं क्षीरं गोमूत्रञ्च चतुर्गुणम् ॥
ताम्रपात्रे तु संस्थाप्य शनैर्म्मृद्वग्निना पचेत् ।
चतुर्भागावशेषन्तु सकल्कमवतारयेत् ॥
अग्नौ क्षिप्तन्तु निःशब्दं जलमुक्तं विचक्षणः ।
अभ्यङ्गपानयोगात्तदाशु सर्व्वान् गदान् जयेत्
अष्टादशानां कुष्ठानां दद्रूणां श्वित्रिणां तथा
दुष्टनाडीषु मर्त्यानां स्राविणां कीटिनां तथा ।
असृक्सावपरीता ये ये च त्यक्तभिषक्क्रियाः
सर्व्वग्रहवियुक्तानां शीर्णाङ्गानां विशेषवः ॥
सर्व्वधातुगते कुष्ठे पतितभ्रूशिरोरुहम् ।
घर्घराव्यक्तघोषाणां तथा सर्व्वाङ्गवातिनाम् ॥
पानेऽभ्यङ्गे तथा नस्ये वस्तिकर्म्मणि नित्यशः ।
सप्तरात्रप्रयागेण सर्व्वकुष्ठानि नाशयेत् ॥
द्विसप्ताहप्रयोगेण पूर्णचन्द्रनिभाननः ।
जातकेशनखश्मश्रुर्भाति षोडशवर्षवत् ॥
अनङ्गसहितं साक्षात् सर्व्वामयविनाशनः ।
एतद्घृतं महाश्रेष्ठं भार्गवेणावतारितम् ॥
मनुष्याणां हितार्थाय सर्व्वव्याधिहरं परम् ।
महामार्त्तण्डकमिदं घृतं सर्व्वामरार्च्चितम् ॥ ७ ॥
इति भावप्रकाशः ॥
अपि च ।
“धात्रीखदिरयोः क्वाथं पीत्वा च जम्बुसंयुतम् ।
शङ्केन्दुधवलश्वित्रं हन्ति तूर्णं न संशयः ॥”
इति गारुडे १७५ अध्यायः ॥

श्वित्रघ्री, स्त्री, (श्वित हन्तीति । हन + टक् ।

ङीष् ।) पीतपर्णी । इति शब्दचन्द्रिका ॥
विछुटी इति भाषा ॥
पृष्ठ ५/१८१

श्वित्री, [न्] त्रि, (श्वित्रमस्त्यस्येति । श्वित्र +

इनिः ।) श्वित्ररोगयुक्तः । यथा, --
“श्वित्री वस्त्रंश्वा रसन्तु चीरी लवणहारकः ॥”
इति याज्ञवल्क्यः । ३ । २१५ ॥

श्विद, इ ङ शौक्ल्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) वकारयुक्तः । इ, श्विन्द्यते ।
ङ, श्विन्दते पुण्डरीकम् । इति दुर्गादासः ॥

श्वेतं, क्ली, (श्वेतते इति । श्वित + अच् ।)

रूप्यम् । इत्यमरः ॥

श्वेतः, पुं, (श्वेतते इति । श्वित शौक्ल्ये + पचाद्यच् ।)

शुक्लवर्णः । द्वीपविशेषः (यथा, महाभारते ।
१२ । ३३५ । ८ ।
“क्षीरोदवेर्योत्तरतो हि द्वीपः
श्वेतः स नाम्ना प्रथितो विशालः ॥”)
पर्व्वतभेदः । इति मेदिनी ॥ (स तु जम्बुद्वीप-
पर्व्वतानामन्यतमः । यथा, मार्कण्डेये । ५४ । ९ ।
“हिमवान् हेमकूटश्च ऋषभो मेरुरेव च ।
नीलः श्वेतस्तथा शृङ्गी सप्तास्मिन् वर्षपर्व्वताः ॥”
श्वेतपर्व्वतस्य परिमाणादि यथा । “उत्तरोत्तरे
णेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो
रम्यकहिरण्मयकुरूणां मर्य्यादागिरयः प्रागा-
यताः उभयतः क्षारोदावधयो द्विसहस्रयोजन-
पृथव एकैकशः पूर्व्वस्मात् पूर्व्वस्मादुत्तरोत्तरो
दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति । एवं
दक्षिणेनेलावृतं निषधा हेमकूटो हिमालय इति
प्रागायत्ना यथा नोलादयः । अयुतयोजनोत्सेधा
हरिवर्षकिंपुरुषभारतानां यथासंख्यम् ।” इति
श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥ * ॥
कपर्द्दकः । इति हेमचन्द्रः ॥ शुक्रग्रहः ।
श्वेताभ्रः । इति शब्दरत्नावली ॥ शङ्खः । इति
राजनिर्घण्टः ॥ जीवकः । इति जटाधरः ॥
शिवावतारविशेषः । यथा, --
“वेदव्यासावताराणि द्वापरे कथितानि तु ।
महादेवावताराणि कलौ शृणुत सुव्रताः ॥
आदौ कलियुगे श्वेतो देवदेवो महाद्युतिः ।
नाम्ना हिताय विप्राणामभूद्वैवस्वतेऽन्तरे ॥
हिमवच्छिखरे रस्ये छगले पर्वतोत्तमे ।
तस्य शिष्याः शिखायुक्ता बभूवुरमितप्रभाः ॥
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
चत्वारस्ते महात्मानो व्राह्मणा वेदपारगाः ॥
सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा ।
लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥
अष्टमे दधिबाहुः स्यान्नवमे वृषभप्रभुः ।
भृगुस्तु दशमे प्राक्तस्तस्तादुग्रः परः स्मृतः ॥
द्वादशेऽत्रिः समाख्यातो बाली चाथ त्रयो-
दशे ।
चतुर्दशे गौतमस्तु वेदशीर्प्रा ततः परम् ॥
गोकणश्चाभवत्तस्मात् गुहावासः शिखण्ड्यथ ।
जटामाल्यट्टहासश्च दारुको लाङ्गलो क्रमात् ॥
श्व तस्तथापरः शूली तिण्डी मुण्डी च वै क्रमात्
साहष्णुः सोमशर्म्मा च नकुलीशोऽन्तिमे प्रभुः ॥
ववस्वतेऽन्तरे शम्भोरवतारास्त्रिशूलिनः ।
अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः ॥”
इति कौर्म्मे ५० अध्यायः ॥ * ॥
राजविशेषः । यथा, --
ब्रह्मोवाच ।
“श्वेताभिजनसम्पन्नः सत्यवागनसूयकः ।
त्वयाधीतं हुतं दत्तं गुरवः परितोषिताः ॥
न ते दत्तं द्विजेभ्योऽन्नं कदाचिद्धि बुभुक्षिते ।
तस्मात्तोव्रेह संजाता क्षुधा ते नृपसत्तम ॥
अन्नदानादृते पुंसां न स्यात्तृप्तिर्महीतले ।
सर्गे वापि तथा नात्र अन्नदानं ततोऽधिकम् ॥”
इति वह्निपुराणे अन्नदाननामाध्यायः ॥
(नागविशेषः । यथा, भागवते । ५ । २४ । ३१ ।
“ततोऽधस्तात् पाताले नागलोकपतयो वासुकि-
प्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत-
राष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महा-
भोगिनो महामर्षा निवसन्ति ॥”)

श्वेतः, त्रि, (श्वेतो वर्णोऽस्यास्तीति । श्वेत + अर्श

आद्यचु ।) शुक्लवर्णयुक्तः । इत्यमरः ॥ * ॥
(यथा, रघुः । १ । ८३ ।
“ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।
बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥”)
श्वेतवस्तूनि यथा । अथ श्वेतानि ।
“सुधांशूच्चैःश्रवः शम्भुकीर्त्तिज्योत्स्नाशरद्घनाः ।
प्रासादसौधतगरमन्दारद्रुहिमाद्रयः ॥
सूर्य्येन्दुकान्तकर्पूरकरम्भारजतं हली ।
हिर्म्मोकभस्म हिण्डीरचन्दनं करका हिमम् ॥
हारोर्णनाभतन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम् ।
शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधाजलम् ॥
मृणालसिकता हंसवककैरवचामरम् ।
रम्भागर्भपुण्डरीककेतकोशङ्खनिर्झराः ॥
लोध्रसिंहध्वजच्छत्रचूर्णसूक्तिकपर्द्दकाः ।
मुक्ताकुसुमनक्षत्रदन्तपुण्योशनोगुणाः ॥
कलासकासकार्पासहासवासवकुञ्जराः ।
नारदः पारदः कुन्दखटिका स्फाटिकादयः ॥”
इति कविकल्पलतायां द्वितीये श्लेषस्तवके वर्णो
नाम द्वितीयं कुसुमम् ॥

श्वेतकं, क्ली, (श्वतमेव । स्वार्थे कन् ।) रूप्यम् ।

इति राजनिघण्टः ॥

श्वेतकः, पुं, (श्वेत एव । स्वार्थे कन् ।) वराटकः ।

इति भूरिप्रयोगः ॥ (श्वेतशब्दार्थोऽप्यत्र ॥
श्वेतगुणविशिष्टे, त्रि । यथा, बृहत्संहिता-
याम् । ८१ । १९ ।
“कृष्णश्वेतकपोतकताम्राणामीषदपि च
विषमाणाभ् ॥”)

श्वेतकण्टकारी, स्त्री, (श्वेता कण्टकारी ।) शुक्ल-

कण्टकारिका । श्वेत रेङ्गनी इति हिन्दी-
भाषा । तत्पर्य्यायः । सितकण्टकारिका २ ।
श्वेता ३ क्षेत्रदूती ४ लक्ष्मणा ५ सितसिंही ६
सितक्षुदा ७ क्षुद्रवार्त्ताकिनी ८ सिता ९
सिक्ता १० कटुवार्त्ताकिनी ११ क्षेत्रजा १२ कपटे
श्वरी १३ निःस्नेहफला १४ वामा १५ सित-
कण्ठा १६ महीषधी १७ गर्द्दभी १८ चन्द्रिका १९
चान्द्री २० चन्द्रपुष्पा २१ प्रियङ्करी २२
नाकुली २३ दुर्लभा २४ रास्ना २५ । अरया
गणाः । रुच्यत्वम् । कटुत्वम् । डष्णत्वम् ।
कफवातनाशित्वम् । चक्षुष्यत्वम् । दीपनत्वम् ।
रसनियामकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अन्यच्च ।
“श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका ।
गर्द्देभा चन्द्रभा चान्द्री चन्द्रपुष्पा प्रियङ्करी ॥
कण्टकारी सरा तिक्ता कटुका दीपनी लघुः ।
रूक्षोणा पाचनी कासश्वासज्वरकफानिलान् ।
निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान् ।
तयोः पलं कटुरसं पाके च कटुकं भवेत् ॥
शुक्रस्य रेचनं भेदि तिक्ता पिताग्निकृल्लघः ।
हन्यात् कफमरुत्कण्डूकासमेदःकृमिज्वरान् ॥
तद्वत् प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी ॥”
इति भावप्रकाशः ॥

श्वेतकन्दा, स्त्री, (श्वेता कन्दा ।) अतिविषा ।

इति राजनिर्घण्टः ॥

श्वेतकिणिही, स्त्री, (श्वेता किणिही ।) वृक्ष-

तिशेषः । तत्पर्य्यायः । सिताभिकटभी २ गिरि-
कर्णिका ३ शिरीषपत्री ४ कालिन्दी ५ शत-
पत्रा ६ विषघ्निका ७ महाश्वेता ८ महा-
शौण्डी ९ महादिकटभी १० । अस्या गुणाः ।
कटुत्वम् । उष्णत्वम् । गुल्मपिषाध्मानशूलदोष-
नाशित्वम् । वातकफजीर्णरोगशमनत्वञ्च । श्वेता
च तत्र गुणयुक्ता । इति राजनिर्घण्टः ॥
पुस्तकान्तरे सितामिकटभीस्थाने सितालि-
कटभी । भहादिकटभीस्थाने महालिकटभौति
च पाठः ॥

श्वेतकुञ्जरः, पुं, (श्वेतः कुञ्जरः ।) ऐरावतहस्ती ।

इति शब्दरत्नावली ॥ शुक्लगजश्च ॥

श्वेतकुशः, पुं, (श्वोतः कुशः ।) तृणविशेषः ।

तत्त्पर्य्यायः । सितदर्भः २ ह्रस्वकुशः ३ पूतः ४
यज्ञीयपत्रकः ५ वज्राः ३ ब्रह्मपवित्रः ७ तीक्ष्णः ८
यज्ञभूषणः ९ सूचीमुखः १० पुण्यतृणः ११
बर्हिः १२ पूतयणः १२ । अस्य मूलगुणाः ।
हिमत्वम् । रुच्यत्वम् । मधुरत्वम् । पित्तरक्त-
ऽधरतषाश्वासकामलादोषनाशित्वञ्च । इति
राजनिर्घण्टः ॥

श्वेतकेतुः, पुं, (श्वेतः केतुर्यस्य ।) बुद्धः । इति

त्रिकाण्डशेषः ॥ केतुग्रहविशेषः । यथा, --
“केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते ।
ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ॥
श्वेतकेतुर्यदा दृश्येत् श्वेतास्थि कुरुते महीम् ।
तदा मानुषमांसानि भक्षयन्तीह मानुषाः ॥
क्षुद्भयार्त्तं जगत् कृतस्वं चक्रवद्भ्रमते तदा ॥”
अपि च ।
“श्वेतः शस्त्राकुलं कुर्य्यात्लोहितस्त्वग्निजं भयम्
क्षुद्भयं पीतकः कुर्य्यात् कृष्णो रोगमथोल्वणम् ॥”
अन्यच्च ।
“अवन्ती पुष्करारण्यं यावद्धन्यात्तथापरान् ।
देशान् कचित् कृचिद्रोगदुर्भिक्षैः परिपीडितान्
पृष्ठ ५/१८२
श्वेताख्यस्तु जटाकारी श्यामो व्योमत्रिभा-
गगः ।
निवर्त्ततेऽपसव्येन त्रिभागीकुरुते प्रजाः ॥”
इति समयामृतम् ॥
(मुनिविशेषः । यथा, महाभारते । १ । ५ । ३ । ७ ।
“उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः ॥”
स तु उद्दालकमुनेः पुत्त्रः । पुरा किल नार्य्यः
प्रायशः पूर्वपतिं परित्यज्य पत्यन्तरं जगृहुः ।
अनेन तु तद्दोषमपाकृष्य समाजमर्य्यादा
स्थापिता । यथा, महाभारते । १ । १२२ । ९ -- २०
“बमूवोद्दालको नाम महषिरिति नः श्रुतम् ।
श्वेतकेतुरितिख्यातः पुत्त्रस्तस्याभवन्मुनिः ॥
मर्य्यातेयं कृता तेन धर्म्या वै श्वेतकेतुना ।
कोपात्कमसपत्राक्षि ! यदर्थं तं निबोध मे ॥
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ।
जग्राहं ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥
ऋषिपुत्त्रस्ततः कोपं चकारामर्षचोदितः ।
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥
क्रूद्धं तन्तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह ।
मा तात कोप कार्षीस्त्वमेष धर्म्मः सनातनः ॥
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ।
यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा
प्रजाः ॥
ऋषिपुत्त्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ।
चकार चैव मर्य्यादामिमां स्त्रीपुंसयोर्भुवि ॥
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ।
तदाप्रभृति मर्य्यादा स्थितेयमिति नः श्रुतम् ॥
व्युच्चरन्त्याः पतिं नार्य्या अद्यप्रभुति पातकम् ।
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ॥
भाय्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।
पतित्रतामेतदेव भविता पातकं भुवि ॥
पत्या नियुक्ता या चैव पत्नी पुत्त्रार्थमेव च ।
न करिष्यति तस्याश्च भविष्यति तदेव हि ॥
इति तेन पुरा भीरु मर्य्यादा स्थापिता बलात्
उद्दालकस्य पुत्त्रेण धर्म्म्या वै श्वेतकेतुना ॥”)

श्वेतकेशः, पुं, (श्वेताः केशा यस्मात् ।) रक्त-

शिप्रुः । इति जटाधरः ॥ (श्वेतः केशः ।)
शुक्लकचश्च ॥

श्वेतकोलः, पुं, (श्वेतः कोलः क्रोडदेशो यस्य ।)

शफरमत्स्यः । इति त्रिकाण्डशेषः ॥

श्वेतखदिरः, पुं, (श्वेतः खदिरः ।) शुक्लखदिरः ।

तत्पर्य्यायः । कदरः २ श्वेतसारः ३ कार्मुकः ४ ।
कुब्जकण्टकः ५ सोमसारः ६ सोमवृक्षः ७
सोमवत्कः ८ पथिद्रुमः ९ । अस्य गुणाः ।
तिक्तत्वम् । कषायत्वम् । कटुत्वम् । उष्णत्वम् ।
कण्डूतिभूतकुष्ठकफवातर्वणनाशित्वञ्च । इति
राजनिर्घण्टः ॥ पुस्तकान्तरे कार्मुकस्थाने
कामुकः कुब्जकण्टकस्थाने कुष्ठकण्ठकः इति च
पाटः ॥ * ॥ अन्यच्च ।
“खदिरः श्वेतसारोऽन्यः कदरः सोमवल्कलः ।
कदरो विशदोऽव्रण्यो मुखरोगकफास्रजित् ॥”
इति भावप्रकाशः ॥

श्वेतगजः, पुं, (श्वेतः शुक्लो गजः ।) इन्द्रहस्ती ।

इति हेभचन्द्रः ॥ शुक्लवर्णहस्ती च ॥

श्वेतगरुत्, पुं, (श्वेतः गरुत् पक्षो यस्य ।) हंसः ।

इत्यमरः । २ । ५ । २३ ॥

श्वेतगुञ्जा, स्त्री, (श्वेता गुञ्जा ।) शुक्लगुञ्जा ।

सादा कुँच इति भाषा । तत्पर्य्यायः । श्वेत-
काम्बोजी २ भृण्टिका ३ काकादनी ४ काक-
पीलुः ५ चक्रशल्या ६ चूडाला ७ । अस्या
गुणाः । तीक्ष्णत्यम् । उष्णत्वम् । तस्या बीजं
वान्तिकरम् । तस्याः शिफा शूलविषनाशिनी ।
तस्याः पत्रं वश्ये शस्तम् । इति राजनिर्घण्टः ॥
अपि च ।
“श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा
स्मृता ।
रक्ता सा काकचिञ्ची स्यात् काकनन्ती च
रक्तिका ॥
काकादनी काकपीलुः सा स्मृताङ्गारवल्लरी ।
गुञ्जाद्वयन्तु कश्यं स्यात् वातपित्तज्वरापहम् ॥
मुखशोषभ्रमश्वासतृष्णामदविनाशनम् ।
नेत्रामयहरं वृष्यं बल्यं कण्डूं व्रणं हरेत् ।
कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलापि च ॥”
इति भावप्रकाशः ॥
अन्य्यच्च ।
“गुञ्जा शिखण्डिका ताम्रा रक्तिका काक-
शान्तिका ।
श्वेतान्या चक्रिका चूडा दुमाषा काकपीलुका ॥
युञ्जा केश्या बलकरा रुच्या पित्तकफापहा ।
नेत्रामयहरा वृष्या हन्ति कण्डुग्रहव्रणान् ।
कृमीन्द्रलुप्तकुष्ठानि तद्वच्छ्वेतापि शस्यते ॥”
इति मदनपालनिर्घण्टः ॥

श्वेतचन्दनं, क्ली, (श्वेतं चन्दनम् ।) शुक्लचन्दनम् ।

इति राजनिर्घण्टः ॥ अस्य पर्य्यायगुणौ चन्दन-
शब्दे द्रष्टव्यौ ॥

श्वेतचिल्ली, स्त्री, (श्वेता चिल्ली ।) शाकभेदः ।

तत्पर्य्यायः । वास्तुकी २ सुपथ्या ३ श्वेत-
चिल्लिका ४ सितचिल्ली ५ उपचिल्ली ६ ज्वरघ्नी
७ क्षुद्रवास्तुकी ८ । अस्या गुणाः ।
“श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च
सा ।
त्रिदोषशमनी पथ्या ज्वरदोषविनाशिनी ॥”
इति राजनिर्घण्टः ॥

श्वेतच्छदः, पुं, (श्वेतः च्छदोयस्य ।) हंसः । इति

हलायुधः ॥ गन्धपत्रः । इति शब्दचन्द्रिका ॥
बाबुइ तुलसी इति भाषा ॥

श्वेतजीरकः, पुं, (श्वेतो जीरकः ।) गौर-

जीरकः । इति राजनिर्घण्टः ॥

श्वेतटङ्ककं, क्ली, (श्वेतं टङ्ककम् ।) श्वेतटङ्कणम् ।

इति राजनिर्घण्टः ॥

श्वेतटङ्कणं, क्ली, (श्वेतं टङ्कणम् ।) क्षारविशेषः ।

सादा सोहागा इति भाषा । तत्पर्य्यायः ।
श्वेतटङ्ककम् २ लोहि ३ सिन्धुकरम् ४ सिब्धु ५
मालतीतीरसम्भवम् ६ शिवम् ७ द्रावकरम् ८
र्शांतक्षारम् ९ टङ्कणम् १० । अस्य गुणाः ।
स्निग्धत्वम् । कटुत्वम् । उष्णत्वम् । कफवाताम-
क्षयश्वासविश्वकासमलनाशित्वञ्च । इति राज
निर्घण्टः ॥

श्वेतदूर्व्वा, स्त्री, (श्वेता दूर्व्वा ।) शुक्लदूर्व्वा । तत्-

पर्य्यायः । गोलमी २ सिताख्या ३ चण्डा ४
भद्रा ५ भार्गवी ६ दुर्म्मरा ७ गौरी ८ विघ्ने-
शानकान्ता ९ अनन्ता १० श्वेता ११ दिव्या १३
श्वेतकाण्डा १३ प्रचण्डा १४ सहस्रवोर्य्या १५
सहस्रकाण्डा १६ सहस्रपर्व्वा १७ सुरवल्लभा १८
शुभा १९ सुपर्व्वा २० सितच्छदा २१ स्वच्छा २२
कच्छान्तरुहा २३ । अस्या गुणाः । अतिशिशि-
रत्वम् । मधुरत्वम् । वान्तिपित्तामातिसार-
कासदाहतृषानाशित्वम् । रुच्यत्वञ्च । इति
राजनिर्घण्टः ॥

श्वेतद्विपः, पुं, (श्वेतः शुक्लो द्विपः ।) इन्द्र-

हस्ती । इति त्रिकाण्डशेषः ॥ शुक्लगजश्च ॥

श्वेतद्वीपः, पुं, क्ली, (श्वेतो द्वीपः ।) चन्द्रद्वीपः ।

स च वैकुण्ठाख्यविष्णुधाम । यथा, --
“श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।
तत्र हायमभूत् प्रश्नस्त्वं मां यमनुपृच्छसि ॥”
इति श्रीभागवते १० स्कन्धे ८७ अध्यायः ॥
अपि च ।
“एकदा ब्रह्मणो लोकादायान्तं नारदं मुनिम् ।
पर्य्यटन् रावणो लोकान् दृष्ट्वा नत्वाब्रवीद्वचः ॥
भगवन् ! ब्रूहि मे युद्धं कुत्र सन्ति महाबलाः ।
योद्धुमिच्छामि बलिभिस्त्वं जानासि जगत्त्रयम् ॥
मुनिर्ध्यात्वा तु सुचिरं श्वेतद्वीपनिवासिनः ।
महाबला महाकायास्त त्र याहि महामते ॥
विष्णुपूतारता ये वै विष्णुना निहताश्च ये ।
त एव तत्र संजाता अजेयाश्च सूरासुरैः ॥
श्रुत्वा तद्रावणो वेगान्मन्त्रिभिः पुष्पकेण तान् ।
याद्धुकामः समागत्य श्वेतद्वीपसमीपतः ॥
तत्प्रभाहततेजस्कं पुष्पकं नाचलत्ततः ।
त्यक्त्वा विमानं प्रययौ मन्त्रिणश्च दशाननः ॥
प्रविशन्नेव तद्द्वीपं धृतो हस्तेन योषिता ।
पृष्टश्च त्वं कुतः कोऽसि प्रेषितः केन वा वद ॥
इत्युक्तो लीलया स्त्रीभिर्हसन्तीभिः पुनः पुनः ॥
कृच्छ्राद्धस्ताद्बिनिर्म्मुक्तस्तासां स्त्रीणां दशाननः ॥
आश्चर्य्यमतुल लब्ध्वा चिन्तयामास दुर्म्मतिः ।
विष्णुना निहतो यामि वैकुण्ठमिति निश्चितः ॥
मयि विष्णुर्यथा कुप्येत्तथा कार्य्यं करोम्यहम् ॥
इति निश्चित्य वैदेहीं जहार विपिनेऽसुरः ॥
ज्ञात्वैव परमात्मानं स जहारावनीसुताम् ॥”
इति श्रीब्रह्माण्डपुराणे श्रीमदध्यात्मरामायणे
उत्तरकाण्डे ४ अध्यायः ॥ अन्यच्च ।
“श्वेतां गङ्गां नरः स्नात्वा यः पश्येत् श्वेत-
माधवम् ।
मत्स्याक्षं माधवञ्चैव श्वेतद्वीपं स गच्छति ॥”
इति तीर्थचिन्तामणिः ॥

श्वेतधातुः, पुं, (श्वेतो धातुः ।) खटिका । इति

राजनिर्घण्टः ॥ शुक्लवर्णधातुद्रव्यञ्च ॥
पृष्ठ ५/१८३

श्वेतधामा, [न्] पुं, (श्वेतं धाम किरणं यस्य ।)

चन्द्रः । कर्पूरः । समुद्रफेनः । इति मेदिनी ॥

श्वेतनीलः, पुं, (श्वेतो नीलश्च । वर्णो वर्णेनेति

समासः ।) मेघः । इति शब्दरत्नावली ॥ शुक्ल-
नीलवर्णश्च ॥

श्वेतपत्रः, पुं, (श्वेतं पत्रं पक्षो यस्य ।) हसः ।

इति श्वेतपत्ररथशब्दार्थदर्शनात् । शुक्लपर्णे,
क्ली ॥

श्वेतपत्ररथः, पुं, श्वेतपत्रो हंसो रथो वाहनं

यस्य । ब्रह्मा । इति शब्दमाला ॥

श्वेतपद्मं, क्ली, (श्वेतं शुक्लं पद्मम् ।) सिताम्भोजम् ।

तत्पर्य्यायः । सिताब्जम् २ पुण्डरीकम् ३ श्वेत-
वारिजम् ४ हरिनेत्रम् ५ शरत्पद्मम् ६ शार-
दम् ७ शम्भुवल्लभम् ८ । अस्य गुणाः । हिम-
त्वम् । तिक्तत्वम् । मधुरत्वम् । पित्तदाहास्रभ्रम-
दोषपिपासानाशित्वञ्च । इति राजनिर्घण्टः ॥

श्वेतपर्णा, स्त्री, (श्वेतानि पर्णानि यस्याः ।)

वारिपर्णो । इति रत्नमाला ॥ पाना इति
भाषा ॥ (भद्राश्ववर्षस्य पर्वतविशेषे, पुं । यथा,
मार्कण्डेये । ५९ । ४ ।
“पूर्वेण यत् स्थितं वर्षं भद्राश्वं तन्निबोध मे ।
श्वेतपर्णश्च नीलश्च शैवालश्चाचलोत्तमः ।
कौरञ्जः पणशालाग्रः पञ्चैते तु कुलाचलाः ॥”)
श्वेतपर्णासः, पुं, (श्वेतः पर्णासः ।) श्वेततुलसी ।
यथा, --
“अर्ज्जकः श्वेतपर्णासो गन्धपत्रः कुठेरकः ॥”
इति रत्नमाला ॥

श्वेतपाटला, स्त्री, (श्वेता पाटला ।) शुक्लपाटला-

वृक्षः । इति जटाधरः ॥

श्वेतपिङ्गः, पुं, (देहेन श्वेतः जटया पिङ्गश्च ।

वर्णो वर्णेनेति समासः ।) सिंहः । इति हेम-
चन्द्रः ॥

श्वेतपिङ्गलः, पुं, (श्वेतः पिङ्गलश्च ।) सिंहः ।

इति त्रिकाण्डशेषः ॥ शुक्लकपिलवणयुक्ते, त्रि ॥
(महादेवः । यथा, महाभारते । १३ । १७ ।
१३६ ।
“महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥”)

श्वेतपिङ्गलकः, पुं, (श्वेतपिङ्गल + स्वार्थे कन् ।)

सिंहः । इति शब्दमाला ॥

श्वेतपिण्डीतकः, पुं, (श्वेतः शुक्लः पिण्डीतकः ।)

महापिण्डीतरुः । इति राजनिर्घण्टः ॥

श्वेतपुष्पः, पुं, (श्वेतानि पुष्पाणि यस्य ।) सिन्धु-

वारवृक्षः । इति जटाधरः राजनिघण्टश्च ॥
(श्वेतं पुष्पम् ।) शुक्लकुसुमे, क्ली । (यथा,
सुश्रुते । १ । ११ ।
“श्वेतपुष्प-रक्तपुष्प-सहस्रं जुहुयात् ॥”)

श्वेतपुष्पकः, पुं, (श्वेतानि पुष्पाणि यस्य । कप् ।)

करवीरवृक्षः । इति राजनिर्घण्टः ॥ शुक्लपुष्प-
युक्ते, त्रि ॥

श्वेतपुष्पा, स्त्री, (श्वेतं पुष्पं यस्याः ।) घोषातकी ।

श्वेतघोषा इति भाषा । इति रत्नमाला ।
नागदन्ती । मृगेर्व्वारुः । इति राजनिर्घण्ठः ॥

श्वेतपुष्पिका, स्त्री, (श्वेतं पुष्पं यस्याः । ततः

स्वार्थे कन् । टापि अत इत्वम् ।) पुत्रदात्री ।
महाशणपुष्पिका । इति राजनिर्घण्टः ॥

श्वेतप्रसनकः, पुं, (श्वेतानि प्रसूनानि यस्य ।

कप् । वृक्षविशेषः । यथा, --
“तिक्तः शाकतरुः सेतुवृक्षः श्वेतप्रसूनकः ।”
इति शब्दमाला ॥
शुक्लपुष्पयुक्ते, ति ॥

श्वेतबृहती, स्त्री, (श्वेता बृहती ।) शुक्लक्षुद्र-

वार्त्ताकी । तत्पर्य्यायः । श्वेता २ श्वेतमहो-
टिका ३ श्वेतसिंही ४ श्वेतफला ५ श्वेतवार्त्ता-
किनी ६ । अस्या गुणाः ।
“विज्ञेया श्वेतबृहती वातश्लेष्मविनाशिनी ।
रुव्या व्यञ्जनयोगेन नानानेत्रामयापहा ॥”
इति राजनिर्घण्टः ॥

श्वेतभण्डा, स्त्री, (श्वेता भण्डा ।) श्वेतापरा-

जिता । इति रत्नमाला ॥

श्वेतमन्दारकः, पुं, (श्वेतो मन्दारकः ।) वृक्ष-

विशेषः । श्वेत आक इति हिन्दी भाषा ॥
तत्पर्य्यायः । पृथ्वीकुरुवकः २ दीर्घायुष्यः ३
सितालर्कः ४ दीर्घालर्कः ५ सिताह्वयः ६ ।
इति राजनिर्घण्टः ॥

श्वेतमरिचं, क्ली, (श्वेतं मरिचमिव ।) शोभा-

ञ्जनबीजम् । इत्यमरः ॥ शुक्लमरिचञ्च ॥

श्वेतमालः, पुं, (श्वेता शुक्लवर्णा माला यस्य ।)

मेघः । धूमः । इति विश्वः ॥ मेदिनीशब्द-
रत्नावल्योः खतमाल इति पाठः ॥

श्वेतरक्तः, पुं, (श्वेतो रक्तश्च ।) पाटलवर्णः ।

इत्यमरः ॥ योलावी रङ् इति भाषा ॥

श्वेतरञ्जनं, क्ली, (श्वेतं सिताभ्रं रञ्चयतीति ।

रञ्ज + ल्युः ।) सीसकम् । इति केचित् ॥

श्वेतरथः, पुं, (श्वेतो रथो यस्य ।) शुक्रग्रहः ।

इति शब्दरत्नावली ॥ शुक्लवर्णस्यन्दनश्च ॥

श्वेतराजी, स्त्री, (श्वेतेन वर्णेन राजते इति ।

राज + अच् । गौरादित्वात् ङीष् ।) चचेण्डा ।
इति राजनिर्घण्टः ॥

श्वेतरोचिः, [स्] पुं, (श्वेतं रोचिर्यस्य ।) चन्द्रः ।

इति हलायुधः ।

श्वेतरोहितः, पुं, (पुष्पेण श्वेतः फलेन लोहितः

लस्य रः ।) वृक्षविशेषः । श्वेत रोहिड इति
हिन्दी भाषा । तत्पर्य्यायः । सितपुष्पः २
सिताह्वयः ३ सिताङ्गः ४ शुक्लरोहितः ५
लक्ष्मीवान् ६ जनवल्लभः ७ । अस्य गुणाः ।
कटुत्वम् । स्निग्धत्वम् । कषायत्वम् । सुशी-
तलत्वम् । कृमिदोषव्रणप्लीहरक्तनेत्नामयनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥

श्वेतलोध्रः, पुं, (श्वेतो लोध्रः ।) पट्टीकालोध्रः ।

इति राजनिर्घण्टः ॥

श्वेतवचा, स्त्री, (श्वेता वचा ।) अतिविषा ।

शुक्लवचा । सादा वच् इति भाषा । तत्पर्य्यायः ।
मेध्या २ षड्ग्रन्था ३ दीर्घपत्रिका ४ तीक्ष्ण-
गन्धा ५ हैमवती ६ मङ्गल्या ७ । अस्या गुणाः ।
अतिगुणाठ्यत्वम् । मतिमेधायुःसमृद्धिदत्वम् ।
कफनाशित्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च ।
“पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा ।
हैमवत्युदिता तद्वच्छूलं हन्ति विशेषतः ॥”
तद्वत् वचावत् । इति भावप्रकाशः ॥

श्वेतवल्कलः, पुं, (श्वेतं वल्कलं यस्य ।) उडुम्बर-

वृक्षः । इति जटाधरः ॥ शुक्लत्वक् च ॥

श्वेतवाजी, [न्] पुं, (श्वेतो वाजी घोटको यस्य ।)

चन्द्रः । इति हेमचन्द्रः ॥ अर्ज्जनः इति
जटाधरः ॥ शुक्लघोटकश्च ॥

श्वेतवासाः [स्] पुं, श्वेतं वासो यस्य ।) शुक्ल-

वस्त्रधारिसन्न्यासी । इति हलायुधः ॥ परिहित
शुक्लवसने, त्रि ॥

श्वेतवाः, [ह्] पुं, (श्वेतेन वाहनेन उह्यते इति

वह + ण्विः ।) इन्द्रः । इति मुग्धबोधव्याक-
रणम् ॥

श्वेतवाहः, पुं, (श्वेतः शुक्लो वाहो घोटको यस्य ।)

अर्ज्जुनः । इन्द्रः । इति केचित् ॥

श्वेतवाहनः, पुं, (श्वेतं वाहनं यस्य ।) चन्द्रः ।

अर्ज्युनः । इति मेदिनी ॥ (यथा, महाभारते ।
४ । ४२ । १५ ।
“श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः ।
संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥”)
मकरः । इति शब्दरत्नावली ॥ (राजाधि-
देवस्य पुत्त्रः । स तु विदूरथस्य पौत्त्रः । यथा,
हरिवंशे । ३८ । २ ।
“राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ।
राजाधिदेवपुत्त्रास्तु जज्ञिरे वीर्य्यवत्तराः ।
दत्तातिदत्तौ बलिनौ पानश्वः श्वेतवाहनः ॥”)

श्वेतवाही, [न्] पुं, (श्वेतवाहः श्वेतघोटकोऽस्या-

स्तीति । इनिः ।) अर्ज्जुनः । इति शब्दरत्नावली ॥

श्वेतवुह्ना, स्त्री, (श्वेता वुह्ना ।) वनतिक्ता ।

यथा, --
श्वेतवुह्ना कपीतस्तु वनतिक्ता विसर्पिणी ।
शङ्खिनी चाकचिच्चा च गिरिजा धूसरच्छदा ॥”
इति रत्नमाला ॥

श्वेतवृक्षः, पुं, (श्वेतो वृक्षः ।) वरुणवृक्षः ।

इति राजनिर्घण्टः ॥ शुक्लतरुश्च ॥

श्वेतशरपुङ्खा, स्त्री, (श्वेता शरपुङ्खा ।) क्षुप-

विशेषः । श्वेत शरफोँका इति हिन्दी भाषा ।
तत्पर्य्यायः । सितशायका २ सितपुङ्खा ३ श्वेत-
पुङ्खा ४ शुभ्रपुङ्खा ५ । अस्या गुणाः । कटुत्वम् ।
उष्णत्वम् । कृमिवातरुजापहत्वम् । गुणाठ्य-
त्वञ्च इति राजनिर्घण्टः ॥

श्वेतशिग्रुः, पुं, (श्वेतः शुक्लः शिग्रुः ।) शुक्ल

शोभाञ्जनः । सादा शजिना इति भाषा ।
तत्पर्य्यायः । सुतीक्ष्णः २ मुखभङ्गः ३ सिता-
ह्वयः ४ सुमूलः ५ श्वेतमरिचः ६ रोचनः ७
मधुशिग्रुकः ८ । अस्य गुणाः । कटुत्वम् ।
तीक्ष्णत्वम् । शोफानिलाङ्गव्यथामुखजाड्यनाशि-
त्वम् । रुच्यत्वम् । दीपनत्वञ्च । इति राज-
निर्घण्टः ॥
पृष्ठ ५/१८४
“शिग्रुवल्कलपत्राणां सुरसः परमार्त्तिहृत् ।
चक्षुष्यं शिग्रुजं वीजं तीक्ष्णोष्णं विषनाशनम् ।
अवृष्यं कफवातघ्न तन्नस्येन शिरोऽर्त्तिनुत् ॥”
इति भावप्रकाशः ॥

श्वेतशिंशपा, स्त्री, (श्वेता शिंशपा ।) शुक्ल-

शिंशपावृक्षः । तत्पर्य्यायः । श्वोतपत्रा २
श्वेतचिल्लिका ३ । अस्या गुणाः । तिक्तत्वम् ।
शिशिरत्वम् । पित्तदाहनाशित्वञ्च । इति
राजनिर्घण्टः ॥

श्वेतशुङ्गः, पुं, (श्वेता शुङ्गा यस्य ।) यवः । इति

जटाधरः ॥ शुक्लशूङ्गायुक्ते, त्रि ॥

श्वेतशूरणः, पुं, (श्वेतः शूरणः ।) वनशूरणः ।

इति राजतिर्घण्टः ॥

श्वेतसर्पः, पुं, वरुणवृक्षः । इति जटाधरः ॥

(श्वेतः सर्पः ।) शुक्लवर्णाहिश्च ॥

श्वेतसारः, पुं, (श्वेतः सारो यस्य ।) खदिरः ।

इति जटाधरः ॥

श्वेतसुरसा, स्त्री, (श्वेता सुरसा ।) शुक्लशेफा-

लिका । इत्यमरः ॥

श्वेतस्पन्दा, स्त्री, अपराजिता । इति राज-

निर्घण्टः ॥

श्वेतहयः, पुं, (श्वेतो हयः ।) इन्द्राश्वः । इति

त्रिकाण्डशेषः ॥ (श्वेतो हयो यस्य ।) अर्ज्जुनः ।
इति हेमचन्द्रः ॥ (यथा, महाभारते । ७ । २७ । ३ ।
“ततः श्वेतहयः कृष्णमब्रवीदजितञ्जयः ।
एष मां भ्रातृभिः सार्द्धं सुशर्म्माह्वयतेऽच्युत ! ॥”)
इन्द्रः । शुक्लवर्णघोऽकश्च ॥

श्वेतहस्ती, [न्] पुं, (श्वेतो हस्ती ।) ऐरावतः ।

इति भूरिप्रयोगः ॥ शुक्लगजश्च ॥

श्वेता, स्त्री, वराटिका । काष्ठपाटला । शङ्खिनी ।

इति मेदिनी ॥ अतिविषा । इति रत्नमाला ॥
अपराजिता । श्वेतबृहती । श्वेतकण्टकारी ।
पाषाणभेदी । शिलावल्कला । श्वेतदूर्व्वा ।
वंशरोचना । स्फटी । शर्करा । वृक्षभेदः ।
केना इति कन्ने इति च हिन्दी भाषा । तत्-
पर्य्यायः । छुरिकापत्री २ पर्व्वमूला ३ अवि-
प्रिया ४ । अस्या गुणाः । अतिमधुरत्वम् ।
शीतलत्वम् । स्तन्यदातृत्वम् । रुचिकारित्वञ्च ।
इति राजनिर्घण्टः ॥

श्वेतात्रिवृत्, स्त्री, शुक्लत्रिवृता । सादा तेउडी

इति भाषा । तत्पर्य्यायः । त्रिभण्डी २ त्रिवृता ३
त्रिपुटा ४ सर्व्वानुभूती ५ सरला ६ निशो-
त्तरा ७ रेचनी ८ । अस्या गुणाः । रेचनत्वम् ।
स्वादुत्वम् । उष्णत्वम् । ससीरपित्तज्वरश्लेष्म-
पित्तशोथोदरनाशित्वम् । रूक्षत्वञ्च । इति भाव-
प्रकाशः ।

श्वेताम्लिः, स्त्री, क्षुपविशेषः । तत्पर्य्यायः । अम्लिका

२ पिष्टोडी ३ पिण्डिका ४ । अस्या गुणाः ।
मधुरत्वम् । वृष्यत्वम् । पित्तनाशित्वम् । बल-
दातृत्वञ्च । इति राजनिर्घण्टः ॥

श्वेतार्कः, पुं, (श्वेतः शुक्लवर्णः अर्कः ।) शुक्लार्क-

वृक्षः । सादा आकन्द इति भाषा । तत्प-
र्य्यायः । तपनः २ श्वेतः ३ प्रतापः ४ सिता-
र्क्ककः ५ शर्करापुष्पः ६ वृत्तमल्लिका ७ । अस्य
गुणाः । कट्त्वम् । तिक्तत्वम् । उष्णत्वम् ।
मलशोधनकारकत्वम् । मूत्रकृच्छ्रास्रशोफार्त्ति-
व्रणदोषविनाशनत्वञ्च । इति राजनिर्घण्टः ॥

श्वेतावरः, पुं, (श्वेतं शुक्लवर्णमावृणोतीति ।

आ वृ + अच् ।) सितावरशाकः । इति राज-
निर्घण्टः ॥

श्वेताह्वा, स्त्री, (श्वेता आह्वा यस्याः ।) सित-

पाटला । इति राजनिर्घण्टः ॥

श्वेतेक्षुः, पुं, (श्वेत इक्षुः ।) शुक्लवर्णेक्षुः । सादा

आक् इति भाषा । तत्पर्य्यायः । सितेक्षुः २
कोष्ठेक्षुः ३ वंशपत्रकः ४ सुवेशः ५ पाण्डु-
रेक्षुः ६ । अस्य गुणाः । कठिनत्वम् । रुच्य-
त्वम् । गुरुत्वम् । कफमूत्रकारित्वम् । दीपन-
त्वम् । पित्तदाहनाशित्वम् । विपाके कोष्णल-
त्वञ्च । इति राजनिर्घण्टः ॥

श्वेतोदरः, पुं, (श्वेतं उदरं यस्य ।) कुबेरः ।

इति त्रिकाण्डशेषः ॥ (दर्व्वीकरसर्पाणामन्य-
तमः । यथा, सुश्रुते कल्पस्थाने ४ अध्याये ।
“श्वेतोदरो महाशिरा अलगर्द्दो आशीविष
इति ॥”) शुक्लवर्णजठरश्च ॥

श्वेत्रं, क्ली, श्वित्रम् । इत्यमरटीका ।

श्वेतौही, स्त्री, (श्वेतवाह + ङीष् ।) इन्द्राणी ।

इति मुग्धबोधव्याकरणम् ॥

श्वोवसीयसं, क्ली, (वसुशब्दः प्रशस्तवाची तत

ईयसुनि वसीयः । श्वः शब्द उत्तरपदार्थ-
प्रशंसामाशीर्विषयतामाह । मयूरव्यं सकादि-
त्वात् समासः । “श्वसो वसीयःश्रेयसः ।” ५ । ४ । ८०
इति अच् ।) कल्याणम् । यथा, --
“श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः ।
क्षेमं भावुकभविककुशलप्रङ्गलभद्रमद्रशस्तानि ॥”
इति हेमचन्द्रः ॥ तद्वति, त्रि ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/श्रु&oldid=44094" इत्यस्माद् प्रतिप्राप्तम्